भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

४४० ब्रह्मसूत्रभाष्यम्. [ अध्या - २ । पा - १ । ] ( १६ ) असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि । यस्सत्यरूपं जगदेतदीदृक्सृष्ट्वा त्वभूत्सत्यकर्मा महात्मा । ( १७ ) अथैनमाहुस्सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते । अथैनमाहुर्नित्यकर्मेति नित्यं ह्येवासौ कुरुते । ( १८ ) 'यच्चिकेते सत्यमित्तन्न मोघम्' (ऋ. १०-५५-६.) अनिष्टप्राप्तये विनाशाय वा 'उग्रकर्माणः' क्रूरकर्माणस्सन्तः 'प्रभव न्ति' कलियुगादावुत्पद्यन्त इत्यर्थः । अत्र जगदसत्यतावादिनामासुर त्वाद्युक्त्या तत्सत्यताऽवगम्यत इति प्रकृतसङ्गतिः । गीताभाष्ये तु— न केवलं जगतो मिथ्यात्वादि वदतामासुरत्वं 'असत्यमप्रतिष्ठन्ते' इ त्यनेनोच्यते, किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वे षामपीति भावेन न विद्यते सत्यमस्येत्यसत्यं विष्ण्वाख्योत्पादकरहि तं, एवं न विद्यते प्रतिष्ठा प्रतिष्ठापक ईश्वरश्च विष्णुर्र्यस्य तदप्रतिष्ठ मनीश्वरमिति चोक्तम् । 'अन्नाद्भवन्ति भूतानि' इत्यादिक्रमेण परस्प रसम्भूतं न भवतीत्यपरस्परसम्भूतमेतादृशं जगद्ये आहुः, ते आसुरा इति व्याख्यातम् ॥ ( १६ ) विश्वमिथ्यात्वमतस्यासुरत्वं युक्तं, विष्णुमाहात्म्यविरुद्धत्वा दित्येतदुच्यते—असत्यमाहुरिति ॥ स्मृतिवाक्यमिदम् । यतः एतज्ज ग

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४४१ इत्यादिश्रुतिस्मृतिभ्यः । (१९) परस्परविरुद्धे तु वाक्यानां यत्र युक्तता । तथैवार्थः परिज्ञेयो नावाक्या युक्तिरिष्यते ॥ इति बृहत्संहितायाम् ॥ 'जेता' प्राप्ता, तथाऽपि तेभ्यः स्पार्हं वसु यज्ञादिफलं दाताऽपि प- रमेश्वरः इन्द्रादिनामा 'यत' 'विश्वं' 'चिकेत' चकार । कित करणे । तत् 'सत्यमित्' सत्यमेव, न मिथ्या । कुतो ? यतः तत् 'न मोघं' अर्थक्रियाद्यनुपयुक्तं न भवतीत्यर्थः । यद्वा-'स्पार्हं' स्पृहणीयं 'वसु' स्व- र्गभूम्यादिकं बल्यादिभ्यो जेता इन्द्रादिभ्यो दाताऽपीत्यर्थः । आदिपदेन 'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छा- श्वतीभ्यस्समाभ्यः' ( ईशा.८.) । इतीशावास्यवाक्यम्, । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । प्रधन्वस्य महतो महानि सत्यासत्यस्य करणानि वोचम् ॥ ( ऋ. २ - २४ - १२. ) इति ऋग्वेदवाक्यं च गृह्यते, अन्यानि च । 'कविः' सर्वज्ञः 'मनी- षी' ब्रह्मादिसर्वमनसामीशिता प्रेरकः णिनिप्रत्ययान्तोऽयं शब्दः । प- रिभवति सर्वानिति 'परिभू' सर्वोत्तमः परमनपेक्ष्य स्वयमेव भव- तीति 'स्वयम्भूः' अनन्याश्रयः स्वतन्त्रः परमेश्वरः 'अर्थान्' महदा- दीन् 'शाश्वतीभ्यः समाभ्यः' सप्तम्यर्थे पञ्चमी सर्वेष्वपि कालेषु 'याथातथ्यतः' तथाभावमनतिक्रान्तं यथातथं तस्य भावो याथा- तथ्यं ततो याथातथ्येनैव अबाधिततयैव सत्यानेव 'व्यदधात्' निर्मित- वानित्यर्थः । निर्माणशक्तिप्रदर्शनाय कविरित्यादि । हे मघवानौ यश- स्विनौ धनवन्तौ चेन्द्राबृहस्पती 'युवोः' युवयोरधीनं विश्वं 'सत्यमि- त्' सत्यमेव । कुतः ? 'वां' युवयोः सत्यजगत्स्र्जनादिरूपं 'व्रतं' कर्म 'आपश्चन' सर्वदेवता अपि 'प्रमिनन्ति' जानन्ति यतः, न के- वलमहमेव प्रतिपन्न इति मन्त्रद्रष्टा द्विरूपमिन्द्रबृहस्पतिशब्दवाच्यं प- रमेश्वरं प्रत्याह ॥ ( १९) ननु न जीवो ब्रह्मणो भिद्यते चेतनत्वात्, ब्रह्मवत, प्रपञ्चो वा बाध्यो दृश्यत्वाच्छुक्तिरजतवदित्यादियुक्तिसद्भावात्कथमन्यत्र प्र- माणाभाव इत्यत आह—परस्परेति ॥ तुरेवार्थोऽप्यर्थः । तथा च वा- क्यानां परस्परं विरोधे सत्येव 'यत्र' यस्मिन्नर्थे 'तथैव युक्तता' ए- ५६

