भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

३०६ रसार्णवे शङ्खचूर्णपलैकं तु^1 पलैकं टङ्कणस्य च । एकौकृत्याथ^2 तत् सर्व्वं वञ्चीक्षीरेण पेषयेत्^3 ॥ १३० ॥ आरख्योत्पलकैः^4 पश्चात् पुटं दद्याच्चतुष्टयं । रसोऽयं यवमात्रेण^5 वङ्गं स्तम्भयति क्षणात्^6 ॥ १३१ ॥ रूक्षाभ्रकपलैकं तु^7 द्वे पले मृतसूतकम्^8 । गन्धकस्य पलञ्चैकं^9 एकीकृत्याथ^10 मर्दयेत् ॥ १३२ ॥ मर्द्यमानं प्रयत्नेन गोलकं भवति क्षणात् ॥ १३३ ॥ मृतवङ्गस्य भागैकं^11 चतुर्भागं च^12 गोलकम् । मर्दयेत् प्रहरैकं तु^13 भस्मीभवति सूतकः^14 ॥ १३४ ॥ आरख्यगोमयेनैव^15 पुटं दद्यात्तु^16 भूधरे । अनेन क्रमयोगेण सप्तसङ्खलिकां^17 कुरु ॥ १३५ ॥ (1) D reads पलेन तु, which is not correct. (2) K and M read एकीकृत्वाथ, which is incorrect. (3) M reads पोषयेत्. (4) D has आरख्योपलकैः. K has आरण्योत्पलकैः. (5) D reads पलमात्रेण. (6) D reads स्तभ्यते. K reads erroneously स्तंभ मर्दयेत्. (7) D has रूक्षाभ्रकं पलैकं तु. This charana and the next two are not found in K. (8) B reads द्विपले. D reads द्विपलेनैव सूतकम्. M wants this charana and the next two. (9) D reads पलैकं च. (10) B has वज्री- क्षीरेण. (11) D reads भागं च. (12) D reads चतुर्भागस्य. M reads मृतवङ्गस्य. (13) B reads तप्तखल्वेन. D reads प्रहरकं तु. (14) D reads सूतकम्. K has स......, an incomplete charana. (15) D reads अजाविण च तेनेव. M reads आरण्य instead of आरख्य. (16) D reads दद्याच्च. (17) B reads संकुलिकां. K reads शृंखलिकां, which is incorrect.

१३९ ॥'. Wait, let's compare with L7: In L7: '॥ १३८ ॥' In L8: '॥ १३८ ॥' Wait, let's look at the gap between L7 and L8: L6 and L7 make one verse (138). L8 is a single line: "जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ १३८ ॥" or "१३९"? Wait! Look at footnote (7): "(7) This hemistich is not found in D and K." Footnote (11) says: "(11) B has भूषणं. D and M have भूषितम्." Wait, does L8 belong to verse 138? In Anushtubh: "सहस्रांशेन तेनैव शूल्बवेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ १३८ ॥" YES! Look at the sense: "सहस्रांशेन तेनैव शूल्बवेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥" "By one thousandth part of it, one should pierce copper (shulba-vedha); a divine gold is produced, which is the best ornament of the gods!" These two lines go together! Wait, why is there a number at L7? Look at L7: "

३०८ रसार्णवे तत्तुल्यञ्च पुटेत्तीक्ष्णं¹ त्रिफलाया रसेन तु² । तत्तुल्यं पुटयेन्नाग³-महिमारारटरूपकैः⁴ ॥ १४१ ॥ हेमवर्णप्रदं तद्धि⁵ विंशत्यंशेन योजितम्⁶ । चतुःषष्ठ्यंशकेनेदं⁷ शुद्धतारञ्च⁸ रञ्जयेत् ॥ १४२ ॥ अष्टमांशेन तेनैव नागपत्राणि लेपयेत् । पुटयेन्मारयेन्नागं⁹ सिन्दूरारुणसन्निभम्¹⁰ ॥ १४३ ॥ तत्तुल्यं मारयेद्धेम¹¹ काञ्चनाररसे पुटेत्¹² । तत्तुल्यं मारयेच्छुल्वं गृहकन्या¹³रसेन च ॥ १४४ ॥ पश्चादम्लेन¹⁴ पुटयेद्-यावत् सिन्दूरसन्निभम् । चन्द्राकौ रञ्जयेत्तेन¹⁵ शतांशेन तु वेधयेत्¹⁶ ॥ १४५ ॥ (1) B has तत्तुल्यं मर्दयेत्तीक्ष्णं. D has तत्तुल्यं पु

