सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

१०३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
( ३ ) सू—ॐ ॥ तदपीतेस्संसारव्यपदेशात् ॥ ॐ ॥ ८ ॥
‘समावेतौ प्रकृतिश्च परश्च नित्यौ सर्वगतौ नित्य
मुक्तौ असमावेतौ प्रकृतिश्च परश्च विलीनो हि प्रकृ
तौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति
सौपर्णश्रुतेः ॥ ८ ॥
( ३ ) नैतावतेत्युक्तसाध्ये हेतुतया सूत्रं पठित्वा सूत्रव्याख्यानस्य
श्रुत्यैव करणात्तद्विहाय सूत्रोपात्तश्रुतिमेवोदाहरति—तदिति ॥ एता
वित्युक्तावेव दर्शयति—प्रकृतिश्चेति । ‘नित्यौ’ देहतोऽपि नित्यौ ।
समावेतावित्यारभ्य नित्यमुक्तावित्यन्तेन नित्यमुक्तत्वादिनैव साम्यमि
त्यर्थे प्रमाणमुक्तं भवति, न तु सर्वसाम्यमिति प्रतिज्ञायाम् । तच्चैतौ मो
चकत्वामोचकत्वरूपविरुद्धधर्माधिकरणत्वे च प्रमाणत्वेन श्रुतिशेषमु
दाहरति—असमावेताविति । ‘हि’ यतः ‘परमे’ परमात्मनि ‘विली
नः’ अन्यैरदृश्य एव तं प्राप्तः ‘अमृतत्वं’ मुक्तिमेतीति । अनेन सौत्र
तच्छब्दः परमात्मपरोऽपीत्युक्तं भवति । विलीन इत्यनेनापीतिशब्दो
व्याकृतः । श्रुतेरिति व्यपदेशपदार्थोक्तिः । अनेन—तदपीतेरिति हेतौ
पञ्चमी । संसारेति तन्निवृत्तेरप्युपलक्षकम् । अनुवृत्तचशब्देन नेति
लभ्यते । तथा च तस्यां प्रकृतौ अपीतेः लयात्संसारव्यपदेशात् ‘वि
लीनो हि’ इति श्रुतौ संसारप्राप्त्युक्तेः तथा तस्मिन् परमात्मनि अ
पीतेः अमुक्तैरदर्शनविशिष्टप्राप्तेरमृतत्वोक्तेः मोचकत्वामोचकत्वरूप
विरुद्धधर्मवतोः प्रकृतिपुरुषयोर्न सर्वधर्मेण साम्यम्, किन्तु नित्यमु
क्तत्वादिनैवेति सूत्रार्थ उक्तो भवति । यद्वा—तदपीतेरिति षष्ठी । सं
सारपदं करणव्युत्पत्त्या तद्धेतुपरं भावप्रधानम् । तथा च तदपीतेः
संसारहेतुत्वोक्तेरित्यर्थः । संसारनिवृत्तिरूपमुक्तिहेतुत्वस्याप्युपलक्षण
मेतत् । तत्त्वप्रदीपे तु—तदापीतेरिति पठित्वा अपीतिरविज्ञातप्रवेशः
‘अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते’ इति वचनात् । आ समन्ता
दपीतिरापीतिः स्वपरोभयाविज्ञातप्रवेशः । तस्या इत्यर्थः । आङ्प्र
श्लेषाभावे ‘अप्ययोऽयं समुद्दिष्टः तदन्येषामदर्शनम्’ ( )
इति तत्त्वनिर्णयोदाहृतश्रुतिवचनात्प्रवेशस्यान्याविज्ञातत्वमेव प्रतीय
ते । पूर्वस्यानेन सावकाशत्वात् । तन्मा प्रत्यायीत्याङ्प्रश्लेषः । तथा
च तदा स्वस्याप्यविज्ञात एव प्रकृतौ प्रवेश इत्यर्थ इति व्याख्यातः ।

[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०३५
(४) सू–ॐ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ॐ ॥ ९ ॥
सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादि
प्रमाणाधिक्यं च ।
सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः ।
ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः ॥ इति
च तुरश्रुतिः ॥ ९ ॥
(५) सू–ॐ ॥ नोपमर्देनातः ॥ ॐ ॥ १० ॥
टीकाकृतोऽप्याङप्रश्लेषः अपीतिशब्देन चादर्शनविशिष्टा प्राप्तिरेवा
भिप्रेता, न तु प्रध्वंसः । प्रध्वंसस्तु प्रमाणान्तरगम्य इति तत्त्वनिर्णय
टीकोक्तिविरोधात् ॥
(४) हेत्वन्तरेण प्रकृतिपुरुषयोः सर्वसाम्यं प्रतिषेधत्सूत्रं
पठति—सूक्ष्ममिति ॥ अत्र पूर्वस्मात्तदिति विभज्यानुवृत्तमावर्तते । प्र
माणशब्दः परिमाणवाची

