रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
एकादशः सर्गः । ३५५
एकादशः सर्गः । ३५५
के मित्र पुराने और इतिहास के ज्ञाता विश्वामित्रजी उन्हें पुरानी कथायें सुनाते चले जा रहे थे । अर्थात् पुराने इतिहासों को सुनते हुए चलने के कारण पैदल चलने पर भी उन्हें कष्ट नहीं हुआ ॥ १० ॥
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥
अन्वयः—सरांसि रसवद्भिः अम्बुभिः पत्रिणः श्रुतिसुखैः कूजितैः वायवः सुरभिपुष्परेणुभिः जलदाः छायया च तौ सिषेविरे ।
ताविति । तो राघवौ कर्मभूतौ सरांसि कर्तॄणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे । पत्रिणः पक्षिणः सुखयन्तीति सुखानि पचाद्यच् । श्रुतीनां सुखानि तैः कूजितैः वायवः सुरभिपुष्परेणुभिः सुगन्धिपरागैः जलदाश्छायया च सिषेविरे इति सर्वत्र संबध्यते ।
भाषार्थ—सरोवरों ने मधुर जल से, पक्षियों ने कानों को सुखप्रद कलरवों से, वायु ने सुगन्धित पुष्प परागों से, मेघों ने शीतल छाया से उन दोनों राजकुमारों की सेवा की ॥ ११ ॥
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२ ॥
अन्वयः—तपस्विनः कमलशोभिनां अम्भसां तथा न परिश्रमच्छिदां शाखिनाम् च न यथा उभयोः तयोः लघुना दर्शनेन प्रीतिम् आपुः ।
नेति । तप एषामस्तीति तपस्विनः । "तपःसहस्राभ्यां विनीनो" इति विनिप्रत्ययः । लघुनेष्टेन । 'त्रिष्विष्टेऽल्पे लघुः' इत्यमरः । तयोरुभयोः कर्मभूतयोः दर्शनेन यथा प्रीतिमापुः तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ।
भाषार्थ—कमलों से शोभायमान जल के दर्शन से परिश्रम को दूर करने वाले वृक्षों की छाया को देखकर भी आश्रमवासी तपस्वी इतना प्रसन्न नहीं हुए थे, जितना इन दोनों राजकुमारों को देखकर वे प्रसन्न हुए ॥ १२ ॥
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥
अन्वयः—स आत्तकार्मुकः दाशरथिः स्थाणुदग्धवपुषः तपोवनं प्राप्य चारुणा विग्रहेण मदनस्य प्रतिनिधिः अभवत् कर्मणा न ।
स्थाण्विति । स आत्तकार्मुकः दशरथस्यापत्यं पुमान्दाशरथी रामः । "अत
| ३५६ | रघुवंशमहाकाव्ये |
|---|
इन्,'' इतीञ्प्रत्ययः । स्थाणुर्हरः । 'स्थाणुः कीले हरे स्थिरे' इति विश्वः । तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन 'विग्रहः समरे काये' इति विश्वः । प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः देहेन मदनसुन्दर इति भावः ।
**भावार्थ—**जिस तपोवन में भगवान् शंकर ने काम को जलाया था, वहाँ जब दशरथनन्दन राम धनुष लिये हुए पहुँचे, तब मालूम पड़ा कि मानों वे वहां अपने शरीर की सुन्दरता से कामदेव के प्रतिनिधि बनकर आये हों, किन्तु कार्य से (कामदेव के प्रतिनिधि) नहीं ॥ १३ ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥
**अन्वयः—**कौशिकात् विदितशापया सुकेतुसुतया खिलीकृते पथि तौ स्थलनिवेशिताटनी लीलया एव धनुषी अधिज्यतां निन्यतुः ।
ताविति । रामायणवचनम्—‘‘अगस्त्यः परमःक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपहाय दारुणं रूपमस्तु ते ।।’’ इति । तदेतदाह—विदितशापयेति । कौशिकादाख्यातुः । ‘‘आख्यातोपयोगे’’ इत्यापादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । ‘खिलमप्रहतं स्थानम्’ इति हलायुधः । तौ रामलक्ष्मणौ स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ । ‘कोटिरस्याटनिः’ इत्यमरः । लीलयैव धनुषी अधिकृते । ज्ये मौर्व्यौ ययोस्ते अधिज्ये । ‘ज्या मोर्वीमातृभूमिषु’ इति विश्वः । तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ नयतिर्द्विकर्मकः ।
**भावार्थ—**मार्ग में उन्हें वह सुकेतु की कन्या ताड़का नामक राक्षसी मिली। जिसने सारे वन को उजाड़ बना दिया था और जिसके शाप की कथा विश्वामित्र जी ने राम को पहले ही सुना दी । उसे देखते-देखते ही उन दोनों भाइयों ने अपने धनुष को पृथ्वी पर टेककर डोरी चढ़ा ली ॥ १४ ॥
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ १५ ॥
**अन्वयः—**अथ तयोः ज्यानिनादं गृह्णती बहुलक्षपाछविः चलकपालकुण्डला ताडका निबिडा बलाकिनी कालिका इव प्रादुः आस ।
ज्येति । अथ तयोर्ज्यानिनादं गृह्णती जानती । शृण्वतीत्यर्थः बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा । 'बहुलः कृष्णपक्षे च' इति विश्वः । चले कपाले एव कुण्डले
एकादशः सर्गः ३५७
यस्याः सा तथोक्ता ताडका निबिडा सान्द्रा बलाकिनी वलाकावती । “व्रीह्या-दिभ्यश्च” इतीनिः । कालिकेव घनावलीव । 'कालिका योगिनीभेदे काष्ण्ये गौर्यां घनावलो' इति विश्वः । प्रादुरास प्रादुर्बभूव ।
**भाषार्थ—**इसके बाद उन दोनों के द्वारा किये गये धनुष टंकार को सुनते ही कानों में लटकी हुई मनुष्यों की खोपड़ियों को हिलाती हुई, अमावस्या की रात्रि के समान, काली कलूटी ताडका उनके आगे आकर इस प्रकार खड़ी हो गई, मानों बगुलों की पंक्ति में काली बदली हो ॥ १५ ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥
**अन्वयः—**तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया तया पितृकाननोत्थया वात्यया इव भरताग्रजः अभ्यभावि ।
तीव्रेति । तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवसाः तया प्रेतचीवरवसा । वसतेराच्छादनार्थात्क्विप् । स्वनेन सिंहनादेनोग्रया तया ताडकया पितृकानने श्मशान उत्थोत्पन्ना । “आतश्चोपसर्गे” इत्युत्पूर्वात्तिष्ठतेः कर्तरि कप्रत्ययः । तया वात्ययेव वातसमूहेनेव । “पाशादिभ्यो यः” । भरताग्रजो रामोऽभ्यभाव्यभिभूतः । कर्मणि लुङ् । तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ।
