पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
४७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] सू-ॐ ॥ सर्वधर्मोपपत्तेश्च ॥ ॐ ॥ ३८ ॥ गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवा [ त्र शङ्का । विरोध उच्यते । ननु सर्वेषां युक्तिविरोधानां परिहृतत्वात्किमुत्तरसू- त्रेणेत्यत एतत्सूत्रतात्पर्यमाह—अवशिष्टैरिति ॥ पूर्णत्वमितिशेषः । त- था च विशिष्यप्रतिपादितेभ्यः स्रष्टृत्वादिगुणेभ्यः अवशिष्टैः सर्वगुणैः प्रतिपादितैः पूर्णत्वं 'उपसंहरति' निगमयत्यत्रेत्यर्थः । इदमुकं भवति- पूर्वाधिकरणेषु विष्णोः प्रत्येकमेकैकगुणविषये दोषाभावविषये च वि- रोधं परिहृत्य तत्समर्थनं कृतम् । तेभ्योऽवशिष्टाः ये सर्वगुणा दोषा- भावाश्च तत्र सामान्यतो युक्तिविरोधपरिहारेण तान् समर्थ्य धिष्णोः सर्वगुणपूर्णत्वविषयं सर्वदोषाभाववत्त्वविषये च प्राप्तयुक्तिविरोधप- रिहारेण तत्प्रकरणमत्राधिकरणे समापयति सूत्रकार इति । यथोक्तं प्रमेयदिपे 'उपसंहरति' प्रकरणं समापयतीति । अत्र भाष्ये तृती- या द्वितीयार्थे । समर्थ्य पूर्णत्वमितिपदद्वयमध्याहार्यमिति ध्येयम् । न विष्णोस्सर्वगुणपूर्णत्वं युक्तं, चेतनत्वात् जीववत्, अन्यथा ऽन्यस्यापि तत्स्यादविशेषादितिप्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्या- चष्टे—सर्वैति । इति सर्वधर्मोपपत्तेरिति । एवंरूपसर्वधर्मोपपाद- कश्रुतेरित्यर्थः । क्वचित् 'सर्वगुणोपपत्तिश्रुतेश्च' इतिपाठः । गुणे तिधर्मशब्दव्याख्यानम् । न केवलं स्वातन्त्र्यादिना विष्णोः सर्वे धर्मोपपत्तिः, किन्तु 'गुणाः श्रुताः' (सौपर्णश्रुतिः) इति सर्वधर्मो- पपादकश्रुतेश्चेति समुच्चये चशब्दः । तत्त्वप्रदीपे तु—'इति सर्व- गुणोपपत्तिश्रुतेः' कयाऽपि विधया दोषाभावश्रुतेश्चेति चशब्दार्थ उक्तः । अस्य हेतोः चशब्दसूचितेन नायुक्तं विष्णोः पूर्वत्वमि- तिसाध्येनान्वयः । चेतनत्वं त्वप्रयोजकं श्रुतिविरुद्धं चेति भावः । सू- त्रार्थस्तु स्पष्टः । वेदे 'श्रुता गुणाः' अणुत्वमहत्वादिशुभधर्माः 'सु- विरुद्धाश्च' लोकदृष्ट्याऽतिविरुद्धाः अन्यत्र सहादृष्टा अपि 'देवे' ह- रौ सन्त्येव, न तु तेषां विरुद्धतया मिथ्यात्वं कल्पनीयमित्यर्थः । न के- वलं विरुद्धा इत्यपिशब्दार्थः । एवं हरौ 'अश्रुताः' वेदानुक्ताश्च रमा- चतुर्मुखवाणीचिन्त्या गुणास्सन्ति । तर्हि यावन्तो रमादिभिश्चिन्तयि- तुं शक्यन्ते तावन्त एव गुणाः किमित्यतो नेत्याह—अचिन्त्या इति । यथा रमादिभिश्चिन्त्यास्सन्ति, तथा तैरचिन्त्याश्च गुणाः सन्तीत्यर्थः।
[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७५ चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि त [ था प्रतीताः ॥ इति सर्वधर्मोपपत्तेरिति ॥ ३८ ॥ —: ❖ :— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयास्याध्यायस्य प्रथमः पादः. ॥ ॐ ॥ — ननु यथा गुणाः श्रुताः चिन्त्या अचिन्त्याश्च देवे सन्ति तथा दोषा अ पि किमित्यतो नेत्याह—दोषा इति । देवे दोषाः श्रुता एव न सन्ति, नापि चिन्त्याः, किमुपुनरचिन्त्या दोषान सन्तीति वक्तव्यमित्यर्थः। ननु कथं न दोषाः श्रुताः ‘जनितोत धिष्ण्येः’ ( ) इत्यादौ प्रती तैरित्यत आह—अज्ञैरिति । मिथ्यादृग्भिर्हि तथा श्रुता इति सन्तीति च प्रतीताः, न तु ज्ञानिनामित्यर्थः । अयं चार्थस्तत्त्वप्रदीपन्यायदीपिकासू क्तः। न चाश्रुता रमादिचिन्त्याः सन्ति चेत् ‘अनुक्तं पञ्चभिर्वेदैर्न च स्त्वस्ति कुतश्च न’ इत्युक्तिविरोध इति वाच्यम् । सामान्यतः श्रुताः विशिष्याश्रुता इत्यर्थस्येह विवक्षितत्वेन विरोधाभावात् । इयं च गी तातत्पर्योक्तरीत्या ऋग्वेदे सौपर्णशाखाश्रुतिः । गीताभाष्ये तु इयं जाबालिखिलश्रुतिरित्युक्तम् । सुपर्णदृष्टाया अपि श्रुतेर्जाबालिदृष्टत्वस म्भवादविरोधः ॥ ११ ॥ ॥ इति सर्वधर्मोपपत्त्यधिकरणम् ॥ —❦— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां द्वितीयाध्यायस्य प्रथमः पादः. ॥ ॐ ॥ —
४७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] १. अधिकरणम् ॥ ( १ ) इतरेषां चानुपलब्धैरिति सामान्यतो निराकरणं सम यानां कृतम् । विशेषतो निराकरोत्यस्मिन् पादे । ( २ ) अचेतनप्रवृत्तिमंतं प्रथमतॊ निराकरोति— ( ३ ) सू— ॐ ॥ रचनानुपपत्तेश्च नानुमानम् ॥ ॐ ॥ १ ॥ १. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—इतरेषामिति ॥ तानिति शेषः । तथा च ‘ इतरेषां चानुपलब्धेः ’ इति सूत्रे येषां समयानां दर्शनानां तदुक्त फलानुपलब्ध्याऽनाप्तोक्तत्वेन च लिङ्गेन निराकरणं कृतम् । तान् क- पिलकणादादिसमयान् निराकरोत्यस्मिन् पादे सूत्रकार इति योज- ना । ननु प्राङ्गिराकृतानां पुनर्निराकरणं व्यर्थमित्यत आह—सामान्य- तो विशेषत इति । योजना तु सामान्यतो विशेषत इति पदद्वयप्रक्षेपे- ण पूर्ववदेव । तथा च प्राक्सामान्यतो निराकरणं कृतम् । नैतावता- धिकारिणश्शास्त्रे निःशङ्का प्रवृत्तिर्युज्यते । तेषामनादिकालाद्यनुवृत्त- त्वात्प्रतीतिसुन्दरत्वाच्च । अतोऽधिकारिणो निःशङ्कप्रवृत्त्यर्थं प्राङ्गिराकृ- तानेव समयान्विशेषतया एकैकपक्षानुवादेन निराकरोत्यस्मिन्पादे इ- ति न वैय्यर्थ्यमिति भावः ॥ ( २ ) एतत्पादीयाद्याधिकरणार्थं दर्शयति—अचेतनेति ॥ ईश्व- रनिरपेक्षाचेतनप्रकृतेरेव महदादिकार्यकरणे प्रवृत्तिरिति यन्निरीश्वर- साङ्ख्यमतं तत् ‘प्रथमतः’ अस्य पादस्य प्रथमेऽधिकरणे निराकरोति सूत्र कृदित्यर्थः । इतरसमयापेक्षया प्रबलत्वादतिविरोधित्वादतितुच्छ- त्वाच्चेति भावः ॥ ( ३ ) अत्र नानुमानमित्यंशव्याख्यानेनैव पूर्वपक्षः प्रदर्शितो भव- तीत्याशयेन तमप्रदर्श्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—रचनेति॥ रचनानुपपत्ते रित्यस्यैकपदत्वे तदन्वययोग्यपदं दर्शयति—अचेतन- स्येति । हेतुगर्भविशेषणमेतत् । प्रधानस्येति विपरिणामेनाकृष्यते । र- चनेत्यस्य भिन्नपदत्वेऽत्र स्वतःप्रवृत्तीत्येकं पदम् । तथात्वे बहुव्री- हिः । प्रधानमित्यनेनान्वेति । अनुपपत्तेरित्यत्र नञ् विरुद्धार्थः । स्वम- तेऽपीश्वरप्रेरितचेतनप्रवृत्त्यभ्युपगमाद्धितं भेतादित्यत उक्तं —स्वत इ- ति । ईश्वरनिरपेक्षस्येत्यर्थः । प्रवृत्तेर्यत्नः रचनपदव्याख्यानमेतत् । 'अ
