पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
९१२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.] तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ अकामत्वान्मुमुक्षूणां न वा तेषा मुपासनम् । तुष्ट्यर्थमीश्वरस्यैव नैधोपासा विदुष्यति ॥ इति बृ- हत्तन्त्रे ॥ ६२ ॥ ४१. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ अङ्गेषु यथाऽऽश्रयभावः ॥ ॐ ॥ ६३ ॥ स्यावृत्तिः । कामशब्दः सविषयेच्छार्थः । असावसाविति ग्राह्यम् । वा शब्दो व्यवस्थितविकल्पार्थः । तथा च यस्य यस्य पुंसोऽधिकारिणः यो यो वित्तादिकामोऽस्ति, असावसौ मुमुक्षुः तस्य तस्य तत्तत्काम्य- प्रदभगवद्रूपस्योपासनं 'प्रकल्पयेत्' कुर्यात् । 'हि' प्रसिद्धम् । न के- वलमुपासनं, किन्तु 'तादृशानां' कामसाधनानां गुणानां 'समाहारं' एकबुद्ध्यारोपणं च प्रकल्पयेत् । 'मुमुक्षूणामुपासनं नेति वा । कुतः ? तेषां 'अकामत्वात्' अन्यकामनारहितत्वात् । एवमधिकारिभेदेन विकल्पमभिधायेदानीं मुमुक्षुष्वेव विकल्पमाह-तुष्ट्यर्थमिति । एव- कारो भिन्नक्रमः । चोऽवधारणे । तथा च ईश्वरस्य 'तुष्ट्यर्थं' प्रसा- दार्थमेव तस्य रूपस्य गुणानां चोपासनं नैव विदुष्यति । अन्यकामा- र्थं तु दुष्यति । तदर्थं तैर्नकार्यमित्यर्थः । तत्त्वप्रदीपे तु-यस्य यस्य यो धनैश्वर्यादिकामो भवति । तस्य तस्य तदर्थमुपासनं कार्यं, स चोपासकस्तादृशानाममुक्त्यर्थानां गुणानामुपसंहारं च प्रकल्पयेत् । न वा मुमुक्षूणां काम्योपासनं, तेषामकामत्वात् । अतोऽत्यन्तमापद्येव काम्यरूपगुणोपासनं तेषां, तदपि नान्यकामनया, किन्त्वीश्वरस्य तु- ष्ट्यर्थमेव तदपि ह्याह-तुष्ट्यर्थमिति । 'सकामेभ्योऽमितगुणा या का- मैस्तु कृता क्रिया' इत्यन्यत्र चाहेत्येवमेव व्याख्यातम् । इति बृहत्त- न्त्रे सूत्रार्थ उक्त इति शेषः ॥ ४० ॥ ॥ इति कामाधिकरणम् ॥ —:*:— ४१. अधिकरणम् ॥ ( १ ) अत्राधिकरणे अङ्गाश्रितत्वेन देवतोपासनस्य कर्तव्यता स- मर्त्यते । द्विविधमङ्गदेवतोपासनं-परिवारत्वेन भगवदङ्गाश्रितत्वेन
[ अधि - ४१. सू - ६४. ] दीपिकासहितम्. ९१३ अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वम् । ' च- क्षोस्सूर्यो अजायत ' (ऋ. १०-९०-१३.) इत्यादि, तथा भावना कर्तव्या ॥ ६३ ॥ ( २ ) सू—ॐ ॥ शिष्टेश्च ॥ ॐ ॥ ६४ ॥ यस्मिन्यस्मिन् यो हि चाङ्गे निविष्टः चेति । तत्राद्यं सर्वमुमुक्षुसाधारणं ' अङ्गावबद्धाः ' इत्यत्रोक्तम् । द्वि- तीयं देवतामात्राधिकारिकमत्र समर्थ्यते इति विवेकस्तत्त्वप्रदीपेऽभि- हितः । ब्रह्मादिदेवानामीश्वराङ्गाश्रितत्वेनोपासनं न कर्तव्यम्, नि- राधिकारिकत्वात् । न तावत्तत्सर्वाधिकारिकम् । ' आनन्दादयः ' इत्युक्तचतुर्गुणनियमव्याघातात् । नापि देवाधिकारिकम्, ' ब्रह्मा शि- रसि ललाटे रुद्रः ' इत्यादितत्प्रकरणेषु देवानामेतदुपासनमित्यनु- क्तेरिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अङ्गेष्विति ॥ अ- त्राङ्गेष्वित्यावर्तते । तत्रैकं षष्ठ्यन्ततया विपरिणतं देवतावाचि । द्वि- तीयं प्रकृतपरमाङ्गवाचि । यथेत्यप्यावर्तते । तथा तथेति च लभ्यते । उक्त इति कर्तव्य इति शेषः । भाव इतिशब्दो बुद्ध्या विविक्त उपा- सनापर्यायभावनावाची । तथा च ' चक्षोः सूर्यो अजायत ' इत्या- दीनामङ्गानां सूर्यादिदेवानामाश्रयिणां भगवतोऽङ्गेषु ' आश्रयभावः ' आश्रयत्वं यथा यथोक्तः ' तथा तथा ' तेन तेन प्रकारेण तेषां ' भावः ' उपासनं कर्तव्य इति योजनामभिप्रेत्य सूत्रं व्याचष्टे—अङ्गेति । परमे- श्वराङ्गाश्रयत्वमिति बहुव्रीहिः । अङ्गदेवतानामित्यस्य परमेश्वराङ्गाश्र- यत्वमित्यनेन भावनेत्यनेन च सम्बन्धः । उक्तमिति शेषः । इत्यादीति लुप्तविभक्तिकं निर्देशः । इत्यादिनेत्यर्थः । यद्यपि श्रुतावङ्गजत्वमे- वोक्तं, न तु तदाश्रितत्वं, तथाऽपि 'ददाश्रिताश्च ते सर्वे' इति वचना- द्यत्र जन्म तत्रैव स्थितिरिति न दोषः । कर्तव्येति सावधारणम् । अ- त्र हेतुस्तु उत्तरसूत्रे चशब्देन अत्रापि उक्त इत्याध्याहृतपदेन च सू- चितः अन्यथा तदुक्तिवैयर्थ्य प्रसङ्गादित्येवंरूपो द्रष्टव्यः ॥ ( २ ) अत्रैव युक्त्यन्तराभिधानाय सूत्रम्—शिष्टेश्चेति ॥ तद्वयाच- ष्टे—यस्मिन्निति । यो यो देवः ' परस्य ' विष्णोः यस्मिन् यस्मिन् अ- ङ्गे 'निविष्टः' प्रविष्टः आश्रितः । 'हि' प्रसिद्धः । स सः 'तथा तथा' तत्तदङ्गनिविष्टत्वेन 'चिन्त्यः' उपास्य इत्यर्थः । 'शिष्टेः' शिक्षावि- धायकश्रुतिरिति फलितार्थ इति भावेनाह—श्रुतेरिति । श्रुतेरित्यनन्त- ११५
४. चतुर्थाध्याय: फलाध्याय (कर्म-विमुक्ति, अर्चिरादि मार्ग, नित्य-आनन्द व उपसंहार)
