भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

विषयानुक्रमणिका ४९ विष्णुपरायणानां विष्णुवत् सत्यसुपर्णादिगरुडव्यूहादिलक्षण पूज्यत्वविधानम् ५०५ कथनम् ५७४ पुष्पादीनामाहरणप्रकारकथनम् ५०५ वामनलक्षणकथनम् ५७७ पूजाद्रव्याणां ग्राह्याग्राह्यत्वकथनम् ५०६ पीठलक्षणकथनम् ५७७ चातुर्मास्यव्रतानुष्ठानस्थानकथनम् ५१९ पीठसंख्याकथनम् ५७९ द्वाविंशः परिच्छेदः ५१५-५२५ भूप्रतिग्रहकथनम् ५८३ समयिपुत्रकादिलक्षणम् प्रासादनिर्माणविधानम् ५८४ अधिकारिमुद्राभेदविधिः ५१५ कलशलक्षणकथनम् ५८८ १. सामयिकानां लक्षणकथनम् ५१५ प्रासादलक्षणकथनम् ५९५ २. पुत्रकशिष्यस्य विशेषलक्षण- पञ्चविंशः परिच्छेदः ६०६-६७२ कथनम् ५१९ प्रतिष्ठादिविधिः साधकलक्षणकथनम् ५२० यागशालालक्षणम् ६०६ आचार्यलक्षणकथनम् ५२१ वेदिकालक्षणम् ६०७ त्रयोविंशः परिच्छेदः ५२६-५४१ वेदिकायां मण्डलादिस्थल- विभवदेवतापिण्डमन्त्रोद्धारः विभागक्रमकथनम् ६०८ अधिवासदीक्षाविधिः ५२६ कुण्डाष्टकनिर्माणकथनम् ६०८ किरीटादिलाञ्छनमन्त्रोद्धारः ५३८ त्रयोदशहस्तपरिमितमण्डपादिषु चतुर्विंशः परिच्छेदः ५४२-६०५ कुण्डप्रकारकथनम् ६०९ प्रतिमापीठप्रासादलक्षणम् मण्डपोच्छ्रायकथनम् ६१० मृत्संग्रहणादिप्रकारकथनम् ५४६ स्नानपीठलक्षणकथनम् ६१२ शिलालक्षणकथनम् ५५४ द्वारतोरणलक्षणकथनम् ६१२ दारुग्रहणकथनम् ५५४ विभवाद्यभावे पक्षान्तरकथनम् ६१३ बिम्बस्य मानोन्मानादिलक्षणकथनम् ५५५ पञ्चवेदिकापक्षकथनम् ६१४ मानपरिभाषाविधानम् ५५६ मूर्तिपकर्तव्यहोमस्य गतिकथनम् ६१५ हयग्रीवबिम्बस्य मुखलक्षणकथनम् ५६७ नयनोन्मीलनविधानम् ६२७ श्रीनृसिंहवक्त्रलक्षणकथनम् ५६८ भाष्यगतग्रन्थग्रन्थकारा- वराहवक्त्रलक्षणकथनम् ५६९ नुक्रमणिका ६७३-६७५ श्लोकार्धानुक्रमणिका ६७७-७७५ * सा० सं० - 4