१०३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ]
अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
(६) देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।
उभयोरप्यबद्धत्वं तद्बन्धः परात्मनः ॥
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ।
प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ॥
ण्यं तन्मात्रनिष्ठत्वं तस्य 'अनुपमर्देन' अबाधेन तस्याः प्रकृतेः तेन प
रमेश्वरेण तेन नित्यमुक्तत्वादिन साम्यमस्त्येवेति सूत्रार्थ इत्यभिप्रे
त्य सूत्रं व्याचष्टे—अत इति । 'विशेषगुणाः' असाधारणगुणाः स्वा
तन्त्र्यादयः । तेषामनुपमर्देनेत्यस्य तेषामसाधारण्यस्यानुपमर्देनेत्य
र्थः । अन्यथा लक्ष्मीस्वातन्त्र्यादावपि विष्णुस्वातन्त्र्यादेरबाधादस
ङ्गतत्वापत्तेः । तन्मात्रनिष्ठत्वरूपासाधारण्यस्य तु अस्त्येव बाध इति
भावः । साम्यमस्तीति शेषः । अनेनैवशब्दस्यान्वयः ॥
(६) यदि प्रकृतेरीश्वरेण नित्यमुक्तत्वादिसाम्यं तर्ह्यस्त्येव विशे
षगुणासाधारण्योपमर्दः, प्रकृतेर्नित्यमुक्तत्वे तत एव स्वातन्त्र्यप्राप्तेरि
त्यत आह—देशत इति ॥ 'ईश्वरे' ईश्वरेण 'उभयोः' प्रकृतीश्वर
योः 'अबद्धत्वं' नित्यमुक्तत्वमित्यर्थः । अस्तीति शेषः । अपिः यद्यपि
तथाऽपीत्यर्थोऽबद्धत्वमित्यस्यानन्तरं योज्यः । नित्यमुक्तत्वादिसाम्ये
ऽपि न स्वातन्त्र्यादि प्रकृतेरित्याह—तद्बन्ध इति । स चासावबन्ध
श्च तद्बन्धः परमात्मनः परेशस्येति सामानाधिकरण्यम् । तथा च
यद्यप्युभयोरबद्धत्वमस्ति, तथाऽपि 'परमात्मनः' परमचेतनस्य 'प
रेशितुः' विष्णोः 'तद्बन्धः' अबद्धत्वमित्युक्तोऽबन्धः 'स्वत एव'
अपराधीन एव, न प्रकृतेरतो न तस्याः स्वातन्त्र्यादीत्यर्थः । अथ
वा—' तद्बन्धः' तस्याः प्रकृतेरबन्धः नित्यमुक्तत्वं 'परमात्मनो' ह
रेः सकाशादागतं, परस्य तु स्वत एवेति वैयधिकरण्येनान्वयः । प्रकृ
तेर्हर्यधीनाबद्धत्वे युक्तिमाह—सा चेति । 'चो' यतः 'सा' प्रकृतिः
'सदा हरिमुपास्ते' सदा हरिसमीपे तिष्ठति अतो नित्यमुक्तत्वं तस्या
इति भावः । यद्वा--प्रकृतेरबद्धत्वे उपासनात्रैय्यर्थ्यमित्यत उपासनं न
फलार्थं, किन्तु आदरादित्युक्तन्यायेन स्वाभाविकमित्याह—सा चेति।
चोऽवधारणे । स्वभावत इति शेषः । गुणान्तरेऽपि हर्यधीनत्वं प्रकृते
रित्याह--प्रकृतेरिति । 'गुणाः' ज्ञानानन्दाद्याः विष्णुना नियताः । न
केवलं प्रकृतेः, किन्तु 'प्राकृतस्य' ब्रह्मादेर्ये गुणाः 'ते तु' तेऽपि 'वि

[ अधि - ६. सू - ११. ] दीपिकासहितम्. १०३७
नियता नैव केनापि नियता हि हरेर्गुणाः ॥ इति भवि
ष्यत्पर्वणि ॥ १० ॥
(७) सू- ॐ ॥ अस्यैव चोपपत्तेरूष्मा ॥ ॐ ॥ ११ ॥
'द्विधा हीदमवहश्यते ऊष्मावदनूष्मावच्च । तत्रोष्मा
वत्परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति
न विजानन्ति । अथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न
ष्णुना नियताः ' तदधीना एवेत्यर्थः । स्वत एवेत्यत्र हेतुमाह--नैवे
ति । हिर्हेतौ प्रमाणप्रसिद्धौ वा । भविष्यत्पर्वणीति वचनाच्चोद्यपरि
हारादिति शेषः । अस्य तेषामनुपमर्देन साम्यं युक्तमेवेति पूर्वेणा
न्वयः ॥
(७) श्रुतिरूपयुक्त्यन्तरेण किञ्चित्साम्यं प्रतिपादयत्सूत्रं पठ
ति--अस्यैवेति ॥ अत्रोष्माशब्देन घ्राणाद्यविष

१०३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न
शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च '
इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्तेः ॥ ११ ॥
(८) सू— ॐ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ ॐ ॥ १२ ॥
'असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्ये
तेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति
यत्वमादायासाधारण्यं युज्यत इति ध्येयम् । अनूष्मावद्दर्शयितुं प्रति
जानीते-अथेति । आनन्तर्यार्थोऽयं शब्दः । उच्यत इति शेषः । प्रतिज्ञा
तमाह—प्रकृतिश्चेति । 'प्रकृतिः' श्रीः 'प्राकृतं' ब्रह्मादि । प्राकृतं रु
क्मिण्यादीति व्याख्यानं तु प्रकरणविरुद्धम् । चाद्यन्योन्यसमुच्चये ।
'यत' यस्मात् 'यत' प्रकृतिप्राकृतम् । उभयरूपत्वोपपादनाय भा
वाभावोक्तिः । चशब्दाः समुच्चये । सौपर्णश्रुतिश्चेति । न केवलं सा
म्यतदभावान्यथानुपपत्तिरूपयुक्तिरिति चशब्दार्थः । अनेन सूत्रे
ऊष्मा च ऊष्मावत्त्वप्रतिपादिका श्रुतिश्चेति चशब्दान्वयो दर्शितः ।
अस्येति पदे प्रातिपदिकार्थमाह—किञ्चित्साम्योपपत्तेरिति । देशका
लव्याप्तिनित्यमुक्तत्वादिसाम्यस्योपपत्तेरर्थे भवतीत्यर्थः । किञ्चित्सा
म्योपपादिका भवतीति यावत् । अतोऽप्यस्ति किञ्चित्साम्यमिति वा
क्यशेषः ॥
(८) किञ्चित्साम्यमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—प्रतिषेधा
दिति ॥ अत्र पूर्वपक्षांशेन प्रकृतिपुरुषयोः किञ्चित्साम्यमिति साध्या
ध्याहारमभिप्रेत्य प्रतिषेधक श्रुत्युदाहरणपूर्वकं पूर्वपक्षांशं व्याचष्टे—
असमो वेति । वैशब्दोऽवधारणे । 'परः' परमात्मा 'असम एव' न
तु केनापि प्रकारेण सम इत्यर्थः । कुत इत्यत आह—न हीति । 'हि'
यतो लोके कश्चित्पुरुषः 'एवं' परमात्मवत् न दृश्यते अत इत्यर्थः ।
असाम्यमेव विरुद्धधर्मोक्त्योपपादयति--सर्वे इति । 'एते' जीवाः
'अणवः' अपूर्णाः 'छिद्राः' दोषिणः । दोषमेव लेशतो दर्शयति—दे
हतो जायन्ते नश्यन्ति चेति । 'परः' परमात्मा तु देहतोऽपि न जाय
ते न म्रियते पूर्णः सर्वगतो निर्दोष इति चशब्दार्थः । तत्त्वप्रदीपे तु अ
णुत्वप्रतियोगिभूतं सर्वगतत्वं चशब्दार्थः छिद्रत्वमपूर्णत्वमित्युक्तम् ।
साम्येत्यतः प्राक् 'अथ परः' इत्यादिना परमेश्वरस्यैव नित्यसर्वगत
त्वादिकमुक्त्वा 'सर्वे ह्येतेऽणवः' इत्यादिनाऽन्येषां तदभावमुक्त्वा