९१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] परस्य चिन्त्यः स तथा तथैव । इति पौत्रायणश्रुतेः ॥ ६४ ॥ ( ३ ) सू-ॐ ॥ समाहारात् ॥ ॐ ॥ ६५ ॥ अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत । तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत ॥ इति काषायणश्रुतौ समाहारवचनाच्च ॥ ६५ ॥ रं सूत्रानुसारतः समुच्चयार्थकश्चशब्दोऽध्याहार्यः । अनेन—न केवलं 'चक्षोः' इत्यादावङ्गाश्रयत्वेनोक्तमन्यथाऽनुपपत्त्या तथा भावः कर्त- व्यः, किन्तु 'शिष्टेः' 'यस्मिन्' इति श्रुतौ तथा विधानाच्चेति सूत्रार्थ उक्तो भवति ॥ ( ३ ) ननु निरधिकारित्वात्तद्विधानादिवैयर्थ्यस्यैवोचितत्वाच्च नाङ्गदेवतोपासनं युक्तमित्याशङ्कायां सूत्रं—समाहारादिति ॥ अत्र समाहारपदं सम्पूर्वकहृधातुयुक्तश्रुतिसूचकं 'अस्यैव च' इति सूत्रे ऊष्मेतिपदवदिति भावेन समाहारपदसूचितश्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—अङ्गैरिति । क्रियासमुच्चये चः । कर्मसमुच्चयेऽपिशब्दः । त- था च 'परात्' परमात्मनः चक्षुराद्यङ्गैः करणैः ये ये देवाः 'विसृष्टाः' विविधप्रकारेण सृष्टाः 'हि' प्रसिद्धाः 'तत्तद्गुणान्' तत्तद्देवसूर्यसो- मादिमहाप्रकाशाह्लादकरत्वादीन् गुणान् 'परमे' परमाङ्गे 'संहरे- त' उपसंहरेत । न केवलं गुणानङ्गेषु, किन्तु 'तांस्तान्' तत्तदङ्गा- न् देवानपि 'तत्रैव' तत्तज्जनकाङ्गेष्वेव विचिन्तयीत । न चास्य फ- लाभावः । यत एवं विचिन्त्य 'परमं स्थानं' सायुज्यरूपं व्रजेत 'मु- मुक्षुः' देवत्वयोग्य इति तत्त्वप्रदीपदिशा श्रुत्यर्थः । समाहारवचनादि- ति । अत्रापि समाहारपदं श्रुतिसूचकम् । तथा च काषायणानां समा- हारश्रुतिवचनादित्यर्थः । चस्समुच्चये । अनेन-सूत्रेऽपि चशब्दोऽनुषञ्ज- नीय इति सूचितम् । अस्य तथा भावना कर्तव्या इत्यनेनान्वयः । अ- नेन संहरेतेति समाहारपदघटितश्रुतेरङ्गदेवतोपासनस्य परमस्थानरू- पसायुज्यप्राप्तिफलकत्वावगमात्, अत एव देवताधिकारकत्वावगमा- च्च निरधिकारकत्वं न वा तद्विधानादिवैयर्थ्यं कल्प्यमिति सूत्रार्थ उ- क्तो भवति । तत्त्वप्रदीपे तु न केवलमङ्गेषु तत्तद्देवतानां भावनयाऽधि- कारी पूर्यते पूर्णफलभाग्भवति, किन्तु हरेरङ्गेषु चक्षुर्मनआदिषु त
श्रुत्यर्थः । श्रुतेश्चेत्यस्य त- Wait,इति श्रुत्यर्थः: भागं विहाय यथाशक्ति सर्वे समाहार्या इति श्रुत्यर्थः । श्रुतेश्चेत्यस्य त-`
Matches.
* `था भावना कर्तव्येति पूर्वेणान्वयः । तच्चाङ्गाश्रितत्वेन देवतोपासनं दे-`
Check:
`था भावना कर्तव्येति पूर्वेणान्वयः । तच्चाङ्गाश्रितत्वेन देवतोपासनं दे-`
Matches.
* `वताश्रयत्वेन तद्गुणबिम्बगुणवत्त्वेन च परमात्मोपासनं समनियतं, अ-`
Check:
`वताश्रयत्वेन तद्गुणबिम्बगुणवत्त्वेन च परमात्मोपासनं समनियतं, अ-`
Notice comma after `समनियतं,`! Yes.
* `तः 'समाहारात् , गुणसाधारण्यश्रुतेः, दर्शनाच्च' इत्येतेषां विरोधो`
Check:
`तः 'समाहारात्, गुणसाधारण्यश्रुतेः, दर्शनाच्च' इत्येतेषां विरोधो`
Matches.
* `न शङ्
९१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहा श्रवणात् ॥ ६७ ॥ (२) सू--ॐ ॥ दर्शनाच्च ॥ ॐ ॥ ६८ ॥ सत्यो ज्ञानः परमानन्दरूप आत्मंत्यवं नित्यदोपास नं स्यात् । नान्यत्किञ्चित्समुपासीत धीरस्सर्वैर्गुणैर्देवगणा उपा संते ॥ प्राप्तकर्तव्यत्वशङ्कानिरासेन कर्तव्यता समर्थ्यते । सूत्रमुपन्यस्यति— न वेति ॥ अत्राधिकारिविशेषानिर्देशेन गूढाभिसन्धिना सूत्रकृतोक्तं न वेति प्रतिज्ञांशं व्याचष्टे—न वेति । अङ्गेषु भगवदङ्गेषु अङ्गदेवतोप संहारः तासामुपसंहृत्योपासनं न कर्तव्यं वेत्यर्थः । अनेन सूत्रे 'अङ्गेषु यथाश्रयभावः' इत्यस्यानुवृत्तिः सूचिता भवति । कुतो नेत्यतः अतत्स हभावध्रुतेरिति हेतुवाक्यं व्याचष्टे—उपसंहारस्येति । उपसंहारपूर्व काङ्गदेवतोपासनस्येत्यर्थः । सहेति । सर्वशाखागतोपासनसहभावेने त्यर्थः । अनेन तच्छब्दस्य तेनेत्यावृत्तिः सूचिता । अश्रवणादित्यनेन सूत्रे नञो व्यत्यासेनान्वय उक्तो भवति । अनेन क्वचिदेवोक्तत्वात् स र्वशाखास्वनुक्तत्वात् देवैः कर्तव्यं न वा अन्यैरित्यभिसन्धिः प्रकटितो भवति । तथा च अङ्गेषु देवानां यथाऽऽश्रयभावोऽस्ति तथा भावरूपोपा सना देवैः कर्तव्या । कुतः ? क्वचित्सहभावश्रुतेः । न कर्तव्या वा देवा न्यैः । कुतः ? 'अतत्सहभावध्रुतेः' तथोपासनस्य सर्वशाखागतोपासने सह सर्वत्र सहभावस्याश्रुतत्वादिति सूत्रार्थ उक्तो भवति ॥ (२) देवैरेव तथोपासनं कर्तव्यं, नान्यैरित्येतमेवार्थं युक्तिसिद्धं श्रुत्याऽपि समर्थयत्स्रत्रं पठित्वा तां श्रुतिमुदाहरति—दर्शनाच्चेति ॥ न केवलं युक्तेः, किन्तु 'सत्यो ज्ञानः' इति श्रुतेश्च अङ्गदेवतोपसंहारे देवैः कार्यः, इतरैर्न वेति सूत्रार्थः । 'नित्यदा' योग्यसर्वकाले स्यात् सर्वमुमुक्षूणामिति शेषः । 'नान्यत्किञ्चित्' गुणादि 'सर्वैः' योग्यस र्वैः 'देवगणाः' ब्रह्मारुद्रादिदेवसमुदायाः । देवानां गणोऽनेकत्वद्यो तनाय गणा इति बहुवचनम् । कमठश्रुतौ दर्शनादुक्तेश्च न वाऽङ्गदेव