४४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १.० ] (२०) विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥ इति च । (२१) ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः । प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥ कवाक्यानुसारेणैव युक्तिसिद्धताऽस्ति सोऽर्थो विज्ञेयस्स्यात् । एता वता 'अत्राक्या' श्रुतिस्मृत्यानुकूल्यहीना केवला युक्तिरपि न प्रमाणं 'इष्यते' अङ्गीक्रियते प्रामाणिकैः । शुष्कयुक्तिसिद्धार्थोऽपि न विज्ञे य इत्यर्थः । बृहतसंहितायामित्यनन्तरं न केवल युक्तिः प्रमाणमित्युक्त मिति शेषः ॥ (२०) ननु यथोदाहृतश्रुत्यादिकं सत्यत्वे प्रमाणम्, तथाऽचेतनप्र पञ्चस्य बाध्यत्वरूपे ब्रह्मानन्यत्वेऽपि 'वाचारम्भणम्' इत्यादिश्रुति स्मृतयः प्रमाणं सन्तीत्यत आह—विरुद्धवदिति ॥ पारमार्थिकविरो धे त्याज्यत्वमेव स्यात्, न तु व्याख्येयत्वमित्यतो विरुद्धवदित्युक्तम् । यदि तर्हीत्यर्थे यत्र तत्रेति निपातौ । वैशब्दः प्रसिद्धौ । दृष्टं प्रत्यक्षं अ तिबलबहुप्रमाणदर्शनं वा । तथा च ये मिथ्यात्वसत्यत्वादिरूपार्थद्वय बोधका आगमा यदि 'मिथः' परस्परं विरुद्धवत्प्रतीयन्ते । तर्हि दृ ष्टानुसारेण तेषामापाततः प्रतीतादन्योऽर्थः 'अन्ववेक्ष्यते' मुख्यवृ त्त्याऽवगम्यत इत्यर्थः । इति चेति । ब्रह्मतर्के उक्तमिति शेषः । चः पू र्वप्रमाणसमुच्चये । तथा च प्रकृते साक्षिप्रत्यक्षानुसारेण अनन्यत्वश्रु त्यादीनामन्यथा व्याख्येयत्वान्न तेऽन्यत्र प्रमाणमिति भावः ॥ (२१) स्मर्यते च प्रपञ्चमिथ्यात्ववादिश्रुत्यादेरन्यर्थवर्णनं इति भा वेनाह—ईश इति ॥ इतिशब्दः प्रत्येकमभिसम्बध्यते । एवमपिशब्दोऽ पि । अत एव द्विर्ग्रह्णमिति तत्त्वोद्योतटीकोक्तिः । इत्यादिवदितिव तिः । इत्याद्यर्थसाधकवचनयुक्तिवदित्यर्थः अत्रेशोऽप्यनीश इत्येकं मतं, जगन्मिथ्येत्यपरं, गुरुरपूज्य इत्यन्यत् । आदिशब्देनैकः चेतनः परब्रह्म भावो मोक्ष इत्यादिमतं गृह्यते। तथा चेशोऽप्यनीश इत्यादिवचनवत् 'प्रमाणानि' तथा प्रतीतानि वचनानि यतो बहुभिर्वैदिकैः प्रमाणैर्विरु द्धान्यत आभासाः आभासानीति 'वैदिकैः' वेदार्थज्ञैर्ज्ञेयानीत्यर्थः। अथे ति समुच्चये । एवमादयो युक्तयोऽपि यस्माद्वैदिकैर्बहुभिः प्रमाणैः विरु द्धास्तस्मादाभासा इति ज्ञेया इत्यर्थः। वचनापेक्षया विरोधिप्रमाणानां

[ अधि - ६. सू- १८. ] दीपिकासहितम्. ४४३ ( २२ ) वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना । अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः ॥ इति च भागवततन्त्रे । ( २३ ) शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् । प्राबल्यसमर्थनाय बहुभिरित्युक्तम् । निरवकाशत्वादेरप्युपलक्षकमेत त् । अवैदिकवचनापेक्षया युक्त्यपेक्षया च प्राबल्यसूचनाय बहुभिरि ति वैदिकैरिति चोक्तम् ॥ ( २२ ) यथा प्रमाणविरुद्धानां दृश्यत्वादियुक्तीनामविषयवृत्तित्वेन व्याप्तिशून्यत्वेन च आभासत्वात् सर्वथा हेयत्वम्, किं तथा वचनाना मपीत्यपेक्षायामाभासत्वमेव विभज्याह—वेदेति ॥ वेदमन्तरन्तीति वेदानुसाराणि, वेदश्च वेदानुसाराणि च वेदवेदानुसाराणीति विग्र हः । वचनेषु कार्येवेति च शेषः । तु

४४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥ ( २४ ) प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु । अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः ॥ इति पुरुषोत्तमतन्त्रे ॥ १८ ॥ ( २५ ) सू— ॐ ॥ युक्तेः शब्दान्तराच्च ॥ ॐ ॥ १९ ॥ साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् ॥ केवलप्रमाणसाधनत्वेन ततोऽस्यावरत्वात् । दृष्टादृष्टसर्वविषयकत्वेन दृष्टमात्रविषयकप्रत्यक्षात्पूर्वभावित्वाच्च मध्यमत्वमिति भावः । अधमं प्रमाणं त्वसर्वविषयत्वात्प्रत्यक्षरूपानुप्रमाणं स्मृतमित्यर्थः ॥ ( २४ ) ततः किमित्यतो ‘नावाक्या युक्तिरिष्यते’ इत्युक्तं प्रपञ्चय- ति—प्रत्यक्षयोरिति ॥ अपेक्ष्यन्ते इति शेषः । आद्यशब्देनानुमानविरो- धार्थापत्त्यादिकं गृह्यते । तथा चानुप्रमाणरूपानुमाद्यास्तु यतः प्रत्यक्ष- योरागमयोर्विरोधे सति तत्रैकार्थनिश्चयाय सहायत्वेनापेक्ष्यन्ते अतः- ‘स्वतन्त्राः’ केवलाः ‘प्रमाणपदवीं’ प्रमाणभावं न ययुरतः सर्वावरा इत्यध्याहारेण योजना । अतो न केवलया दृश्यत्वादियुक्तैरसाधकत्व- मिति भावः । पुरुषोत्तमतन्त्र इत्यनन्तरं केवलयुक्तेरसाधकत्वं उक्तमि- ति शेषः । अतो न चान्यत्र प्रमाणमस्तीत्युक्तं युक्तमिति भावः ॥ ( २५ ) ननु साधनान्तरमभ्युपगम्य तस्येश्वराधीनत्वकथनापेक्षया साधनाभावकथनमेव वरं, साधनादिशून्यस्य सृष्ट्यादिकर्तृत्वमभ्युपग- मे महिमाधिक्यलाभादित्याशङ्कां परिहरन्सूत्रमुपन्यस्यति—युक्तेरि- ति ॥ अत्र नेत्यस्यानुवृत्त्या न महिमाधिक्यलाभाय भगवतः साधना- न्तरविधुरत्वमुररीकर्तव्यमिति साध्यलाभात् तत्रोपपत्तित्वेन युक्तेरि- ति या घटनालक्षणा साधनान्तरेण सृष्टेरपि महिमाविरोधितोक्ता तस्या सिद्धिपरिहारायागमसिद्धतामाह—साधनानामिति । ‘साधनत्वं’ कार्य- जननसामर्थ्यं यदाऽऽत्माधीनं स्वाधीनं ‘इष्यते’ अङ्गीक्रियते तदा ‘सा- धनसम्पत्तिः’ ईशितव्यसिद्धये साधनसम्पादनं आत्मनः ‘ऐश्वर्यद्योति- का’ तज्ज्ञापिका तदविरोधिनीत्यर्थः । इत्यादिवाक्यात्साधनान्तरेण सृ- ष्टिरपीश्वरस्य ‘युक्ता’ महिमाविरोधिनीत्यर्थः । इति ज्ञायत इति शेषः । आदिशब्देनैवंजातीयकानि वचनानि ग्राह्याणि । लोकप्रसिद्धेरपि ग्रा- हकमेतत् । इत्यादीति लुप्तविभक्तिकं शक्तोऽपि इति विलक्षणशब्दादि

