पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
१०५४ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.]
१०. अधिकरणम् ॥
( १ ) मार्गो गम्यं चास्मिन् पाद उच्यते ।
सू—ॐ ॥ अर्चिरादिना तत्प्रथितेः ॥ ॐ ॥ १ ॥
'तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्ष
म्' ( छा. ५-१०-१०. ) इत्यर्चिषः प्राथम्यं श्रूयते । 'य
दा ह वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति'
( बृ. ७-१०-१. ) इति वायोः ।
( २ ) तत्रार्चिषः प्राप्तिरेव प्रथमा ।
( ३ ) द्वावेव मार्गौ प्रथितार्वचिरादिः विपश्चिताम् ।
१०. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति—मार्गेति ॥ ब्रह्मप्राप्तौ मार्ग इत्यर्थः । उ
त्क्रान्तानामिति शेषः, ब्रह्मनाड्या नाड्यन्तरेण चोत्क्रान्तानामिति तद्
र्थः, न तु ब्रह्मनाड्येत्येव । नाड्यन्तरोत्क्रान्तानां स्वस्वलोकप्राप्तौ मार्गा
न्तराभावात् । 'गम्यं' प्राप्यं कार्याकार्यब्रह्मरूपं, तेन मार्गेण गतानामि
ति शेषः । चः समुच्चये । 'अस्मिन्
[ अधि - १. सू - १. ] दीपिका सहितम्. १०५५
धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥
अग्निर्ज्योतिरिति द्वैधैवार्चिपस्सम्प्रतिष्ठितिः।
अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ॥ इति ॥
एकस्मिंस्तु पुरे संस्थो द्विरूपोऽग्नेः सुतो महान् ॥
इति ब्रह्मतर्के ॥ १ ॥
:—*—:
तत्प्रथितेरित्यस्य तस्यां स्मृतौ तेषां तस्य मार्गैकत्वस्य अर्चिरादित्व
स्य च प्रसिद्धत्वादित्यर्थमुपेत्य तां स्मृतिं दर्शयति—द्वावेवेति ॥ अ
र्चिरादिरिति बहुव्रीहिः । तथा च ‘सर्ववेदविनिर्णयात्’ सर्ववेदानभि
श्रित्य विचार्य ज्ञानिनामेकः कर्मिणां चापर इति द्वावेव मार्गौ ‘प्रथि
तौ’ प्रसिद्धौ ज्ञानिभिर्निणींताविति यावत् । न त्वेकस्त्रयो वा । ‘विप
श्चितां’ उत्क्रान्तज्ञानिनां यो मार्गः सोऽर्चिरादिरेव ज्ञेयः । काम्यकर्मि
णां मार्गस्तु धूमादिरेवेति योजना । ननु ‘अग्निर्ज्योतिः’ इति गीता
स्मृतावग्नेः प्राथम्यमुच्यते, तत्कथमत्रार्चिषो ज्योतिश्शब्दितस्य द्वि
तीयप्राप्यत्वेनोक्तस्य प्राथम्यमुच्यत इत्यत आह—अग्निरिति । एक
स्याग्निपुत्रस्यार्चिष एवाग्निर्ज्योतिरिति ‘द्वेधा’ द्विरूपेण ‘सम्प्रतिष्ठि
तिः’ सम्यगवस्थानं भवति नार्चिषोऽन्योऽग्निः । तत्र ब्रह्म संव्रजन् ज्ञा
नी प्रथममग्निमेत्याथ ज्योतिराप्नोति । तथाऽपि पृथक्तिं नोच्यते ‘तेऽ
र्चिषम्’ इत्यादिश्रुतावित्यत आह—एकस्मिन्निति । ‘महान्’ पूज्यो अ
र्चिर्नामकोऽग्निर्ज्योतिर्भेदेन ‘द्विरूपो’ द्विविधोऽपि यत एकस्मिन् पुरे
संस्थः, अतः ‘तेऽर्चिषम’ इति श्रुतौ पृथक् नोच्यते । यतः प्रथमं द्विवि
धोऽपि क्रमेण ज्ञानिप्राप्योऽतो नार्चिषः प्राथम्यविरोधः । नन्वग्नेः सो
मादनन्तरं प्राप्तिः ‘सोमं वैश्वानरम्’ इति वचनात्, अतः कथमेतदि
त्यत आह—अग्नेः सुत इति । तथा च यतोऽग्नेस्सुतोऽतः ‘सोमं वैश्वा
नरम्’ इति वक्ष्यमाणविरोधोऽपि न, अस्य प्रधानाग्निपुत्रत्वादिति यो
जना । ब्रह्मतर्क इत्यस्य प्रथितेरिति सौत्रपदेनान्वयः । सूत्रार्थस्तु—उ
त्क्रान्तो ज्ञानी ब्रह्म गच्छंश्चैकेनैवार्चिरादिना मार्गेण गच्छति, न तु मा
र्गभेदेन । मार्गस्यार्चिरादित्वं एकत्वं च कुतः सिद्धम् ? ‘तत्प्रथितेः’
तस्य ज्ञानिमार्गस्यार्चिरादित्वस्यैकत्वस्य च ‘सर्वे वा’ ( )
इति श्रुतौ ‘अग्निः’ इति स्मृतौ च प्रसिद्धत्वादिति ॥ १ ॥
॥ इति अर्चिराद्यधिकरणम् ॥
१०५६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.]
२. अधिकरणम् ॥
( १ ) सू—ॐ ॥ वायुशब्दादविशेषविशेषाभ्याम् ॥ ॐ ॥ २ ॥
अर्चिषो वायुं गच्छति ' स वायुमागच्छति ' ( बृ.
