पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
९३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्' इति कौण्डिन्यश्रुतिः ॥ १३ ॥ ४. अधिकरणम् ॥ ( १ ) 'अथ मुनिर्मौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्रा- ह्मणः केन स्याद्येन स्यात्तेनेदृश एवेति' (बृ. ५-५-१०) मोक्षसाधनत्वं, धर्मस्य ज्ञानद्वारा, ज्ञानस्य तु साक्षादिति विवेकः । एतेषु योऽधिकारिणः तेषां च तारतम्यमाह — तत्रेति । त्रिष्वित्यर्थः । इत्येते उत्तरोत्तरमतिशयिताः प्रत्येकं प्रत्येकमधिकारिण इत्यर्थः । तत्त्व- प्रदीपे तु—अर्थो धर्मो ज्ञानमित्युत्तरोत्तरतः पुमर्थानां कामस्वर्गापव- र्गाणां साधनानि साध्यं चोत्तरमधिकमित्यर्थः । तेषु त्रिष्वपि अधिका- रिणो मनुष्यपर्य्यादिदेवास्तु 'उत्तरोत्तरं' प्रत्येकं प्रत्येकं वेत्यर्थ इत्युक्त- म् । अस्य नेति पूर्ववाक्येनान्वयः ॥ ३ ॥ ॥ इति अविशेषाधिकरणम् ॥ ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ज्ञानिनां सदसत्प्रवृत्त्योर्विशेषः साध्यते । पूर्व- पक्षं सूचयति—अथेति ॥ अथेत्यतः प्राक् ज्ञानिनः सदसत्प्रवृत्त्योर्विशे- षो नास्तीति साध्यमध्याहृत्य तत्र हेतुतया यतश्शब्दाध्याहारेणाथे- त्यादि विधीयत इत्यन्तं वाक्यं योजनीयम् । ईदृश एवेति । इति श्रुता- विति शेषः । 'तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासे- त् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर्मौनं च मौनं च नि- र्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवेति' बृहदारण्यकवाक्यस्यायमर्थः—यस्मादपरोक्षज्ञानान्मोक्षः, तस्माद्यो 'ब्राह्मणो' ब्रह्म आणिंतुं प्राप्तुं योग्योऽसौ 'पाण्डित्यं' आगमजन्यं श्र- वणारूपज्ञानं सम्पादयेत् । पाण्डित्यं 'निर्विद्य' नितरां लब्ध्वा 'बा- ल्येन' युक्तिरूपबलसहितेन तज्जन्येन मननरूपज्ञानेन 'तिष्ठासेत्' स्थातुमिच्छेत बाल्यं सम्पादयेदिति यावत् । 'अथ' तदुभयलाभान- न्तरं 'मुनिः' ध्यानी भवति मौनममौनं च निर्विद्येत्यनुवादात् अथा मुनिरपरोक्षज्ञानी भवतीति लक्ष्यते । अत एव व्यासतीर्थीये 'अथ मु- निः' इत्यस्यानन्तरमध्याहृतस्यामुनिरित्यस्यार्थमाहेत्युक्तम् । तथा च
[ अधि - ४. सू - १४. ] दीपिकासहितम्. ९३३ ज्ञानिनो यथेष्टाचरणं विधीयत इति । ( २ ) अत आह— सू— ॐ ॥ स्तुतयेऽनुमतिर्वा ॥ ॐ ॥ १४ ॥ एवं ‘मौनं’ उपासनारूपज्ञानं ‘अमौनं’ अपरोक्षज्ञानं च निर्विद्याथ ब्राह्मणो जीवन्मुक्तो भवति तथोच्यते ‘सः’ जीवन्मुक्तो येन केन सता वा स्यादसता वा प्रकारेण कर्माचरणेन ‘स्यात्’ वर्तेत, ‘तेन’ यथेष्टाचरणेन ‘ईदृश एव’ ज्ञानफलमोक्षं प्राप्त एव भवति । न ताव ता तस्य मोक्ष हानिरिति । यद्यपि बृहद्भाष्ये ‘ब्राह्मणो’ मुक्तो भवती त्यर्थः । ‘सः’ मुक्तो येन केनापि वर्तयन् ‘ईदृश एव’ परमात्मनः स काशादानन्दभिक्षुक एव, न कदाचित्स्वतन्त्रो भवतीति ब्राह्मणशब्दः परममुक्तपरतया येन केनेत्येतन्निमित्तपरतया च व्याख्यातः । तथा ऽपि तत्रैव प्रथमब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते । अपरोक्षविन्मुक्तयोस्तु तार्तीयेनोभयोर्ग्रहः ॥ इति प्रमाणोदाहरणेन अथमुनिरित्यस्यानन्तरं अध्याहारं विनैव ब्राह्म णपदानुषङ्गेण श्रुतिव्याख्यानायापरोक्षज्ञानिपरत्वस्याप्युक्तत्वादविरो धः । न च प्रमेयदीपिकायां बलेन युतं बालं तस्य भावो बाल्यमित्या शयेन युक्तिबलोपेतत्वं बाल्यं, आगमज्ञत्वं पाण्डित्यं, ‘अथ मुनिः’ मननशीलो भवतीत्यर्थोक्तेर्विरोध इति वाच्यम् । गीताभाष्ये ‘मौनं मननशीलत्वम्’ इत्यस्यार्थे अस्याश्श्रुतेरुदाहृतत्वात् तदानुकूल्याय त था व्याख्यानेऽप्यस्य प्रकारान्तरत्वसम्भवात् ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रं पठति—स्तु तय इति । अत्र ‘नाविशेषात्’ इत्यतः विपरिणामेन नाविशेष इत्य स्यावृत्तिं ‘परामर्शम्’ इत्यतः अचोदनेत्यस्याकर्षणं च अभिप्रेत्य सूत्रं व्याचष्टे—न विधिरिति । न यथेष्टाचारविधिरित्यर्थः । ‘केन स्याद्येन स्यात्’ इति वाक्यमित्यस्ति । यत इति शेषः । न विधिरि त्यस्यातो न विध्यनुपपत्तिदोष इत्युपस्कृतेनान्वयः । तस्य च अतो ज्ञानिनः सदसत्प्रवृत्त्योर्नाविशेषः, किन्त्वस्त्येव विशेष इति परमसा ध्येनान्वयः । तर्हि ‘येन स्यात्’ इति किमर्थमुच्यत इत्यतः तत्सार्थ क्यकथनपरतया स्तुतयेऽनुमतिर्वैत्येतद्योजयति—ज्ञानीति । ज्ञानीत्य तः प्राक् किञ्चिदितिशेषः । स्तुतिः सामर्थ्यप्रकटनम् । तथा च यथा
Here is the complete line-by-line transcription in pure Devanagari Unicode:
९३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] न विधिः । ज्ञानिनः स्तुतयेऽनुमतिमात्रं वा । ( ३ ) युज्यते च ॥ १४ ॥ ( ४ ) सू--ॐ ॥ कामकारेण चैके ॥ ॐ ॥ १५ ॥ ‘कामचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमु त्सृज्याथ परात्परमीयुरनारम्भणम्’ ( सामशाखा ) इति चैके पठन्ति ॥ १५ ॥ कंचिदङ्गत्यं प्रति स्तुतये कथ्यते यथेष्टं कुर्वति न तु विधिः तथैतदपि 'ज्ञानिनस्तुतये एव' यदि ज्ञानी सता वाऽसता वा कर्मणा वर्तेत, त दाऽपि 'ईदृश एव' मोक्षवानेवेति ज्ञानिनो गुणवर्णनायैवोच्यते, न तु विधिः । अथ वा—अनुमतिरनुज्ञामात्रमेतत् । यदि ज्ञानी अनुष्ठे यानां सत्कर्मणां मध्ये येन केनापि वा वर्तेत, स्वेच्छया केषां चित्स त्कर्मणां चरणं केषां चिदचरणमित्येवंभाववान् स्यात्, तदापीदृश एव महाफलवानेव, तस्यानियतत्वेनावश्यं कार्याभावादित्येवमनुष्ठेयसत्क र्मणां यथेष्टाचाराभ्यनुज्ञामात्रमेतत्, सर्वथा न विधिरिति भावः । अ धिकारिभेदेन पक्षद्वयप्रवृत्तेर्वाशब्दः ॥ ( ३ ) ननु न सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषो युज्यते, तथासत्य सत्मवृत्त्या कुण्ठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभावप्रसङ्गात् । तथा चानियम इत्युक्तव्याघातः, सत्कर्मसमुच्चितस्य मोक्षसाधनत्वप्रसङ्गा च्चेत्यत आह—युज्यते चेति ॥ चांऽवधारणे । सदसत्प्रवृत्तिभ्यां विशे ष इति शेषः ॥ ( ४ ) नन्वसत्प्रवृत्त्या कुण्ठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभाव प्र सङ्गात्कथं युज्यत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—कामेति ॥ अ त्र चोऽप्यर्थः साध्यसूचकः । ज्ञानिनो मोक्षमिति पठन्तीति च शेषः इत्याशयेन सूत्रसूचितश्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—कामचारा इति । ज्ञानिन इति शेषः । अत्र विशेषणत्रयेण सौत्रकामकारपदं का मसञ्चरणभक्षणवचनेषु समं यत्कामकरणं तद्वाचीत्युक्तं भवति । उ क्तं हि तत्त्वप्रदीपे—कामकारः कामितकरणं, तत्कामचारभक्षवादेषु त्रिष्वपि सममिति । ‘कामेन’ इच्छया ‘इमं’ कर्मनिमित्तं देहं त्य क्त्वा ‘अनारम्भणं’ अनादिभूतं परात्परं ब्रह्म ‘ईयुः’ प्राप्नुयुरित्यर्थः। इति चेति । चो यत इत्यर्थे, साध्यसमुच्चये वा । ‘एके’ अन्ये साम शाखिनः । पठन्तीत्यस्यातो नासत्प्रवृत्त्या कुण्ठितशक्तित्वेन ज्ञानस्य
[ अधि - ४. सू - १७. ] दीपिकासाहितम्. ९३५ ( ५ ) सू- ॐ ॥ उपमर्दं च ॥ ॐ ॥ १६ ॥ ‘ओमित्युच्चार्यान्तर्गिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तु- रश्रुतौ ॥ १६ ॥ ( ६ ) सू- ॐ ॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ ॐ ॥ १७ ॥ न तावता कामचाराणां ज्ञानेऽधिकारः । य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् । मोक्षसाधनत्वाभावः प्रसज्यत इति चशब्दसूचितसाध्येनान्वयः ॥ ( ५ ) इदमेव साध्यं कैमुत्येन साधयत्सूत्रं पठित्वा चशब्दस्य वि- षमक्षान्मुक्तेरिवानिवार्यतया प्राप्तस्य प्रारब्धकर्मणोऽपीत्येवमप्यर्थत्वे- न कैमुत्यद्योतकत्वमभिप्रेत्य व्याचष्टे—उपमर्दं चेति ॥ उपमर्दः फल- ह्रासः । अन्तः हृदयस्थेति । प्रतिमादेरुपलक्षणम् । तथा च मुक्तियो- ग्या ओमित्युच्चार्य श्रवणादिकं च कृत्वा हृदयस्य प्रतिमादेरन्तरिमं परमात्मानं ‘अभिपश्य’ दृष्ट्वा प्रारब्धमनिष्टं पुण्यं पापं च किंचिद्दुः- खं ज्ञानेन ‘उपमृद्य’ फलह्रासेन विनाश्य ‘कामं’ यथेच्छं सदसत्क- र्माचरन्तोऽपि ब्रह्म ‘अनुव्रजन्ति’ प्राप्नुवन्त्येवेति श्रुत्यर्थः ॥ ( ६ ) ननु यदि कामचाराणामपि ज्ञानिनां मुक्तियोग्यता, तर्हि तज्जिज्ञासूनामपि कामचाराणां ज्ञानाधिकारः स्यादविशेषात्, तथा च ‘अध्ययनमात्रवतः’ इत्युक्तस्य विष्णुभक्तिशमादिवतामेवाधिका- र इत्यस्य बाधः स्यादित्याशङ्कां परिहरत्सूत्रं पठति—ऊर्ध्वेति ॥ अ- त्र ऊर्ध्वरेतस्त्वित्युक्तिः प्रधानत्वादुपलक्षणमन्यगुणानाम् । च शब्द एवार्थः साध्यसमुच्चये चेत्याशयेन चशब्दसूचितं प्रतिज्ञावाक्यं दर्श- यति—न तावतेति ॥ कामचाराणामपि ज्ञानिनां मुक्तियोग्यताऽस्तीत्ये- तावतेत्यर्थः । तत्त्वजिज्ञासूनां ज्ञानाधिकारो मन्तव्य इति शेषः । सूत्रे हिशब्दो हेत्वर्थ इति ज्ञापनाय श्रुतेरिति पञ्चमीप्रयोगः । श्रुतेरित्यस्य न साक्षात् किन्तु ऊर्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशविधानादि- त्यध्याहृतहेतुद्वारा नेत्यनेनान्वयः । अनेन ‘हि’ यतः ‘शब्दे’ ‘य इ- मम्’ इति श्रुतौ ‘ऊर्ध्वरेतस्सु च’ गुरुकुलवासब्रह्मचर्यापरपर्यायो- र्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशो विहितो न कामचारिष्वतो न ते- षाम् ज्ञानाधिकार इति सूत्रार्थ उक्तो भवति । यः ‘इमं’ प्रकृतं ‘गुह्यं’ गोप्यं ‘परमं’ विष्णुमूर्ध्वरेतस्त्वादिगुणवत्स्वेव ‘भाषयेत्’ उपदिशे-
९३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] न तथा विद्यते भूयान्यं प्राप्यान्येऽपि भूयसः ॥ इति माठरश्रुतेः ॥ १७ ॥ (७) सू--ॐ ॥ परामर्शं जैमिनिरचोदना चापवदति हि ॥ ॐ ॥ १८ ॥ ‘प्रातरुत्थाय सन्ध्यामुपासीत यत्सन्ध्यामुपासते ब्रह्म व तदुपासतेऽथ देवाग्नयेऽजुहुयाद्वेदानावर्तयीत नान्य त ‘तथा’ तद्वत् ‘भूयान्’ श्रेष्ठो नास्ति ‘यं’ उपदेशकं प्राप्यस्थिता । शिष्यभावेनेति शेषः । कैमुत्यद्योतकोऽपिः ‘अन्ये’ शिष्या अपि ‘भूयसो’ भूयांसः श्रेष्ठा भवन्तीति श्रुत्यर्थः । यद्यप्यस्यां श्रुतावृर्ध्व रेतस्त्वादिगुणरहितानां कामचाराणामुपदेश्यत्वाभावोक्तिमुखेन परो क्षज्ञानाधिकाराभाव एव अवगम्यते न त्वपरोक्षज्ञानं तदभावः । त थाप्यपरोक्षज्ञानस्य परोक्षज्ञानपूर्वकत्वादपरोक्षज्ञानाधिकाराभावे सु तरामपरोक्षज्ञानाधिकाराभावः सिद्ध्यतीति भावः ॥ (७) एवं ‘केनस्यात्’ इत्यस्य यथेष्टाचारविधित्वमनङ्गीकृत्य स्तुत्यनुमतिरूपार्थोक्तौ । यथेष्टाचारविधित्वानङ्गीकारेणैव यज्जैमि निनाऽर्थान्तरमुक्तं तत्प्रतिपादयत्सूत्रमुपन्यस्यति—परामर्शमिति ॥ अत्र शब्देनेति कामकार इति विपरिणामेनानुवर्तते । तस्येत्युच्यमान इति च शेषः । अवधारणार्थकश्चशब्दस्तस्येत्यनेन कामशब्देन काम कारपदेन च सम्बध्यते इत्याशयेन सूत्रं व्याचष्टे—प्रातरिति ॥ प्रात रित्यतः प्राक् ‘केन स्यात्’ इति वाक्ये ‘कामचाराः’ इति वाक्ये चे त्युपस्कार्यम् । इत्युक्ताचारेति । इत्यादिवाक्योक्तसदाचारपरामर्शेने त्यर्थः । न च ‘कामचाराः’ इत्यस्य ‘प्रातः’ इत्युक्ताचारपरामर्शित्वेऽ पि ‘केन स्यात्’ इत्यस्य न तत्परामर्शित्वमिति वाच्यम् । उभयोः स मानार्थत्वेन तदुपपत्तेः । परामर्शो ग्रहणम् । परामर्शेनेत्यनन्तरं उच्य मान इति शेषः । ‘कामतः’ स्वेच्छया । एवशब्दस्य पूर्वेणोत्तराभ्यां च सम्बन्धः । विधिबन्धेति । एवकारव्यावर्त्यार्थकथनम् । ‘जायमानो वै ब्रा ह्मणस्त्रिभि ऋणैऋणवा जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ (तै.सं.६-३-१०.) इत्यादिश्रुतेरजस्य तदकरणे प्रत्यवायलक्षणो यो विधिबन्धः तद्रहितत्वेनेत्यर्थः । तथा च ‘कामचाराः, येन स्यात्’ इत्यादिना ‘प्रातः’ इत्युक्ताचारपरामर्शेन तं परामृश्य ‘उच्यमानो’ विधीयमानः कामचारः ‘तस्य’ सदाचारस्यैव सत्कर्मण एव विधि बन्धवर्जितत्वेन कामत एव नियमेनाचरणरूपमेव न तु, निषिद्धस्य