[ अधि - ६. सू - २१० ] दीपिकासहितम्. ४४५ इत्यादेस्साधनान्तरेण सृष्टिर्युक्ता । 'अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ' (महाना.१-११.) इत्यादिशब्दान्त- राच्च ॥ १९ ॥ (२६) सू—ॐ ॥ पटवच्च ॥ ॐ ॥ २० ॥ साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ २० ॥ (२७) सू—ॐ ॥ यथा प्राणादिः ॐ ॥ २१ ॥ ति सुधायामुक्तिः । यद्वा—अन्यशब्दः शब्दान्तरं 'अद्भ्यः सम्भूतः पृथिव्यै' (तै.आ.३-१३.) इति प्रागुदाहृतश्रुत्यपेक्षया अस्या अन्यत्वात्। अत एव सूत्रे भाष्ये च प्राचीनश्रुतिसङ्ग्रहार्थे शब्दान्तरशब्दः । न केव- लं युक्तेर्युक्तत्वेनागमसिद्धत्वात्, किन्तु 'अद्भ्यस्सम्भूतो हिरण्यगर्भः' इत्यादिशब्दान्तरादपीति चशब्दार्थः । शब्दान्तरबोध्यश्रुत्योः समुच्चय एव चशब्दः । आदिशब्देनैवंजातीयकवाक्यं गृह्यते । नारायpatha? के श्रुतमिदं—हिरण्यगर्भः 'अद्भ्यः' अद्भिः अवाद्युपलक्षितपञ्चमहाभू- तैः 'सम्भूतः' उत्पन्नः 'इति' एवं 'अष्टौ' इन्द्रादिलोकपालाश्च सम्भू- ता इति तत्त्वप्रदीपदिशाश्रुत्यर्थः । तैत्तिरीये 'अष्टौ पुत्रासोऽदितेः' (तै.आ.१-१३.) इत्युक्त्वा 'मित्रश्च वरुणश्च धाता चार्यमा चांशुश्च भग श्चेन्द्रश्च विवस्वांश्च' (तै.आ.१-१३.) इति ये अष्टावन्ये गृहीतास्ते वाऽत्र ग्राह्याः । अनेन—न विष्णोर्महिमाधिक्यलाभाय प्रलये अवरसाधना- सत्त्वमुपेयम्, किन्तु तत्सत्त्वमेव । कुतः ? साधनाऽसत्त्वमन्तरा लीलया दण्डमवष्टभ्य गमनवत्साधनान्तरेण सृष्टेरपि युक्तेर्युक्तत्वाद्भगवन्महि- माविरोधित्वेनागमसिद्धत्वात् 'अद्भ्यः' इत्यादिशब्दात् शब्दान्तराच्च तत्सत्त्वपक्षाग्रह इति सूत्रार्थ उक्तो भवति ॥ (२६) न केवलं श्रुतिसिद्धत्वात्, किन्तु साधनसत्त्वस्य युक्तिसि- द्धत्वाच्च तत्राग्रह इत्याह सूत्रकृत्—पटवच्चेति ॥ अत्र पटपदं सम्प्रति- पन्नकार्यपरं सत्तत्सृष्टिलक्षकमित्याशयेन सूत्रं व्याचष्टे-साधनान्तरेणे- ति । कर्तृव्यतिरिक्तसाधनेनेत्यर्थः । दृष्टेत्यनेन दृष्टान्ते हेतुसाध्यसम्प- त्पत्तिरुक्ता । अनेन-न केवलं श्रुतेः, किन्तु विप्रतिपन्ना सृष्टिः कर्तृव्य- तिरिक्तसाधनसाध्या सृष्टित्वात्पटादिसृष्टिवदित्यनुमानाच्चावरस्य स- त्त्वं सिद्ध्यतीति सूत्रार्थ उक्तो भवति ॥ (२७) ननु तर्हि साध्ये स्वतन्त्रपदप्रवेशेन कर्तृव्यतिरिक्तस्वतन्त्र- साधनसिद्धिरपि स्यादित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—य-

४४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] तच्च साधनजातं तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादि । ( २८ ) प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः। क्षोभयामास भगवान् सृष्ट्यर्थं जगतः प्रभुः ॥ इति कौर्मे ॥ २१ ॥ —: ✤ ✤ :— ७. अधिकरणम् ॥ ( १ ) जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तराद्विराक्रियते— थेति ॥ तच्चेति। प्रलये सदपीत्यर्थः। यत इत्यर्थे वा चशब्दः। ‘साधन जातं’ साधनसमूहः ‘तेन’ भगवता। न त्वननुप्रविष्टम् ‘यः प्राणे तिष्ठ न्’ (बृ. ५-७-१६.) इत्यादिश्रुतेरित्येवकारार्थः। अतो न स्वतन्त्रमिति वा क्यशेषः। अन्यथाऽनुप्रवेशवैयर्थ्यादिति भावः। प्राणपदस्य वाय्वर्थ तया प्रसिद्धत्वादादिपदार्थमाह—शरीरेति। आदिशब्देन प्राणो गृ ह्यते। सूत्रे प्राणस्य स्वशब्देन ग्रहणेऽपि तस्य ज्ञानादिकार्यसाधनत्वे नासिद्धत्वात्, सम्प्रतिपन्नसाधनस्यैवेह दृष्टान्तत्वेन ग्राह्यत्वात्, शरीरे न्द्रिययोश्च तथात्वेन सिद्धत्वात् इन्द्रियाणां करणत्वेन तद्विवक्षया भाष्ये शरीरेन्द्रिययोः स्वशब्देन ग्रहणं कृतमिति ध्येयम्। अनेन— विप्रतिपन्नं साधनजातं न स्वतन्त्रं, प्रेरणार्थमीश्वरेणानुप्रविष्टत्वात्, यथा शरीरेन्द्रियप्राणादिरिति सूत्रार्थ उक्तो भवति। पूर्ववादुपन्यस्ता नुमानं तु प्रबळैतदनुमानविरुद्धत्वान्न साधकमिति भावः ॥ ( २७ ) साधनानां भगवदनुप्रविष्टत्वमेव कुत इत्यत आह—प्रकृति मिति ॥ चः समुच्चये। ‘प्रभुः’ समर्थः। ‘पुरुषोत्तमः’ भगवान् ‘प्र कृतिं’ प्रकृत्यवन्तराभिमानिनीं सरस्वतीं ‘पुरुषं’ चतुर्मुखं, यद्वा— ‘प्रकृतिं’ जडात्मिकां ‘पुरुषं’ जीवम्। अथ वा—स्त्रीपुरुषाख्यमिथु नं प्रविश्यैव जगतः सृष्ट्यर्थं तौ ‘क्षोभयामास’ सृष्टावुन्मुखीचकारे त्यर्थः। इति कौर्मे उक्तत्वादिति शेषः। अस्य साधनजातमिति पूर्वे वाक्येनान्वयः ॥ ६ ॥ इति आरम्भणाधिकरणम् ॥ —: ✤ :— ७. अधिकरणम् ॥ ( १ ) एतदधिकरणार्थमाह—जीवेति ॥ ननु समयपादे ‘अन्य थाऽनुमितौ च’ इत्यत्र जीवानामेव जगत्कर्तृत्वमिति सिद्धान्तस्य नि

