साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
यदि चात्र सांप्रतिकपर्यालोचनदृष्ट्या कालसंकोचचिकीर्षया मीमांसकानां सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणन्यायोऽवतार्येत (जैमिनिदृ. ६ अ- ७ पा. १३ अधि.). तदापि विसंवादाधिरूढवस्थ एवाभिलक्ष्यते । यतस्तत्र साधारण्याेनाधिकारिचिन्ताया ब्राह्मणानुगृहीतः कालसंकोच आश्रीयते; इह पुनर्- विशेषेण कालकलनाया गमकाननुगृहीतः कालसंकोचो विकासो वा कथमाश्री- येत । या च शतायुःश्रुतिः, सापि युगपरतया मन्वादिभिः स्मर्यते ( म. स्मृ. १ अ. ८१-८४ श्लो. ), इत्य सेतिहासपुराणाभ्यामेव किमपराद्धम् । यत्तदुक्तजातं गमननुपलम्भेऽप्यन्यथा नीयते । एतेन हि भगवन्तं रामभद्रं तत्पितरं तत्र- भवन्तं दशरथं चामिलक्षीकृत्य प्रवृत्तम्— 'दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥' रा. वा. का. १. स. ९७ श्लो. 'षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ।' ( रा. वा. का. २० स. १० श्लो. ) इत्यादिवाक्यं नासगतं मन्तव्यम् । बलादन्यथानयने तु सौरमानेन १०१००/३६० = २८ २/३ इति ६००००/३६० = १६६ २/३ इति तयोः कालावागच्छतः । अत्र द्वितीयस्य- श्रद्धेयत्वेऽपि प्रथमः सर्वथाऽनुपपन्न एव । तथा तत्रैव रामायणे 'ऊनषोडश- वर्षो मे रामो राजीवलोचनः' इत्येवमादिरूपकालो दिनत्वेन परिणममानोऽति- तराममुपपन्नो द्रष्टव्यः । नैवमत्रैवानुपपत्त्या पराक्रम्यते । यानि पुनर्ज्योतिषे होरा- स्कन्धे नानाप्रकाराणि योगोत्थितानि पुरुषायूंषि पठितानि तत्रापि विसंवाद- गलप्रहान् मुच्यामहे । जैमिनीयन्यायोऽपि कालत्रयेणावतार्यमाणः कालकलनासु प्रमाणपदवी नाधिरोहतीत्यपि दर्शितमेव । देशकालविषयविप्रकृष्टनामेकस्वभावा- पोऽपि दूरदर्शिभिरेकहेल्याऽवहेलयितुमशक्यः । प्रक्षेपॊऽपि सजात्यान् विशिष्य मूलात्स्कन्धीत्यादि रूपेणैव परीक्षणीयम् । तस्माद् वेदेष्विव तदुपोपबृंहितेष्वपि यद् यथा स्मर्यते व्यवस्थाप्यते वा तत् तथैव नीयमानं पूर्वोपज्ञं भवितुमर्हतीति स्थितम् ॥ इदमपि पुरातत्त्वं प्रकृत पर्यालोच्यम्— 'श्रुतौ शतायुः पुरुषः प्रदिष्टो बहुत्वयोगी शतशब्दशक्यः । रामादिकानामधिकायुरासौ युक्तं प्रतीमः फलितोऽमितायुः ॥' इति । बहु चैवात्र शब्दानुसारेण प्रतिपत्तव्यम् । सूत्रं च जैमिनीयन्यायानुसन्धाने पुनरिदमपि पर्यालोच्यमेव— 'स वार्षिको वासन्तिको भवति ( ब्राह्मणम् ) —
२२ साहित्यदर्पणे
तत्रापरं ( न्तिमं ) ब्राह्मणगौरवेण ( दर्शनेन ) स स्वीचकारेति विरोधभङ्गः ॥' इति । अथवा भतृत्तीयापरभोगस्य प्रथमान्तत्वे । महर्षिणाग्राहि ( ऽमानि ) विरोध- शान्त्यै' इत्येवं चरमपाद पठनीयः ॥ प्रास्तावयं च प्राक् ( भूमि. १८ पृ. ) साहित्यस्य प्रवन्धा वन्धकाश्च क इति । तत्रावशिष्यते पौराणिकी कोटि । यत्र सूक्ष्मेशिकया निरीक्षणायामनेके वैज्ञा- निका विषया पुरस्क्रियन्ते । इदानीं तु प्रस्तुतमुपक्षिप्यते यत्पुराणेष्वन्यतम- माग्नेयमिति । इह विषयान्तरवत् साहित्यविषयोऽपि भामहादिग्रन्थेभ्यस्तत्पूर्व्वे- भ्यो वा संक्रामित , आहोस्वित् वेदार्थोपबृंहकेभ्य आग्नेयादिभ्य एव भामहादि- ग्रन्था व्यधायिपत । तत्राद्यकोटिर्विशीर्यते वृहत्कथारघुवंशादिपर्यालोचनेन तत्क- र्तृकालेऽपि कविकर्मपद्धतेरवश्यंभावाद्, यत्प्रयातान्येतानि गुणाढ्यकालिदासा- दिमूक्तान्यस्माकमवलम्बनानीति । आलंकारिकेषु भामहवर्जं नान्य कश्चन चिरंत- नत्वेन संप्रति सभावनामारूढ इति बहव । भामहग्रन्थस्तदुपज्ञमित्यपि न सिद्ध्यति । यस्मात्तन्मादेव— 'रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ १३ ॥ रूपकादिमलंकारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ १४ ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः ॥ १५ ॥' ( १ परिच्छे ) इत्येवेन, तथा— 'इति निगदितास्तास्ता वाचामलंकृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च । प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे गुरुतगधियामस्ताराध्यं मनोऽकृतबुद्धिभिः ॥ १६ ॥ ( १५ परिच्छे ) इत्येवमादिना च तदीयेन सूक्तेन प्राचां काव्यानुशासनाना ज्ञापनम् । नाट्य- ग्रन्थे हि— 'उपमा दीपकं चैव रूपकं यमकं तथा । काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्त्तिताः ॥' ( १६ अ ४१ श्लो. ) इत्येवंरूपान्दोषान् प्रस्फुटित्वा यथा— गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभित्नार्थम् । -------------------- प्रकाशस्य पदपूर्वोक्तैरेत्युद्भूतम् ।'
२३ भूमिका । न्यायादपेतं विषमं विसंधि शब्दच्युतं वै दशकाव्यदोषाः ॥’ ( १६ अ. ८४ श्लो.) श्लेषः प्रसादः समता समाधि- र्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यार्थगुणा दशैते ॥’ ( १६ अ ९२ श्लो.) इत्येव दश दोषानपवदन्तो गुणा उद्दिष्टा यथोद्देशं लक्षिताश्च । एत एव काव्या- लंकारसूत्रे—‘श्लेषप्रसादसमततासमाधिमाधुर्यसौकुमार्योदारताऽर्थव्यक्तिकान्तयो बन्धगुणाः’ (२ अधिकरणे १ अध्या. ४ सू.) इति वामनेनोक्ता ‘मा- धुर्यौजःप्रसादाख्यास्त्रयो न पुनर्दश इति प्रकाशकारादिभिः प्रयुक्ता व्यङ्ग्य- वृत्तिमात्रनिरूपणया स्थापिताश्चेति । परमेते (दश गुणा ) वामनस्य प्राक्तनेन ग्रन्थे- नित्यस्य दण्डिनः काव्यादर्शोऽपि सन्ति । दण्डिवामनयोर्मन्यतो गुणानां भ- नानुकरणं न दृश्यते । भरतेन स्वज्ञानात् स्वातिनारदपुष्पदन्तादीनां ग्रन्थ- परम्परेषु वा त एतेऽधिगता वा नाट्यशास्त्रप्रविभक्ता इति को निर्णयः । ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । कर्मन्दकृशाश्वादिनिः’ (४।३।