[ अधि - ६. सू - १३. ] दीपिकासहितम्. १०३९
अथ परो न जायते न म्रियते पूर्णश्चैव भवति ' इति
चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न शरीराद्धि
साम्यं प्रतिषिध्यते ॥ १२ ॥
(९) कुतः ?
सू—ॐ ॥ स्पष्टो ह्येकषाम् ॥ ॐ ॥ १३ ॥
' अथातस्समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ
समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिलयो निय
तिरायतिश्चैकं ह्येवैतद्भवत्यथासमाः ब्रह्मेन्द्रो रुद्रः प्र
'असमो वा' इत्यनेनेत्युपस्कृत्य योजनीयम् । साम्यप्रतिषेधादिति । परमे
श्वरेणान्येषां किञ्चित्साम्यस्यापि प्रतिषिद्धत्वादित्यर्थः । साम्येत्यनेन
सूत्रे तद्वाचकस्य अस्येत्यस्यानुवृत्तिः सूचिता । परिहारांशं व्याच
ष्टे-नेति । न प्रकृतेर्भगवत्साम्यमत्र प्रतिषिद्ध्यत इत्यर्थः । किं तर्हीत्य
तः शारीरादित्यंशं व्याचष्टे—शारीरादिति । शरीरमात्रमधिकृत्य तद्
भिमानितया स्थिताच्छरीरकृतोत्पत्तिनाशयुक्ताच्चेत्यर्थः । हेतुगर्भवि
शेषणमेतत् । अत एव हेत्वर्थकहिशब्दः । जीवादिति शेषः । साम्य
मिति । ईश्वरस्येति शेषः । साम्यमित्यनेन सूत्रे साम्यस्येति शेषः ।
प्रतिषिद्ध्यत इत्यनेन शारीरादित्यनन्तरमपि प्रतिषेधादित्यस्यानुवृत्ति
श्च सूचिता । सूत्रभाष्ययोः शारीरादिति सावधारणं, न तु प्रकृतेरि
त्यवधारणार्थः । तृतीयार्थे पञ्चमीत्यवधेयम् ॥
(९) नन्वस्याः श्रुतेः सामान्यरूपत्वादत्र परमात्मनः शरीरेण सा
म्यं प्रतिषिध्यते, न प्रकृतेरिति कुत इत्याक्षिपत्ति—कुत इति ॥ एतत्परि
हाराय सूत्रं पठित्वा व्याचष्टे—स्पष्ट इति । 'हि' यतः 'एकेषां' मा
ध्यन्दिनायनानां समादिवादः स्पष्टोऽस्ति, अतो हरेश्चारीरेणैव साम्यं
प्रतिषिध्यते, न प्रकृतेरिति सूत्रार्थः । 'अथ' अनन्तरं 'अतः' प्रयोजन
सत्त्वाद्धरेः प्रसादाद्वा 'समाः' सर्वधर्मैः 'समासमाः' केन चिद्धर्मे
ण समाः सर्वधर्मैरसमाः चेतना इति शेषः । अभिधीयन्त इत्यनुषज्य
ते । प्रतिधर्मप्रदर्शनारम्भेऽथशब्दः । 'ब्रह्मणः' परब्रह्मणः 'रूपाणि'
अवतारगानि मत्स्यादीनि समानीत्यन्वयः । 'यैः' रूपैः 'नियतिः' नि
यमनं नियम्यत्वलक्षकमेतत् । उत्पत्तिस्थितिलयोन्नियतीति समस्तपा
ठेऽपि 'उन्नियतिः' नियमनं, 'सर्वो द्वन्द्वः' इत्येकवद्भावः । छान्दसो

१०४० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
जापत्तिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पित
रोऽसुरा यत्किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृ
तिर्वा समाऽसमा सैषा हि नित्या अजरा तद्वशा च '
इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ॥१३॥
(१०) सू- ॐ ॥ स्मर्यते ॥ ॐ ॥ १४ ॥
मत्स्यकूर्मवराहाद्याः समा विष्णोरभेदतः ।
ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समाऽसमा ॥ इ
ति वाराहे ॥ १४ ॥
—::—
नपुंसकत्वाभावः । ' आयतिः ' नियमनसाध्या प्रवृत्तिर्जगतो भवतीति
शेषः । उक्तमेवोपपादयति—एकमिति । ' हि ' यतः ' एतत् ' अव
तारजातं रूपैः ' एकं ' अभिन्नं भवतीत्यर्थः । ' असमाः ' चेतनाः । ' ब्र
ह्मा ' हिरण्यगर्भः ' प्रजापतिः ' दक्षः ये केचिदन्ये देवाः ' असुराः ' ' सु
रद्विषः इत्येतेऽसमा इत्यन्वयः । यत्किञ्चेदमिति विस्तरः । ' चरं ' चेत
नम् । ' अचरं ' अचेतनम् । समा च साऽसमा च समाऽसमा । पूर्वे
बहुवचनोक्तिः रूपबाहुल्यात् । नित्याऽजरेति साम्योपपादकम् । ' तद्व
शा ' ईश्वरवशेत्यसाम्योपपादकम् । ' हि ' यस्मात् । एकेषामित्यस्या
र्थमाह—माध्यन्दिनायनानामिति । समादिवाद इति शेषोक्तिः । वादो
वचनं, तथा च समवादोऽसमवादः समासमवादश्चेत्यर्थः । अस्य त
स्मादिति शेषेण शारीराद्धि साम्यं प्रतिषिद्धयत इति पूर्वसाध्येना
न्वयः ॥
(१०) न केवलं साम्यश्रुतेर्विशेषश्रुतिबलात्सङ्कोचः, किन्तु विशेष
स्मृत्याऽपीत्याह सूत्रकृत्--स्मर्यते चेति ॥ अत्र साम्यादिरित्यस्या
ध्याहारं चशब्दस्य स्मृतिसमुच्चायकत्वं पूर्वसाध्येनान्वयं चाभिप्रेत्य
सूत्राभिमतस्मृत्युदाहरणेन सूत्रं व्याचष्टे—मत्स्येति । आद्यशब्देना
न्येऽप्याविर्भावा गृह्यन्ते । विष्णोस्सर्वधर्मैः समा इत्यत्र हेतुः—अभे
दत इति । तुर्विशेषार्थः । चस्त्वर्थः । वाराहे पुराणे स्मर्यते चेत्यन्व
यः ॥ ६ ॥
॥ इति समनाधिकरणम् ॥