**भाषार्थ—**बड़े वेग से मार्ग के वृक्षों को कंपाती हुई, प्रेतों का कफन पहनी हुई, भयंकर गर्जनेवाली और श्मशान से उठे बवंडर के समान आकृति वाली वह ताड़का राम के ऊपर टूट पड़ी ॥ १६ ॥
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥
**अन्वयः—**उद्यतैकभुजयष्टिं आयतीं, श्रोणिलम्बिपुरुषान्त्रमेखलां तां विलोक्य राघवः वनितावधे घृणां पत्रिणा सह मुमोच ।
उद्यतेति । उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम् । आयतीमायान्तीम् इण् धातोः शतरि “उगितश्च” इति ङीप् । श्रोणिलम्बीनि पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम् इति विशेषणद्वयेनाप्याततायित्वं सूचितम् । अतएव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा । 'जुगुप्सा करुणे घृणे' इत्यमरः । पत्रिणेषुणा सह । 'पत्री रोप इषुद्वयोः' इत्यमरः । मुमोच मुक्तवान् । आततायिवधे मनुः— “आततायिनमायान्तं हन्यादेवाविचारयन् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥” इति ।
| ३५८ | रघुवंशमहाकाव्ये |
|---|
भाषार्थ— लाठी के समान एक भुजा को ऊपर उठाई हुई और मनुष्यों की आंतों की करधनी बनाकर कमर में पहनी हुई उस ताड़का को आती हुई देखकर राम ने स्त्रीवध करने की घृणा और वाण दोनों एक साथ छोड़े ॥ १७ ॥
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥
अन्वयः— स रामसायकः शिलाघने ताडकोरसि यत् विवरं चकार तत् रक्षसां अप्रविष्टविषयस्य अन्तकस्य द्वारतां अगमात् ।
यदिाति । स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार, तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अन्तकस्य यमस्य द्वारतामगमत् । इयं प्रथमा रक्षोमृतिरिति भावः ।
भाषार्थ— रामचन्द्रजी के उस बाण ने पत्थर की चट्टान के समान अति कठोर ताड़का की छाती में जो छिद्र किया, वह ऐसा लगा मानों राक्षसों के देश में नहीं पहुँचे हुए यमराज को प्रवेश करने के लिए द्वार खोल दिया हो ॥ १८ ॥
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलम्।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥
अन्वयः— बाणभिन्नहृदया निपेतुषी ( सती ) सा केवलं स्वकाननभुवं न व्यकम्पयत् ( किन्तु ) विष्टपत्रयं पराजयस्थिरां रावणश्रियं अपि व्यकम्पयत् ।
बाणेति । बाणभिन्नहृदया निपेतुषी निपतिता सती ‘’क्वसुश्च’’ इति क्वसु-प्रत्ययः । ‘’उगितश्च’’ इति ङीप् । सा केवलामेकाम् । ‘निर्णति केवलमिति त्रिलिङ्गं त्वेक कृत्स्नयोः’ इत्यमरः । स्वकाननभुवं न व्यकम्पयत् किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् । ताड़कावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ।
भाषार्थ— राम के बाण से ताड़का की छाती फट गई और वह नीचे गिर गई, उसके गिरने से केवल उस जंगल की भूमि ही नहीं कांप उठी किन्तु तीनों लोकों को जीतने से पाई हुई रावण की राजलक्ष्मी भी कांप उठीं ॥ १९ ॥
अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते—
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥
एकादशः सर्गः ३५९
एकादशः सर्गः ३५९
अन्वयः—सा निशाचरी दुःसहेन राममन्मथशरेण हृदये ताडिता गन्धव-द्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम।
रामेति। सा निशासु चरतीति निशाचरी राक्षसी अभिसारिका च। दुःसहेन सोढुमशक्येन राम एव मन्मथः। अन्यत्राभिरामो मन्मथः तस्य । शरेण हृदय उरसि मनसि च। ‘हृदयं मनउरसोः’ इति विश्वः। ताडिता विद्धाङ्गा गन्धवद्दुर्गन्धि यद्रुधिरमसृक्तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता। यद्वा गन्धवत् रुधिरमिव चन्दनं। हरिचन्दनमित्यर्थः। ‘रुधिरं कुङ्कुमासृजोः’ इत्युभयत्रापि विश्वः। जीवितेशस्यान्तकस्य प्राणेश्वरस्य च वसतिं जगाम।
भाषार्थ—कामदेव के समान सुन्दर राम के दुःसह बाण से हृदय में विद्ध और दुर्गन्ध रुधिर से लथपथ हुई ताड़का, इस प्रकार यमराज की पुरी में चली गई, मानो दुःसह काम के बाण से घायल हुई कोई अभिसारिका नायिका चन्दन का लेप करके अपने प्रिय के घर जा रही हो॥ २०॥
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ २१ ॥
अन्वयः—अथ ताडकान्तकः अवदानतोषितात् मुनेः नैर्ऋतघ्नं मन्त्रवद् अस्त्रं सूर्यकान्तः भास्करात् इन्धननिपाति, ज्योतिः इव प्रापत् ।
नैर्ऋतेति । अथानन्तरं ताडकान्तको रामः अवदानं पराक्रमः । ‘पराक्रमोऽवदानं स्यात्’ इति भागुरिः । तेन तोषितान्मुनेः नैर्ऋतान् राक्षसान् हन्तीति नैर्ऋतघ्नम् । “अमनुष्यकर्तृके च” इति ठक् । मन्त्रवन्मन्त्रयुक्तमस्त्रं सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव प्रापत् प्राप्तवान् ।
भाषार्थ—इसके बाद ताड़का का वध करनेवाले राम ने ताड़का के मारने से परम प्रसन्न विश्वामित्र मुनि से राक्षसों का संहार करने वाला मंत्र सहित दिव्य अस्त्र इस प्रकार प्राप्त किया, जिस प्रकार सूर्यकान्तमणि सूर्य से लकड़ी को जलाने वाला तेज प्राप्त करता है, अर्थात् विश्वामित्र ने राम को दिव्यास्त्र दिया ॥ २१॥
वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान्।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ २२ ॥
अन्वयः—ततः परं राघवः ऋषेः श्रुतं पावनं वामनाश्रमपदं उपेयिवान् प्रथमजन्मचेष्टितानि अस्मरन् अपि उन्मना बभूव ।
वामनेति। ततः परं राघवः ऋषेः कौशिकादाख्यातु। श्रुतं पावनं शोधनं वाम-
३६० रघुवंशमहाकाव्ये
नस्य स्वपूर्वावतारविशेषस्याश्रमपदमूपेयिवानुपगतः सन्। "उपेयिवाननाश्वाननूचा- नश्च" इति निपातः। प्रथमजन्मचेष्टितानि रामवामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि उन्मना उत्सुको बभूव।