[ अधि - १. सू - २. ] दीपिकासहितम्. ४७७ अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । (४) चशब्देन प्रमाणाभावं दर्शयति ॥ १ ॥ (५) सू—ॐ ॥ प्रवृत्तेश्च ॥ ॐ ॥ २ ॥ नुपपत्तेः' उपपत्तिविरुद्धत्वात् । अनेन सूत्रे अचेतनस्य स्वतःइति शेषः कार्यः। नेत्यस्य रचनेत्यनेन संबंधभाष्ये स्वतः प्रवृत्तीत्यत्रापि अन्वयः। सू त्रे अनुमानमिति वा आनुमानमिति वा छेदं अनुमीयत इत्यनुमानमिति व्युत्पत्तिं जगत्कर्तृ इत्यध्याहारं चाश्रित्य पर्यवसितार्थमाह—अनुमाने ति । 'परिकल्पितं' सिद्धम् । प्रधानमिति शेषोक्तिः । अनेन नानु माने प्रधानं जगत्कर्तृ इति प्रतिज्ञान्तरं दर्शितम् । तथा चेत्थं सूत्र भाष्ययोजना—अनुमानं महदादिकं सदसदृशकारणं कार्यत्वात् पटवदित्यनुमानेन सिद्धं प्रधानं न जगत्कर्तृ । कुतः ? यतो नास्य रचना न प्रधानं स्वतःप्रवृत्ति ईश्वरनिरपेक्षप्रवृत्तिमत् । न चासि द्धिः । अचेतनस्य रचनानुपपत्तेः । रचनायाः स्वतःप्रवृत्तेरचेतन त्वोपपत्तिविरुद्धत्वात् । अनेन प्रधानस्य स्वतः प्रवृत्त्यभावे अचे तनत्वाख्यहेतुसूचनादसिद्धिः परिहृता । तद्विरुद्धोपपत्तेरेव तद् भावसाधकत्वात् । यद्यद्विरुद्धं लिङ्गं तत्तदभावसाधकं यथा नित्यत्व विरुद्धकृतकत्वमनित्यत्वसाधकमितिव्याप्तेः । यद्यपि नानुमानमुपपत्ते रिति सुवचम्, सर्वस्यापि हेतोः सङ्ग्रहात् । तथापि विरोधिहेतुप्राब ल्यसूचनाय विरोधस्फोरणाय चैवमुक्तम् । अतएवाचेतनस्येति पद मध्याहृतम्, असम्भवादित्यनुक्त्वाऽनुपपत्तेरिति चोक्तम् ॥ (४) प्रामाणिकं प्रधानस्य कर्तृत्वं न युक्त्या निराकर्तुं शक्यमि त्यतः प्रवृत्तस्य सौत्रचशब्दस्यार्थमाह—चशब्देनेति ॥ प्रमाणाभावमि ति । वादिनो हैतुकत्वेनात्र प्रमाणशब्दोऽनुमानपरः । वस्तुस्थितिकथ नार्थं सामान्योक्तिः । अचेतनस्य स्वतः प्रवृत्तौ जगत्कर्तृत्वे चेति शे षः । 'दर्शयति' समुच्चिनोति सूत्रकृदित्यर्थः । अनेन न केवलं प्रकृति कर्तृत्वे स्वतःप्रवृत्तौ च प्रमाणविरोधः, अपि तु प्रमाणाभावश्च । न चा नुमानं मानम्, 'रचनानुपपत्तेः'अनुमानरचनानुपपत्तेः कार्यत्वाद्यनुमा नं तु कारणतामात्रसाधकतया सिद्धसाधकत्वान्न प्रकृतोपयोगीति सू त्रस्य वृत्त्यन्तरं दर्शितं भवति ॥ (५) एवं प्रधानस्य स्वतःप्रवृत्तिकर्तृत्वे अचेतनत्वस्वतःप्रवृत्ति
४७८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.] चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ २ ॥ ( ६ ) सू—ॐ ॥ पयोऽम्बुवच्चेत्तत्रापि ॥ ॐ ॥ ३ ॥ पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्न युज्यत इति न युक्तम् । 'एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यस्स्र- न्दन्ते याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यांयां च दिश- शून्यत्वप्रमाणाभावैः निराकृत्य युक्त्यन्तरेणापि तन्निराकुर्वत्सूत्रमुपन्य- स्य व्याचष्टे—प्रवृत्तेश्चेति ॥ चेतनस्येति सावधारणम् । तथा च 'चे- तनस्य' एव कुलालादेर्घटादिसृष्टौ 'प्रवृत्तेः' व्यापारस्य 'दर्शनात्' अहं करोमीत्यनुभवसिद्धत्वादित्यर्थः । अचेतनस्यापि चेतनाधीनप्रवृ- त्तिदर्शनाद्व्यभिचारपरिहाराय 'स्वतः' इत्युक्तम् । चेतननिरपेक्षेत्य- र्थः । अनेन सूत्रे चेतनस्य स्वतो दर्शनादितिपदत्रयमध्याहार्यमिति सू- चितम् । चशब्दो न केवलमचेतनत्वसाधितस्वतःप्रवृत्तिशून्यत्वाख्या- नुमानात्, नापि प्रधानकर्तृत्वसाधकप्रमाणाभावान्नानुमानं जगत्कर्तृ, किन्तुमहदादिसृष्टिश्चेतनेच्छानुसारिणी सृष्टित्वाद्धटादिसृष्टिवदित्य- नुमानान्तरविरोधाच्चेति हेतुसमुच्चयार्थः । न चेदं कथं सूत्रोक्तमिति वाच्यम् । चेतनस्य ज्ञातुः प्रवृत्तेरित्यनेनास्योक्तत्वात् । प्रवृत्तिर्हि क्रि- या, सा च कृतिं विना नोपपन्ना । सा च नेच्छां विना । सा च न ज्ञा- नं विनेति प्रवृत्त्यादिकार्याणां स्वस्वकारणाविनाभूतत्वेन प्रवृत्त्या इ- च्छापूर्वकत्वसाधनसम्भवात् । दर्शनादित्यस्य न दृष्टान्ते साध्यवैक- ल्यमित्यध्याहृतसाध्येनान्वयः ॥ ( ६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—पयोऽम्बुवदि- ति ॥ अचेतनस्येत्यनन्तरं प्रधानस्येति शेषः । चो विशेषणसमुच्चये । यद्यपि तथापीत्यर्थे, न केवलं चेतनस्य किं त्वचेतनस्यापीतिसमुच्चये वाऽपिशब्दः । सूत्रे व्यस्तस्य रचनेत्यतोऽनुवृत्तस्य रचनाशब्दस्यार्थ- माह—प्रवृत्तिरिति । युज्यत इति शेषोक्तिः । तथा चेत्थं पूर्वपक्षांशा- र्थः—यथाऽचेतनस्य पयसः क्षीरस्य दध्याकारेण परिणामः अम्बुनो जलस्य गतिश्च दृष्टा। तथा अचेतनस्यापि प्रधानस्याचेतनत्वेऽपि रचना स्वतःप्रवृत्तिर्युज्यत इति चेदिति । अनेन. सिद्धान्त्युक्ताद्यानुमानस्य प्रत्यनुमाने पक्षसाध्यहेतुदृष्टान्तप्रदर्शनेन प्रतिपक्ष उक्तो भवति । व्या- सत्यभिधानायानेकदृष्टान्तोपादानम् । स्वतः परिणामे पयः, अम्बु तु प्र- वृत्तिमात्रे दृष्टान्त इति केचित् । अनेन सिद्धान्तिहेतोर्व्यभिचाराभिधा-