७-१०-१.) इति सामान्यवचनात् ॥
( २ ) 'स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरह
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे वायोर्द्वितीयप्राप्यत्वं समर्थ्यते । तत्र ' द्वावेव
मार्गौ' इति स्मृतेः समग्रमार्गस्यैकत्वेऽपि अर्चिःपूर्वपक्षयोर्मध्ये मार्गभे
दसम्भवात् । ' स वायुमागच्छति , अर्चिषोऽहः ' इति श्रुतिद्वयप्रामा
ण्याद्द्वाय्वह्लोरुभयोरधिकारिभेदेन द्वितीयप्राप्यत्वमिति पूर्वपक्षे सि
द्धान्तयतसूत्रमुपन्यस्यति—वायुशब्दादिति ॥ सूत्रेऽध्याहार्यप्रतिज्ञां
दर्शयति—अर्चिष इति । अनन्तरमिति शेषः । तथा चैकेनैव मार्गेण
ब्रह्म गच्छन् ज्ञानी तस्मिन् मार्गेऽर्चिषोऽनन्तरं वायुमेव गच्छति
न त्वहरित्यर्थः । कुत एतदित्यतोऽत्र हेतुतया प्रवृत्तं सूत्रं अविशेषवि
शेषाभ्यां वायुशब्दात् वायुश्रुतेरित्यन्वयमुपेत्य व्याचष्टे—स इति ।
सामान्येत्यविशेषपदव्याख्यानम् । 'वचनात् ' बृहदारण्यकश्रुतेः ।
' सः' उत्क्रान्तोऽपरोक्षज्ञानी अर्चिर्द्वारा 'वायुं ' प्रवाहाख्यमागच्छती
ति सिद्धान्ते श्रुत्यर्थः । सामान्यश्रुतेः द्वितीयप्राप्यतानिर्णायकत्वं तु
न्यायानुगृहीतत्वेन । न्यायस्तु टीकायामेव प्रदर्शितः ॥
( २ ) ननु श्रुतेः सामान्यवचनत्वादेव प्रथमप्राप्यप्रतिपादकत्वं
किं न स्यादित्याशङ्कायां न केवलमेवंन्यायानुगृहीतसामान्यश्रुत्या वा
योर्द्वितीयप्राप्यतासिद्धिः, येनोक्तदोषस्स्यात् । अपि तु विशेषश्रुतित
श्वेति भावेन प्रवृत्तं विशेषेत्यंशं व्याचष्टे--स इति ॥ 'सः' ज्ञानी
' इतः' शरीरात् 'गतः' उत्क्रान्त इत्यर्थः । यद्वा—' इतः' अर्चिषो
'गतः' तल्लोकान्निर्गत इत्यर्थः । द्वितीयां गतिमिति सामानाधिकर
ण्यं, 'गतिं ' प्राप्य अहरागच्छतीत्यन्वयः । एवमुत्तरत्रापि । 'विशेष
वचनात् ' विशेषश्रुतेः । चस्सामान्यश्रुतिसमुच्चये । स्पष्टस्सूत्रार्थः ।
अत्र टीकायां पूर्वाधिकरणगुणसूत्रत्वेनापीदं सूत्रं व्याख्यातं, तस्मिन्
पक्षे ' वायुशब्दात् ' वायोः द्वितीयप्राप्यत्वश्रुतेः सकाशाद्वायुशब्द
स्य वायोः प्राथम्येन प्राप्यत्वश्रुतेः 'अविशेषविशेषाभ्यां ' भावप्रधा
नोऽयं सामान्यविशेषभावाभ्यां निमित्ताभ्यां बाधो द्वितीयप्राप्यत्वप्र
[ अधि - ३. सू - ३. ] दीपिकासहितम्. १०५७
रह आपूर्यमाणपक्षम्' ( ) इति विशेषवच
नाच्च ॥ २ ॥
*
३. अधिकरणम् ॥
सू—ॐ ॥ तडितोऽधि वरुणस्सम्बन्धात् ॥ ॐ ॥ ३ ॥
( १ ) 'मासेभ्यस्संवत्सरं संवत्सराद्वरुणलोकं वरुणलो
कात्प्रजापतिलोकम् ' इति कौण्डिन्यश्रुतिः । ' संवत्स
रात्तडितमागच्छति तडितः प्रजापतिलोकम् ' इति च
गौपवनश्रुतिः ।
तिपादकत्वं सम्भवतीति नार्चिःप्राथम्यश्रुतेस्तद्विरोध इति सूत्रार्थः ।
तदनुसारेण सामान्यवचनत्वाद्विशेषवचनत्वादिति भाष्यार्थश्च द्रष्ट
व्यः । एवमस्मिन् पक्षे प्रतिज्ञाभाष्यस्यापि सामान्यश्रुतेरर्चिषोऽन
न्तरं वायुं गच्छतीत्यर्थ इत्युपस्कारेण व्याख्यानं द्रष्टव्यम् ॥ २ ॥
॥ इति वायुशब्दाधिकरणम् ॥
—:※:—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे तडिदभिमानिलोकस्य संवत्सराभिमानिलोकान्
न्तरप्राप्यत्वं समर्थ्यते । तत्र सन्देहबीजं श्रुतिविगानं दर्शयति-मासेभ्य
इति ॥ यद्यपि छान्दोगे 'संवत्सरादादित्यम्' ( ) इति आदि
त्यस्यापि संवत्सरानन्तर्यं श्रुतमस्ति । तथाऽपि अनुक्तित उक्तेर्बलवत्त्वा
त्कौण्डिन्यगौपवनश्रुतिद्वयबलात्संवत्सरात्पश्चादादित्यात्पूर्वं प्रजापतेः
प्राप्यत्वमविचारेणैव सिद्धमिति प्रजापतेः पूर्वं संवत्सरादनन्तरं वरु
णतडितोरुभयोरपि अधिकारिभेदेन प्राप्यत्वम्, उत संवत्सरानन्तर्यं
तडित एव, न वरुणस्य, तस्य तु तडिदानन्तर्यमिति विचार्यत इति
भावः । श्रुत्योर्माससंवत्सरतडिच्छब्दास्तत्तद्देवतालोकपराः । प्रजाप
तिशब्दः प्रजेश्वरपरो दक्षपरो वा बोध्यः । पूर्वश्रुतौ गच्छतीति शे
षः । कौण्डिन्यश्रुतिरित्यनन्तरं वरुणस्य संवत्सरादानन्तर्यं वक्तीति,
गौपवनश्रुतिरित्यनन्तरं तडितः संवत्सरादानन्तर्यं वक्तीति च शेषः ।
यत एवं श्रुतिद्वयविरोधः संशयबीजमस्ति अतः संशय इति भावः ॥
१३३
१०५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
( २ ) 'तत्र तटितो वरुणं गच्छति । तटिता हूह्यते वरुण
लोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो रा
जा सत्यानृते विविञ्चति' ( ) इत्युपरिस
म्बन्धश्रुतेः ॥ ३ ॥
—: ❖ :—
४. अधिकरणम् ॥
( १ ) सू—ॐ ॥ आतिवाहिकस्तल्लिङ्गात् ॥ ॐ ॥ ४ ॥
पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ॥ ४ ॥
( २ ) सिद्धान्तयत्सूत्रं व्याचष्टे—तत्रेति ॥ उपरीत्यत्रापि सम्ब
ध्यते । तथा चोत्क्रान्तो ज्ञानी सर्वोऽपि 'तत्र' स्वगम्ये मार्गे संवत्सरा
नन्तरं तटितमेव गच्छति । तटित उपरि तदनन्तरं वरुणं गच्छतीत्य
र्थः । अनेन 'तटितोऽधि' तटित उपरि वरुणः प्राप्यो, न तु ततः प्रा
[L14
[ अधि - ४. सू - ५. ] दीपिकासहितम्. १०५९
(२) कुतः?
