सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

१०९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
सू—ॐ ॥ प्रकरणादसन्निहितत्वाच्च ॥ ॐ ॥ १८ ॥
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च ।
(३) वाराहे च—
स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।
मुक्तानां नैव कामस्स्यादन्यान् कामांस्तु भुञ्जते ॥
तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते ।
न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत् ॥ इ
ति ॥ १८ ॥
(२) कुतः सर्वश्रुतेस्सङ्कोच इत्याक्षिपति—कुत इति ॥ तत्परि-
हाराय सूत्रं पठित्वा प्रतिज्ञायाः पूर्वसूत्रेणैव प्राप्तत्वात्तामनुक्त्वा सौ-
त्रहेतुं व्याचष्टे—प्रकरणादिति ॥ अस्य जीवप्रकरणत्वादित्यनेन सूत्रे
जीवेत्यादौ ग्राह्यं भावप्रधानो निर्देश इत्युक्तं भवति । अयं हेतुसाध-
को हेतुः । साक्षाद्धेतुस्तु अत्रोच्यमानस्य जीवत्वादिति जीवपदसूचि-
तः । तादृगिति । जगद्व्यापारशक्तिरहितत्वादित्यर्थः । अयं च हेतुः ।
साक्षाद्धेतोरप्रयोजकत्वशङ्कापरिहारकः । अत्रापि जीवत्वादित्येव हेतु-
स्सोऽपि द्वितीयजीवपदेन सूचितः, अत एव सूत्रे हेतूनां समुच्चये च-
शब्दः प्रायोजि ॥
(३) ननु संसारिजीवानां तादृक्सामर्थ्यविदूरत्वेऽपि सत्यकामा-
नां मुक्तजीवानां तत्सम्भवत्यतो जीवत्वहेतुरसत्यकामत्वोपाधियुक्तोऽ-
प्रयोजक इयतश्चशब्दसूचितां स्मृतिमुदाहरति—वाराहे चेति ॥ न
केवलं सूत्र इति चार्थः । अयमर्थ उक्त इति शेषः । स्वेति । स्वयोग्या-
दधिकेत्यर्थः । अपिस्समुच्चये । तुश्चार्थे । प्राप्तिश्च न स्यादिति उक्ता-
दन्यांस्तु कामयन्ते कामितांश्च भुञ्जत इत्यन्वयः । स्वाधिकेति उत्तरा-
धिकरणोपयोगितयोक्तम् । कुतोऽकाम इत्यत आह—तदिति । ‘कदा-
चित्क्वापि’ स्थाने अधिकानन्दे सृष्ट्यादिव्यापारे च ‘तेषां’ मुक्तानां
‘योग्यता’ सामर्थ्यं न विद्यत एव, यतोऽतो नैव कामः स्यादित्यन्वयः।
नन्वयोग्यस्याप्यप्राप्त्यकामौ कुतो, व्याप्त्यभावादित्यत आह—न चे-
ति । विशेषणान्तरसमुच्चयेऽपिः । तथा च सत्यकामोऽपीत्यर्थ इति के-
चित् । न केवलं संसारीत्यपरे । वस्तुतस्तु यः कोऽपीत्यर्थेऽपिशब्दः ।
अनेन व्याप्तिरुक्ता भवति । आद्यश्चोऽवधारणे । द्वितीयस्समुच्चये । इ

[ अधि - ९. - सू - १९. ] दीपिका सहितम्. १०९५
( ४ ) सू—ॐ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्ड
लस्थोक्तेः ॥ ॐ ॥ १९ ॥
'ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावह
न्ति' (तै.उ.१-५.) इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्य
ति वाराह इत्यन्वयः । असत्यकामत्वं तु 'नैव योग्यता' इति स्मृत्या
निश्चितसाध्यवति पक्षे अभावेन साध्याव्यापकत्वान्नोपाधिरिति भावः॥
( ४ ) मुक्तस्य जगदैश्वर्याभावमाक्षिप्य समादधत्सूत्रमुपन्यस्य पू
र्वपक्षांशं व्याचष्टे—प्रत्यक्षेति ॥ इति वाक्ये प्रत्यक्षं स्फुटमेव मुक्तस्या
खिलदेवतापूज्यत्वप्रथमोत्पन्नत्वाय्युपदेशाच्छ्रवणादित्यर्थः । सूत्रेऽध्या
हार्यां पूर्वपक्षप्रतिज्ञां दर्शयति-जगदैश्वर्यमस्तीति । अशेषमुक्तानामि
त्युपस्कार्यम् । 'ता वा एताश्चतस्रश्चतुर्धा, चतस्रश्चतस्रो व्याहृतयः,
ता यो वेद' ( तै.उ.१-५० ) इत्यादि तैत्तिरीयश्रुतेरयमर्थः । भूर्भुवस्सु
वर्मह इति चतस्रो व्याहृतयः तच्छब्दवाच्याः लोकज्योतिःप्राणवेदेषु
स्थिता अनिरुद्धादिभगवद्रूपविशेषाः प्रत्येकमनिरुद्धादिभेदेन चतुर्धा
भवन्ति । ते तु अनिरुद्धानिरुद्धः अनिरुद्धप्रद्युम्नोऽनिरुद्धसङ्कर्षणोऽनि
रुद्धवासुदेव इत्यादिरूपाः । ता एव चतस्रः चतस्रः षोडशमूर्तयः ।
यथोक्तं तैत्तिरीयभाष्ये—
लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः ।
प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ इति ॥
व्याहरणनिमित्ताद्व्याहृतिशब्दिताः । 'ताः' मूर्तीर्यो वेद स एव परं
ब्रह्म वेद । 'अस्मै' षोडशात्मविदे सर्वे देवाः 'बलिं' करं 'आवह
न्ति' प्रयच्छन्ति । सर्वदेवपूज्यो भवतीति यावदिति । परिहारांशं
व्याचष्टे—नेति । नैतच्छ्रुतिबलेनाशेषमुक्तानां जगदैश्वर्यसिद्धिरित्य
र्थः । कुतो नेत्यतः श्रुतावशेषमुक्तानुक्तेरित्याशयेन आधिकारिकेति हे
त्वंशं सावधारणं भावप्रधानत्वं आवृत्तिं चाभिप्रेत्य व्याचष्टे—आधि
कारिकेति । आधिकारिकमण्डलाधिपत्ये इत्यर्थः । प्रकारसमर्पकमि
दं ब्रह्मेत्यनन्तरं योज्यम् । 'हि' यस्मात् । अत्राधिकारिकशब्दो यौ
गिको न तु आधिकारिका इति पुरुषविशेषसंज्ञा 'प्रजापाश्च तथा
देवाः' इति वचनादिति प्रमेयदीपिकोक्तरीत्या रूढः । तथा च तत्रो
दाहृतवाक्ये ये आधिकारिकाः स्वावरप्रेरणाधिकारे विष्णुना नियु