[ अधि - १. सू - ४. ] दीपिकासहितम्. ४७९ मनु' (बृ. ५-८-९.) 'एतेन ह वाव पयो मण्डं भवति' ( ) इत्यादि तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥३॥ (७) सू—ॐ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ॐ ॥ ४ ॥ 'न ऋते त्वत्क्रियते किञ्चनारे' (ऋ. १०-११२-९.) इति नायाभिहिते पयोऽम्ब्वादौ स्वतःप्रवृत्त्यभावरूपप्रथमसाध्यस्याभावो दर्शितः । अचेतनस्येत्यनेन हेतुरपि । तथा चाचेतनत्वहेतोः स्वेनैव सत्प्रतिपक्षिक्षतत्वात्पयोऽम्ब्वादौ व्यभिचारित्वाच्च न साधकत्वमिति भा वः । सौत्रापिपदं नञस्समाकर्षकमिति भावेनाह — नेति । इत्यादी त्यविभक्तिको निर्देशः । इत्यादावित्यर्थः । 'तत्रापि' पयोऽम्ब्वादावपि न केवलं प्रधान इत्यपिशब्दार्थः । सौत्रापिशब्दः ईश्वराख्यचेतनाधीन प्रवृत्तेराकर्षकश्चेति भावेनाह — ईश्वरनिमित्तेति । पूर्वसूत्राध्याहृतस्य दर्शनादित्यस्य इहानुवृत्तिः कार्येतिभावेन तदर्थमाह—श्रुतेरिति । त थाच पूर्ववाद्युक्तप्रत्यनुमानदृष्टान्ते पयोऽम्ब्वादौ सिद्धान्त्यभिमतसाध्य स्यैव सत्त्वान्न तदनुमानस्य सत्प्रतिपक्षता न वा व्यभिचार इति भा वः । श्रुतेः प्राबल्यात्तत्क्रमानुसारेण सौत्रक्रमातिक्रमः कृतः। अन्यथा ए तेनेति वाक्यमादावुदाहरेत् । बृहदारण्यके एतस्यवेत्येकं वाक्यम् । ए तेनेत्यन्यत्तत्रैव । तदर्थस्तु—याः अन्याः विलक्षणाः काश्चित्प्राच्यः प्राच्यां दिशि स्थिताः याश्चान्याः काश्चित्प्रतीच्यः प्रतीच्यां दिशि स्थिताः नद्यः श्वेतेभ्यः तन्नामकपर्वतेभ्यः । बहुवचनमाद्यर्थे । सकाशा दिति शेषः । यां यां दिशमनुस्यन्दन्ते स्रवन्ते ताः नद्यः एतस्याक्षर स्य भगवदाख्यस्य प्रशासने । निमित्तसप्तमीयम् । आज्ञामात्रान्तां तां दिशमनुस्यन्दन्ते । एतेन भगवता पयः क्षीरं मण्डं दधि भवति तद्रू पं भवति । यद्वा—मण्डं दधिभावं भवति प्राप्नोति दध्युपादानं भवती ति वेति ॥ (७) ननु श्रुतिसामर्थ्येन पयोऽम्बुनोः प्रवृत्तेरीश्वराधीनतया तत्र व्यभिचाराभावेपि अयस्कान्तशिलादिरूपाचेतनान्तरस्य प्रवृत्तौ सि द्धायां भविष्यति तत्र व्यभिचारः सेत्स्यति च प्रधानस्य स्वतः प्रवृ त्तौ साध्यायामयस्कान्तादिकमेव निदर्शनं उदाहरणनियमस्यान्याश्रय णीयत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—व्यतिरेकेति ॥ इ र्त्यनन्तरं श्रुत्येति अनवस्थितेरित्यनन्तरं सिद्धत्वादिति च शेषः । यद्वा—इत्यनवस्थितेरसत्त्वश्रुतेरित्यर्थः । तद्व्यतिरेकेणेत्यनेनापि पदेन
४८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेः अनपे क्षितमेवाचेतनवादिमतम् ॥ ४ ॥ :—*—: प्रकृत ईश्वरोऽत्र व्यतिरेकप्रतियोगितया संयोज्य इति सूचितम् । सौ त्रेश्चशब्दस्यार्थमाह--कस्यापि कर्मण इति । किञ्चित्कर्तृकर्मण इति व्यधिकरणे षष्ठ्यौ । यदा समानाधिकरण्ये षष्ठ्यौ अपिरभिव्याप्तौ । तदा अनवस्थितेरित्यनन्तरं अत इति शेषः । अत इति अनपेक्षितमि ति चावर्तते । अचेतनेति । अचेतनस्यैव स्वतः प्रवृत्तिरितिवादिनो मतमित्यर्थः । तथा चेत्थं सूत्रभाष्ययोजना—नर्ते इतीश्वरव्यतिरेकेण तं विना कस्यापि कर्मणोऽनवस्थितिश्रुतेर्नाचेतनत्वहेतोः कुत्रापि व्य भिचारः न वा पूर्ववाद्युक्तानुमाने दृष्टान्तलाभः । यतएवमतोऽचेतन [L
[ अधि - २. सू - ४. ] दीपिकासहितम्. ४८१ २. अधिकरणम् ॥ ( १ ) सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव प- र्जन्यानुगृहीतं तृणादिकमुत्पद्यते एवं प्रधानादीश्वरा- नुगृहीतं जगदिति । ( २ ) अतो ब्रवीति— २. अधिकरणम् ॥ ( १ ) एतदधिकरणार्थं दर्शयति—सेश्वरेति ॥ प्रधानमेव जगत्क- र्तृ, तस्य गुणभूतत्वेनेश्वरोऽस्तीति वदन् सेश्वरः, स चासौ साङ्ख्यश्च तस्य पतञ्जलेर्मतं निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । सिद्धा- न्तप्रतिज्ञापरेण न तृणादिवदित्यनेन सूचितं पूर्वपक्षमाह—यथेति । पृ- थिव्या इति पञ्चमी । उपलक्षणमेतत् । कलमादिबीजाच्चेत्यपि द्रष्टव्य- म् । एवशब्दस्योत्तरत्राप्यन्वयः । प्रधानपदं पुरुषस्याप्युपलक्षकम् । तथा च—यथा स्वाधीनोपादानत्वशक्तिमत्या एव केवलायाः पृथि- व्याः, न पुनर्वेदवादिन इव ईश्वराधीनत्वशक्तिमत्याः, एवं स्वाधीनबी- जत्वशक्तियुक्तात्कलमादेश्च सकाशात् स्वोत्पत्तौ पृथिव्यनुग्राहकेण त- त्सन्निधिमता तदनुकूलेन पर्जन्येनानुगृहीतं तदनुग्रहसहितं तत्क- र्तृकस्वोत्पत्तीच्छाविषयीकृतं 'तृणादिक'मङ्कुरादिकमुत्पद्यते । तथा प्र- धानात्स्वाधीनोपादानत्वशक्तियुक्तादेव केवलात्, न पुनरीश्वराधीनश- क्तियुक्तात् । एवं देहादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः स्वाधीनतच्छक्तियुक्तात्पुरुषाच्च स्वोत्पत्तौ स्वोपादानभूतप्रकृत्यनुग्रा- हकेनेश्वरेणानुगृहीतं तत्कर्तृकस्वोत्पत्तीच्छाविषयीकृतं जगदुत्पद्यत इत्यर्थः । तथा चेश्वरस्य प्रेरकत्वबीजावापकर्तृत्वाभावेऽपि सन्निधिमा- त्रेण प्रकृत्यनुग्राहकत्वमस्त्येवेति तदर्थमीश्वरोऽङ्गीकार्य इति न तद्वैय- र्थ्यशङ्केति भावः । अत्र दृष्टान्तदार्ष्टान्तिकयोः कार्ये पर्जन्येश्वरानुग्रहो- क्तिः कारणेऽपि तदनुग्रहोपलक्षणार्था । सिद्धान्ते सौत्रचशब्देन तस्य व्यावर्तनात्प्रकृत्यनुग्रहशक्तिरेवेश्वरस्येति पतञ्जलिनाऽङ्गीकारादिति सु- धोक्तेश्चेति ध्येयम् ॥ ( २ ) सिद्धान्तवत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ श्रुत्युदाहर- णेन हेतुसिद्धिः परिहृता । 'अन्यत्र' ईश्वरात् 'राज्ञि राष्ट्रं' इतिव- त्, अन्यत्राभावादित्यस्यान्याधीनत्वेनाभावादित्यर्थः । अवगमोपलक्ष- ६१