[ अधि - ४. सू - १८. ] दीपिकासहितम्. ९३७
त्किञ्चिन्नाचरेन्न सुरां पिवेन्न पलाण्डुं भक्षयीत न भृ- शं वदेन्न विस्मरेदात्मानं सोमं पिवेद्धुतशेषेण वर्तये- त' ( ) इत्युक्ताचारपरामर्शेन विधिबन्धव- प्याचरणमिति योजना । नन्वस्य पक्षस्य मनुष्यविषयत्वात्कथं मनु- ष्याणां 'विधिनियता मनुष्याः' इत्युक्तिः, विधिबन्धवर्जितत्वविधि- नियतत्वयोरेकत्र विरोधादिति चेन्न, विहितानामकरणेऽधःपातहेतु- प्रत्यवायाभावाद्विधिबन्धवर्जितत्वं, अकरणे प्रत्यवायमात्रफलह्रासादे- र्भावाद्विधिनियतत्वमित्येवं तयोरेकत्राविरोधात् । न च सदाचारस्य स्वेच्छयाऽऽचरणे मनुष्याणां चतुर्मुखसाम्यप्रसङ्ग इति वाच्यम् । स र्वे विधय इच्छायां सत्यां विहितं कार्यमित्येव चतुर्मुखं प्रति प्रवर्तन्ते, न त्ववश्यं कार्यमित्येव । इतरान् प्रति तु सत्यामसत्यां चेच्छायां वि- हितं कार्यमेव, अकरणे फलह्रासप्रत्यवायादेः सत्त्वादित्येवं प्रवर्तन्त इति विशेषसत्त्वात् । अनेन जैमिनिपक्षे तत्त्वप्रदीपरीत्या 'येन केन' इत्यस्य येन केन सन्ध्योपास्त्यादिसदाचारेणेत्यर्थः । स्यादिति विधौ लिङ् । तस्य कामतो नियमेन वर्तेतेत्यर्थः । एवं 'कामचाराः कामभ- क्षाः कामवादाः' इत्यस्य सन्ध्योपास्तिदेवप्रणामाग्निहोत्रहोमादीन् कामत एव चरन्ति निषिद्धानि नाचरन्तीति कामचाराः । कामत ए- व सोमादिभक्षणात् सुराद्यभक्षणात्कामभक्षाः । कामत एव वेदानां शब्दतोऽर्थतश्चावर्तनादन्यभाषणवर्जनात् कामवादा इत्यर्थ उक्तो भव- ति । अनेन—'कामचाराः, येन स्यात्' इति शब्देनोच्यमानः काम- चारस्तस्यैव 'प्रातरुत्थाय' इत्युक्ताचारस्यैवानन्दाभिवृद्ध्यर्थे काम- चारः 'कामत एव' स्वेच्छयैव नियमेनाचरणमेव पर्यवस्यति, न तु निषिद्धप्रवृत्तेरपि, न वा विधिबन्धेन, न वा सत्कर्ममध्ये कस्य चिद् नाचरणम् । न चात्राचारानुक्तिदोषः । यतोऽयं शब्दस्तस्यैव 'प्रातरु- त्थाय' इत्यादिश्रुतिस्मृत्युक्ताचारस्यैव सत्कर्मण एव 'परामर्शे' येन केनेति सर्वनाम्ना आचारादिपदेन च ग्रहणं विदधाति, न निषिद्धस्या- पीति जैमिनिः मन्यत इति सूत्रखण्डार्थ उक्तो भवति । श्रुतावुत्थाये- त्यनन्तरं शौचदन्तधावनस्नानादिकं कृत्वेत्यपि ग्राह्यम् । सन्ध्याशब्दा- र्थमाह—ब्रह्मैवेति । सन्ध्यामुपासते जना इति यत् 'तद्ब्रह्मैव' एतद्वि- षयो ब्रह्मैवेत्यर्थः । अनेन सन्ध्याकाले सम्यग्ध्येयत्वात् सन्ध्याशब्दवा- च्यस्य परब्रह्मणो मन्त्रैरुपस्थानमेव सन्ध्योपास्तिरित्युक्तं भवति । 'दे- ११८
९३८ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] र्जितत्वेन कामत एव तस्य चरणं कामचार इति जै- मिनिर्मन्यते । ( ८ ) न च निषिद्धं कर्म कर्तव्यमेवेति चोदना । 'ब्राह्मणो न हन्तव्यः' ( ) इत्याद्यपवादाच्च ॥ १८ ॥ ( ९ ) सू—ॐ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ ॐ ॥ १९ ॥ वान् ' प्राच्यादिदिगवस्थितान् ब्रह्मेन्द्रादीन् ' नमेत् ' प्रणमेत् । ' जुहु- यात् ' अग्निहोत्रहोमादीन् कुर्यात् । 'वेदानावर्तयीत' शब्दतोऽर्थतश्चा- भ्यसेदित्यर्थः । ' अन्यत् ' निषिद्धम् । तदेव विवृणोति—न सुरामि- त्यादिना । 'पलाण्डुं ' लशुनं 'न भृशं वदेत् ' न निष्ठुरं वदेत् 'आ- त्मानं ' परमात्मानं ' सोमं ' सोमरसम् । हुतशेषेण वर्तयेदिति । पुनः पुनः होमानुष्ठानेन तच्छेषं तदातदा भक्षयेदित्यर्थः । अत्र न भृशं व- देदित्यादिकं सर्ववर्णाश्रमसाधारणम् । सन्ध्योपासनादिकं तु त्रैवार्णि- कानामेव । अग्निहोत्रादिकं तु गृहस्थानामेवासाधारणमिति विवेकः प्र- मेयदीपोक्तोऽनुसन्धेयः ॥ ( ८ ) ननु किमर्थं सत्प्रवृत्तावेव कामचरणं नियमेनात्रोक्तमित्यु- च्यते, निषिद्धप्रवृत्तिरप्यत्रोक्ता किं न स्यादित्याशङ्क्य किं निषिद्धं ज्ञा- निनां कर्तव्यमिति स्फुटं विधिसद्भावादेतदुच्यते ? उत निषेधाभावा- द्वेति विकल्प्याद्योत्तरत्वेन नञः प्रसज्यप्रतिषेधार्थत्वमभिप्रेत्य—अचो- दनेत्यंशं व्याचष्टे—न चेति ॥ चस्त्वर्थः । चोदना विधिः । द्वितीयोत्- रत्वेन—अपवदति हीत्यंशं योजयति—ब्राह्मण इति । अपवादो निषे- धः । चस्समुच्चये । सूत्रस्थस्यैवायमनुवादः । न चायं निषेधोऽज्ञानि- मात्रविषय इति वाच्यम् । सामान्यरूपत्वेन ज्ञानिष्वपि प्रवृत्तेः । अप- वादश्चेत्यनन्तरमस्ति यत इति शेषः । अस्यातो न निषिद्धप्रवृत्तिविष- योऽप्ययं कामचार इति जैमिनिर्मन्यत इत्याध्याहृतसाध्येनान्वयः । अ- नेन—'हि' यतः 'हि' प्रसिद्धा निषिद्धं कर्तव्यमेवेति स्पष्टचोदना विधिर्नास्ति । प्रत्युत 'हि' प्रसिद्धा 'ब्राह्मणः' इति श्रुतिः ब्रह्महन- नादि निषिद्धं कर्म 'अपवदति' न कार्यमिति निषेधति च, अतः स- दाचारस्यैव 'कामचारः, येन स्यात्' इति कामचार उक्तः, न तु नि- षिद्धस्यापीति जैमिनिर्मन्यत इति सूत्रखण्डार्थ उक्तो भवति ॥ ( ९ ) एवं 'येन स्यात्' इति वाक्यस्य जैमिनिमतानुसारेण स्वे- च्छया सदाचारविधित्वमेवोक्त्वा यत् स्तुत्यर्थेऽनुमितिरित्येवमुक्तमभ्यनु-
