पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ७. - सू - १२. ] दीपिकासहितम्. १०११ दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिने विद्यते । भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ॥ आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम् ॥ इति ब्र ह्माण्डे ॥ १२ ॥ वति तत्साधिकैव भवतीत्यर्थः । ज्ञानोत्तरं श्रवणादिरहितं केवलध्या नं प्रायेण कर्तव्यमेवेत्यत्रापि प्रमाणत्वेन स्मृतिशेषमुदाहरति—दृष्टत त्त्वस्येति । प्रायेण केवलमित्यध्याहार्यम् । दृष्टं साक्षात्कृतं तत्त्वं ब्रह्मा ख्यं येन स तथोक्तः तस्येत्यर्थः । न केवलं जिज्ञासोरिति चशब्दार्थः । ध्यानमित्येतदनन्तरमपि अनन्तकालीनेति पदं विपरिणामेन सम्बध्य ते । तथा च ‘दृष्टतत्त्वस्य’ पुंसः ‘परमे ब्रह्मणि’ विषये प्रायेण केव लं ध्यानमनन्तकालीनं कर्तव्यमेव । न केवलं ध्यानमनन्तकालीनं, कि न्तु ‘स्फुटा’ निरुपाधिका भक्तिश्चानन्तकालीना अपेक्षिता । तत्र हे तुः—‘यदा’ यस्मात् दृष्टिः फलत्वेन न विद्यतेऽसिद्धत्वादिति । फल त्वे ह्यनन्तकालीनत्वं न स्यादिति भावः । अथ वा-अपरोक्षज्ञानकाले वासनामयध्यानायोगादाह—यदेति । ‘यदा’ यस्मिन् काले ‘दृष्टिः’ ब्रह्मदर्शनमित्यर्थः । यद्वा—‘यदा’ यस्य ‘दृष्टिर्न विद्यते’ तद्विच्छेदो भवति तदा तस्यापाकरणार्थं पुनःपुनः दृष्ट्यर्थं दृष्टतत्त्वस्यापि मध्येम ध्ये ध्यानमपेक्षितमित्यर्थः । उक्तं हि तत्त्वप्रदीपे--दर्शनवतोऽपि यदा तद्विच्छेदस्तदा तस्यापकरणार्थे तस्य परमस्य ध्यातुर्विरिञ्चलोकं नी तस्य ततोऽप्युपदेशं प्राप्य पुनरभ्यस्यतः परं पश्यतोऽप्यामोक्षादुपा स्तिकर्तव्यतायां प्रमाणदर्शनादिति । ननु ज्ञानोत्तरमपि निरवधिकध्या नं किं विहितत्वात्क्रियते अन्यथा वा?। नाद्यः—निरवधिकध्यानस्य वि हितत्वेन कार्यत्वे मोक्षेऽपि तथाकार्यत्वापत्त्या मुक्तस्य विधिबन्ध वर्जितत्वरूपमोक्षविरोधात् । न द्वितीयः—मोक्षात्पूर्वं करणानुपपत्ते रित्यत आह—आ विमुक्तेरिति । मोक्षपर्यन्तमित्यर्थः । नित्यं विधिरि त्यन्वयः । विधिविहितत्वेन करणम् । भक्तिध्यानयोरिति शेषः । ‘ततः परं’ मुक्तेरनन्तरं ‘स्वत एव’ स्वभावेनैव करणमिति शेषः । ब्रह्मा ण्डे विवक्षितार्थ उक्त इति शेषः । न केवलं श्रुतिद्वये इति चार्थः ॥७॥ ॥ इति आप्रायणाधिकरणम् ॥
१०१२ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ४. पा - १. ] ८. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ त- द्व्यपदेशात् ॥ ॐ ॥ १३ ॥ ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च । ' त- द्यथा पुष्करपलाश आपो न लिप्यन्त एवमेवंविदि पापं कर्म न लिप्यते' (छा. ४-१४-३.) ' तद्यथेषीका- तूलमग्नौ प्रोतं प्रदूयेत एवं हैवास्य सर्वे पाप्मानः प्रहू- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रासङ्गिकं समाप्य कर्मक्षयाख्यफलसिद्धि- स्साध्यते । प्रागापादितकर्मणां भावात् न ज्ञानेन मोक्षस्सम्भवतीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—तदिति । अत्र सम्भवत्येव ज्ञाने- न मोक्ष इति साध्याध्याहारं, तद्धेतुत्वेन तदधिगम उत्तरपूर्वाघयोरि- त्यस्यान्वयं, तत्साधकतया तद्व्यपदेशादित्यस्य प्रवृत्तिं चाभिप्रेत्य सू- त्रं व्याचष्टे—ब्रह्मदर्शन इति ॥ निमित्तसप्तम्येषा । ब्रह्मदर्शनादित्यर्थः । अनेन सूत्रे तच्छब्दो ब्रह्मदृष्टिरिति प्रकृतब्रह्मपरामर्शी । अधिगमो ज्ञान- म्, निमित्तार्थे सप्तमीत्युक्तं भवति । ' उत्तराघस्य' ज्ञानोत्तरकालीन- पापस्याश्लेषः फलतः । पूर्वस्येत्यनन्तरमघस्येति बुद्ध्या विवेकेनानुष- ज्यते । अप्रारब्धस्येति शेषः । ' विनाशः ' स्वरूपतः । चः समुच्चये । भवति यत इति शेषः । अस्याध्याहृतसाध्येनान्वयः । उत्तराघस्याश्ले- षो नाम नानन्दह्रासकरत्वाभावः, किन्तु पारलौकिकज्ञानोत्तरपापफ- लनरकादिश्लेषाभावरूपोऽलेपः, तथा ऐहिकज्ञानोत्तरपापफलाशुचि- त्वासम्भाष्यात्वादिसंश्लेषाभावश्चेति द्रष्टव्यः । यथोक्तं— ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते । अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ॥ इति अनुव्याख्यानसुधयोः । कुत एतदुभयं ज्ञानाद्भवतीति, तथास- ति 'नाभुक्तम्' इति स्मृतिविरोधापातात् । न च तस्या अज्ञा- निकर्मविषयत्वं, बाधकाभावादित्यतस्तद्व्यपदेशादित्यंशं तस्मिन् त- स्य तयोरित्यावृत्त्यभिप्रायेण व्याचष्टे—तद्यथेति । इतीति । एवंरूपे छन्दोगश्रुतिद्वये इत्यर्थः । तद्व्यपदेशादिति । तस्य ज्ञानिनस्तयोरश्लेष- विनाशयोरुक्तत्वादित्यर्थः । तथा च श्रुतिरेव बाधिकेति भावः । श्रुत्य- र्थस्तु—'तत्' तत्रार्थे वक्ष्यमाणदृष्टान्तो 'यथा पुष्करपलाशे' पद्मप
यन्ते' (छा. ५-२४-३.) इति तद्व्यपदेशात् ॥ १३ ॥ (२) सू-ॐ ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ ॐ ॥ १४ ॥ पुण्यस्याप्येवमसंश्लेषः पाते । तुशब्दोऽनुत्थानवाची । त्रे 'एवं' तथा 'एवंविदि' उक्तप्रकारेण ब्रह्मज्ञानिनि पापं कर्म 'न श्लिष्यते' तत्फलं नरकादिकं न प्राप्नोतीत्यर्थः । इषीका तृणविशेषः, सा च तूलमंशुश्चेति द्वन्द्वैकवद्भावे चैषीकातूलमिति भवति । 'इषी- केषीक' इति ह्रस्वभावश्छान्दसः । 'प्रोतं' प्रविष्टं 'प्रदूयते' प्रदह्य- ते एवमेव 'अस्य' ज्ञानिनः 'सर्वे' ज्ञानोत्तरकृताः 'पाप्मानः' पापा- नि 'प्रदूयन्ते' स्वरूपतो नश्यन्तीति ॥ (२) एवं ब्रह्मज्ञानिनो मुक्तिसिद्ध्यर्थं ज्ञानादेवाघविनाशाश्लेषावु- क्त्वा तत्समानन्यायत्वाद्वगवद्द्व
ति ॥ ' मुक्तस्य ' जीवन्मुक्तस्य Wait, look atचाह-यथेति: चाह—यथेतिorचाह-यथेति? It has a dash -: चाह—यथेति ॥ ' मुक्तस्य ' जीवन्मुक्तस्य`
* **Line 9**:
`प्रत्यासन्नमुक्तस्येति वा । तुशब्दः सौत्रतुशब्दार्थको विशेषार्थः । स`
Wait, let's look at `सौत्रतुशब्दार्थको` again.