११०-११) इति पाणिनिसूत्राभ्यां शिलालिकृशाश्वानां वेदानां नटसूत्रान्त- र्गतं भरतग्रन्थावेक्षा बहुचित्तप्रमदः । दण्डिनः प्राक्तनेन दण्डिनिरूपणं भा- यावत्काव्ये रसे तु भरतेनैवोक्ते दोषगुणेभ्यः परं दण्डिप्रत्यक्षरं दर्शिता । एवञ्च वामनदर्शनमभिप्रायं हि मन्यते भरत एवैतच्छास्त्रकर्त्ता सन्मार्गेण दर्श- नगतादिनिर्भरा नैव कल्पयितुं शक्यत इति, निर्विवादतयैवैते दशगु- णरत्नप्रस्थापनकर्तुः प्रामाण्यं तैरेवाभिहितमिति मन्यामहे । नाट्यशास्त्राध्येतृणामेवमपि यद्यपि प्रतिपन्नत्वमभ्युपगम्यते तथा- प्यभिनेयार्थविषयं काव्यमुद्देश्यं तद्वैपरीत्येन तस्यैव सर्वस्य चामि- तद्विवृतौ ग्रन्थान्तरे दृष्टं तदा तद्विषयं दृष्टिवशादेव नानाकथनात्, शृङ्गारिकप्रायेण विप्रलम्भादिविभागेन काव्यान्तरोपलक्षणेनोभ- यविषयस्योद्देश्यत्वे न कश्चिद्बाधः सम्भाव्यते । पुनश्चैतन्मते नाट्य- मपि नाटकस्य निबन्धमुत्सृज्य प्रवृत्तमित्याह भरतः—“यद्वागर्थसमोपेतम् न चैकस्मिन् रसे स्थितम् ।” इति प्रवृत्त्या काव्यस्य नाटके दृश्यते न तु नाटके । तथा—‘यथा च नानाद्रव्यैर्बहुभिः समन्वितानि व्यञ्जना- न्युत्पद्यन्ते तथा नानाभावेभ्यो भावेभ्यः सम्भूतो रसोत्पत्तिर्भवति’ इत्यनेन रसविभावे नाटकादीनां न विनिगमकमस्ति । श्लोकेषु दृश्यते—
२८ साहित्यदर्पणे वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता । भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥' इत्ययं द्वापञ्चाशतो राज्ञा काल = १२६६ स च न सवदति। एतदुक्तं भवति- यदि नाम प्रकृतोपयुक्ता सप्तर्षीणां गतिर्नोपलभ्यते, तर्हि तया युधिष्ठिरकालनिर्ण- योऽशक्यः । अत्र सिद्धान्ततत्त्वविवेके कमलाकरभट्टाः । 'अद्यापि कैरपि नरैर्गतिराश्चर्य्य- र्दृष्टा न या च कथिता किल संहितासु । तत्काव्यमेव हि पुराणवदत्र तज्ज्ञा- स्तेनैव तत्त्वविषयं गदितुं प्रवृत्ताः ॥” ( भग्रह. ३२ ) इत्यादि निर्णायन्ति । तथा सिद्धान्तदर्पणे चन्द्रशेखराचार्या अपि- 'सप्तर्षीणां ध्रुवः प्राग्भिर्नोक्तः संचारसंभवात् । तथाप्यनुभवात्तेषां व्यवस्था क्रियतेऽधुना ॥ पूर्व्वाग्रं शकटाकारमुदक्स्थमुडुसप्तकम्। सप्तर्षिमण्डलं प्रोक्तं व्यक्तं विश्वनमस्कृतम् ॥ तत्पूर्व्वान्तररेखाग्रे मरीचिः पश्चिमे ततः । वसिष्ठोऽरुन्धतीयुक्तस्तत्पश्चादङ्गिराः स्थितः ॥ तत्पश्चाच्चतुरस्रस्य शम्भुदिश्यग्निरस्य तु । पुलस्त्यो दक्षिणे तस्य पश्चिमे पुलहः स्थितः ॥ क्रतुस्तदुत्तरस्थानस्तत्रोक्तौ पुलहक्रतू । ध्रुवसूत्रेण यल्लग्नौ तद्दक्षस्या महर्षयः ॥ कथ्यन्ते सांप्रतं (४९७०) सिंहे भूभुजां(२१)शान्तगौ हि तौ। कालांशैर्विश्वकैः १३ प्राच्यां पुलस्त्यो वर्तते ततः ॥ तन्मन्दैः सायकैः (५) रनिरङ्गिरा नवभि(९)स्ततः ॥ ततोऽष्टाभि(८)र्वसिष्ठोऽस्मान्मरीचिर्वर्त्ततेऽष्टभिः(८) ॥' इत्येवमादि सङ्क्षेपादुक्त्वान्ते- 'प्रत्यक्षं प्राग्गतिः प्रोक्ता पुराणैरप्यलौकिकाः । नैषां नो निश्चिता पूर्व्वानुभवाददीनान्मया ॥' इत्युपसञ्जह्रुः । एतेन सर्व्वेषागमावात् ६५३ एतावत्कालिकगणनं तदानीं असम्भवमेव । दन्ते हि कलेः ४० वर्षानन्तरमेव ६५३ वर्षानन्तरमपि प्रवृत्त्यानुगतमेव तत एव समर्थितवत् ( लौकिकाब्दः ) इव कलियुगसंवत् ( यु० सं० = सप्तर्षिसंवत् ) इत्येवं द्वयमपि अयमेवदकमेव । नहि ३१७५- २५२२ = ६५३ तावन्मात्रेण अनेकग्रन्थादृष्टवचनादाढ्य, वा भारतसंग्रामस्य, निर्वृतिसमयस्य, वा सर्वाभिमतकालस्य सङ्घटनार्थमेकस्य युधिष्ठि- रसंवत्सरस्य बहुव्यत्ययप्रवादो बोद्धुं शक्यते । तस्मात्—
भूमिका । २९ भारतं द्वापरान्तेऽभूद्वार्तयेति विमोहिताः । केचिदेतां मृषा तेषां कालसंख्यां प्रचक्रिरे ॥’ इत्यन्यथा परिणतां महामात्यचम्पकसूनोः कल्हणस्य कृतिमुपेक्ष्यात्राद्यष्ट- नृपावलौ ६५३ एतावन्ति वर्षाणि संकलप्य ३१७९ एतावदेव सर्वसंख्या कलि- गतं ( कलियुगसंवत् ) शकारम्भसमये मन्तव्यम् । एवमप्यत्र नीलमुनिरात्मनः काश्मीरकपुराणमतं न जहातीति परीक्षणीयम् । इत्थंच पूर्वदत्तसंहितावाक्ये युधिष्ठिर इत्यत्र लक्षणया कस्मिंश्चित्तत्संताने नृपतौ पृथ्वीं शासतीत्युन्नेयम् । किंवा, यथाश्रुतार्थे ‘गोद्विन्द्गाइत्रियुतः’ इति पाठश्च स्यादिति संक्षेपः ॥ अथात्र किंचिदितिहासिकदृष्ट्यापि विविच्यते—राज्ञः शांतनोर्गङ्गातो गाङ्गेयो भीष्मो जज्ञे ( म. भा. आदिप. १०० अ. ) । कृष्णे पराशरात् सत्यवत्यां पारा- शर्यो व्यासः कानीनश्च ( म. भा. आदिप. १०५ अ. ) शांतनुर्विवाहितायां सत्यवत्यां चित्राङ्गदविचित्रवीर्यौ जनयामास । तत्र विचित्रवीर्योऽम्बिकाम्बा- लिके काशिराजसुते उपयेमे । ततश्च— ‘ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः’ ( म. भा. आदि प. १०२ अ ) । मातुः सत्यवत्या आज्ञया पाराशरो विचित्रवी- र्यस्य क्षेत्रेऽम्बिकायां धृतराष्ट्रं तथाऽम्बालिकायां पाण्डुमुत्पादयामास ( म. भा. आदिप. १०६ अ. ) । पाण्डोर्युधिष्ठिरादयः ( म. भा. आदिप. १२३ अ ) ततोऽ- र्जुनाद् अभिमन्युः, अभिमन्योः परीक्षित्, परीक्षिता जनमेजयश्च । एवं सत्य- वत्याः प्रपौत्रो जनमेजयः, येन पृष्टः पाराशर्यो महाभारतं (उप) चक्रे ( म. भा. आदि- प. १ अ. ) । यस्मिन्दिने राज्ञो जनमेजयस्य वयः ३६ वर्षाणि बभूवुः, तदा— ‘आकर्णपलितः श्यामो वयसाशीतिपञ्चकः (८५) रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् ।’ ( म भा. द्रोणप. १२५ अ. ७२ श्लो. ) इत्यनेन, हन्त— ‘वयः प्राप्य परीक्षित्तु दैवेऽस्तंगमनाच्च यत् । ६३ । कृपाच्छस्त्राण्यथास्त्राणि सर्वाण्यापुपुदत्स्वयम् । विदित्वा परमार्थांनि क्षत्रधर्ममते स्थितः । ६४ । षष्टिं ( ६० ) वर्षाणि धर्मात्मा पृथिव्यां पर्यपालयत् ।’ ( म. भा. आदिप. ९५ अ. ) इति वाक्यानुसारेण ८५-३६-१६=३३ संवत्सरान्ते जातो यद्यपि जनमेजयस्तथाप्यस्य महाभारतनिर्माणं न युज्यते । यतः इमं चाध्यायमन्तर्भाव्यैवैतदुत्तरग्रन्थेऽस्ति— ‘उत्तरे चैव संयावे द्रोणिशस्त्राभिपीडितम् । गर्भमण्डपुटे युक्तं हयस्त्वभ्यदहन्विभोः ।’ ( म. भा. आदिप. २ अ. ) इत्यनेनोक्ते यन् परीक्षितः पूर्वोक्ता षष्टि-