४८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २, पा - २, ] सू—ॐ ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ॐ ॥ ५ ॥ ( ३ ) ‘यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः ॥ ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मणि लयमध्यु पैति ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्टाद्ब्रह्म मध्यतो ब्रह्म सर्व तः’ ‘ब्रह्मैवेदं सर्वम्’ ( बृ.४-५-१० ) इत्यादिश्रुतिभ्योऽ न्यत्र जगतोऽभावात्तृणादीनां पर्जन्यवन्नानुग्राहक त्वमात्रमीश्वरस्य । ( ४ ) स एव भूयो निजवीर्यचोदितां स्वजीवमय्यां प्रकृतिं णमेतत् । तथा च इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावावगमादित्यन्व यः । तृणादिवदिति । तृणादीनामुत्पत्तौ यथा पर्जन्योऽनुग्राहक एव, न स्वतन्त्रोत्पादकः, तथा जगदुत्पत्तावीश्वरस्यानुग्राहकत्वमात्रं न, किन्तु स्वातन्त्र्येण तदुत्पादकत्वमेवेत्यर्थः ॥ ( ३ ) यच्चेति तैत्तिरीयवाक्यम् । ब्रह्मण्येवेत्यादीनि श्रुत्यन्तरवा क्यानि। आद्यश्रुतावपिशब्दः क्रियासमुच्चये कर्मसमुच्चये वा । वाशब्दो ऽनादरे । तथा च नारायणो यत्किञ्चिद्दृश्यते यच्च श्रूयते वा तत्सर्वमपि जगत्सर्वं सर्वपदार्थानां सत्तादिकं प्रति तत्प्रदानाय व्याप्य । यद्वा-त दुद्दिश्य सर्वै सर्वथा देशकालगुणशक्तिभिर्व्याप्य तत्प्रेरकतया स्थितः। न केवलमेतावत, किन्तुजगतोऽन्तर्बहिश्च तद्देशे तद्रहितदेशे च त त्काले तद्रहितकाले व्याप्य तद्भूतैस्तदभूतैश्च गुणैः शक्तिभिश्च युक्त स्सन् श्रुत इति तत्त्वप्रदीपटीकादिशा श्रुत्यर्थः । द्वितीयश्रुतावाद्यो ब्र ह्मशब्दो निमित्तसप्तम्यन्तः। द्वितीयतृतीयावधिकरणसप्तम्यन्तौ। 'इदं' जगत्'आविरासीत्'अजायत। अनेनेशाधीनोत्पत्तिसत्तादिकमुक्तम्। ब्र ह्मैवाधस्तादित्यनेनापि सत्ताप्रदानाय सर्वगतत्वमुच्यते । तदधीनसत्ता कस्य तदधीनत्वं सिद्धमेव । ब्रह्मैव सर्वपदार्थानामधस्तादुपरिष्टान्म ध्यतः । किं बहुना-'सर्वतः' सर्वत्र च तत्तत्सत्तादिप्रदानाय तत्र तत्रा स्तीत्यर्थः । ब्रह्मैवेदमितिवाक्यान्तरेणापि इदं जगत् तदधीनसत्ताकमे वोच्यते ॥ ( ४ ) इदानीं सप्रमाणकं सौत्रचशब्दार्थमाह—स एवेति ॥ अत्र स एवेत्यनेन ईश्वराधीनोद्बोधकत्वं प्रकृतेरुच्यते।'शास्तिकृत्'जगच्छिक्षकः
' 'व' 'ज्' 'ज' 'ग' ... wait, what is the letter after 'ग'? Is it 'द्'? Yes, it's 'द्' (da with virama). And line 26 starts with: 'नु' 'ग्रा' 'ह्य' 'मा' 'त्र' 'म्' ',' Wait, let's look at the letter 'नु' in line 26 again. Is it 'नु'? Wait! Could it be 'ऽनु'? An avagraha before 'नु'? No. Could it be 'न'? No, it clearly has a 'ु' hook at the bottom. So it is literally printed: दिमत्त्वादिति यावत् । एवं प्रकृत्यादेश्चान्यत्राभावाच्च तृणादिवज्जगद् नुग्राह्यमात्रम्, नापीश्वरः पर्जन्यवदनुग्राहकमात्रमिति सूत्रार्थ उक्तो
Let's check line 27: "भवति । द्रव्यमित्येतद्वैषम्याधिकरणे व्याख्यातम् ॥ २ ॥" Wait, after व्याख्यातम्: ॥ २ ॥ Then line 28: "इति अन्यत्राभावाधिकरणम् ॥" Then a decorative flower/asterisk ornament: ※ or similar printer's flower. Then line 29: "३. अधिकरणम् ॥" Then line 30: "( १ ) अत्राधिकरणार्थं दर्शय
४८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( २ ) सू- ॐ ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॐ ॥ ६ ॥ ( ३ ) यस्य धर्माधर्मौ न स्तस्तत्सिद्धान्ते किं प्रयोजनम् । चार्वाकाचार्यस्य अयं लोकायतिकः स चासौ पक्षः सिद्धान्तश्च त मित्यर्थः । लोकायतेनाङ्गीकृत इति वा ॥ ( २ ) धर्माद्यतीन्द्रियपदार्थानां तत्साधकश्श्रुत्यादिप्रामाण्यस्य चा नभ्युपगमात्प्रमाणाभावेनेश्वरस्यैवाभावादान्तरेणापीश्वरं पूर्वपूर्वस्मा दुत्तरोत्तरवस्तूत्पत्तिसम्भवाच्च तस्य जगत्कारणत्वं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-अभ्युपगम इति । न केवलं परोपपा दनेन किन्तु 'अभ्युपगमेऽपि' स्वसिद्धान्तेऽपि तद्रीत्यापि विषयप्रयोजन योरभावादनारम्भणीयमेव चार्वाकशास्त्रमिति सूत्रार्थः सुधायामुक्तः। चन्द्रिकायां तु पूर्वसूत्रान्नञोऽनुवृत्तिः। तथा च स्वकीयशास्त्रस्य सि द्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्टम् । अभ्युपगमेऽपि तत्र तद्व्यापक योर्विषयप्रयोजनयोरभावाभ्युपगमात् व्याहतिः स्यादिति उभयथा पि न चार्वाकसिद्धान्तो युक्त इति सूत्रार्थ उक्तः । अत्र सुधापक्षे अ नपेक्षभवेदित्यस्यावृत्तिः । योजनाद्वयेऽप्यपिशब्दः समुच्चयार्थः विरोधसू चकश्चेति ध्येयम् ॥ ( ३ ) यस्येति॥ सिद्धान्त इत्याकृष्यते। धर्मो यागादिजन्यादृष्टम्। अध र्मस्तदन्यः स्वर्गादिः । यद्वा--अधर्मः पापं तत्साध्यो नरकश्च । अध र्मनिवृत्तिप्रयोजनकत्वस्यापि निराकरणार्थमधर्मग्रहणम् । धर्माधर्म पदाभ्यामतीन्द्रियमात्रमुपलक्ष्यते । सप्तमी षष्ठ्यर्थे । किमाक्षेपे । प्रयु ज्यते प्रवर्त्यते शास्त्रे अधिकार्यनेनेति व्युत्पत्त्या प्रयोजनशब्देन फल विषयौ गृह्येते । तथा च-'यस्य धर्माधर्मौ न स्तः' येन धर्माधर्मौ नाङ्गीकृतौ तस्य वादिनः सिद्धान्ते तेन सिद्धान्तत्वेनाभ्युपगतस्य शा स्त्रस्य किं प्रयोजनं ? न किमपि विषयादिकमङ्गीकृतमिति योजना । सिद्धान्तप्रयोजनपदाभ्यां सौत्राभ्युपगमार्थशब्दौ विवृतौ । ततः कि मित्यत आह-अत इति । स्वशास्त्रस्य सिद्धान्तत्वाभ्युपगमेऽपि तत्र तद्व्यापकयोर्विषयप्रयोजनयोरभावाङ्गीकारादित्यर्थः । ततोपि किमि त्यतो विरोधस्फोरकेण सौत्रापिशब्देन सूचितं हेतुं दर्शयति-स्वेति। यः सिद्धान्तः असौ प्रयोजनादिमानिति नियमात्सिद्धान्तत्वेन अङ्गी कृतशास्त्रस्य प्रयोजनाद्यभावमभ्युपगतवतो माता वन्ध्येतिवत्स्ववच नंविरुद्धवादित्वापातादित्यर्थः । न तत्र युक्त्यन्तरं वक्तव्यमित्येवश