[ अधि - ४. सू - १९. ] दीपिकासाहितम्. ९३९ अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरि ति बादरायणो मन्यते । 'केन स्याद्येन स्यात्तेनेदृश एवेति' (बृ.५-५-१.) साम्यश्रुतेः । ( १०) यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । ज्ञानं तदेव कामचारद्युत्यर्थतया प्रतिपादयत्सूत्रं पठति—अनुष्ठेयमि ति ॥ अत्रानुष्ठेयमित्येतद्विभक्तिविपरिणामेन व्याचष्टे—अनुष्ठेयानामि ति । अनुष्ठेयत्वेन विहितकर्मणामित्यर्थः । यद्वा--अनुष्ठेयमपेक्ष्येत्यन्व यं, अनुष्ठेयं कर्म चरणाचरणवत्त्वेनात्रोच्यत इति वाऽन्वयमुपेत्य तत्ता त्पर्यमाह-अनुष्ठेयानामिति । निर्धारणषष्ठीत्वाभिप्रायेण मध्य इत्युक्तं, न तु सर्वकर्मणामित्येवकारार्थः । सूत्रे कामचार इत्यनुवर्तत इत्याश येन तत्पदं व्याख्याति--कामत इति । इच्छयेत्यर्थः । केषां चिदिति शेषः । 'चरणं' करणं 'निवृत्तिः' अकरणम् । निवृत्तिरित्यनन्तरमि त्यनुज्ञानमेव कामचारद्युत्यर्थ इति शेषः । अनेन सूत्रे अनुमतिरिति पदस्यानुवृत्तिस्सूचिता । इति मन्यते इति शेषोक्तिः एवं साध्यपदं व्याख्याय कुत इत्यतस्तत्र हेतुतया साम्यश्रुतेरित्यंशं व्याचष्टे—केन स्यादिति । तथा चास्मिन् पक्षे ज्ञानी यदि 'येन केन चित्' किञ्चिद्वि हितानुष्ठानेनाननुष्ठानेन वा 'स्यात्' वर्तेत तदा 'ईदृश एव' सम ए व, न तु तस्मिन् किञ्चिद्विहिताकरणनिमित्तसाम्यासम्भवो वाच्य इ ति श्रुत्यर्थः । लिङस्तु आमन्त्रणमर्थ इति भावः । यद्यपि सर्वसदाचा रपक्षेऽपि साम्यमस्त्येवेत्यप्रयोजकता हेतोः । तथाऽपि जैमिनिपक्षे ज्ञा निनः सर्वसदाचारसद्भावात्साम्यसम्भवादेव ज्ञाप्यते, न तु बादराय णपक्ष इव साम्यासम्भवप्रसक्तिपूर्विका तन्निवृत्तिः । असम्भवनिवृत्ति रेव चेह श्रुतिज्ञाप्यतया ग्राह्या, न तु सम्भवः, सम्भवज्ञापनादप्यस म्भवनिवृत्तेर्ज्यायस्त्वात्, अतो नोक्तदोष इति भावः । अनेन—'अनु ष्ठेयं' अनुष्ठेयानां मध्ये कामचारो यस्मिन् करवाणीति कामतस्तस्य च रणं यस्मिन्न करवाणीति कामतस्तस्यानाचरणमित्येवमनुष्ठेये कामचा रानुमतिरेव शब्दे 'येन केन स्यात्' इति श्रुतावुच्यते, न तु सर्वेषां कामचारः । यद्वा—'अनुष्ठेयं' चरणाचरणवत्त्वेनात्र श्रुतावुच्यत इति बादरायणो मन्यते । कुतो ? ज्ञानिनः करणाकरणयोः 'येन स्यात्' इ ति साम्यश्रुतेरिति सूत्रार्थ उक्तो भवति ॥ ( १०) सत्यमस्मिन् पक्षे साम्योक्तिः सम्यक्सम्बध्यत इति । तथा
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ (गी. ३-१७.) इति भगवद्वचनाच्च ॥ १९ ॥ ( ११ ) सू— ॐ ॥ विधिर्वा धारणवत् ॥ ॐ ॥ २० ॥ ‘ केन स्याद्येन स्यात् ’ ( बृ. ५-५-१० ) इति विधिर्वा। यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं ऽपि तन्न युज्यते, कर्तव्यपरित्यागे साम्यायोगात् । अतो मुख्यासम्भ वेऽमुख्याऽपि जैमिन्युक्तयोजनैव साध्वीयतः सूत्रेऽनुवृत्तचशब्दसमुच्चि तगीतास्मृतिं दर्शयति—यस्त्विति ॥ इति वचनादिति । इति ज्ञानि नां कार्याभावोक्तेरित्यर्थः । अस्य न साम्यायोग इत्यध्याहृतसाध्येना न्वयः । ‘ आत्मरतिः ’ परमात्मदर्शननिमित्तसुखं प्राप्तः ‘ आत्मतृप्तः ’ आत्मना परमात्मना तत्प्रसादेन तृप्तः अन्यत्र विषयसुखेऽलंबुद्धिमान्। न केवलं हरिप्रसादेन तृप्तिः, किन्तु हेत्वन्तरमस्तीत्याह-आत्मनीति । परमात्मनि सन्तोषवान् तत्स्थ एव सन् सन्तुष्टः परमात्मदर्शनादिनि मित्तसुखवानित्यर्थः । ‘ सन्तोषः तृप्तिकारणं सुखम् ’ इत्यभिधानात् महासुखवतोऽल्पसुखेऽलंबुद्धिर्भवेत्येवेति तस्य तद्धेतुत्वोपपत्तिः । अ त्र पूर्वविशेषणमेव पुनस्तृप्तिकारणत्वेनानूद्यत इति न पुनरुक्तिः । य एवंभूतो ‘मानवो’ ज्ञानी ‘तस्य कार्यं’ अवश्यं कर्तव्यं कर्म न विद्य त इत्यर्थः । यद्यपि ‘यस्तु’ इति वचनं तात्पर्यनिर्णये मुक्तपरतया भाष्ये समाधिस्थपरतया व्याकृतं, तथाऽपि समाधिस्थस्यापि ज्ञानि त्वाद्वा ज्ञानिसामान्यपरत्वस्यापि सम्भवाद्वाऽत्रोदाहरणोपपत्तिः । न चास्य वाक्यस्य अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः । एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥ इति हरिवंशे कार्योक्तिविरोधः शङ्क्यः । तेषां विहिताकरणे ऽप्यदृ ष्टार्थालाभात् तदर्थं कार्यत्वस्य तत्रोक्तावपि सिद्धहान्यभावेन नरकाद्य भावेन च कार्यं न विद्यत इत्युक्तिसम्भवात् ॥ ( ११ ) एवं ‘केन स्यात्’ इति वाक्यस्य यथेष्टाचारविधित्वाभाव मभ्युपेत्य नियमेन सर्वदाचारविधित्वमनुष्ठेयानां मध्ये कामचाराभ्य नुज्ञानमित्यर्थद्वयं स्तुत्यनुमतिरूपार्थद्वयं चोक्तं, अथायं स्वेच्छाच रणविधिर्वा भवतीत्यर्थप्रतिपादकं सूत्रं पठति—विधिर्वा धारणवदि ति ॥ अत्र विधिरित्यंशं व्याचष्टे—केन स्यादिति । विधिरिति । यथे
[ आधे - ४. सू - २०. ] दीपिका सहितम्. ९४१ स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राध र्मशङ्का कार्या । नान्येषामिति वा । ( १२ ) स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता । नाशङ्क्यं तन्मतं कापि विष्णोः प्रत्यक्षचोदना ॥ इतरेषां न विहिता स्वेच्छावृत्तिः कथंचन॥ इति ब्राह्मे॥२०॥ ष्टाचारविधिरित्यर्थः । वाशब्दोऽस्य पक्षान्तरत्वद्योतकः । ननु ज्ञानि नां न स्वेच्छाचरणविधिर्युक्तः, अज्ञानिनामपि तथात्वप्रसङ्गादित्याश ङ्कोत्तरत्वेन प्रथमान्ताद्वतिमाश्रित्य धारणवदित्यंशं व्याचष्टे—यथेति । ‘वेदधारणं’ वेदाध्ययनं अधीतवेदस्यापि स्मृत्यर्थं पुनः पुनः पाठो वा । अत एव तत्त्वप्रदीपे वेदपाठादिकमित्युक्तम् । ‘त्रैवर्णिकानां’ ब्रह्मक्षत्रिय वैश्यानां सावधारणमेतत् ‘विहितं’ ‘स्वाध्यायोऽध्येतव्यः’ (तै.आ.२- १५-१.)‘वेदः कृत्स्नोऽधिगन्तव्यः’ इत्यादिनेति शेषः । ‘अन्येषां’ शूद्रा दीनाम्। प्रत्युत तेषामध्ययनादौ सति दण्ड एव श्रुत इति भावः। उक्त मर्थं दार्शान्तिके संयोजयति—एवमिति । स्वमतानुसारिणीति । स्वे च्छानुसारिणी प्रवृत्तिः ज्ञानिनामेव विहिता, नान्येषामित्यन्वयः । इ ति वेति न पक्षान्तरोक्तिः, किन्तु विधिर्वेत्युक्तस्यैव दृष्टान्तविवरण पूर्वं दार्शान्तिकोपपादनव्याजेन विवरणमिति ध्येयम् । ननु नायं यथे ष्टाचारविधिः सम्भवति, तथासति ज्ञानिनोऽधर्मकरणस्यापि विधि विषयत्वप्राप्त्याऽचोदनेत्युक्तविरोधः स्यादित्यत आह—न तत्रेति । ‘तत्र’ ज्ञानिप्रवृत्तिविषये ‘अधर्मशङ्का’ अधर्मत्वशङ्का न कार्येत्यर्थः ॥ ( १२ ) कुत इत्यत आह—स्वेच्छयेति ॥ ‘ब्रह्मणो’ विधातुः ‘वि धिचोदिता’ ‘येन स्यात्’ इति विधिविहितेत्यर्थः । यत इति शेषः । अतः ‘तन्मतं’ तस्य विरिञ्चस्याभिप्रतं वेदविरुद्धत्वेन प्रतीतमपि पु त्रिकाकामनादि अधर्मत्वेन नाशङ्क्यमित्यर्थः । हेत्वन्तरमाह—विष्णो रिति । यतो विष्णोरेवं कुर्विति ‘प्रत्यक्षचोदना’ प्रेरणा विरिञ्चस्या स्त्यतोऽपि तन्मतं नाशङ्क्यमित्यर्थः । वेदस्तु विष्णोः परोक्षाज्ञारूप इति प्रत्यक्षाज्ञानुसारेण नेतव्य इति भावः । अत्र ब्रह्मण इत्युक्तेऽपि उपलक्षणया ज्ञानिनामित्यर्थो ज्ञातव्यः । अत एव स्ववाक्ये ज्ञानिनां विहितेत्युक्तम् । अन्यथा अत्रैव स्मृतौ ब्रह्मणस्स्वेच्छाचारविधिः म नुष्याणां स्वेच्छाचारेऽचोदनेति विषयव्यवस्थायां पारिप्लवार्था इति वक्ष्यमाणविषयविभागो व्यर्थः स्यात् । तत्त्वप्रदीपे तु द्वितीयवाशब्दा