सू- ॐ ॥ उभयव्यामोहात्तत्सिद्धेः ॥ ॐ ॥ ५ ॥
'स वायुमागच्छति' (बृ. ७-१०-१.) इति प्रथममु
च्यते। 'उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युत्तमे
वान्तत उपगच्छति द्योंर्वाव विद्युत्तत्पतिं वायुमुपग
म्य तेनैव ब्रह्म गच्छति' ( ) इत्यन्तेऽपि
वायुगमनश्रुतेः ।
क्तो वायुरसौ प्रवहाख्यः 'आतिवाहिकः' अतिशयितं विष्णुं वहतीत्य
तिवहो मुख्यवायुस्तस्यायं तत्पुत्रः स एवेत्यर्थः । न मुख्य इत्येवकारा
र्थः । प्रवहस्य प्राप्यत्वं वायुपुत्रत्वं च—
प्रवहं वायुपुत्रं च सूर्यसोमौ च विद्युतम् ।
प्राप्य प्रधानवायुं च याति तत्परमं पदम् ॥
इति बृहद्भाष्योदाहृतप्रमाणसिद्धम् । अत एव सूत्रस्य वायुपुत्रत्वज्ञाप
नार्थमेव प्रवह इत्यल्पाक्षरं पदं विहायातिवाहिक इत्यधिकाक्षरपदप्रयो
गः । कुत इत्यतः प्रवृत्तं तल्लिङ्गादिति हेत्वंशं तच्च लिङ्गं चेति विग्रहा
श्रयणेन व्याचष्टे— पूर्वेति । गमनं प्राप्तिः । तर्हिमुख्यस्यैव भवेन्न मु
ख्यस्येति भावः ॥
(२) ननु तथाऽपि कथं पूर्वप्राप्यस्य वायोरतिवाहिकत्वसिद्धिः,
तथा सति मुख्यप्राप्त्यभावापातात् । अथैतद्दोषपरिहाराय उत्तरत्रापि
कश्चिद्वायुः प्राप्योऽस्तीत्युच्यते । तथाऽप्यनिवृत्तसंशयः । किं पूर्वो
क्त आतिवाहिको मुख्यो वा? एवमुत्तरोक्त आतिवाहिको मुख्यो वेति।
मुख्यस्यापि प्रथमप्राप्तेर्मुख्यस्याप्युत्तरप्राप्तेश्च सम्भवात् । न चात्र
विशेषहेतुरस्ति, येन पूर्वप्राप्यस्यातिवाहिकत्वसिद्धिरुत्तरप्राप्यस्य च
मुख्यत्वसिद्धिरिति भावेनाक्षिपति— कुत इति ॥ पूर्वोक्तस्यातिवाहि
कत्वसिद्धिरुत्तरोक्तस्य मुख्यत्वसिद्धिश्च कुत इत्यर्थः । प्राप्यत्वलिङ्ग
स्य सावकाशत्वसम्भवादिति भावः । एतत्परिहाराय सूत्रं पठित्वा--
तत्र पञ्चम्याः सप्तम्यर्थत्वं तदित्यस्य बुद्धिस्थपरामर्शित्वं तन्त्रावृत्तिं
चाभिप्रेत्य व्याचष्टे—उभयेति । तुरवधारणेऽपिः समुच्चये । यथेत्यादौ
तथेत्यन्ते चोपस्कर्तव्यम् । वायुगमनमिति बुद्ध्या विविच्य प्रथममित्य
त्रापि सम्बध्यते । उत्तर इति पूर्वोत्तरयोरन्वेति । उक्तस्येत्युभयत्र शे
षः । आतिवाहिकस्येति भावप्रधानम् । मुख्यस्याप्युपलक्षकमेतत् । धु
१०६० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
पूर्वोक्त आतिवाहिकः परो वेति व्यामोहे उत्तरे दिव
स्पतिरिति विशेषणात्पूर्वत्रातिवाहिकस्यैव सिद्धेः ।
( ३ ) ब्रह्मतर्के च—
उत्क्रान्तस्तु शरीरात्स्वाद्गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽऽतिवाहिकः ॥
ततोऽहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा ।
तेरित्थेतद्व्यामोहे हेतुत्वेनान्वेति । तथा चेत्थं योजना—यथा ‘स वा
युमागच्छति’ इति ‘प्रथमं’ पूर्वे ‘वायुगमनं’ वायोः प्राप्तिः ‘उच्यते’
श्रूयते तथा ‘अन्तेऽपि’ उत्तरत्रापि ‘उत्क्रान्तो विद्वान्’ इति वायुग
मनश्रुतेः ज्ञानिप्राप्यवायुत्वस्य उभयत्र समानत्वात्पूर्वोक्त आतिवाहि
कः परो मुख्यो वा ? उत्तरे उत्तरत्रोक्तः परः आतिवाहिको वेति ‘व्या
मोहे’ सन्देहे ‘उत्तरे’ उत्तरस्मिन् दिवस्पतित्वविशेषणलिङ्गादुत्तरो
क्तस्य मुख्यत्वस्यैव सिद्धेः पूर्वोक्तस्यातिवाहिकत्वस्यैव सिद्धेरिति ।
अस्य पूर्वोक्तस्त्वातिवाहिको वायुरिति पूर्वप्रतिज्ञयाऽन्वयः । केचित्तु-
सूत्रे ल्यब्लोपनिमित्ता पञ्चमी व्यामोहं निराकृत्येति । भाष्येऽपि व्या
मोह इति प्रथमान्तम् । तस्य नञाऽध्याहृतेनान्वय इत्याहुः । अनेन—
‘उभयव्यामोहात्’ ‘यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमाग
च्छति’ ‘उत्क्रान्तो विद्वान्’ इत्युभयविधवाक्यादुभयत्रा
दावन्ते च प्राप्ये वायौ प्रत्येकं मुख्यत्वातिवाहकत्वोभयकोटिकव्या
मोहे सन्देहे प्रसक्तेऽपि तस्माद्दिवस्पतित्वविशेषणात्तस्योत्तरोक्तस्य
तत्सिद्धेर्मुख्यत्वसिद्धेस्तस्य पूर्वोक्तस्यातिवाहिकत्वसिद्धेश्च पूर्वोक्त
आतिवाहिक एवेति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु उत्क्रान्तो ज्ञानी
हरिमधिगच्छन् ‘अन्ततः’ अन्ते विद्युतमेव प्राप्नोति । कथं वरुणाव
राया विद्युतोऽन्ततो गम्यत्वमित्यतो विद्युत्स्वरूपमाह—द्यौरिति ।
‘द्यौः’ भारत्येव ‘विद्युत्’ तच्छब्दवाच्या तस्याः पतिं वायुं प्राप्य
‘तेनैव’ तन्मुखेनैव परं ब्रह्मप्राप्नोति, न तु तदनन्तरं प्राप्यान्तरम
स्तीति ॥
( ३ ) नन्वस्तूत्तरस्य मुख्यत्वं, तथाऽपि पूर्वोक्तस्यातिवाहिकत्वा
निश्चयः । मुख्यस्यैवोभयत्रावस्थानसम्भवादित्याशङ्कां परिहर्तुं स
र्वे मार्गे स्मृत्या दर्शयति—ब्रह्मतर्के चेति ॥ चोऽवधारणे । समुच्चये
च । सर्वोऽपि मार्ग उक्तः शङ्का च परिहृतेति वाक्यशेषः । स्मृतौ तुश
[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०६१
तडितं वरुणं चैव प्रजापं सूर्यमेव च ॥
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्॥ इति ॥ ५ ॥
--
५. अधिकरणम् ॥
( १ ) सू— ॐ ॥ वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ॐ ॥ ६ ॥
प्रकारान्तरेण तत्रतत्रोच्यमानत्वाद्वायोरपि परतो
ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्कनीयम् । विद्युत्प