[ अधि - ८. सू - १६. ] दीपिकासहितम. १०४१
७. अधिकरणम् ॥
( १ ) सू—ॐ ॥ तानि परे तथा ह्याह ॥ ॐ ॥ १५ ॥
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते ।
( २ ) ‘सर्वे देवाः प्राणमाविश्य देवे मुक्ता लयं परमे यान्त्य
चिन्त्ये’ इति कौषारवश्रुतिः ॥ १५ ॥
--
८. अधिकरणम् ॥
( १ ) सू—ॐ ॥ अविभागो वचनात् ॥ ॐ ॥ १६ ॥
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे चतुर्मुखेतरदेवानां परमात्मनि लयः समर्थ्य
ते । न विरिञ्चेतरदेवानां परमात्मनि लयस्तत्प्रतिबिम्बत्वादिति पूर्व-
पक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—तानीति ॥ अत्र तानीत्यनेन ‘भूते-
षु’ इत्यत्र येषां देवानां भूतप्रवेशो निगदितस्तेषां सर्वेषां ग्रहणम् ।
प्राणद्वारेण लीयन्त इति शेष इत्यभिप्रेत्य सूत्रं व्याचष्टे—प्राणद्वारेणे-
ति । श्रुत्यन्तरोदितद्वारान्तरप्रवेशपूर्वकं भूतवृत्त्या प्राणशब्दवाच्यवि-
रिञ्चद्वारेणेत्यर्थः । सर्वाणि दैवतानीत्यनेन सम्यग्दर्शी देवभाग एव स-
ङ्गृहीतो वेदितव्यः । तथैव तत्त्वप्रदीपोक्तेः । अनेन ऋष्यादीनामपि प्रा-
णद्वारा हरिप्रवेश उक्तो भवति । पर इत्यस्यार्थः—परमात्मनीति । त-
था चेत्थं योजना । सर्वाणि दैवतानि परमात्मनि ‘विलीयन्ते’ प्रवि-
शन्त्येव । न च ‘प्रतिबिम्बो हरेः प्राणः प्राणस्यान्याः कलाः क्रमात्’
इति वचनसिद्धप्राणप्रतिबिम्बत्वविरोधः । यतः प्राणद्वारेण विलीय-
न्ते इत्यङ्गीक्रियन्त इति ।
( २ ) नन्वत्र प्रमाणाभाव इत्यतः प्रवृत्ते तथा ह्याहेति हेत्वंशं
व्याचष्टे—सर्वे देवा इति । विरिञ्चेतरदेवा इत्यर्थः । ‘प्राणे’ विरिञ्च
देवमित्यन्वयः । ‘मुक्ताः’ कर्मणः ‘लयं’ प्रवेशं, हिशब्दो हेतौ ।
श्रुतिरित्त्यनेनाहेत्यस्य कर्ता दर्शितः । सौत्रतथाशब्दस्तु प्राणप्रवेशद्वा-
रा परमात्मप्रवेशपर इति सिद्धत्वान्न व्याख्यातः । श्रुतिरित्त्यनन्तरं
यत इति शेषः । अस्यातो विलीयन्त इति साध्येनान्वयः ॥ ७ ॥
॥ इति पराधिकरणम् ॥
—
-::-*-—
८. अधिकरणम् ॥
( १ ) अत्राधिकरणे देवादिमुक्तानां ईश्वराधीनत्वे समर्थ्यते । मु-
१३१

१०४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
'एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः
सत्यसङ्कल्पा यथा निकाममन्तर्बहिः परिचरन्ति' इ
ति गौपवनश्रुतिः। तत्परमेश्वरकामाद्यविभागेनैव तेषां
सत्यकामत्वम्।
(२) 'कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः' (तै.आ.३-१५-४.)
इति वचनात्।
क्ताः स्वतन्त्रा एव नेशाधीनाः, मुक्तत्वादेव 'एते देवाः' इति श्रुतेश्चे
ति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—अविभाग इति॥ अत्र मुक्ता
नां परमात्माधीनत्वात् 'अविभागः' तदधीनत्वमेवेति साध्यवाक्यार्थ
मभिप्रेत्य तत्र श्रुतिसिद्धसत्यकामत्वादियुक्तिविरोधमाशङ्क्य तत्परि
हारायाप्यविभाग इत्यंशं व्याचष्टे—एते देवा इति। श्रुतिरित्यान्तरं
यत्सत्यकामत्वं वक्तीति शेषः। आदिपदेन सङ्कल्पो गृह्यते। तथा चे
त्थं योजना। 'एते' इति श्रुतिर्यन्मुक्तानां सत्यकामत्वं वक्ति, तत्तेषां
सत्यकामत्वं, उपलक्षणमेतत्। आदिशब्दस्योत्तरत्रापि सम्बन्धो वा।
तथा च सत्यसङ्कल्पत्वं च यतः परमेश्वरकामाद्यविभागेनैव तद्भेदे
नैव तद्विषयविषयकत्वेनैव अङ्गीक्रियते, न स्वातन्त्र्येणातो न तद्वि
रोध इत्यतः तेषामविभाग इति। अनेन अविभाग इत्यस्य भगवत्कामा
दविभागस्तदविरुद्धार्थविषयकत्वं, तथा तत्कामितलाभस्येश्वरकाम
निमित्तकत्वादविभाग इति द्वेधार्थ उक्तो भवति। 'एते' प्रकृताः
सायुज्यं प्राप्ता देवाः 'एतं' हरिमनुप्रविश्य 'सत्याः' नित्याः 'सत्य
कामाः' सत्याभीष्टाः 'सत्यसङ्कल्पाः' अबाधितमानसिकसङ्कल्पयुताः
'यथानिकामं' यथेच्छं ईश्वरदेहान्तर्बहिः सञ्चरन्तीत्यर्थः।
(२) कुतः सत्यकामत्वश्रुतेरन्यानुसारिकामत्वरूपामुख्यार्थत्वक
ल्पनमित्यतो वचनादित्यंशं व्याचष्टे—कामेनेति॥
कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः।
यदमीषामदः प्रियं तदैतूप मामभि॥
इति ऋङ्मन्त्रस्यायमर्थः—'मृत्योः' संहर्तुः विष्णोः 'कामेन' इच्छ
या मे 'कामः' कामितं 'आगात्' आगतम्। ईशेच्छानन्तरं प्राप्तत्वा
त्तत्तस्तदागतमित्युच्यते। कथमीश्वरेच्छायाः कारणत्वमित्यतो--हृद
याद्धृदयमित्याह। 'हृदयं' ममेच्छा 'हृदयात्' ईशेच्छया भवति।