[ अधि - ४२. सू - ६८. ] दीपिकासहितम्. ९१७ इति कमठश्रुतौ ॥ ६८ ॥ —: ☼ :— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य तृतीयः पादः —: ☼ :— ॥ ॐ ॥ — तोपसंहारो देवेतरैः कार्यः, किन्तु देवैरित्यन्वयः ॥ ४२ ॥ ॥ इति नवाधिकरणम् ॥ — ☼ — इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना- थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका- यां तृतीयाध्यायस्य तृतीयः पादः — ☼ — ॥ ॐ ॥ —
९१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] १. अधिकरणम् ॥ (१) ज्ञानसामर्थ्यमस्मिन् पाद उच्यते ॥ सू--ॐ ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ ॐ ॥ १ ॥ यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात्सर्वपुरुषार्थप्रा- प्तिरिति बादरायणो मन्यते । (२) यंयं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तंतं लोकं जयते तांश्च कामान् १. अधिकरणम् ॥ (१) एतत्पादार्थं दर्शयति—ज्ञानेति ॥ यदर्थं पूर्वपादे उपासनो- क्ता तस्य ब्रह्मापरोक्षज्ञानस्य ‘सामर्थ्यं’ महिमा ‘अस्मिन्’ आरभ्य- माणे चतुर्थे ‘उच्यते’ अनुवर्ण्यत इत्यर्थः। तत्र ज्ञानिनां मोक्षेतरपुरु- षार्थेषु विरक्तत्वेन तदिच्छाया एवाभावात्, इच्छाभावेऽपि तत्प्राप्तौ पुरुषार्थत्वहान्यापत्तेः ज्ञानस्य मोक्षमात्रे साधनत्वं, न सर्वेषु पुरुषा- र्थेषु इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति—पुरुषार्थ इति ॥ अत्र अ- तः पुरुषार्थ इति प्रतिज्ञाभागे सङ्गतिसूचकस्य अत इत्यस्यार्थमाह— यद्दर्शनार्थमिति। यस्य ब्रह्मदर्शनस्यार्थमित्यर्थः। ‘तस्मात्’ अतो द- र्शनात् । तत्त्वप्रदीपे तु यस्य विष्णोर्दर्शनार्थं उपासनोक्ता ‘तस्मात्’ तस्य प्रसादात् सञ्जाताद्दर्शनादित्यर्थ उक्तः। पुरुषार्थ इत्यस्यार्थमा- ह—सर्वेति। पुरुषैरर्थ्यमानं यावच्छुभं तस्य सर्वस्यैव प्राप्तिर्भवति, न तु मोक्षमात्रस्येत्यर्थः। ब्रह्मदर्शन इति शेषः। अधिकारिणः फलस- म्बन्धबोधनाय प्राप्तिपर्यन्तधावनम्। यद्यपि सूत्रे सर्वशब्दो न श्रूयते। तथाऽपि पुरुषैरर्थ्यमानत्वरूपधर्माक्रान्तसर्वपुरुषार्थवाचिपुरुषार्थशब्द- पर्यालोचनया तल्लाभ इत्याशयेन सर्वेत्युक्तम्। इति बादरायणो मन्यत इत्यस्य शब्दादित्यनन्तरमन्वयः। वादे ज्ञाने रतानामधिकतया आश्रय- त्वेन भगवत्तमो वेदेश्वर उच्यत इति तत्त्वप्रदीपोक्तरीत्या बादरायण- शब्दार्थो ज्ञातव्यः ॥ (२) ज्ञानात्सर्वपुरुषार्थ इत्येतत्कुत इत्यतः शब्दादिति हेत्वंशं व्याच- ष्टे-यमिति ॥ यस्मात् ‘विशुद्धसत्त्वो’ निर्मलान्तःकरणो ब्रह्मज्ञानी ‘यं यं लोकं’ स्वर्गादिरूपं मनसा ‘संविभाति’ इच्छति, प्राप्तुमिति शे- षः ‘यांश्च कामान्’ काम्यान् ‘कामयते’ इच्छति तंतं लोकं तान्
[ अधि - १. सू - २. ] दीपिकासहितम्. ९१९. तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः (मु. ३-१-१०.)॥ इति शब्दात् ॥ १ ॥ ( ३ ) सू—ॐ ॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमि- निः॥ ॐ ॥ २ ॥ अस्त्येव मोक्षसाधनत्वं ज्ञानस्य स्वर्गादिषु तत्साधन- कर्मशेषत्वेन । ( ४ ) स्वर्गे धनादेर्हतो वै गृहाच्च कामांश्च 'जयते' प्राप्नोति । तस्मादेवं परमात्मज्ञानस्य सर्वपुरुषार्थ- साधनत्वात् तत्सिद्ध्यर्थं 'आत्मज्ञं' ब्रह्मज्ञानिनं 'भूतिकामः' 'स वेदं तत्' इत्युत्तरवाक्योक्तसर्वपुरुषार्थकामो जनः 'अर्चयेत्' पूजयेदित्य- र्थः । तत्त्वप्रदीपे तु धातूनामनेकार्थत्वाभिप्रायेण 'संविभाति' मनुते, भा ज्ञान इति धातोरिति व्याख्यातम् । इतिशब्दादिति । इत्याथर्वण- [L14
९२० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित् । इति वदति जैमिनिः ॥ २ ॥ (५) सू--ॐ ॥ आचारदर्शनात् ॥ ॐ ॥ ३ ॥ ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ ३ ॥ (६) सू--ॐ ॥ तच्छ्रुतेः ॥ ॐ ॥ ४ ॥ 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यव- स्तदुत्तरत्वेन प्रवृत्तं शेषत्वात्पुरुषार्थवाद इत्यंशमावर्त्य यथाऽन्येष्वि- त्यत्राप्यन्वयमभिप्रेत्य व्याचष्टे-स्वर्गे धनादिति । अन्येष्विति सम्बध्य- ते । तथा च ' स्वर्गे धनात् ' ( ) इति श्रुतौ ज्ञानकर्मभ्यां ' अन्येषु ' धनादिषु स्वर्गसाधनकर्मशेषत्वेन प्राधान्यप्रयोगवदित्यर्थः । ' धनात् ' बहुवित्तव्ययात् ' देहतः ' शरीरात् तदायासादेः ' गृहात् ' गृहस्थाद्गृहस्थाश्रमात् एतत्साध्याद्यागादेरित्यर्थः । इति जैमिनिर्मन्य- त इत्यनुषज्यते ॥ ( ५ ) ननु श्रुतिबलात् ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वं किं न स्या- त्, कुतः श्रुतेरर्थान्तरपरिकल्पनेत्याशङ्कां परिहरत्सूत्रं पठति-आचा- रदिति ॥ अत्राध्याहार्यांशं दर्शयन् सूत्रं व्याचष्टे-ज्ञानिनामेवेति । विशे- षणसङ्गतैवकारोऽयोगव्यवच्छेदकः । तथा च ' नैव देवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः ' इति वचनात् पदप्राप्तेः पूर्वं ज्ञानिनामेव अथ देवादित्वं प्राप्तानां न ज्ञानरहितानामित्यर्थः । आदिपदेन प्रजापत्यादीनां ग्रहणम् । आचारः कर्मानुष्ठानं दर्शनात् श्रवणात् ' यज्ञेन यज्ञमयज- न्त' (तै.आ.३-१२-७.) इत्यादाविति शेषः । पूर्वपक्षिणा जैमिनिमतस्य सर्वविषयकत्वाश्रयणाद्देवादीत्युक्तम् । सूत्रे क्वचिच्चशब्दः पठ्यते । तदभिप्रायेण भाष्येऽपि चशब्दप्रयोग इति केचित् । तच्चिन्त्यम् । अ- स्य सूत्रस्य शङ्कापरिहारत्वेन हेत्वन्तरपरत्वाभावात् । आचारदर्श- नादित्यस्य शेषत्वादेव पुरुषार्थवादः, न तु प्राधान्यादिति प्रकृतसाध्ये- नान््वयः ॥ (६) नन्वेवमस्तु ज्ञानकर्मणोरुभयोरपि स्वर्गादिसाधनत्वं, ज्ञान- स्य कर्मशेषत्वं कुत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - तदिति ॥ अत्र तदिति व्यस्तं समस्तं च । ' तत् ' कर्म प्रति ' तस्य ' ज्ञानस्य शे- षत्वस्य श्रुतेस्तच्छेषत्वमेव सिद्धमिति सूत्रयोजनामभिप्रेत्य सूत्राभि-
[ अधि - १०. सू - ५०. ] दीपिकासहितम्. ९२१ त्तरं भवति' (छा. १-१-१०.) इति शेषत्वश्रुतेः ॥ ४ ॥ (७) सू—ॐ॥ समन्वारम्भणात् ॥ ॐ ॥ ५ ॥ कर्मैव देहं दैविकं मानुषं वाऽ प्यन्वारभेन्नापरस्तत्र हेतुः । भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत् ॥ मतश्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—यदेवेति । ज्ञानस्येत्यनुवर्तते । त था च छान्दोग्यवाक्ये ज्ञानस्य कर्मशेषत्वश्रुतेरित्यर्थः । ‘श्रद्धया’ आ स्तिक्यबुद्ध्या युक्तया ‘उपनिषदा’ तस्य ब्रह्मण उप समीपं निषाद यति गमयति एनमित्युपनिषत् स्वयोग्यविद्या तया ‘स्वयोग्यं तु परि ज्ञानं यत्तस्योपनिषत्स्मृतम्’ इति छान्दोग्यभाष्योक्तेः । ‘विद्यया’ ज्ञा नेन ज्ञानी यत्कर्म करोति तदेव ‘वीर्यवत्तरं’ अधिकफलसाधने भव तीत्यर्थः । इयं श्रुतिः बादरायणमते मानुषविषया तत्कर्तृकज्ञानस्य शे षत्ववादिनी प्रतिबन्धकयुक्तदेवताविषया चेति ज्ञातव्यम् ॥ (७) ननु यथा ज्ञानस्य ‘यं यम्’ (मु. ३-१-१०.) इति श्रुतमपि प्राधा न्यं न स्वीक्रियते, किन्तु शेषत्वमेव, एवं ‘यदेव विद्यया’ (छा. १-१-१०.) इति श्रुतमपि कर्मणः प्राधान्यं नाङ्गीकार्यं, किं नाम? ज्ञानशेषत्वं कर्मणः साम्यं वा भवेत्, विशेषप्रमाणाभावादित्याशङ्कां परिहरत्सूत्रं पठति— समिति ॥ अत्र समन्वारम्भणमिति विपरिणामेनावृत्तिर्वा तदित्यनुवृत्ति र्वा । तथा च ‘समन्वारम्भणात्’ ‘कर्मैव’ इति कर्मण एव प्राधान्येन स्व र्गाद्यारम्भकत्वश्रुतेः ‘तत्’ समन्वारम्भणं कर्मण एव स्वर्गाद्यारम्भकत्व मिति सूत्रयोजनामभिप्रेत्य समन्वारम्भणशब्दोपलक्षितश्रुत्युदाहरणपू र्वं सूत्रं व्याचष्टे—कर्मैवेति ॥ इतीति । एवंरूपसमन्वारम्भणवाचिमाठर श्रुतेरित्यर्थः । चशब्दोऽवधारणे साध्यसमुच्चये वा । तेन श्रुतेरित्यस्य समन्वारम्भणमिति साध्येनान्वयः सूचितो भवति । ननु कर्मणः स्व र्गाद्यारम्भकत्वमेव सूचितं, न प्राधान्यं, तच्च परस्यापि सिद्धमित्या शङ्कोत्तरत्वेन संशब्दस्यार्थमाह—समिति । ‘दर्शयति’ प्रतिपादयति कर्मण इति शेषः । सिद्धान्ते मनुष्यविषयेयं श्रुतिः, प्रतिबन्धकयुक्तदे वताविषया च । तथा च ज्ञानोत्तरकालीनं शुभाशुभं कर्मैव ‘दैविकं’ मनुष्याणामेव देवलोके ज्योतिर्मयदेहं मानुषं वा देहं प्रतिबन्धकयुक्त देवानां चोभयं देहमन्वारभेत् । ‘अपरः’ कर्मातिरिक्तज्ञानादिः ‘तत्र’ ११६
९२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] इति माठरश्रुतेश्च । संशब्दः प्राधान्यं दर्शयति ॥ ५ ॥ (८) सू—ॐ ॥ तद्वतो विधानात् ॥ ॐ ॥ ६ ॥ ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत् । इति कमठश्रुतौ ज्ञानवतोऽपि विधानात् ॥ ६ ॥ (९) सू—ॐ ॥ नियमाच्च ॥ ॐ ॥ ७ ॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । शरीराद्युत्पादने 'हेतुः' प्राधान्येन कारणं न भवति । किन्तु कर्मशेष तयैव कारणं भवतीत्यर्थः । 'तदीयान्' देवमानुषीयान् भोगांश्च कर्मे व ददाति 'यथाविभागं' योग्यायोग्यविभागमनतिक्रम्य पुण्यं शुभफ लं पापमशुभफलमिति विभागमनतिक्रम्येति वा । कर्मस्वरूपमाह— शुभाशुभं यदिति । पुण्यपापात्मकमित्यर्थः । तत्त्वप्रदीपे तु नापरस्तत्र हेतुरित्यर्थः, विष्णोरितरापेक्षया ना परः पुरुषस्स्वतन्त्रहेतुरिति वा र्थसम्भवादित्युक्तम् ॥ (८) ननु तथाऽपि न ज्ञानस्य कर्मशेषत्वं युक्तं, किन्तु स्वयमेव पुरुषार्थहेतुः । कस्मात् ? ज्ञानिकर्मणां फलाभावात् । फलाभावेऽप्याचा रस्तु मुक्तवल्लीलयैवेत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—तद्वत इति ॥ अत्राप्यर्थकचशब्दोऽध्याहार्य इत्याशयेन तद्वत इत्यस्यार्थमाह—ज्ञा नवत इति । न केवलं ज्ञानरहितस्येत्यपेरर्थः । विधानादिति । कर्मण इति शेषः । श्रुतौ विधानादिति हेतोर्न ज्ञानिनः कर्म लीलामात्रमित्यध्या हृतसाध्येनान्वयः । श्रुतिषु 'उदितानि' उक्तानि कर्माणि 'ज्ञानी च' ज्ञान्यपि सदा कुर्यात् । न केवलमेतावत, किन्तु ज्ञानी सततमकामश्च भवेतेति श्रुत्यर्थः ॥ (९) इतश्च न ज्ञानिकर्म लीलामात्रमित्यभिदधत्सूत्रं पठति— नियमाच्चेति ॥ अत्र चस्समुच्चये । नियमोऽकरणे प्रत्यवायः । तेन त च्छ्रुतिर्गृह्यते । तथा च न केवलं विहितत्वान्न ज्ञानिकर्म लीलामात्रं, किन्त्वकरणे प्रत्यवायश्रुतेश्चेति सूत्रार्थ इत्याशयेन तां श्रुतिमुदाहर ति—कुर्वन्निति । इतीत्यस्य सूत्रेणान्वयः । 'कुर्वन्' इति मन्त्रार्थस्तु- 'शतं समाः' शतवर्षाणि 'इह' मानुषादिजन्मनि यावत् 'जिजीविषे त' जीवितुमिच्छेत् तावत् 'कर्माणि' स्वोचितानि 'कुर्वन्नेव' आम रणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि स
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे (ई. २.) ॥ इति ॥ ७ ॥ (१०) सू—ॐ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्श नात् ॥ ॐ ॥ ८ ॥ 'ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे का र्वथा कुर्यादिति यावत् । 'एवं' कर्माणि कुर्वति 'नरे' मनुष्यमात्रेऽ पि 'कर्म' पापं 'न लिप्यते' स्वोचितेनासङ्गकर्मणा भगवत्पूजां कुर्व न्तमल्पाधिकारिणमपि प्रागुत्तराणि पापानि न बाधन्ते । ततश्च ज्ञाना धिकारी भवतीति यावत् । 'इतः' कर्मकरणात् 'अन्यथा' कर्माकर णे 'न लिप्यते इति नास्ति' भगवत्पूजामकुर्वन्तं पापानि बा धन्त एव, ततश्च नासौ ज्ञानेऽधिक्रियते, अतः कर्माणि कार्याणीति ई शावास्यटीकायामुक्तम् । तत्त्वप्रकाशिकायां तु—'एवं' कर्मकरणे त्व यि कर्म न लिप्यते । 'इतोऽन्यथा' अकरणे 'नरे' न क्षीयत इति नरं ज्ञानं तद्वानपि नरः तस्मिन् ज्ञानिन्यपि त्वयि पापं कर्म न लिप्यत इ ति नास्तीत्यर्थ उक्तः । तत्त्वप्रदीपे तु—'इह' परमेश्वरे अर्पितानि क र्माणि कुर्वन्नेव शतं समाः जिजीविषेत् । एवं त्वयि नरे न कर्म लिप्य ते, इतोऽन्यथा कर्म न लिप्यत इति नास्तीत्यर्थ उक्तः । सः ईशावा स्यटीकोक्तान्न भिद्यत इति ध्येयम् ॥ (१०) एवं जैमिनिमतावलम्बनेन चोदिते स्वमतं समर्थयत्सूत्रमुप न्यस्यति—अधिकेति ॥ अत्राधिकोपदेशादिति हेतुवाक्यं व्याचष्टे— ज्ञानादेवेति । तथाऽपीत्युक्तेर्यद्यपीति लभ्यते । अपवर्गो मोक्षः । 'का माः' काम्याः 'यथा यथा' यद्यत् कुरुते पुरुषः 'तथा तथा' तेन तेन कर्मणा 'अधिको' ज्ञानफले अतिशयितो भवतीत्यर्थः । अनेनाधिकोप देशादित्यस्य ज्ञानादेव सिद्ध्यत्सु स्वर्गादिष्वधिकभावोपदेशादित्यर्थ उक्तो भवति । तद्दर्शनादिति हेत्वन्तरं, तत् चार्थकतुशब्दान्वयेन त च्छब्दावृत्त्या च व्याचष्टे—युधिष्ठिरादीनामिति ॥ अन्येषां देवजातीनां स्वर्गजुषां मध्ये 'युधिष्ठिरादीनां' धर्मादीनां राजसूयादिना फलाधि क्यस्य लिङ्गस्य दर्शनात् दृष्टत्वादित्यर्थः । उक्तं हि— राजसूयजितान् लोकान् अश्वमेधाभिवर्धितान् । प्राप्नुहि त्वं महाभाग तपसश्च महाफलम् ॥
वाक्येन परम्परयाऽन्वयः । इतिशब्दाध्याहारे" -> "साध्यवाक्येन" Line 13: "ण बादरायणस्येत्येतद्व्याचष्टे—इतीति । अनेन—'अधिकापदेशात्'" Wait, look at "अधिकापदेशात्" vs "अधिकोपदेशात्": Let's look at the letter again very carefully. In line 13: 'अ' 'धि' 'का' 'प' 'दे' 'शा' 'त्' Wait, look at the third character: It's 'का' with a dot above it: 'कां'? Wait, could it be "अधिकापदेशात्"? Why would it be "अधिकापदेशात्"? Notice line 14: "कर्मणा अधिकस्य आधिक्यस्यातिशयस्य 'ज्ञानादेव' इत्यत्रोपदेशात्" "अधिकस्य" ... "उपदेशात्" -> "अधिकोपदेशात्"! In line 13, look at the mark above 'का': Is it an anusvara, or is it a slant stroke for 'ओ'? Wait, let's look at line 1: "[ अध्या - ३. पा - ४. ]" Look at line 3: "तथाऽधिको भवति" -> look at 'को': 'क' has a vertical stem to its right ('ा'), and a slant stroke attached to the top of that stem.