ब्दः पूर्वोक्ताद्विशेषमाह । 'स्वाच्छरीरात्' स्वाभिमन्यमानजडदेहादु
त्क्रान्तो ज्ञानी प्रथममर्चिषमेव गच्छतीत्यन्वयः । द्वितीयस्तुशब्दोऽर्चि
षोऽग्निपुत्रत्वद्विरूपत्वलक्षणविशेषद्योतकः । 'ततः' तदनन्तरं 'हि'
प्रसिद्धौ । 'वायोः' मुख्यस्य पुत्रं गच्छतीत्यन्वयः । तस्य नाम स्मा
रयति—य इति । यो नाम्ना आतिवाहिकः प्रवहः प्रसिद्धोऽसौ वायु
पुत्रः इह द्वितीयप्राप्यत्वेन विवक्षित इत्यर्थः । 'पूर्वपक्षं' शुक्लपक्षं
'उदक्' उत्तरायणं 'प्रजापं' दक्षं तत्संज्ञिकदेवतान्तरं वा । 'सो
मं' चन्द्रं 'वैश्वानरं' मूलाग्निं शौंशुमारचक्रप्राप्तेरुपलक्षकमेतत् ।
'ध्रुवं' ध्रुवराजं 'देवीं दिवं' भारतीं ततः परं वायुं 'परं' मुख्यं वा
युमिति वा । 'तेन' वायुना तद्द्वारा 'पुरुषोत्तमं' हरिं 'एति' प्राप्नो
तीत्यर्थः । एतीयन्ते गच्छतीत्यादौ च पर्यायधातुद्वयोपादानं मध्येऽ
पि सर्वत्र सम्बन्धज्ञापनार्थम् । चापितथाशब्दाः परस्परसमुच्चये ।
इति ब्रह्मतर्क इत्यन्वयः ॥ ४ ॥
॥ इति आतिवाहिकाधिकरणम् ॥
--
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुख्यवायोरन्तिमत्वं समर्थ्यते । परब्रह्मणोऽर्वा
क् वायोरन्यः प्राप्योऽस्तीति पूर्वपक्षं तन्निषेधरूपं सिद्धान्तं च दर्शय
न् सूत्रमुपन्यस्यति—वैद्युतेनेति ॥ तत इत्यस्यार्थमाह—प्रकारान्तरेण
तत्रतत्रोच्यमानत्वादिति । 'तत्र' श्रुत्यादौ मार्गे 'प्रकारान्तरेण' ता
रतम्यक्रमं विहाय सोमानन्तरं तदवरस्याग्नेरिन्द्रानन्तरं ध्रुवस्य प्राप्तेः
प्रतिपाद्यमानत्वादित्यर्थः । तत इत्यस्यार्थान्तरमाह—वायोरपि परत
इति । ऊर्ध्वमित्यर्थः । न केवलमर्चिरादेः परत इत्यपेरर्थः । अपीत्यनेन
१०६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
तिना वायुनैव ' स एनान् ब्रह्म गमयति' (छा.५-१०-२०)
इति ब्रह्मगमनश्रुतेः ।
( २ ) विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।
कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ॥
तथाऽभ्युपगमे बाधकाभावादिति पूर्वपक्षे युक्तिरपि सूचिता । तत इ
त्यस्यैव पुनरर्थान्तरमाह—ब्रह्मण इति । परेत्यादौ ग्राह्यम् । ' अर्वाक् '
अधस्तात् । सूत्रे तत इत्यनन्तरं अध्याहार्यं प्रतिज्ञाशेषं दर्शयति—ग
न्तव्योऽस्तीति न शङ्कनीयमिति । प्राप्यः कश्चिद्वर्तत इति नाक्षेप्यमि
त्यर्थः । किन्तु वायुरेव अन्तिमप्राप्य इति शेषः । यद्वा—विद्युत्पतिना
वायुनेत्यात्राप्याकृष्यते । तत्र तृतीया प्रथमार्थे । गन्तव्य इत्यस्ति । अ
न्तिम इति शेषः । तथा च किन्तु विद्युत्पतिः वायुरेव अन्तिमप्राप्य इ
ति प्रतिज्ञाशेषस्सिद्धः । एवं सूत्रेऽपि विपरिणामेन प्रतिज्ञासिद्धिरिति
ध्येयम् । कुतो न शङ्कनीयमित्यतो ब्रह्मप्राप्तिरिति पदाध्याहारेण वैद्यु-
तेनेत्यंशं सावधारणं कृत्वा व्याचष्टे—विद्युदिति । ब्रह्मगमनमिति बु-
द्ध्या विविच्य अत्रापि सम्बध्यते । तथा च विद्युत्पतिना वायुनैव ' ब्र-
ह्मगमनम्' तत्प्राप्तिर्भवतीत्यर्थः । यत इति शेषः । न तु द्वारान्तरं मध्ये
अपेक्षितमित्येवकारार्थः । विद्युत्पतिनेत्यनेन विद्युतो भार्या अयं वैद्यु-
त इति वृत्तिर्दर्शिता । ब्रह्मप्रापकत्वं वायोः कुत इत्यतः तच्छ्रुतेरित्यंशं
व्याचष्टे—स इति । वायुनेत्येतत् विपरिणामेनात्राप्यन्वेति । तथा च
वायोरेव ' स एनान्' इति ब्रह्मप्रापकत्वश्रुतेरित्यर्थः । अनेन सूत्रे हेत्वं-
शे वैद्युतेनेत्यस्य पञ्चम्यन्ततया विपरिणामेनान्वयो वा तत इत्यस्य
आवृत्त्या अन्वयो वा दर्शितः । 'सः' वायुः 'एनान्' अप्रतीकालम्ब-
नान् परं ब्रह्म प्रतीकांस्तु कार्यं नयतीति छन्दोगश्रुत्यर्थस्तु प्रागेवोक्तः॥
( २ ) ननु वायोरिव अन्यस्यापि ब्रह्मप्रापकत्वे अन्तिमत्वं सम्भव-
तीत्यत आह—विद्युदिति ॥ ' विद्युत्पतिः' भारतीभर्ता । न श्रीरपि पृ-
थग्गन्तव्येति भावेन प्रयुक्तस्य एवशब्दस्य व्यावत्र्यमाह—न चेति ।
चोऽवधारणे । साक्षादिति शेषः । तुशब्दार्थो वा । कुतो नेत्यत आह—
कुत इति । 'प्राणनायकं' इन्द्रियेश्वरं 'तं' वायुमृते तदन्यस्य जीव-
स्य 'शक्तिः' ब्रह्मगमयितृत्वसामर्थ्यं 'कुतो भवेत्' न कुतोऽपीत्यर्थः।
अत्र विशेषः—
[ अधि - ६. सू - ७. ] दीपिकासहितम्. १०६३
इति बृहत्तन्त्रे ॥ ६ ॥
-:*-:-
६. अधिकरणम् ॥
( १ ) सू—ॐ ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥ ॐ ॥ ७ ॥
'स एनान् ब्रह्म गमयति' ( छा. ५-१०-२.) इति का-
र्यं ब्रह्म गमयतीति बादरिर्मन्यते ।
( २ ) ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात्क्वचित् ॥
यद्यपि ब्रह्मदृष्टिस्स्याद्ब्रह्मलोकमवाप्नुयात् ॥
विश्वाद्या अनिरुद्धाद्याः ते द्विधा सम्प्रकीर्तिताः ।
विष्णुरूपास्तदन्ये च तान् सर्वान् याति मोक्षगः ॥
तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः ।
ते वायुं प्रापयन्त्येनं स वायुं स हरिं पृथक् ॥
विश्वादिरूपं तुर्यश्च वासुदेवश्च नापरः ।
इति सप्तमस्कन्धतात्पर्योक्तोऽ
१०६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
इत्यध्यात्मवचनात्तस्यैव गत्युपपत्तेः ॥ ७ ॥
( ३ ) सू—ॐ ॥ विशेषितत्वाच्च ॥ ॐ ॥ ८ ॥