[ अधि - ४. सू - ७. ] दीपिकासहितम्. ४८५ र्थातः स्वव्याहतेरेवोपैक्ष्यः ॥ ६ ॥ ४. अधिकरणम् ॥ ( १ ) पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति— ( २ ) सू-ॐ ॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ॐ ॥ ७ ॥ यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमा ब्दार्थः । ततः किमित्यतः सूत्रेऽपेक्ष्य इति बुद्ध्या विविच्यानुवृत्तपदेन मञ्जनुवृत्त्या वा लब्धसाध्यं दर्शयति—उपेक्ष्य इति । स इति विपरि णामेनानुवर्तते । एवकारोऽत्रापि सम्बध्यते । तथा च स चार्वाकः त त्सिद्धान्तो वा उपेक्ष्य एव न त्वादरणीयः परिहारायाक्षिप्तो वा । अ तो न तद्विरोधो विष्णुजगतकारणत्वस्येत्यर्थः ॥ ३ ॥ इति अभ्युपगमाधिकरणम् ॥ :-*-: ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति—पुरुषेति ॥ पुरुषश्चेतनः प्रकृतिरचेतना । कर्तृरिति भावप्रधानम् । उच्यते अर्थोऽत्रेति वादो मत म् । तथा चात्राधिकरणे निरीश्वरसाङ्ख्यैकदेशिनां चेतनोपसर्जनका- चेतनप्रकृतिकर्तृत्ववादिनां मतं निराकरोति सूत्रकारदित्यर्थः ॥ ( २ ) पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं ताव द्व्याचष्टे—पुरुषेति ॥ चेतनसम्बन्धाज्जीवसन्निधानादित्यनेन सूत्रे पु रुषपदं जीवसम्बद्धशरीरपरमित्युक्तं भवति । एवकारः शरीरमेवेत्य न्वेति । न तु चेतनमपीत्येवार्थः । अश्मा पाषाणः । आदिशब्दादार्वादि ग्रहः । ‘आदाय’ तदर्थे प्रवर्तते तत् प्रगृह्य च ‘गच्छति’ गन्तुं प्रवृ र्तत इति । अनेन अश्मपदं लक्षणया तदादानादिविषयप्रवृत्तिपरमित्युक्तं भवति । दृष्टान्तवाक्येन सूचितं दार्ष्टान्तिकं दर्शयति-- एवमिति । अ पिशब्दो यद्यपीत्याद्यर्थे प्रकृतिरपीति समुच्चये च प्रकृतिरेव न ट्वीश्व र इत्यवधारणे वा । अचेतनमचेतनेतिहेतुगर्भविशेषणाभ्यां सिद्धा न्त्युक्ताचेतनत्वहेतोः पक्षविपक्षवृत्तित्वोक्त्या तस्य व्यभिचारः, प्रधा नं चेतनसन्निधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति अ नुमानरूपप्रतिपक्षश्चोक्तो भवति । तथा च प्रधानादेव जगदुत्पत्तावी श्वरवैयर्थ्यान्नासावस्ति । तदभावे च तस्य जगत्कारणत्वं नास्त्येव ।
Here is the complete line-by-line transcription in pure Devanagari Markdown with line markers:
४८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] दाय गच्छति। एवमचेतनाऽपि प्रकृतिः पुरुषसम्बन्धा त्प्रवर्तत इति चेन्न । 'न ऋते त्वत्क्रियते' इति तत्रा पि तथात्वे दृष्टान्ताभावात् ॥ ७ ॥ (३) सू-- ॐ ॥ अङ्गित्वानुपपत्तेः ॥ ॐ ॥ ८ ॥ शरीरप्रवृत्तौ पुरुषस्याङ्गित्वान्, शस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति भावः । एवमनुमानाव लम्बेन प्राप्ते पूर्वपक्षं प्रतिक्षेप्तुं प्रवृत्तं तथापीति सिद्धान्तांशं नञनुवृ त्त्या व्याचष्टे—नेति । नानुमानेन प्रकृतेः स्वतः प्रवृत्तिसाधनं युक्तिम दित्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तथापीत्यंशमावर्त्याव्ययानामने कार्थत्वमिति न्यायमनुसृत्य व्याचष्टे—नेति । इतिश्रुतेरितिशेषः । 'तत्रापि' ईश्वरप्रवृत्तावपि । न केवलं पूर्वोक्तपयोऽम्ब्वादावित्यपिश ब्दार्थः । तत्रापीति सूत्रपाठेऽप्ययमेवार्थो बोद्धव्यः । 'तथात्वे' परमा त्माधीनत्वे सिद्धेसतीति शेषः । तथापीत्येतद्दृष्टान्ताभावादित्यनेना पि सम्बध्यते । तथा च महदादिकार्यकरणप्रवृत्तेः पुरुषोपसर्जन प्रकृ त्यधीनत्वसाधनेऽपि निरीश्वरोपन्यस्तपूर्वानुमान इव निदर्शनाभावादि त्यर्थः । अनेन–पुरुषाश्मवत् चेतनोपसर्जनशरीरस्याश्माद्यानयनादौ स्वतः प्रवृत्तित्त्वत् पुरुषोपसर्जनप्रधानस्यैव महदादिकार्यकरणे स्वतः प्रवृत्तिः सम्भवतीति ईश्वरवैयर्थ्यम् । तद्भावे चै तस्य जगत्कारणत्व मपि नास्ति तस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति चेन्न। कुतो? यतः पुरुषोपसर्जनप्रकृतिकर्तृत्वे न मानमस्ति । न चोक्तानुमानं मान म् । यतः तथा श्रुतेः नर्ते इति श्रुतेः । तथापि तत्रापि शरीरप्रवृत्ताव पि तथैव व्यतिरेकानवस्थितेरित्यनेनोक्तेश्वराधीनत्वमेव सिद्धं अत एव तथापि पुरुषोपसर्जनप्रकृतिकर्तृत्ववाद्युपन्यस्तानुमानेऽपि तथा निरीश्वरसाङ्ख्योपन्यस्तपूर्वानुमान इव तथा दृष्टान्ताभाव इति सूत्रा र्थे उक्तो भवति ॥ (३) एवं श्रुतिलक्षणहेतुना दृष्टान्ते साध्यवैकल्यमभिधाय हेत्व न्तरेण दृष्टान्ते साध्यवैकल्योपपादनाय सूत्रं—अङ्गित्वेति ॥ अत्राङ्गि त्वपदं लौकिकपरीक्षकद्वयव्यवहारोपलक्षकम् । तथापीत्यनुषज्यते, पु रुषस्य चेत्यभिप्रेत्य दृष्टान्ते परोक्तसाध्याभ्युपगमे बाधकतर्कोक्तिपर तया तद्व्याचष्टे—शरीरेति । यस्मादित्यादौ संयोज्यम् । शरीरप्रवृत्ता