९४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ( १३ ) सू—ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ॐ ॥२१॥ स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामा न्यविधिस्वीकारादिति चेन्न, अपूर्वत्वात् परवशत्वा त् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ॥ ( १४ ) विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ । त् ज्ञानिनामपि केषां चिदेवेति सूचितम् । विषयभेदं प्रकटयति—स्वे च्छयैवेत्यादिनेति । अनेनात्रैव विषयविभागः क्रियत इत्युक्तम् । तन्तु वक्ष्यमाणरीत्या वस्तुस्थित्यभिप्रायकमेवेति ध्येयम् ॥ ( १३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठति—स्तुतीति ॥ अत्राक्षेपां शं व्याचष्टे—स्तुतीति । ' स्वेच्छाचरणं ' ' येन स्यात् ' इति स्वेच्छा [L1
[ अधि - ४. सू - २३. ] दीपिकासहितम्. ९४३ परस्य ब्रह्मणो ह्येव सर्वविध्यतिदूरता ॥ इति ब्रह्मतर्के ॥ २१ ॥ ( १५ ) सू—ॐ ॥ भावशब्दाच्च ॥ ॐ ॥ २२ ॥ यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविध्यतिदूरता ॥ इति च तुः श्रुतौ ॥ २२ ॥ ( १६ ) सू—ॐ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ॐ ॥ २३ ॥ 'केन स्याद्येन स्यात्' ( बृ. ५-५-१० ) इत्यादयः स्थिर विध्यभावेऽपि न सर्वविध्यतिदूरत्वमित्याशङ्कां परिहर्तुमुक्तार्थे स्मृतिं चाह—विधीनामिति ॥ सर्वविधीनामित्यर्थः । निषेधानामप्युपलक्षण म् । 'अन्ये' अज्ञानिनः । वस्तुतस्तु ब्रह्मेतरज्ञानिनः । अत एव तुश ब्दात्तेष्वपि विशेषोऽस्ति, वक्ष्यते च 'विशेषितत्वादिति' इति तत्त्वप्र दीपोक्तिः । ब्रह्मण इति ज्ञानिमात्रोपलक्षणम् । हेतुस्तु पूर्वोक्त एव । 'कृतौ' करणे । विधिविषयत्वमिति शेषः । 'हि' यस्मात् । ब्रह्मतर्के उक्तमिति शेषः । अस्य सर्वैत्यादिनाऽन्वयः ॥ ( १५ ) ननु ज्ञानिनां स्वेच्छाचरणविधेः स्फुटप्रमाणसिद्धत्वे भवेत् 'येन स्यात्' इति वाक्यं स्वेच्छाचरणविध्यर्थकं, विधेः स्फुटप्रमाण सिद्धत्वमेव कुत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तत्सूचितश्रुतिमेवो दाहरति—भावेति ॥ अत्र विधिरित्यनुवर्तते । तथा च इच्छावाचिभा वशब्दघटितश्रुतेश्च ज्ञानिनां स्वेच्छाचरणविधिः सिद्ध इति सूत्रार्थः। यतः 'अपरे' ब्रह्मेतरज्ञानिनः वस्तुतस्तु मनुष्यज्ञानिनो 'यथाविधानं' नित्यनैमित्तिकविधिमनतिक्रम्य वर्तन्त इति शेषः । प्रजापतेः तदुपल क्षितज्ञानिनः वस्तुतस्तु विरिञ्चस्य देवानां च 'भावे' इच्छायां स्वे च्छाचरणविषये 'विधिः' येन स्यादित्यादिरूपोऽस्त्यतः परमस्य ब्रह्म णो हरेरेव सर्वविध्यतिदूरता ज्ञातव्या । मुक्तव्यावृत्त्यर्थ—अतीति । स र्वदैवेत्यर्थः । रमाऽपि हर्याज्ञाविधिविषयेति न तत्राप्यतिप्रसक्तिरिति भावः । श्रुतौ चेत्यन्वयः । ज्ञानिनां स्वेच्छाचरणविधिरुक्त इति शेषः। सूत्रे भाष्ये च न केवलं स्वेच्छाचरणविधिविषयत्वं सामान्यविध्यवि षयाणां ज्ञानिनां सर्वविध्यतिदूरपरवचनान्यथानुपपत्त्या, किन्तु श्रु तेश्चेति समुच्चये चशब्दः ॥ ( १६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—पारिप्लवार्था इ ति ॥ अत्र पूर्वपक्षांशे पारिप्लवार्था इत्यस्य विशेष्यं दर्शयति—केनेति।
९४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
त्वनिवृत्त्यर्था इति चेन्न, 'त्रेधा हि ज्ञानिनो ह वाव भवन्ति विधिनियता अनियताः स्वेच्छानियता इति । विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वे- च्छानियत इति' गोपवनश्रुतौ विशेषितत्वात् ॥ २३ ॥ ( १७ ) सू-ॐ ॥ तथा चैकवाक्योपबन्धात् ॥ ॐ ॥ २४ ॥
इत्यादयो व्यपदेशा इति शेषः । पारिप्लवार्था इत्यस्य प्लु गतावित्युक्तेः परिप्लवोऽव्यवस्था तत्सम्बन्धिनः पारिप्लवाः अव्यवस्थिताः ते च तेऽ र्था इति विग्रहमभिप्रेत्य तत्पदं व्याख्याति-स्थिरत्वेति। स्थिरत्वस्य निवृत्तिरभावोऽस्थिरत्वं तदेषां ते स्थिरत्वनिवृत्तयः अस्थिरा इति या वत् । तेऽर्था येषां ते तथोक्ताः चञ्चलार्थका इत्यर्थः । अर्थचाञ्चल्यं च बुद्धिरूपमेवेति ध्येयम् । आदिपदेन 'कामचाराः' इत्यादेर्ग्रहणम् । अयमाशयः-' स ब्राह्मणः' इति वाक्यं तावत्सर्वज्ञानिसाधारणमतो मनुष्यादिषु सर्वेषु स्तुतये भवतीति तत्त्वप्रदीपोक्तेः स्तुतिपक्षस्य ज्ञा- निसाधारण्यानाविरुद्धत्वेऽपि नियमेन सर्वधर्माचरणानुष्ठेयानां मध्ये कामचारानुज्ञानस्वेच्छाचरणरूपप्रकारत्रयस्य एकधर्म्यगतत्वेन वि- रुद्धत्वात्तद्व्यपदेशानामपि विरुद्धत्वम् । एवं च यदा विरुद्धधर्मप्रति- पादकानेकवाक्यानामेव न यथार्थबोधकत्वं तदा सुतरामेकस्य 'येन स्यात्' इति वाक्यस्य तदभावो वस्तुनि विकल्पाद्योगादिति । सूत्रे प- रिहारांशं व्याचष्टे-नेति । उक्तं नेत्यर्थः । कुतो नेत्यतो-विशेषितत्वा- दित्युकम् । तस्य ज्ञानिनां मनुष्यदेवचतुर्मुखभेदेनानेकप्रकारत्वादि- त्यर्थमुपेत्य तस्यासिद्धिपरिहाराय श्रुतिपरतयाऽपि तमंशं व्याचष्टे- त्रेधा हीति । विशेषितत्वादिति । विशेषितत्वोक्तेरित्यर्थः । नासिद्धि- रिति वाक्यशेषः । श्रुतौ 'हिः' प्रसिद्धौ । वावेत्यवधारणे । त्रैविध्यमेव दर्शयति-विधिनियता इति । विधिबन्धवर्जितत्वेन कामत एव निय- मेन विहिताचरणवन्त इत्यर्थः । 'अनियताः' अनुष्ठेयानां मध्ये काम- चारानुज्ञावन्तः 'स्वेच्छानियताः' स्वेच्छाचरणविधिनियता इत्यर्थः । इति त्रेधेत्यन्वयः । त्रीन् क्रमेण निर्दिशति-विधीति ॥ ( १७) ननु ज्ञानिनामेकप्रकारत्वोक्त्या कथं विरोधपरिहारो जात इत्याशङ्कापरिहाराय सूत्रम्-तथा चेति ॥ अत्रैकवाक्येति भावप्रधा- नो निर्देशः । समग्रसूत्रस्य चावृत्त्तिरित्याशयेन सूत्रं व्याचष्टे--एवं