चतुर्दशः पटलः । ३०६ सबीजं बीजवज्रं वा$^1$ वह्नेण$^2$ सह सूतकम् । तद्भस्म मर्दयेत् पश्चात् स्वर्णपत्ररसेन तु$^3$ ॥ १४६ ॥ तेनैव वेधयेच्छुल्वं$^4$ शुक्लं तारे तु योजयेत्$^5$ ॥ १४७ ॥ वज्रेण बन्धयेद्धेम$^6$ हेम्ना च बन्धयेद्रसम्$^7$ । रसेन बन्धयेद्देहं$^8$ स देहो ह्यजरामरः$^9$ ॥ १४८ ॥ कदलीकंदसौवीरं$^{10}$ कण्टकारीरसप्लुतम्$^{11}$ । क्रामणं$^{12}$ सर्व्वधातूनां सर्व्वद्वन्द्वेषु$^{13}$ मेलनम् ॥ १४९ ॥ तिमिरख्य$^{14}$ तु पञ्चाङ्गं मार्जारो$^{15}$बीजसंयुतम् । एकीकृत्याथ संमर्द्य वज्रं तेनैव वेधयेत्$^{16}$ ॥ १५० ॥ (1) B reads बीजवज्रं वा. D reads विंशांशं बीजवज्रेण. K reads विंशांशं बीजवज्रं च. (2) M reads चन्द्रेण. (3) B reads स्वर्णपत्रे रसेन तु. D reads स्वर्णपात्रे रसेन तु. M reads पर्णपत्रे रसेन तु. (4) M reads पश्चात्. (5) सारे तारं च योजयेत्, a variant in D. तारेतात् योजयेत्, a variant in K. शुल्बं तारे नियोजयेत्, a variant in M. (6) D reads वेधयेद्धेम. K reads बंधयेद्धेम. (7) हेम्ना रसं च वेधयेत्, a variant in D. K reads बंधयेद्रसं. (8) D reads वेधयेद्देहं. K reads बंधयेद् देहं. (9) संदेहोत्यजरामकम्, an incorrect variant in D. K reads स देहस्त्वजरामरः. M reads स देहोप्यजरामरम्, which is incorrect. (10) B reads कदर्ली. D reads शाकं च and K reads साक च instead of सौवीरं. M reads दल instead of कंद. (11) कदम्बकाव्युत, and कण्टक......णितम्, incom- plete variants in D and M respectively. (12) D reads क्रमेण. K reads क्रमणं. M reads का... (13) M reads सर्व्वदन्वेन. (14) M reads तिमिरख. (15) B reads पेटारी. M reads पोटारी. (16) B reads वेधयेत्. D reads चलं in place of वज्रं.

? No, it looks like ङ्ग or ञ्ज? Wait, look at ञ्ज in गुञ्जा (line 4): In गुञ्जा: is on the left, is on the right! Look at ञ्ज in line 4: has a hook, connects to the middle of ! Now look at this letter in line 5: Does it look like ञ्ज? Wait! It has on the left, connected to on the right, with an on top! WAIT! IS IT ञ्जे?! Look at it: on the left (a curve with a horizontal bar connecting to ), and with an on top! Wait, but what is before it? Before it is: स्रो then त्सं? No, wait! Look at the letter before it: Is that तो? Wait, why would तो look like that? Wait, is that an avagraha ? Look at तेजःपुञ्जोऽभिजायते in line 9: Look at in line 9: it's an 'S' shape: ! Now look at line

चतुर्दशः पटलः । ३११ मृतवज्रस्य भागैकं भागाः षोडश हाटकम्¹ । श्वेतकाचस्य चूर्णं तु भागान्² षोडश दापयेत् ॥ १५६ ॥ अन्धमूषागतं³ ध्मातं वज्रबन्धं तु⁴ कारयेत् । अनेन क्रमयोगेन सप्तवारांश्च⁵ दापयेत् । मिलति तत्क्षणं वज्रं⁶ हेम्ना तु सलिलं यथा ॥ १५७ ॥ चूर्णं नरकपालस्य⁷ मृतवज्रं⁸ तु दापयेत् । अन्धमूषागतं ध्मातं हेम्ना मिलति तत्क्षणात्⁹ ॥ १५८ ॥ भृङ्गपद्मं वृकेत्रं च¹⁰ मृतकान्तं सटङ्कणम्¹¹ । बालवत्सपुरीषं च स्त्रीस्तन्येन च¹² पेषयेत् ॥ १५९ ॥ मूषालिपं¹³ ततः कृत्वा वज्रे हेम च¹⁴ दापयेत् । अन्धमूषागतं¹⁵ ध्मातं वज्रं मिलति नान्यथा ॥ १६० ॥ (1) D has an incomplete charana भागशोभ हाटकम्. (2) B has भाग. D has भागः. K has भागाः. All the texts appear to be incorrect. (3) Both D and K read अंधमूषागतं. (4) B has वज्रबंधं तु. D has वज्रवज्रं तु. (5) B reads सप्तवारं तु. (6) This charaṇa and the next are not found in B. D has मिलिते तत्क्षणाद्वजे, which is not grammatically correct. (7) This charaṇa and the next are not found in B. K reads र चूर्णं रत्नकपालस्य, which is senseless. (8) D reads मृतं वज्रं. (9) This charaṇa and the next seven are repeated in D. (10) D reads मृगपद्मं च केत्रं च. K reads भगक्षयं, which has no sense. (11) मृतं कान्तस्य टङ्कण, a variant in B. K reads मुखं. (12) K wants च, so the charaṇa being incomplete. (13) K reads मूखालिपं. (14) B and K read वज्रं हेम च. (15) K reads अंधमषागत