‘अङ्गमङ्गी समादाय यथा कार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्नः ॥ ८ ॥ —-::-— ५. अधिकरणम्॥ (१) प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोति— सू—ॐ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगत् ॥ ॐ ॥ ९ ॥ (२) शरीरसम्बन्धात्पुरुषः प्रवर्तेत इत्यङ्गीकारेऽपि स्वत नित्यनेन तथापीत्यनुषक्तांशो विवृतः । तथा च यस्मात्पुरुषसंवलित शरीरस्यैव स्वतः प्रवृत्तावुच्यमानायां पुरुषस्याङ्गत्वार्दप्रधानत्वावश्यं भावादङ्कमितिस्मृतौ पुरुषस्याङ्गित्वव्यवहारः शरीरं प्रति प्राधान्यव्य पदेशोऽनुपपन्नः स्यात् । एवं दार्ष्टान्तिकेऽपि पुरुषस्य प्रधानाङ्गत्वोप त्याङ्गित्वव्यवहारानुपपत्तिरित्यर्थः । अस्य हेतोस्तस्मादपि न शरीर स्य स्वतः प्रवृत्त्यङ्गीकारो युज्यत इति विपर्ययपर्यवसानलब्धसाध्य द्वाराऽऽदृशब्दाध्याहारेण दृष्टान्ताभावादिति पूर्वहेतुनान्वयः । एवं सौ त्रहेतोर्न शारीरस्य स्वतः प्रवृत्तिर्न वा प्रधानस्य । कुतः ? पुरुषस्या ङ्गित्वव्यवहारानुपपत्तेः । शरीरप्रधानयोरङ्गित्वानुपपत्तेश्च इत्यध्याहृ तसाध्यमुखेन तथा दृष्टान्ताभावो बाधश्चेति पूर्वसाध्येनान्वयो द्रष्ट व्यः । वादिनो हेतुकत्वे नोक्तश्रुतावविश्वासात्स्यैकस्यैव हेतुत्वा त्सूत्रे चशब्दाभावः । स्मृत्यर्थस्तु—अङ्गी प्रधानः पुरुषोऽङ्गं गुणभूतं शरीरं सङ्गृह्य यथाऽश्माचानयनादि कार्यं करोति तथाऽसौ भगवान पि प्रकृतिमादाय महदादिकार्यं करोतीति ॥ ४ ॥ ॥ इति पुरुषाश्माधिकरणम् ॥ —**— ५. अधिकरणम् ॥ (१) अधिकरणार्थं दर्शयति—प्रकृतीति ॥ प्रधानोपसर्जनकचेत नकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां वादं मतमस्मिन्नधिकरणे निराकरोति सूत्रकृदित्यर्थः ॥ (२) सूत्रे पुरुषाश्मवदिति चेदित्युक्तादन्यथानुमितौ चेति योज नामभिप्रेत्य तमंशं पूर्वपक्षपरतया व्याचष्टे—शरीरेति ॥ चेतनपद स्थाने शरीरपदस्य शरीरपदस्थाने पुरुषपदस्यैवमचेतनपदस्थाने पु रुषपदस्य पुरुषपदस्थाने प्रकृतिपदस्य प्रक्षेप्येण यथेत्यादिपूर्वभाष्य
४८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] स्तस्यासामर्थ्याच्छरीरसम्बन्ध एवायुक्तः ॥ ९ ॥ (३) सू-ॐ॥ विप्रतिषेधाच्चासमञ्जसम् ॥ ॐ ॥ १० ॥ सकलश्रुतिस्मृतियुक्तिविरुद्धत्वानीश्वरमतमस [ मञ्जसम् । (४) श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् । मत्रापि संयोज्येदं व्याख्येयम् । 'प्रवर्तते' अश्माद्यादाने । इत्यङ्गीका रेऽपीति। एवमभ्युपगम्य साधनेऽपीत्यर्थः। अनेन विमता प्रवृत्तिरचेत नोपसर्जनपुरुषाधीना प्रवृत्तित्वादश्मानयनादिप्रवृत्तिवदिति पूर्वपक्ष साधकानुमानं सूचितम् । अपिशब्दो न केवलं पूर्ववाद्युक्तपक्ष इति समुच्चये । अनेन सौत्रचशब्दो व्याख्यातः । अपीत्यनन्तरं तथेतिपदं संयोज्यम् । दृष्टान्ते साध्याभाव इति तदर्थः । कुतोऽसावित्यतस्तत्र हेतुत्वेन चशब्दादाकृष्टमङ्गित्वानुपपत्तेरिति पदं व्याचष्टे— शरीरेति। तस्येत्युभयत्रान्वेति । शरीरसम्बन्ध इति सप्तम्यन्तं प्रथमान्तं च । त त्राद्यस्य तस्य जीवस्य शरीरसम्बन्धेऽप्यसामर्थ्यादित्यन्वयः । द्विती यस्य युक्तपदेनान्वयः । सुतरां शरीरसम्बन्धेन जीवस्याश्मानयनादि कार्ये प्रवृत्तिरित्थेवशब्दाथः । शरीरपदं प्रकृतेरप्युपलक्षकम् । कुतः ? शरीरसम्बन्धानुपपत्तिरित्यतस्तत्र हेतुत्वेन ज्ञशक्तिवियोगादित्यंशं अ सिद्धिपरिहाराय स्वतः पदाध्याहारेण व्याचष्टे—स्वत इति । स्वात न्त्र्येणेत्यर्थः। अनेन-अयथा पुरुषाश्मवदित्युकपक्षाद्वैपरीत्येन पुरुषाश्म वदचेतनसम्बन्धाच्चेतनं प्रवर्तत इत्येवं रूपेणानुमितावुनमानेऽपि तथा दृष्टान्ते साध्यवैकल्यम् । कुतः ? अङ्गित्वानुपपत्तेर्जीवस्याङ्गपदोक्तश रीरसम्बन्धित्वायोगात् । सोऽपि कुतः ? ज्ञशक्तिवियोगात् अङ्गसम्ब न्धेन ज्ञस्य ज्ञातुर्जीवस्य सामर्थ्यायोगादिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) एवं प्रत्येकं दूषितान्यनीश्वरमतानि सामान्यविशेषेणापि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—विप्रतिषेधादिति ॥ श्रुतीत्यादिना विप्रतिषेधप्रतियोगिनो दर्शिताः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दा र्थ उक्तः । न केवलं उक्तयुक्तिविरुद्धत्वादिति चकारार्थः । अनीश्वरे ति । न विद्यते ईश्वरो यस्मिन्निति तत्तथोक्तम् । तच्च तन्मतं चेतिवि ग्रहः । अनीश्वराणां वादिनां मतमिति वा । मतमिति समुदायेकवच नम् । असमञ्जसमयुक्तमित्यर्थः ॥ .(४) कुतोऽनीश्वरमतानां श्रुत्यादिविरुद्धत्वमित्यत आह—श्रुतय
[ अधि - ६. - सू - ११. ] दीपिकासहितम्. ४८९ वदन्ति तद्विरुद्धं यो वदेत्तस्मान्न चाधमः ॥ इति [ पाद्मे ॥ १० ॥ —::— ६. अधिकरणम् ॥ ( १ ) परमाण्वारम्भवादमपाकरोति । ( २ ) सू—ॐ ॥ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ॐ ॥ ११ ॥ इति । चशब्दौ मिथः समुच्चयार्थौ । ईश्वरमेव परं स्वतन्त्रं वदन्तीत्य न्वयः । युक्तिषु वदन्तीत्यस्य साधयन्तीत्यर्थः—श्रुतयः–‘द्यावाभूमी जनयन्’ (श्वे. ३ - ३.) ‘यतो वा’ (तै. ३ - १.) ‘यस्सर्वज्ञः’ (मुं.१-१-९.) इत्याद्याः । स्मृतयः—‘उत्पत्ति स्थितिसंहाराः’ ‘स्र ष्टा पाता तथैवात्ता’ इत्याद्याः ।—युक्तयः—‘विमतं सकर्तृकं कार्यत्वात्’ ‘चित्कैक्ये केनचिन्नीयते अस्वन्त्रत्वात्’ इत्याद्याः । ‘तद्विरुद्धं’ श्रुतिस्मृ तियुक्तिविरुद्धं प्रकृतिस्वातन्त्र्यादिरूपमर्थमिति शेषः । यः पुरुषः त स्मादन्यः‘अधमः’अयोग्येषु अधरो नास्तीत्यर्थः।