‘ यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मु
खं प्राप्नोति ब्रह्माणं चतुर्मुखम् ’ इति कौषारवश्रुतौ ॥ ८ ॥
( ४ ) सू—ॐ ॥ सामीप्यात्तु तद्व्यपदेशः ॥ ॐ ॥ ९ ॥
‘ ब्रह्मविदाप्नोति परम् ’ ( तै. २-१० ) इति तद्व्यपदेश
परप्राप्त्यनुपपत्तौ देवभिन्नत्वे सति बद्धत्वादिति युक्तिरुक्ता भवति ।
तथा च युक्तिबलाद्ब्रह्मश्रुतेर्मुख्यार्थोऽङ्गीकार्य इति भावः । यद्वा—
सूत्रे उपपत्तेरित्यनन्तरं चेत्याकृष्यत इत्याशयेन तदर्थतया वचनादि
त्युक्तम् । तस्य च गतेर्वचनात् स्मृत्युक्तत्वाच्चेत्यर्थ इति ध्येयम् । स्मृ
त्यर्थस्तु—यद्यपि देवतरेषां ब्रह्मदृष्टिः स्यात्, तथाऽपि देवान् ‘ ऋते ’
विना को वा पुमान् ‘ कचित् ’ बन्धकाले चतुर्मुखमुक्तिपर्यन्तं परब्रह्म
‘ प्राप्नुयात् ’ प्राप्तुं शक्तः स्यात्, न कोऽपि । देवानां साक्षाद्ब्रह्मप्राप्ति
श्च देहलयानन्तरं मुक्तिदशायां वा ततःपूर्वं मानुषत्वेन जातानां देवा
नां उत्क्रान्त्यनन्तरं बन्धदशायामेवेति द्रष्टव्यम् । न च दृष्टिर्वैयर्थ्यम् ।
यतः सोऽधिकारी ‘ ब्रह्मलोकं ’ चतुर्मुखलोकमवाप्नुयादिति ॥
( ३ ) कार्यस्यैव प्राप्तौ न केवलं युक्तिः, नापि स्मृतिः साधिका,
किन्तु विशेषश्रुतिरपीत्याह सूत्रकृत्—विशेषितत्वाच्चेति ॥ तत्सूत्रं
व्याचष्टे—यदीति । ‘ यदि वाव ’ यद्यपि ‘ परं ’ परमात्मानमभिपश्य
ति, तथाऽपि देवभिन्नो ज्ञानी बन्धकाले चतुर्मुखाख्यमेव ब्रह्म प्राप्नोती
त्यर्थः । प्रमाणबलादन्यज्ञानादन्यप्राप्तिरुचितेति हशब्दार्थः । द्विरुक्ति
स्तात्पर्यार्था । भाष्यस्य सूत्रेणान्वयः । प्राप्यब्रह्मणश्चतुर्मुखत्वेन वि
शेषितत्वाच्चेति सूत्रार्थः । अस्य हेतोः पूर्वप्रतिज्ञायाऽन्वयः ॥
( ४ ) ननु कथं परज्ञानिनः कार्यप्राप्तिरुच्यते । ‘ ब्रह्मविदाप्नोति प
रम् ’ इति परप्राप्तेरेव श्रुतत्त्वादन्यथा तद्विरोधादित्याशङ्कां परिहरत्सू
त्रं पठति—सामीप्यादिति ॥ अत्र तुशब्दस्य तद्व्यपदेशस्त्वित्यन्वयः ।
स चासौ व्यपदेशश्चेति विग्रहः हेतौ पञ्चमी चेत्यभिप्रेत्य व्याचष्टे—
ब्रह्मेति । ‘ व्यपदेशः ’ श्रुतिः ‘ समीपतः ’ समीपे कालत इति शेषः ।
तुशब्दः सामान्यश्रुतित्त्वरूपविशेषद्योतकः । कार्यप्राप्तेरिति शेषः । न
तु दूर इत्येवशब्दार्थः । ‘ परमपि ’ परब्रह्मापि न केवलं कार्यमित्यपि
शब्दार्थः । अपीति एवेति च तुशब्दस्यार्थान्तरकथनम् । इतीत्यनन्तरं
[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०६५
स्तु समीपत एव परमपि प्राप्नोतीत्येतदर्थ एव ॥ ९ ॥
(५) कदा ?
सू- ॐ ॥ कार्यात्यये तदध्यक्षेण सहानः परमभिधानात् ॥ ॐ ॥ १०॥
'ते ह ब्रह्माणमभिसम्पद्य यद्वैतद्वितीयनेऽथ सह ब्रह्म
णा परमभिगच्छन्ति' इति सौपर्णश्रुतेर्महाप्रलये तद्
ध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ १० ॥
वक्तीति न विरोध इति वाक्यशेषः । न तु चतुर्मुखप्राप्तिं प्रतिषेध
ति, नापि परब्रह्मप्राप्तिं ब्रूते इत्येवशब्दार्थः । तथा चेत्थं योजना- यत
स्तद्द्वयपदेशा 'ब्रह्मविदाप्नोति परम्' इति श्रुतिस्तु 'सामीप्यात्' का
र्यपरप्राप्त्योः कालसामीप्यनिमित्तादेव प्रवृत्ता ज्ञानी कार्यप्राप्तेः समी
पकाल एव कार्यं प्राप्याचिरेणैव परमपि प्राप्नोतीत्येतदर्थमेव वक्ति, न
तु कार्यप्राप्तिं प्रतिषेधति, अवधारणशून्यत्वात्, नापि प्रथमत एव प
रप्राप्तिं ब्रूते तच्छब्दाभावादिति यावत् । अतो न तद्विरोधः कार्यप्रा
प्तिवचनस्येति । सामान्यश्रुतेः 'यदि ह वा' इति विशेषश्रुत्या बाधोप
पत्तेरिति भावः ॥
(५) ननु समीपत एव परं ब्रह्म प्राप्नोतीति कोऽर्थः । प्रलयादर्वा
क्प्रलय एव वा । नाद्यः । प्रथमं परप्राप्तौ बाधकत्वेनोक्तस्य बद्धत्वस्यात्रा
पि बाधकत्वसाम्यात् । तथात्वे वा प्रथममेव परप्राप्त्युपपत्तेः । न द्वि
तीयः । विशेषप्रमाणाभावादिति भावेन पृच्छति- कदेति ॥ कस्मिन्
काले परं प्राप्नोतीत्यर्थः । तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे- का
र्यात्यय इति । श्रुतेरित्यनेनाभिधानादित्यस्य महाप्रलये इत्यनेन कार्या
त्यय इत्यस्य ब्रह्मणत्यनेन तदध्यक्षेनेति पदस्य चार्थ उक्तो भवति ।
गच्छतीति शेषोक्तिः । अनेन सूत्रे ज्ञानी 'कार्यात्यये' सकलकार्याणां
विनाशरूपप्रलये 'तदध्यक्षेण' तेषां कार्याणां स्वामिना चतुर्मुखेन
सह 'अतः' चतुर्मुखात्तद्द्वारा 'परं' सर्वोत्तमं ब्रह्म गच्छतीत्यभ्युप
गम्यते । अतो नोक्तविकल्पावकाशः, द्वितीयपक्षाङ्गीकारात् । न च
बद्धत्वविरोधः । प्रलये ज्ञानिनां लिङ्गशरीरान्मुक्तत्वेन तदभावादिति
भावः । न च तत्प्रमाणाभावः 'अभिधानात्' 'ते ह' इति श्रुतेरिति
सूत्रार्थ उक्तो भवति । सूत्रे तदध्यक्षेनेत्युक्तिप्रयोजनं चतुर्मुखस्य का
र्यप्रपञ्चाधिकृतत्वात्तद्ब्रह्मजिगमिषूणां तेनैव सहगमनं युक्तम् । न तम
तिहायेति युक्तिसूचनमिति तत्त्वप्रदीपेऽभिहितम् । श्रुत्यर्थस्तु--'ते'
१३४
( ६ ) सू— ॐ ॥ स्मृतश्च ॥ ॐ ॥ ११ ॥
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ॥ इति ॥ ११ ॥
( ७ ) सू— ॐ ॥ परं जैमिनिर्मुख्यत्वात् ॥ ॐ ॥ १२ ॥
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयती
ति जैमिनिर्मन्यते ॥ १२ ॥
( ८ ) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ १३ ॥
देवेतरज्ञानिनः 'ब्रह्माणं' चतुर्मुखं 'अभिपद्य' प्राप्य 'यदा' यत्काले
एतत्कार्यं विलीयते 'अथ' तदा प्रलयकाले कार्यब्रह्मणा सह परं ब्रह्म
'अभि गच्छन्ति' प्राप्नुवन्तीति ॥
( ६ ) स्मृत्याऽप्येतमर्थं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—
स्मृतेश्चेति ॥ न केवलमभिधानादिति चशब्दार्थः । परे परमात्मनि म
नो येषां ते परात्मानः 'सर्वे ते' ज्ञानिनः 'परस्य' ब्रह्मायुषः 'अ
न्ते' ब्रह्मणो संवत्सरशतानन्तरं 'प्रतिसञ्चरे' प्रलये संप्राप्ते सति
तदा 'ब्रह्मणा' चतुर्मुखेन सह 'परं पदं' ब्रह्म प्रविशन्तीति स्मृत्यर्थः ।
इति स्मृतेरित्यन्वयः । स्मृतेरित्यस्य कार्यात्यय इति प्रकृतसाध्येना
न्वयः । इति ज्ञायत इति शेषः ॥
( ७ ) पूर्वपक्षान्तरं सूचयत् सूत्रमुपन्यस्यति—परमिति ॥ अत्र
मुख्यत्वादिति हेतुं व्याचष्टे—ब्रह्मशब्दस्येति । तत्रैवेति । परब्रह्मण्येवे
त्यर्थः । अन्यत्रामुख्यत्वादित्येवशब्दार्थः । परमिति साध्यवाक्यं सो
पस्करं व्याचष्टे—परमेवेति । 'स एनान् ब्रह्म गमयति' इति पूर्वभा
ष्यमिहापि सम्बध्यते । तच्चावर्तते । एवकारो भिन्नक्रमः । अर्थ इत्य
ध्याहारः । तथा च 'स एनान् ब्रह्म गमयति' इत्यत्र वाक्ये 'सः'
वायुरेनान् परं ब्रह्म गमयतीत्येवोच्यते, न कार्यमिति जैमिनिराचार्यो
मन्यते इति योजना ॥
( ८ ) ननु ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि प्रागुक्तोपपत्तिश्रुति
स्मृतिविरोधात्तद्ग्रहणानुपपत्तेरमुख्यार्थकल्पना युक्तेत्याशङ्कां परिहर
त्सूत्रमुपन्यस्यति—दर्शनाच्चेति ॥ अत्र परमित्येतत्परस्येति विपरि
णामेनानुवर्तते । तेनैवार्थेन चशब्दस्यान्वयः । साध्यसमुच्चयेऽपि चश
ब्द इति भावेन सूत्रं व्याचष्टे—दृष्टत्वाच्चेति । चोऽवधारणे । परब्रह्म
णश्चेत्यन्वेति । ज्ञानिभिरिति शेषः । अस्य परमेवेति पूर्वेणान्वयः । अ
[ अधि - ६. - सू - १५ . ] दीपिकासहितम्. १०६७
दृष्टत्वाच्च परब्रह्मणः ॥ १३ ॥
( ९ ) सू--ॐ ॥ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ ॐ ॥ १४ ॥
न हि कार्ये प्रतिपत्तिः प्राप्नुवानीत्यभिसन्धिश्च ॥ १४ ॥
( १०) यदुपास्ते पुमान् जीवन्त्यत्प्राप्तुमभिवाञ्छति ।
यच्च पश्यति तृप्तस्सन् तत्प्राप्नोति मृतेरनु ॥ इति पाद्मे ॥
( ११) सू—ॐ ॥ अप्रतीकालम्बनान्नयतीति बादरायण उभ
यथा च दोषात्तत्क्रतुश्च ॥ ॐ ॥ १५ ॥
नेन ज्ञानिभिः श्रवणादिसाधनैरपरोक्षतया परब्रह्मण एव ‘दर्शनात्’
ज्ञातत्वात् अन्यस्यादृष्टत्वाद्वायुरस्तान् परं गमयतीत्युपपन्नमिति सू-
त्रार्थ उक्तो भवति ॥
( ९) हेत्वन्तरेण परप्राप्तिरेवोपपन्नेत्येतमर्थं प्रतिपादयत्सूत्रमुप
न्यस्यति--न चेति ॥ अत्र चो
१०६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
( १२ ) प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् ।
न तु व्याप्तया क्वापि प्रतीकालम्बनास्तु ते ॥
अप्रतीका देवतास्तु ऋषीणां शतमेव च ।
राज्ञां च शतमुद्दिष्टं गन्धर्वाणां शतं तथा ॥
सप्रतीकाश्चतुर्मुखमप्रतीकाः परमिहैते गच्छन्ति ॥
'प्रतीकं देहः' इत्यादिश्रुतिस्मृतिसूचकश्च ।
इतीत्यनन्तरं स इति श्रुतेरर्थ इति शेष इति भावेन सूत्रं व्याचष्टे—
प्रतीकमिति । 'स एनान् ब्रह्म गमयति' इति पूर्वभाष्यमिहापि सम्ब
ध्यते । प्रथमेतिशब्दात्परोऽर्थशब्दोऽध्याहार्यः। गारुडवचनादित्यस्य आ
वृत्त्या उभयत्रान्वयः । तथा च इत्थं योजना—'स एनान् ब्रह्म गमय
ति' इत्यत्र वाक्ये 'सः' वायुः 'एनान्' अप्रतीकालम्बनान् परं ब्रह्म
'गमयति' नयति । अन्यांस्तु कार्यं नयतीत्युच्यत इति भगवन्मतम् ।
कुत एतत् ? उभयत्रोक्तदोषात् । सर्वेषां कार्यप्राप्तिरेव, सर्वेषां परप्रा
प्तिरेवेत्यन्यतरनियमपक्षे गत्यनुपपत्त्यादीनां ब्रह्मशब्दामुख्यत्वादीनां
च दोषाणामुक्तत्वात् व्यवस्थयोभयप्राप्तिपक्षे च दोषाभावाच्च । न च
पक्षद्वयोक्तदोषापातः । गारुडवचनात् अप्रतीकालम्बनान् परं नयति,
अन्यान् कार्यं नयतीत्यवगमात् प्राप्तेऽर्थे च दोषाणां यथा कथं चित् प
रिहर्तव्यत्वादिति भावः । न च क्रमं विहाय यथेष्टं गमनमस्त्विति वाच्य
म् । चशब्दबोधित 'क्रमानुरागी' इतिश्रुतेः । न च 'यत्प्राप्तुमभिवाञ्छ
ति तत्प्राप्नोति' इति वचनादैच्छिक्यैव प्राप्तिः न क्रमापेक्षेति वाच्यम्।
'स यथाकामो भवति' (बृ. ६-४-५.) इति बृहदारण्यकश्रुतेस्तत्सिद्धेः ।
न चात्र उपासनानुक्तिः, यत उपासनं कर्मपदवाच्यमेव । न च क्रमो
ऽपि सौकर्यरूप एव, न योग्यतारूप इति वाच्यम् । चशब्दसूचितात्
'प्रतीकं देहः' इत्यादिगारुडवचनात् 'सप्रतीकाश्चतुर्मुखम्' इति व
चनाच्च योग्यतारूपत्वेनैव तस्य निश्चितत्वादिति । एवमेव सूत्रयोजना
ऽपि द्रष्टव्या ॥
( १२ ) अधिकारिणो द्विविधाः । प्रतीकालम्बनाप्रतीकालम्बनभेदा
त् । तत्रान्योन्याश्रयदोषपरिहारायाद्यान् लक्षणमुखेन दर्शयति—प्र
तीकमिति ॥ 'देहो' देहादिः प्रतीकमिति 'उद्दिष्टः' अभिहितः । आ
दिशब्दाच्चक्षुरादीन्द्रियं गृह्यते । तत्र देहादावेव एषां ब्रह्मदर्शनं जाय