Could it be `सौत्रसंशद्बार्थको`? No, no such word exists.
Could it be `सौत्रतुशब्दार्थको`? Yes, "सौत्र-तु-शब्द-अर्थकः".
Wait, what about `स च प्रागेवोक्तः ।` at the end of the line.
* **Line 10**:
`च प्रागेवोक्तः । ' विकर्मणो ' ज्ञानोत्तरकृतस्य तत्पूर्वस्याप्रारब्धस्य च`
* **Line 11**:
`पापकर्मणः तज्जन्याधर्मस्येति यावत् । अश्लेषो विनाशश्च यथा आव`
* **Line 12**:
`श्यकः ' एवं ' तथा ' ध्रुवं ' निश्चितं ' तमसि पततः ' प्रत्यासन्नपतन`
* **
[ अधि - ८. सू - १५. ] दीपिकासहितम्. १०१५ ( छा. ६-१४-२.) इति तदवधेः । ( ६ ) तुशब्दः स्मृतिद्योतकः । यदनारब्धपापं स्यात्तद्विनश्यति निश्चयात् । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः । द्विषतो वा भवेत्पुण्यनाशो नास्त्यत्र संशयः ॥ ( ७ ) तस्याप्यारब्धकार्यस्य न विनाशोऽस्ति कुत्र चित् । आरब्धयोश्च नाशस्स्यादल्पयोः पुण्यपापयोः ॥ मोक्षस्य तदवधित्वस्य प्रारब्धकर्मनिवृत्त्यवधिकत्वस्य 'तस्य' इत्या दौ श्रवणादित्यर्थः । तथा च ज्ञानोत्तरमपि कर्मसद्भावो ज्ञायत इति वाक्यशेषः । 'तस्य' अपरोक्षज्ञानिनः 'तावदेव' तावानेव 'चिरं' मोक्षविलम्बः । कियत्कालं ? यावत् ज्ञानी प्रारब्धेन कर्मणा 'न विमो क्ष्ये' न विमोक्ष्यते । 'अथ' कर्मनिवृत्त्यनन्तरं ब्रह्म 'सम्पत्स्यते' मु क्तो भवतीति छन्दोगश्रुत्यर्थः । अत्र विमोक्ष्ये इति प्रथमपुरुषः, मुचेः कर्मणि लृट्प्रत्यये विमोक्ष्यते इति रूपं, तस्य व्यत्ययेन विमोक्ष्येतेत्यर्थः। तत्र 'लोपस्त आत्मनेपदेषु' इति तलोपः । सम्पत्स्यत इति प्रथमपुरु षे तु तकारस्सत्त्वेव । तत्त्वप्रदीपे तु न विमोक्ष्ये इत्यत्र पुरुषव्यत्यय ए व, न लार्थव्यत्यय इत्युक्तम् ॥ ( ६ ) नन्वस्यां श्रुतौ प्रारब्धकर्मसद्भावो न स्फुटं प्रतीयते इत्यतः प्रयुक्तस्य तुशब्दस्य तदवधेरित्यनेनान्वयं चार्थत्वं चाभिप्रेत्य तद्व्या चष्टे—तुशब्द इति । स्मृतिद्योतक इति । विशेषबोधकस्मृतिसमुच्चा यक इत्यर्थः । तां स्मृतिं पठति—यदिति । यथा 'निर्द्वन्द्वं' समाधि कशून्यं ब्रह्म 'पश्यतो' दृष्टवतो 'यदनारब्धपापं' प्रारब्धकार्यकभिन्नं पापं स्यात्तन्निश्चयात् 'विनश्यति' विनश्यत्येव । एवं ब्रह्म 'हीनं' गु णाकृतिहीनत्वेन हीनजीवैक्येन च 'पश्यतो' जानतो ब्रह्म 'द्विषतो वा' द्विषतश्च 'पुण्यनाशो' मिथ्याज्ञानपूर्वकालीनधर्मनाशो भवेदि ति योजना । केचित्तु—तमोयोग्यानामपि ब्रह्मसाक्षात्कारोऽस्त्येव, कि न्तु धर्मिणि प्रत्यक्षे सति तत्र हीनत्वं दोषांश्च पश्यन्ति रामकृष्णादौ छेदादीनि च । तथा च पश्यत इत्यस्य यथाश्रुत एवार्थ इत्याहुः ॥ ( ७ ) उक्तस्यापवादमाह--तस्यापीति ॥ द्वेषिपुण्यस्यापीत्यर्थः । न केवलं ज्ञानिपापस्येत्यपेरर्थः । ज्ञानिद्वेषिसम्बन्धिनोऽपि पुण्यस्य पा
१०१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] इति नारायणतन्त्रे ॥ १६ ॥ (८) सू- ॐ ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ ॐ ॥ १६ ॥ अग्निहोत्राद्यपि तु मोक्षानुभावायैव। तुशब्दाद्ब्रह्मदर्शनवतः। पश्येति वा 'विनाशः' स्वरूपतः 'कुत्रचित्' काले देशे च। अत ए व परमद्वेषिणोऽपि प्राग्धःपातात् कदाचिद्भोगान् भुञ्जते इति भा वः। अपवादस्यापवादमाह—आरब्धयोरिति। आरब्धकार्ययोरल्प योः पुण्यपापयोः 'नाशः' फलह्रासरूपोपमर्दः स्यादित्यर्थः। भोगका लस्याल्पत्वादल्पयोरित्युक्तिः ॥ (८) ननु ज्ञानिकृतपुण्यस्य पूर्वोत्तरस्य विनाशाश्लेषौ विद्येते न वा?। आद्ये पूर्वसूत्रे अघशब्दवैयर्थ्यम्। द्वितीये मोक्षासिद्धिः, पुण्य स्यापि बन्धकत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—अग्नीति॥ अ त्र किमकाम्यपुण्यविषयोऽयं विकल्पः? उत काम्यपुण्यविषयः?। आ द्ये तस्य नाशाश्लेषौ न स्त इति समाधानं, न चैवं वन्ध्याप्रवृत्तिरिति साध्योपस्कारं चाभिप्रेत्य तत्र हेतुतया—अग्निहोत्रादि तु तत्कार्यायैवे त्यंशं व्याचष्टे—अग्निहोत्राद्यपीति। ज्ञानपूर्वोत्तरकालीनाकाम्याग्निहो त्रादीत्यर्थः। आदिशब्देन सन्ध्योपासनाश्राद्धादिरूपं नित्यनैमित्तिकं पुण्यं गृह्यते। तुशब्दव्याख्यारूपदपिशब्दात् टीकारीत्या ध्यानादि समुच्चीयते। यद्वा—तत्त्वप्रदीपरीत्या द्वेषिपापं गृह्यते। उक्तं हि तत्त्व प्रदीपे—अपिशब्दादितरस्य द्वेषिण इतरदपि इतरविशेषायाैवेति ग म्यत इति। मोक्षानुभावायैवेति। मोक्षफले विवक्षिते तद्धेतुब्रह्मापरोक्षा नुभावायेत्यर्थः। यद्वा—मोक्षे आनन्दातिशयानुभावायेत्यर्थः। यतो भ वतीति शेषः। न तु वन्ध्याय भवति, न वा कार्यमजनयित्वा नाशाश्ले षौ प्राप्नोतीत्येवकारार्थः। तत्त्वप्रदीपरीत्या तु मोक्षे आनन्दानुभवाये त्येक एवार्थः। उपलक्षणमेतत्। मिथ्याज्ञानपूर्वकालीनं तदुत्तरकाली नं च पापमम्यथाज्ञानकार्याय भवतीत्यपि द्रष्टव्यम्। तथैव तत्त्वप्रदी पोक्तेः। अनेन टीकारीत्या तत्कार्यायैत्येतत् तच्च तत् कार्यं चेति कर्म धारयमाश्रित्य प्रकृतब्रह्मज्ञानाख्यकार्यायैति, तस्य कार्यमिति तत्पुरु षमाश्रित्य तस्य ज्ञानस्य कार्ये मोक्षेऽनुभावायेति द्वेधा, तत्त्वप्रदीपरीत्या त्वेकधा व्याख्यातं भवति। पूर्वे ज्ञानिद्वेषिणोरनुवृत्तत्वादत्राप्युभय