१०९६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ४.]
स्तीति चेन्न, आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि
तत्रोच्यते ।
( ५ ) गारुडे च—
आत्मैत्येव परं देवमुपास्य हरिमव्ययम् ।
केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥
काश्चतुर्मुखेतरमुक्तदेवाः तेषां मण्डलं समूहः तत्र स्वामित्वेन तिष्ठ
तीति तत्स्थः तदधिपतिः तस्यैव मुक्तविरिञ्चस्यैव आधिकारिकमण्ड
लस्थत्वस्यैव मुक्ताधिकारिकदेवतापूज्यत्वस्यैव उक्तेरिति हेत्वर्थ उ
क्तो भवति । 'ता यो वेद' इति श्रुतेः विरिञ्चपरत्वं 'माहाचमस्यः'
( तै. उ. १-५० ) इत्युपक्रमात्सिद्धम् । माहाचमस्यशब्दश्च
महाचमसनामाऽसौ यस्मादतिचमत्कृतिः ।
माहाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥
इति तैत्तिरीयभाष्योदाहृतवचनाच्चतुर्मुखपरः । सूत्रे मुक्तदेवमण्डले
ति वाच्ये अत्राधिकारिकेत्युक्तिर्मुक्तब्रह्माऽन्यदेवानापि मुक्तस्वाव
रनियमनाधिकारिक

[ अधि - ९. सू - १९. ] दीपिका सहितम्. १०९७
अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन ।
केचित्स्वर्गे महर्लोके जने तपसि चापरे ॥
इति बृहद्भाष्यान्नैकगुणोपासकातिरिक्तविषयमिति न तद्विरोधः । स्मृ
तौ केचिदत्यल्पा मानुषा अपरोक्षज्ञानिनो देहपाते प्रत्यासन्ने स्वी
यारब्धकर्मजान् ' मरणोच्छूनतादीन् ' मरणदेहोपचयादीन् देहस्य दो
षान् ' सर्वशः ' सर्वतो भुक्त्वैव स्थिताः, अथ देहे जीर्णे देहतो ब्रह्म
नाड्या नाड्यन्तरेण वाऽनुत्क्रम्यैव देहनाशपर्यन्तं तत्रैव स्थिताः अथ
प्रलये मुक्तिं लिङ्गभङ्गरूपां ' गच्छन्ति ' प्राप्नुवन्ति । तदनन्तरं सकृ
च्छ्वेतद्वीपं गच्छन्ति । तत्र विष्णुं दृष्ट्वा तदनुज्ञया ' पुनरत्रैव ' भूलोक
एव नित्यानन्दैकभोगिनः ' सन्ति ' तिष्ठन्तीति योजना । तत्त्वप्रदीपे तु
नोत्क्रामन्तीत्यस्य सृष्टौ सकृच्छ्वेतद्वीपगमनात्परमस्माद्देहदेशान्नोत्क्रा
मन्तीत्यर्थः । अन्यथा ' बहुनात्र ' इति वचनविरोधात् । 'तदोकोऽग्रज्व
लनम् ' इत्यादिना ज्ञानिनो देहदेशान्निर्गमनस्योक्तत्वाच्चेत्युक्तम् । त
स्य— ' परं ' अनन्तरमस्मान्नोर्ध्वं गच्छन्ति । ' अन्यथा ' कदापि श्वे
तद्वीपगमनात्पूर्वमपि नोत्क्रामन्तीत्यर्थाभ्युपगमे । नोत्क्रामन्तीत्यस्य ब्र
ह्मनाड्युत्क्रमणाभावार्थत्वं किं न स्यादित्यत आह-तदोक इत्यादीत्यर्थः।
अस्मिन् पक्षे ' तदोकः ' इति सूत्रमेकानेकगुणोपासकज्ञानिसामान्य
परम् । बृहद्भाष्यं तु श्वेतद्वीपगमनात्परमस्माद्देहदेशादनुत्क्रम्यैवेत्यर्थ
कमिति ध्येयम् । केचित्तु — ' नोत्क्रामन्ति कदाचन ' इत्यस्य इतरमु
क्तवदेकवारं ब्रह्मनाड्योत्क्रमणेन मुक्तौ सत्यां पुनः स्वयोग्यस्थाने स्थि
त्यनन्तरं ' नोत्क्रामन्ति ' नोर्ध्वं गच्छन्तीत्यर्थमाश्रित्य अत एव ' अत्रै
व च स्थितिस्तेषां अन्तरिक्षे च केचन ' इत्युक्तम् । अन्यथा लिङ्गश
रीरभङ्गाभावान्मुक्तिरेव तेषां न स्यादिति तत्त्वप्रदीपरीत्यैवार्थमा
हुः । ' आत्मेत्येवोपास्व ' इति वचनस्य ' आनन्दाद्यः प्रधानस्य ' इ
त्युक्तिविरोधपरिहारस्तु तस्याश्चतुर्विधमोक्षार्थचतुर्गुणोपासकविषय
त्वात् अस्याश्च कतिपयमोक्षयोग्यैकगुणोपासकविषयत्वाद्विन्नविषय
त्वेन विरोधाभावादिति तत्रैव कृतः । केचित्तु — आत्मेत्युपलक्षणम् ।
आनन्दादयोऽपि ग्राह्याः । एकगुणोपासकविषयकल्पनया समाधान
टीका तु ' अस्तु वा ज्ञातता ' इत्यादिप्रौढवादेनैव प्रवृत्ता नाभ्युपग
मवादेनेत्याहुः । तन्न, आनन्दमालायां—अथ चतुर्गुणोपास्तेरशक्य
१३८

१०९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ।
त्वे आनन्दादीनां आत्मत्वगुणैकीकारेणापि कथं चिदुपास्तिरस्ति, त
था च सच्चिदानन्दो विष्णुरात्मेत्युपास्य इत्यन्वय इत्युक्तिविरोधात् ।
‘तेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम्’ इति छान्दोग्यभाष्यो
क्तेरेकगुणोपासनाख्यावशेषवतां मनुष्याणां भूर्भुवस्स्वराख्यलोक
प्राप्तिस्सिद्धा । तत्र भूलोकस्था उक्ताः । भुवस्स्वर्गस्थमुक्तानाह—
अन्तरिक्षे त्वित्यादिना । तुशब्दोऽप्यर्थः । ‘केचन’ पूर्वोक्ता उत्तमा
मनुष्याः । मुच्यन्त इत्यन्तं उभयत्राप्यनुषज्यते । नोत्क्रामन्तीत्येतत्तु पू
र्वेणैव योज्यम् । एवं किमुशब्दैरुक्तानां मनुष्याणां स्थितिमुक्त्वा ते
भ्योऽधिकानां स्थितिमाह—महरिति । ‘जने’ जनलोके ‘तपसि’ त
पोलोके । चस्समुच्चये । ‘सत्ये’ सत्यलोके । सर्वत्र मुच्यन्त इत्यनुष
ज्यते । ‘महाज्ञानाः’ बहुकालं ब्रह्मदर्शिनः अप्रतीकालम्बनाख्याः बहु
गुणोपासकास्तु ‘क्षीरसागरं’ तत्रत्यश्वेतद्वीपं गच्छन्तीत्यर्थः । उपल
क्षणमेतत् । तिष्ठन्तीत्यपि द्रष्टव्यम् । न च अत्रैव मुच्यन्ते, अत्रैव च
स्थितिस्तेषाम्, महाज्ञाना गच्छन्ति क्षीरसागरम्’ इत्युक्त्या महाज्ञा
नातिरिक्तानां एकगुणोपासकादीनां श्वेतद्वीपागमनप्राप्तेः
बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तस्स्यात्....॥
इत्यत्र च सर्वेषां श्वेतद्वीपगमनोक्तेर्विरोध इति वाच्यम् । सर्वेषामपि
सकृच्छ्वेतद्वीपगमनाभ्युपगमात् । तथाचाण्डलयकाले स्वोत्तमप्रवेशे
नोर्ध्वं गताः भग्नलिङ्गाः सकृच्छ्वेतद्वीपं गत्वा पुनर्धरादिकमागत्यानन्त
रमत्रैव तिष्ठन्तीत्याशयेन ‘अत्रैव च स्थितिः’ इत्याद्युक्तिरित्युक्तं भ
वति । उक्तं हि छान्दोग्यभाष्ये—
श्वेतद्वीपं ततो गत्वा दृष्ट्वा विष्णुं च तेन ते ।
अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति ॥
ननु गीताभाष्ये—ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्र या
न्ति योग्यत्वं चात्र विवक्षितमित्युक्तेः सर्वेषां श्वेतद्वीपगमने तद्विरोध
स्स्यादिति चेन्न, तस्य क्षीराब्धाववस्थानाय योग्यत्वं विवक्षितमित्ये
तदर्थकत्वात् । अत एव प्रमेयदीपिकायां अत्रेत्यनन्तरं निवास इति
शेषः कृतः । तथा च महाज्ञानित्वलक्षणयोग्यत्वं चात्र क्षीराब्धिगत