वर्णसंकेतानुक्रमणिका अक्षस्थ — प्रणव | (१७.१८९) अराच्चतुर्दश — औकार | नाभेस्त्रयोदश — ओकार अरावसान — विसर्ग | नाभ्यपर — आकार अरोपान्त्य — अनुस्वार | नाभ्येकादश — एकार अष्टमाद् द्वितीयं वर्णम् — तकार | नेमि — मकार अष्टमारगं प्राग्वर्णम् — णकार | नेमितृतीय — रेफ आद्यमेकादशाद् — पकार | नेमि द्वितीय — यकार एकादशादाद्यं — पकार | नेमिषष्ठम् — शकार दशमाद् द्वितीयम् — नकार | नेमेरष्टकम् — सकार दशमारस्थ — धकार | नेमेरेकोनविंशाख्यवर्ण — बकार द्वितीयस्वर — आ | (१७.१८७) नवमादपरम् — दकार | नेमेर्द्वितीयं वर्णम् — यकार नवमाद् द्वितीयं वर्णम् — दकार | नेमेर्नवमवर्ण — टकार नाभि — अकार | नेमेस्तृतीयं वर्णम् — रेफ नाभितुर्य — इकार | नेमेः पञ्चमं वर्णम् — वकार नाभितुर्यासनस्थित — वकार | पञ्चमारगम् — उकार नाभितृतीय — इकार | लान्त — व नाभिद्वितीय — आकार | षष्ठस्वर — ऊ नाभिपूर्व — यकार | सान्त — ह नाभिसप्तमवर्ण — सकार | हंसार्ण (१८.१००) — हकार *

सात्वतसंहितास्थबीजानुक्रमणिका

वासुदेवादिव्यूह-चतुष्टयकेशवादीनां द्वादशबीजानिकेशवादिदेवीनां बीजद्वादशकम्
वासुदेवबीज — ह्ँकेशवबीज — ह्यूंश्रीबीज — श्रीं
नारायणबीज — हलूंवागीश्वरीबीजं — स्वीं
माधवबीज — ह्वूंकान्तिबीज — हलीं
सङ्कर्षणबीज — ह्सांगोविन्दबीज — स्यूंक्रियाबीज — क्ष्वीं
विष्णुबीज — स्लूंशक्तिबीज — स्त्रीं
मधुसूदनबीज — स्वूंविभूतिबीज — ह्लीं
प्रद्युम्नबीज — ह्ूँत्रिविक्रमबीज — क्यूनइच्छाबीज — क्ष्रीं
वामनबीज — क्लूंप्रीतिबीज — स्वीं
श्रीधरबीज — क्वूंरतिबीज — ह्र्रीं
अनिरुद्धबीज — ह्स्वंहृषीकेशबीज — क्ष्यूंमायाबीज — क्ष्सीं
पद्मनाभबीज — क्ष्लूंधीबीज — स्लीं
दामोदरबीज — क्ष्बूंमहिमाबीज — ह्र्लीं
जीवबीज — स ।
विशाखयूपबीज — नम् ।

सात्वतसंहितास्थ वैदिकमन्त्रसूची अयं ते वरुण (अथर्व) — २५.११० आश्रावितम् (अथर्ववेद) — २५.९६ ओषधीनाम् — २५.१०९ इदं विष्णुवचक्रमे — २५.५३,११५ इह गावः — २५.९८ उत देवा — २५.४४ चतुरस्ततः — २५.९९ चत्वारि शृङ्गाः (ऋ० ४.५८.३) — २४.४०९ चर्षणी धृतं (सर्पसाम) — २५.९२ पवित्रं ते हि यत् (साम) — २५.११३ पूर्णात् पूर्णमुदच्यते — २५.९५ या ओषध्यः — २५.१०९ लोकद्वारमपावृणु (साम) — २४.४५ वरुणमन्त्र, चान्द्र मन्त्र — २५.१०३ वसो पवित्रं — २५.११३ सङ्कर्षणो भगवान् — २५.९३ *