र्थात् ३१००—४८७=२६१३ कलिगतम् । एष च—'यदुदुम्बरवर्णानां मण्डलं महत् । पीतं न गमयेत्स्वर्गं तत्किं क्रतुगतं नयेत् ॥' इत्येवमुक्तवान् शायाम्—'प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणम्' इत्येवं म[हा-] भाष्यकारेण प्रत्युच्यते । यद्युक्तो बुद्धनिर्वाणकालः सर्ववादिसंमत- तीर्थंकर-महावीरसत्ताकालो व्यक्त एव, यतो वीरनिर्वाणसंवत्-५२७ ऊर्ध्वम् अर्थात् कलिगतम् २५७३। 'चन्द्रगुप्तसभा' इति प्रत्युदाहरणं तु सा[रा-] महाभाष्ये काशिकायामपि न दृश्यते, केवलं सिद्धान्तकौमुद्याम् । चन्द्रगुप्तसंव[न्धि-] तया संभाव्यमानः पुष्यमित्रो वर्तमाने लड्सूत्रभाष्ये—'इह पुष्यमित्रं याजया[मः]' ( ३।२।१२३ ) इत्येवं स्पृष्टोऽपि कुशकाशावलम्बनायितः । नहि देवदत्तेन्द्रक[र्ण-] न्द्रपालितप्रायैरुदाहरणे ( ८।२।८३ ) केचन नियता व्यक्तिविशेषा भाष्यकारानि- मता भवितुमर्हा इति दिक् ।
अथ किंचिद्दर्शनान्तरमुपक्षिप्य भूयः प्रकृतप्रघट्टकफलं दर्शयिष्यते । दर्शनेषु योगितया प्रतियोगितया वा परस्परस्य परस्परं प्रवेशो लक्ष्यते । सोऽयं शब्दतो ऽर्थत इति यथोत्तर भूयान् प्रेक्षाविषयः । तद्बीजं तु—'कालः स्वभावो नियति[र्य-] दृच्छाभूतानि योनि —' पृ. ८) इत्येवं जातीया भगवती श्रुतिरेव । नह्येष[ा] श्रुतिरुपालभ्या, तदनुवर्तिप्रमातृणां प्रवृत्तिर्वा, यदेष प्रमेयस्य प्राकृतिको दोष[ः] स्वभावो वा यथायं विचार सहते, तयागत्या तार्किकैर्नायत इति । अत्रेयं स्थूला पर्यालोचनम्—
वैशेषिकं न्यायश्चेति द्वये दर्शने समानतन्त्रे तत्र औलूकापरनाम्ना महामुनि[ना] कणादेन विशेषं पञ्चमं पदार्थभेदमधिकृत्य कृतो ग्रन्थो वैशेषिकम् । विशेषस्य साधर्म्येनेतरेभ्यो व्यावर्तनाय प्रभवतीति वैशेषिकस्तत्प्रमाता । तथाचोक्तं मौलिक[स्य] दर्शने माधवाचार्य—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिक विदुः ॥' इह भूतात्मपुरस्कारेण पदार्थानां साधर्म्य- वैधर्माभ्यां तत्त्वज्ञानानि श्रेयसपर्यायन्निणी परमात्मचिन्ता । अत्र दश अध्यायाः । प्रत्यध्यायं द्वे आह्निके । सर्वसूत्राणि ३६६। इदं न्यायदर्शनात प्राचीनं तत्रेयं तुलना-
वैशेषिकम्. | न्यायद. इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लि- | इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्या- ङ्गम् ३।२।४ ।। विद्याविद्यातश्च संशयः २।२।२३ ।। | त्मनो लिङ्गम् १।१।१० ।। नियतं वार्दानिश्चयात् संशय ४।३।८ ।।
... 'अप्रसिद्धोऽनपदेश— ( ३।१।१५-१७) इत्यादिना च त्रिधा...त्रय एव हेत्वाभासा उपदिष्टाः । न्याये तु-'सव्यभि[चार]'
भूमिका । ३७ चार—' ( ३।२।४५-५० ) इत्यादिना पञ्चाप्युपदिष्टाः । एतेन पूर्वं त्रय एव हेत्वाभासा आकलिताः, पश्चात् पञ्चत्वमुपनीता इति व्यक्तम् । अत्र 'विरुद्धसिद्धसं- दिग्धमलिङ्गं काश्यपोऽब्रवीत्' इति वैशेषिक-पदार्थधर्मसंग्रहकारः प्रशस्तपाद- चार्योऽपि संवादी । एवं वृत्ती जयनारायण-तर्कपञ्चाननोऽपि । तदेतन्महामहो- पाध्याय-चन्द्रकान्तमहाचार्यः स्वभाष्यभूमिकायां स्पष्टमुक्तवान् । किंच, न्याय- सूत्रापेक्षया वैशेषिकसूत्राणां प्रणयनशैलीसारल्यमपि तत्प्राचीनतामवगमयतीति प्रत्यक्षं परीक्षकाणाम् । यदपि षड्दर्शनभूमिकायां महामहोपाध्यायभीमा- चार्येण विपरीतमुल्यते तन्न हृदयारोहीति द्रष्टव्यम् । प्रमाणै रर्थपरीक्षणं न्यायः, नीयते प्रमेयसिद्धिरनेनेति वा । एषोऽक्षपादा- परनामा महामुनिना गौतमेन व्यरचि । इहान्तरात्मपुरस्कारेण पदार्थतत्वज्ञाना- न्निःश्रेयसाधैन्तकी परमात्मचिन्ता । अत्र पञ्च अध्यायाः । प्रत्यध्यायमाह्निकद्व- यम् । सर्वसूत्राणि ५२८ । भगवतो गौतमस्य समये आयुर्वेद इव मन्त्रखण्डोऽपि दृष्टप्रत्यय आसीत्, तत एव दृष्टान्तविधया द्वयोरप्युपादानं वेदप्रामाण्यादरे कृतम् तम्—'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् २।१।६८।' इति । सारस्वा- द्विषेयोपामन्त्रिता मन्त्रा लभ्यन्ते । आगम च—'आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखे । मतं श्रीवासुदेवस्य तस्मादागममुच्यते ॥' इति शब्दार्थचिन्तामणौ निरुक्तम् । वत्सानि-तत्पुरुषा घोर-सद्योजात-वामदेवे-शान्संज्ञामि पूर्वदक्षिणपश्चिमोत्तरोग्धैरू- पानि पञ्च । तत्पुरुषादिरूपप्रतिपादका मन्त्रास्तु तैत्तिरीये आरण्यके दशनप्रपा- ठके श्रूयन्ते ॥ सांख्यं योगश्चेति समानतन्त्रे । तत्र तन्त्रांशं रमानौ यश्च स तत्त्वप्रवचन संप्रदापरनामा नारायणस्यावतारेण देवहूतिनन्दनेन महामुनिना कपिलेनोपदिष्टः । तच्च बोद्धव्यम्—'पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥' इति भागवते ( १ स्कं. ३ अ. १० श्लो. ) । तथा-'इह शश्वन्निवृत्ताविंशित्वादिरूपेण विवृतोऽभूता सांख्यप्रवक्ता ह वै नारायणो महामुनिना कपिलेनोपदिष्टः । तस्य बोद्धव्यम्—'एतावन्मात्रमेवेह लोकेऽस्मिन् पुंसि रन्यम् । यन्मनः शान्तयेऽनर्थहेतुर्निरोधनम् । यदि परमार्थं कपिले प्रादुर्बभूव यदा । १।२८ सा कपिलो नाम सांख्यप्रवर्तकः । इति भागवते विनिर्णयस्तु पूर्वोक्तः सङ्गच्छते । 'ततः प्रवृत्ते यन् महर्षिः स कपिलो यदुद्दिष्टमाविर्बभूवेति महाभारतात् प्रतीमः ।' इत्यनेन सम्मन्येते देवीभागवते एतेन तत्प्रवृत्त्यहंकारस्य सात्त्विकस्य द्वैविध्यं च स्पष्टीकृतमेव । तत्र षड- ध्यायीग्रन्थः, द्वितीये षष्ठेऽध्याये सांख्यसारः सङ्गृहीतः । श्रीमद्विष्णु- दर्शने पातञ्जलेऽपि द्वे द्वितीयेऽपि षड्गुणे 'स पूर्वेषामपि गुरुः कालेनानवच्छेदात्' पातञ्जलदर्शने समाधिपादे २६ सूत्रे इति भगवतः सूत्राणि ५२९, षड्ध्यायी तु २२ सूत्राणि । १. गौत०, सं० टी० टीका, पृ० ८७ । २. वात्स्यायनभा० पृ० ४०२ । ३. त० सू० ४
इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है (पृष्ठ रिक्त है)।
भूमिका । ५३
नैर्गुणि । नैर्गुणिन्विनिर्मुक्तं क्रिया विना भूरिणो भवति ॥ द्रव्यादपृथग्भूतो भवति गुणो नियमनिर्विकल्पवान् । सत्ताऽऽख्यार्थोऽव्यभिचारिभावाद्द्विविधाय त्रेधा ॥ नित्यं क्रियानुमेया व्यभिचारेण भवति भावार्थ । साऽऽख्याता द्वेधा सकर्मिकाऽकर्मिका चेति ॥ निर्गुणितेऽगुणेष्वपि बहुषु द्रव्येषु चिन्नगानेषु । एकाकारा बुद्धिर्भवति यत सा भवेज्जाति ॥” इत्येवं शब्दविभाग । एष एवालंकारिकाणामभिगतो जातिगुण- क्रियाद्रव्याणामुल्लेखद्वारेण निबन्धनात् । शब्दोऽर्थो रसश्च गुम्फः । शब्दो वाच्य , लाक्षणिकव्यङ्ग्यानां प्रागुपस्थानात्; अर्थो वाच्य , लक्ष्यव्यङ्ग्य- तात्पर्यार्थ्या प्रागवगमनात्, गुम्फानुगुण्य इति व्यपदिश्यते । रसस्तु सर्ववादि- नामादारास्पदं मुख्य एव । रसादिशब्दस्य रसादिप्रत्यायने संकेताभावानाभिधा- व्यापार प्रभवति । अत एवाभिधेयेन अविनाभूतस्य प्रतीतिराहित्यलक्षणापि नाक्रमते । वनिधापूर्वको हि लक्षणाव्यापार इति । अतएव च "साक्षात्सङ्केत- विषयो मुख्य ॥ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौण । मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्य ॥” इति सूत्र्यते । अथ तात्पर्याख्या वृत्तिरपि संसर्गमात्रे विरतव्यापारा । इत्थगत्या अभिधादिपथातिशायिनी तुरीया व्यञ्जनावृत्तौ रसादिवोधने स्फोटायनगतानुसारिभिरलंकारिकैरूरीकृता । यद्यपि रसो न केनापि निह्नोतुं पार्यते तथापि तस्य बोधनव्यापारे वैमत्याद् विकल्पाः । व्यञ्जनावृत्तिप्रतिपाद्यो व्यङ्ग्यो हि वस्त्वलंकाररसादिलक्षणः, स तावत्प्रतीयमान एव (छा० २३८ पृ० ) । अन्येनाप्यन्ववाचि—'मुख्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्गो ध्वनिः ।' ध्वनति, ध्वन्यते, ध्वननं चेति यथायोगमवधातव्यम् । अस्य व्यतिरेकविधा, यथा खलु ध्वनिकारेण अङ्कुरिता, आलोककारेण पल्लविता; लोचनकारेण पुष्पिता, तथैव प्रकाशकारेण फलिता, नान्येन केनापि कोऽपि विशेषोऽद्यावधि वस्तुतोऽत्र प्रकाशि ॥ अथ प्रतीयमानो व्यङ्ग्यो ध्वनिरित्यपि रसादिवेदनभङ्गिमाप्रम्, न प्रत्येक- मर्थान्तरम् । यथा खलु व्यवहारभूमौ वाच्यास्तात्पर्यार्थो लक्ष्यौ वेति । 'विभावानु- भावव्यभिचारिसंयोगाद् रसनिष्पत्तिः' (छा० ७२ पृ०) इति सर्ववादिसम्मता भारतीया रसनीवी । एतदुक्तं भवति—कारणादीना विभावनाव्यापारवत्त्वाद् विभावादिपदाभिधाने दृष्टान्तमर्यादया विभावादिविभागलाभ । संयोगादिति सौत्र- पञ्चम्या विभावानुभावव्यभिचारिण. समूहलम्वनतया रसं प्रति हेतुता प्रतिपन्नाः । तत्र शब्दोपहितरुपाणा विभावादीना व्यापाराद् उत्पाद्योत्पादक-गम्यगमक-पोष्य- पोषक-व्यङ्ग्यव्यञ्जकरूपा भावा वादिमिरादृता. । रसबोधने निरूपितदृशा अभि- धातात्पर्ये निरस्ते अपि पुनर्मोमासकमतेन लोल्लटादिभिरुत्प्रेक्ष्यमाणोऽभिधाया दीर्घदीर्घतरो व्यापारो रसस्यानुकार्यगतत्वं च निरस्यते (सा. द. ८९ पृ० २५३ पृ०) “भट्टलोल्लटादयस्तु—रसस्य व्यङ्ग्यत्वमेवाङ्गीकुर्वन्ति” इति विवृतिम्रन्थस्तू- पेक्ष्यः ( ८० पृ० ) एव संयोगादिति बुद्धो रसस्य विभावादेश्च उ. । ०५क मुद्दूर निरस्तो मन्तव्य. । लक्षणापि निरस्तैव, यत्पुनस्तार्किकंमन्यैः र्था रा महिमभट्टप्रभृतिभी रसोऽनुमाप्य इत्यास्थीयते, तदपि तस्यानुकर्तृगतत्वेन
स्यात्काव्यगत्वं, न रूपिता ॥ शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥ द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगी- र्भवेत् । अभिधा भावता चान्या तद्भोगीकृतितरेव च ॥ अभिधाधामता याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ॥ तद्भोगीकृत- रूपेण व्याप्यते सिद्धिमान्नरः । दृश्यमानाधया मोक्षे यात्यक्लमियं स्फुटम् ॥” इति । तदित्थमन्यथान्या प्रतीयामानो नीत इत्यपि द्रष्टव्यम् । इति शब्दा- र्थीयम् ॥ अथ श्रव्यदृश्यीयस्य शब्दार्थीयस्य च विभावनातू व्याकरणनिशायीवार्थ- वाचकत्वाश्रयणान्मीमांसादिसमयातिक्रान्तस्फोटवादान्युपगमान्न्यायादिविस्वादि- व्यञ्जनारोहणाच्च साहित्यमलंकारशास्त्रं काव्यानुशासनं न कस्याप्यनुयायि पुच्छमङ्गं वा भवितुमर्हति, किंतु— 'प्रसत्तेर्यः पात्रं, तिलकमति' यं सूकरचना, य आद्यः साधूनां श्रुतिचुलुकलेह्येन मधुना । यदात्मानो विद्याः, परिणमति यश्चार्थवपुषा, स गुम्फो वाणीनां कविवृषनिषेव्यो विजयते ॥' इत्येवमादिनिरूपितलिङ्गबलेन प्रधानमङ्गीति सिध्यति । अत एव नयाप्यवोचि— ‘शब्दार्थयोरुक्तिविशेषसत्त्वे लक्ष्येषु काव्यव्यवहारयोगात् । न्यायादिवद् दर्शनकोटिमाप्तं साहित्यमङ्गीति वदन्ति विज्ञाः ॥ साहित्यस्य भामहालङ्कारादयः कतिपये प्रबन्धाः प्रागुक्ताः, (भू० ४४ पृ०) टीकाप्रबन्धा मम्मटसमयदर्शने निर्दिष्टाः, अन्येऽपि यत्र तत्र प्रसङ्गादुपात्ताः । केचिदिह लक्ष्यभूता निरूप्यन्ते— तत्र ध्वनिग्रन्थाः । (१) ध्वनिकारिका । (२) आलोकः । (३) लोचनम् । (४) हृदयदर्पणः । (५) व्यक्तिविवेकः । एते पञ्चापि कश्मीरजन्मानोऽत्यन्तप्रौढाः । वृत्तिप्रकरणानि । (१) कश्मीरवास्तव्यस्य भट्टकल्लटसूनोर्मुकुलस्य अभिधावृत्तमातृका । (२) सुप्रसिद्धराजानक—मम्मटस्य शब्दव्यापारविचारः । (३) दाक्षिणात्यस्य अप्पय्यदीक्षितस्य वृत्तिवार्तिकम् । अस्यैव शिष्यः प्रतीहारेन्दुराज उद्भटालंकारवृत्तिकर्त्ता, य आत्मानं कौङ्कणं िन ल.