[ अधि - ९. सू - १९. ] दीपिकासहितम्. १०९९
( ६ ) तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगाः ।
सालोक्यं च सरूपत्वं सामीप्यं योग एव च ॥
इमामारभ्य सर्वत्र यावत्सुक्षीरसागरे ।
पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ॥
श्वेतद्वीपे निवासे तदर्थं विवक्षितम्, न तु गतिमात्र इति तद्वाक्यार्था-
भ्युपगमान्न विरोध इति ध्येयम् ॥
( ६ ) श्वेतद्वीपेऽपि मुहूर्ताधिकज्ञानित्वरूपमहाज्ञानित्ववतां न सा-
म्यमित्याह — तत्रापीति ॥ श्वेतद्वीपेऽपि महाज्ञानिष्वपीत्यर्थः । क्रमेति।
क्रमस्तारतम्यं स एव योग उपायस्तेनेत्यर्थः । इदं चोभयत्रान्वेयते ।
तथा च क्रमयोगेन ज्ञानाधिक्यात् ज्ञाने आधिक्ये तारतम्याख्योपायात्
तदनुसारेण महाज्ञानाः क्रमयोगेन ‘आदघ्नासः’ (ऋ.१०-७१-७.) इत्या-
द्युक्तरीत्या ‘समीपगाः’ भगवत्समीपवर्तिन इत्यर्थः । ननु भूम्यादिषु
मुक्तानां स्थितौ न मोक्षोऽयं स्यात् सालोक्यादिचातुर्विध्यानन्तर्भावादि-
त्यत आह-सालोक्यं चेति। समानलोकस्थत्वं सालोक्यं समीपस्थत्वं
सामीप्यं चतुर्भुजत्वादिरूपसाम्यं सारूप्यं भगवदङ्गप्रवेशः सायुज्यं
योग एव चेत्येवशब्दास्यास्तीत्यध्याहृतेनान्वयः । चस्समुच्चये । इ-
मामिति वाक्ये उक्तक्रमेण तावत्स्विति पदं अध्याहार्यं तथा च ‘इ-
मां’ पृथिवीमारभ्य
केचनात्रैव मुच्यन्ते, केचनान्तरिक्षे,
केचित्स्वर्गे महर्लोके जने तपसि चापरे ।
केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ॥
इत्याद्युक्तक्रमेण यावत्सु स्थानेषु श्रीमन्नारायणाभिधोऽनन्तशयनः पु-
रुषोऽस्ति ‘तावत्सु’ सर्वत्र स्थानेष्वपि सालोक्यं समीपत्वं च सारू-
प्यं योगश्चास्त्येवेति योजना । केचित्तु यावत् सुक्षीरसागर इति पद-
विभागं कृत्वा शोभने क्षीरसागरे यावन्नारायणाभिधः तावदिमामार-
भ्य सर्वत्र सालोक्याद्यस्तीत्यर्थमाहुः । तथा चेश्वरस्य सर्वदा सर्वत्रा-
वस्थानात् भूम्यादिषु मुक्तानामपि भगवत्सामीप्यादिरूपो मोक्षो यु-
क्त इति भावः । न चैतावताऽत्रैव मुक्तानां सायुज्याद्यप्यस्तीति मन्त-
व्यम् । यदि चतुर्मुखाद्याः पृथिव्यादिषु मुक्तस्थानं प्रति आगच्छन्ति,
तदा तेषां तत्रस्थभगवत्सायुज्याद्यप्यस्तीत्यर्थोपपत्तेः ॥

११०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
(७) मानुषा वर्णभेदेन तथैवाश्रमभेदतः ।
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ॥
आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः ।
रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तारोत्तराः ॥
नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ।
सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ॥
पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ।
स्वजगद्व्यावृतिस्तेषां पूर्ववत्समुदीरिता ॥
(७) ननु मानुषाः सर्वेऽप्येकविधाः, तथा च कथं तत्र केचन भू-
मौ, केचनान्तरिक्षे, केचित्स्वर्गे, इत्येवंरूपावान्तरभेदः संभवतीत्य-
तो वर्णाश्रमभेदेन तेषां बाहुविध्यं प्रदर्शयन् क्रमयोगेनेत्युक्तं मुक्तानां
तारतम्यं च दर्शयति-मानुषा इत्यादिना ॥ 'वर्णाः' ब्रह्मक्षत्रादयः 'आ-
श्रमाः' ब्रह्मचर्यादयः मुक्तौ सन्तीति शेषः । 'क्षितिपाः' चक्रवर्तिनः
'देवाः' देवगन्धर्वाः 'चिराः पितरः' इति सामानाधिकरण्यम् । 'आ-
जानजाः' अनाख्यातदेवाः 'कर्मजाः' कर्मणा देवत्वं प्राप्ताः बल्याद्याः
कार्त्तवीर्याद्याश्च 'तात्त्विकाः' तत्त्वाभिमानिनो बृहस्पत्यादयः देवा इ-
त्यनुषज्यते । 'शचीपतिः' इन्द्रः 'रुद्रः' शेषः 'ब्रह्मा' हिरण्यगर्भ इ-
त्येते क्रमशः क्रमेण 'पूर्वस्मात्' पूर्वपूर्वनिर्दिष्टात् 'उत्तरोत्तराः' उ-
त्त्तमोत्तमा इति सम्बन्धः । एवं स्वरूपे तारतम्यमुक्त्वा गुणेषु तदाह-
'तेषु' उक्तेषु मध्य इति । नित्यानन्दे भोगे ज्ञानैश्वर्यरूपगुणेषु सर्वेऽ
पि 'पूर्वस्मात्' पूर्वपूर्वतः 'उत्तरोत्तरं' पश्चात्पश्चान्निर्दिष्टाः शतगु-
णोत्कृष्टा इत्यर्थः । शतशब्दो बहुवाची । द्वितीयगुणशब्दो गणनापरः।
यदर्थं तारतम्यमुक्तं तन्मुक्तानां स्वावरपूज्यत्वम्, चतुर्मुखस्य सर्वपू-
ज्यत्वमिदानीमाह-पूज्यन्ते इति । 'ते' मुक्ताः । सर्वपूज्य इति । ईश-
लक्ष्मीव्यतिरिक्तसर्वपूज्य इत्यर्थः । न केवलं स्वावरपूज्यत्वमात्रं तेषां,
किन्तु स्वजगद्व्यावृतिश्चास्तीत्याह-स्वेति । 'तेषां' मुक्तानां स्वप्रति-
बिम्बभूतमुक्तजीवेषु व्यापारश्चास्तीति तत्त्वप्रदीपदिशाऽस्यार्थो ज्ञात-
व्यः । अत्राधममुक्तेषु उत्तमानां व्यापारो नाम सतीपतिन्यायेन बहि-
स्थित्वा नियामकत्वं, अन्तस्स्थित्वा नियामकस्तु मुख्यप्राण एव। यथो-
क्तं छान्दोग्यभाष्ये-तुरीयायामवस्थायां प्राणादेव निबोधनम् । इ-
ति ॥ मोक्षावस्थायामित्यर्थः । 'पूर्ववत्' संसार इव यथा संसारे स्व