[ अधि - ७. सू - २२. ] दीपिकासहितम्. ४४७ (२) सू— ॐ ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥ॐ॥२२॥ जीवकर्तृकपक्षे हिताकरणमहितकरणं च न स्यात् ॥ २२ ॥ राकरिष्यमाणत्वात्तेन गतार्थमेतदित्यत उक्तम्—श्रुतिप्राप्त इति । 'जी वाद्भवन्ति' इति श्रुत्याऽऽपाततः प्राप्त इत्यर्थः । तथा चात्र श्रुतिमूलयु क्तिसिद्धो जीवकर्तृत्वपक्षो निराक्रियते, उत्तरत्र तु समयप्राप्त इति भे द इति न गतार्थतेति भावः। श्रुतिप्राप्त इत्युपलक्षणं—साङ्ख्यानुभवप्राप्त श्चेत्यपि द्रष्टव्यम् । तथाऽपि 'एतेन शिष्टा' इत्यत्रास्य पक्षस्य निराकृत त्वात्तेन गतार्थतेत्यत आह—विस्तरादिति । तथा च पूर्वत्र संक्षेपतो निरस्तोऽपि अत्र विस्तरान्निराक्रियत इति न गतार्थतेति भावः ॥ (२) लोके घटादिकार्येषु जीवस्यैव कर्तृत्वेन अनुभवसिद्धत्वा ल्लाघवात्तस्यैव समस्तजगत्कर्तृत्वौचित्यात् 'जीवाद्भवन्ति' इति श्रु त्यानुकूल्याच्च जीवस्यैव स्वतन्त्रकर्तृत्वात्न विष्णोर्जगत्कर्तृत्वमिति प्रा प्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—इतरेति ॥ जीवेति । ईश्वर ए व नास्ति सर्वत्र जीवः स्वतन्त्रकर्तेति जीवस्य स्वतन्त्रकर्तृत्वपक्ष इ त्यर्थः । समस्तकार्येष्विति शेषः । अनेन 'इतरव्यपदेशात्' इत्यस्य तात्पर्यतो व्याख्यानं कृतं भवति । न चैवं न हि अत्राधिकरणे पूर्वप क्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम्, किन्तु घटादिक र्तृत्वं तावदनुभवसिद्धत्वात् कुलालादीनां वक्तुं शक्यम्, तत्रेश्वरस्या पि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमि ति सुधाविरोधः । घटादिकार्येष्विव महदादिकार्येष्वप्यदृष्टद्वारा जी व एव कर्ता नेश्वरः, तस्याप्रामाणिकत्वात्तादृशस्य कल्पने च कल्पना गौरवप्रसङ्गादित्याशयेनात्र पूर्वपक्षप्रवृत्तेः । सुधायां तु अस्तु वा ईश्व रः प्रामाणिकः । तथाऽपि न तस्य सकलकार्यकर्तृत्वं, किं तु महदा दिकार्यकर्तृत्वमेव, न घटादिकर्तृत्वमपि, उभयत्रापि कर्तृत्वाङ्गीकारे कल्पनागौरवप्रसङ्गादित्यभ्युपगमवादेन पूर्वपक्षस्य प्रवृत्तत्वेन विरोधा भावात् । हिताकरणादीत्यनेन नञ्शिरस्केनावृत्तेन भिन्नपदेन ज्ञापि तं साक्षादापाद्यं दर्शयति—हितेति । आदिशब्दार्थमाह—अहितेति । चः समुच्चये । हिताकरणादयो दोषाः प्रसज्येरन्निति तत्त्वप्रदीपोक्ते र्दोषान्तरोपलक्षणमेतत् । यद्वा—चशब्देनैव दुःखप्राप्तिसुखाप्राप्त्या [L

४४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पां - १. ] ( ३) सू—ॐ ॥ अधिकं तु भेदनिर्देशात् ॥ ॐ ॥ २३ ॥ न च ब्रह्मणः श्रमचिन्तादिदोषप्राप्तिः, अधिकशक्तित्वात्, 'श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता सर्वेषां भूता नामन्तरपुरुषः' (ऐ. आ. ३-२-४.) 'एष त आत्मा विनेव हिताकरणादेरभावाख्यदोषप्रसङ्ग इति व्याचख्युः । अत्र पक्षे यद्यपि भाष्यटीकयोरानुगुण्यमस्ति, प्रामाणिकपरित्यागरूपत्वादानिष्ट ता च । तथाऽपि अन्यथा हिताकरणादयो दोषाः प्रसज्येरन्निति तत्त्व प्रदीपो विरुद्धयत इति ध्येयम् । अनेन—सूत्रे 'अस्मद्व्यपदेशात्' इति सूत्राच्चेदित्यनुवर्तते । स च यद्यर्थे। तत एव तर्हीति लभ्यते । तथोच्य त इति तस्येति शेषः । इतरशब्दश्च प्रस्तुतब्रह्मकर्तृत्वान्यजीवकर्तृत्वा र्थकः । अनुषक्तनञ्शिरस्केन हितेत्यादिना भिन्नपदेनोक्तस्य हिताकर णमहितकरणं च न स्यादित्यापाद्यस्य विपक्षे बाधकापाद्यान्तरसमर्प णाय हितेत्यादिसमस्तम् । तत्रापाद्यस्यानिष्टत्वज्ञापनाय दोषपदम् । हिताकरणादयश्च ते दोषाश्च तेषां प्रसक्तिरिति विग्रहः । हितशब्देना त्मनः सौमनस्यकरं गृह्यते । अहितशब्देन जन्ममरणाद्यनर्थजालं गृ ह्यते । तथा च 'इतरव्यपदेशात्' इतरस्य जीवकर्तृत्वस्य 'जीवाद्ध वन्ति' इत्यादिश्रुत्युक्तत्वात्साक्ष्यनुभवसिद्धत्वाच्चेद्यदि 'तथोच्यते' जीवः स्वतन्त्रकर्तेत्युच्यते तर्हि तस्य न हिताकरणादिस्स्यात् हिता करणमहितकरणं च न स्यादन्यथाऽपरिहार्यत्वात्तस्मिन् हिताकरणा द्विदोषाः प्रसज्येरन् स्वतन्त्रकर्तरि तेषामयोगादिति भावः, विद्यन्ते च ते जीवे अतो न जीवः स्वतन्त्रकर्ता, किन्तु परमेश्वर एवेति सूत्रा र्थे उक्तो भवति ॥ (३) यदि यत्किञ्चिद्दोषमात्रेण जीवकर्तृता निराक्रियते, तर्हि ब्र ह्मणोऽपि कर्तृत्वं न प्राप्नोति, तस्यापि श्रमादिदोषनियमात् । एवं च पक्षयोः साम्ये सत्यनुभवश्रुतिसिद्धजीवकर्तृत्वमेवाश्रयणीयमित्याश ङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अधिकमिति ॥ न चेत्यनेन सूत्रे नेत्यस्य तस्येत्यस्य दोषप्रसक्तिरित्यस्य चानुषङ्गः सूचितः । श्रमचि न्तादीत्यादिपदेन साधनास्मरणदुःखादिदोषाः गृह्यन्ते । हिताक्रिया देः ब्रह्मण्यनुभवसिद्धत्वाभावादग्रहणम् । यद्वा—ब्रह्मणो जीवसाम्य व्यावर्तकेन तुशब्देनायमर्थः सूचित इति नानुषङ्गादि । कुतो न दोष प्राप्तिरित्यतस्तत्र हेतुत्वेन अधिकमित्येतद्व्याचष्टे—अधिकेति । अस्य