पारिभाषिक कोष ऐश्वर्य स्वातन्त्र्यपरिबृंहित जगत्कर्तृत्व । ज्ञान स्वप्रकाश और नित्य एवं सर्वावगाही गुण को ‘ज्ञान’ कहते हैं । द्रव्ययाग बहिर्याग । द्रव्यैरर्घ्यादिभिः क्रियमाणो यागः (६.१) । पञ्चतालकम् पाँच ताल (बित्ता) (२४.२३७) । पलम् पलप्रमाणं तु पारमेश्वरे (१८.१३१-१३२)— चत्वारो व्रीहयः कुञ्जस्तेऽष्टौ माञ्जिष्ठमुच्यते । तच्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम् ॥ प्रणालभाग अभिषेक जल निकलने हेतु नलिका (६.४६) । प्राणायामम् नाभिदेशस्थितं प्रभुं स्मरन् उदरगं मलं निस्सृत्येत्यनेन प्राणायामः सूच्यते (१७.१८-२०) । बल जगत् के निर्माण में श्रमाभाव नारायण का बल है । ब्रह्मबीज चतुष्टय श ष स ह (सात्वत सं० पृ० ५४) । ब्रह्मसूक्त ‘सहस्रशीर्षा’ से लेकर ‘दक्षिणे तु भुजे विप्र’ तक १६ मन्त्र ब्रह्मसूक्त कहे जाते हैं । (द्र० अलशिङ्ग भाष्य पृ० ८४) । मन्त्रराट् क्षौं (नृसिंह मन्त्रबीज) । मात्रावित्तम् धनं मीयते परिच्छिद्यते पूर्यत इति मात्रा, मात्रार्थं वित्तं द्रविणम् (६.६१) । यव एक अङ्गुल का आठवाँ भाग ‘यव’ कहलाता है । वीर्य विकारराहित्य, निर्विकार ब्रह्म में जगदुपादान कारण होने पर भी किसी भी प्रकार के विकार का उदय न होना । व्यूह षाड्गुण्य में से दो-दो गुणों की प्रधानता होने पर तीन व्यूहों की सृष्टि । शक्ति जगत् का उपादान कारण । *

ॐ प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम्। अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ॥ दूरात् प्रदक्षिणीकुर्यान्निकटात् प्रतिमां विभोः। दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् ॥ —सात्वतसंहिता २१.११-१३ देवता, देवों का प्रासाद, आचार्य, पाञ्चरात्रिक, अश्वत्थ, वट, धेनु, सत्समूह एवं गुरु का घर दूर से ही देखकर इन्हें नमस्कार करे तथा इनकी प्रदक्षिणा करनी चाहिए । सन्निकट से प्रदक्षिणा करने में छायोल्लङ्घन का भय होता है । अतः दण्डवत् प्रणाम करे और चारों दिशाओं में नमस्कार करे । *

सात्वतसंहिता

इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है। यह एक रिक्त (Blank) पृष्ठ है।

॥ श्रीः ॥ सात्वतसंहिता अलशिङ्गभट्टविरचितभाष्योपेता प्रथमः परिच्छेदः प्रश्नप्रतिवचनम् विष्णोराराधनपरा मुनयो मलयाचले । संस्थिताः सिद्धगन्धर्वविद्याधरनिषेविते ॥ १ ॥ ✻ अलशिङ्गभाष्य ✻ श्रीमद्यादवशैलाग्रशेखरं सद्गुणाकरम् । योगानन्दनृसिंहाख्यदैवतं पर्युपास्महे ॥ १ ॥ श्रीमन्नारायणोऽव्याद् यदुगिरिनिलयो यः परं दिव्यरूपं सौषुप्तस्वप्नजाग्रत्यदभिदुरमिदं चातुरात्म्यं च रूपम् । रूपं वैशाखयूपं विविधमपि विभवं चापि बिभ्रद् देवीभूषायुधाढ्यो विहगपतिरथः पाति लोकान् समस्तान् ॥ २ ॥ विश्वस्य भजतां नित्यं नश्वरेतरभोगदः । शश्वत् सर्वार्थदो भूयाद् विश्वत्राता नृकेसरी ॥ ३ ॥ प्रणम्य शिरसाऽऽचार्यान् प्रतिष्ठापितसात्वतान् । तदादिष्टेन मार्गेण सात्वतार्थः प्रकाश्यते ॥ ४ ॥ अत्र तावद् भगवान् भगवच्छास्त्रविशारदो नारदो महामुनिः साक्षाद् वासुदेवेन सङ्कर्षणायोपदिष्टं स्वेन सङ्कर्षणाल्लब्धरहस्याम्नायसंज्ञितैकायनश्रुतेः सूत्ररूपं भगव- त्प्राप्त्येकोपायभूताभिगमनोपादानेज्यास्वाध्याययोगरूपकर्मविचारैः परव्यूहविभवरूप- ब्रह्मविचारैश्च दर्भितं पञ्चविंशतिलक्षणं सात्वतं तन्त्रमुपदेक्ष्यन् आदौ तदवतारक्रमं दर्श- यति—विष्णोरिति ।