(८) सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।
चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन ॥
भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृता ॥ इति ॥ १९ ॥
(९) सू—ॐ ॥ विकारावर्ति च तथा हि दर्शयति ॥ ॐ ॥ २० ॥
विकारावर्तिव्यापारो मुक्तानां न विद्यते ‘ इमं मानव
जगद्व्यापृतिस्तथेत्यर्थः ॥
(८) मानुषादिभ्यो देवाः श्रेष्ठाः योगशब्दोक्तसायुज्यभाक्त्वात्,
तेषु चतुर्मुखश्रेष्ठ इत्युक्तम्, तद्विपरीतं तेषां ऐक्यशङ्कां च वारयितुं
सयुजां महिमानमाह—सयुज इति ॥ सयुजः परमात्मानं प्रविश्य क-
दाचिद्बहिर्गताश्च भवन्ति । तत्र चिद्रूपान् प्राकृतान् अबन्धकशुद्धस-
त्वात्मकान् कांश्चन भोगान् स्वोत्तमैकभोग्यान् विना अन्यान् चिद्रू-
पान् प्राकृतांश्च भोगान् भुञ्जते इत्यर्थः । यद्वा—कांश्चन लक्ष्म्यात्मका-
न् स्वोत्तेमरूपांश्च चिद्रूपान् प्राकृतानपि भगवदसाधारणभोग्यग-
न्धादींश्च विना स्वयोग्यभोगान् भुञ्जते इत्यर्थः । निगमयति—एवमि-
ति । एवं क्रमेण ‘विस्पष्टं’ अतिस्पष्टं मुक्तिस्ते ‘समुदाहृता’ अभि-
हितेत्यर्थः । मयेति शेषः । नारदं प्रति ब्रह्मवाक्यमेतत् । इति गारुडे इ-
त्यन्वयः ॥
(९) ननु ब्रह्मादिमुक्तानां मुक्तजगद्व्यापार एव कुतः, अमुक्त-
जगद्विषयोऽपि किं न स्यादित्याशङ्कां परिहरत्सूत्रं पठति—विकारे-
ति ॥ अत्र चशब्दो नञनुषङ्गार्थः । विकारावर्तीति नपुंसकं पदम् । मु-
क्तानामिति शेषः । तथा च विविधाकारत्वान्मनोविकारदुःखमूलत्वा-
द्द्वा विकारशब्दितं संसारमावर्तयति प्रवर्तयतीति ‘विकारावर्ति’ सं-
सारविषयकव्यापरणं मुक्तानां न विद्यते । यद्वा—विकारपदं प्रकृति-
विकारशरीराभिमानिसंसारिपरम्, तमावर्तयतीति विकारावर्ति मुक्ता-
नां न विद्यते । कुतो ? ‘हि’ यस्मात्तथा श्रुतिः ‘दर्शयति’ प्रतिपाद्-
यतीति योजनामभिप्रेत्य सूत्रं व्याचष्टे—विकारेति । व्यापारेति लब्धा-
र्थकथनम् ‘हि’ यस्माच्छ्रुतिर्दर्शयतीति शेषः । मानवाः मनुष्याः य-
त्रावर्तन्ते जन्ममृत्यदि प्राप्नुवन्ति स मानवावर्तः संसारः । अधिकर-
णे घञ्, तत्पुरुषोऽयम्, मुगागमश्छान्दस इति केचित् । छान्दोग्य

११०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
मावर्तं नावर्तन्ते' (छा. ४-१५-६.) इति श्रुतिः ।
(१०) वाराहे च—
स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् ।
बलिं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ॥
सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः ।
न विकाराधिकारस्तु मुक्तानामन्य एव तु ॥
विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना ॥ २० ॥
*
व्यासतीर्थीये तु मानवमावर्तमिति अलुक्समास इत्युक्तम् । एतत्पक्षे
द्वितीयायाः षष्ठ्यर्थत्वमभिप्रेतम् । तं प्रति 'नावर्तन्ते' न प्रवर्तयन्ती
त्यर्थः । तत्त्वप्रदीपे तु मानवं मनुष्यसम्बन्धिनं 'आवर्तं' संसारमिति
भिन्नपदत्वाभिप्रायेण श्रुतिर्व्याख्याता । तथा प्रकृतिविकारशरीराद्य
भिमानिषु जन्ममृत्यादिविकारवत्सु संसारिषु मुक्तानां व्यापरणं आ
वृत्तिस्तेषां तद्व्यापारो न विद्यत इति यावदिति सूत्रार्थ उक्तः । एतत्प
क्षे चस्त्वर्थ एवार्थः स्मृतिसूचको वाऽवगन्तव्यः ॥
(१०) ननु मुक्तदेवानामुक्तविषयव्यापाराभावे संसारावस्थान
मेव न स्यात् प्रवर्तकाभावादित्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचि
तां स्मृतिमुदाहरति—वाराहे चेति ॥ न केवलं श्रुतिर्दर्शयति, किन्तु
वाराहेऽप्येवं श्रुतिरस्तीति चार्थः । 'स्वाधिकारेण' स्वस्वयोग्यतानु
सारेण यद्वा—स्वस्वाधिपत्येन युक्ता वा वर्तन्त इत्यर्थः । अपिस्समु
च्चये । 'स्फुटं' प्रत्यक्षम् । न तु रहस्यतयेति भावः । 'बलिं' करं 'ह
रन्ति' प्रयच्छन्ति 'पूर्ववत्' संसारे यथा । 'सब्रह्मकाः' सविरि
ञ्चा देवास्त्वित्यन्वयः । 'विशेषतः' आधिक्येन बलिं हरन्तीति च व
र्तते । अत एव वाक्यभेदकस्तुशब्दः । चस्समुच्चये । नेति । मुक्तानां
'विकाराधिकारः' संसारप्रवर्तकत्वं तु न विद्यत इत्यर्थः । तर्हि क
स्मात्संसारप्रवृत्तिर्न स्यादित्यत आह—अन्य इति । तुरेव । तथा च
ये मुक्तेभ्योऽन्ये विष्णुना नियुक्तास्त एव संसाराख्यविकाराधिकृता
स्तत्प्रवर्तकाः विज्ञेया इत्यर्थः । इति वाराह इत्यन्वयः ॥ ९ ॥
इति जगद्व्यापाराधिकरणम् ॥
——————