[ अधि - ८. सू - १७. ] दीपिकासहितम्. १०१७ (९) 'स एनमविदितो न भुनक्ति यथा वेदो वां अननूक्तोऽ न्यद्वा कर्माकृतं यदि ह वा अप्यनेवंविन्महत्पुण्यं क- र्म करोति तद्धास्यानतः क्षीयत एवात्मानमेव लोक- मुपासीत स य आत्मानमंच लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृज- ते' ( बृ. ३-४-१५. ) इति तद्दर्शनात् ॥१६ ॥ (१०) सू— ॐ ॥ अतोऽन्यदपीत्येकेषामुभयोः ॥ ॐ ॥ १७ ॥ मुक्तानुभवकारणाद्यदन्यत्पुण्यमपि विनश्यति। सम्बन्धिपुण्यविषयमिदं वचनमिति शङ्कानिवर्तकतयाऽपि तुशब्दं व्याचष्टे—तुशब्दादिति । टीकारीत्या ‘ब्रह्मदर्शनवतः’ तद्योग्यस्येत्य- र्थः । इति तमधस्ताद्विशिनष्टी
१०१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] अप्रारब्धमनभीष्टं च । तथा ह्येकेषां पाठ उभयोस्त्या गेन । 'तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्वि षन्तः पापकृत्याम्' ( शाट्यायन ) इति । ( ११ ) अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति । ये । अत्रायं विवेकः—ज्ञानात्पूर्वतनं काम्यं कर्म द्विविधं प्रारब्धमप्रार ब्धं च । तत्र प्रारब्धं न नश्यति । अप्रारब्धं द्विविधं इष्टमनिष्टं च । तत्रे ष्टमपि न नश्यति अनिष्टमेव नश्यति । यद्यपि पुण्यकरणकाले सर्वमि ष्टमेव । तथाऽपि ज्ञानकाले तदेव किञ्चिदिष्टं किञ्चिदनिष्टं भवति । यथा वक्तृत्वाद्यापादकमिष्टं ज्ञानानन्तरमपि तदिच्छायाः सत्त्वात् । रा जत्वाद्यापादकमनिष्टं तस्य ज्ञानभक्त्यादिप्रतिबन्धकत्वेन ज्ञानिनः त दिच्छाया अभावात्, मा भूदिति विपरीतेच्छाभावाच्च । सप्तजन्मसु वि प्रत्वापादकं चानिष्टम् । एवं मोक्षातिशयसाधनश्रवणादिसाधनादि प्रापकं पुण्यमिष्टं स्वर्गादिसाधनमनिष्टमिति आनन्दमालोक्तमपि द्रष्ट व्यम् । एवमुत्तरकालीनमपि काम्यं करणानन्तरं इच्छाभावाभावा भ्यामिष्टमनिष्टं चेति द्विविधम् । तत्रेष्टस्य संश्लेषः अनिष्टस्य चाश्लेष इति । कुत एतदित्यत एकेषामुभयोरित्यंशं व्याचष्टे—तथा हीति । तथा हीत्युक्त्या इतिशब्दः प्रकारार्थो हेत्वर्थश्चेत्युक्तं भवति । 'एके षाम्' सामशाखिनां पाठ इति शेषोक्तिः । 'उभयोः' पापकाम्यपुण्य योः । तथेत्यस्य विवरणम्—त्यागेनेति । त्यागज्ञापकतयेत्यर्थः । सुहृ दां पुण्यप्राप्त्युक्त्या ज्ञानिनस्तत्त्यागोऽवगम्यत इति भावः । इतिश ब्दपरामृष्टां श्रुतिं दर्शयति—तस्येति । 'तस्य' ज्ञानिनः । यथेति शे षः । 'दायं' पित्रार्जितं द्रव्यं 'उपयन्ति' प्राप्नुवन्ति । तथा विष्णुभ क्ताः 'सुहृदः' प्रत्युपकारमनपेक्ष्योपकर्तारः 'साधुकृत्यां' अप्रारब्ध मनभीष्टं काम्यं पुण्यमेव उपयन्ति, न तु अकाम्यं प्रारब्धमिष्टं च । अकाम्यस्य ज्ञाने सुखातिशये च विनियुक्तत्वात् प्रारब्धस्य भोक्तव्य त्वात् इष्टनाशस्यापुरुषार्थत्वात् । 'पापकृत्यां' पापकर्मजनिताधर्मं उ पयन्तीत्यर्थः । इत्येकेषां पाठोऽस्तीत्यन्वयः । अनेन—'उभयोः' पाप काम्यपुण्ययोः 'त्यागेन' त्यागज्ञापकतया 'इति सुहृदः' इत्येवंरूपः ए केषां पाठोऽस्तीति हेतोः अतः 'अन्यत्' काम्यपुण्यमपि नश्यति न श्लिष्यते चेति सूत्रार्थ उक्तो भवति ॥ ( ११ ) ननु तथाऽपि काम्येऽभिहितोऽवान्तरविशेषः श्रुतौ स्पष्टं न
[ अधि - ८. सू - १८.] दीपिकासहितम्. १०१९ किमु पापं परब्रह्मज्ञानिनो नात्र संशयः ॥ इति पाद्मे ॥ १७॥ ( १२) सू—ॐ ॥ यदेव विद्ययेति हि ॥ ॐ ॥ १८ ॥ ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तं च भव- ति । ‘ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. १-१-१०.) इति श्रुतेः । ‘ न हास्य कर्म क्षीयते’ (बृ. ३-४-१५.) इति च । प्रतीयत इत्यतोऽपिशब्दसूचितां स्मृतिं दर्शयति—अनभीष्टमिति ॥ प- रब्रह्मज्ञानिनोऽनभीष्टमनारब्धं पुण्यमपि नश्यति । नात्र संशयः । एवं सति अस्य पापं नश्यतीति किमु वक्तव्यमित्यर्थः । पाद्म इति । अप्रा- रब्धमनभीष्टं च नश्यतीत्ययं विशेषः स्पष्टमुक्त इति वाक्यशेषः ॥ ( १२) ननु ज्ञानिकृतोत्तरकालीनाकाम्यपुण्यस्य कथं मोक्षानुप्रवे- शः कर्मणो नश्वरल्पफलकत्वादित्याशङ्कां परिहरत्सूत्रं पठति—यदे- वेति ॥ अत्र अग्निहोत्रादि तत्कार्यायेति पदद्वयानुवृत्त्या लब्धं साध्यं दर्शयति--ब्रह्मदर्शीति । अपिश्चार्थ एवार्थश्च ब्रह्मदर्शिकृतमित्यनन्तरं स्वस्थाने च सम्बध्यते । तथा च ब्रह्मज्ञानिकृतमेवाग्निहोत्रादिपुण्यं स्वरूपतोऽल्पमपि ‘महत्तमं’ अतिशयितमहाफलप्रदं ‘अनन्तं’ अवि- नाशिफलप्रदं च भवतीत्यर्थः । अतो युक्तस्तस्य मोक्षानुप्रवेश इ- ति भावः । कुत एतदित्यतस्तत्र हेतुतया सूत्रगृहीतश्रुत्युदाहरण- पूर्वकं सूत्रं व्याचष्टे—यदेवेति । ‘इति श्रुतेः’ इति छन्दोगश्रुते- रित्यनेन सौत्रहिशब्दो यत इत्यर्थे । इतिशब्दः श्रुतिपदार्थक इत्यु- क्तं भवति । श्रुतिस्तु पुरुषार्थनये व्याख्याता । सूत्रे एकश्रुत्युदा- हरणमुपलक्षणम, इतिशब्दो वा आद्यर्थ इति भावेनात्रार्थे श्रुत्य- न्तरं स्मृतिं च क्रमेण दर्शयति—न हास्येति । इति च श्रुतेरित्य- न्वयः । चः समुच्चये । इयं बृहदारण्यश्रुतिः भाक्तनये व्याख्याता । स्मृतौ ज्ञानवत इति तृतीयार्थे षष्ठी । एवमज्ञानामिति च । एत- योः कृतपदेनान्वयः । ‘अल्पमात्रः’ स्वरूपतोऽत्यल्पः अल्पमात्रकृत इति समस्तपाठे अल्पमात्रश्चासौ कृतश्चेति विग्रहः । तदा नित्यसापे- क्षत्वात्समासः । ‘महान्’ महाफलप्रदः ‘महान्’ स्वरूपतः । यद्यपि तथापीत्यर्थेऽपिः उभयत्रान्वेतव्यः । इति चेति । चः समुच्चये । भार- ते वचनाञ्चेति शेषः । हेतुत्रयस्यापि ब्रह्मदर्शीत्यनेनान्वयः । अनेन य
१०२० ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - १.] अल्पमात्रकृतो धर्मो भवेत् ज्ञानवतो महान् । महानपि कृतो धर्मो ह्यज्ञानां निष्फलो भवेत् ॥ इति च भारते ॥ १८ ॥ (१३) सू—ॐ॥ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्य ते ॥ ॐ ॥ १९ ॥ तः ज्ञानिकृताग्निहोत्रादि स्वरूपतोऽल्पमपि 'तत्कार्याय' तच्च तत्कार्यं च तत्कार्यं तस्मै महानन्तफलायैव भवति, न त्वङ्गकर्मवदल्पास्थिरफ लाय । कुतः ? ‘हि’ यतः ‘यदेव विद्यया’ इति ‘न हास्य’ इति श्रु तिद्वयं ‘अल्प’ इति स्मृतिश्चेत्येवमाह, अतो युक्तस्तस्य मोक्षानुप्रवे श इति सूत्रार्थ उक्तो भवति । इदं त्ववधेयम्—द्वेषिणः पूर्वपुण्यस्या प्रारब्धस्य विनाशः उत्तरस्याश्लेष इत्ययमर्थस्तावदितरस्येत्यनेनैवो क्तः । अग्निहोत्रादीत्यनेन ज्ञानिकृताकाम्यपुण्यस्य पूर्वस्य ज्ञानार्थत्व मुत्तरस्य ज्ञानकार्यमोक्षातिशयार्थत्वमिति यो न्यायोऽभिहितः सोऽपि द्वेषिणि तद्वैपरीत्येनानुसर्तव्यः । द्वेषपरिपाकप्राक्कालीनस्याप्रारब्धस्य पापस्य द्वेषाभिवृद्धिहेतुत्वमुत्तरस्य तु साक्षात्तमोऽनुप्रवेशः । एवमतो ऽन्यदपीत्यनेन ज्ञानपूर्वकालीनकाम्यपुण्यस्याप्रारब्धस्यानिष्टस्य च नाशस्तदुत्तरकालीनस्य तादृशस्यासंश्लेष इति यो न्यायोऽभिहितः स द्वेषिण्यपि वैपरीत्येनानुसर्तव्यः । द्वेषपरिपाकात्पूर्वतनं काम्यमप्रा रब्धं पुण्यमनिष्टं चेन्न नश्यति । यथा दुर्योधनादीनां राजत्वापादकं कुरुवंशादौ जननकारणं पुण्यम् । तस्य कृष्णभीमादिमहाद्रोहद्वारा पूर्णतमोहेतुत्वात् । इष्टं चेन्नश्यति । द्वेषपूर्त्युत्तरकालीनं च काम्य पुण्यमप्रारब्धमनिष्टं चेत् श्लिष्यते । इष्टं चेन्न श्लिष्यते । उत्तरस्याका म्यस्य तु मनुष्याधमकृतस्य तमसि दुःखातिशयह्रासहेतुत्वं, कल्या दिकृतस्य तु तेषां दुःखस्य कॢप्तत्वात्स्वयोग्याधिकपापविनाशहेतुत्व म् । एवं ‘यदेव विद्यया’ इत्यनेन ज्ञानिकृतोत्तरपुण्यस्य महानन्तफ लत्वमिति यो न्यायोऽभिहितः सः द्वेषिपापेऽप्यनुसर्तव्यः । प्रमाणबला द्द्वेषिपापस्यापि तमोऽनुप्रवेशोऽवश्यमङ्गीकार्य इति सूत्रत्रयन्यायो द्वे षिपुण्ये पापे चानुसर्तव्य इति ॥ (१३) ननु तथाऽपि ब्रह्मज्ञानिद्वेषिणोः मुक्तितमसी न सिध्यतः उभ योरपि प्रत्येकं प्रारब्धपुण्यपापसद्भावादित्याशङ्कां परिहरत्सूत्रमुपन्य
[ अधि - ८. सू - १९. ] दीपिकासहितम्. १०२१ आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः । (१४) आरब्धपुण्यपापस्य भोगेन क्षपणादनु । प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ॥ ब्रह्मणांशतकालात् पूर्वमारब्धसंक्षयः । नियमेन भवेन्नात्र कार्या काचिद्विचारणा । स्यति-भोगेनेति ॥ अत्र तुशब्दो ज्ञानिनः प्रारब्धभोगे उपमर्दं चेत्युक्त विशेषद्योतक इति भावेन सूत्रं व्याचष्टे-आरब्धपुण्यपापे इति । अनेन इतरे इत्येतत् प्रकृतानारब्धकार्यकपुण्यपापेतरपरामर्शकमित्युक्तं भव ति। 'भोगेन' कार्यद्वाराऽनुभवेन 'क्षपयित्वा' विनाश्यानन्तरम् । ब्रह्मेति शेषोक्तिः । तमो वेत्यस्याप्युपलक्षणमेतत् । 'सम्पत्स्यते' ब्रह्मदर्शी ति शेषः । इतर इति च विपरिणामेनात्राप्यन्वीयते । तथा च ब्रह्मद र्शी ब्रह्म 'सम्पत्स्यते' 'इतरो' ब्रह्मद्विट् तमः 'सम्पत्स्यते' प्राप्नो तीति योजना । अतो न प्रारब्धकर्मसद्भावेन मोक्षाद्यभावः शङ्क्य इति भावः । ननु यथा ज्ञानानन्तरं न मोक्षो नियतः, यथा चोपासनानन्त रं ज्ञानमनियतं, तथा कर्मक्षयानन्तरमपि मोक्षोऽनियत इति शङ्कानि वर्तकतयाऽथशब्दं व्याचष्टे--अथेति । शब्द इति शेषः । अनेनाथेत्येत त् अनन्तरमेवेति व्याख्यातं भवति ॥ (१४) कुतोऽयं नियमो ज्ञायत इत्यत आह—आरब्धेति ॥ 