[ अधि - ४. सू - २५. ] दीपिकासहितम्. ९४५ एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च स- म्बन्धो भवति ॥ २४ ॥ ( १८ ) सू--ॐ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ॐ ॥ २५ ॥ सतीति । तथा चेत्यस्य व्याख्यानमेतत् । एतच्चावर्तते । सम्बन्धो भ- वतीति चावर्तते । वृत्तिर्वर्तनं चरणम् । एकवाक्यतयेति शेषः । तथा चैवं सति ज्ञानिनां त्रैविध्य सिद्धे सति विधिवाक्यानां 'प्रातरुत्थाय' इत्यादिसर्वसदाचारविधिवाक्यानां 'यस्त्वात्मरतिः' इति स्वेच्छावृ- त्त्यनुज्ञावाक्यानां तथा 'यथाविधानम्' इति स्वेच्छावृत्तिविधिवा- क्यानां चैकवाक्यतया 'सम्बन्धः' अविरोधो भवति । एवं सति 'के- न स्यात्' इति वाक्यस्यापि तदनुसारेणार्थत्रयेऽप्येकवाक्यतया स- म्बन्धो भवतीति योजना । अनेन- ' तथा चैवं सति' ज्ञानिनां त्रैवि- ध्ये सिद्धे सति 'एकवाक्योपबन्धात्' विधिवाक्यानां स्वेच्छावृत्ति- वाक्यानां चैकवाक्यत्वेन ज्ञानिभेदमाश्रित्याविरोघे सति 'केन स्यात्' इति वाक्यस्यापि तदनुसारेणार्थत्रयेऽप्येकवाक्यतया 'उपबन्धात्' उपप- न्नत्वात् न 'केन स्यात्' इत्यादिव्यपदेशाः पारिप्लवार्था इति सूत्रार्थ उक्तो भवति । अनेन जैमिनिमतं मानुषज्ञानिविषयम् । द्वितीयं देव- ताविषयम् । तृतीयं हिरण्यगर्भविषयम् । स्तुतिपक्षस्तु समान इत्यु- क्तं भवति । ननु न देवाः सामान्यविधिविषयाः । नापि चतुर्मुखव- त्स्वेच्छाचारविधिविषयाः, उदाहृतवचनात् । एवं च स्तुतिपक्षस्य ज्ञानिमात्रसाधारणत्वे देवानां किञ्चिद्विधिविषयाणां परमात्मवत्सर्ववि- ध्यतिक्रमेण स्तुतिविषयत्वं स्यात् । ततश्च परमात्मन एव तदित्युक्त- मयुक्तमिति चेन्न । देवानां चतुर्मुखवत्सर्वात्मना स्वेच्छाचारविधिवि- षयत्वाभावेऽपि प्रायः स्वेच्छाचरणविधिसद्भावात् । न चात्र माना- भावः । स्वेच्छानुवृत्त्यैव भवेद्ब्रह्मणः प्रायशस्तथा । देवानामपि सर्वेषां विशेषादुत्तरोत्तरम् ॥ इति वचनात् । किञ्च विध्यभावेऽपि देवानामन्ज्ञाविषयत्वाभ्युपगमे न स्तुतिमात्रविषयत्वाभावान्नेश्वरसाम्यमिति ज्ञातव्यम् ॥ ( १८ ) एवं ज्ञानिनः 'केन स्यात्' इति श्रुतिबलेन सदसत्प्रवृत्त्यो र्योऽविशेषः शङ्कितः स श्रुतेरर्थान्तरोक्त्या 'परामर्शम्' इत्यादिना परि- ११९
९४६ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] अत एव ज्ञानस्य मोक्षदाने नाग्निहोत्राद्यपेक्षा । ( १९) ब्रह्मतर्के च— येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः । शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥ स्वेच्छानुवृत्त्यैव भवेद्ब्रह्मणः प्रायशस्तथा । हृतः । तत्र यदुक्तं ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषे ज्ञानस्यासत्प्रवृत्तिकु- ण्ठितशक्तेर्न मोक्षसाधनत्वमिति, तत् 'कामकारेण चैके' इत्यादिना परिहृतम् । यच्चाभिहितं मोक्षसाधनत्वे ज्ञानस्य सत्प्रवृत्तिसापेक्षत्वं स्यादिति तत्परिहाराय सूत्रं पठित्वा व्याचष्टे—अत एवेति ॥ 'कमा- चाराः' इति श्रुतौ कामचाराणामपि मोक्षस्योक्तत्वादेवेत्यर्थः । न तत्र हेत्वन्तरं वक्तव्यमित्येवकाराभिप्रायः । सूत्रे अत इत्यावृत्तपदं व्याख्या- ति—ज्ञानस्य मोक्षदान इति । मोक्षदानकर्मणीत्यर्थः । मोक्षसाधन इ- त्यनुक्त्वा मोक्षदान इत्युक्त्या अज्ञानां ज्ञानदो विष्णुः ज्ञानिनां मोक्षदश्च सः । विष्णुर्हि दाता मोक्षस्य मोक्षदस्तु जनार्दनः ॥ इत्यादिवचनाद् ज्ञातो भगवानेव मोक्षदाता ज्ञानदाता च । ज्ञाने तु उ- पचरितं दातृत्वमिति सूचितं भवति । नाग्निहोत्राद्यपेक्षेत्यनेन अग्नेरि- न्धनं समन्त्रकं सन्दीपनं यस्मिन् कर्मणि तदग्निहोत्रं तथोक्तम् । आ- दिपदेन स्वाश्रमवर्णधर्माः ग्राह्याः, तदपेक्षाभाव इत्येव अग्नीन्धनाद्य- नपेक्षेति पदं नञ्व्यत्यासेन व्याख्यातं भवति । सूत्रे चोऽप्यर्थः। ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावेऽपीति स्फुटत्वान्न व्याख्यातः । द्विती- यचोद्यपरिहारस्याद्यचोद्यपरिहारेण समुच्चये चशब्द इति केचित् ॥ ( १९) ननु यदि सत्कर्मणा न मोक्षो निषिद्धकर्मणा न तत्प्रतिबन्धः कथं तर्हि ताभ्यां ज्ञानिनो विशेष इत्यतश्चशब्दसूचितस्मृतिमाह—ब्र- ह्मतर्के चेति ॥ न केवलं सूत्र इति चार्थः । तेषामित्यनन्तरं शुभाशुभ- कर्मकरणयोरपीति शेषः । अनेन सर्वसाधारणस्तुतिपक्षः सङ्गृहीतः । तर्हि शुभाशुभाभ्यां को विशेष इति तत्राह—शुभेति । 'आधिक्यं' मोक्षे मनुष्याणामानन्दवृद्धिः । 'विपरीतैः' अशुभैः 'विपर्ययो' ह्रा- सो भवेत् । भवेदित्यत्राधिक्यमित्यनुषज्यते । मुक्तावपेक्षितसर्वाधि- क्यमित्यर्थः । एवकारेण न तदर्थं श्रुतिविहिताग्निहोत्राद्यपेक्षा नापि