अलंकारग्रन्थाः । (१) काश्मीरकस्य राजानक—रुय्य(य)कस्य अलंकारसर्वस्वम् । (२) काश्मी- रकस्य राजानक—जेयरथस्य अलंकारविमर्शिनी । (३) काश्मीरकस्य भट्टशोभाकर- मित्रस्य अलंकाररत्नाकरः । (४) दाक्षिणात्यस्य अप्पय्यदीक्षितस्य चित्रमीमांसा । (५) दाक्षिणात्यस्य पण्डितराज—जगन्नाथस्य चित्रमीमांसाखण्डनम् । नायिकारसप्रकरणानि । (१) रुद्रटस्य शृङ्गारतिलकम् । मैथिलस्य भानुदत्तमिश्रस्य (२-३) रसमञ्जरी- रसतरङ्गिण्यौ । (४) शिवरामत्रिपाठिनो रसरत्नहारः । कतिपयविचारप्रकरणानि । (१) काश्मीरकस्य राजानक—रुय्यकस्य सहृदयलीला । (२-४) काश्मीरक- स्य व्यासदासापरनाम्नः क्षेमेन्द्रस्य कविकण्ठाभरणसुवृत्ततिलकाौचित्यविचारचर्चाः । (५) राजशेखरस्य काव्यमीमांसा । (६) जैनयोररिसिंहामरचन्द्रयोः काव्यकल्प- लतावॄत्ती । (७) देवेश्वरस्य कविकल्पलता । (८) पर्वतीयस्य विश्वेश्वरपण्डिते- न्द्रस्य कवीन्द्रकर्णाभरणम् । साहित्यग्रन्थाः । (१) धारापतेर्भोजदेवस्य सरस्वतीकण्ठाभरणम् । (२) महामाहेश्वरस्य एकावलीशास्त्रम् । (३) दाक्षिणात्यस्य विद्यानाथस्य प्रतापरुद्रीयम् । (४) केशव- १. अस्यैव महापण्डितस्य शिष्यो राजानक-मङ्खक-महाकविर्विलेतेन कृतस्य श्रीकण्ठचरितस्य पञ्चविंशतित्तमां व्यक्तम्. २. अयमेव जयरथ आचार्याभि- नवगुप्तकृतस्य श्रीतन्त्रालोकमहार्णवस्य कर्णधारो जज्ञे. ३. अयं महानुभावो वेदान्त- कल्पतरु-परिमलादिकर्त्ता । उक्तं चानेन-‘कणभक्षपक्षक्षपकक्षपरिकरणक्षणक्षतत्रादक्ष- गिरम् । अनिकेशतर्कशतधुक्षिताक्षिपतङ्गपक्ष्मनक्षमपदम् ॥ कपिलोक्तिनिराकरणप्रवण- कृतपन्नगदूक्तिपरिष्करणम् । नयमौक्तिकभूषितभट्टमतं विमलाशयचित्तुखमधिशियम् ॥ महतामपि मान्यतमं विदुषां विनिवेश्य गुरुं (श्रीरङ्गराजदीक्षितं) हृदि वैश्वजितम् । नयसंहतिशालिनि कल्पतरौ विवृतश्चरणः प्रथमः प्रथितः ॥' इत्यादि. ४. अनेनैव सिद्धान्तकौमुदीव्याख्यायाः प्रौढमनोरमायाः खण्डनरूपं मनोरमाकुचमर्दनं निरमायि । उक्तं च तदारम्भे—'लक्ष्मीकान्तपदाम्भोजनाम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः स्तौति गर्वं गुरुद्रुहा (भट्टोजिदीक्षितानाम् )' इत्यादि. ५. काव्यकल्पलता-कविकल्पलते श्लोकरचनाप्रकारदर्शिके. ६. कवीन्द्रकर्णाभरणं बौद्धस्य धर्मदासस्य विदग्धमुखमण्डन- मप्यतिशेते. ७. अस्यैकावलीनाम्नोऽलंकारशास्त्रस्योपरि सुप्रतिष्ठाना कोलाचलमल्लिनाथ- सूरीणां तरलाख्या व्याख्या वर्त्तते । अत्रोदाहरणनायकः कलिङ्गेश्वरो नृसिंहभूपः । नृसिंहवर्णनश्लोका अत्रत्याश्चित्रमीमांसायामुदाहृताः. ८. कोलाचलमल्लिनाथसूरिसूनुना कुमारस्वामिनामोपाधिना कृता प्रतापरुद्रीयस्य रत्नापणाख्या व्याख्या । अत्रोदाहरणनायकः काकतीयकुलोत्तंसो रुद्रभूपालः प्रसिद्धः.
५८ साहित्यदर्पणे मिश्रस्य अलंकारशेखरः । (५) जैनस्य आचार्यहेमचन्द्रस्य स्वोपज्ञालंकार- चूडामणिवृत्तिसहितं काव्यानुशासनम् । (६) जैनस्य वाग्भटस्य काव्यानु- शासनम् । (७) जैनस्य वाग्भटस्य वाग्भटालंकारः । (८) दाक्षिणात्यस्य अच्युतरायस्य स्वोपज्ञसरसामोदसहितः साहित्यसारः । (९) दाक्षिणात्यस्य कृष्णकवेर्मन्दारमरन्दः । रूपकप्रकरणानि । धनंजयस्य दशरूपकं धनिककृतालोकसञ्चलितम् । भारतीयस्य नाट्यशास्त्रस्य अष्टादश एकोनविंशो विंशश्चतुस्त्रिंशश्चाध्यायाः । अनेके रूपकग्रन्थाः सर्वतन्त्र- स्वतन्त्रस्य राघवभट्टपादस्य अभिज्ञानशाकुन्तलार्थद्योतनिकातोऽवधेया इति । अथ प्रसङ्गात्साहित्यस्य लक्ष्यभूताः प्राच्योदीच्यप्रतीच्यदाक्षिणात्याः कतिपये कविकर्मणः श्रव्यदृश्यग्रन्था निरूप्यन्ते— तत्र काव्यग्रन्थाः । (१-३) कालिदासस्य रघुवंश-कुमारसंभव-मेघदूतानि । (४) छत्र-भारवेः किरातार्जुनीयम् । (५) घण्टा-माघस्य शिशुपालवधम् । (६) श्रीहर्षस्य नैषधीयचरितम् । (काव्यशास्त्रम्) (७) काश्मीरिकस्य तालरत्नाकरस्य हरवि- जयम् । (८) काश्मीरिकस्य विह्लणस्य विक्रमाङ्कदेवचरितम् । (९) काश्मीरिकस्य जगद्धरस्य स्तुतिकुसुमाञ्जलिः । (१०) शालिवाहनस्य गाथासप्तशती (गाहा- सत्तसई) । (११) प्रवरसेनस्य सेतुबन्धम् (दसमुहवहो) । (१२) वाक्पति- १. काव्यानुशासनं काव्यप्रकाशानुसारि । वाग्भटीयं काव्यानुशासनं तु प्राचीन- शैलिकम्. २. एते हालसाहिबै. समुद्विते दशरूपकपुस्तके संक्षेपिताः. ३. दक्षिणा- पथे गोदावरीतीरे कुन्तलेषु प्रतिष्ठानं नाम नगरमासीत् । यत्स्वामी हालसात- वाहनादिनामा शकप्रवर्तकः शालिवाहनः । येन च गाथासप्तशती सङ्कलिता । इयं बाणस्य हर्षचरिते कोषतया नुता । गोवर्धनाचार्यस्य आर्यासप्तशत्या-'वाणी प्राकृतसमुचितरसा बलेनैव सङ्कनं नीता । निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम्॥' इत्येव स्मृता । सरस्वतीकण्ठाभरणे तु द्वितीयपरिच्छेदे 'केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः । काले श्रीसाहसाङ्कस्य के न संस्कृतभाषिण ॥' इत्युक्तम् । तत्र आढ्यराजः शालिवाहनः; साहसाङ्को विक्रमादित्य इति तट्टीकाकृतो रत्नेश्वरमिश्राः । शालिवाहनस्यैव सभायां भूतभाषामयबृहत्कथानिर्मातृ-गुणाढ्य-कालापव्याकरणकर्तृ- शर्ववर्मप्रभृतयो महाविद्वास आसन् । अतः शकप्रवृत्तेरानन्तकाले गाथासप्तशती- सङ्कलनकालो भवितुमर्हतीति दिक्. ४. राजतरङ्गिणीगणनया एकः प्रवरसेनः ३१८४ कलिगतेऽभूत् । अस्यैव पौत्रो द्वितीयः प्रवरसेनः । एतत्समये उज्जयिन्यां ० ना विक्रमादित्योऽप्यभूत् । उक्तप्रवरसेनयोरन्यतरेण सेतुबन्धापरनामधेयं ० प्रणीतं स्यात् । अकबरजलालदीन्द्र (अबुलमुजप्फरजलालुद्दीनमहम्मद ) सचिवो रामदासभापतिस्तत्कृतसेतुबन्धटीकाप्रारम्भे-'महाराजप्रवरसेननिमित्तं