३१२ रसार्णवे कान्तं वज्रं¹ तथा गुञ्जा² गन्धकं च³ चतुष्टयम् । स्तनक्षीरेण⁴ पिष्टं तु मूषालेपं तु कारयेत् ॥ १६१ ॥ अन्धमूषागतं ध्मातं वज्रं मिलति तत्क्षणात् ॥ १६२ ॥ क्षीरेणोत्तरवारुण्या⁵ मृतवज्रं तु भावयेत् । हेमपिष्टिकया मध्ये वज्रं तत्रैव निक्षिपेत् ॥ १६३ ॥ वेष्टयेद्भूर्ज्जपत्रेण⁶ वहिर्वस्त्रेण वेष्टयेत् । धान्यमध्ये तु संस्थाप्यं पक्षमेकं निरन्तरम्⁷ ॥ १६४ ॥ उद्धृतं तत् प्रयत्नेन वज्रबन्धं तु कारयेत् ।⁸ द्रुता वज्रास्तु⁹ तेनैव मेलनीयास्तु पार्वति¹⁰ ॥ १६५ ॥ द्रुतबन्धः स विज्ञेयः¹¹ शतसाहस्रवेधकः¹² ॥ १६६ ॥ रत्नानां तु तथा सर्व्वान्¹³ वेधयित्वा यथाविधि¹⁴ । शतसाहस्र¹⁵वेधी च देहसिद्धि¹⁶प्रदायकः ॥ १६७ ॥


(1) B reads कांतमुख. K reads कांतं भूस्रं. (2) K reads गुंजा. (3) B reads गधकस्य. (4) D reads स्तन्यक्षीरेण. (5) D reads क्षारीणोत्तरवारुण्या. (6) K reads भूर्यपत्रेण. (7) B reads erroneously निरन्तरिं. (8) The portion commencing from वेष्टयेद्भूजपत्रेण and ending in कारयेत् is not found in D. (9) B has हुता वज्रास्तु तेन, an incomplete charana. D has गतवस्त्रास्तु सूत्रेण. K has द्रुतवज्रस्तु तेनैव. (10) D reads पार्वती, which is incorrect. (11) B reads हुतबंधः. D reads मृतबंध स विज्ञेया, which is incorrect. (12) B has शतसाहस्र- बोधक. D has सप्ताहसेकवेधकः. (13) This charana and the next two are not found in B. K has रत्नानां द्रुतयः सर्वा. (14) D reads यथाविधिः, which is incorrect. (15) D reads सहस्र. (16) B reads देहे सिद्धि. D reads देहे सिद्धिः, which is incorrect.

चतुर्थः पटलः । ३१९ मुसली$^1$ चित्रकं बन्ध्या-कर्कोटी कन्दपद्मिनी$^2$ । कञ्चुकी नीलसिन्दूरी$^3$ वासा$^4$ नागवला तथा ॥ १६८ ॥ कांस्यपात्रे$^5$ रसस्यैव रत्नानां द्रुतयस्तथा$^6$ । आतपे धारयित्वा तु$^7$ अभ्रकर्णानलस्तथा$^8$ ॥ १६९ ॥ ओषधीनां$^9$ रसं कृत्वा स्वच्छं$^{10}$ कृत्वा पुनः पुनः । याममात्रं च घर्मे तु$^{11}$ द्रुतिर्मिलति वै रसम्$^{12}$ ॥ १७० ॥ न तेषां क्रामणं शक्यं$^{13}$ वक्तुं वर्षशतैरपि$^{14}$ ॥ १७१ ॥ सैन्धवं निम्बपत्राणि वाकुची वेष्टिता$^{15}$ जले । द्रुताभ्रस्य रसेनेव$^{16}$ मेलनं परमं मतम्$^{17}$ ॥ १७२ ॥


(1) K reads मुसलि, which is incorrect. (2) D has पद्मिनि, which is incorrect. (3) B has नीलसिंदूरा. K has नीलसिंधूरो. (4) D reads वांसा. K reads वसा. (5) K reads कांसपात्रे. (6) B has द्रतयस्तथा, which seems to be the error of the scribe. (7) B reads वै. D reads चारयित्वा तु. (8) संधकेषामलं तथा, a variant in B. भय कुर्यान्नलो यथा, a variant in D. Both the texts have no sense. Mysore Manuscript (My) reads अयःकर्णामलं तथा, which is not clear. (9) B reads पद्मिनीनां. (10) D reads खेद. (11) याममात्रे विधर्मे च, a variant in B. याम पात्रे च धर्मे तु, a variant in D. (12) स्थिति निलति वै रसे,' a variant in D. द्रुतिर्मिलति चैव हि, a variant in K. (13) तेषां क्रमेणाशक्तं, a variant in B. D has क्रमकं शक्तं. K has क्रामणा शक्तं. (14) B reads वक्तुशतैरपि. K reads वज्रशतैरपि. (15) B and My have वाकुचिदेष्टिया. D has वाकुचीवेष्टिता. K has वाकुचि वेष्टिता. (16) B reads erroneously द्रताभ्रस्य रसेवने. D reads उताभ्रस्य रसेनेव. (17) मेलनेन वशयन्नगम्, a variant in D. 40