**भाषार्थ—**वहां से रामजी वामन के पवित्र आश्रम में गये, जिसके विषय में विश्वामित्रजी ने उन्हें पहले ही सब बता दिया था। वहां अपने पूर्व जन्म (वामनावतार) की लीलाओं का ठीक-ठीक स्मरण न होने पर वे कुछ उत्कण्ठित से हो गये ॥ २२ ॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ २३ ॥
**अन्वयः—**ततः मुनिः शिष्यवर्गपरिकल्पितार्हणं बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनं आससाद ।
आससादेति। ततो मुनिः शिष्यवर्गेण परिकल्पिता सज्जिताऽर्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम्। 'सपर्याचार्हणाः समाः इत्यमरः। बद्धा पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तं दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत्तत् आत्मनस्तपोवनमाससाद। एतेन विशेषणत्रयेणातिथिसत्कारतच्छील्यविनय-शान्तयः सूचिताः।
**भाषार्थ—**वहां से विश्वामित्रजी अपने उस आश्रम पर पहुँच गये, जहाँ शिष्यों ने पूजा की सब सामग्री इकट्ठी कर रखी थी, वृक्ष अपने पत्तों की अञ्जलि बाँधे खड़े और मृग बड़ी उत्सुकता से इन लोगों को देख रहे थे ॥ २३ ॥
तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २४ ॥
**अन्वयः—**तस्य दशरथात्मजौ दीक्षित ऋषिं शरैः विघ्नतः क्रमोदितौ शशिदिवाकरौ रश्मिभिः अन्धतमसात् लोकम् इव ररक्षतुः ।
तत्रेति। तत्र तपोवने आश्रमे दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः क्रमेण पर्यायेण रात्रिदिवसयोरुदितौ शशिदिवाकरौ रश्मिभिः किरणैरन्धतमसाद्गाढध्वान्तात् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः। अवसमन्धे-ष्यस्तमसः" इति समासान्तोऽच्प्रत्ययः। लोकमिव ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः।
**भाषार्थ—**जिस प्रकार उदय को प्राप्त हुए सूर्य और चन्द्रमा बारी-बारी से अपनी किरणों से पृथ्वी का अन्धकार दूर करते हैं, उसी प्रकार आश्रम में राजा दशरथ के दोनों पुत्र राम और लक्ष्मण ने यज्ञ करने के लिए दीक्षित विश्वामित्रजी की बाणों द्वारा विघ्नों से रक्षा की ॥ २४ ॥
एकादशः सर्गः | ३६१
एकादशः सर्गः | ३६१
वीक्ष्य वेदिमथ रक्तविन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ २५ ॥
अन्वयः—अथ बन्धुजीवपृथुभिः रक्तबिन्दुभिः प्रदूषितां वेदीं वीक्ष्य अपोढकर्मणां च्युतविकङ्कतस्रुचां ऋत्विजां संभ्रमः अभवत् ।
वीक्ष्येति । अथ बन्धुजीवपृथुभिर्बन्धुजीवकुसुमस्थूलैः । 'रक्तकस्तु बन्धूको बन्धुजीवकः' इत्यमरः । रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य अपोढकर्मणां त्यक्तव्यापाराणां त्यक्तयज्ञकर्मणां च्युता विकङ्कतस्रुचो यज्ञपात्राणि येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत् । विकङ्कतग्रहणं खदिराद्युपलक्षणम् स्रुवादीनां खदिरादिप्रकृतिकत्वात् । स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात् । 'विकङ्कतः स्रुवां वृक्षः' इत्यमरः । यद्वा स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु उभयत्रापि शास्त्रसंभवात् । यथाह भगवानआपस्तम्बः--“खादिरः स्रवः पर्णमयीर्जुहूराश्वत्थ्युपभृद्वैवं कङ्कतीः सुचो वा” इति ।
भाषार्थ—इसके बाद यज्ञ की वेदी पर दुपहरिये के फूलों के समान बड़ी-बड़ी रक्त की बूंदें देख कर ऋत्विजो को बड़ा आश्चर्य हुआ और उन्होंने यज्ञ करना बन्द करके खैर के काष्ठ से बने अपने-अपने स्रुचों को नीचे रख दिया ॥ २५ ॥
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २६ ॥
अन्वयः—सपदि लक्ष्मणाग्रजः बाणम् आश्रयमुखात् समुद्धरन् उन्मुखः अम्बरे गृध्रपक्षपवनेरितध्वजम् रक्षसां बलं अपश्यत् ।
उन्मुख इति । सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात्समुद्धरन् । उन्मुख ऊर्ध्वमुखोऽम्बरे । गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम् । रक्षसां दुर्निमित्तसूचनमेतत् । तदुक्तं शकुनार्णवे—आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्ध्वभागे' इति । रक्षसां निशाचराणां बलमपश्यत् ।
भाषार्थ—उसी समय राम ने अपने तरकस ने बाण निकाला और ऊपर मुँह करके आकाश की ओर देखा कि राक्षसों की सेना उठी हुई खड़ी गीधों के पंखों की हवा से हिल रही है ॥ २६ ॥
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २७ ॥
अन्वयः—सः तत्र यो मखद्विषां अधिपती तौ शरव्यं अकरोत् इतरान् न महोरगविसर्पिविक्रमः गरुडः राजिलेषु प्रवर्तते किम् ।
तत्रेति । स रामस्तत्र रक्षसां बले यौ मखद्विषा मखं यज्ञं द्विषन्तीति तेषाम् ।
| ३६२ | रघुवंशमहाकाव्ये |
|---|
अधिपती तौ सुबाहुमारीचौ शरव्यं लक्ष्यमकरोत् । 'वेध्यं लक्ष्यं शरव्यं च' इति हलायुधः । इतरान्नाकरोत् । तथाहि महोरगविसर्पिविक्रमो गरुडो गरुत्मान्राजिलेषु जलव्यालेषु प्रवर्तते किम् । न प्रवर्तत इत्यर्थः । 'अलर्गर्दो जलव्यालः समौ राजिल-डुण्डुभौ' इत्यमरः ।
भाषार्थ— राम ने उस सेना में यज्ञविध्वंसक उन दो राक्षसों को अपना निशाना बनाया, जो उसके प्रधान थे, दूसरों को नहीं । क्या बड़े-बड़े सर्पों पर प्रहार करनेवाले गरुड जी भी छोटे-छोटे सर्पों पर प्रहार करते हैं ? अर्थात् नहीं ॥ २७ ॥
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥ २८ ॥
अन्वयः— अस्त्रकोविदः स उग्रजवं वायुदैवतं अस्त्रं धनुषि संदधे । तेन शैलगुरुम् अपि ताडकासुतं पाण्डुपत्रं इव अपातयत् ।
स इति । अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्देवता यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान् । कर्तरि लिट् । तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचं पाण्डुपत्रमिव परिणतपर्णमिवेत्यर्थः । अपातयत्पातितवान् ।