२ सात्वतसंहिता अत्रादौ विष्णुशब्दप्रयोगेण चिकीर्षितग्रन्थनिर्विघ्नपरिसमाप्तिसाधकं निरवधि- कमङ्गलं कृतं भवति । सिद्धगन्धर्वविद्याधरनिषेविते । देवतानामपि सेव्यत्वादतिपरि- शुद्धमित्यर्थः । मलयाचले = मलयपर्वते । मुनयः = भगवद्ध्यानशीला ऋषयः । विष्णोः जगद्व्यापनशीलस्य भगवतः । आराधनपराः सन्तः सर्वव्यापिनो भगवतः कुत्राराधनं कार्यम्? कथं तद्विधानम्? को वा उपदेक्ष्यतीति तदेकचित्ताः सन्त इत्यर्थः । संस्थिताः = समित्युपसर्गेण चिरकालीना स्थितिः सूच्यते ॥ १ ॥ मलयाचले नारदस्यागमनम् कालेन केनचित् स्वर्गाद्रामदर्शनलालसः । तत्रावतीर्णो देवर्षिर्नारदो भगवन्मयः ॥ २ ॥ कालेनेति । तत्रैवास्थितेषु मुनिषु । केनचित्कालेन = कतिपयकालानन्तर- मित्यर्थः । भगवन्मयः = भागवताग्रेसरः । नारदो नाम देवर्षिः । रामदर्शन- लालसः सन् = परशुरामसेवासक्तः सन् । तत्र = मलयाचले । स्वर्गादवतीर्णः = आविर्बभूव ॥ २ ॥

  • सुधा * साम्बं सदाशिवं नत्वा भानुं विष्णुं गणेश्वरम् । सर्वश्रेयस्करीं नित्यां मन्तरूपां सरस्वतीम् ॥ १ ॥ मालवीयकुलोत्पन्नः कुबेर विदुषः सुधीः । पुत्रः सुधाकरो नाम्ना पदार्थानां प्रकाशिकाम् ॥ २ ॥ सात्वतानां हितार्थाय तन्त्रस्य प्रतिपत्तये । सात्वतसंहिताकस्य 'सुधां' टीकां करोम्यहम् ॥ ३ ॥ जब सिद्ध, गन्धर्व एवं विद्याधरों से निषेवित मलयाचल पर विष्णु के आराधन में तत्पर मुनि लोग एकत्रित थे, उसके कुछ काल बीतने के पश्चात् भगवद् भक्तों में श्रेष्ठ देवर्षि नारद भगवान् परशुराम के दर्शन की इच्छा से वहीं मलयाचल पर्वत पर स्वर्ग से उपस्थित हुये ॥ १-२ ॥ ज्ञात्वा तस्याचलां भक्तिं देवः परशुलाञ्छनः । प्रत्यक्षमगमच्छश्वत् सानुकम्पेन चेतसा ॥ ३ ॥ अत्र मुनीन् सात्वतशास्त्रे प्रवर्तयेति नारदं प्रति रामोक्तिः—ज्ञात्वेति । परशुला- ञ्छनो देवः परशुरामः । तस्य देवर्षेः । अचलां भक्तिं स्वविषयकदृढाध्यवसायम् । ज्ञात्वा सानुकम्पेन = निर्हेतुककृपान्वितेन चेतसा प्रत्यक्षमगमत् = दृष्टिविषयतां प्रापेत्यर्थः ॥ ३ ॥ भगवान् परशुराम भी अपने विषय में उनकी अटल श्रद्धा देखकर उनके ऊपर कृपा करते हुये वहीं प्रगट हो गये ॥ ३ ॥