३१४ रसार्णवे वज्रं द्वन्द्दनमौशानि¹ वज्रेण रसमारणम्² । सबीजं मारणं प्रोक्तं³ खोटबन्धनमेव च⁴ ॥ १७३ ॥ तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि⁵ ॥ १७४ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁶ रसार्णवे रससंहितायां वज्रबन्धो नाम⁷ चतुर्दशः पटलः ॥ १४ ॥

(1) वज्रद्वन्द्दनसौशानि, a variant in B. वज्रद्वन्द्वसमीशानि, a variant in My. D wants this charaṇa and the next. (2) K has वज्रेण सह मारणं. (3) सबीजमारखं प्रोक्तं, a variant in B and My. वज्ररस- मारणं प्रोक्तं, a variant in D. (4) D has सबीजं खोटबंधनम्. My has खोटत्वं धनमेव च. (5) किमन्यच्छ्रोतुमर्हसि, a variant in K. (6) This portion is not found in B and My. D and K read गौरीशंकरसंवादे. (7) B has वज्रबंधयोगो नाम.

पञ्चदशः पटलः । —•— श्रीदेव्युवाच । महारसैरुपरसै¹र्लोहैश्च परमेश्वर² । आज्ञापय समस्तं तु³ रसराजस्य बन्धनम्⁴ ॥ १ ॥ श्रीभैरव उवाच । [ बीजानि कल्पितान्येवं रञ्जितानि परं शृणु । घनं माक्षिकचूर्णेन शुल्बचूर्णेन रञ्जितम् ॥ इन्धानं वायसत्वेन रसराजस्य रञ्जनम् । आरक्तवल्लीभिर्भूयैर्बहुधा परिकीर्तितम् ॥ कुसुदीगन्धपाषाणे सह माक्षिकहिङ्गुलैः । वापितः सेचितो रक्तगन्धस्नेहैर्मतो रसः ॥ रञ्जनं रसराजस्य ]⁵

(1) D has साहारसै तूपरसैः, which seems to be incorrect. K has रूपरसैः, which is an error of the scribe. We do not find the first eight ślokas in the MS. M. (2) लोहैस्तस्य मेलनं, a variant in B. K reads परमेश्वरः, which is inc. (3) D reads erroneously चाज्ञापयसा- मस्तं तु. My reads यत्. (4) D reads रसराजबन्धनम्, which is incom- plete as well as inc. K has द्रवंति सलिल यथा, which is inconsistant. After this śloka we find in B only the following verse :— तस्यौषधीबलं देव वक्तुमर्हसि संकर । (5) The portion within brackets is found only in K MS, and is almost a repitition of what is stated in the 8th Paṭala (vide ante p. 133.) As it appears to us an incongruous matter in the chapter of रसबन्धनं, we have kept it separate from the texts of other MSS.

३१६ रसार्णवे वैक्रान्तस्य तु भागैकं¹ चाष्टभागन्तु² सूतकम् । कनकस्य तु समांशं द्विपदी³रसटङ्कणम् ॥ २ ॥ नष्टपिष्टं च शुल्कं च⁴ ध्मातं⁵ खोटो भवेत् प्रिये । सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु⁶ शोधयेत् ॥ ३ ॥ समहेम्नि⁷ समावर्त्य सूतं⁸ मूषागतं ततः⁹ । समांशभक्षकं तं तु¹⁰ शुद्धसूतेन¹¹ कारयेत् ॥ ४ ॥ वैक्रान्तं षोडशांशेन¹² पूर्व्वयोगेन धामयेत् । दशसंकलिकायोगाद् वेधो दशगुणोत्तरः¹³ ॥ ५ ॥ [ समसंकलिकायोगे वेधो दशगुणोत्तरः । वैक्रान्तो वज्रवत् श्रेयो नात्र कार्या विचारणा ॥ ]¹⁴ पुनरन्यं प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ॥ ६ ॥ वैक्रान्तसत्त्वं देवेशि पारदेन समन्वितम्¹⁵ । (1) D reads न भागैक, which seems to be incorrect. K has only भागैकं and wants वैक्रान्तस्य तु. (2) B and My read मष्टभागं तु. (3) K reads द्वोपदी. (4) नष्टपिटि च शुल्क च, a variant in B and My. नष्टपिष्टं चतुःपथ, a variant in K. (5) B and K read ध्मातः. (6) D has हुत्वा दरद च, which is not clear in sense. K reads च in place of तु. (7) K reads समे हेम्नी, wherein the last word is grammatically incorrect. (8) B and My read सूक्त. (9) D has मूखागतं यतः, which appears to be incorrect. K has also मूखागत, (मूखा = मूषा). (10) K reads समांशमक्षकं तत्. (11) D and K read शुद्ध मृतेन. (12) वैक्रान्तं षोड़शाङ्गेन, a reading in D. (13) B reads स्पर्शवेधी भवेद्रसः. (14) The portion within brackets is found only in B. (15) D reads समन्वितं, which is incorrect.