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४३
( ३ ) मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु ।
कामानुकूलकामत्वं नान्यत्तेषां विधीयते ॥ इति ब्रा
ह्मे ॥ १६ ॥
——— * ———
९. अधिकरणम् ॥
( १ ) सू—ॐ ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या
सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृही
तः शताधिकया ॥ ॐ ॥ १७ ॥
भगवदिच्छानुसारिणीति यावदिति टीकारीत्या परममुक्तवाक्यमे
तत् । शेषवाक्यार्थस्तु 'अमीषां' सर्वसंहारकभगवत्प्रमुखदेवानां य
त्प्रियं एतन्मां प्रति प्रियमभ्युपैत्विति तत्त्वप्रदीपेऽभिहितः । विष्णुतत्त्व
निर्णयटीकायां तु मृत्योः 'कामेन' इच्छानुसारेणैव मे काम आगा
त् । लुङ् लोडर्थे । मुक्तावागच्छतु । मृत्योः 'हृदयात्' हृदयं सङ्कल्पम
नुसृत्यैव मे 'हृदयं' सङ्कल्पः आगच्छतु । 'अमीषां' मनुष्यमृत्यो
र्यददः प्रियं तदेव मामभि आ सम्यगेतु ममापि प्रियं भवत्विति तत्त्वप्र
दीपानुसारेण जीवन्मुक्तवचनतया व्याख्यातम् ॥
( ३ ) सत्यकामत्वश्रुतेर्मुख्यार्थत्वे स्मृतिमप्याह—मुक्तानामिति ।
तुरवधारणे । मुक्तानां सत्यकामत्वं सामर्थ्यं चेश्वराधीनमिति शेषः ।
तत्र सत्यकामत्वं निर्वक्ति--परस्य त्विति । 'तुः' एव । 'परस्य' प
रमात्मनः कामानुकूलकामत्वमेव तेषां सत्यकामत्वं नान्यदित्यर्थः ।
'न विधीयते' नोच्यते । ब्राह्मे वचनादित्यनुवर्तते । अस्य तत्परमेश्व
रेत्यनेनान्वयः ॥ ८ ॥
॥ इति अविभागाधिकरणम् ॥
——— * ———
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे प्रतीकालम्बनाप्रतीकालम्बनतदितरमनुष्या
णां मुक्त्यर्थं देहोत्क्रमणस्याज्ञानिमरणविलक्षणत्वं समर्थ्यते । ज्ञानिनां
देहादुत्क्रमणं पामरमरणवदेव न विशेषोऽस्तीति पूर्वपक्षे सिद्धान्तयत्सू
त्रमुपन्यस्यति--तदिति ॥ अत्र न ज्ञानिमरणस्याज्ञमरणाविशिष्टत्वे
ति साध्याध्याहारमभिप्रेत्य तत्र हेतुतया तदोकोऽग्रज्वलनमिति सू
त्रांशं व्याचष्टे-उत्क्रान्तिकाल इति । अर्थलब्धोक्तिरियम् । यद्वा-तन्त्र

उत्क्रान्तिक काले हृदयस्याग्रज्वलनं भवति । ' तस्य है
तस्य हृदयस्याग्रं प्रद्योतते ' ( बृ. ६-४-२. ) इति श्रु
तेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
( २ ) यंयं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।
तंतमेवैति कौन्तेय सदा तद्भावभावितः ॥ ( गी. ८-६. )
माश्रित्य तदित्यस्यार्थोक्तिः । तस्मिन्नुत्क्रान्तिकाल इति । अत एव त
त्स्वप्रदीपे तदोत्क्रान्तिकाल इति तदर्थोक्तिः । विदुष इति शेषः । तेन
तच्छब्दस्य विदुष इति चार्थः । तदोकस इत्यस्य भगवदोकसो हृद
यस्येत्यपि तच्छब्दार्थ इत्याशयेन ओकशब्दितं स्थानं दर्शयति--हृ
दयस्येति । अग्रे ज्वलनं प्रकाशो भवति । अग्रं प्रकाशत इति फलि
तार्थः । हृदयस्याग्रज्वलनं भवतीति कुतो ज्ञायत इत्यतस्तच्छब्दसू
चितश्रुतेरेवेत्याह--तस्येति । ' तस्य ' उत्क्रमिष्यतः ' एतस्य ' ज्ञा
निनो हृदयस्याग्रं प्रकाशते । ' ह ' खलु इत्यर्थः । अत्र तस्येति मरण
वैशिष्ट्यमात्रपरमिति प्रमेयदीपोक्तिः, अस्यान्यथा वैयर्थ्यापत्तेरिति
भावः । 'श्रुतेः ' छन्दोगश्रुतेर्वाजसनेयश्रुतेश्चेत्यर्थः । हृदयाग्रप्रवेशनेऽपि
ज्ञान्युत्क्रमणस्य को विशेष इत्यतो निष्क्रामतीति पदाध्याहारेण तत्प्र
काशित इत्यंशं व्याचष्टे—तत्प्रकाशित इति । तेन प्रकाशेन प्रकाशित
नाडीद्वारस्सन्नित्यर्थः । ' निष्क्रामति ' देहात् ज्ञानी, अतोऽस्ति विशेष
इति वाक्यशेषः । ननु ज्ञानिनः प्रारब्धकर्मवतः कथमयं विशेष इत्य
तः प्रवृत्तं विद्यासामर्थ्यादित्यंशं व्याचष्टे—विद्येति । भगवत्साक्षात्का
रसामर्थ्यादित्यर्थः । तथा च प्रारब्धकर्मसद्भावेऽपि ज्ञानिनो ज्ञानसा
मर्थ्याद्विशिष्टोत्क्रान्तिर्युज्यते । ज्ञानस्य स्वोदयमारभ्यैव फलप्रदत्वा
दिति भावः ॥
( २ ) यदि ज्ञानिनः ज्ञानसामर्थ्यादेवमुत्क्रमणं भवति, तर्हि ज्ञानिनः ज्ञा
नजन्मदेहवियोगाख्यप्रथममरणमेवैवं किं न स्यादित्यतः—तच्छेषग
त्यनुस्मृतियोगादित्यंशः प्रवृत्तः, तं व्याचष्टे—यं यमिति ॥ हे ' कौन्ते
य ' अर्जुन ' अन्ते ' अन्त्यकाले यंयं वापि ' भावं ' आकृतिविशेषं पदा
र्थं वा पूर्वकर्मानुवशात् स्मरन् ' कलेबरं ' देहं त्यजति पुरुषः सः तंतं
तमेव भावं ' एति ' प्राप्नोति । अन्त्यकालस्मरणे उपायमाह—सदा त
द्भावभावित इति । भावोऽन्तर्गतं मनः तस्मिन्नाकारे पदार्थे वा भाव
स्तद्भावस्तद्विषयकं मनः तेन भावितोऽतिवासित इत्यर्थः । अत्र भावि