भाषार्थ— अस्त्र चलाने में निपुण राम ने तीव्र वेगवाले जिस वायव्यास्त्र को धनुष पर चढ़ाया, उसने पर्वत से भारी ताड़का के पुत्र मारीच को उड़ा कर वैसे ही दूर फेंक दिया, जैसे कोई सूखा पत्ता उड़ा दिया गया हो ॥ २८ ॥
यः सुबाहुरिति राक्षसोऽपरस्तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः ॥ २९ ॥
अन्वयः— सुबाहुः इति यः अपरः राक्षसः तत्र तत्र मायया विससर्प क्षुरप्रशकलीकृतं तं कृतिः आश्रमात् बहिः पत्रिणाम् व्यभजत् ।
य इति । सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार । क्षुरप्रैः शरविशेषैः शकलीकृतं खण्डीकृतं तं सुबाहुं कृती कुशलो रामः । "इष्टादिभ्यश्च" इति इनिः । 'कृती चः कुशलः समौ' इत्यमरः । आश्रमाद्बहिः पत्रिणां पक्षिणाम् । 'पत्रिणौ शरपक्षिणौ' इत्यमरः । व्यभजत् । विभज्य दत्तवानित्यर्थः ।
भाषार्थ— सुबाहु नाम का जो दूसरा राक्षस अपनी माया से इधर-उधर घूम रहा था, उसे भी चतुर राम ने अपने तेज बाण से टुकड़े-टुकड़े करके आश्रम के बाहर फेंक दिया, जिसे पक्षियों ने क्षण भर में बांट खाया ॥ २९ ॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥ ३० ॥
एकादशः सर्गः ३६३
एकादशः सर्गः ३६३
अन्वयः—इत्यपास्तमखविघ्नयोः तयोः सायुगीनं विक्रमं अभिनन्द्य ऋत्विजः वाग्यतस्य कुलपतेः क्रियाः यथाक्रमं निरवर्तयन् ।
इतीति । इत्यपास्तमखविघ्नयोस्तयो राघवयोः संयुगे रणे साधुः सांयुगीनस्तम् । “प्रतिजनादिभ्यः खञ्” इति खञ्प्रत्ययः । 'सांयुगीनो रणे साधुः इत्यमरः । विक्रमं पौरुषमभिनन्द्य ऋत्विजो याजकाः । वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ।
भाषार्थ—इस प्रकार यज्ञ के विघ्नों को दूर करनेवाले उन दोनों राम और लक्ष्मण की युद्धनिपुणता एवं पराक्रम को अभिनन्दित करके यज्ञकर्ताओं ने मौनी विश्वामित्र की क्रियाओं को क्रमशः पूर्ण किया ॥ ३० ॥
तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ३१ ॥
अन्वयः—अवभृथाप्लुतः मुनिः प्रणामचलकाकपक्षको तौ भ्रातरौ आशिषां अनुपदं दर्भपाटिततलेन पाणिना समस्पृशत् ।
ताविति । अवभृथे दीक्षान्तः आप्लुतः स्नातो मुनिः । 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः । प्रणामेन चलकाकपक्षको चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटितलेन कुशक्षतान्तःप्रदेशेन । पवित्रेणेत्यर्थः । पाणिना समस्पृशत्संस्पृष्टवान् । संतोषादिति भावः ।
भाषार्थ—यज्ञ के समाप्त हो जाने पर अवभृथ स्नान करके विश्वामित्र मुनि ने उन राम और लक्ष्मण को बड़ा आशीर्वाद दिया, जिनकी लटें प्रणाम करते समय लटक रही थीं । वे कुशाग्र से विद्ध अपनी हथेली को उनके सिर पर रखकर उन पर अपना बड़ा स्नेह कर रहे थे ॥ ३१ ॥
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी ।
राघवावपि निनाय बिभ्रतो तद्धनुःश्रवणजं कुतूहलम् ॥ ३२ ॥
अन्वयः—संभृतक्रतुः मैथिलः तं न्यमन्त्रयत वशी स मिथिलां व्रजन् तद्धनुःश्रवणजं कुतूहलं बिभ्रतौ राघवो अपि निनाय ।
तमिति । संभृतक्रतुः संकलितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् । वशी स मुनिर्मिथिलां जनकनगरीं व्रजंस्तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं बिभ्रतौ राघवावपि निनाय नीतवान् ।
भाषार्थ—विवाह के लिए स्वयम्बर की तैयारी करके मिथिला नरेश जनक ने विश्वामित्रजी को भी निमन्त्रित किया, इसलिए मिथिला जाते हुए जितेन्द्रिय
३६४ , रघुवंशमहाकाव्ये
विश्वामित्रजी धनुषयज्ञ की बात सुनकर कौतूहलपूर्ण हृदयवाले उन दोनों रघुकुल बालकों को भी अपने साथ लेते गये ॥ ३२ ॥
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥
अन्वयः— गताध्वभिः तैः सायं शिवेषु आश्रमतरुषु वसतिः अगृह्यत । येषु दीर्घतपसः परिग्रहः वासवक्षणकलत्रतां ययौ ।
तैरिति । गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थानमगृह्यत । येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः । पत्नी । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । अहल्याेति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ।
भाषार्थ-- कुछ दूर जाने पर सन्ध्या हो गई, इसलिए वे उस आश्रम के सुंदर वृक्षों के नीचे टिक गये, जहाँ महातपस्वी गौतम ऋषि की स्त्री अहल्या थोड़ी देर के लिए इन्द्र की पत्नी बन गई थी ॥ ३३ ॥
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी । स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥ ३४ ॥
अन्वयः— शिलामयी गौतमवधूः चारु स्वं वपुः चिराय पुनः प्रत्यपद्यत यत् स किल्बिषच्छिदां रामपादरजसां अनुग्रहः किल ।
प्रत्यपद्यतेति । शिलामयी भर्तृशापाच्छिलात्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती । यत् स किल्बषच्छिदां पापहारिणाम् । 'पापं किल्विषकल्मषम्' इत्यमरः । रामपादरजसामनुग्रहः किल । प्रसाद किलेति श्रूयते ।
भाषार्थ— अपने पति के शाप से पत्थर बनी हुई गौतम मुनि की स्त्री अहल्या ने इतने दिनों के बाद अपना सुन्दर शरीर पा लिया, वह पापों के नाशक राम के चरण की धूलि का प्रभाव था ॥ ३४ ॥
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३५ ॥
अन्वयः— राघवान्वितं उपस्थितं तं मुनिं जनेश्वरः जनकः निशम्य अर्थ काम सहितं देहबद्धं धर्म इव सपर्यया अभ्यगात् ।
राघवेति । राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य । अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहं मूर्तिमन्तमित्यर्थः । वाहिताग्न्यादित्वात्साधुः । धर्ममिव सपर्ययाऽभ्यगात् प्रत्युद्गतवान् ।