'क्षपणात्' नाशादन्वनन्तरमेवेत्येवकारान्वयः । ब्रह्म प्राप्नोति 'घोरं' असह्यदुःखं तमो वा प्राप्नोतीति 'अत्र' अर्थे न संशय इत्यर्थः । ब्रह्मदर्शी ब्रह्मद्वि डिति च शेषः । प्रत्येकमस्यान्वयः । अतो नियमः सिद्ध इति वाक्यशे षः । नन्वारब्धभोगस्य निरवधिकत्वे ज्ञानिद्वेषिणोः ब्रह्मतमःप्राप्ती अ नुपपन्ने इत्यत आह—ब्रह्मणामिति । अत्र ब्रह्मणांशतमिति षष्ठ्या अ लुक् । तस्य कालो ब्रह्मणांशतकालः तस्मात् तत्समाप्तेः 'पूर्वे तु' पू र्वमेव सर्वेषां ज्ञानिनां 'आरब्धसंक्षयः' प्रारब्धनाशो भवतीत्यर्थः । शतकालानन्तरं न कस्यापि प्रारब्धानुवृत्तिः । किन्तु तत्समाप्तिपर्यन्त मेवेति भावः । 'अत्र' नियमस्य 'काचित्' क्वचित् 'विचारणा' व्य भिचारो नेत्यर्थः । इदमेव वाक्यं तत्त्वप्रदीपरीत्या ब्रह्मणामित्यस्यावृ त्तिं तत्रैकस्य समासप्रवेशं चाश्रित्य ब्रह्मणामपि ब्रह्मणांशतकालात्पूर्व मेवारब्धसंक्षयो भवति, एवं ततोऽपि पूर्वे पूर्वमनन्तादीनामिति व्या
१०२२ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - १. ] इति नारायणतन्त्रे ॥ १९॥ —:࿊:— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः —— ॥ ॐ ॥ ख्यातं चेद्विशेषनिष्ठं च भवतीति ज्ञातव्यम् । नारायणतन्त्रे वचनादि ति शेषः । अस्याप्यध्याहृतेनान्वयः ॥ ६ ॥ ॥ इति तदधिगमाधिकरणम् ॥ —— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणा श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां चतुर्थाध्यायस्य प्रथमः पादः • —:*:— ॥ ॐ ॥
[ अधि - १. सू - १. ] दीपिकासहितम्. १०२३ १. अधिकरणम् ॥ ( १ ) देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पाद उच्यते— सू—ॐ ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ॐ ॥ १ ॥ वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् । 'तस्य यावन्न वाङ्मन १. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—देवानामिति ॥ स्वपदं गतानां देवा- नां उत्तरोत्तरप्रवेशात्मको देहान्मोक्षः स्वपदगदेवभिन्नानां मानुषश- रीराणां ज्ञानिनां देहाद्ब्रह्मनाड्योत्क्रान्तिश्चास्मिन् चतुर्थस्य द्वितीयपा- दे उच्यत इति योजना । तत्राधिकार्याधिक्यक्रमात् प्रथमं देवानां लयो निगद्यते पश्चादितरेषामुत्क्रान्तिरिति भावः । न चैवं पादभेदप्र- सङ्गः । चतुर्मुखादिदेवानां मनुष्याणां च बह्वल्पगुणविषयकत्वेन उपा- सनेऽवान्तरभेदे विद्यमानेऽप्युपासनत्वेनैकीकरणवदत्रापि देहलयत्वे- नैकीकरणसम्भवात् । तत्र प्रथमाधिकरणे वाचो मनसि लयः समर्थ्य- ते । तत्र न वाङ्मनसि लीयत इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य- ति—वागिति । अत्र वाङ्मनश्शब्दार्थोक्तिपूर्वकं विलीयत इति पदा- ध्याहारेण सूत्रं व्याचष्टे—वागभिमानीति । अत्रोमारुद्रपदाभ्यां लक्ष- णया वारुणीशेषौ सौपर्णीसुपर्णौ च प्रतिपाद्येते । लक्षणाबीजं तु उमा- त्ववारुणीत्वादीनामेकद्रव्यसम्बन्धः सौपर्ण्यादीनां पदसादृश्यं चेति सुधोक्तं द्रष्टव्यम् । तत्त्वप्रदीपे तु उमारुद्रादीनामुपरि वारुणीशेषादि- भावात् तदानीमपि तेषु पूर्वप्रसिद्धनामप्रयोगोऽर्जुनादिशरीरपातेऽपि स्वर्गारोहणादिकेऽर्जुनादिशब्दप्रयोगवद्भूतपूर्वगत्या न विरुद्ध इत्युक्त- म् । कुत इत्यतो—दर्शनादित्येतत् शब्दादित्यनेन पौनरुक्त्यपरिहाराय प्रत्यक्षपरतया व्याचष्टे—वाच इति । प्रत्यक्षतयैवेत्यादावुपस्कर्तव्यम् । मनोऽनुसारेणैव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः । शब्दादि- त्येतच्छ्रुतिप्रदर्शनेन व्याचष्टे—तस्येति । छन्दोगश्रुतिरियम् । अत्र जी- वस्य मरणकाले अस्वातन्त्र्यं प्रतिपादयितुं तत्त्वाभिमानिदेवताव्यापा- रोपरमः प्रतिपाद्यते । अत एव प्रमेयदीपे वागिति वाक्येनोत्क्रमणे प- रदेवता वागादीन्याकर्षतीत्युच्यते इत्युक्तम् । 'तस्य' म्रियमाणस्य पुरुषस्य यावत्पर्यन्तं वागभिमान्युमा मनोऽभिमानिनि ' न सम्पद्यते '
१०२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] सि सम्पद्यते' (छा. ६-१५-१.) इति शब्दाच्च । (२) उमा वै वाक्समुद्दिष्टा मनो रुद्र उदाहृतः । तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद्विहीयते ॥ इति स्कान्दे ॥ (३) सू-- ॐ ॥ अत एव च सर्वाण्यनु ॥ ॐ ॥ २ ॥ अत एव च शब्दात्सर्वाणि दैवतानि यथाऽनुकूलं वि लीयन्ते 'अग्नौ सर्वे देवा विलीयन्ते अग्निरिन्द्रे इन्द्र उमायां उमा रुद्रे विलीयते एवमन्यानि दैवतानि यथाऽ तेन प्रस्तव्यापारा न भवति । तावत्स्थीयान् ज्ञात्यादीन् जानाति । य दा तु वाङ्मनसि संपद्यते तदा न जानाति पुरुष इति श्रुत्यर्थः । यद्यपी यं श्रुतिः मरणकालीनदेवताप्रवेशविषयेति नात्रोदाहरणं युक्तं, तथाऽ पि मरणकाले देवताप्रवेशस्य प्रलयं तल्लयक्रमानुसारित्वेनास्या उ भयविषयत्वान्नासङ्गतिः ॥ (२) नन्वेतच्छ्रुतिसूत्रगतौ वाङ्मनःशब्दौ उमारुद्रपरौ कुतो ज्ञा येते इत्यतः स्मृतेरेवेत्याह— उमेति ॥ अत्राप्युमापदेन वारुणी सौपर्णी च रुद्रपदेन च शेषः सुपर्णश्चोच्यते । उमाविवक्षायां तु तस्याः रुद्र द्वारा भारत्यां लयो ज्ञातव्यः । वैशब्दः प्रसिद्धौ । 'तत्' श्रुत्युक्तं 'ए तत्' उमारुद्राख्यं वाङ्मनसाख्यं च 'मिथुनं' द्वन्द्वं 'दाम्पत्यात्' जायापतिभावात् । एवं ज्ञातुर्वैधुर्यं न भवेदिति भावः । स्कान्द इति। वाक् उमा मनो रुद्र इत्युक्तं यत इति वाक्यशेषः ॥ (३) अस्त्वेवं वाचो लयनिर्णयः । तथाऽपि न सर्वदेवानां मोक्षो युज्यते । लयानिश्चयादित्याशङ्कां परिहरत्सूत्रं पठति—अत एवेति ॥ अत्र अत इति पदमनूद्य तदर्थमाह—अत इति । 'शब्दात्' श्रुतेः । श ब्दादेवेत्यन्वयः । न तत्र मानान्तरं गवेषणीयमित्येवार्थः । एवप्रयोगो नियामकानां बाहुल्याल्लयानिश्चय इति शङ्कानिरासार्थः । चशब्दाऽ प्यर्थः । सर्वाणीत्यतः परं सम्बध्यते । न केवलं वागिति चशब्दार्थः । तत्त्वप्रदीपे तु चशब्दादिन्द्रियाणि चेत्युक्तम्। दैवतानीति सूत्रे शेषोक्तिः। अन्वित्यस्यार्थमाह यथाऽनुकूलमिति । स्वनियम्यनियामकभावानुसा रेणेत्यर्थः । विलीयन्त इति पूर्वत्राध्याहृतपदस्यात्र विपरिणामेनानुष ङ्गोक्तिः । कोऽसौ शब्द इत्यतस्तमुदाहरति--अग्नाविति । अत्रोमारुद्र पदाभ्यां सौपर्णीसुपर्णावुच्येते । अग्नेरिन्द्रे लयः सूर्यद्वारेणैव, न तु
[ अधि - २. - सू - ३. ] दीपिकासहितम्. १०२५ नुकूलम्' इति हि गौपवनश्रुतेः ॥ २ ॥ * २. अधिकरणम् ॥ ( १ ) सू-—ॐ ॥ तन्मनः प्राण उत्तरात् ॥ ॐ ॥ ३ ॥ 'मनः प्राणे' (छा. ६-१५-१०) इत्युत्तरवचनान्म नोऽभिमानी रुद्रः प्राणे वायौ विलीयते । 'वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रे साक्षादिति ज्ञातव्यम् । विलीयत इति सर्वत्र सम्बध्यते । श्रुतिरित्यान न्तरं यत इति शेषः । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । शब्दात् श्रुते रिति सामानाधिकरण्यम् ॥ १ ॥ ॥ इति वाङ्मनोऽधिकरणम् ॥ * २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मनसः प्राणे लयस्समर्थ्यते । न प्राणे मनो लीयते, अविशेषात् इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—तन्मन इति ॥ अत्र शब्दादित्यस्यानुवृत्त्या उत्तरादिति हेतुवाक्यं व्याचष्टे— मन इति । इत्युत्तरवचनादिति । एवंरूपात् ‘वाङ्मनसि सम्पद्यते’ इति पूर्वनयोदाहृतवाक्यापेक्षयोत्तराद्वाक्यादित्यर्थः । तन्मन इति स मासनिविष्टतच्छब्दस्य पूर्वनयोक्तवाग्लयाधिकरणत्वविशेषितपरत्वे न स्पष्टार्थत्वात् तं विहाय तन्मनः प्राण इति प्रतिज्ञांशं व्याचष्टे—मन इति । विलीयत इति शेषोक्तिः, श्रुतौ सम्पद्यत इत्यनुवृत्तपदार्थकथ नं वा । सावधारणमेतत् । अत्र प्राणवायुपदाभ्यां व्याख्येयव्याख्यान रूपाभ्यां चतुर्मुखो ग्राह्यः । मनोरुद्रपदाभ्यां शेषो गरुडश्च । तयोश्च वा णीद्वारा चतुर्मुखे लयो बोध्यः । एवं श्रुतावपि वायुरुद्रशब्दौ मनःप्रा णशब्दौ व्याख्येयौ । ननु प्राणादनुत्पन्नस्य मनसः कथं प्राणे लय इ त्यतोऽनुवृत्तं शब्दादित्येतच्छ्रुत्यन्तरपरतयाऽपि व्याचष्टे—वायोरिति । वावेत्यवधारणे । ‘उदेति’ उत्पद्यते, तस्मादुत्पन्नतयादेव वायौ विली यते रुद्रः । तस्मादित्युत्तरत्रापि सम्बध्यते । ‘तस्मात्’ रुद्रोत्पत्तिल यहेतुत्वादाहुर्बुधाः ‘देवानां’ रुद्रादीनाम् । श्रुतिरित्यानन्तरं यत इति शेषोऽस्य मनः प्राण इति सिद्धमित्युपस्कृतेनान्वयः । अस्मिन् पक्षे प्रा १२९
१०२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ष्ठः' इति च कौण्डिन्यश्रुतिः ॥ ३ ॥ —::— ३. अधिकरणम् ॥ ( १) सू—ॐ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ॐ ॥ ४ ॥ स प्राणः परमात्मनि विलीयते । 'सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः प रमनुप्राणिति तस्मादाहुः प्राणस्य प्राण इति' ( ) ण इति निमित्तसप्तमीति ध्येयम् ॥ २ ॥ ॥ इति मनःप्राणाधिकरणम् ॥ —::— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्राणशब्दोक्त चतुर्मुखस्येश्वरे लयः समर्थ्य ते । तदधीनत्वानिश्चयान्न परमात्मनि प्राणो लीयत इति पूर्वपक्षे सि द्धान्तयत्सूत्रमुपन्यस्यति—स इति ॥ सोऽध्यक्षे इति प्रतिज्ञायां स इ त्यनुवादेन प्राण इति व्याख्यानं कृतम् । 'प्राणो' हिरण्यगर्भः । अध्य क्षे इत्यस्य 'अध्यक्षोऽधिपतिः श्रेष्ठो यदक्षाण्यस्य चोपरि' इति गीता तात्पर्येोदाहृतवचनानुसारेणैतज्जगदधिकृत्याक्षाणि यस्य सोऽध्यक्ष इ ति विग्रहाश्रयेणार्थं दर्शयति—परमात्मनीति । विलीयत इति शेषो क्तिः । सावधारणमेतत् । कुत इत्यतस्तत्राध्यक्षपदसूचितं तस्य तद् धीनत्वादिति हेतुमभिप्रेत्य, ननु तन्निश्चयोपायाभाव इत्यतः प्रवृत्तस्य तदुपगमादिभ्य इति हेतुवाक्यस्य तस्मिन् प्राणे तेषां देवानामुपगमो लयः तस्मिन् अध्यक्षे तस्य प्राणस्योपगमो वा , आदिपदेन सर्वेषां प्रा णानुप्राणनं तत्र लयः प्राणस्य अध्यक्षाानुप्राणनं तत्र लयो भोगश्च ग्रा ह्यः , तदसिद्धिशङ्कायां उपगमादित्यनेन तत्प्रतिपादकश्रुतिस्मृतयो ग्रा ह्या इत्यर्थमभिप्रेत्य तादृशश्रुतिस्मृत्युदाहरणेन तदुपगमादिभ्य इत्यंशं व्याचष्टे—सर्वे इति । देवा इत्यत्रापि सम्बध्यते । ईशलक्ष्मीव्यतिरिक्त सर्वदेवा इत्यर्थः । अन्यथा ‘प्राणः परम्’इत्युत्तरवाक्यविरोधः । 