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४५
इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च।
( ३ ) ‘आचार्यस्तु ते गतिं वक्ता’ (छा. ४-१४-१.) इति हि
लिङ्गम्।
( ४ ) हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु।
तच्च संस्कृतत्वं मनोधर्मस्तेन चात्मोपचर्यत इति ध्येयम् । ‘स्मृतेः’
गीतास्मृतेः । विद्याशेषेति हेतुगर्भं विशेषणम् । तथा च तस्या विद्या-
याः ज्ञानस्य शेषः फलोपकार्यङ्गं शरीरत्यागकाले यत्स्वहृदयमारभ्य
ब्रह्मपर्यन्तगम्यविषयानुस्मरणं तेन योगः साहित्यं तस्मादित्यर्थः । न
केवलं विद्यासामर्थ्यादिति चशब्दार्थः । तथा च ज्ञानी न केवलं वि-
द्यासामर्थ्याद्देहान्निष्क्रामति, येनातिप्रसङ्गः, किन्तु गत्यनुस्मृतियोगा-
च्च । न चैवं सत्युत्क्रमणे ज्ञानस्याहेतुत्वं प्राप्नोति । न चोभयोः साम्य-
म् । यतो गत्यनुस्मरणं विद्याशेषः । ननु भवेच्छेषः, यदि गत्यनुस्म-
रणं गतिप्राप्तिकारणं स्यात् । तदेव कुतः ? ‘यंयं वापि’ इति स्मृते-
रेवेति योजना ॥
( ३ ) ननु तथाऽपि ‘यंयम्’ इति सामान्येनोक्तत्वात् गत्यनुस्म-
रणं तत्प्राप्तिकारणमित्यर्थे न विशेषप्रमाणमस्तीत्यत आह—आचार्य-
स्त्विति ॥ ‘आचार्यः’ सत्यकामः । छन्दोगे उपकोसलं प्रत्यग्नीनां वा-
क्यमेतत् । ‘इति’ एवंरूपं स्मरणार्थं गतिश्रवणोत्तरभावीदं वाक्यमि-
त्यर्थः । यद्वा—एतद्वाक्योक्तं गतिश्रवणमित्यर्थः । वक्तृत्वोक्त्या श्रोतृ-
त्वस्याप्युक्तत्वादिति भावः । ‘हि’ यतः ‘लिङ्गं’ गतिस्मरणस्य त-
त्प्राप्तिसाधनत्वे ज्ञापकमस्तीत्यर्थः । अन्यथा स्मरणार्थं गतिश्रवणं व्य-
र्थं स्यादिति भावः । लिङ्गमित्यस्यात इति शेषेण गत्यनुस्मृतियोगाच्चे-
ति पूर्वेणान्वयः ॥
( ४ ) इदं चोत्क्रमणं न गत्यनुस्मरणयुक्तेन सामर्थ्येन स्वतन्त्रेण
भवति, किं तर्हि ? ज्ञानादिना प्रसन्नस्य भगवतोऽनुग्रहेणैवेति वक्तुं-
हार्देत्यंशः प्रवृत्तः । तं तत्पदसूचितस्मृत्युदाहरणेन व्याचष्टे हृदिस्थे-
नेति ॥ सहयोगे तृतीया । तुरवधारणे । उपासत इति बहुष्वेकवच-
नम् । तथा च हृदिस्थेन हरिणा सहैव तस्यानुग्रहेणैवान्त्यकाले तं
हरिमेव ‘उपासत’ ध्यायतां प्रतीकालम्बनानां अप्रतीकालम्बनानां च पुं-
सां ‘ब्रह्मरन्ध्रेण’ ब्रह्मनाड्योत्क्रान्तिर्भवेदित्यर्थः । यथोक्तं बृहद्भाष्ये—
धिष्ण्योर्लोकं परं गच्छन् निष्क्रामन् मूर्ध्न एव तु ।

१०४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमेवोपासतां भवेत् ॥ इति चा
ध्यात्मे ।
(५) शतं चैका च हृदयस्य नाड्यः तासां मूर्धानमभिनि
सृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भ
वन्ति (कठ.२-६-१६.) ॥ इति च ॥ १७ ॥
(६) सू—ॐ ॥ रश्म्यनुसारी ॥ ॐ ॥ १८ ॥
निष्क्रामति । 'सहस्रं वा आदित्यस्य रश्मयः आसु
तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः॥ इति ॥
अध्यात्म इतिवचनात् हार्दानुगृहीतः शताधिक एवेत्यर्थः । सिद्ध इति
वाक्यशेषः । अनेन सूत्रे हृदयस्यायं हार्दस्तेनेति विग्रहः । तथा च
हार्देन हृदिस्थेन हरिणा सहैव हार्देनानुगृहीतस्तस्यानुग्रहं प्राप्त एव
ज्ञानीदेहान्निष्क्रामतीति सूत्रखण्डार्थ उक्तो भवति ॥
(५) प्रकाशितद्वारो निष्क्रामतीत्युक्तम् । तत्र नाड्यां विशेषो
क्तिपरं—शताधिकयेत्यंशं तत्सूचितश्रुत्युदाहरणेन व्याचष्टे—शतमिति ॥
हृदयस्य नाड्यः तत्सम्बन्धिन्यः नाड्यः 'शतं चैका च' एकोत्त
रशतसङ्ख्याका भवन्ति । तासां मध्ये 'एका' नाडी 'मूर्धानं अभि' प्र
ति 'निस्सृता' मूर्धपर्यन्तं गता । 'तया' शतोत्तरया सुषुम्नाख्यनाड्यो
र्ध्वं गच्छन् पुरुषोऽमृतत्वं 'एति' प्राप्नोति । तत्रायं विवेकः—ये प्रतीका
लम्बनाः सुषुम्नाप्रभेदात् निष्क्रान्तास्ते 'अमृतत्वं' ब्रह्मलोकं, अन्ये अ
प्रतीकालम्बनाः 'अमृतत्वं' वैकुण्ठलोकं यान्तीति । 'अन्याः' शतं ना
ड्यो 'विष्वगुत्क्रमणे' तादर्थ्ये सप्तमी । लोकान्तरगमनार्थं भवन्तीति
कठश्रुत्यर्थः । श्रुतिश्चेत्यनन्तरं शताधिकयेत्यर्थे प्रमाणमिति शेषः । न
केवलं स्मृतिरितिचार्थः ॥
(६) ननु यदि प्रकाशितनाडीद्वारो निष्क्रामति तर्ह्यज्ञानिवन्नाड्य
न्तस्तमसैव गमनं स्यात् । यद्यन्तरप्यस्ति प्रकाशः, तर्हि द्वारपदवै
यर्थ्यमित्याशङ्कां परिहरत्सूत्रं पठित्वा तच्छेषमात्रं पूरयति—रश्मी
ति ॥ ज्ञानी नाड्यन्तराराततादित्यरश्म्यनुसारी सन् ईश्वरमनुसृत्य दे
हान्निष्क्रामतीत्यर्थः । अतो न नाड्यन्तस्तमसोत्क्रामति , न वा द्वार
पदवैयर्थ्यमिति वाक्यशेषः । द्वारप्रकाशस्य वैष्णवत्वादस्य च सौ
रत्वादिति भावः । नाड्यन्तराराततसौररश्म्यनुसारेणोत्क्रामतीत्येतत्कु