भाषार्थ— राम ओर लक्ष्मण के साथ आये हुए विश्वामित्र जी को सुन कर
एकादशः सर्गः [३६५]
राजा जनक पूजा की सामग्री लेकर उनकी अगवानी करने के लिए चले। जनक जी को वे ऐसे मालूम पड़ते थे, मानों अर्थ और काम के साथ स्वयं धर्म ही आ गया है ॥ ३५ ॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्षमपातमपि वञ्चनां मनः ॥ ३६ ॥
अन्वयः—दिवः गां गतौ पुनर्वसू इव तौ विलोचनैः पिवतां विदेहनगरी-निवासिनां मनः पक्षपातं अपि वंचनां मन्यते स्म ।
ताविति । दिवः सुरवर्त्मन आकाशात् । 'द्योः स्वर्गसुरवर्त्मनोः' इति विश्वः । गां भुवं गतौ 'स्वर्गेषु पशुवाग्वज्रदिङ्नेत्रघृणिभूर्जले । 'लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्यमरः । पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ । तौ राघवौ विलोचनैः पिबताम् । अतृप्त्यतया पश्यतामित्यर्थः । विदेहनगरी मिथिला तन्निवासिनां मनः कर्तृ पक्षमपातं निमेषमपि तद्दर्शनप्रतिबन्धकत्वा-द्वञ्चनां विडम्बनां मन्यते स्म मेने । "लट् स्मे" इति भूतार्थे लट् ।
भाषार्थ—वे दोनों राजकुमार ऐसे सुन्दर लग रहे थे, मानों दो पुनर्वसु नक्षत्र स्वर्ग से पृथ्वी पर उतर आये हों । जनकपुर के निवासी ऐसे आनन्दमग्न होकर उन्हें अपनी आँखों से देख रहे थे कि पलकों का गिरना भी उन्हें बड़ा अखरता था । अर्थात् उनकी यह धारणा हो गई थी कि यदि हम लोगों की आँखों की पलकें नहीं गिरतीं, तो हम लोग निर्निमेष नेत्र से इन्हें देखने रहते ॥ ३६ ॥
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयाम्बभूव सः ॥ ३७ ॥
अन्वयः—यूपवति क्रियाविधौ अवसिते ( सति ) कालविद् कुशिकनन्दनः सः मुनिः रामं इष्वसनदर्शनोत्सुकं मैथिलाय कथयाम्बभूव ।
यूपेति । यूपवति क्रियाविधौ कर्मानुष्ठाने । क्रतावित्यर्थः । अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धनः स मुनी रामम् । अस्यतेऽनेनेत्यसनम् इषूणामसनमिष्वसनं चापं । तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयाम्बभूव कथितवान् ।
भाषार्थ—जब धनुष यज्ञ की सारी क्रियायें पूरी हो गईं तब ठीक समय समझ कर कुशिक मुनि के वंश की वृद्धि करनेवाले विश्वामित्र जी ने राजा जनकजी से कहा कि राम भी वह धनुष देखना चाहते हैं ॥ ३७ ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरामनं पीडितो दुहितृशुल्कसंस्थया ॥ ३८ ॥
३६६ रघुवंशमहाकाव्ये
अन्वयः — पार्थिवः प्रथितवंशजन्मनः शिशोः तस्य वपुः वीक्ष्य स्वं दुरानमम् धनुः विचिन्त्य च दुहितृशुल्कसंस्थया पीडितः ( अभूत् ) ।
तस्येति । पार्थिवो जनकः प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता । शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य स्वं स्वकीयं दुरानममानमयितुमशक्यं नमेर्ण्यन्तात्खल् । धनुर्विचिन्त्य च दुहितृशुल्कं कन्यामूल्यं जामातृदेयम् । ‘शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च’ इति विश्वः । तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या । संस्था स्थितौ शरे नाशे’ इति विश्वः । पीडितो बाधितः शिशुना रामेण दुष्करमिति दुःखित इति भावः ।
भाषार्थ—जब जनकजी ने एक ओर प्रसिद्ध इक्ष्वाकु वंश में उत्पन्न हुए उस बालक रामचन्द्र के कोमल शरीर को देखा और दूसरी ओर अपने उस कठोर धनुष पर ध्यान दिया, जिसे बड़े-बड़े वीर भी नहीं नवा सके थे, तब उन्हें बड़ा पश्चात्ताप हुआ कि मैंने धनुष को तोड़ने वाले वीर के लिए सीता को देने की प्रतिज्ञा क्यों की ॥ ३८ ॥
अब्रवीच्च भगवन्मतङ्गजैर्यद्वृहद्भिरपि कर्म दुष्करम् ।
तन्न नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ ३९ ॥
अन्वयः—(मुनिं) अब्रवीत् च हे भगवन् ! बृहद्भिः मतङ्गजैः अपि दुष्करं यत् कर्म तन्न कलभस्य मोघवृत्ति चेष्टितं अनुमन्तुं अहं न उत्सहे ।
अब्रवीदिति । अब्रवीच्च । मुनिमिति शेषः । किमिति ? हे भगवन्मुने ! बृहद्भिर्मतङ्गजैर्महागजैरपि दुष्करं यत्कर्म तन्न कर्मणि कलभस्य बालगजस्य । ‘कलभः करिशावकः’ इत्यमरः । मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहगमनुमन्तुमहं नोत्सहे ।
भाषार्थ—राजा जनक विश्वामित्र से बोले कि हे भगवन् ! जो कार्य बड़े-बड़े मतवाले हाथी नहीं कर सकते हैं, उस कार्य को हाथी के बच्चे से कराना व्यर्थ का खिलवाड़ है, इसलिए मेरा मन नहीं चाहता कि इनसे धनुष उठवाया जाय ॥ ३९ ॥
ह्रेपिता हि बहवो नरेश्वरास्तेन तात ! धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ ४० ॥
अन्वयः—हे तात ! तेन धनुषा बहवः नरेश्वराः ह्रेपिताः (ते) ज्याघातकठिनत्वचः स्वान् भुजान् धिक् इति विधूय प्रतस्थिरे ।
ह्रेपिता इति । हे तात ! तेन धनुषा बहवो धनुर्भृतो नरेश्वरा ह्रेपिता ह्रियं प्रापिता हि । जिह्रेतेर्धातोर्ण्यन्तात्कर्मणि क्तः । “अर्तिह्रीव्लिरीक्नूयीक्ष्माय्यांता
एकादशः सर्गः ३६७
एकादशः सर्गः ३६७
'पुङ्णो" इत्यनेन पुगागमः । ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भु- जान्धिगिति विधूयवमत्या प्रतस्थिरे प्रस्थिताः ।
भाषार्थ—हे महाराज ! इस धनुष ने अनेकों धनुर्धारी राजाओं को लज्जित कर दिया है और वे अपनी उन भुजाओं को धिक्कारते हुए चले गये, जिन पर धनुष की डोरी के निरन्तर आघात से बड़े-बड़े गट्टे पड़ गये हैं ॥ ४० ॥
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ४१ ॥
अन्वयः—ऋषिः तं प्रत्युवाच अयं सारतः निशम्यतां अथवा गिरा कृतम् अशनिः गिरौ इव चापे एव भवतः व्यक्तशक्तिः भविष्यति ।