प्रथमः परिच्छेदः ३ नारदस्य परशुरामदर्शनम् ततः प्रहृष्टवदनः प्रोत्फुल्लपुलको मुनिः । पूजयामास तं देवमष्टाङ्गपतनादिना ॥ ४ ॥ तत इति । ततः = तस्माद्धेतोः । मुनिः = नारदः । प्रहृष्टवदनः सन् = सन्तोषो- त्फुल्लमुखः सन् । प्रोत्फुल्लपुलकः सन् = सञ्जातरोमाञ्चः सन् । तं देवं = रामम् । अष्टाङ्गपतनादिना = साष्टाङ्गप्रणामप्रदक्षिणस्तुतिप्रश्नाद्युपचारैः पूजयामास ॥ ४ ॥ नारद जी उनके दर्शन से अत्यन्त प्रसन्न हुए और उनका सारा शरीर रोमाञ्चित हो गया । फिर तो उन्होंने साष्टाङ्ग प्रणाम करते हुये महर्षि परशुराम की कुशल प्रश्नादि उपचारों से पूजा की ॥ ४ ॥ अथाह भगवान् रामो मधुराक्षरया गिरा। तवास्ति भक्तिरचला जन्मबीजक्षयङ्करी ॥ ५ ॥ एषा तु सात्वती शुद्धा नित्यमव्यभिचारिणी । तिष्ठन्ति मुनयो ह्यत्र प्रार्थयाना हरेः पदम् ॥ ६ ॥ तान् सात्वते क्रियामार्गे मद्वाक्याद् याहि योजय । अथेति । अथ मुनेरुत्साहकोलाहलानन्तरम् । भगवान् रामो मधुराक्षरया मनो- हरवर्णसंदर्भया गिरा वाचा आह । नारदं प्रत्युवाचेत्यर्थः । वचनप्रकारमाह—तवेति । तव तु एषा भक्तिः एतादृशी भक्तिरेवास्ति । अस्मत्सकाशाल्लब्धव्यमुपायान्तरं नास्तीति भावः । तां भक्तिं विशिनष्टि—अचलेत्यादिपदपञ्चकेन । अचला = चाञ्चल्यरहिता । जन्मबीजक्षयंकरी = संसारदुःखविनाशिनी । सात्वती = सात्वतशास्त्रोदिता । भगव- त्प्राप्त्येकोपायभूताऽभिगमनादिकर्माङ्गिकेति यावत् । तत एव शुद्धा = अमिश्रेत्यर्थः । नित्यं = निरन्तरम् । अव्यभिचारिणी = अनन्यदेवताविषयेत्यर्थः । एतादृश्या भक्तेस्तव विद्यमानत्वादस्मद्दर्शनादृते तव प्रयोजनान्तरं नास्ति । किन्त्वेतेषां मुनीनामपि मोक्षोपायमुपदिशेत्यर्थः । तिष्ठन्तीति । हि यस्मात् कारणात् । अत्र = अस्मिन् पर्वते । मुनयो हरेः पदं प्रार्थयाना = मुमुक्षवः सन्तस्तिष्ठन्ति । तस्मात् तान् मुनीन् । सात्वते सात्वतशास्त्रोदिते । क्रियामार्गे = अभिगमनोपादानेज्यास्वाध्यायरूपशुद्धमार्गे इत्यर्थः । मद्वाक्याद् योजय याहि परमरहस्येऽपि मार्गेऽस्मदाज्ञागौरवेण मुनीन् प्रवर्तय, तदर्थं शीघ्रं गच्छेति भावः ॥ ५-७ ॥ तदनन्तर भगवान् परशुराम ने मधुरवाणी में नारदजी से कहा—हे नारद! आप में जन्मरूपबीज को नाश करने वाली ऐसी अचला भक्ति है, जो सात्वत शास्त्र में प्रतिपादित है । यह भक्ति अनन्य विषयिका होने से शुद्धा है और निरन्तर रहने से नित्या भी है । यहाँ पर मोक्ष के लिये भगवत्प्रार्थना में तत्पर मुनि लोग एकत्रित हैं । इसलिए आप मेरी आज्ञा से सात्त्वतशास्त्र में उपदिष्ट क्रियामार्ग (= अभिगमन, उपादान, इज्या और स्वाध्याय रूप शुद्धमार्ग) में इन मुनियों को प्रवृत्त कीजिए ॥ ४-७ ॥