नैतावता सेश्वर साङ्ख्ये न सन्तोष्टव्यम् । यतः श्रुतयः स्मृतयश्चेति स्मृतिरीश्वरं परं वदती त्यनेन तमपि निराह । इति पाद्म इत्यनन्तरं वचनादिति शेषः । अस्य श्रुत्यादिविरुद्धत्वाद्विरुद्धतावगमादिति पूर्वेणान्वयः ॥ ५ ॥ इति अन्यथाऽनुमित्यधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यमाह–परमाण्विति ॥ परमाणुभ्यो जगदा रम्भः जगदुत्पत्तिरिति वादिनां वैशेषिकादीनां ‘वादं’मतं ‘अपाकरोति’ निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । आरम्भकेतिपाठे परमाण वः जगदारम्भकाः तत्कारणानीति वादमित्यर्थः ॥ ( २ ) सूत्रे दृष्टान्तोक्त्या लब्धपरपक्षप्रतिक्षेपकानुमाने साध्यसम र्पकेण ह्रस्वपरिमण्डलाभ्यामित्यंशेनैव परम*विरोधादीश्वरस्यानन्त गुणत्वमयुक्तमिति पूर्वपक्षस्य सूचनात्तद्विवरणेनैव पूर्वपक्षः प्रदर्शि तो भवतीत्याशयेन तमनुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याच ष्टे–महदिति ॥ अत्र महत्त्वाहित्याद्युक्त्या सूत्रे महदित्यादिनिर्देशो भावप्रधानः । ‘कारणबाहुल्यात्कारणमहत्त्वात् प्रचयविशेषाच्च मह त् ’ इति काणादसूत्रानुसारेण तथा निर्देशः । तत्र तस्येत्यस्य प्राथि ] ६२
४९० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते एवं ह्रस्वत्वा त्पारिमण्डल्याच्चोत्पद्येत । ( ३ ) वाशब्दादन्यथैतयोरपि न स्यात् विशेषकारणाभावात्॥११॥ ( ४ ) सू—ॐ॥ उभयथाऽपि न कर्मातस्तदभावः ॥ ॐ ॥ १२ ॥ कत्वात् । ह्रस्वपरिमण्डलाभ्यामिति पञ्चमीसमभिव्याहारात्पञ्चम्य- न्ताद्वतिः। सकाशादित्यध्याहारेण षष्ठ्यन्ताद्वा वतिः। उत्पद्यते उत्पद्ये- त इति च शेषः कार्य इत्युक्तम् भवति । चः समुच्चये । तथा च वैशे- षिकमते नैयायिकमते च यथा समवायिकारणीभूतत्र्यणुकचतुरणु- कादिगतात् महत्त्वारूयपरिमाणाद्दीर्घत्वाख्याच्चतुरणुकपञ्चाणुकादिग- तं परिमाणाख्यकार्यमुत्पद्यते तथा द्वयणुकगतह्रस्वत्वात् परमाणुगता- त्पारिमाण्डल्याख्याच्च परिमाणात्त्र्यणुकद्वयणुकगतं परिमाणाख्यं कार्य- मुत्पद्येत इत्यर्थः । अनेन द्वयणुकपरमाणुपरिमाणं परिमाणान्तरारम्भ- कं द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकादिपरिमाणवदिति वै- शेषिकादिमतस्य प्रतिकूलानुमानमुपन्यस्तं भवति ॥ ( ३ ) त्र्यणुकादिपरिमाणस्यारम्भकत्वेऽपि द्वयणुकादिगतस्यैतन्मा- स्तु को दोषः। त्र्यणुकादिगतपरिमाणारम्भस्तु द्वयणुकादिगतसङ्ख्य- यैव सम्भवतीत्यप्रयोजकोऽयं हेतुरित्याशङ्कां परिहरद्वाशब्दं व्याख्या- ति—वाशब्दादिति ॥ अस्य विशेषकारणाभावादित्यनन्तरं अध्याहृते- न 'इति सूत्रकृता सूचितं' इत्यनेनान्वयः । किं सूचितमित्यतस्तदा- ह—अन्यथेति । यद्युभयोः कारणगतपरिमाणत्वाविशेषेऽपि ह्रस्वत्वा- देर्न कार्यमुत्पद्यते । तर्ह्येतयोर्महत्त्वदीर्घत्वयोरपि न स्यादित्यर्थः । त- त्कार्यारम्भकत्वमिति शेषो वा,सकाशादिति शेषेण कार्यमित्यनेन वा- ऽस्यान्वयः । न केवलं तयोरिति समुच्चयेऽपिः । ननु विशेषकारणे स- ति प्रतिबन्दीमात्रं न बाधकमित्यतस्तदेवासिद्धमित्याह—विशेषेति । पक्षदृष्टान्तयोर्वैषम्यसाधकरूपस्य वा तदनङ्गीकारे बाधकरूपस्यवा नियामकविशेषस्याभावात् । भावे वा स वक्तव्यः स्यादित्यर्थः । तद्- भावस्तु टीकायामुपपादितः। तस्मादुपपत्तिविरुद्धत्वात् न तयोरसम- वायिकारणत्वं किं त्वेतयोरेवेतिवैशेषिकाद्युक्तमसमञ्जसमेवेति न त- द्विरोध ईश्वरानन्तगुणत्वस्येति भावः ॥ ( ४ ) एवं वैशेषिकादिमते महत्त्वदीर्घत्वादेरसमवायिकारणत्वस्य
[ अधि - ६. सू - १२. ] दीपिकासाहितम्. ४९१ ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावा चेदानीमपि तत्स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभा वात्तत्कार्याभावः । (५) वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपप ण्डनरीत्या समवायिकारणमात्रं निरस्तं भवतीत्यभिप्रेत्य निमित्तकारण मप्येवं निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—उभयथाऽपीति ॥ ईश्वरेच्छा या इति। कार्यनिमित्तत्वेन पराभ्युपगतायाः ईश्वरेच्छायाः 'नित्यत्वे' स दातनत्वे 'तद्भावेऽपि' ईश्वरेच्छासद्भावेऽपि प्रलये 'परमाणुकर्माभावात्' तच्चेष्टाभावादन्वयव्यभिचारेण तस्यास्तत्कारणत्वायोगादिदानीं प्रल यादन्यस्मिन् अभिमतकालेऽपि ईश्वरेच्छायाः सकाशात्परमाणुकर्म 'न स्यात्'नोत्पद्येतेत्यर्थः । ततः किमित्यत आह—अत इति । अत इत्यस्य व्याख्यानं परमाण्विति । स्यादिति वर्तते । तदिति चेष्टा परामृश्यते । कार्यशब्दः प्रकृतद्व्यणुकादिकार्यपरः। एवं सौत्रस्तच्छब्दोऽपि। अनित्य त्व इत्यत्रेश्वरेच्छायाः इत्यनुवर्तते । तदिति तन्त्रम् । तथा च तस्याः ईश्वरेच्छायाः अनित्यत्वे तस्या निमित्तकारणाभावादत एव कर्मकार णीभूताया ईश्वरेच्छाया अभावादित्यर्थः । ततः किमित्यतः तदुत्तरत्वे न अत इत्याद्यत्रापि संयोज्यम् । अत्र अत इत्यस्येश्वरेच्छात् इत्यर्थः । तत्कार्याभाव इत्यस्य तच्च तत्कार्यं चेति विग्रहेणेश्वरेच्छालक्षणका र्याभावः, तस्य कार्यमिति विग्रहेण परमाणुक्रियाजन्यद्व्यणुकादिका र्याभावः स्यादित्यर्थः । नित्यत्वेऽनित्यत्वे इत्युक्तोभयथेत्येतत् दूष्यत्वेनो पस्थितेश्वरेच्छानित्यत्वानित्यत्वाख्यप्रकारद्वयपरामर्शकमित्यभिप्रेति। तद्भावेऽपीदानीमपीत्यनेनापेरर्थः उक्तः। परमाणुकर्माभावादित्यनेन न कर्मेत्येतद्यतश्शब्दशिरस्कतया व्याख्यातम् । कर्मशब्दस्यावृत्त्यभिप्रा येण स्यादित्यत्र कर्तृनुक्तिः । अत इत्यादेरेवावृत्त्यभिप्रायेणान्ते अर्थ उक्तः।तथा च अतोऽप्यसमञ्जसं वैशेषिकायुक्तमितिभावः। कार्याभाव इत्यनन्तरं यत इति शेषः । अस्योत्तरत्रान्वयः ॥ (५) ईश्वरेच्छाया निमित्तत्वनित्यत्वयोरभ्युपगमादाद्यपक्षोक्तदू षणं भवतामपि सममित्यत आह—वैदिकेति ॥ वैदिकैर्वेदाधिकृतैः त त्प्रामाण्यज्ञैरभ्युपगतो वैदिकः वेदगम्यो वा ईश्वरो यस्य तस्येत्यर्थः ।