ते । न तु 'क्वापि' काले 'व्याप्ततया' सर्वत्र हरेर्दर्शनमस्ति ते प्रती
[ अधि - ६. सू - १५. ] दीपिकासहितम्. १०६९
एतेऽधिकारिणो व्याप्तदर्शिनोऽन्ये न तु क्वचित् ।
अयोग्यदर्शने यत्नाद्भ्रंशः पूर्वस्य चापि तु ॥
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु ।
स्वदेहे ब्रह्मदृष्ट्यैव गच्छेद्व्रह्मसलोकताम् ॥
ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ।
कालम्बना इत्युच्यन्ते । तान् दर्शयितुं प्रतिजानीते—अप्रतीका इति ।
अप्रतीकालम्बनास्त्वित्यर्थः । उच्यन्ते इति शेषः । तान् दर्शयति—दे
वता इति । शतं चेत्युभयत्रान्वयः । एवशब्दोऽन्यव्यावर्तकः । चौ स
मुच्चये । एवं तथेत्यपि । गन्धर्वादि च तदप्सरसां शतं चेति विग्रहः ।
गन्धर्वेष्वप्यष्टकं ग्राह्यम् । एतेषामप्रतीकत्वे हेतुमाह—एतेऽधिकारिणो
यतो व्याप्तदर्शिन इति । 'अन्ये' एतद्भिन्ना ऋषयो नरोत्तमाद्याः
क्वचिदपि काले व्याप्तदर्शिनस्तद्योग्या न भवन्तीत्यर्थः । 'तत्रैव' दे
हादावेव । न तु व्याप्ततयेत्यस्यैव विवरणमेतत् । नन्वयोग्यस्यापि य
त्नात्प्राप्तिसम्भव इत्यत आह—अयोग्येति । अयोग्यं च तद्दर्शनं चेति
कर्मधारयः । द्रष्टुमयोग्यस्य दर्शनमिति वा । तादर्थ्ये सप्तमी । 'यत्ना
त्' श्रवणादिरूपयत्नकरणात् । 'पूर्वस्य' पूर्वोत्पन्नस्यापि दर्शनस्य
'भ्रंशः' तत्फलाभावो भवेदित्यर्थः । अयोग्यत्ववर्जनस्यापीतिकर्त
व्यतारूपत्वात्तदभावे फलाभावादिति । विशेषस्तुशब्दार्थः । उभये
षflo फलमाह—अप्रतीकाश्रया इति । ये 'अप्रतीकाश्रयाः' व्याप्तविष्णु
दर्शनाः 'हि' प्रसिद्धाः ते वैकुण्ठस्थमेव परं यान्ति न कार्यमात्रम् ।
प्रतीकालम्बनास्तु स्वदेह एव ब्रह्मदृष्ट्या ब्रह्मसलोकतामेव 'गच्छेत्'
गच्छेयुः । प्रलयादर्वाक् परब्रह्मसमानलोकत्वमेव प्राप्नुयुः, न तु वैकु
ण्ठमित्यर्थः । परब्रह्मणो वैकुण्ठेतरलोकेष्वप्यवस्थानात् । प्रलयपर्य
न्तं चतुर्मुखं प्राप्तास्तदुपदेशेन ज्ञानमुज्ज्वलीकुर्वन्तः वैकुण्ठेतरमहरा
दिलोकेष्वेवास्ते आसत इति भावः । न च—
ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् ।
तत्र मुख्याः हरिं यान्ति तदन्ये वायुमेव तु ॥
अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा।
स्थानमात्राश्रितास्ते तु पुनर्जातिविवर्जिताः ॥
इति वचनविरोधः । अत्र 'तत्र' ज्ञानिषु मुख्याः अप्रतीकालम्बनाः ह
१०७० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्ब-
नान् परं नयति ।
‘ स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति त-
त्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ’ ( बृ. ६-
४-५० ) इति श्रुतेश्च । अत्र कर्मोपासनमेव अन्यान्का
यै नयतीति भगवन्मतम् ॥ १५ ॥
( १३ ) सू—ॐ ॥ विशेषं च दर्शयति ॥ ॐ ॥ १६ ॥
‘ अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशा देवा वाव
सर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मनुष्या एव बहिः
रिं यान्ति, तदन्ये प्रतीकालम्बना वायुं, ‘अपक्वाः’ समाधिपरिपाक-
रहितास्तु हरिं वायुं वा न यान्तीत्येवं पारयोगिनां प्रथमतां वायुशब्दि-
तचतुर्मुखप्राप्तिनिषेधेऽपि स्थानपदोक्तमहर्लोकादौलोके किञ्चित्कालं
साधनमनुष्ठाय वायुद्वारा कालान्तरं चतुर्मुखप्राप्त्यङ्गीकारे विरो-
धाभावादिति भावः । अथ ‘संहारे’ सर्वकार्यात्ययरूपे प्रलये
प्राप्ते तु ब्रह्मणा चतुर्मुखेन सह ‘परमं पदं’ ब्रह्म गच्छेयुरित्यर्थः ।
‘सः’ ईश्वरो ‘यथाकामो भवति’ यदिच्छावान् भवति जीवोऽपि
तथाकामो भवति ‘तत्क्रतुर्भवति’ इत्थं करिष्याम्येवेति निश्चयरूप-
कामनावान् भवति । स जीवो ‘यत्क्रतुः’ यन्निष्ठावान् भवति ‘तत् ’
तादृशं तद्विषयमुपासनाख्यं कर्म कुरुते ततश्च ‘तदभिसम्पद्यते’ त-
दापरोक्ष्यवान् भवति अथ तत्प्राप्तिरूपफलं च ‘अभिसम्पद्यते’ प्रा-
प्नोतीति बृहद्भाष्यदिशा श्रुत्यर्थो ज्ञातव्यः ॥
( १३ ) यदुक्तं नेच्छानुसारण प्राप्तिः, अपि तु प्रतीकालम्बनादिक्रमे-
णैवेति, तन्न, केचिदप्रतीकालम्बनाः केचित्प्रतीकालम्बना इति नियमे
प्रमाणाभावेन यथेष्टमप्रतीकालम्बनत्वापादनस्यापि सम्भवादित्याश-
ङ्कां श्रुत्या परिहरत्सूत्रं पठित्वा तां श्रुतिमुदाहरति—विशेषं चेति ॥ उ-
च्यत इति शेषः । अन्तर्बहिस्सर्वत्रेति क्रमेण विभक्तान् ज्ञानिनः प्राधा-
न्यक्रमेण निर्दिशति—देवा इति । प्रतीकालम्बनेतरमनुष्योत्तमास्तु ब-
हिर्दृष्टय इत्यर्थः । चतुर्वेदशिखायां श्रुतमिति शेषः । अस्य सूत्रेणान्व-
यः । सूत्रार्थस्तु—‘चो’ यतश्चतुर्वेदशिखायां श्रुतं ‘अन्तःप्रकाशाः’
इति वाक्यमधिकारिणां ‘विशेषं’ अप्रतीकालम्बनत्वादिरूपं ‘दर्शय-
[अधि - ६. सू - १६.] दीपिकासहितम्. १०७१
प्रकाशाः' इति चतुर्वेदशिखायाम् ॥ १६ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य
तृतीयः पादः
*
॥ ॐ ॥
ति' प्रतिपादयति अतोऽप्रतीकालम्बनानित्यायुक्तं युक्तमिति ॥ ६ ॥
॥ इति कार्याधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना-
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि-
कायां चतुर्थाध्यायस्य तृतीयः पादः.