[ अधि - ७. सू - २४. ] दीपिकासहितम्. ४५९ सर्वान्तरः' (बृ. ५-५-१०.) 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' (बृ. ५-५-१०) इत्यादि विशेष निर्देशात् ॥ २३ ॥ (४) सू— ॐ ॥ अश्मादिवच्च तदनुपपत्तिः ॥ ॐ ॥ २४ ॥ चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानु पपत्तिर्जीवस्य । तात्पर्यार्थो निर्दोषगुणपरिपूर्णहेयोपादेयरहितत्वादिति तत्त्वप्रदीपे अभि हितः। न च हेत्वसिद्धिरित्यत्र हेतुः-भेदनिर्देशादिति, तद्यथाएष-श्रो तेति । इत्यादीत्यविभक्तिको निर्देशः । इत्यादावित्यर्थः। आदिशब्देन 'य आत्माऽपहतपाप्मा' (छां.८-१-५०) इत्यादि गृह्यते । विशेषोऽतिशय इति भेदशब्दार्थोक्तिः । स च विशेषोऽखिलश्रोतृत्वान्तर्यामित्वोशना याद्यतीत

(५) यथा दारुमयीं योषां नरः स्थिरसमाहितः । इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥ इति च भारते ॥ २४ ॥ (६) सू-ॐ ॥ उपसंहारदर्शनान्नेति चेत्क्षीरवद्धि ॥ ॐ ॥ २५ ॥ जीवेन कार्योपसंहारदर्शनात्तस्य कर्तृत्वमिति चेत्- न, यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते । या वैपरीत्यानुपपत्तेरिति भावः ॥ (५) अस्वातन्त्र्यहेतोरसिद्धिमाशङ्क्याह—यथेति ॥ यद्वा—सू- त्रार्थे स्मृतिसम्मतिमाह—यथेति । स्थिरसमाहित इति बहुव्रीहिः, भावे क्तः । स्थिरशब्देनाचाञ्चल्यमुच्यते । समाधानं मनःप्रणिधानम् । इङ्गनसाधनविषयकयथार्थज्ञानं कर्तरि क्तः कर्मधारयो वा । तथा च यथा 'स्थिरसमाहितो' मनश्चाञ्चल्यं विना स्वकार्यसमाधा- नवान् नरो 'दारुमयीं योषां' दार्वात्मकस्त्रीप्रतिमां

( ७) अन्नं रसादिरूपेण प्राणः परिणयत्यसौ । इति वचनात् । एवं जीवे दृश्यमानोऽपि कार्योपसंहा- रोऽस्वातन्त्र्यात्परकृत एव । ( ८) य आत्मानमन्तरोऽयमयति । नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः । इत्यादेः॥२५॥ ( ९) सू—ॐ ॥ देवादिवदपि लोके ॥ ॐ ॥ २६ ॥ न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्य- ह्येवकारार्थः ॥ (७) कुतः प्राणाधारत्वं क्षीरस्येत्यतो हीति सूचितां स्मृतिं दर्श- यति—अन्नमिति ॥ भुक्तं वस्त्वित्यर्थः । 'असौ' सर्वशरीरप्रेरकत्वेन प्रसिद्धः । क्षीरवदित्यनेन लब्धं दार्ष्टान्तिकं दर्शयति—एवमिति । दृ- श्यमान इति । स्वेनानुभूयमानोऽन्यैर्दृश्यमानश्च कार्योपसंहारः 'परमे- श्वरकृतः' तन्नि

४५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] त्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी श किर्दृष्टा किम्बीश्वरस्य ( १० ) न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् । विरोध एव वाक्यानां युक्तयो न तु युक्तयः ॥ इति बृहत्संहितायाम् ॥ २६ ॥ ( ११ ) सू—ॐ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ ॐ ॥२७॥ लब्धिरितिचेन्न । ईश्वरस्यापि देवादिवददृश्यत्वशक्तियोगात् । अदृ- र्शनानुकूलान्तर्धानशक्तियुक्तत्वात्ततोऽप्यदृष्टियोगदित्यावृत्त्या योज- ना । ईश्वरस्यादृश्यत्वशक्तिमत्त्वमेव कुत इत्यतः प्रवृत्तेन अपिलोक इ- त्यनेन सूचितं कैमुत्तिकन्यायं दर्शयति—लोकेऽपीति । अपिशब्दः पि- शाचादीनामपीति भिन्नक्रमः कैमुत्यार्थो विशेषणान्तरसमुच्चयार्थश्च । तथा च 'लोके' जगत्यनीश्वराणां लौकिकानामपि पिशाचादीनां 'ए- तादृशी' अदृश्यत्वानुकूला 'शक्तिः' अन्तर्धानसामर्थ्यं दृष्टं, ईश्वरस्य तादृशी शक्तिरस्तीति किमु वक्तव्यमित्यर्थः । तथा च नोक्तहेत्वसि- द्धिरिति भावः ॥ (१०) यदभिप्रेतं श्रुतिसिद्धः परमेश्वरो नानुलब्ध्या निराकार्य इति, तत्रार्थे स्मार्तं चाह—नेति ॥ ॥ 'वाक्यानि' श्रुतिस्मृतिरूपाणि 'युक्तियोगात्' युक्तिलक्षणोपायात् 'क्वचिदपि' विषये न प्रमाणत- याऽसाधकत्या वा निराकार्याणीत्यर्थः । विरोधे सति कथं निर्णय इ- त्यत आह—विरोध इति । युक्तीनां जात इति शेषः । तथा च 'वा- क्यानां विरोधे' तन्निरूपितविरोधे युक्तीनां 'जाते' प्रतीते सति ता युक्तय एव 'न युक्तयो' न सद्युक्तयः किं त्वाभासा एवेत्यर्थः । यद्वा- वाक्यानां परस्परविरोधे सति ता युक्तयः एकवाक्यानुसारिन्याया एवार्थसाधकाः, न तु शुष्कयुक्तय इत्यध्याहारेणान्वयः । बृहत्संहिता- यामित्यस्योक्तत्वाच्च न विरोध इति शेषेण पूर्वेणान्वयः ॥ (११) युक्त्यन्तरेण जीवस्य स्वतः कर्तृत्वं निराकुर्वत्सूत्रमुपन्य- स्यति-कृत्स्नेति ॥ अत्र कस्मिन् पक्षेऽयं दोष उच्यते इति न ज्ञायते, गु- णसूत्रत्वात् जीवकर्तृत्वपक्ष इति सिद्धेऽपि तत्र हिताक्रियादिदोषस्यो- क्तत्वादोषान्तरत्वज्ञापकचशब्दाभावाच्च अनुपपत्तिरेवेत्याशङ्कां परिह- रन्सूत्रं व्याचष्टे—अयं चेति । न केवलं हिताक्रियादिदोषो जीवस्य स्वतःकर्तृत्वपक्षे, किन्त्वयं वक्ष्यमाणश्च प्रसज्यत इति समुच्चये च