[ अधि - ९. सू - २०. ] दीपिकासहितम्. १०४७
नाडीष्वाततास्तत्र श्वेतस्सुषुम्नो ब्रह्मयानस्सुषुम्नाया
माततस्तत्प्रकाशेनैष निर्गच्छति' इति पौत्रायणश्रु
तिः ॥ १८ ॥
(७) सू— ॐ ॥ निशि नेति चेन्न सम्बन्धात् ॥ ॐ ॥ १९ ॥
रश्म्यभावान्निशि ज्ञानिन उत्क्रमणं न युक्तमिति चे
न्न, सर्वदा सम्बन्धाद्रश्मीनाम् ॥ १९ ॥
(८) कियत्कालम् ?
सू—ॐ ॥ यावद्देहभावित्वाद्दर्शयति च ॥ ॐ ॥ २० ॥
तो ज्ञायत इत्यत आह—सहस्रमिति । वैशब्दः प्रसिद्धौ । आसु द्वैरा
श्येन पञ्चशतभेदभिन्नाः पुनः प्रत्येकं पञ्चशतभेदभिन्नाः सहस्रसङ्ख्या
काः तासु नाडीषु 'आतताः' अन्तर्राश्रिताः सन्ति । 'तत्र' सहस्रस
ङ्ख्याकेषु रश्मिषु पूर्वोत्तरवर्गेषु मध्ये वर्णतः श्वेतो, नामतः सुषुम्नः,
कर्मतो 'ब्रह्मयानो' ब्रह्मप्रापको रश्मिविशेषः । शताधिकायां सुषुम्ना
ख्यायां नाड्या मन्तरा ततोऽन्योऽस्ति । तत्प्रकाशेन 'एषः' ज्ञानी जी
वो देहान्निष्क्रामतीत्यर्थः । श्रुतिरित्त्यनन्तरं उक्तार्थे प्रमाणमिति शेषः ॥
(७) उक्तमाक्षिप्य समाधत्सूत्रं पठति—निशीति ॥ अत्राद्यन
आवृत्त्या 'निशि' रात्रौ यतस्सूर्यरश्मयो न सन्ति अतः तदा पर्यवसि
तकर्मणां केषां चित् ज्ञानिनामपेक्षितमुत्क्रमणं न युक्तं, केषां चित्
ज्ञानिनामेवं, केषां चिद्नेवमिति वैलक्षण्यमपि न युक्तमित्याक्षेपांशयो
जना मभिप्रेत्य तमंशं व्याचष्टे—निशीति । ज्ञानिन इति । परिसमाप्त
प्रतिबन्धककर्मणो ज्ञानिन इत्यर्थः । न विलक्षणमपि कस्य चिद्युक्त
मित्यपि व्याख्येयमेतत् । परिहारांशं व्याचष्टे—नेति । निशि मृतानां
ज्ञानिनां बाह्यादित्यरश्म्यभावात्सर्वेषां रश्म्यनुसारेण उत्क्रमणानु
पपत्तिर्नेत्यर्थः । कुतो नेत्यतः—सम्बन्धादिति । तद्व्याचष्टे—सर्वदे
ति । 'रश्मीनां' अन्तस्थादित्यरश्मीनां सर्वदा नाडीसम्बन्धसत्त्वा
दित्यर्थः । तथा च निशि बाह्यादित्यरश्म्यभावोऽप्रयोजकः । आन्तरा
दित्यरश्म्यभावस्त्वसिद्ध इति भावः ॥
(८) ननु नाडीरश्मिसम्बन्धः सर्वदाऽस्तीति कोऽर्थः । किं सदा
तनः? किं वा देहपातपूर्वकालीनः? उत यावद्देहभावी ? । नाद्यः, सदा
नाडीनामभावात् । न द्वितीयः, कदाचित ज्ञानिनोऽपि तमसोत्क्रान्ति
प्रसङ्गात् । न तृतीयः, यावद्देहं तन्नियमे प्रमाणाभावादिति भावेन पृ

१०४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
यावद्देहो विद्यते तावद्रश्मिसम्बन्धोऽस्त्येव ।
(९) ‘संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो या
वदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते’
इति माध्यन्दिनायनश्रुतिः ॥ २० ॥
(१०) सू— ॐ ॥ अतश्चायनेऽपि हि दक्षिणे ॥ ॐ ॥ २१ ॥
दक्षिणे मरणाद्याति स्वर्गं ब्रह्मोत्तरायणे ।
इत्युक्तेऽपि ज्ञानिनो दक्षिणायनोत्क्रान्तिर्युज्यते ।
च्छति—कियदिति । कियत्कालं रश्मीनां नाडीसम्बन्धोऽस्तीति विप
रिणामेनान्वयः । एतत्परिहाराय सूत्रमुपन्यस्यति—यावदिति ॥ अत्र
सम्बन्धादिति पदं षष्ठ्यन्ततया विपरिणम्य अनुवर्तते । चशब्दो न पू
र्वपक्षयुक्तदोष इति साध्यसमुच्चायक इति भावेन यावद्देहभावित्वाद्वि
ति हेतुवाक्यं व्याचष्टे—यावदिति । अस्त्येव यत इति शेषः । अस्य अ
ध्याहृतातोनैत्यनेनान्वयः ॥
(९) नन्वत्रापि प्रमाणाभावो दोष उक्त इत्यतः प्रवृत्तं दर्शयति
श्रुत्यंशं व्याचष्टे—संसृष्टा इति ॥ ‘एते’ आदित्यरश्मयः ‘संसृष्टाः’
सम्बद्धा इत्यर्थः । चावन्योन्यसमुच्चये । ‘वियोगो’ विभागः ‘इदं’ प्र
मितं स्थूलशरीरं ‘एतैः’ रश्मिभिः ‘पश्यति’ नाड्यन्तर्मार्गमिति शे
षः । ‘एतैः’ प्रकाशैः निमित्तभूतैरुत्क्रान्तौ ‘प्रवर्तते’ प्रयतते ततः ए
तैरेवोत्क्रामत्युत्क्रान्तिकाल ज्ञानीत्यर्थः । श्रुतिरिति सूत्रशेषोक्तिः । यत
इति शेषः । अस्यास्त्येवेति साध्येनान्वयः ॥
(१०) ननु व्यर्थोऽयं ज्ञानिनः रात्रौ उत्क्रमणसम्भवप्रतिपादनाया
सः ‘दक्षिणे मरणात्’ इति वचनात् मोक्षार्थं ज्ञानिनो दक्षिणायनो
त्क्रान्त्ययोगात् । तद्वद्रात्रावप्युत्क्रान्त्यभावोपपत्तेरित्याशङ्कां परिहर
त्सूत्रं पठति—अतश्चेति ॥ अत्रापिशब्दः स्मृतिसत्त्वेऽपि दक्षिणायने
ऽपीति समुच्चये । चशब्दः साध्यसमुच्चये । हिशब्दो हेताविति भावेन
अयनेऽपि हि दक्षिणे इति साध्यांशं उत्क्रान्तिर्युज्यत इति पदद्वयाध्या
हारेण व्याचष्टे—दक्षिणेति । उत्तरायणमरणात् ब्रह्म यातीत्यन्वयः ।
उक्तं वचनं, भावे क्तः । इति स्मृतिसद्भावेऽपि दक्षिणायने उत्क्रान्ति
र्युज्यत इत्यर्थः । अस्यातो न स्मृतिबलेन ज्ञानिनो दक्षिणायनोत्क्रान्त्य
योगदृष्टान्तेन रात्रावपि तद्भावो वाच्य इति चशब्दसूचितसाध्येना
न्वयः ॥