'उपग च्छन्ति' प्राप्नुवन्ति 'प्राणो' हिरण्यगर्भः । 'परं' परमेश्वरं 'उपग च्छति',तत्र लीयत इति यावत् । 'देवाः' शेषादयः 'प्राणमनुप्राण न्ति,'प्राणमनुसृत्य चेष्टां कुर्वन्ति । 'परं' परमात्मानं 'तस्मात्' प्रा णचेष्टाप्रवर्तकत्वात् । इत्याहुरित्यत्रापि परमिति सम्बध्यते । अत्र 'न
[ अधि - ३. सू - ४. ] दीपिकासहितम्. १०२७ ‘प्राणः परस्यां देवतायाम्’ ( ) । ( २ ) मुक्तास्सन्तोऽग्निमाविश्य देवास्सर्वेऽपि भुञ्जते । अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ॥ आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् । न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथं चन॥ किमु विष्णोः परानन्दो न ते विष्णाविति श्रुतेः॥ प्राणः कस्मिंश्चिदाश्रितः, सोऽन्यं कथमुपाश्रयेत’ इत्यादिप्राणस्वातन्त्र्य श्रुतीनां सावकाशत्वप्रदर्शनाय ‘सर्वे प्राणमुपगच्छन्ति, प्राणं देवा अ नुप्रणन्ति’ इत्यंशोदाहरणम् । तथा च ‘सर्वे प्राणमुपगच्छन्ति’ इ ति श्रुत्युक्तन्यायेन भगवदितरस्वातन्त्र्ये श्रुतितात्पर्यमिति भावः। ‘प्रा णः परस्यां देवतायाम्’ इति श्रुत्यन्तरं, ‘परस्यां’ विष्ण्वाख्यदेवता यां ‘प्राणः’ चतुर्मुखो लीयत इत्यर्थः ॥ ( २ ) मुक्तास्सन्त इति स्मृतिः ॥ अग्नेरधमास्तत्र लययोग्याः सर्वे देवाः ‘मुक्ताः’ कर्मक्षयं प्राप्ताः सन्तोऽग्निं प्रविश्य तत्र स्थितान् भोग्या न् स्वयोग्यानन्दादीन् ‘भुञ्जते’ अनुभवन्तीत्यर्थः । अपिरभिव्याप्तौ, अग्निरपीति वा । अग्नेरिन्द्रप्रवेशः परम्परया । तथाशब्द उपमायाम् । चः समुच्चये । ‘वायुं’ विरिञ्चमाविश्येति पूर्वोक्तसौपर्णीसुपर्णवाणी द्वारेणेति द्रष्टव्यम् । ‘सः’ वायुः । अपिस्समुच्चये । तुशब्दो हिरण्य गर्भस्येतरदेवेभ्यः सर्वाङ्गप्रवेशाख्यविशेषार्थः । अवधारणे वा तुः । ‘बाह्यकान् भोगान्’ भुज्यन्त इति भोगाः परमात्मस्वरूपानन्दात् मु क्तान्तरानन्दाच्च बाह्यान् स्वयोग्यानन्दानित्यर्थः । बहुवचनमेकत्वार्थे । यद्वा—बाह्यप्राकृतविषयभोगानित्यर्थः। उक्तं हि तत्त्वप्रदीपे । परमा त्मस्वरूपादन्यं मुक्तान्तरानन्दाच्च बाह्यं स्वानन्दं भुङ्क्ते । बहिर्निर्गत स्तु बाह्यविषयानपि कांश्चित्स्वयोग्यान् भुङ्क्ते इति । पुनस्तुशब्दोऽव धारणार्थः । बाह्यकानित्येतदेवोपपादयति—न हीति। ‘हि’ यस्मात् ‘तेषां’ मुक्तानां मध्ये एकस्य ‘निजः’ स्वरूपभूत आनन्दः ‘परैः’ अन्यैः ‘कथं चन’ केनाप्युपायेन प्राप्यो न भवति । विष्णोः परान न्दस्तु न प्राप्य इति किमु वक्तव्यमित्यर्थः। विष्णुसम्बन्ध्यानन्दोऽन्यै र्न लभ्य इति कुतो ज्ञायत इत्यत आह—न त इति। अन्यथैतच्छ्रुति विरोधः स्यादिति भावः। व्याख्यातैषा श्रुतिर्जन्माधिकरणे । न च प्र
१०२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् । सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम् ॥ इत्यादिध्रुतिस्मृतिभ्यः ॥ ४ ॥ -*- ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ भूतेषु तच्छ्रुतेः ॥ ॐ ॥ ५ ॥ वेशाभिधायकस्मृत्युदाहरणं प्रकृतासङ्गतमिति वाच्यम् । 'मुक्तौ लये यद्वत्' इत्यनुव्याख्यानोक्तरीत्या मुक्तौ भोगार्थं प्रवेशक्रमस्य लये प्र- वेशक्रमस्य च समनियतत्वेन सङ्गतत्वात् ॥ ( ३ ) ननु 'प्राणः परस्याम्' ( ) इति श्रुतौ प्राणस्य पर- मात्मनि लय उक्तः । स नोपपद्यते 'प्राणस्तेजसि' (छा. ६-१५-१०) इति श्रुतिविरोधादित्यतः स्मृत्यन्तरमुदाहरति—प्राणस्येति ॥ प्राणस्य 'ते- जसि' लक्ष्म्यां लयो नाम 'मार्गमात्रं' तत्प्राप्तिमात्रम्, न तु जीर्णभाव इति 'उदाहृतं' उक्तमभियुक्तैरित्यर्थः । कुतोऽमुख्यार्थकल्पनेत्यत आह- सर्वेशितुरिति ॥ 'तस्य' प्राणस्य 'सर्वादेः' सर्वोत्पत्तिकारणात् 'सर्वे- शितुः' विष्णोरन्यत्र कथं साक्षाल्लयः अयोग्यत्वात् तस्य साक्षात्परमा- त्मनि लययोग्यत्वादिति भावः । इदं च श्रुतिस्थप्राणशब्दस्य हिरण्य- गर्भवाचित्वमाश्रित्योक्तम् । उक्तं हि सुधायां-प्राणशब्दस्य हिरण्यगर्भ- वाचित्वपक्षे भाष्योक्तमिति द्रष्टव्यमिति । यदा तु प्राणशब्दो वायुवाची तदा तस्य 'तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुनस्तयैव वायुः' इत्यनुव्याख्यानोक्तरीत्या साक्षादेव तेजस्येव देहलयो न परमात्मनि, तस्य च चतुर्मुखत्वेन पुनर्जननात् 'विलीनो हि प्रकृतौ संसारमेति' ( सौपर्णश्रुतिः ) इति श्रुतेरिति ध्येयम् । इत्यादिध्रुतिस्मृतिभ्य इति । श्रुती च स्मृती चेति विग्रहः । आदिशब्दोक्तश्रुतिस्मृतिविवक्षया बहु- वचनम् । विलीयत इति शेषोक्तिः । सावधारणमेतत् । श्रुतिस्मृतिभ्य इत्यस्य प्राणः परमात्मनि लीयते इति सिद्धमिति साध्येनान्वय