[ अधि - ४. - सू - २६. ] दीपिकासहितम्. ९४७ देवानांमपि सर्वेषां विशेषादुत्तरोत्तरम् ॥ इति ॥ २५ ॥ ( २० ) सू-- ॐ ॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ॐ ॥ २६ ॥ सर्वधर्मापेक्षा च ज्ञानस्योत्पत्तौ 'विविदिषन्ति यज्ञेन लोकदृष्ट्या निषिद्धपुत्रिकाकामत्यागाद्यपेक्षाऽस्तीत्युच्यते । सर्वेषां ब्रह्मे तरदेवानांमपि उत्तरोत्तरं विशेषादाधिक्येन प्रायशः स्वेच्छानुवृत्त्यैव मुक्तौ क्लृप्तसुखाधिक्यं भवेत् न तदर्थं प्रायः शुभाशुभकरणत्यागापे क्षाऽस्तीत्यर्थः । इति ब्रह्मतर्के इत्यन्वयः । उक्तत्वादिति शेषः । अस्य नेत्यनेनान्वयः ॥ ( २० ) नन्वस्तु ज्ञानिनः सत्प्रवृत्त्या विशेषः । स च मोक्षप्राप्तिरूप एव, नाधिक्यरूपः । न चैवं ज्ञानिनां सुकृतौ कृतावकृतौ च मोक्षश्रुति विरोधः । तत्प्रवृत्तेः मोक्षहेतुत्वेऽप्यसत्प्रवृत्तेरप्रतिबन्धकत्वेन तदुपप त्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - सर्वेति ॥ अत्र चोऽवधारणे । ज्ञानस्योत्पत्तावित्यध्याहृतेनान्वेतीत्याशयेन सर्वापेक्षेत्यंशं व्याचष्टे— सर्वेति । उत्पत्तौ चेति सम्बन्धः । चशब्दोऽवधारणार्थः । तादर्थ्ये स प्तमी । ज्ञानस्येत्यावर्तते । न मोक्षदान इत्यादि पूर्वभाष्यमिहानुवर्तते । धर्मशब्देनाध्यापनशौर्यवार्ताशुश्रूषणादिरूपा वर्णधर्माः गुरुकुलवासा ग्निहोत्रपञ्चयज्ञतपउपास्त्यादिरूपा आश्रमधर्माः शमदमभक्त्यादिरू पाः सामान्यधर्माः श्राद्धादिरूपा नैमित्तिकधर्माश्च तत्त्वप्रदीपोक्ता गृ ह्यन्ते । तथा च ज्ञानस्य मोक्षदाने नाग्निहोत्रादिसत्प्रवृत्त्यपेक्षा । कु तो ? यतो ज्ञानस्य उत्पत्त्यर्थमेव सर्वधर्मेष्वपेक्ष न तत्फलसाधनत्वेऽ पीपि योजना । ज्ञानोत्पत्त्यर्थं कुतः सर्वापेक्षाऽवगम्यत इत्यतः प्रवृत्त स्य-यज्ञादिश्रुतेरित्यस्य यज्ञादीनां ज्ञानसाधनत्वश्रुतेरपीत्यर्थमभिप्रेत्य श्रुत्युदाहरणेन तमंशं व्याचष्टे-विविदिषन्तीति । बृहदारण्यकश्रुतिरि यम् । अत्र 'विविदिषन्ति' इत्यस्य पूर्वेणान्वयः । अत्र 'अनाश केन' अनशनेन । 'यज्ञेन दानेन तपसाऽनाशकेन ' इत्यस्य 'ए तमेव विदित्वा मुनिर्भवति' इत्युत्तरवाक्येनान्वयः । एतं भगवन्तमपरो क्षतो ज्ञात्वा मुनिनामको भवतीत्यर्थः । वस्तुतस्तु-विविदिषन्तीत्यार भ्य ग्रहणात् ये ब्राह्मणा विविदिषन्ति ते यज्ञादिना वर्तेरन्नित्यन्वयो ध्येयः । केचित्तु— 'तमेतं वेदानुवचनेन ब्राह्मणाः' इति पूर्वप्रकृता ब्रा ह्मणाः 'तं' पूर्वोक्तगुणवन्तं 'एतं' परमात्मानं वेदाध्ययनयज्ञादिना 'विविदिषन्ति' ज्ञातुमिच्छन्तीत्युक्तेः अश्वेन जिगमिषन्तीत्यादाविव
९४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] दानेन तपसाऽनाशकेन' ( बृ. ६-४-२२. ) इति श्रुतेः । ( २१ ) यथा गतिनिष्पत्त्यर्थमश्वादयोऽपेक्ष्यन्ते न निष्पन्नगते ग्रामादिप्राप्तौ ॥ २६ ॥ ( २२ ) सू-ॐ ॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तद् ङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ ॐ ॥ २७ ॥ यद्यपि ज्ञानेनैव मोक्षो नियतः । तथाऽपि ज्ञानी शम दमाद्युपेतः स्यात् । ( २३ ) 'आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो यज्ञादेः धात्वर्थज्ञानसाधनतैवोत्का भवतीति प्रकृतसङ्गतिरित्याहुः ॥ ( २१ ) ननु सर्वसत्कर्मणो ज्ञानार्थे अपेक्षितस्यापि मोक्षार्थमपेक्षित त्वं किं न स्यादित्याशङ्कोत्तरत्वेन अश्ववदित्यंशं अश्वस्य गतावपेक्षा यथेत्यर्थकतयोपलक्षणाभिप्रायेण व्याचष्टे—यथेति ॥ गतिः प्रयाणम् । आदिपदाद्गजानादयो गृह्यन्ते । निष्पन्नगतेरिति बहुव्रीहिः । निवृत्त गतेः पुरुषस्येत्यर्थः । ग्रामादीति । प्राप्तिस्संयोगः। आदिपदात्पत्तनादि ग्रहणम् । गतिसाध्यफल इति शेषः । अपेक्ष्यन्त इत्यनुषङ्गः ॥ ( २२ ) ननु यदि सदसत्प्रवृत्तिभ्यां मोक्षतद्भावयोरभावः, तर्हि ज्ञानिनस्ताभ्यां विशेषो नास्तीति न तेन सत्कर्म कार्यमसत्कर्म त्याज्य म् । न च ताभ्यां मोक्षे आधिक्यादि भवतीत्युक्तमिति वाच्यम् । 'ज्ञा नादेव सर्वे कामाः' ( कौण्ठरव्य. ) इति श्रुतेर्ज्ञानादेव तदुपपत्तेरित्या शङ्कां परिहरत्सूत्रमुपन्यस्यति—शमेति ॥ अत्र पूर्ववाद्यनुवादपूर्व तथापीत्यंशं व्याचष्टे—यद्यपीति । ज्ञानिन इति शेषः । शमेति साध्य भागं व्याचष्टे—ज्ञानीति । 'शमदमाद्युपेतः' शमादिसत्प्रवृत्तियुक्तो निषिद्धहीनश्च स्यादित्यर्थः । यद्यपि शमाद्युपेतः स्यादिति सुवचम् । तथाऽपि श्रुतौ पृथङ्निर्देशात्सर्वत्र साहचर्याच्चोभयोपादानम् ॥ ( २३ ) कुत इत्यतस्तद्धेतुत्वेन तद्विधेरित्यंशं व्याचष्टे—आचार्यादि ति ॥ 'आचार्यात्' तदुपदेशात् 'विद्यां' परोक्षज्ञानं प्राप्य 'एतं' हृ द्गतं परमात्मानं 'अभिपश्य' दृष्ट्वा 'शान्तो' भगवन्निष्ठावान् 'दान्तः' इन्द्रियनिग्रहवान् । 'शान्तिस्तु भगवन्निष्ठा दमो ह्यासुविनिग्रहः' इत्य भिधानात् । 'अनुकूलः' सतामिति शेषः । 'परिचरेत्' सेवेत । प रिचरेदिति पुनरुक्तिस्तात्पर्यार्था । आचार्यसमं स्वस्माच्छ्रेयांसमाचा र्ये बहुमानेन परिचरेदिति वा । 'ये के चास्मच्छ्रेयांसस्तान्युपच
[ अधि - ४. सू - २७. ] दीपिका सहितम्. १५९ भवेद्धान्तो भवेदनुकूलो भवेदाचार्यं परिचरेत परि चरेदाचार्यम्' इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः । ( २४ ) 'ब्राह्मीं वाव त उपनिषदमब्रूमेति । तस्यै तपो दमः क र्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनं यो वा ए रस्व' (पौष्यायण.) इति श्रुतेरिति तत्त्वप्रदीपदिशा श्रुत्यर्थः । तन्त्रा भिप्रायेणोक्तस्य तदित्यस्यार्थो—ज्ञानिनोऽपीति । नियतमोक्षस्यापी त्यपेरर्थः । अपरोक्षज्ञानिन एवेत्यवधारणे वाऽपिशब्दः । तेन श्रुतेः परोक्षज्ञानिपरत्वशङ्का निरस्ता । तद्विधेरिति । शमादिविधानादित्य र्थः । उपलक्षणमेतत् । 'न हन्तव्यः' ( ) इत्यादिनेषेधाच्चे त्यपि द्रष्टव्यम् । अनेन तस्यां श्रुतौ तस्य ज्ञानिनस्तस्य शमादेर्विधा नादिति सूत्रखण्डो व्याख्यातः ॥ ( २४ ) ननु ज्ञानादेव संसारदुःखनिवृत्तिवदानन्दातिशयस्यापि सिद्धेर्व्यर्थः शमादिविधिरित्यतः प्रवृत्तं तदङ्गतयेत्याद्यंशमसिद्धिपरि हाराय श्रुत्युदाहरणपूर्वं व्याचष्टे—ब्राह्मीमिति ॥ प्रथमेतिशब्दः श्रुति स्थः । एवं द्वितीयोऽपि । तृतीयो भाष्यकारीयः । इतीत्यनन्तरं श्रुत्याऽ वगतयेति शेषः । ज्ञानाङ्गतयेति । ज्ञानप्रतिष्ठापकत्वेनेत्यर्थः । निमि त्तभूतयेति शेषः । तेषां ज्ञानोत्तरकालशमादीनां ज्ञानप्रतिष्ठापक त्वं नाम ज्ञानवृद्ध्यर्थत्वं प्रतिदिनं तत्सम्पादकत्वमिति यावत् । यथो क्तं तत्त्वप्रदीपे—शमादीनां ज्ञानवृद्ध्यर्थमवश्यानुष्ठेयत्वादिति । ज्ञानफ लपूर्णार्थमित्यर्थः । अनुष्ठेयत्वादित्यस्य न वैयर्थ्यमित्यध्याहृतसाध्ये नान्त्वयः । 