[ अधि - १०. सू - २१. ] दीपिकासहितम्. ११०३
१०. अधिकरणम् ॥
(१) सू- ॐ ॥ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमा
ने ॥ ॐ ॥ २१ ॥
‘एतत्साम गायन्नास्ते’ (तै.उ.३-१०.) इत्युच्यते तत्रा
नन्दादीनां वृद्धिह्रासौ न विद्येते । किन्त्वेकप्रकारेणै
व सर्वदा स्थितिः । ‘स एष एतस्मिन् ब्रह्मणि सम्प
न्नो न जायते न म्रियते न हीयते न वर्धते स्थित ए
व सर्वदा भवति दर्शयेश्च ब्रह्म दर्शयेच्चात्मानं तस्यैवं
दर्शयतो नार्पत्तिर्न विपत्तिः’ इत्याह जाबालश्रुतौ ।
यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।
१०. अधिकरणम् ॥
(१) अत्राधिकरणे ब्रह्मप्राप्तानां मुक्तानां भोगादिना वृद्धिह्रासो
निराक्रियते । अस्त्वेवमुक्तस्यानन्दवृद्ध्यादीति पूर्वपक्षे सिद्धान्तयत्सू
त्रमुपन्यस्यति – स्थितिमिति । अत्रैवं चेति चशब्दोऽप्यर्थोऽवधारणार्थ
श्च तत्रानुषङ्गार्थो वा । तत्रेति शेषः । स्थितिमित्यावर्तते । तत्रैकस्य वि
परिणामः । तथा च ‘एतत्’ इति श्रुतिर्यद्यपि तत्र मुक्तावुपासनं ‘आ
ह’ एवमपि तथापि यतस्स एष इतिश्रुतिः मुक्तस्य स्थितिमेकप्रकारेणै
वावस्थानमाह वक्ति न केवलं श्रुतिरेवमाह, किन्तु ‘प्रत्यक्षानुमाने’
महतां प्रत्यक्षं मुक्तो न वृद्ध्यादिमान् तत्कारणशून्यत्वादित्यनुमानं चै
वमेकप्रकारेण स्थितिं दर्शयतो ज्ञापयतोऽतो मुक्तस्यैवमेव वृद्धिह्रास
शून्यतयैव स्थितिर्मुक्ता न तु वृद्धिह्रासवत्त्वमिति योजनामभिप्रेत्य सू
त्रं व्याचष्टे - एतदिति । ‘इति’ इत्यादिना । यद्यपीत्यादावुपस्कार्यम् ।
तथा च यद्यपि ‘एतत्सामगायन्’ इत्यादिना तत्र मुक्तौ तस्य मुक्तस्य
तद्भगवदुपासनं सामगायनाख्यमुच्यते । तथाऽपि न तस्यानन्दबल
ज्ञानादीनां वृद्धिह्रासौ विद्येते किन्त्वेकप्रकारेणैव सर्वदा स्थितिः । कु
तो? यतः ‘स एषः’ इति जाबालश्रुतौ ‘नापत्तिर्न विपत्तिः’ इत्याह वे
दपुरुषः । प्रथमार्थे सप्तमी वा । एवं श्रुतिसमाख्यारूपे ‘यत्र गत्वा’ इ
त्यादिमोक्षधर्मेऽपि न हीयते न वर्धत इत्याह व्यासः । यतश्च ‘विद्वत्प्र
त्यक्षात्’ विदुषां महतां प्रत्यक्षात्, कारणशून्यत्वलिङ्गाच्चैतत् सङ्गत इ
ति योजना । श्रुत्यर्थस्तु-यः ‘एतस्मिन्’ मोक्षे ‘ब्रह्मणि’ विष्णौ ‘सम्पन्नः’
तं प्राप्तः ‘स एषः’ मुक्तः देहतोऽपि न जायते न म्रियते । न केवलं संसार

११०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
न हीयते यत्र गत्वा यत्र गत्वा न वर्धते । इति मोक्षध
र्मे । विद्वत्प्रत्यक्षात्कारणाभावलिङ्गाच्च ।
( २ ) ब्रह्मवैवर्ते च—
न ह्रासो न च वृद्धिश्च मुक्तानां विद्यते क्वचित् ।
विद्वत्प्रत्यक्षसिद्धत्वात्कारणाभावतोऽनुमा ॥
हरेरुपासना चात्र सदैव सुखरूपिणी ।
इव स्वरूपत इत्यध्याहृतवाक्यगताऽपिशब्दार्थः । न केवलमेतावत,
किन्तु आनन्दादिगुणतोऽपि ' न हीयते ' न ह्रसते न वर्धते, किन्तु स
दा एकप्रकारेण स्थित एव भवति स मुक्तः । यद्यपि ब्रह्म दर्शन्नुकृ
ष्टमिति पश्यन्नुपासीन एवमात्मानं स्वामीति च दर्शन्नुपासीन आस्ते,
तथा चोपासनरूपकारणाद्वृद्ध्यादिप्रसक्तिरस्ति । तथाऽपि एवं 'दर्श
यतः' पश्यतः उपासीनस्य तस्य मुक्तस्य 'नापत्तिः' न वृद्धिः 'न विप
त्तिः' न ह्रासश्चास्तीति । यथोक्तं तत्त्वप्रदीपे-आपत्तिरविद्यमानस्याग
मः। विपत्तिर्विद्यमानस्यापगमः। इति श्रुतौ तस्यैवं दर्शयत इत्यनुवादे
न दर्शयतश्चोपासनस्यापि स्थितिमाह श्रुतिरिति । दर्शयत इत्यस्यावृ
त्त्या सूत्रयोजना दर्शिता । स्मृतौ न जायते न म्रियते देहत इति शेषः।
न हीयते न वर्धते गुणत इति चाध्याहारः । [ यच्छब्दस्य स मोक्ष इति
तत्रत्यतच्छब्देनान्वयः । श्रुतिस्मृत्योर्जननमरणयोर्व्यस्तयोक्तिः तयो
रनियतक्रमत्वज्ञापनार्था ॥
( २ ) परप्रत्यक्षस्याप्रत्यक्षत्वात्कथं तेनास्माकमर्थसिद्धिरित्यतो वि
द्वत्प्रत्यक्षानुमाने दर्शयत इत्युक्तार्थे स्मृतिं चाह—ब्रह्मवैवर्ते चेति ॥
चस्समुच्चये । 'मुक्तानां' मुक्तगुणानां क्वचित्काले विद्वत्प्रत्यक्षसिद्ध
त्वात् वृद्ध्याद्यभावस्येति शेषः । कारणाभावत इति सार्वविभक्तिक
स्तसिः । 'यतो यतो धावति' इत्यादिवत् । तथा च वृद्ध्यादिकारणा
भावरूपानुमानं चास्मिन् विषयेऽस्तीत्यर्थः । यत इति शेषः । यद्वा—
कारणाभावतो लिंगादनुमाऽनुमिति रत्रविषये साधकतया प्रवर्तते य
त इत्यर्थः । ननूपासनाख्यकारणसद्भावात्कथं तदभाव इत्यत आह—
हरेरिति । कर्मणि षष्ठीयम् । 'अत्र' मुक्तौ स्थिताः मुक्तैः क्रियमाणेति
यावत् । चस्त्वर्थः । सदैव हरेरेव सुखरूपिण्येव यतोऽतो न साधनभू
तेत्यन्वयः । ननु कुतः सुखरूपत्वं, तत्साधनत्वमपि किं न स्यादित्यत