देवस्य गउडोवहो (गौढवधम्) । आख्यानग्रन्थाः । (१) दण्डिनो दशकुमारचरितम् । (२) सुबन्धोर्वासवदत्ता । (३-४) बाणभट्टस्य हर्षचरित-कादम्बर्यौ । (५) विष्णुशर्मणः पञ्चतन्त्रम् । (६) नारा- यणस्य हितोपदेशः । चम्पूग्रन्थाः । (१) यमुनात्रिविक्रमस्य दमयन्तीकथा । (२) भोजदेवस्य रामायणचम्पूः । (३) अनन्तस्य भारतचम्पूः । नाटकग्रन्थाः । (१-३) कालिदासस्य अभिज्ञानशाकुन्तल-विक्रमोर्वशीय-मालविकाग्नि- मित्राणि । (४-६) श्रीहर्षस्य रत्नावली-प्रियदर्शिका-नागानन्दानि । (७-९) भवभूतेर्महावीरचरित-मालतीमाधवोत्तररामचरितानि । (१०-१२) राजशेखरस्य बालरामायण-विद्धशालभञ्जिका-कर्पूरमञ्जर्यः । (१३) भट्टनारायणस्य वेणीसंहारम् । (१४) मुरारेरनर्घराघवम् । (१५) विशाखदत्तस्य मुद्राराक्षसम् । (१६) श्रीकृष्ण- मिश्रस्य प्रबोधचन्द्रोदयम् । एतेष्वनेकान्काव्यसाहित्यग्रन्थान्काव्यमालामुपन्नादुद्धरद्भिरस्मत्तातपादानां सुहृ- द्भिर्महामहोपाध्यायश्रीदुर्गाप्रसादपण्डितरत्नैः काव्यसंसारः साधूपकृत इति ॥ ५। साहित्यदर्पणस्य च किमितिवृत्तम्? अयं दर्पणो यावदुपयुक्तकाव्यशिक्षा- धायकत्वात् साहित्यशास्त्रमिति व्यपदिश्यताम् । यदयं न सरस्वतीकण्ठाभरणवद् ध्वनतिप्रयोजनीयविषयविस्तीर्णो नवीनविचारविकलश्च, न काव्यप्रदीपवद् रूपक- प्रकरणरहितोऽतिस्थगितप्रमेयश्च, न साहित्यसारवद् विषयसकलनैकतात्पर्यो दुरूहवचनश्च । एकदेशीर्यैः सह तु तुलनावकाश एवास्य नास्ति । सोऽयं कारिका- वृत्त्युदाहृतिभिस्त्रिधा विभज्यते । तत्र कारिका वृत्तयश्च स्वकीया एव, उदाहृतयस्तु क्वचिदेव स्वकीयाः । प्रमेयाणामुपपादनशैली प्रायेण सर्वत्र प्राञ्जलैव, यत्र क्वापि महाराजाधिराजविक्रमादित्येनाज्ञप्तः कालिदासशहाशयः सेतुबन्धं चिकीर्षुः' इत्यनेन कालिदासस्यैव सेतुबन्धकर्तृत्वं व्यलिखत् । तत्र तादृशसम्बन्धदर्शने मूलं मृग्यम् । विक्रमकालिदासयोः सम्बन्धस्तु न विरुद्ध्यते तयोरनेकत्वात् । वाकाटकवंशे गृहीतजन्मनोः ख्रिस्ताब्दस्य चतुर्थ-पञ्चमशतकयोर्वर्तमानयोः प्रवरसेनभूपुत्रोः सेतुबन्धकर्तृत्वं तु दण्डिनः स्थितिकालासन्ने पतति । यतो दण्डी काव्यादर्शे सेतुबन्धं स्मरतीति दिक्. १. गौडवधे का(क)न्यकुब्जाधिपतेर्यशोवर्मणो महिना लाश्चर्यकर्म सङ्ख्या वाक्पतिराजे- नावणि अत्र १२०९ गाथाः । रामाभ्युदयादिनाटकचयिता अयमेव यशोवर्मा काश्मीराधिपतिना ललितादित्येन पराजितः । 'कविर्वाक्पतिराजश्रीभव- भूत्यादिसेवितः । जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥' इति राजतरङ्गिणी ४।१४४) । अस्य समयः ख्रिस्ताब्दीयसप्तमशतकोत्तरार्धम्.
६० | साहित्यदर्पणे
गहना सा तावद् विषयस्वभावात्समुद्भूता । शास्त्रकारेण तु सुखावबोधायैव यतितम् । उक्तं च चरमे—'साहित्यदर्पणममूं सुधियो विलोक्य साहित्यतत्त्व- मखिलं सुखमेव वित्त ॥' इति ॥ यत्त्वत्र कुत्रचिच्छृङ्गारतरङ्गितः प्रस्तावः स चापरिहार्यतया नैतस्य दूषणाय प्रभवति । इति दोषमाशङ्क्यैव काव्यालंकारे रुद्रटेनाभ्यधायि— 'नहि कविना परदारा एष्टव्या नापि चोपदेष्टव्या । कर्तव्यतान्येषां न च तदुपायोऽभिधातव्यः ॥ किं तु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति । आराधयितुं विदुषस्तेन न दोषः कवेरत्र ॥' किं बहुक्त्या, अङ्गिने कामसूत्रेऽप्येवमभिहितम्—'धर्ममर्थं च कामं च' इति ( श्लो. ११९ पृ० ) । साहित्यदर्पणकारो विश्वनाथः । अयं दर्पणस्य चतुर्थे परिच्छेदे ( २४४ पृ. ) अलाउद्दीनं स्मरति । 'यः कौमारहर -' इति काव्यप्रकाशोदा- हरणविचारे ग-संज्ञकपुस्तकपाठे ( सा. द. १७ पृ० ) जयन्तं स्मरति । काव्य- प्रकाशस्य दर्पणव्याख्याने 'यदाहु श्रीकलिङ्गभूमण्डलाखण्डलमहाराजाधिराज- श्रीनरसिंहदेवसभायां धर्मदत्तं स्थगयन्त सकलसहृदयगोष्ठीगरिष्ठकविपण्डिता- न्प्रपितामहश्रीमन्नारायणदासपादा' इत्युद्धरति । तत्र अलाउद्दीनः ( अलाउद्दीन मसूऊद ) दिल्लीपरिवृढ., यः खीस्ताब्दे १२४६ मारितः । जयन्तः काव्यप्रकाशस्य दीपिकाव्याख्यान्ते संवत् १३५० अर्थात् खिस्ताब्द १३५०- ५७=१२९३ विलिखति । एवमेताभ्यामवस्तनो दर्पणकारो विश्वनाथः खिस्ता- ब्दीयचतुर्दशशतकस्य पूर्वभागेऽवश्यं भवितुमर्हति । यस्मादयं कलिङ्गेश्वरस्य नर- सिंहदेवस्य सभायां स्वपितामहं नारायणं निर्दिशति । स च नरसिंहदेव 'अस्ति सप्तदशोनद्वादशशतसंवत्सरे ( १२१७) चतुर्दशभुवनावित्यादिविरुदावलीवि- राजमानः श्रीवीरनरसिंहदेवमहीपतिः स्वराज्यसैकत्रिंशत्तमेऽभिलिख्यमाने सिंह- शुक्लपक्ष्या सोमवारे' इत्यैतिहासिकफलिकया खिस्ताब्दे ११६० सिध्यति । यद्यपि १२९३-११६०=१३३ उक्तखिस्ताब्दयोरन्तरं पुरुषत्रयपर्याप्ते किञ्चिदधिकं प्रतीयते तथापि दर्पणे ( ७८ पृ ) नारायणस्य वृद्धप्रपितामहत्वेन लेखात्तत्सम- ञ्जसम् । प्रकाशदर्पणे नारायणस्य अन्ते दास-दर्शनात्, साहित्यदर्पणे तददर्शनाद् व्यक्तिभेदस्तु नाशङ्क्यः । विश्वनाथात्मजस्य अनन्तदासनाम्नो- ऽप्युल्लेखः विश्वनाथपितामहसूनुस्य चण्डीदासस्यापि तथानामनिर्देशाच्च ( सा. . ४८६ पृ०) । दर्पणे विश्वनाथपित्रा चन्द्रशेखरेण वर्णितानुभावातु- रिति नरसिंहमहीपतेरैश्वर्यानिवर्णनं ज्ञायते ( सा. द० ६३ ) । १. नरसिंहनाम्ना प्रसिद्धा बहवः श्रेष्ठाः । नरसिंह इत्युपद्रवितेनापि वर्द्धते गङ्गानरसिंहदेवेत्याद्यन्वयात्.