प्रतीति। ऋषिस्तं नृपं प्रत्युवाच । किमिति ? अयं रामः सारतो बलेन निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः । 'युगपर्याप्तयोः कृतम्' इत्यमरः । अव्ययं चैतत् । 'कृतं निवारणनिषेधयोः' इति गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् । किंत्व- शनिर्वज्रो गिराविव चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ।
भाषार्थ—यह सुनकर विश्वामित्रजी राजा जनक से बोले कि हे राजन् ! इनकी शक्ति मैं आपको बतलाता हूँ, सुनिये, अथवा कहना व्यर्थ है, जिस प्रकार वज्र की शक्ति की परीक्षा पर्वत पर होती है, उसी प्रकार इनकी शक्ति की परीक्षा धनुष पर आपको स्पष्ट हो जायेगी ॥ ४१ ॥
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ४२ ॥
अन्वयः—एवं आप्तवचनात् स काकपक्षकधरे अपि राघवे पौरुषं त्रिदशगोप- मात्रके कृष्णवर्त्मनि दाहशक्तिं इव श्रद्दधे ।
एवमिति। एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम् । "हायनान्तयुवादिभ्योऽण्" इति युवादिवादण् । 'पौरुषं पुरुषस्योक्तंभावे कर्मणि तेजसि' इति विश्वः । त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः । "प्रमाणे द्वयसज्दघ्नञ्मात्रचः" इत्यनेन मात्र- च्प्रत्ययः । ततः स्वार्थे कप्रत्ययः । तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव श्रद्दधे विश्वस्तवान् ।
भाषार्थ—इस प्रकार यथार्थ कहनेवाले विश्वामित्रजी के वचन से राजा जनक को कुछ-कुछ विश्वास होने लगा कि जिस प्रकार नन्हें से वीरबहूटी नामक बरसाती कीड़े के बराबर अग्नि में भी जलाने की शक्ति छिपी रहती है,
| ३६८ | रघुवंशमहाकाव्ये |
|---|
उसी प्रकार काकपक्षकधारी राम में भी धनुष उठाने की शक्ति अवश्य होगी । अर्थात् अत्यन्त थोड़ी आग में दाह शक्ति के समान राम में भी धनुष तोड़ने की शक्ति अवश्य होगी ॥ ४२ ॥
व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ४३ ॥
अन्वयः—अथ मैथिलः पार्श्वगान् कार्मुकाभिहरणाय सहस्रलोचनः तैजसस्य धनुषः प्रवृत्तये तोयदान् इव गणशः व्यादिदेश ।
व्यादिदेशेति। अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् । "तुमर्थाच्च भाववचनात्" इति चतुर्थी । सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय अविर्भावाय तोयदान्मेघानिव गणशः गणान् । "संख्यैकवचनाच्च वीप्सायाम्" इति शस्प्रत्ययः । व्यादिदेश प्रजिघाय ।
भाषार्थ—इसके बाद मिथिला नरेश जनकजी ने पार्श्ववर्ती पुरुषों को धनुष को लाने के लिए उसी प्रकार भेजा, जिस प्रकार इन्द्र तेजोमय धनुष को प्रकट करने के लिए झुण्ड के झुण्ड मेघों को भेजते हैं ॥ ४३ ॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः ॥ ४४ ॥
अन्वयः—दाशरथिः प्रसुप्तभुजगेन्द्रभीषणं तत् धनुः वीक्ष्य आददे । वृषध्वजः येन विद्रुतक्रतुमृगानुसारिणं बाणं असृजत् ।
तदिति । दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयङ्करं तद्धनुर्वीक्ष्याददे जग्राह। वृषो ध्वजश्चिह्नं यस्य स शिवो येन धनुषा ऋतुरेव मृगः विद्रुतं पलायितं क्रतुमृगमनुसरति । ताच्छील्ये णिनिः । तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ।
भाषार्थ—धनुष वहाँ लाया गया, वह ऐसा जान पड़ता था कि मानो कोई बड़ा भारी अजगर सोया हुआ हो । राम ने देखते-देखते शिवजी के उस धनुष को अनायास ही उठा लिया जिससे शिवजी ने मृगरूपधारी यज्ञ देवता के पीछे-पीछे दौड़ने वाले बाण को छोड़ा था ॥ ४४ ॥
आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ४५ ॥
अन्वयः—स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः ( सन् ) शैलसारमपि स्मरः पेशलं पुष्पचापं नातियत्नतः आततज्यं अकरोत् ।
आततेति । स रामः संसदा सभया विस्मयेन स्तिमित नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन् शैलस्येव सारो यस्य तच्छैलसारमपि धनुः स्मरः पेशलं कोमलं
एकादशः सर्गः ३६९
एकादशः सर्गः ३६९
पुष्पचापमिव नातियत्नतो नातियत्नात् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । आततज्यमधिज्यम् । अकरोत् ।
भाषार्थ— सभा में स्थित समस्त सभासदों के द्वारा आश्चर्यपूर्वक निर्निमेष दृष्टि से देखे जाते हुए राम ने पर्वत के समान भारी उस धनुष पर वैसी ही सरलता से डोरी चढ़ा दी जैसे कामदेव अपने पुष्पों के कोमल धनुष पर अनायास डोरी चढ़ा देता है ॥ ४५ ॥
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४६ ॥
अन्वयः— तेन अतिमात्रकर्षणात् भज्यमानं ( अत एव ) वज्रपरुषस्वनं धनुः दृढमन्यवे भार्गवाय क्षत्रं पुनः उद्यतं न्यवेदयत् ।
भज्यमानमिति । तेन रामेणातिमात्रकर्षणाद्भूज्यमानमत एव वज्रपरुषस्वनं वज्रमिव परुषः स्वनो यस्य तत् धनुः कर्तृ दृढमन्यवे दृढक्रोधाय । 'मन्युः क्रोधे क्रतौ दैन्ये' इति विश्वः । भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतमिति न्यवेदयदिव ज्ञापयामासेव ।
भाषार्थ— राम ने उस धनुष को इतना तान दिया कि वह वज्र के समान भयंकर शब्द करते हुए कड़कड़ाकर टूट गया, मानों उसने महाक्रोधी परशुराम को सूचना दे दी कि क्षत्रियों ने अब पुनः शिर उठाना आरम्भ कर दिया है ॥ ४६ ॥
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ४७ ॥
अन्वयः— अथ मैथिलः रुद्रकार्मुके दृष्टसारं वीर्यशुल्कं अभिनन्द्य राघवाय अयोनिजां तनयां रूपिणीं श्रियं इव न्यवेदयत् ।
दृष्टेति । अथ मैथिलो जनको रुद्रकार्मुके शङ्करधनुषि दृष्टः सारः स्थिरांशो यस्य तद्दृष्टसारं विलोकितविक्रमम् । 'सारो बले स्थिरांशे च' इति विश्वः । वीर्यमेव शुल्कं धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसम्भवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ।