[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०२९ भूतेष्वन्येषां देवानां लयः। 'भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकल एव मध्ये स्थाता' इति बृहच्छ्रुतेः॥ ५॥ —::— ५. अधिकरणम् ॥ (१) सू—ॐ ॥ नैकस्मिन् दर्शयतो हि ॥ ॐ ॥ ६ ॥ नैकस्मिन् भूते सर्वेषां देवानां लयः 'पृथिव्यामग्नौ इति श्रुतेरग्नावेव सर्वेषां देवानां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्यति-भूतेष्विति ॥ अत्र स इति विपरिणामेनानुवर्तते । देवा विली यन्त इति प्रकरणाल्लभ्यत इति भावेन भूतेष्विति प्रतिज्ञांशं व्याचष्टे- भूतेष्विति । पञ्चस्वपि भूतेषु तदभिमानिष्वित्यर्थः । अन्येषामिति । 'वाङ्मनसि' इत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु लीय मानत्वेन उक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्योऽन्येषां देवाना मित्यर्थः । कुत इत्यतः तच्छ्रुतेरित्यंशं व्याचष्टे-भूतेष्विति । 'देवाः' उक्तेभ्योऽन्ये देवाः 'भूतानि' पृथिव्यादीनि 'परे' परमात्मनि लीय न्ते इत्यनुषङ्गः । भूतानां परमात्मनि लयस्तु आकाशोर्व्योः बृहस्पति द्वारा भूतवायोः प्रवहस्येन्द्रद्वारा अपां सोमद्वारेत्येवं परम्परया द्रष्ट व्यः । परस्यापीतरवच्चेतनत्वाल्लयमाशङ्कयाह - न पर इति । 'नोदेति' नोत्पद्यते । 'अस्तं' लयं 'नेति' न प्राप्नोति । कुत इत्यत आह— 'ए कलः' स्वतन्त्र इति । 'मध्ये' देहमध्ये हृदये 'स्थाता' विद्यमान इ त्यर्थः । यद्वा—उत्पत्तिलययोर्मध्ये स्थितावेक एव स्थातेत्यर्थः । अनेन ते विशिष्योक्तेभ्योऽन्ये देवाः पञ्चस्वपि भूतेषु लीयन्ते, नैकस्मिन्नग्ना वेव । कुतः ? 'तच्छ्रुतेः' तस्य भूतेषु देवानां लयस्य श्रुतेः 'भूतेषु दे वाः' इति श्रवणादिति सूत्रार्थ उक्तो भवति ॥ ४ ॥ ॥ इति भूताधिकरणम् ॥ —✡*— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवानां सर्वभूतेषु लयः समर्थ्यते । न च पूर्वे ण गतार्थता । अधिकाशङ्कयैवैतदधिकरणप्रवृत्तेः । न च सन्न्यायरत्
[Page Header: १०३० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ४. पा - २. ]]
विलीयन्ते वरुणेऽश्विनावग्नावग्नयो वायाविन्द्रः सो- म आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते । (२) ‘ऋभवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते’ इति महोपनि
अर्थतोऽप्यभिन्नन्यायमूलत्वेन चाधिकरणभेदेऽप्यविरोधात् । न चानेन पूर्वस्य गतार्थता । ‘भूतेषु देवाः’ इति श्रुतिविशेषसूचकतया सार्थक- त्वात् । ‘अग्नौ सर्वे देवाः’ इति श्रुतेरग्नावेव सर्वेषां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—नैकस्मिन्निति ॥ अत्र पूर्वसूत्राद्भूतेष्वि- त्यस्य विपरिणामेनानुवृत्तिं सर्वेषां देवानां लय इति प्रकृतप्रतिज्ञाशेषं चाभिप्रेत्य नैकस्मिन्निति प्रतिज्ञांशं व्याचष्टे—नैकस्मिन्निति । भूते तेजोभिमानिनि अग्नावेव लयो न वाच्य इत्यर्थः । कुतो नेत्यतः प्रवृत्तं द- र्शयतो हीति हेत्वंशं श्रुतिद्वयोदाहरणपूर्वकं व्याचष्टे—पृथिव्यामित्या- दिना । पृथिव्यभिमानिधरायामृभुनामका देवा विलीयन्त इत्यर्थः । ‘व- रुणे’ अबभिमानिनि अश्विनौ विलीयेते इति विपरिणामेनान्वयः । ‘अ- ग्नौ’ अग्नattribute/जडाभिमानिनि देवे ‘अग्नयः’ अग्निपुत्रा विलीयन्त इत्यर्थः । ‘वायौ’ प्रधाने हिरण्यगर्भपरोऽयं शब्दः । इतिशब्दः श्रुतिस्थः आद्यर्थे । यथोक्तं तत्त्वप्रदीपे—इतिशब्दस्याद्यर्थत्वादिति । तथा च वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याद्याः सर्वे देवा विलीयन्त इत्यर्थः । तत्रे- न्द्रस्य लयः ‘इन्द्र उमायाम्’ ( गौपवन. ) इति श्रुत्युक्तक्रमेण सौ- पर्णीसुपर्णवाणीद्वारेण । सोमस्य चानिरुद्धकामवारुणी शेषवाणीद्वारे- ण । सूर्यस्य बृहस्पतिशक्रसौपर्णीसुपर्णवाणीद्वारेण । बृहस्पतेः शक्र- सौपर्णीसुपर्णवाणीद्वारेण लय इति विवेक्तव्यम् । ‘आकाशे’ तदभि- मानिनि गणपतौ ‘साध्याः’ तन्नामका देवाः ॥ (२) एवं महोपनिषद्वाक्यमुदाहृत्य चतुर्वेदशिखावाक्यमुदाहर- ति—मृत्यवः पृथिव्यामिति ॥ मारकत्वान्निमित्तात् मृत्युनामका देवाः पृथिव्यभिमानिदेवतायां लीयन्त इत्यर्थः । ऋभवः पृथिव्यामिति क- चित्पाठः । न च ऋभुपृथिव्योः शतस्थतासाम्यात्कथमेतत् । किञ्चि- न्यूनतादिभावात् । ‘आपः’ वरुणाभिन्नाद्देवताः ‘तेजसि’ तेजोभूता- भिमानिन्यग्नौ ‘मरुतो’ भूतवाय्वादयो मरुद्गणाः ‘मारुते’ हिरण्यग- र्भे लीयन्ते इत्यर्थः । तत्र मरुतां इन्द्रसौपर्णीसुपर्णवाणीद्वारेण हिरण्य-