[ अधि - १०. - सू - २२. ] दीपिकासहितम्. ११५

न तु साधनभूता सा सिद्धिरैवात्र सा यतः ॥ इति ॥ २१ ॥
( ३ ) सू — ॐ ॥ भोगमात्रसाम्याल्लिङ्गाच्च ॥ ॐ ॥ २२ ॥
न च भोगविशेषादिविरोधः । 'एतमानन्दमयमात्मा
नमनुविश्य न जायते न म्रियते न हसते न वर्धते य
थाकामं चरति यथाकामं पिबति यथाकामं रमते
आह — सिद्धिरैवेति । अत्र सेत्यनुवर्तते । पुनः अत्रेत्येकं पदम् । तथा
च 'अत्र' मुक्तौ सा उपासना यतः 'अत्रसा' भयरहिता सिद्धिरैव
मोक्षफलरूपैवातस्सुखरूपैव न तत्साधनभूतेत्यर्थः । मुक्तेरभयत्वं च
'अथ सोऽभयं गतो भवति' (तै.उ.२-७.) इति श्रुतिसिद्धम् । हरेरि-
त्यादिना दर्शयतश्चेत्यनेन यदुपासनस्य वृद्ध्याद्यकारणत्वमुक्तं यो-
जनान्तरे तत्स्पष्टीकृतं भवति ॥
( ३ ) ननु न मुक्तानां वृद्ध्यादौ कारणाभावः, भोगविशेषसद्भा-
वात्, कारणाभावाभ्युपगमे च प्रामाणिकभोगविशेषविरोधापातादि-
त्याशङ्कां परिहरन्सूत्रं पठति — भोगेति ॥ अत्र चशब्दोऽवधारणार्थो न
त्वनुकर्षकश्च । स चावर्तते । मात्रशब्दात्परो विशेषशब्दोऽध्याहृत्य यो-
जनीयः । तथा च न मुक्तस्य वृद्ध्यादिकारणाभावाभ्युपगमे भोगवि-
शेषादिविरोधः । कुतः ? यतो मुक्तभोगविशेषादिस्तदानन्दादिवृद्धि-
ह्रासकारणं न, कुत एतत् ज्ञायते ? 'भोगमात्रविशेषसाम्यलिङ्गात्'
भोगमात्रस्य च रमणपानाद्यनेकविशेषयुक्तभोगसामान्यस्य 'एतमा-
नन्दमयम्' इति श्रुतौ रमते उपरमत इति विषयभोगभावाभावोक्त्या
सूचिते भोगविशेषे तद्भावे च सत्यपि यन्मुक्तस्वरूपानन्दादेर्न हस-
ते न वर्धत इत्युक्तं वृद्ध्यादिशून्यत्वरूपं साम्यमेतस्मादेव लिङ्गाद्भो-
गमात्रविशेषस्यै मौक्तानन्दवृद्ध्याद्यकारणत्वज्ञापकाद्भोगविशेषादेर्वृ-
द्ध्याद्यकारणत्वं विना तस्मिन् सति कार्याभावरूपान्वयव्यभिचारस्या-
नुपपत्तेरिति भाव इति रूपालिङ्गान्न भोगविशेषो वृद्ध्यादिकारणम्,
न्यायामृतोक्तरीत्या यदि भोगविशेषः आनन्दादिवृद्ध्यादिकारणं तर्हि
भोगसामान्य एव साम्यमुच्येत, न तु तद्विशेषेऽपि । अतो भोगमात्र
इव तद्विशेषेऽपि साम्योक्तिः कारणमिति वा सूत्रवृत्तिमभिप्रेत्य तद्व्या-
चष्टे — न चेति । मुक्तस्य वृद्ध्यादिकारणाभावाभ्युपगम इत्याद्याद्युप-
स्कार्यम् । भोगविशेषो भोगातिशयः । आदिपदेन भोगाभाव उच्य-
ते । तस्य विरोधोऽनुपपत्तिः । विरोध इत्यन्तेन चशब्दानुकृष्टनञर्थे
१३९

यथाकाममुपरमते' (तै.उ. २-८.) इति भोगमात्रस
म्पलिङ्गात् ।
(४) अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् ।
कादाचित्कविशेषस्तु नैव तेषां निषिध्यते ॥ इति कौर्मे ॥
उक्तो भवति । कुतो नेत्यतस्तत्र नेत्यस्यावृत्त्या यतो न भोगविशेषा
दिस्तद्वृद्ध्यादौ कारणमिति सूचितश्चशब्दसमुच्चितो हेतुरन्वेतव्यः ।
भोगविशेषादेर्वृद्ध्याद्यकारणत्वं कुतो ज्ञायत इत्यतस्तत्र 'एतमानन्द
मयम्' इत्यारभ्य लिङ्गादित्यन्तो हेतुर्योज्यः । सायुज्यमुक्तः 'आनन्द
मयं' आनन्दपूर्णमेतं परमात्मानं प्राविश्य पुनर्देहेतो न जायते न म्रिय
ते गुणतो न हसते न वर्धते 'यथाकामं' यथेच्छं 'चरति' भक्षयति
पिबति चेत्यर्थः । रमते उपरमत इत्याभ्यां भोगविशेषतदभावावुच्ये
ते । इति श्रुतादिति शेषः । भोगमात्रेति हेतुवाक्यार्थः पूर्ववत् ॥
(४) ननु यदि भोगो न वृद्धिहेतुस्तर्हि व्यर्थोऽसौ किमिति मुक्तैः
क्रियत इत्यतः क्रीडयेति परिहारे स्थिते मुक्ताविरिञ्चेतरमुक्तानां चश
ब्दसूचितं विशेषं चाह—अवृद्धीति ॥ वृद्धिह्रासरहितज्ञानादिधर्मवत्त्व
मित्यर्थः । 'मुक्तानां' विरिञ्चेतरमुक्तानाम् । यथोक्तमनुव्याख्याने—
मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥ इति ॥
व्याख्यातं चैतत्सुधायाम्—
ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह—मुक्तानां त्वि
ति । विशेषबलेन वृद्धिह्रासवतीत्यर्थः । यथोक्तं—'अवृद्धिह्रासरूपत्वम्'
इत्यादीति । अत्र मतिविवक्षया स्त्रीलिङ्गनिर्देशः । आदिशब्देन प्रवाह
तो वचनं गृह्यते । भोगादिना तर्हि किञ्चिद्वृद्धिविरोध इत्यत आह—
प्रायिकमिति । बाहुल्येन सार्वकालिकमित्यर्थः । प्रायिकमित्युक्तेः कृत्य
माह—कादाचित्केति । विशेषो वृद्ध्यादिः । 'तेषां' विरिञ्चेतरमुक्ता
नां 'नैव निषिध्यते' किन्त्वङ्गीक्रियत इत्यर्थः । अवृद्धिह्रासरूपत्वहान्या
पादकत्वाभावादिति भावः। केचित्तु—मुक्तानामित्यस्य यथाभूत एवा
र्थो न विरिञ्चेतरेषामिति । कादाचित्कविशेष इत्यादेस्तु मुक्तौ तत्त
त्कालीनभोगबाहुल्येन आनन्दे कश्चिद्विशेषो नैव निषिध्यते इत्यर्थः। न
चानुभाष्यविरोधः, ऽत्र तदन्येषामित्युक्तेरिति वाच्यम् । तत्र चतुर्मु
खस्य सर्वज्ञत्वेन तज्ज्ञाने विशेषाभावस्योक्तत्वात् । यदा दक्षिणाना