[अधि - ९. सू - २१. ] दीपिकासहितम्. १०४९
(११) शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः ।
तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ॥
ते सर्वे देहसम्बद्धाः सर्वदा सर्वदेहिनाम् ।
महर्लोकादिगन्तार उत्तरायणरश्मिभिः ॥
निर्गच्छन्तीतरे तैश्चापि यैरेष्टव्येतरा गतिः ।
उत्तरं दक्षिणमिति त एव तु निगद्यते ॥
न तु कालविशेषोऽस्ति ज्ञानिनां नियमात्फलम् ।
(११) कुत इत्यतः प्रवृत्तमित इति हेत्वंशं प्रकृतसम्बन्धपरामर्शक
तया स्पष्टत्वात् अव्याकृत्य समग्रसूत्रार्थं स्मृत्या विशदयति—शतमिति ॥ सूर्यस्य दक्षिणायनरश्मयः ‘शतं पञ्चैव’ पञ्च शतान्येवेत्यर्थः ।
‘तावन्त एव’ पञ्च शतान्येव ते रश्मयः । उभयेषां प्रयोजनमाह—महर्लोकादीति । महर्लोक एव आदिर्येषां ते महर्लोकादयः तान् गन्तारः प्रतीकालम्बनाः । अतद्गुण

१०५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
ददाति कालेऽनुगुणे फलं किञ्चिद्विशिष्यते ॥
अत्युत्तमानां केषां चिन्न विशेषोऽस्ति कालतः ।
इति नारायणाध्यात्मे ॥ २१ ॥
-*-
१०. अधिकरणम् ॥
( १ ) सू-ॐ॥ योगिनः प्रति स्मर्येते स्मार्ते चैते॥ ॐ॥ २२ ॥
इति स्मृतौ ' उत्तरं ' उत्तरायणमिति निगद्यते । दक्षिणायनरश्मिप
श्चशतमेव दक्षिणायनमिति निगद्यत इत्यर्थः, अयं च तत्त्वप्रदीपोक्तः ।
अनेन ' ते ' इति नपुंसकद्विवचनं षष्ठीद्विवचनत्वेन विपरिणतव्यमि
त्युक्तं भवति । ते रश्मयः निगद्यते निगद्यन्त इति वा । एवकारव्या
वर्त्य आपातप्रतीतार्थं निषेधति-न त्विति । स्मृतौ दक्षिणमुत्तरमिति
शब्दोक्तः कालविशेषो ' नास्ति ' न भवतीत्यर्थः । कुतोऽयमर्थो ' द
क्षिणे मर

?
Wait, look at line 13:
"यत इत्याद्युपस्कार्यम्" - wait, there is only ONE द्या:
य - त - इ - त्या - द्यु - प - स्का - र्य - म्
Wait! Look at the image line 13:
"यत इत्याद्याद्युपस्कार्यम्"
Wait, is there "द्या" and then "द्यु"?
Let's zoom in on line 13, first word:
"यत इत्या" -> then there is "द्यु" or "द्या"?
It is: "इत्यादावुपस्कार्यम्"??
Wait! Look at the letters:
इ (i)
त्या (tyā)
दा (dā)
वु (vu)
प (pa)
स्का (skā)
र्य (rya)
म् (m)
Wait! Could it be "इत्यादावुपस्कार्यम्"?
इति + आदौ + उपस्कार्यम् = इत्यादावुपस्कार्यम्!
"यत इति आदौ उपस्कार्यम्" = The word 'यत' is to be supplied at the beginning (आदौ)!
WOW, THAT MAKES TOTAL SENSE!
"यत इति आदौ उपस्कार्यम्" -> "यत इत्यादावुपस्कार्यम्"!
Because: Look at line 8: "तथा चेत्थं योजना—यतः 'अग्निर्ज्योतिः' इत्यादिना..."
He supplied 'यतः' at the beginning!
So here

१०५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥
(गी. ८-२४,२५.)
इत्यत्र योगीति विशेषणात्स्मरणनिमित्ते चैते गती ॥
(२) गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा गच्छति ध्रुवम् ।
देवेनाभिजिता शुक्लपक्षेन च सपूर्णमा ।
विषुवा चायनेनासौ पूजितः केशवं व्रजेत् ॥ इति ॥
एवं प्रतिज्ञातमार्गद्वये अपुनरावृत्तिमार्गमभिधाय पुनरावृत्तिसाधन
माह—धूम इति । यत्रादौ धूमाभिमानिदेवस्य लोकः, तदनुरात्रिदेव
स्य, ततः कृष्णपक्षदेवस्य, अथ षण्मासाभिमानिनां लोकाः, तदनु द
क्षिणायनदेवलोको वर्तते । ‘तत्र’ तेन मार्गेण ‘योगी’ काम्यकर्मी
‘चान्द्रमसं’ चन्द्रसम्बन्धि ज्योतिः प्राप्य पुनः भूमौ जायत इत्यर्थः ।
न चैतावता दक्षिणायने मृत

[ अधि - १०. सू - २२. ] दीपिकासहितम्. १०५३
अननुस्मरतः काले स्मरणं प्राप्य वै गतिः ॥ इत्यध्या
त्मे ॥ २२ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य
द्वितीयः पादः.
॥ ॐ ॥
इति वचनादेवेति तत्त्वप्रदीपोक्तिः । अध्यात्मे ग्रन्थे वचनादिति शे
षः । अस्य स्मरणनिमित्ते चैते इति पूर्ववाक्येनान्वयः ॥ १० ॥
॥ इति योग्यधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका
यां चतुर्थाध्यायस्य द्वितीयः पादः.
॥ ॐ ॥