*
॥ ॐ ॥
१०७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
१. अधिकरणम् ॥
( १ ) भोगमाहास्मिन् पादे--
सू--ॐ ॥ सम्पद्याविहाय स्वेन शब्दात् ॥ ॐ ॥ १ ॥
' स य एवंविदेवंमन्वान एवं पश्यन्नात्मानमभिसम्पद्यै
तेनात्मना यथाकामं सर्वान् कामाननुभवति ' इति
सौपर्णश्रुतेः ' परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनि
ष्पद्यते ' ( छा. ८-३-४. ) इति च । 'एतं सेतुं तीर्त्वाऽ
१. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति - भोगेति ॥ मुक्तौ सूत्रकार इति शेषः।
अत्राधिकरणे मुक्तस्य ब्रह्मानतिक्रमेणैव भोग्यानुभवः साध्यते । तत्र
मुक्तौ ब्रह्मातिक्रम्यैव भोगान् भुङ्क्त इति पूर्वपक्षे सिद्धान्तयत्सूत्रं
पठति - सम्पद्येति । अत्र ' परं जैमिनिः ' इत्यतो ब्रह्मार्थकस्य परमि
त्यस्यानुवृत्तौ अविहायेत्यतः परं भोगान् भुङ्क्त इति शेषे आ विहाये
त्यपि पदच्छेदे अन्यथारूपमिति चाध्याहारे स्वेनेत्यतः परं रूपेण अ
वस्थानादित्युपस्कारे च ज्ञानी परं ब्रह्म सम्पद्य तदविहायैव भोगान्भु
ङ्क्ते । न चैवममुक्तत्वं , अन्यथारूपमविहाय सम्परित्यज्य स्वेन रू
पेणावस्थानादिति सूत्रार्थस्सम्पन्न इति भावेन तत्र ब्रह्म प्राप्य अविहा
य भोगान् भुङ्क्ते इत्येतत्कुत इत्यतः सम्पद्येत्यंशेन सूचितां तत्पदघ
टितां श्रुतिमुदाहरति - स इति । ' सः ' अधिकारी ' एवं ' उक्तप्रकारे
ण परमात्मानं विजानन् 'एवंमन्वानः ' विचारयन् अथ पश्यन् तत आ
त्मानं 'अभिसम्पद्य' प्राप्य ' एतेन ' परमात्मना सह सर्वान् काम्या
न् अनुभवतीति श्रुत्यर्थः । ब्रह्मानतिक्रम्याप्याविर्भूतस्वरूपत्वेन भोगो
मुक्तानामित्येतत्कुत इत्यत्रापि स्वेनेति सूत्रांशेन सूचितां तत्पदघटितां
श्रुतिमुदाहरति-परमिति । चस्समुच्चये । इतीत्यनन्तरं श्रुतिरित्त्यनुव
र्तते । व्याख्यातैषा श्रुतिर्दहरनये । नन्वेवं यदि ब्रह्मानतिक्रमेऽपि स्वरू
पेणाविर्भावस्तर्हि ' एतम् ' इति श्रुतिविरोध इत्यत आह - एतमिति ।
श्रुतिरित्त्यस्ति । चोऽप्यर्थः । तथा च यद्यपि ' एतम् ' इति श्रुतिरस्ति ।
तथाऽपि नोक्तस्य तद्विरोध इत्यर्थः । कुतो न विरोध इत्यत आह-
तत्रेति । यत इत्यादावुपस्कार्यम् । यद्वा--नामशब्दो हिशब्दार्थे । उ
च्यत इति शेषः । तथा च ' नाम ' यतः 'तत्र' श्रुतौ ' तत्प्राप्तये ' पर
मात्मप्राप्तये 'अन्यतरणं' संसारतरणमेवोच्यते, न तु ब्रह्मेतरणमत
[ अधि - २. सू - २. ] दीपिकासहितम्. १०७३
न्धस्सन्ननन्धो भवति’ (छा. ८-४-२.) इति च । त-
त्र तरणं नाम तत्प्राप्तयेऽन्यतरणमेव । ‘इमां घोराम-
शिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमो-
दत आनन्दी भवति' इति मौद्गल्यश्रुतेः ॥ १ ॥
--
२. अधिकरणम् ॥
( १ ) सू-ॐ ॥ मुक्तः प्रतिज्ञानात् ॥ ॐ ॥ २ ॥
मुक्त एवात्रोच्यते । ‘अहरहरेनमनुप्रविशत्युपसङ्क-
इत्यन्वयः । खल्वर्थे वा नामशब्दः । अनेन न केवलं परमात्मा, किन्तु
तस्मादपहतपाप्मन आत्मनस्तत्प्रसादात्पूर्वं संसृतौ बद्धस्सन् अवि-
द्यावृतः सन् यस्तदन्यो जीवः सोऽपि ‘एतं सेतुं’ जगदाश्रयं हरिं ग-
न्तुं अन्यदविद्यादिकं तीर्त्वा ‘अनन्धः’ अदोषवान् भवतीति छन्दोग-
श्रुत्यर्थ उक्तो भवति । कुत इत्यत आह--इमामिति । यत इति शेषः ।
अस्य तत्रेत्यादिनाऽन्वयः । ‘अशिवां’ अमङ्गलां दुःखकरत्वाद्घोरां भ-
वाख्यनदीं तीर्त्वा ‘सेतुं’ विश्वाश्रयमेतं परमात्मानं प्राप्यैतेन सेतुनै-
व सह तमविहायैव ‘मोदते’ अप्रकृष्टविषयोत्थं सुखमाप्नोति ‘प्रमो-
दते’ प्रकृष्टविषयोत्थं सुखमाप्नोति ‘आनन्दी’ स्वरूपसुखाभिव्यक्ति-
मान् भवतीति श्रुत्यर्थः। मोदते इत्यादिवाक्यशेषो विषयभोगे प्रमाणत्वे-
नोक्तः । त्रिगृहीतस्य श्रुतिरित्यस्य सौत्रशब्दपदोकेत्यध्याहृतेनान्वयः।
न चैवं टीकाविरोधः । विशेषाकारस्य सूत्रांशसूचितत्वात् । शब्दादि-
त्यस्यापि सूत्रांशत्वाच्च ॥ १ ॥
॥ इति संपद्याधिकरणम् ॥
--
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर्मुक्तत्वं सा-
ध्यते । ‘स तत्र पर्येति' इति श्रुत्युक्तोऽमुक्त एवेति पूर्वपक्षे सिद्धान्त-
यत्सूत्रं पठति--मुक्त इति ॥ अत्र मुक्त इति प्रतिज्ञांशं सावधारणं कृ-
त्वा व्याचष्टे--मुक्त इति । नामुक्त इत्येवकारार्थः । अत्रोच्यत इति
शेषोक्तिः । ‘अत्र’ सूत्रेनेति गृहीते ‘स तत्र पर्येति' इति वाक्य इत्य-
र्थः । कुत इत्यस्यापीदमेवोत्तरम् । अत्र मुक्त इति सप्तमी । उपपन्नो
१३५