:
व्य क्ति?
Let's read line 27 from the start:
त्र्यं लक्ष्यते क्वचित् ' इत्यस्य स्वेनानुभूयमानेषु विषयकृतानेकसौख्य
Wait! Is it सौख्य?
Wait, look at सौ: स with au-matra?
No, look at line 28:
क्तेषु -> wait, व्यक्तिषु!
If line 28 is क्तेषु, what ends line 27?
Could it be विषयकृतानेकव्यक्ति?
Look at line 27 end:
वि ष य कृ ता ने क then:
व्य क्ति!
Wait! Is it व्य?
It has a व and a य! That is व्य!
Then क्ति? No, the ि matra goes over... wait, look at line 28 first word:
क्तेषु!
Wait, could line 27 end with: वि ष य कृ ता ने क व्य?
And line 28 start with: क्तेषु?
व्यक्तिषु -> व्य at end of line 27, क्तिषु at start of line 28!
Wait, does line 28 have क्तिषु or क्तेषु?
Look at line 28:
Letter 1: `क्

११०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
इति नारायणतन्त्रे ॥ २२ ॥
— * —
११. अधिकरणम् ॥
( १ ) सू– ॐ ॥ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ॐ ॥ २३ ॥
अथस्य कारणत्वोक्तेः प्रागुक्तो वृद्ध्यादौ कारणाभावहेतुरसिद्ध इति
वाच्यम् । बहुतरवृद्ध्यादिकारण शून्यत्वादिति हेतोर्विशेषणात् । इ
ति नारायणतन्त्रे विवक्षितार्थो विवृत इति शेषः ॥ १० ॥
॥ इति स्थित्यधिकरणम् ॥
११. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्म प्राप्यभोगान् भुञ्जानस्य मुक्तस्यापुनरा
वृत्तिस्समर्थ्यते । अस्ति मुक्तस्य पुनरावृत्तिः । स्वर्गादिगतानां पुनरा
वृत्तिदर्शनात् । न च स्वर्गादिगतानां युगमन्वन्तरादिमात्रवासित्वानु
क्ता पुनरावृत्तिः, न तु मुक्तस्य, तस्य समस्तकालवासित्वादिति वा
च्यम्

[ अधि - ११. सू - २३. ] दीपिकासहितम्. ११०९
‘न च पुनरावर्त्तते न च पुनरावर्तते’ ( छा. ८-१५-१.)
श्रुं व्याचष्टे—न चेति । छान्दोग्यश्रुतौ—‘ स खल्वेवं वर्तयन् यावदायुषं
ब्रह्मलोकमभिसम्पद्यते’ (छा.८-१५-१.) इति पूर्ववाक्ये प्रकृतो मुक्तः
ब्रह्मलोकं हित्वा पुनः ‘नावर्तते’ न संसृतिं प्राप्नोतीत्यर्थः । चशब्द
एवार्थः । शब्दादित्येतत्प्रकारान्तरेण व्याचष्टे—सर्वानिति । ऐतरेये
द्वितीयारण्यके ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन्
स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतस्समभवत् समभवत्’ (ऐ.आ.२-
५-१-१५.) इति श्रूयते । अस्यायमर्थः—‘सः’ उपासक एवं विद्वान् ‘अ
स्माच्छरीरभेदात’ शरीरसम्बन्धात् ‘ऊर्ध्वमुत्क्रम्य’ ब्रह्मनाड

१११० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
' सर्वान् कामानाप्त्वाऽमृतः समभवत्समभवत् '
( पै. आ. २-५-१-१५.) इत्यादिश्रुतिभ्यः ॥ २३ ॥
( २ ) ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥
र्माणः उत्क्रमणेन त्यक्तदेहाः अर्चिरादिपथा यथायोग्यस्थाने स्थिताः
अण्डलयकाले स्वोत्तमान् प्रविष्टाः वैकुण्ठवासिनं हरिं प्राप्ताः हिरण्य
गर्भेण सह विरजास्नानेन भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयः अत्यन्त
निवृत्तानिष्टा भवन्ति । ये तु मनुष्योत्तमाः निष्कामुकभगवदर्थश्रुत्या
दिव्यिहितकार्यानुष्ठानेन शुद्धान्तःकरणाः प्रक्षीणरागादिदोषाः सञ्जा
तभगवद्भक्तिमन्तः श्रवणमनननिदिध्यासनाभ्यासवन्तः परमभागव
ताः स्वयोग्यभगवदपरोक्षानन्तरं अत्यन्तनिवृत्तानिष्टसञ्चितकर्माणः
आगामिदुष्कर्मलेपविधुरा यावत्प्रारब्धं भागवतधर्मनिष्ठाः उत्तरायण
मार्गेण त्यक्तदेहाः भगवल्लोकगमनार्थमर्चिरादिपथा महरादिलोके स
मासीनाः लयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्माण्डलयान्तरं लि
ङ्गशरीरभङ्गकाले उपस्थिते सुषुम्नामार्गेण त्यक्तान्यदेहाः हिरण्यगर्भे
ण सह विरजास्नानेन भिन्नलिङ्गशरीराः प्रध्वस्तस्वगुणाच्छादिकाः
विध्वस्तप्रकृतयः अत्यन्तवृत्तानिष्टा भवन्ति । ये त्वत्यल्पाः मानुषाः
स्थावराद्यश्च एकगुणोपासकाः कार्यब्रह्मकालान्त्यभागे स्वस्वयोग्या
वतारापरोक्षिणः उत्क्रमणार्चिरादिमार्गरहिताः प्रभुक्तोत्यल्पप्रारब्धक
र्माणः अण्डलयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्मणा सह त्यक्तलि
ङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तवृत्तानिष्टाः भवन्ति । ते सर्वेऽपि
महाप्रलये भगवदुदरे स्थित्वा पुनस्सृष्टौ भगवल्लोकाविर्भावे श्वेतद्वी
पगतभगवद्दर्शनेनापगतभगवदिच्छावरकाः सम्यगाविर्भूतज्ञानानन्दा
दिगुणाः वासुदेवपरिक्लृप्तस्वस्वयोग्यस्थानेषु स्थिताः भगवन्तमुपा
सीनाः सायुजः भगवद्देहे बहिश्च अन्ये बहिरेव स्वरूपदेहेन लीलागृही
तविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यान् भोगान् तारतम्येन भुञ्जानाः
न कदाचित्पुनरावर्तन्त इति ॥
( २ ) अथायं भाष्यकारो यं गुणगणार्णवतया आदौ प्रतिपादित
वान् । यच्छिष्यतया चैतादृशीमतिविशदां संविदं लब्धवान् । यस्मि
न् श्वात्मनो निरुपाधिकप्रीतिस्तमेव देवतात्वेन गुरुत्वेन चान्तेऽपि न
मति--ज्ञानेति ॥ गुणैरित्यस्य विवरणं—सर्वैरिति । अनेन नम्यताप्र