भाषार्थ— इसके बाद जब मिथिला नरेश जनक जी ने देखा कि राम ने शिव-धनुष को तोड़कर अपना पराक्रम दिखला दिया, तब उन्होंने धनुर्भंग रूप पराक्रम मूल्य का अभिनन्दन करके पृथ्वी से उत्पन्न अपनी पुत्री सीताजी को इस प्रकार राम को सौंप दिया मानों साक्षात् अपनी लक्ष्मी उन्हें दे डाली हो ॥ ४७ ॥
२४ र० सम्प्र०
३७० | रघुवंशमहाकाव्ये
उक्तमेवार्थं सोपस्कारमाह— मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् । संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ४८ ॥
अन्वयः—सत्यसंगरः मैथिलः राघवाय अयोनिजां तनयां द्युतिमतः तपोनिधेः सन्निधौ अग्निसाक्षिकः सपदि अतिसृष्टवान् ।
मैथिल इति । सत्यसङ्गरः सत्यप्रतिज्ञः । ‘अथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः’ इत्यमरः । राघवायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ । अग्निः साक्षी यस्य सोऽग्निसाक्षिकः । “शेषाद्विभाषा” इति कप्प्रत्ययः । स इव सपद्यतिसृष्टवान्दत्तवान् ।
भाषार्थ—सत्यप्रतिज्ञा करनेवाले राजा जनक ने महातेजस्वी विश्वामित्र जी को ही विवाह का साक्षी अग्नि समझकर तत्काल उनके सम्मुख राम को सीता समर्पित कर दी ॥ ४८ ॥
प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ ४९ ॥
अन्वयः—महाद्युतिः महितं पुरोधसम् कोसलाधिपतये प्राहिणोत् इदं निमेः कुलं दुहितुः परिग्रहात् भृत्यभावि दिश्यताम् ।
प्राहिणोदिति । महाद्युतिर्जनको महितं पूजितं पुरोहितं कोसलाधिपतये दशरथाय प्राहिणोत्प्रहितवांश्च । किमिति निमिर्नाम जनकानां पूर्वजः कश्चित् इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात्स्नुषात्वेन स्वीकाराद्धेतोः भृत्यस्य भावो भृत्यत्वं सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति त्वयेति शेषः ।
भाषार्थ—महातेजस्वी राजा जनक अपने पूज्य पुरोहित शतानंदजी से कोसलाधिपति राजा दशरथ के पास कहला भेजा कि मेरी पुत्री सीता को स्वीकार करके इस निमि कुल पर वैसी ही कृपा कीजिए जैसी आप अपने सेवकों पर करते हैं ॥ ४९ ॥
अन्विषेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्म काङ्क्षितम् ॥ ५० ॥
अन्वयः—सः च सदृशीं स्नुषां अन्विषेष अनुकूलवाक् द्विजः च एनं प्राप, हि कल्पवृक्षफलधर्मिसुकृतां काक्षितं सद्य एव पच्यते ।
अन्विषेषेति । स दशरथश्च सदृशीमनुरूपां स्नुषामन्विषेष । रामविवाहमाचकाङ्क्षेत्यर्थः । अनुकूलवाक्स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाः
एकादशः सर्गः ३७१
शतानन्दश्चैनं दशरथं प्राप । तथाहि कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मा अतः सुकृतां पुण्यकारिणां कांक्षितं मनोरथः सद्य एव पच्यते हि । कर्मकर्तरि लट् । स्वयमेव पक्वं भवतीत्यर्थः । "कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मवद्भावात् "भावकर्मणोः" इत्यात्मनेपदम् ।
भाषार्थ—उधर दशरथ जी यह विचार ही कर रहे थे कि योग्य पुत्रवधू हमारे घर में आवे, इतने में ही राजा जनक के पुरोहित शतानन्दजी इच्छानुकूल सन्देश लेकर उनके पास पहुँच गये । ठीक ही है पुण्यात्माओं की अभिलाषा कल्पवृक्ष के समान तत्काल फल देने वाली होती है ॥ ५० ॥
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः ।
उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ५१ ॥
अन्वयः—बलभित्सखः वशी कल्पितपुरस्क्रियाविधेः तस्य अग्रजन्मनः वचनं शुश्रुवान् सैन्यरेणुमुषितार्कदीधितिः ( सन् ) उच्चचाल ।
तस्येति । बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् । 'वश आयत्ततायां च' इति विश्वः । कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवान् श्रुतवान् । शृणोतेः क्वसुः । सैन्यरेणुमुषितार्कदीधितिः सन्नुच्चचाल प्रतस्थे ।
भाषार्थ—इन्द्र के मित्र जितेन्द्रिय राजा दशरथ ने राजा जनक के पुरोहित शतानन्दजी का बड़ा सत्कार किया और उस ब्राह्मण की बात सुन कर इतनी बड़ी सेना लेकर चल पड़े कि उसकी धूलि से सूर्य भी ढंक गये ॥ ५१ ॥
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ५२ ॥
अन्वयः—सः बलैः पीडितोपवनपादपां मिथिलां वेष्टयन् आससाद सा पुरी स्त्री आयतं कान्तपरिभोगं इव प्रीतिरोधं असहिए ।
आससादेति । स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन्परिधीकुर्वन् आससाद । सा पुरी स्त्री युवतिरायतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती । द्वेषरोधं तु न सहति इति भावः ।
भाषार्थ—वे राजा दशरथ इस प्रकार मिथिला में पहुंच गये । मिथिला के उपवनों के वृक्षों को रौंदती हुई उनकी सेना ने चारो ओर से घेर लिया किन्तु इस प्रेम के घेरे को उस नगरी ने उसी प्रकार सहन किया जिस प्रकार कोई स्त्री अपने प्रियतम के कठोर सम्भोगको प्रेम पूर्वक सहन करती है ॥५२॥
३७२ रघुवंशमहाकाव्ये
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ५३ ॥
अन्वयः—समये स्थितौ वरुणवासवोपमौ तौ उभौ भूपती समेत्य स्वप्रभाव- सदृशीं कन्यकातनयकौतुकक्रियां वितेनतुः ।
ताविति । समये शिष्टाचारे स्थितावाचारनिष्ठौ । 'समयाः शपथाचारकाल- सिद्धान्तसम्विदः' इत्यमरः । वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ तावुभौ भूपती जनकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ । तनोतेर्लिट् ।
भाषार्थ—इन्द्र और वरुण के समान प्रतापी मर्यादापालक उन दोनों राजाओं ने परस्पर मिल कर शास्त्र की विधि से अपने ऐश्वर्य के अनुकूल अपने पुत्र और पुत्रियों का विवाह-संस्कार सम्पन्न किया ॥ ५३ ॥
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ५४ ॥