पञ्चदशः पटलः । ३१७ जारितं समहेम्ना तु शिलाभाण्डे निधापयेत्¹ ॥ ७ ॥ मासमात्रोषितं² भूमौ समुद्धृत्य³ प्रयत्नतः । एष देवि रसो दिव्यो देहद्रव्यकरो भवेत् ॥ ८ ॥ वैक्रान्तकास्तु ये⁴ केचित् त्रिफलाया रसेन च । भूम्यामलकसारेण वसुभट्टरसेन च⁵ ॥ ६ ॥ एकैकं देवि सप्ताहं⁶ स्वेदिता मर्दितास्तथा⁷ । सुध्माता मूकभूषायां⁸ खोटो भवति चाक्षयः⁹ ॥ १० ॥ कान्तं रूप्यं सकनकं¹⁰ पारदं चैव योजयेत् । शुल्वं तृतीयभागन्तु¹¹ स्रोतोऽञ्जन¹²समन्वितम् । (1) D, K and My read शिलाभास्वेन दापयेत्, which has no clear sense. (2) D reads erroneously मासमाचोषितं. (3) D reads समाकृष्य. K reads समुद्धृत्य. The former has no sense, and the latter is grammati- cally incorrect. (4) वैक्रान्तकास्तु येः, a variant in D, which is incorrect. (5) वसुभेदे रसायने, a variant in D. वसुभट्टरसेन वा, a variant in K. (6) D reads सप्ताहः. K reads देवी. Both are incor- rect. (7) B has स्वेदितमर्दितस्तथा. D and K have स्वेदितो मर्दितस्तथा. We have adopted the reading of M, as there are वैक्रान्तकाः in the 9th śloka. (8) सुध्मातो मूलमूषायां, a variant in D. सुध्माती मूक- मूषायां, a variant in K. M reads सुध्मातं. (9) B reads चाक्षयं. M reads खोटो भवति चाक्षया, which is incorrect. (10) B reads कान्तं रूप्यं च कनकं. K reads कांतरूप्यं सकनकं. M and My read कान्तरूप्यञ्च कनकं. (11) D reads शुल्वस्तृतीयभागं तु. (12) B and K read सोतांजन.

३१८ रसार्णवे तत् ध्मातं खोटतां याति$^1$ देहलोहकरं भवेत् ॥ ११ ॥ श्‍वेतवैक्रान्तचूर्णं$^2$ हयमूत्रेण$^3$ मर्दयेत् । पादौ सुस्निग्धमादाय$^4$ पले पलशतं क्षिपेत् ॥ १२ ॥ तारस्य जायते भस्म विशुद्धस्फटिकाकृति$^5$ । तद्भस्म मेलयेत् सूते$^6$ समभागे$^7$ विचक्षणः ॥ १३ ॥ चारयेत् रजतं सूते$^8$ हयमूत्रेण मर्दयेत् । पुटयेदन्धमूषायां$^9$ क्रमेण$^{10}$ मृदुवह्निना ॥ १४ ॥ क्रामणेन समायुक्तं$^{11}$ मूषामध्ये$^{12}$ विचक्षणः । षडहोरात्रं$^{13}$ त्रिरात्रं वा भवेदग्निसहो रसः$^{14}$ ॥ १५ ॥ स्पर्शनात् सर्व्वलोहानि$^{15}$ रजतञ्‍च$^{16}$ करिष्यति ।


(1) B has तं ध्मातं, which is incorrect.. D reads सुध्मातः. K wants सु and reads only ध्मातं. M and My read त ध्मातं, which is inc. (2) D reads erroneously वर्णं तु. (3) D reads हयमारैश्च. (4) This charaṇa and the next seven are not found in D. K has सुस्निग्धमादाय. (5) B reads वियुद्धं स्फटिकाकृति. K, M and My read विशुद्धस्फटिकाकृतिः, which is gram. incorrect. (6) M has मेलयत् सूत, which is in- correct. (7) B, M and My read समभागं. (8) B wants सूतं, which mars the metre. K reads रजतं सुतं. M reads रजितं सूतं. Both are incorrect. (9) D and K read मूखायां, instead of मूषायां. (10) B reads क्रामने, which seems to be the error of the scribe. (11) This hemistich is not found in D and M. (12) B and K read मूखामध्ये (= मूषामध्ये). (13) M reads एकरात्रं. (14) D and K have भवेदपिसहोदरे, which has no clear sense. (15) D has सर्व्वलोहानां. This charaṇa and the next six are not found in K. (16) D reads रञ्जनञ्‍च.