४ सात्वतसंहिता एवमुक्तवा तु तं विप्रमृषीणां हितकाम्यया ॥ ७ ॥ जगामादर्शनं देवस्तस्माद् देशात् तटिद् यथा । एवमिति । देवः परशुरामः । एवं = पूर्वोक्तरीत्या, ऋषीणां हितकाम्यया तं विप्रं = नारदं प्रत्युक्तवा तस्माद्देशात् पर्वताग्रात् तटिद्यथा विद्युदिव क्षणमात्रेण अदर्शनं जगाम, अन्तर्हितो बभूवेत्यर्थः ॥ ७-८ ॥ स तु हृष्टमना वाक्यं शिरसा चाभिवाद्य तत् ॥ ८ ॥ निर्जगामार्चयित्वाऽथ पुष्पैः स्थानवरं तु तत् । स इति । अथ भगवदन्तर्धानान्तरम् । स नारदः । हृष्टमनाः सन् । तद्वाक्यं शिरसा अभिवाद्य, तदाज्ञां शिरसा धृत्वेत्यर्थः । तत् स्थानवरं भगवदाविर्भावस्थानं केवलं पुष्पैर्च्चयित्वा निर्जगाम, तस्मात् स्थानान्निर्गतः ॥ ८-९ ॥ अपश्यदाश्रमं चान्यं नानाद्विजन्मनिषेवितम् ॥ ९ ॥ तरुपुष्पफलैराढ्यं वापीकूपह्रदान्वितम् । अपश्यदिति । आश्रमम् = ऋषीणामावासस्थानमपश्यच्च । नानेत्यादिविशेषण- त्रयेऽऽश्रमस्यातिरामणीयकत्वमुक्तं भवति ॥ ९-१० ॥ मुनियों की हित की कामना से महर्षि परशुराम इतना कह कर, जिस प्रकार बिजली क्षण भर में अन्तर्हित हो जाती है उसी प्रकार वहाँ से अन्तर्हित हो गये । देवर्षि नारद उनकी आज्ञा सुन कर अत्यन्त प्रहृष्ट हुए और शिर से उनका अभि- वादन किया । फिर परशुराम जिस स्थान से अन्तर्हित हुये थे, उसी स्थान की पुष्पादि द्वारा पूजा की तथा वहाँ से सद्यः निकल पड़े । वहाँ से कुछ दूर जाकर उन्होंने नाना द्विजों से निषेवित एक अन्य आश्रम देखा । वह आश्रम वृक्षों, फूलों और फलों से अत्यन्त रमणीय था और वापी, कूप एवं तंडागों से परिपूर्ण था ॥ ७-१० ॥ सम्प्रहृष्टस्ततस्तत्स्थैर्द्विजेन्द्रैरभिवादितः ॥ १० ॥ पूजितश्चार्घ्यपाद्येन विनिवेशितविष्टरः । सम्प्रहृष्ट इति । ततः तदाश्रमदर्शनाद्धेतोः सम्प्रहृष्टः = स नारदः, तत्स्थैः = तदाश्रमस्थितैः, द्विजेन्द्रैरभिवादितः = नमस्कृतः, अर्घ्यपाद्येन पूजितश्च सन् विनिवेशि- तविष्टरः विष्टरे विनिवेशितश्चेत्यर्थः ॥ १०-११ ॥ अथाञ्जलिधराः सर्वे प्रोत्फुल्लनयनाम्बुजाः ॥ ११ ॥ वदन्ति जन्मसाफल्यमद्य नस्तव दर्शनात् । अथेति । अथ उपचरणानन्तरम्, सर्वे मुनयः प्रोत्फुल्लनयनाम्बुजाः सन्तः सन्तोषविकसितनेत्रकमलाः सन्तः, तव दर्शनाद्धेतोः, नः अस्माकम्, जन्मसाफल्यं जातमिति शेषः, इति वदन्ति, अवदन्निति भूतार्थकत्वमङ्गीकार्यम् ॥ ११-१२ ॥