[ अधि - ११. सू - २३. ] दीपिकासहितम्. ११११
(३) यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बद् तद्दर्शितमित्थमेव निहितं देवस्य भर्गो महत् ।
योजकं विशिष्टत्वमुक्तं भवति । गुरुं इति निमित्तान्तरोक्तिः । 'स
र्वथा' सर्वस्मात्सर्वप्रकारेण 'अतिप्रियो' निरुपाधिकप्रियः । अनेनेष्टत्व
म्, ब्रह्मशब्दसमानार्थक विष्णुशब्दप्रयोगेन ब्रह्मविचारात्मकशास्त्राधि
कृतत्वम्, सूत्रसङ्ख्या चोक्ता भवति ॥
(३) अथ स्वभाषितभाष्यस्याभिमूलत्वसमर्थनाय श्रुतिप्रसिद्धं स्व
स्य परमाप्तत्वं दर्शयन्नाह- यस्येति ॥ यद्वा - मुमुक्षोर्भगवज्ज्ञानस्येव
स्वज्ञानस्याप्यपेक्षितत्वात्स्वस्वरूपं ख्यापयन् स्वकृतिं भगवति समर्प
यति-यस्येति । 'यस्य' वायोः वायुनामकस्य देवस्य 'बळित्था' इ
त्यादिवेदवचनेऽलं 'दिव्यानि' क्रीडादिगुणयुक्तानि अत्यन्तप्रकाशव
न्ति स्तुत्यानि देवसेव्यानि च त्रीणि रूपाणि उदितानि, तस्य यत्तृतीयं
रूपं तेनेदं श्रीमद्ब्रह्मसूत्रभाष्यं 'हरौ' हरिविषयतया कृतमित्यन्वयः ।
'हि' प्रसिद्धौ । तत्त्वप्रदीपे तु 'मध्वो यत्तु तृतीयमेतदमुना भाष्यं कृ
तं केशवे' इति पठित्वा 'यस्य त्रीणि' इति श्लोकानन्तरं 'ज्ञानान
न्दादिभिः' इति श्लोकोऽवतारितः । कीदृशं चास्य मूलं, किं च स्वरू
पं, कानि च त्रीणि रूपाणि कीदृशानि च, तत्राह- अलमिति । तस्य
वायोः 'तत्' मूलरूपं 'बद्' बलात्मकं 'दर्शितं' ज्ञानरूपं ज्ञानात्मकं
ततमिति वा । अनेन केन निमित्तेन तन्मूलं वायुनामकमिति प्रश्नस्या
प्युत्तरमदायि । वशब्दस्य बलवाचित्वात् अयतेर्ज्ञानार्थत्वात् । तन्मूलं
'भर्गः' सकारान्तोऽयं शब्दः । जगद्धरणगमनगुणं 'महत्' महनीयं
च । मूलरूपादवताररूपस्येन्द्रार्जुनादेरिव गुणवैषम्यं न मन्तव्यमित्या
ह-इत्थमेवेति । यदुक्तगुणं तन्मूलरूपं यद्गुणं तद्गुणकमेवावतारा
यापि भगवता 'निहितं' प्रेरितमवतीर्णं चेत्यर्थः । त्रयाणामपि रूपा
णां सव्यापारं नामान्याह-रामेत्यादिना । 'प्रथमकं' प्रथमं वपुः हनु
मदाख्यं 'रामवचोनयं' रामवचांसि सीतां प्रति नीतवत् । रामाविष
यवचांसि मूलरामायणरूपाणि शिष्येषु नीतवद्वा । रामस्य वचसि
यो नयो न्यायः आज्ञारूपः तद्युक्तं वा । तथात्वे बहुव्रीहिः । द्वितीयं व
पुः भीमनामकं कुरुपृतनाक्षयकारित्वात्पृक्षः । यत्तु तृतीयकं 'तन्मध्वः'
मध्वनामकमानन्दरूपस्य हरेः प्रतिपादकशास्त्रकृत्त्वात् । आनन्दस
न्धायिसुशास्त्रनिर्मातृत्वाद्वा ।

१११२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥
—:※:—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र
भाष्ये चतुर्थाध्यायस्य चतुर्थः पादः.
॥ चतुर्थाध्यायस्समाप्तः ॥
——
॥ ॐ ॥
॥ श्रीमद्ब्रह्मसूत्रभाष्यं ॥
॥ सम्पूर्णम् ॥
यथोक्तम् —
मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ इति ॥
अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलैस्सुजनैरादरेणाङ्गीकार्य
मिति भावः ॥ ११ ॥
॥ इति अनावृत्यधिकरणम् ॥
—:❖:—
भाष्यान्ते 'नित्यानन्द' इति श्लोकान्तरं क्वचित्पठ्यते । तस्येत्थं
गमनिका—भक्त्यतिशयात्पौनःपुन्येन प्रीतिप्रार्थनपूर्वकं विष्णुं नमति-
नित्येति । नित्यानन्दो देशकालगुणैः 'पूर्णः' अपरिच्छिन्नो हरिः 'नि-
त्यदा' सर्वदा मम प्रीयताम् । तस्मै विष्णवे मम नमश्चास्त्वित्यन्वयः॥
—
··—

[ अधि - ११. सू - २३. ] दीपिकासहितम्. १११३
कुशाग्रबोधैर्जयतीर्थपादैः कृतामहं व्याकृषि सूत्रभाष्यम् ।
टीकां तथाऽऽर्योर्वचोऽनुसृत्य ततोऽनुधर्तुं भवेन्ममागः ॥
मन्मानसाम्बुजस्थेन हरिणा कृतयाऽञ्जसा ।
भाष्यदीपिकया कृष्णः प्रीयतां कमलाकरः ॥
—-::—-—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना-
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि-
कायां चतुर्थाध्यायस्य चतुर्थः पादः •
॥ चतुर्थाध्यायस्समाप्तः ॥
—:
:—
॥ ॐ ॥
॥ श्रीमद्ब्रह्मसूत्रभाष्यदीपिका ॥
॥ सम्पूर्णा ॥
१४०