[ अधि - ७. सू - २७. ] दीपिकासहितम्. ४५३ अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिस्स्यात् । न च तद्युज्यते, सा- मर्थ्यैकदेशदर्शनात् । ( १२ ) न चैकदेशेन, निरवयवत्वात् । 'अथ यस्स जीवः स नित्यो निरवयवो ज्ञाताऽज्ञाता सुखी दुःखी शरीरेन्द्रिय- स्थः' इति भाल्लवेयश्रुतिः । शब्दः । अनेन सूत्रे इतरव्यपदेशादिति चेत्तर्हि न केवलं हिताकरणा- दिदोषप्रसक्तिः, किन्तु कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेति दोष- स्य च प्रसक्तिरिति प्रधानसूत्रगतापादकानुवृत्त्या चशब्दानुषङ्गेण च सूत्रयोजना कार्येति सूचितम् । यद्यपि जीवकर्तृत्वपक्षे इति प्रागुक्त- त्वादत्र न वाच्यम् । तथाऽपि बहुव्यवहितत्वात्तत्स्मारणाय पुनरुक्तिः। सूत्रे वाशब्देन किं जीवः सर्वकार्येषु सर्वसामर्थ्येन प्रवर्तते, उतांशेने- ति विकल्पमुखेन दोषापादनस्य सूचितत्वात्तदनुसारेणाद्यपक्षे कृत्स्न- प्रसक्तिरित्यनेनोक्तं दोषं विवृणोति—एकेनेति । सजातीयाङ्गुल्यन्तर- व्यावृत्त्यर्थमेतत् । विजातीयहस्तादिव्यावर्तनाय मात्रपदम् । प्रवर्तमा- नस्तृणादानादाविति शेषः । तेनापेरन्वयः । अल्पकार्येऽपीति वा न के- वलं सर्वाकारेण प्रवर्तमान इति वा अपेरर्थः । जीव इति बुद्ध्या विवे- केनात्र सम्बध्यते । 'पूर्णप्रवृत्तिः' पूर्णशक्त्या प्रवृत्तिमान् स्यादित्यर्थः । प्रसङ्गत्वद्योतनाय स्यादिति । न च स्यादेवमित्याह — न चेति । त- त्र पूर्णशक्त्याऽप्रवर्तनं कुत इत्यत आह—सामर्थ्येति । जीवस्य कार्ये- षु स्वरूपसामर्थ्यांशेन प्रवृत्त्यनुभवादित्यर्थः । तथा चापाद्याभ्युपगमे ऽनुभवविरोधः स्यादिति भावः ॥ ( १२ ) अथ द्वितीयपक्षमनूद्य दूषयति—न चेति ॥ नापि जीवः स्वसामर्थ्यैकदेशेन तत्तत्कार्येषु प्रवर्तेत इत्यर्थः । कुतो नेत्यतस्तत्र नि- रवयवत्वादिति हेतुमध्याहृत्य योजयति—निरवयवत्वादिति । निरंश- त्वादित्यर्थः । जीवस्येति शेषः। निरवयवत्वानङ्गीकारे बाधकोपन्यासा- य प्राप्तं निरवयवत्वशब्दकोप इत्यंशं तच्छ्रुत्युदाहरणेन विवृणोति— अथेति । अथेत्यतः प्राक् तदनङ्गीकार इति ग्राह्यम् । श्रुतिरित्त्यनन्तरं व्याकुप्यत इति शेषः । श्रुतावथेत्यर्थान्तरे । य एवंभूतः स जीव इत्यु- च्यते । 'सः' जीवो नित्यो निरवयव इत्यादिका योजना, तच्छब्दद्वय

४५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( १३ ) न चोपाधिकृतांशः स एवांश उपहित इति, द्वित्वापे क्षत्वात् ॥ श्रवणात् । यो जीवः स नित्यः सः निरवयव इति सर्वत्र तच्छब्दान्व येन वा योजना । 'शरीरेन्द्रियस्थः' तदधिष्ठाता ॥ ( १३ ) ननु एकदेशेनेति द्वितीयपक्ष एवाश्रीयते । न च निरवयव त्वोक्तिविरोधः । अंशानामौपाधिकत्वाभ्युपगमात्, श्रुतेश्च स्वाभावि कांशनिषेधविषयत्वादित्याशङ्कयासम्बद्धोपाधेरंशकारकत्वे अतिप्रस ङ्गात् सम्बद्धस्यैव तत्त्वे वाच्ये उपाधिसम्बद्धत्वं किं समग्रजीवस्यो त तदंशस्येति विकल्प्य नाद्य इत्याह—न चेति ॥ उपाधिकृतांश इति बहुव्रीहिः । उपाधिकृतोऽम्शो यस्येति । उपहित इत्यावर्तते नेति च । तथा च यः श्रुत्युक्तः समग्र एव जीवः 'उपहितः' उपाधिना ग्रस्तः न त्वंश इति न । कुतो ? यतस्तर्हि स उपाधिकृताऽम्शो न भवेदिति योजना । सर्वस्य जीवस्योपाधिना ग्रस्तत्वेन पुनस्तस्य तत्कृतांशत्वा सम्भवादिति भावः । द्वितीयं निराकरोति—अंश इति । न चेत्यनुवर्त ते । 'अंश उपहितः' उपाधिना ग्रस्त इत्यपि पक्षो नेत्यर्थः । कुत इ त्यत आह—द्वित्वेति । उपाधिसम्बन्धार्थं स्वाभाविकांशद्वित्वस्या पेक्षितत्वादिति भावः । सर्वत्रोपहितानुपहितद्विरूपमपेक्ष्यैवोपाधेः प्र वृत्तेस्तदर्थं स्वाभाविकांशद्वयाभ्युपगमे निरंशत्वश्रुतिविरोधः । तस्या प्यौपाधिकत्वेऽनवस्था स्यादिति भावः । अनेन—किं जीवः सर्वकार्ये षु सर्वसामर्थ्येन प्रवर्तते ? उतांशेन ? नाद्यः, यतः 'कृत्स्नप्रसक्तिः' तथा सति जीवस्य सर्वत्रापि पूर्णशक्त्या प्रवृत्तिप्रसङ्गः । न द्वितीयः निरवयवत्वात् । अंशाङ्गीकारे च निरवयवत्वशब्दकोपो वेति निरंश त्वश्रुतिविरोधः स्यात् । तथा च कर्तृत्वस्य कृत्स्नैकदेशाभ्यां व्याप्त या व्यापकयोस्तयोर्निवृत्त्या व्याप्यं कर्तृत्वमपि जीवाद्यावर्तेत इति न जीवः स्वतन्त्रकर्तेति भावः । न च सामर्थ्यस्य विचित्रत्वेऽपि न जीवस्य निरवयवत्वोक्तिर्विरुध्यते । तस्य तद्भिन्नत्वादिति वाच्यम् । तत्सामर्थ्यस्य तदभिन्नत्वात् । उक्तं हि सुधायाम्—न हि सामर्थ्याप रपर्यायं कर्तृत्वं जीवाद्भिन्नमिति । एवं जीवस्योपाधिकृतांशाभ्युपगमे 'कृत्स्नप्रसक्तिः' उपाधेः सर्वजीवसम्बन्धः स्यात् । तथा चोपाधिना ग्रस्तस्योपाधिकृतांशस्य च भेदो न स्यात् । अंशसम्बन्धेऽपि निरव यवत्वश्रुतिविरोध इति द्वेधा सूत्रवृत्तिर्दर्शिता भवति । यद्यपि कृत्स्न