[ अधि - १. सू - ९-१०. ] दीपिकासहितम्. ९२५ राजसूयादिकृन्नापकृतौ च सममेव तेषां विज्ञानम् । ( १२ ) विज्ञातमेतत्सर्वेषां मुनीनां ब्रह्मदर्शनात् । स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥ ( १३ ) स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । ज्ञानेनाधिक्यमित्याहुजैमिन्याद्यास्तु केचन ॥ अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । नशब्दस्य व्याख्यानमिति द्रष्टव्यम् । न तु विषममित्येवशब्दार्थः । अ न्यथा कर्मकरणे ज्ञानं पुरुषार्थसाधने समर्थं अकरणे असमर्थमिति ज्ञाने विशेषस्स्यादिति भावः । ज्ञानमित्यनन्तरं यत इति शेषः । अतो ज्ञानिकर्म न ज्ञाने अतिशयाधायकं, किन्तु ज्ञानफल इति साध्यसमर्प कैवंशब्देन अस्यान्वयः ॥ ( १२ ) नन्वेवं र्ताह भगवन्मतविरोधेन जैमिनिमतस्याप्रामाण्यं प्रस ज्यते । न च मुनिमतस्य तद्युक्तम् । जैमिनिमतस्य प्रामाण्ये तु भगव न्मतस्य अप्रामाण्यमित्याशङ्कां स्मृत्या परिहरति — विज्ञातमिति॥ जै मिन्यादीनां व्यासशिष्याणां सर्वेषां मुनीनां ब्रह्मदर्शनादेव मोक्षः स्या त्, नान्यस्मात्कर्मण इत्येव 'विज्ञातं' सम्मतमिति यावत् । ' तत्रापि ' तेषां मतेष्वपि मोक्षान्यफलविषयेऽपि 'चित्रता' आधिक्यं नानाप्रका रमस्ति ॥ ( १३ ) वैचित्र्यमेव दर्शयति—स्वर्गादय इति ॥ ' अपरे ' केचिदृ षयः स्वर्गादयः कर्मणैव भवन्ति, न तु कर्मणोऽन्येन तच्छेषभूतेन ज्ञा नेनेति 'विदुः' अभ्युपजग्मुः । इदं मतमपरोक्षज्ञानिष्वेव मनुष्येषु येऽ धमाः तत्कर्तृकज्ञानविषयम् । केचन जैमिन्याद्यास्तु अपरोक्षज्ञानेन क र्मशेषभूतेन कर्मफले सर्वत्र दृष्टादृष्टरूपे आधिक्यमित्याहुः । इदं मतमु त्तममनुष्यविषयमिति प्राञ्चः भावबोधकाराश्च । अर्वाचीनास्तु इदं मतं योग्यमध्यममनुष्यविषयमित्याहुः । केचित्तु कर्मशेषभूतेन ज्ञानेन 'अदृ ष्टं' स्वर्गादिकं सर्वमेव 'उपलभ्यते' प्राप्यते, न तु दृष्टं पुत्रवृष्टिधना दिकमपीत्याहुः । इदं मतं मध्यममनुष्यविषयमिति प्राञ्चो भावबोधका राश्च । अर्वाचीनास्त्विदं मतं योग्येषूत्तममनुष्यविषयमित्याहुः । अत्र यद्यपि प्राचीनपक्षे भावबोधपक्षे च स्वर्गादय इति स्मृतिक्रमभङ्गोऽ स्ति । तथाऽपि मानुषा अपि उत्तममध्यमाधमभेदभिन्ना यथायोग्यं विचित्रमतविषया भवन्तीति सुधोक्तेर्यथायोग्यमेव स्मृत्युक्तपक्षे यो
९२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] इति केचिद्विदः प्राहुः व्यासशिष्या इमेऽखिलाः ॥ यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ॥ ( १४ ) यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावधिस्तथा । प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥ ( १५ ) स्वयन्तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् । अनन्ताकाशवत्पश्यन्निखिलं पुरुषोत्तमः ॥ जनीयः। न चाश्रमक्रमेण योजने स्मृत्यानुगुण्यं सुधाविरोधश्च नास्ती ति वाच्यम् । प्रमेयबाधात् । कर्मसाध्ये दृष्टादृष्टादौ सर्वत्र ज्ञानस्यानुप्र वेशो ह्युत्तमपक्षे। दृष्टमात्रप्रवेशो मध्यमे। अधमे तु न कुत्रापि ज्ञानस्य प्रवेश इति तत्त्वम् । व्युत्क्रमस्यापि क्रमत्वे सुधोक्तानुक्रमविरोधो य थायोग्यमित्युक्तिविरोधश्चेति ध्येयम् । कर्मफले विचित्रतायामपि न मुनिमतानामसत्यत्वं शङ्क्यमित्याह—इम इति। यस्मादिमे एवं वद न्तोऽखिलाः सर्वेऽपि व्यासशिष्याः, तस्मादुक्तं ‘सर्वं व्यासमतं’ वेद व्यासमतान्तर्भूतं ‘ततोऽखिलं’ निश्शेषं सर्वं सत्यमेवाधिकारिभेदा दित्यर्थः॥ ( १४ ) अत्र दृष्टान्तमाह—यथेति॥ यथा आकाशोऽनन्तोऽपि ‘स त्येन’ सत्यत्वेन वर्तते, तथा तत्प्रभेदाश्च ‘व्यामः’ पुरुषप्रमाणः बाहु द्वयपरिमितो वा ‘हस्तावधिः’ हस्तपरिमितः प्रादेशपरिमितश्चेत्येते सत्यत्वेन वर्तन्ते, तथा भगवन्मतं तदन्तर्गतान्येतेषां मुनीनां मतानि च साकल्येन सत्यानीत्यर्थः । तुशब्दार्थः चस्समुच्चये । तत्त्वप्रदीपे तु—य था आकाशः कात्स्न्र्येन गृह्यमाणोऽनन्तोऽपि परिमाणभेदापेक्षया व्या मो हस्तप्रमाण इत्याद्युच्यते ‘सत्येन’ सत्यवचनेनैव, तथैतेषां मता न्यधिकारिभेदापेक्षया सत्यानीत्यर्थ उक्तः ॥ ( १५ ) ननु ज्ञानादेव सर्वे पुरुषार्थाः कर्मणा तु तदाधिक्यमिति भ गवन्मतं, अन्येषां तु नैवं मतं, अतः कथमनन्ताकाशवदन्तर्भावितान्य मतत्वं बादरायणमतस्येत्यत आह—स्वयं त्विति॥ तुरप्यर्थः। अन न्ताकाशवदित्यस्य पूर्वेणान्वयः। भूतव्यावृत्त्यर्थं—अनन्तेति । व्याप्ते त्यर्थः। दृष्टान्ते विधेयधर्मवैकल्यपरिहारायेदम् । तथा च पुरुषोत्तमो भगवान् अनन्ताकाशवत् व्याप्तज्ञानमहांशुमान् ‘महायोगी’ महामु निर्व्यासो नानाधिकारिकं निखिलं मतं पश्यन्नपि स्वमतत्वेनेति शेषः। अपरोक्षज्ञानेनैव सर्वे स्वर्गादिकमाप्यते, ज्ञानोत्तरकृतकर्मणा तु तद्