पञ्चदशः पटलः । ३१८ भक्षिते¹ वक्ष्यमाणेन जरादारिद्र्यनाशनम् ॥ १६ ॥ रक्तस्य वक्ष्यते कम्म² जरादारिद्र्यनाशनम् । सप्तधा भावयेत्तस्य³ व्याघ्रीकन्दाम्भसा रजः ॥ १७ ॥ पलं तस्य पलं हेम्नः पलं शुद्धरसस्य च⁴ । शुल्वं भक्त्वा भवेत् सब्वं⁵ पुनर्हेमशतं⁶ क्षिपेत् । तद्भस्म जायते क्षिप्रं⁷ शुद्धहेमसमप्रभम् ॥ १८ ॥ तद्भस्म रसराजे तु पुनर्हेम्ना च मेलयेत्⁸ । भवेदग्निसहो देवि⁹ ततो रसवरो भवेत्¹⁰ ॥ १९ ॥ स्पर्शवेधी भवेत् सूतः¹¹ कोटिवेधी महारसः ॥ २० ॥ रक्तावैक्रान्तसत्त्वं च¹² हेम्ना तु¹³ सह मेलयेत् । (1) This hemistich is not found in D, M and My. (2) रक्तस्य च जरेत् कम्मं, a variant in D, which has no sense. M reads कामं [L14

३२० रसार्णवे समं तं जारयेत् सूतं$^१$ सारयित्वा समेन तु । सहस्रांशेन लोहानि वेधयेन्नात्र संशयः ॥ २१ ॥ कृष्णवैक्रान्तभागैकं शुद्धसूतपलांशकम्$^२$ । एकत्र मर्दयेत् खल्ले चूर्णं च भवति द्वयम्$^३$ ॥ २२ ॥ अस्य चूर्णस्य भागैकं$^४$ हेमभागसहस्रकम् । एकत्र मर्दयेत् तावत् यावच्छ्लक्ष्णं तु जायते$^५$ ॥ २३ ॥ धमेत्तच्चान्धमूषायां$^६$ यावत् खोटो$^७$ भविष्यति ॥ २४ ॥ समांशमभ्रचूर्णं$^८$ तस्य शुद्धसूतं तु कारयेत्$^९$ । वेधयेत् सर्व्वलोहानि स्पर्शमात्रेण पार्व्वति$^{१०}$ ॥ २५ ॥ तच्चूर्णमभ्रकं$^{११}$ चैव रसेन सह मर्दयेत् । एकत्र मर्दयेत्तावद्यावच्छ्लक्ष्णं प्रजायते$^{१२}$ ॥ २६ ॥


(१) B has जायते सूते. D has जारयेत् सूतः. K has जायते सूतं. M has तद्गुणं जारयेत् सूते. (२) D has तं च सूतं पलांशकं. K has हेमभाग- सहस्रकं. M has शुद्धसूतशतांशकं. (३) K wants this charana and the next four. My reads ध्रुवम्. (४) M reads मानेकं, which is incorrect. (५) This hemistich and the next one are not found in D. (६) भवेत्त चांधमूषायां, a variant in B. तदभ्रव्वैदग्ध्यमूषायां, a variant in M. (७) B reads घोटो. M reads वोहो. (८) B has समास भक्षकं. M has समांशमभ्रकं. (९) M has पोटिकां कारयेत् बुधः. (१०) B reads वैशता. K reads पार्वती, which is grammatically incorrect. M and My read हैमता. (११) D reads तन्मूर्वं गन्धकं. (१२) B reads यावदभ्रक्षं तु जायते, which is partly incorrect.. This hemistich and the next four are not found in D, M and My.

पञ्चदशः पटलः । ३२१ धमेत्तदन्धमूषायां¹ यावत् खोटो भविष्यति । समांशं भक्षपं² तस्य पिष्टिकां³ कारयेद्बुधः ॥ २७ ॥ वेधयेत् सर्व्वलोहानि स्पर्शमात्रेण हेमता⁴ । तच्चूर्णमभ्रकं चैव रसेन सह मर्द्दयेत् ॥ २८ ॥ स्वेदयेज्जारयेच्चैव⁵ ततो वह्निसहो भवेत् । स रसः⁶ सारितश्चैव सर्व्वलोहानि विध्यति ॥ २६ ॥ पीतवर्णोऽपि⁷ वैक्रान्ते रक्तकृष्णविधिर्मतः⁸ ॥ ३० ॥ पीत⁹वैक्रान्तचूर्णं तु हेमचूर्णसमन्वितम्¹⁰ । पीताभ्रकस्य चूर्णेन¹¹ मेलयित्वा महारसः । स्वेदितो मर्दितश्चैव मासादग्निसहो रसः ॥ ३१ ॥ श्वेतं पीतं तथा कृष्णं रक्तवर्णं तथैव च¹² । एवं चतुर्विधा वर्णा¹³ वैक्रान्ते वरवर्णिनि ॥ ३२ ॥ वज्रस्थाने तु वैक्रान्तो¹⁴ मेलनं परमं मतम् । (1) B reads भवेत्तदन्धमूषायां. (2) K reads भावयेत्. (3) B reads पौठिकां. (4) B and K read हेमतां, which seems to be incorrect. (5) M reads स्वेदयेद्वारयेच्चेव. (6) D reads सारसा. M reads सरितः. Both the readings seem to be incorrect. (7) D reads सितवर्णोऽपि, which is incorrect, सितवर्णं being already mentioned in the 12th śloka. (8) B reads रसक्लष्टविधिर्मतः, which appears to be incorrect. K reads रक्ताङ्कचादिकर्मतः. (9) D reads पीतं. (10) हेमचूर्णं- समसमं, a variant in B. हेमचूर्णे समन्वितं, a variant in K. (11) D and K have चूर्णे तु. (12) This hemistich and the next three are not found in D, M and My. (13) B reads चतुर्विद्यो वर्णो. (14) B reads वज्रस्थानेषु वैक्रान्तं, which seems to be incorrect. 41