'उपनिषदं भो ब्रूहि' इत्युमापतिना ब्रह्माणं प्रति भो भगव न्निति सम्बोध्य पृष्टे सति तत्र किमुपनिषत्प्रतिपाद्यं पृच्छसि? किं वो पनिषदुत्पन्नविद्याया अवस्थानकारणं ? किं वा विद्याया उत्पत्तिकार णमिति हृदि विकल्प्याद्यस्योत्तरमाह—ब्राह्मीमिति । 'ते' तुभ्यं 'ब्रा ह्मीं' परब्रह्मविषयां 'वाव' असंशयं 'उपनिषदं' तत्स्वरूपमब्रूमेति ब्रह्मोवाचेत्यन्वयः । द्वितीयस्योत्तरमाह—तस्या इति । 'तस्यै' तस्या विद्यायाः 'तपः' कृच्छ्रचान्द्रायणादि शास्त्रप्रवचनं वा 'दमः' इन्द्रि यनिग्रहः 'कर्म' वर्णाश्रमोचितं 'प्रतिष्ठा' तद्धेतुः । तपआदिमत्सु सर्वविद्या प्रतितिष्ठतीत्यर्थः । तपआदीनां विद्याप्रतिष्ठापकत्वं विद्याऽ भिवृद्ध्यर्थत्वम् । तृतीयस्योत्तरमाह—वेदा इति । 'वेदाः' ऋगादयः तदनुकूलग्रन्थाश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमि
९५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] तामुपनिषदमेवं वेद’ (केन.४-७..९.) इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् । (२५) यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा । तस्य शान्त्यादयोऽङ्गानि तस्मात्तेषामनुष्ठितिः । अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत् ॥ इत्याशङ्क्ये । तुशब्दः पूर्णफलार्थत्वं सूचयति ॥२७॥ (२६) सू- ॐ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शना त् ॥ ॐ ॥ २८ ॥ ति षड्वेदाङ्गानि 'सत्यं' मीमांसा 'निर्णीयते यतः सत्यमिदं सत्यमि ति स्फुटम्' इति वचनात् । 'आयतनं' उत्पत्तिकारणं तस्या इत्यनु षङ्गः । एतदुपनिषद्ज्ञानिनः फलमाह- य इति । 'यः' अधिकारी 'एतां' उपनिषदं वेद सः 'अनन्ते' अपरिच्छिन्ने 'स्वर्गे' स्वरूपसु खज्ञानात्मके 'लोके' प्रकाशमाने 'ज्येये' ज्येष्ठे परे ब्रह्मणि प्रतिति ष्ठतीति तलवकारश्रुत्यर्थः । यद्यप्यत्र वेदादिकारणकत्वोक्त्या प रोक्षज्ञानमेव प्रतिपाद्यतया भाति । तथाऽपि 'यो वा वेद' इति फलवाक्यपर्यालोचनया परोक्षज्ञानद्वाराऽपरोक्षज्ञानपर्यवसायित्वम स्य वाक्यस्य वक्तव्यमिति नासङ्गतिः । अत एव भाष्ये फलवाक्य पर्यन्तोदाहरणम् । न चास्य सूत्रस्य 'तुल्यं तु दर्शनं, चीर्णे कृते वा' इत्युक्तिविरोधः शङ्कः । ज्ञानस्य मोक्षसाधनत्वेऽविशेषस्य तत्रोक्त त्वादिह च ज्ञानवृद्ध्यर्थत्वोक्तेर्विरोधाभावात् ॥ (२५) ननु ज्ञानादेव मोक्षसिद्धौ किं प्रतिष्ठयेत्यत आह-यस्येति॥ 'ज्ञानं' ब्रह्मापरोक्षज्ञानं 'तस्य' ज्ञानस्य 'शान्त्यादयः' शमादयः 'अ ङ्गानि' ज्ञानवृद्ध्यर्थानि ज्ञानेन सम्पूर्णमोक्षसाधने उपयुक्तानि भवन्ती त्यर्थः । 'तस्मात्' अङ्गत्वात् 'अन्यथा' शान्त्याद्यननुष्ठानेऽसत्कर्मा नुष्ठाने चेत्यर्थः । 'अल्पफलं' प्राप्तव्यहासो यावदनभिव्यक्तिश्चेत्यर्थः। नन्वेतत् श्रुत्युक्तं प्रमेयं सूत्रे किं नोक्तमित्यत आह-तुशब्द इति । श मादेरिति शेषः । 'पूर्णफलार्थत्वं' फलपूर्तिप्रयोजकत्वम् । उपलक्षण मेतत् । असत्प्रवृत्तेरल्पफलत्वं च सूचयतीत्यपि द्रष्टव्यम् ॥ (२६) ननु यदि सद्सत्प्रवृत्तिभ्यामस्ति ज्ञानिनो विशेषः, तर्हि 'क थमेवंविन्निखिलं भक्षयीत' इति निषिद्धान्नभोजनेऽपि हासाभावोक्तिः सम्भवति । तस्मान्न विशेषस्स्यादिति पूर्वोक्तस्य तर्कपराहतिमाश
[ अधि - ४, सू - २८. ] दीपिकासहितम्. ९५१ ‘यदि ह वा अप्येवंविन्निखिलं भक्षयत्येवमेव स भ वति’ ( ) इति सर्वान्नानुमतिः प्राणात्यय विषया । ‘न वा अजीविष्यमिमानखादिष्यिति होवाच कामो म उदपानम्’ (छा. १-१०-४.) इति दर्शनात् ॥ २८॥ इत्थं परिहरत्सूत्रं पठति—सर्वेति ॥ अत्र चशब्दः शङ्काव्यावर्तकः । त था च ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषाभ्युपगमे न ‘एवंवित्’ इति श्रु तिबाधो वाच्य इति प्रतिज्ञासिद्धौ तत्र हेतुत्वेन श्रुतेरन्यविषयत्वोक्ति परं—सर्वान्नानुमतिश्च प्राणात्यय इत्यंशं व्याचष्टे—यदीति । इती ति । एवंरूपा शाखान्तरस्था ‘सर्वान्नानुमतिः’ निषिद्धानिषिद्धसर्वभ क्षणानुज्ञाश्रुतिरित्यर्थः । प्राणात्ययविषयेति । यदि प्राणात्ययकाले ज्ञा नी निषिद्धं भुञ्जीत, तर्हि न तेन तस्य विशेष इत्येवं प्राणहानिप्रसक्ति कालविषयेत्यर्थः । विषयेत्यनेन सप्तम्यर्थ उक्तः । एवमुक्तप्रकारेण ब्र ह्मविद्यदि ‘निखिलं’ निषिद्धानिषिद्धरूपं सर्वं भक्षयीत । तदाऽपि सः ‘एवमेव’ मुक्त एव भवति, न तु हसत इति श्रुत्यर्थः । साधारणश्रुतेः कुतः प्राणात्ययविषयकत्वकल्पनेत्यतः तद्दर्शनादित्यंशं व्याचष्टे—न वेति । इति तद्दर्शनादिति । इत्येवंरूपाज्जीवनोपयुक्तनिषिद्धभक्षणानु मतिततोऽधिकरागप्राप्तानुपान प्रत्याख्यानरूपलिङ्गप्रतिपादकमुनिवच नादित्यर्थः । अतो ह्रासाभावोक्तेरन्यथोपपन्नत्वात् न तद्बलाज्ज्ञानिनः सदसत्प्रवृत्त्योरविशेषः शङ्कनीय इति ज्ञानिनाऽपि निषिद्धं न कार्यमे वेति भावः । अनेन—यतो ‘यदि ह वा’ इति सर्वान्नानुमतिश्रुतिः प्राणात्ययकालविषया अतो ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषाभ्युपगमे नैतच्छ्रुतिबाधः । कुतः श्रुतेरन्यकालविषयत्वकल्पनं ? ‘तद्दर्शनात्’ तत्र श्रुतेः प्राणात्ययविषयत्वे तस्य लिङ्गस्य दर्शनात् ‘न वा’ इति त ल्लिङ्गप्रतिपादकश्रुतेरिति सूत्रार्थ उक्तो भवति । सूत्रे तल्लिङ्गादित्येव वक्तव्ये दर्शनपर्यन्तधावनमसिद्धिपरिहारार्थमिति ध्येयम् । ‘न वा अ जीविष्यम्’ इति छान्दोग्यश्रुतेरयमर्थः—चक्रायणस्यापत्यं चाक्रायणः उषस्तिनामा मुनिरतिवृष्ट्या दौर्भिक्षे सति स्वजायया सह कस्यचि त् ‘इभ्यस्य’ धनिकस्य इभपालकस्य वा ग्रामे उवास । स च तत्र तत्रान्नार्थी अटन् ‘कुल्माषान्’ मुद्रान् कुत्सितवनमाषान् वा खाद न्तामिभ्यं यदृच्छयोपलब्ध्य ययाचे । अथेभ्योऽस्मै कुल्माषान् दत्त्वा ‘अ नुपानं’ उच्छिष्टजलपानं कुर्विति मुनिं प्रार्थयामास । एवमिभ्येन प्रार्थि