[ अधि - ८. सू - २८. ] दीपिकासहितम्. ४५५ (१४) न चान्यत्कल्प्यम् । 'यद्धि युक्त्या विरुद्ध्येत तदीश कृतमेव हि' इति गत्यन्तरोक्तेः ॥ २७ ॥ -::-- ८. अधिकरणम् ॥ (१) सू-ॐ ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ ॐ ॥ २८ ॥ प्रसक्त्यादिदोषोऽप्यादिशब्देन ग्रहीतुं शक्यत इति नेदं सूत्रं पृथक्कर्त व्यम् । तथाऽपि हिताक्रियादिदोषापेक्षया बहूपपत्त्या निराकार्यत्वात् पृथक्करणं युक्तम् । अत एव भाष्ये न चेत्यादिग्रन्थः प्रवृत्तः ॥ (१४) तर्हि एतज्जीवस्य कर्तृत्वं युक्तिविरुद्धत्वादविचारितरमणी याविद्यानिमित्तमस्तु इत्यत आह— न चेति ॥ 'अन्यत्' अनिर्वाच्या विद्यानिमित्तं जीवकर्तृत्वं न कल्प्यमेवेत्यर्थः अप्रामाणिकत्वात्तेन नि र्वाहाभावाच्चेति भावः । तर्हि युक्तिविरोधपरिहारोपायाभावान्न जीव- कर्तृत्वमित्यत आह— यद्धीति । आद्यो हिशब्दो वस्तुनः प्रतीतत्वमा ह । द्वितीयोऽस्यार्थस्य न्यायसिद्धतां वक्ति । तथा च यत्प्रतीतमपि गु णादिकं वस्तु युक्त्या 'विरुद्ध्येत' विरुद्ध्यते । 'तदीशकृतं' ईशाधी नमेव कल्प्यम्, न त्वप्रामाणिकाविद्यानिमित्तमित्यर्थः । इतीति । इति न्यायसूचकवचनेनेत्यर्थः । गत्यन्तरोक्तेरिति । अन्या गतिर्गत्यन्तरम् । तथा च जीवकर्तृत्वे प्रमिते तत्र युक्तिविरोधपरिहारस्य ईश्वराधीन त्वाख्योपायान्तरोक्तेरित्यर्थः । उक्तेरित्यस्य न चेत्यनेनान्वयः । न चे श्वराधीनत्वमात्रेण कथं जीवकर्तृत्वस्य युक्तिविरुद्धतापरिहार इ ति वाच्यम् । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकः चै तन्यमवच्छेदकं विधाय विशेषान्निमित्तीकृत्य विरुद्धेऽप्यभेदबहुत्वे एक त्र समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रस क्तिं न्यक्कृत्य जीवस्य कार्यानुरूपसामर्थ्यविशेषं योजयन् जीवेन का र्यं करोतीति सुधारीत्येति गृहाण ॥ ७ ॥ इति इतरव्यपदेशाधिकरणम् ॥ -::-- ८. अधिकरणम् ॥ (१) अत्राधिकरणे विष्णोः सर्वकर्तृत्वे प्रबलयुक्तिविरोधः परि ह्रियते । जीवकर्तृत्वपक्षे ये कृत्स्नप्रसक्त्यादयो दोषाः उक्ताः ते ई श्वरपक्षेऽपि समाः तत्र विशेषादर्शनादतो न तस्य जगत्कर्तृत्वं युक्तमि

Look at : "श्रुतावे" then 'व' with 'ो' = 'वो'! Wait, why did it look like 'धो'? Because the loop of 'व' with the vertical bar and 'ो' can look slightly like 'धो', or the type had a slight mark. But the word is clearly: "श्रुतावेवोक्तेरिति यावत्" (श्रुतौ एव उक्तेः = श्रुतावेवोक्तेः)! Yes! "श्रुतौ एव उक्तेः इति यावत्" = श्रुतावेवोक्तेरिति यावत्! Wait, look at in the image: Is it 'धो' or 'वो'? Look at 'व' in "यावत्": 'व' has a round belly on the left of the stem. Now look at "श्रुतावेवोक्तेरिति": the belly is round, but at the top there is a tiny speck of ink. So it is श्रुतावेवोक्तेरिति (or श्रुतावेधोक्तेरिति if misprinted, but standardly transcribed as श्रुतावेवोक्तेरिति, let's keep it accurate to reading).

Now let's check : "द्धत्वादित्येवशब्दाथैः । एवेत्यनेन तुशब्दार्थे उक्तो भवति । श्रुत्य