[ अधि - १०. - सू - १०. ] दीपिकासहितम्. ९२७ ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् । इतिप्राह महायोगी पुमर्थानांविनिर्णयम् ॥ इति भविष्यत्पर्वणि । ( १६ ) ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् । धिकं भवेदित्येवं देवतालक्षणाधिकारिविशेषविवक्षया ‘पुमर्थानांवि निर्णयं’ षष्ठ्या अलुक्, व्यधिकरणबहुव्रीहिर्वायं, स्वर्गादिपुमर्थसाध नविषयकनिर्णयजनकं स्वमतं पृथक्प्राहेत्यर्थः। आकाशवद्व्याप्तज्ञान महांशुमान् व्यास इति यथाश्रुतान्वयो न सम्भवति, व्याप्तज्ञानवत्त्वरू पविधेयधर्मस्य पक्षदृष्टान्तोभयान्वयाभावात्, किन्त्वाकाशवद्व्याप्तं च तत् ज्ञानं चेति विधेयैकदेशेनान्वयो वाच्यः। तथा चायमनन्वय दृष्टान्तः। अत एव टीकाकृदनन्ताकाशवदित्यनन्वयदृष्टान्त इत्युक्त्वा तदुपपादयितुं यथाऽऽकाशो व्याप्तस्तथा ज्ञानमित्येकदेशान्वयं प्रदर्शित तवान् । न च दृष्टान्तस्य अनेकविधत्वाभावः । व्यत्यासोऽनन्वयश्चैव प्रसिद्धोऽभूत एव च । सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः ॥ इत्युक्तेः । ‘रमादिवन्नास्वतन्त्रो हरिः’ इति व्यत्यासदृष्टान्तः । अनन्व यस्य तु प्रकृतमेवोदाहरणम् । प्रसिद्धो महानसादिः, ‘यथोर्णनाभिः’ (मु. १-१-७,) इति च । अभूतस्य ‘दिवि सूर्यसहस्रस्य’ इत्याद्युदा हरणम् । सर्वसांहारिकस्य ‘कृष्णो नारायणवत्, रामः कृष्णवत्’ इ त्यादि । सर्वेषां नारायणकृष्णधर्माणां कृष्णे रामे चोपसंहारात् । ‘गग नं गगनाकारम्’ इत्यादि सर्वसांहारिकस्योदाहरणमिति केचिदाहुः । भविष्यत्पर्वणीति । मतानां प्रामाण्यमुक्तमिति शेषः ॥ ( १६ ) नन्वेवं स्मृत्या मतानां प्रामाण्योक्तावपि परस्परविरुद्धत्वा त्कथं तत्स्यादित्यतो भगवन्मतं देवताविषयं, जैमिन्यादिमतं मनुष्य विषयमतो न विरोध इति भावेनात्र स्मृतिमाह—ज्ञानिनामिति ॥ त त्त्वप्रदीपे तु राजसूयादिना फलाधिक्यमित्युक्तं सममिति चोक्तम् । त त्र प्रमाणमाह—ज्ञानिनामपीत्यवतारितम् । यद्यपि देवाः ज्ञानिनः, त थापीत्यर्थेऽपिशब्दः । ज्ञानिनां देवानां ज्ञानेन सर्वफलसिद्धावपीति वा । ‘विशेषः’ आधिक्यं ज्ञानफल एव, न तु ज्ञाने इति शेषः । कुत इत्यत आह—चीर्ण इति । कर्मणि ‘चीर्णे’ अनुष्ठिते ‘अकृते’ अननु ष्ठिते वा ‘ज्ञानस्य’ ज्ञाने ‘विशेषः’ अतिशयः पुरुषार्थसाधनसामर्थ्या
९२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] चीणेऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि ॥ इति ब्रह्मतर्के ॥ ९ ॥ ⸎ २. अधिकरणम् ॥ ( १ ) सर्वेषां पुरुषार्थापेक्षित्वात् ज्ञानाधिकारितेति । ( २ ) अत आह— सू—ॐ ॥ असार्वत्रिकी ॥ ॐ ॥ १० ॥ न सर्वेषामधिकारः ॥ १० ॥ ( ३ ) सू—ॐ ॥ विभागश्शतवत् ॥ ॐ ॥ ११ ॥ सामर्थ्यरूपो नास्तीत्यर्थः । 'हि' यस्माद्ब्रह्मतर्के इति व्यासमतस्य दे वताविषयत्वोक्तेर्न विरोध इति वाक्यशेषः । यद्वा—तत्त्वप्रदीपानुसा रात्फलाधिक्यं ज्ञानानां विशेषश्चोक्त इति शेषः ॥ ९ ॥ ॥ इति पुरुषार्थाधिकरणम् ॥ :*:- २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ज्ञाने सर्वेषामधिकाराभावो वर्ण्यते । पूर्वपक्ष यति—सर्वेषामिति ॥ 'सर्वेषां' जनाना पुरुषैरर्थ्यमानो यो ज्ञानसा ध्यो मोक्षः तदपेक्षित्वात् निर्दुःखसुखमाप्नुवानीति तदर्थित्वादित्यर्थः । उपलक्षणमेतत्—सर्वेषां ज्ञानसाधने श्रवणादौ सामर्थ्यात्तदुपयोगि विद्वत्तासद्भावाच्चेत्यपि ज्ञातव्यम् । ज्ञानाधिकारिता स्यादिति शेषः । सर्वेषामधिकार इत्यनुक्त्वा अधिकारितेति स्त्रीलिङ्गप्रयोगेन वक्ष्यमाण सूत्रं विशेष्यपदोक्त्याऽनुकरोति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रं पठति—अ सार्वत्रिकीति । ज्ञानाधिकारिता 'असार्वत्रिकी' सर्वेषां नेति व्याकृत मपि सूत्रं पुनः स्वोक्तिविवरणेन व्याचष्टे—नेति । जनानामिति शेषः॥ ( ३ ) नन्वर्थित्वादेः सर्वेषामपि सद्भावात् कथं नाधिकारितेत्या शङ्कां परिहरत्सूत्रमुपन्यस्यति—विभाग इति ॥ अत्र तुल्यमित्यतः तु शब्दोऽनुवर्तते । शतवदिति चावर्तते । तत्रैकस्य शतशब्दवतो वचना दित्यर्थ इत्याशयेन सूत्रं व्याचष्टे—नवकोट्य इति । 'नवकोट्यो' न वकोटयः तावत्सङ्ख्याकाः 'हि' प्रसिद्धाः देवानां गणाः सन्तीति शे षः । कोटीशब्दो वा, तथात्वे सङ्ख्या इति शेषः । 'तेषां' नवकोटी
[ अधि - २. सू - ११. ] दीपिकासहितम्. ९२९ नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु । सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥ यथा तथैवासङ्ख्येयाः प्रजास्तासु कियान् जनः । ज्ञानाधिकारी संप्रोक्तो विष्णुपार्देकसंश्रयः ॥ इति वचनात्सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधि कारार्थम् ॥ ११ ॥ ( ४ ) कस्याधिकारः ? षां मध्ये 'शतस्य तु' शतसङ्ख्याकदेवगणस्यैव 'सोमाधिकारः' सो मरसद्रव्यकयागाधिकार इत्यर्थः । सोमपानाधिकार इति वा । न के वलं शतस्यैव, किन्तु शताधिकयोरपि अधिकारोऽस्तीत्याह—ब्रह्मणी इति । विष्णुचतुर्मुखाख्यपरापरे ब्रह्मणी इत्यर्थः । यथाशब्दः शतस्येत्य तः प्राग्योजनीयः । अत्यन्तसाम्ये एवशब्दः । प्रजाः सन्तीति शेषः । कियान् जन इति जात्यैकवचनम् । अयोग्यजनव्यावृत्त्यर्थमाह—वि ष्ण्विति । वचनादित्यनेन शतवदित्यंशः, सुखापेक्षासाम्येऽपीत्यनेना नुवृत्ततुशब्दश्च सर्वेषां निर्दुःखानन्दरूपपुरुषार्थापेक्षासाम्येऽपीत्यर्थत या व्याख्यातः । इति वचनान्न सर्वेषां ज्ञानाधिकारः, किन्तु ज्ञानाधि कारार्थं शतवद्विभागः 'इष्यते' अङ्गीक्रियते इति योजना । अनेन— 'शतवत्' शतस्येव यथा खलु नवकोटीनां देवत्वसाम्येऽपि न तेषां साधारण्येन सोमाधिकारः किन्तु परापरब्रह्मद्वयाधिकशतस्येति वि भाग एव, तथा 'शतवद्वचनात्' शतशब्दयुक्तनवकोट्य इति व चनात् 'तु' अपि सर्वेषां पुरुषार्थापेक्षासाम्येऽपि न ज्ञानाधिकारः, किन्तु तदर्थं ज्ञानाधिकारार्थं 'शतवद्विभागः' पुरुषविभागोऽङ्गीकार्य इति सूत्रार्थ उक्तो भवति । सोमाधिकारिशतदेवास्तु तत्त्वप्रदीपेऽभि हिताः । तेषामयं सङ्ग्रहश्लोकः— प्रधानवायुर्मरुतोऽश्विनौ च वस्वर्करुद्राः पितरो गुरुश्च । द्यावापृथिव्यावृभवोऽपि विश्वे देवाः शतं सोमसवाधि [ कारिणः ॥ इति । अत्र पितृपत्नीनां त्रित्वं, अश्विनोर्द्वित्वं, सहस्रऋभूणामेकत्वं च विवक्षितम् ॥ (४) ननु यद्यर्थित्वादिसाम्येऽपि न सर्वेषामधिकारः, तर्हि कस्याप्य सौ नस्यात् । यदिकेषां चिदधिकारोऽस्ति तर्ह्यर्थित्वाद्यतिरिक्तमधि ११७
[Header] ९३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
सू—ॐ ॥ अध्ययनमात्रवतः ॥ ॐ ॥ १२ ॥ (५) अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते । गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥ न च वर्णाधरस्यापि तस्मादध्ययनान्वितः । ब्रह्मज्ञाने तु वेदोक्ते ह्यधिकारी सतां मतः ॥ इति ब्रह्मतर्के । कारप्रयोजकविशेषणं वक्तव्यम्, न च तदस्तीति भावेनाक्षिपति-कस्ये ति । अर्थित्वाद्यतिरिक्तस्य केन विशेषणेन युक्तस्य अधिकारः ? न केनापि युक्तस्येत्यर्थः । कस्याधिकार इति प्रयोगेन वक्ष्यमाणसूत्रापे क्षितसम्बन्धिपदं प्रदर्शितं भवति । एतच्चोद्यपरिहाराय सूत्रं पठति— अध्ययनेति । मात्रशब्दः कार्त्स्न्यर्थः । तथा च यथाशक्त्यखिलवेदाध्य यनरूपविशेषणवत इत्यर्थः । यथोक्तं तत्त्वप्रदीपे—मात्रशब्दः कार्त्स्न्येऽ वधारणे च । तथा च साङ्गवेदाध्ययनवतः सफलाध्ययनवतः अश क्तौ च यथा सम्भवं वेदाध्ययनवत इति । भवतीति ज्ञानाधिकार इ ति सम्बन्धः ॥ (५) ननु यद्यध्ययनवतां ज्ञानाधिकारः तर्हि ‘विभागः’ इत्युक्ति भङ्गस्स्यात् । सर्वैरपि वेदस्याध्येतुं शक्यत्वादित्यत आह—अवैष्णव स्येति ॥ विष्णुभक्तिविहीनस्येत्यर्थः । अपिः वैदिकेऽपीति समुच्चये , वेदोक्तेऽपि तर्हि अवैष्णवस्यापीति वा । 'हि' यस्मात् । नञो द्विर्ग हणं सर्वत्र सम्बन्धं ज्ञापयति । अथ वा—शूद्रस्य तन्त्रेऽधिकारस त्त्वात् पृथङ्निषेधः । आद्यश्चस्समुच्चये । द्वितीयाऽवधारणे । वर्णाध रः शूद्रः । अपिस्समुच्चये । 'वेदोक्ते तु' वेदजन्य एव ब्रह्मज्ञाने । त न्त्रोक्ते त्वध्ययनानपेक्षेति तुशब्दाभिप्रायः । तृतीयोऽपिः भिन्नक्रमः विष्णुभक्तिरूपविशेषणसमुच्चयार्थः । हिशब्दपाठे पुनः हिशब्दः प्रसि द्धौ, सज्जनसम्मतहेतुत्वद्योतको वा । तस्मादित्यस्य यस्मादध्ययने भगवद्भक्तिमतामेवाधिकारो नान्येषां, तस्मादध्ययनान्वितो ब्रह्मज्ञानेऽ धिकारीति युक्तमित्यन्वयः । इतीति शेषः। न चाभक्तस्यानधिकारित्वे चतुर्मुखस्य विरोचनाध्यापने कथं प्रवृत्तिरिति वाच्यम् । अभक्ताना मनधिकारितया तदध्ययनस्य वैफल्यमेवेति ज्ञापनायाध्यापनोपपत्तेः। अत एव तत्त्वप्रदीपे अध्ययनवत इत्येतत् सफलाध्ययन इति व्याख्या तम् । इति ब्रह्मतर्क इति । सूत्रकृदुक्तमुक्तमिति वाक्यशेषः ॥
[ अधि - ३. सू - १३. ] दीपिकासहितम्. ९३१ ( ६ ) 'पठेद्वेदानथार्थानधीयीताथ विचार्य ब्रह्म विन्देत्' इति कौषारवश्रुतिः ॥ १२ ॥ * ३. अधिकरणम् ॥ ( १ ) मू--ॐ ॥ नाविशेषात् ॥ ॐ ॥ १३ ॥ न सामान्येनाधिकारो देवादिनाम् । ( २ ) अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् । ( ६ ) अध्ययनवतो वैदिकब्रह्मज्ञानेऽधिकार इति यत्स्मृत्या सिद्धं तत्र श्रुतिं चाह—पठेदिति ॥ 'वेदान् पठेत' गुरूच्चारणमनूच्चारयेत् । 'अथ' अनन्तरं 'अर्थान्' वेदार्थान् 'अधीयीत' गुरुमुखाज्जानीया त् । अथैवं श्रवणोपासनानन्तरं 'ब्रह्म विचार्य' मत्वा ध्यात्वा च 'अथ विन्देत्' अपरोक्षतो जानीयात् । अथ प्राप्नुयादित्यर्थः । इति चेति चः पूर्वोक्तस्मृतिसमुच्चये । श्रुतिश्चेत्यन्वेति । अध्ययनवतामेव वैदिक ब्रह्मविद्याधिकार इत्यर्थमाहेति शेषः ॥ २ ॥ ॥ इति असार्वत्रिकाधिकरणम् ॥ —:*:- ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ज्ञानाधिकारे तारतम्यं समर्थ्यते । तारतम्य कल्पकाभावात् सर्वेषां अविशेषेण ज्ञानाधिकार इति पूर्वपक्षे सिद्धा न्तसूत्रं पठति—नेति ॥ अत्राधिकार इत्यनुवर्तते । अविशेषादित्यनु वर्तते । नाविशेषादित्येकपदं च । देवादिनामिति शेष इति भावेन सू त्रं व्याचष्टे—नेति । साम्येत्यावर्तते । तत्र द्वितीयस्य साम्यप्रसङ्गादि त्यर्थः । देवादिनामिति । 'देवानां' ऋषिगन्धर्वाणां मनुष्याणां च न साम्येनाधिकारः, तथा तेषां प्रत्येकमपि न साम्येनाधिकार इत्यर्थः । अनेन—देवादिनां ज्ञाने अधिकारः 'अविशेषात्' साम्येन न, कुतः ? तथासति 'अविशेषात्' ज्ञानेऽपि साम्यप्रसङ्गात् । किन्तु 'नाविशे षात्' तारतम्येनेति सूत्रार्थ उक्तो भवति ॥ ( २ ) ज्ञानाधिकारतारतम्ये न केवलं युक्तिः प्रमाणमित्याशयेन श्रु तिं चाह—अथेति ॥ आरम्भे अथशब्दः । पुरुषार्थो मोक्षः । तथा च 'अर्थो' वित्तं 'धर्मः' सुकृतं 'ज्ञानं' ब्रह्मदर्शनमित्येतानि त्रीणि पूर्व पूर्वं उत्तरोत्तरमपेक्ष्य पुमर्थसाधनानीत्यर्थः । तत्रार्थस्य धर्मज्ञानद्वारा