अन्वयः—रघूद्वहः पार्थिवीं उदवहत् अथ लक्ष्मणः तदनुजां ऊर्मिलां (उद्वहत्) यौ वरौजसौ तयोः अवरजौ तौ कुशध्वजसुते (उदवहताम्) ।
पार्थिवीमिति । उद्वहतीत्युद्वहः । पचाद्यच् । रघूणामुद्वहो रघूद्वहो रामः पृथिव्या अपत्यं स्त्री पार्थिवी । “तस्यापत्यम्” इत्यणि “टिड्ढाणञ्०” इति ङीप् । तां सीतामुदवहत्परिणीतवान् । अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौरसीमूर्गिलामुदवहत् । यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरतशत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुत- कीर्ति चोदवहताम् । नात्र व्युत्क्रमविवाहदोषो भिन्नोदरत्वात् । तदुक्तम्— 'पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च । विवाहधानयज्ञादौ परिवेत्ताद्यदूषणम्' इति ।
भाषार्थ—रघुकुलतिलक श्रीराम का सीता के साथ और लक्ष्मण का सीता की छोटी बहन उर्मिला के साथ विवाह हुआ । उनके छोटे भाई भरत और शत्रुघ्न का विवाह क्रमशः जनकजी के छोटे भाई कुशध्वज की पुत्री माण्डवी और श्रुतकीर्ति के साथ हुआ ॥ ५४ ॥
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ५५ ॥
अन्वयः—ते चतुर्थसहिताः त्रयः सूनवः नववधूपरिग्रहः सिद्धिमन्तः तस्य भूपते. सामदानविधिभेदनिग्रहाः इव बभुः ।
एकादशः सर्गः ३७३
त इति । ते चतुर्थसहितास्त्रयः चत्वार इत्यर्थः । वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्य सामदानविधिभेदनिग्रहाश्चत्वार उपाया इव वभुः । विधीयत इति विधिः दानमेव विधिः निग्रहो दण्डः सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसन्धेयम् ।
भाषार्थ--वे चारो भाई उन नव-वधुओं को पाकर ऐसे सुशोभित हुए मानों उस राजा दशरथ के साम, दाम, दण्ड और भेद इन चारों उपायों को चार सिद्धियां मिल गई हों ॥ ५५ ॥
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंन्निभः ॥ ५६ ॥
अन्वयः—ताः नराधिपसुताः नृपात्मजैः कृतार्थतां ते च ताभिः कृतार्थतां अगमन् सः वरवधूसमागमः प्रकृतिप्रत्ययोगसन्निभः अभवत् ।
ता इति । ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते राघवाद्याश्च ताभिः सीताद्याभिस्तथा । किंच स वराणां वधूनां च समागमः प्रत्ययानां प्रकृतीनां च योग इव सन्निभातीति सन्निभः अभवत् पचाद्यच् । प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः । यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ।
भाषार्थ--उन चारों राजकुमारों को पाकर वे चारों राजकुमारियां और उन चार राजकुमारियों को पाकर वे चारों राजकुमार कृतकृत्य हो गये । उन वर और वधुओं का वह मिलन ऐसा हुआ जैसे शब्दों के मूल रूप में प्रत्यय अलग-अलग रहने पर किसी वाच्यार्थ को कहने में असमर्थ होने के कारण निरर्थक से जान पड़ते हैं और वे ही दोनों मिल कर पाठक शब्द बन कर पढ़ाने वाला इस अर्थ के वाचक होकर सार्थक हो जाते हैं उसी प्रकार उन वधूवरों का मिलन भी सार्थक हो गया ॥ ५६ ॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ५७ ॥
अन्वयः—एवं आत्तरतिः सः दशरथः आत्मसंभवान् तत्र निवेश्य त्रिषु अध्वसु विसृष्ट मैथिलः ( सन् ) स्वां पुरीं न्यवर्तत ।
एवमिति । एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसम्भवान्पुत्रांस्तत्र मिथिलायां निवेश्य विवाह्य । 'निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः'
| ३०४ | रघुवंशमहाकाव्ये |
|---|
इति विश्वः । त्रिष्वह्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन् स्वां पुरीं न्यवर्तत । उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ।
**भावार्थ—**इस प्रकार प्रेमपूर्वक राजा दशरथ मिथिला में चारों पुत्रों का विवाह कर मार्ग में तीन दिन पड़ाव पड़ने के बाद राजा जनक को लौटा दिया और स्वयं बड़े प्रसन्न मन से अपनी नगरी अयोध्या की ओर बढ़े ॥५७॥
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लेशुभृंशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ५८ ॥
**अन्वयः—**जातु वर्त्मसु ध्वजतरुप्रमाथिनः प्रतीपगा मरुतः उत्तटा नदीरयाः स्थलीं इव तस्य वरूथिनीं भृशतया चिक्लेशुः ।
तस्येति । जातु कदाचिद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः । प्रतीपगाः प्रतिकुलगामिनो मरुतः उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव । “जानपदकुण्ड०” इत्यादिना ङीप् । तस्य वरूथिनीं सेनां भृशतया भृशं चिक्लेशुः क्लिश्यन्ति स्म ।
**भावार्थ—**जिस प्रकार तट के ऊपर बहने वाली नदी की धारा आस-पास की भूमि को आप्लावित कर देती है उसी प्रकार मार्ग में सेना के ध्वजारूपी वृक्ष को झकझोरने वाले वायु ने एक दिन दशरथ की सेना को व्याकुल कर दिया ॥ ५८ ॥
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ५६ ॥
**अन्वयः—**तदनन्तरं बद्धभीमपरिवेषमण्डलः रविः वैनतेयशमितस्य भोगिन भोगवेष्टितः च्युतः मणिः इव लक्ष्यते स्म ।
लक्ष्यत इति । तदनन्तरं प्रतीपपवनान्तरं बद्धं भीमं बिभेत्यस्मादिति भीमं भयङ्करं परिवेषस्य परिधेर्मण्डलं यस्य सः । ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः । रविः वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन । ‘भोगः सुखं स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः । वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ।
**भावार्थ—**इसके बाद सूर्य के चारों ओर एक बड़ा भारी मण्डल बन गया, वह ऐसा मालूम पड़ने लगा कि जैसे गरुड के द्वारा मारा गया कोई सांप अपने मस्तक से गिरे हुए मणि के चारों ओर कुण्डली मार कर पड़ा हुआ हो ॥५९॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ६० ॥