४९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] द्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ १२ ॥ पक्ष इति शेषः । तेन विशेषार्थकतुशब्दस्यान्वयः । तेनेदं समाधानं परपक्षेऽपीति ज्ञापितम्। यद्वा—वैदिकश्वासावीश्वरश्चेति कर्मधारयः । अस्य च सर्वशक्तित्वोक्तेरित्यनेनान्वयः । तुशब्दः शङ्कापरिहारद्योत कः । तेन नायमस्मत्पक्षे दोष इति सूच्यते । अत्राद्यार्थो यस्य वेदग म्य ईश्वरस्तत्पक्षे इति तत्त्वप्रदीपे, तेनानुमानमात्रेणेश्वरमभ्युपगच्छते ति टीकायां चोक्तः । द्वितीयस्तु—ईश्वराचिन्त्यशक्तीति टीकोक्त्या तस्य वेदेनैव सर्वशक्तित्वोक्तेरिति तत्त्वप्रदीपोक्त्या च ज्ञापितः । त था चेत्थं योजना—वैदिकेश्वरस्य पक्षे तु नायं दोषः । कुतः ? यतः सत्यामपीश्वरेच्छायां सर्वं कार्यानुत्पादादिकं ईश्वराचिन्त्यशक्तित ए वोपपद्यते। साऽपि तस्य कुतः? 'परास्य'इत्यादि वेदेनैवेश्वरस्य सर्वविष यकशक्तिमत्त्वोक्तेरिति न तत्र मानान्तरं मार्गणीयमित्येवकारार्थः । न च परपक्षे सममेतत् । तस्यानुमानमात्रगम्येश्वरत्वेन वैदिकगम्येश्वर त्वाभावादिति तुशब्दाभिप्रायः । इतश्च नायं दोषोऽस्मत्पक्ष इत्याह— स्वत इति । नास्मत्पक्षे प्रलये व्यभिचारदोषः । तदानीमीश्वरेच्छा रूपनिमित्तसत्त्वेऽपि कालाख्यनिमित्तान्तरस्याभावेन कार्याभावस्यान्य थोपपत्तेः । न च प्रलये सोऽप्यस्तीति वाच्यम् । तदा सृष्टिकालाख्य कालविशेषस्याभावात्तस्यैव सृष्टिकारणत्वात् । न चैतत्परमतेऽपि स ममिति वाच्यम् । अस्माभिः कालं स्वत एव सृष्ट्याद्युपाधिमन्तरेणैव विशेषाणां स्वाभाविकसृष्टिकालत्वादिधर्माणामङ्गीकृतत्वात् । परे ण तु सृष्ट्यवच्छिन्नः कालः सृष्टिकाल इति सृष्ट्याद्युपाधित एव काले विशेषाभ्युपगमनानौपाधिकविशेषानभ्युपगमादित्यपस्कारेण वाक्य योजना । ननु सत्यामपीश्वरेच्छायां सृष्टिकालाभावेन कार्याभावाभ्यु पगमे सा मोघा स्यादित्यतोऽप्याह—स्वत एवेति । एवकारो भिन्नक्र मः । इच्छायाः इति शेषः । तथा च नैष दोषोऽस्माभिर्नित्याया अपी श्वरेच्छायाः 'काले एव' सृष्टिकाले एव 'स्वतः' अनौपाधिकानां सृ ष्टिविषयत्वादिविशेषाणामाविर्भावाभ्युपगमान्नैवं परेण वक्तुं शक्यम्, तेन इच्छायामनौपाधिकविशेषानभ्युपगमादित्यर्थः। यद्वा-उभयथाऽपि न कर्मेत्यस्य कालस्य नित्यत्वेऽनित्यत्वे चोकरीत्या न कर्मेति प्रकारे णापि व्याख्यानसम्भवात् कालस्य निमित्तकारणत्वमीश्वरेच्छानिमित्त कारणत्वनिरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहर
[ अधि - ६. सू - १३. ] दीपिकासहितम्. ४९३ ( ६) सू- ॐ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३॥ कार्यकारणादीनां समवायसम्बन्धाङ्गीकारात्तस्य च ति-स्वत एवेति । योजना तु-नायं दोषोऽस्मत्पक्षे । कुतः? स्वतएव स्वसृ ष्ट्याद्युपाधिमन्तरेणैव अनित्ये काले सृष्टिकालादिविशेषोत्पत्त्यङ्गी कारात्तस्यैव निमित्तत्वात् । न चैवं परेण वक्तुं शक्यम् । अस्माभिः काले विशेषाणां सृष्टिकालादीनां स्वतएव स्वाभाविकत्वस्यैव अ भ्युपगमात् परेण तु सृष्ट्याद्युपाधिनिबन्धनत्वाभ्युपगतेरिति । न च का लस्य कार्यमात्रनिमित्तकारणत्वात्सृष्टिकालाद्युत्पत्त्यसम्भवः । अधिक रणतयैव कालस्य सर्वकार्यकारणत्वेन सृष्टिकालादिकार्ये चात्माश्रय प्रसङ्गेन तत्र तस्याधिकरणतया कारणत्वायोगादिति वाच्यम् । का लातिरिक्तकार्येष्वेव कालस्याधिकरणतया कारणत्वाभ्युपगमात् । का ले तु तथा कारणत्वानभ्युपगमात् । परन्तु - ईश्वरोद्देश्यत्वेनाधारः कालोऽपेक्षितः । स च सृज्य एव । ईश्वरोद्देशश्च स कालस्तदैव स्यां दित्येवंरूपः । इच्छाविषयत्वरूपोद्देश्यत्वं च न प्राक्सत्त्वापेक्षम् । न हि सृज्यस्य प्राक् सत्त्वमस्ति । एकस्यैवाधिकरणताधिकर्त्तव्यताच 'ईशोद्देशश्च कालश्च स्वगत एव' इति श्रुत्यादिसिद्धविशेषबलाच्चोपप द्यत इति न कश्चिद्दोषः । अथ वा-उभयथेत्यस्यादृष्टनित्यत्वेऽनित्यत्वे चेति व्याख्यानसम्भवाददृष्टस्य निमित्तत्वं ईश्वरेच्छाकालनिमित्तत्व निरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहरति-स्वत एवे ति । काल इत्यावर्तते । अदृष्ट इति शेषः । तथा च नायमस्मत्पक्षे दो षः। कुतः? अस्माभिः काले प्रलयकाले सत्येवादृष्टे काले सृष्ट्यादिकाले एव समुद्बोधविशेषाभ्युपगमात् । न चैतदन्यमते सम्भवति । अस्मा भिः काले स्वत एव स्वाभाविकानामेव विशेषाणामङ्गीकारात् । परे ण च तदनङ्गीकारादिति योजना ॥ ( ६ ) एवं वैशेषिकादिपक्षे निमित्तकारणासम्भवं दर्शयित्वा सम वायिकारणमपि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-समवायेति ॥ अत्र कार्यकारणपदे अवयव्यवयवपरे । आदिपदेनानित्यगुणक्रियातद्वतां सङ्ग्रहः । अथ वा कार्यकारणपदेनैषां सङ्ग्रहः । आदिपदेन नित्यगुणगु णिजातिव्यक्तिविशेषविशेषिणां प्रसङ्गाद्ग्रहणम् । भिन्नत्वाङ्गीकारादि त्यपि सम्बध्यते । ल्यब्लोपनिमित्ता पञ्चमी । तथा च द्व्यणुकादिका