३२२ रसा‌र्णवे देहलोहकरो यश्च¹ पारदो लोहवत्² प्रिये ॥ ३३ ॥ नीलवर्णस्तु वैक्रान्तो³ म्रियते⁴ रससंयुतः ॥ ३४ ॥ कृष्णाभ्रकेण⁵ सहितं मधुसर्पिर्युतं च यत् । भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकम् ॥ ३५ ॥ यस्य यस्य हि यो योगः तस्य तस्य प्रयोगतः । मेलयित्वा रसं गुञ्जा-मानं षिमधुसंयुक्तम् ॥ ३६ ॥ पथ्यं क्षीराज्यशाल्यन्नं⁶ भोज्यमन्यच्च⁷ वर्ज्जयेत् ॥ ३७ ॥ [ एकान्ते मक्षिकामध्ये निर्वासः संस्थितो नरः । रसमृत्युञ्जयो मन्त्रः सदा जप्यो हृदन्तरे ॥ पशूनां विमुखस्तत्र स्त्रीणां चैव न दर्शनम् । भस्मोद्धूलितसर्वाङ्गो मन्त्रध्यानपरायणः । वत्सरं क्रमते मर्त्यस्तस्य सिद्धिर्न संशयः ॥ ]⁸ वैक्रान्तसत्त्वसंयुक्तं⁹ लुङ्गाम्ले मर्दयेद्रसम्¹⁰ ।


(1) K reads यस्य. (2) K reads पारदो लोहवत्. (3) After this charana we find the following hemistich in B only— वह्निमध्ये यथा तिष्ठे अचंचला महारसा । which we have rejected for its incongruousness. (4) D reads मृतये. M reads म्रियते. Both are incorrect. (5) This śloka and the next forty-three ( i. e. 35—78 ) are not found in B. (6) D has खोटं क्षारान्यशाल्यन्न, M has खोटं क्षीराज्यशाल्यं नं. My has खोटं वैक्रान्तशाल्यन्नं. (7) D reads भोज्यमन्यत्तु. (8) The portion within brackets is foun ( only in K MS. (9) D reads वैक्रान्तं सत्वसंयुक्तं, which seems to be inc. K reads सत्वसंयुक्तो, which is gram. inc. (10) D and K have लुंगाम्लेन मर्दयेद्रसम् M has तलुङ्गाम्लेन मर्दयेत्, which appears to be inc.

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

पञ्चदशः पटलः । ३२३ तापयेत् कोष्ण¹तापेन जलेन² परिपूरयेत् ॥ ३८ ॥ सत्त्वं सूतञ्च संमिश्र³ धामेत् स्याद्रसबन्धनम्⁴ । बद्धं रसं⁵ मुखे क्षिप्त्वा भूमिरिच्छिद्राणि पश्यति⁶ ॥ ३९ ॥ निष्कमेकं च वैक्रान्तम्⁷ अश्वामूत्रेण मईयेत् । दिनमेकमिदं देवि मर्दयित्वा मृतो भवेत् ॥ ४० ॥ चतुर्दिनमिदं कृत्वा समं सूतं समानयेत्⁸ । मईनं स्वेदनं चैव पूर्ववच्छुद्धमानसः⁹ ॥ ४१ ॥ सप्तबन्धनमेकैकं¹⁰ समाष्टमपलं¹¹ भवेत् । मईयेन्मातुलुङ्गाम्लैः¹² चतुःषष्टिपुटं ददेत् । उदयारुणसंकाशः सर्व्वलोहानि वेधयेत् ॥ ४२ ॥ कृष्णाभ्रकस्य सत्त्वं च रसं हेमसमं भवेत् ।

(1) संतापयेत्युष्ण, a variant in D. My has कृण. (2) K reads जलेना. M reads मलेन. (3) D reads सात्वं सूत च संमिश्र्या. K reads सत्वं सूतं च संमिश्रं. M reads सत्वसूतश्च संश्चार्य्य, which is inc. (4) घर्मस्वं रसबन्धनम्, a variant in D. धामयेत् रसबन्धनम्, a variant in M. (5) D reads वम्बं रसं, which is incorrect. K reads बद्धरसं. (6) D reads पखति, which is incorrect. K reads भूमीछिद्राणि, which is also incorrect. (7) M reads निष्वानेकन्तु संक्रान्त, which is an error of the scribe. (8) D reads समं नयेत्. M reads सममयेत्. (9) जायते शुद्धमानसः, a variant in D. (10) K reads सत्व बंधनमेकैकं. (11) D and K read समाष्टमफलं. M reads सममाष्टपलं. My reads सममाष्टफलं. (12) K reads लिंगाग्लैः. M reads लुङ्गाम्लै. This charana and the next five are not found in D.