भूमिका । ६१ विश्वनाथस्य नाम सान्धिविग्रहिक-महापात्र-कविराजेत्युपाधिभिर्घटितं दृश्यते । तत्र सान्धिविग्रहिक इति राज्याधिकारविशेष । तदानीं विद्याप्रणयिनां कलिङ्ग- पार्थिवानां राज्याधिकारे विश्वनाथस्य पूर्वपुरुषास्तदनुबन्धिनः श्रीधर-राघ- वानन्द-कृष्णानन्दप्रभृतयश्चासन् । अत एतन्नामापि सान्धिविग्रहिक-महापात्र- विशेषणाभ्यां भूषितम् । अत्र श्रीधर-राघवानन्दौ काव्यप्रकाशस्य टीका- कृतावपि । कृष्णानन्दस्तु वैदर्भीरीतिप्रधानस्य सहृदयानन्दाख्यस्य नलचरित- महाकाव्यस्य रचयिता । राघवानन्दनाम दर्पणस्य प्रथमपरिच्छेदे; सहृदयानन्दस्य 'सूचीमुखेन-'इति पद्यं सप्तमपरिच्छेदे वर्तते । सान्धिविग्रहिक इति संधिविग्रहा- द्विष्टन् । 'तत्र नियुक्त-' (पा० सू० ४।४।६९) इति ठक् । एषा उपाधी राजतरङ्गिण्यादौ सुप्रसिद्धः । महापात्रो ब्राह्मणविशेष इति केचित्, सङ्केत्यपरे । ननु महामात्र इति सम्भावनीयम् । कविराज इति महाकविसमानार्थकम् । नतु सद्य (सद्योध्या) प्रान्तीयप्रधानहिंदीभाषायां 'भाट' इति प्रसिद्धब्राह्मणजातेर्- व्यञ्जकम् । श्रीनारायणचरणारविन्देत्यादि तु ह्यास्तिकादिप्रदर्शनाथम् । काव्यप्रकाशदर्पणे तु '...सङ्गीतविद्याविद्याधर कलाविदामलतीमधुकर-विविध- विद्यार्णवकर्णधार...'इति विश्वनाथस्य त्रीणि विशेषणान्यधिकानि । वस्तुतोऽयं महाकुलप्रसूतो बहुज्ञः सहृदयश्चेति । एतत्प्रणीतग्रन्थास्त्वेते ज्ञायन्ते—(१) राघवविलास महाकाव्यम् (२) कुवलयाश्वचरितप्राकृतमहाकाव्यम् (३) चन्द्रकला नाटिका (४) प्रभावती नाटिका (५) षोडशभाषामयी प्रशस्तिरत्नावली (एतेषां निर्माणोत्तरं) (६) साहित्यदर्पण (७) नरसिंहविजयम् (८) काव्यप्रकाशदर्पण. । एतत्पितुश्चन्द्रशेखरस्य पुष्पमाला नाटिका, भाषार्णव इति ग्रन्थद्वयी दर्पणेतो ज्ञायते । तत्र— 'भाषामध्यमपात्राणां नाटकोक्तौ विशेषतः । महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥ हीनेष्वपि विभाषा स्यात्सा च सप्तविधा स्मृता । प्राच्यावन्ती मागधी च शाकारी च तथापरा ॥ चण्डाली शाबरी चापि तथाऽऽभीरीति भेदतः ।' इत्युक्तस्य अनन्तदासस्य रीत्या भाषादर्पणनामकग्रन्थे । प्रशस्ति- रत्नावल्याः षोडशभाषाप्रकाराणाम् उक्तत्वाद् इति मूलग्रन्थेऽभिप्रायः । विश्वनाथपूर्वपुरुषाणां कविराजसम्बन्धः स्पष्ट एव । यिच । "कुरङ्गचिह्नं" इति पद्येनोर्वशीवेधे इति ग्रन्थद्वयरचयितुरनन्तदासस्य काव्यदर्पणे 'वैदर्भीयं रुचि'युक्तं इति पाठः । अत्र विन्दु-पदं चन्द्रशेखरस्यात्मजत्वेनैवापवरितम्, स्वसन्तानपरतया 'कुवलयाश्वदलं' इत्यादि इति नैषधम् उपश्लोकेनिसंस्मृत्य पद्यं स्मरतः । आत्मेव वैदग्ध्यमधिकन्तु विश्वनाथस्येत्याशयेनकाव्यदर्पणे कृतोऽयं द्र० सं० ६
७० साहित्यदर्पणे 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कु- वेतालभट्ट-घटखर्पर-कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' इत्येवमादिश्लोकाः परीक्षापेक्षा । अत्रेयं भ्रान्तिदिक्—वराहमिहिरो हि 'सप्ताश्विवेदसङ्ख्य शककाल-(४२७)' इति स्वसमयं निर्दिदेश । तेन गमयो व्यभिचरितो द्रष्टव्य । कालकलनानादरे तु— 'भासो रामिल-सोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- र्माघो भारवि-कालिदास-तरलाः स्कन्धः सुबन्धुश्च यः। दण्डी वाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥' इत्येवमादिश्लोका अदुष्टा इत्यलम् । दण्डी । अयमाचार्यदण्डी कवि कुत्र कदा बभूवेति विज्ञानं दु शकम् । दण्डीति नाम्ना चतुर्थ्याश्रमिनमेन मन्यन्ते कतिपये । कतिपये पुनः काव्यादर्श वैदर्भीरीतेर्भृशं प्राशस्त्याद् विदर्भजनपदस्थं दाक्षिणात्य कीर्तयन्ते । अथ— 'त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥' इति सूक्तिमुक्तावल्यां धृत-राजशेखरमहाकविलोकाद्दण्डिनो ग्रन्थत्रयकर्तृत्वं सुव्यक्तम् । तत्र काव्यादर्श-दशकुमारचरिते तावदतिरोहिते । तृतीयो ग्रन्थः क इति गवेषणायाम्—‘छन्दोविचित्या सकलस्तत्प्रपञ्चो निरूपित' इति काव्यादर्शवचनात्, ‘छन्दोविचितिरिव मालिनीसनाथा' इति सौबन्धवीयवासवदत्ताश्लेषेण 'छन्दो- विचितिग्रन्थविशेष' इति त्रिपाठीशिवरामप्रणीतया टीकया च छन्दोविचितिरेव द्वैवेति । केचित्पुनश्छन्दोविचितिशब्दं यौगिकं मन्यन्ते । तथाच विचितिः प्रसार इति मन्यते । अन्ये तु तृतीयं ग्रन्थं कलापरिच्छेदं कल्पयन्ते । मल्लिकामारुतनिर्माणं तु दण्डिनो न तु दण्ड्येति । दण्डिनः समयस्तु प्रवरसेनादवस्ताद् रुद्रटाच्च सूच्यते ॥ धनिकः । ... दशरूपावलोकस्यापि रचयिता, दशरूपस्य तु विष्णुतनुजन्मना धनञ्ज- येन कृतत्वादिति तदुभयकर्तृकत्वाद् ग्रन्थयोः । अतएव — ... ... । ... राजदेवो ... ... । हम्मीर... मु १२९७ ... ... ।
विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः । आविष्कृतं मुञ्जमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥' इत्यनेनात्मानं वाक्पतिराजदेवापरनाम्नो मुञ्जभूमृतः सभानानाख्यत् । न च ऽयं ९९४ ख्रिस्ताब्दे आसीदिति सुभाषितावलिदोहतो ज्ञायते । अयमेव कालो धनिकस्यापि भवितुं युक्तः । धनिकेन काव्यनिर्णयोऽपि निरमायीति दशरूपालो- क्तो व्यज्यम् ॥ नखकुट्टः । कोऽयं कश्चैतन्निर्मितो निबन्ध इति नाद्यावधि ज्ञायते । एतन्मतं तु दर्पणस्य षष्ठपरिच्छेदे 'नेपथ्योक्तं श्रुतं तत्र' इत्याद्युक्तम् ॥ पुरुषोत्तमः । द्वौ पुरुषोत्तमौ ज्ञायेते । एकस्त्रिकाण्डशेषकर्ता, अन्यो विष्णुभक्तिरत्नप- ङ्कारचायता । तत्राद्यस्य त्रिकाण्डशेषसमाप्तौ पुरुषोत्तमदेव इति नाम, द्वितीयस्य तु पुरुषोत्तम इति । परन्त्वाद्यस्यापि पद्यरचनायां पुरुषोत्तम इत्येव नामधेयं दृश्यते । तथाहि त्रिकाण्डशेषप्रारम्भे 'एष प्रयत्नः पुरुषोत्तमस्य' इति । हारावलीप्रारम्भे 'हारावली विरचिता पुरुषोत्तमेन' इति च । अतो द्वयोरैक्यता सम्भवति । यद्यप्येतद् दर्पणस्य नवमपरिच्छेदे 'पुरुषोत्तमस्त्वाह' इत्यादिना रसगङ्गाधरे ईश्वरपथापरनाम्नः कस्याञ्चदस्य दाम्पत्यमन्त्रग्रन्थस्य पुरुषोत्तमनाम्ना ग्रन्थकृत ऐतिह्यविज्ञानानुसारेण नि- ष्पादनीयाः ॥ भरतः । एतदुपज्ञमेव नाट्यशास्त्रं लोके प्रसिद्धम् । एतस्य द्वित्रिचुलुकं वृत्तिकारैर्भट्टा- याभिहितम् । एतदादिभरतनामकमपि नाट्यशास्त्रमभिनवगुप्ताद्युल्लेखितैः श्लोकेभ्यो ज्ञायते । तत्र भरतः, आदिभरत इति द्वेधा भेदो बहुश्रुतैर्गृह्यते । भरतस्य सादिशरा पश्चाद्वर्ती भवेत् । यतश्च हरिवंशग्रन्थादौ महानाटका- वगतास्तथाऽपि दृश्यन्ते । भरतप्रणीतस्य नाट्यशास्त्रस्योपरि अभिनव- भारतीति व्याख्यानग्रन्थ एवाभिनवगुप्ताचार्येण विरचितः ॥ भर्तृहरिः । भर्तृहरिहरि-शतकत्रयप्रणेता एव ज्ञेयो महाभाष्यप्रदीप (वाक्यपदीय)- स्यापि सुप्रसिद्धत्वान्नानुसन्धेय इति तु केचिदाहुः । तथापि प्राच्यैरित्थमेव प्र- पन्नं दृश्यते । तन्मतेऽपि प्रतिभासमानः पक्षो न सङ्गतः । यन्महाभाष्यप्रदीप- पदीययोर्भेदोऽपि प्रतिभासते बहुभिर्हेतुभिर्विकसितत्वात्, पूर्वग्रन्थेऽपि प्राची- नैरेवं दर्शितत्वात्, ग्रन्थादिदर्शनेऽपि - वाक्यपदीयनिबन्धने ... भर्तृहरि- राजस्य । महाभाष्यटीकायां भर्तृहरिप्रणीतायां पदप्रत्यये .... इत्याद्यभिनवे- न विरचितेऽपि नाट्यशास्त्रटीकायाम् । वाक्यपदीयग्रन्थे महाभाष्ये टीकायां च दृश्य- न्त्येव । 'विद्युद्विलास-' (२।१०८) इत्यादिश्लोकस्तु महाभारतान्तः-
व्याख्यातारं। तत्र हेतवश्च हन्त गवेषणीयाः । ज्ञातहानि तु सपरपयोपहिनि- नीति ग्रन्थान्तरमद्याः सेठगन्धने । दुःशीलिगानमानेन भर्तृहरिणा राज्यलक्ष्मीं वहाय वैराग्यमाश्रितमिति निगद्य प्रसिद्ध । तत्र—"यां चिन्तयामि मयि सा विरक्ता, सा चान्यमिच्छति जन, स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च, तं च मदनं च, इमां च, मां च॥" इति तदीय पद्य चित्रम् । वृद्ध-राजो गङ्गाम्, गङ्गा तुरङ्गाले, तुरङ्गालस्य अन्यताऽनु- गमयनीति किंवदन्ती । अयमेव भर्तृहरिर्हरिहरेशाव्यायविरचितस्य भर्तृहरिनिर्वेद- स्यनाटकस्य कथानयको विभाव्यते । तत्र राज्ञो भानुमती विशुद्धचरितैव, नवरु किंवदन्तीगन्धोऽपि । राज्ञो योगि-गोरक्षतो दीक्षाग्रहण चेति दिक् ॥ भोजदेवः । सरस्वतीकण्ठाभरणादिनानाविधसदर्भ रचयिता कृतिशकुन्त कल्पतरुर्धारानगर्या नाथो भूपालरत्न भोजदेवो विक्रमार्कसंवत् १००८ आसीत्, तदेतदधो निर्दिष्टेनन दानपत्राद्व्यक्तम् । रुद्रटस्य काव्यालङ्कारान्परस्मिन् मम्मटस्य काव्यप्रकाशात् पूर्वस्मिन् काले सरस्व- तीकण्ठाभरणमालङ्कारिकाणा वस्तुत कण्ठाभरणमेवाभूत् । तत एवास्य बहवो विषया उदाहृतयश्चालङ्कारग्रन्थेषुदृशा लभ्यन्ते । अस्य च पञ्च परिच्छेदा । तत्र प्रथमे परिच्छेदे विस्तरतो दोषगुणविवेचनम् । द्वितीये बाह्यसञ्ज्ञा शब्दालङ्कारा, तृतीये आभ्यन्तरसञ्ज्ञा अर्थालङ्कारा , चतुर्थे बाह्याभ्यन्तरसञ्ज्ञा उभयालङ्कारा विवे- चिता । पञ्चमे तु प्राचीनरीत्या रसादिश्रित । यद्यप्यत्र मौलिकविषयाणामा- वान्तरभेदा नातिप्रयोजनीयास्तथाप्यनेके पदार्था उदाहरणश्लोकाश्च साहित्यसामा- कालिकविवेकादर्शभूता अवश्यं पर्यालोचनीया । एतत् कण्ठाभरण महाराजश्रीभोजदेवेन अलङ्कारशास्त्र वेन व्यरदिष्टम् । एतस्य प्रारम्भममासौ— “ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् । यस्या सूक्ष्मादिभेदेन वाग्देवी तामुपामहे ॥” ‘यावन्मूर्ध्नि हिमांशुकन्दलधृति स्वर्वाहिनी धूर्जटे- र्यावद्वक्षसि कौस्तुभस्तवकिते लक्ष्मीमुरद्वेषिणः । यावच्चित्तभुवस्त्रिलोकविजयप्रौढं धनुः कौसुमं भूयात्तावदिय कृतिः कृतधिया कर्णावतंसोत्पलम् ॥” इत्येवमुपश्लोकिते । .. तद्दानपत्रस्यापेक्षितोऽशोडयम्— ...... परमभट्टारकमहाराजाधिराजपरमेश्वरश्री-सीयकदेवपादानुध्यातप- रमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यातपरमभट्टारक- धिराजपरमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिरा-
भूमिका । ७३ नपरमेश्वरश्रीभोजदेवः कुशली नागहदपश्चिमपथकान्तःपातीवीराणके समुपगता- न्समस्तराजपुरुषान्ब्राह्मणोत्तरान्प्रतिनिवासिपट्टकिलजनपदादींश्च समादिशति—अस्तु वः संविदितम्, यथा अतीताष्टसप्तत्यधिकसाहस्रिकसंवत्सरे (१०७८) माघासि- ततृतीयायां र्वावुदगयनपर्व्वणि कतिपतरहलाना लेख्ये श्रीमद्धारायामवस्थितैरस्माभिः स्नात्वा चराचरगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य संसारस्यासारतां दृष्ट्वा 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः। प्राणास्तृणाग्रजलविन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ भ्रमत्संसारचक्राग्रधाराधारामिमां श्रियम् । प्राप्य ये न ददुस्तेषां पश्चात्तापः परं फलम् ॥' इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितग्रामः स्वसीमातृणगोचर- यूतिपर्यन्तः सहिरण्यभागभोगः सोपरिकरः सर्वदायसमेतो ब्राह्मणधनपतिभट्टाय भट्टगोविन्दसुताय बह्वृचाश्वलायनशाखाय त्रिप्रवराय वेल्लोवप्रतिबद्धवीदावाडिविनि- र्गतायष्टषट्कर्मरताय मातापित्रोरात्मनश्च पुण्ययशोविवृद्धये अदृष्टफलमङ्गीकृत्य आचन्द्रार्कवर्णवक्षितिसमकालं यावत्परया भक्त्या शासनेनोदकपूर्व्वं प्रतिपादित इति मत्वा यथा दीयमानभोगकरहिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा सर्व्वमस्मै समुपनेतव्यम् । सामान्यं चैतत्फल बुद्ध्वा अस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽय- म्नुमन्तव्यः पालनीयश्च ........ ......... इति कमलदलाम्वुविन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च बुद्ध्वा नहि पुरुषैः परकीर्त्तयो विलोप्याः ॥ इति। संवत् १०७८ चैत्रशुदि १४ स्वयमाज्ञादाते महाश्रीः । स्वहस्तोऽयं श्रीभोजदेवस्य ॥ (इण्डियनएण्टिक्वेरी ६।५३-७४) महिमा । इयानपरस्य धीमद्भिः राजानकमहिमानमपि सोऽन्ववदत् अभिनवगुप्त- पादान् त्रिविधदोषरहितं धर्मवरदहस्तपादं रञ्जयताम् पूर्वोक्तः, अर्थात् तिनके कालान्तरमे काश्मीरमे बभूव । एतेन महामतिना पुरन्दरस्य पण्डितभ्रा- तृस्य (पण्डितोपस्य) शिष्यतेन शिष्याभ्यामन्यो व्यतिरिरी इति वदति । यद्गोवर्धनवल्लभस्तु कवि-पण्डितपुराणनिः श्रीहर्षः खण्डनखण्डखाद्यस्य चतुर्थे परिच्छेदे— 'दोषं व्यतिविभेदेऽमुं शितोऽशदिलोचने । काव्यमीमांसिषु प्राप्तमहिमा महिमाऽऽदृतः ।' इत्यवोचत् । अस्मन्मिश्रदेवैश्चोक्तम्—अयं दशमेऽह्नि विमर्शेऽपि परा मुनिनरोऽतिमुग्धोऽभूत् ऋषि देवेन्द्रपदे संहर्षोत्सुकः । नलिनिन्थ्यादि- १. संवत् नव-पञ्चसप्तत्युत्तरसहस्रसंवत्सरे कार्त्तिके प्रतिपदि...
The provided image is completely blank/empty and contains no text to transcribe.