[ अधि- ८. सू- २८. ] दीपिकासहितम्. ४५७ ( ३ ) यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात्क्वचित् । विरोधे वाक्ययोः कापि किञ्चित्त्साहाय्यकारणम् ॥ ऽपीत्युक्तं भवति । ईश्वरे जीववच्छब्दमूलत्वाख्यो विशेषोऽसिद्ध इत्य- तोऽप्याह—शब्दमूलत्वादिति । शब्दमूलत्वस्य ‘ नावेदवित् ’ इत्यादि- शब्दमूलत्वादित्यर्थः । यद्वा—श्रुतेरित्यस्यावृत्त्याऽत्र सम्बन्धः । तथा च शब्दमूलत्वस्य श्रुतेरित्यर्थः । अस्त्वीश्वरेऽयं विशेषः, ततः किमि- त्यतस्तथा च नेश्वरे युक्तिविरोधोऽवतरतीत्याह—नेति । तत्रेति शे- षः । तथा च ‘ तत्र ’ परमेश्वरे न जीव इव कृत्स्नप्रसक्त्यादिकेवलयु- क्तिविरोधोऽवतरतीत्यर्थः । युक्त्यविषयत्वात्, यथा प्रत्यक्षाविषये प्र- त्यक्षविरोध इति भावः । यद्यपि न विरोध इति प्रागुक्तत्त्वादिह पुनर्न वाच्यम्, तेनैवास्याप्यन्वयसम्भवात् । तथाऽपि तत्र लोके विरुद्धानां परमेश्वरे विरोधो नास्ति, तथा श्रुतेरित्युकम् । अत्र तु युक्तिविरोधो नास्ति, तत्परिहारोपायस्य शब्दमूलत्वाख्यस्य विशेषस्य सत्त्वादित्यु- च्यते, अतो नावक्तव्यता । अतएव तत्र विरोध इत्येवोक्तम्, अत्र तु युक्तिविरोध इति ज्ञातव्यम् । अनेन—ईश्वरकर्तृत्वपक्षे कृत्स्नप्रसक्त्या- दियुक्तिविरोधः न, कुतो ? ‘ योऽसौ ’ इति निर्दोषभूतावेव परमेश्वरे लोकविरुद्धस्यापि भिन्नांशरहितस्याप्येकदेशेन प्रवृत्तिरूपस्य स्वरू- पांशस्य बाहुल्येऽपि भेदाभावस्यांशतः कार्यकारणेऽपि निरवयवत्व- स्य प्राकृतदेहादिरहितत्वेऽपि कर्तृत्वस्याविरुद्धतयाऽवस्थानोक्ते- र्न जीवपक्ष इव सम्भावितदोषः प्रत्यक्षासिद्धत्वात् । श्रुत्युक्तमपि विरुद्धधर्मजातं युक्तिविरुद्धत्वात्कथमीशेऽङ्गीकर्तुं शक्यम्, अन्यथा जीवेऽपि प्रत्यक्षबलादङ्गीकार्यं स्यादविशेषादिति चेत्—न अत्र ‘ श- ब्दमूलत्वात् ’ युक्तिविरोधपरिहारोपयोगिनः शब्दमूलत्वस्य शब्दैक- समधिगम्यत्वस्यात्र परमेश्वरे सत्त्वादविशेषासिद्धेः । न च तदसि- द्धिः तस्य शब्दमूलत्वस्य ‘ शब्दमूलत्वात् ’ ‘ नावेदवित् ’ इत्यादिश- ब्दसिद्धत्वादिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) न केवलं शब्दैकसमधिगम्यत्वेन युक्त्यविषयत्वादीश्वरे यु- क्तिविरोधाप्रसक्तिः किन्तु शब्दैकसमधिगम्ये युक्तिविरोधो नास्तीति स्मृत्युक्तत्वाच्चेत्याह—यदिति ॥ ‘ युक्तिः ’ शुष्कानुमा ‘ वाक्योक्तं ’ आगमेनोक्तं ‘ यत् ’ प्रमेयम् न तत् ‘ विरोद्धुं ’ निषेद्धुं शक्नुयादित्यर्थः किं तर्ह्यस्याः कृत्यमित्यत आह—विरोध इति । ‘क्वापि ’ क्वचिद्विष- ५८

इति पुरुषोत्तमतन्त्रे ॥ २८ ॥ (४) सू—ॐ ॥ आत्मनि चैवं विचित्राश्च हि ॥ ॐ ॥ २९ ॥ परमात्मनो विचित्राश्च शक्तयस्सन्ति नान्येषाम् । (५) विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृ [ शस्स्युः । एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानु [ विष्टः ॥ ( ) ये वाक्ययोः परस्परविरोधे प्रतीते सति एकवाक्यानुकूला युक्तिः 'किञ्चित् साहाय्यकारणं' आगमेनार्थसाधने तस्य विरोधपरिहारमु खेन किञ्चित् साहाय्यकृत् तदनुग्राहिका तद्विषयव्यवस्थापिकेत्यर्थः । इतीत्यनन्तरमुक्तमिति तन्त्र इत्यनन्तरं ग्रन्थ इति च शेषः। अतः शब्द मूलत्वादित्यादिनाऽन्वयः ॥ (४) जीवपक्ष एव युक्तिविरोधो, नेश्वरपक्ष इत्येतमर्थं युक्त्यन्त रेण प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे—आत्मनीति ॥ आत्मनीति स प्तमीबोधिताधिकरणत्वस्येहानुपयुक्तत्वात्तां विपरिणम्य योजयति-- परमात्मन इति । चशब्दस्य परमात्मन इत्यनेन शक्तय इत्यनेन च स म्बन्धः । तत्राद्यस्सौत्राद्यचशब्दानुवादरूपोऽवधारणे । अत एव त द्व्यावर्त्यमाह—नान्येषामिति । द्वितीयो न केवलं शब्दमूलत्वादविरो धः, किन्त्वीश्वरे यतो विचित्रशक्तयश्च सन्तीति समुच्चयार्थकद्विती यचशब्दानुवादः । शक्तय इत्यध्याहृतं पदम् । अस्यातोऽपि न युक्ति विरोध इति पूर्वेणान्वयः ॥ (५) ईश्वरस्यैव विचित्रशक्तित्वं नान्येषामित्येतत्कुत इत्यतो ही ति सूचितां श्रुतिं दर्शयति—विचित्रशक्तिरिति ॥ चोऽवधारणे । तथा च ‘पुराणः’ पुरातनः ‘पुरुषो’ भगवान्नेव । विचित्रशक्तिरेवेत्यस्य व्यावर्त्यमाह—न चेति । ‘अन्येषां’ जीवानां ‘तादृशः’ तादृश्यः परमा त्मशक्तिसमाः अनेन सौत्रैवंशब्दस्य एवंविधा अन्यनिरपेक्षा एवमेवा नुक्तविषयाश्चेत्यर्थ उक्तो भवति तथैव तत्त्वप्रदीपोक्तेः । अर्थान्तरं तु शब्दमूलत्वाच्च न युक्तिविरोध इति भाष्येण एवं एवंविधा युक्ति विरोधनिरासका इति टीकायां च सूचितम् । ‘एकः’ प्रधानः सर्वे वशे यस्यासौ वशी ‘सर्वभूतान्तरात्मा’ ब्रह्मादिसर्वचेतनानां भूम्या दिसर्वजडानामन्तर्नियामकः सर्वान् देवान् ‘एक एव’ अभिन्नरूपेण

[ अधि - ८. सू - ३०. ] दीपिकासहितम्. ४५९ इति श्वेताश्वतरश्रुतिः ॥ २९ ॥ ( ६) सू—ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ३० ॥ ये दोषा इतरत्रापि ते गुणाः परमे मताः । व 'अनुप्रविष्टः' प्रेरणायेत्यर्थः । अन्यादृष्टविचित्रशक्तिसम्भावनाय वाक्यशेषोपन्यासः । श्रुतिर्यत इति शेषः । अस्यं परमात्मन इति पू- र्वेणान्वयः । शक्तेः विचित्रत्वं तु भिन्नावयवशून्यानां जीवानामीश्वर- स्य चैकदेशेन प्रवृत्त्यादिरूपाघटितविचित्रकार्यकरत्वम् । तथा श्वेता- श्वतरेऽन्यत्र वाऽनुक्तकार्यविषयकत्वमित्यादितत्त्वप्रदीपोक्तं द्रष्टव्यम् । सूत्रार्थस्तु—स्पष्टः ॥ ( ६) ननु यथा विष्णोः शब्दमूलत्वात् विचित्रशक्तित्वाच्च न त- त्र युक्तिविरोधो दोष इत्युच्यते तथा जीवेऽपि किं नोच्यते तत्रापि चे-