३२४ रसार्णवे निक्षिप्य वज्रमूषायां¹ धमित्वा खोटतां नयेत्² ॥ ४३ ॥ बद्धं रसं मुखे³ क्षिप्त्वा ह्यजरामरतां व्रजेत् ॥ ४४ ॥ तेनैव भस्म संमिश्रं कृष्णाभ्रकसमं⁴ भवेत् । शल्याविशल्या⁵मूलस्य वारिणा मर्दयेद्दिनम् ॥ ४५ ॥ भ्रमरायन्त्र⁶मध्यस्थं पुटं सप्तदिनं भवेत्⁷ । तच्छुद्धं भस्म सेव्यं स्यात्⁸ गुञ्जामात्रं तु मण्डलम्⁹ ॥ ४६ ॥ एकाब्धं पञ्चमं मध्यं¹⁰ पुनरेकं प्रशस्यते¹¹ । पूर्व्वदबन्धनाहेवि¹² कोटिवेधी महारसः ॥ ४७ ॥ ॥ इति वैक्रान्तबन्धः ॥ रक्तवर्णमयस्कान्तं¹³ लाक्षारससमप्रभम् । भिन्नं स्त्रोरक्त¹⁴संकाशं तच्चूर्णं सूतसंयुतम् ।

(1) D and K read वज्रमूषायां. M reads सर्व्वमूषायां. (2) D reads व्रजेत्. M reads वौटतां. (3) D reads वज्ररसं मुखे. M reads बद्धं रसमुखे. (4) D reads कृष्णाभ्रकदल, which has no clear sense. (5) D has शाल्याविशाल्या. M and My have शल्यानि शल्य, which is inc. (6) K reads भ्रमरौयन्त्र. No mention is made of this apparatus ( यन्त्र ) in the रसरत्नसमुच्चय. (7) D reads वदेत्. (8) तं शुद्धभस्मसं स्यात्, a variant in D. तच्छूद्धभस्म सेव्यं च, a variant in K. (9) जीवेत् कल्पायुतं नरः, a variant in K. (10) D reads एकाब्धापञ्चम भद्रे, which is unintelligible. My reads महीं. (11) This hemistich is not found in K. (12) K reads पूर्व्ववद्धमनाद्देवि, which seems to be inc. (13) D has रक्तवर्ण भवेत् कान्त. M has रक्तवर्णमयं कान्त. (14) D. and K read भिन्नस्त्रोरक्त. M reads भिन्नस्रेदक्त.

पंचदशः पटलः । . ३२५ मर्दयेच्छागरक्तेन ध्मातं खोटो¹ भवेत् प्रिये ॥ ४८ ॥ स सूतः शतवेधी तु² सर्व्वव्याधिहरो भवेत्³ । गुटिकां धारयेद्वक्त्रे जीवेद्वर्षसहस्रकम् ॥ ४९ ॥ पीतवर्णमयस्कान्तं भिन्नं⁴ हेमसमप्रभम् । वेधयेत् सर्व्वलोहानि स्पर्शमात्रेण सुन्दरि⁵ ॥ ५० ॥ इति कान्तबन्धः ॥ लाङ्गली करवीरश्च⁶ चित्रकं गिरिकर्णिका⁷ । स्त्रीस्तन्यं⁸ टङ्कसीवीरं मूषालेपन्तु⁹ कारयेत् ॥ ५१ ॥ चपलाद्विगुणं सूतं¹⁰ सूताद्विगुणकाञ्चनम्¹¹ । नष्टपिष्टं तु तत् कुर्य्यात् अन्धमूषागतं¹² धमेत् ॥ ५२ ॥ तत्र स्थितो रसेन्द्रोऽयं¹³ खोटो भवति शोभनः¹⁴ । (1) D and K read ध्मातः, which is not correct. M reads ध्मात षोटो. (2) D has an incomplete charaṇa — ससूतः शतवे तु. (3) D reads शतव्याधिहरो भवेत्. K wants this charana and the next four ones. (4) D and My read भिन्न, which seems to be incorrect. (5) द्राव- येत् स्पर्शमात्रेण सर्वलोहानि सुन्दरि, a variant in M. (6) D reads कनकवीरा. (7) K reads गिरिकर्णिकं. (8) K reads स्त्रीधन्य. (9) Both D and K read मूखालिप तु, which is not correct. (10) चपलाद्विगुणं सूतं is the variant in D, M and My, which is inc. चपलादि- गुणं तं तु is the variant in K, which is also incorrect. (11) M and My read erroneously सूताद्विगुणकांचनम्. (12) Both D and K read अंधमूखागत, which is incorrect. (13) K reads रसेयद्वा, which is absurd. (14) D reads शोभने. वांही भवति शोभन, an in- correct variant in M.