[Header] प्रथमः परिच्छेदः ५ श्रुत्वा तत्प्रीतिजनकं वाक्यं प्रणयपेशलम् ॥ १२ ॥ नमस्कृत्य हृषीकेशं मुनिरप्याह नारदः । श्रुत्वेति । नारदो मुनिरपि हृषीकेशं नमस्कृत्य प्रणम्य । अत्र प्रणामः शास्त्रोपदेशारम्भार्थक इति बोध्यम् । प्रणयपेशलं स्वकारुण्यमधुरम्, अत एव तत्प्रीतिजनकं तेषां मुनीनां सन्तोषजनकम्, वाक्यमाह उवाचेत्यर्थः ॥ १२-१३ ॥ उस आश्रम के दर्शन से प्रहृष्ट देवर्षि नारद का वहाँ रहने वाले उन द्विजेन्द्रों ने अभिवादन किया और अर्घपाद्यादि उपचारों से उनका पूजन किया । फिर विष्टर (= आसन) पर बिठाकर हाथ जोड़ कर प्रफुल्लित नयनों से युक्त प्रसन्न मुख हो इस प्रकार कहने लगे— हे देवर्षि ! आज आप के दर्शन से हमारा जन्म सफल हो गया । उनकी प्रीतिजनक एवं प्रणय युक्त मधुर वाणी को सुन कर उन हृषिकेश को नमस्कार करते हुये नारद मुनि ने कहा ॥ १०-१३ ॥ मन्ये कृतार्थमात्मानं नूनं विप्रवरा ह्यहम् ॥ १३ ॥ भवद्भिः सह सम्बन्धो यस्य मेऽस्मिन् शुभाश्रमे । मन्य इति । हे विप्रवराः मुनयः! सोऽहमात्मानं कृतार्थं मन्ये कृतार्थोऽस्मीत्यर्थः। नूनं ध्रुवम् । हीति प्रसिद्धार्थकः । यस्य मे अस्मिन् शुभाश्रमे भगवदाविर्भावस्थानतया अनेकभागवताश्रयतया च शुभावहे आश्रमे, भवद्भिः सह सम्बन्धो जात इति शेषः । परमभागवतानां भवतां सम्बन्धादहं कृतार्थोऽस्मीति भावः ॥ १३-१४ ॥ हे ब्राह्मणो ! मैं आज अपने को कृतार्थ मान रहा हूँ जो आज इस शुभ आश्रम में आप लोगों के साथ सम्बन्ध हुआ ॥ १३-१४ ॥ उक्तोऽहं भवतामर्थे रामेणाक्लिष्टकर्मणा ॥ १४ ॥ यत् तदेकमनाः सर्वे आकर्णयत साम्प्रतम् । उक्त इति । यद्यस्माद् भवतामर्थे = युष्माकं सात्वतमार्गप्रवर्तनरूपार्थे, अक्लि- ष्टकर्मणा रामेण अहमुक्तः, नियुक्त इत्यर्थः । तत् तस्मात् साम्प्रतं यूयं सर्वे एकमनाः सन्तः, अत्र मनश्शब्दस्य दिव्यत्वादकारान्तत्वं ज्ञेयम्, आकर्णयत = शृणुध्वमित्यर्थः, तद्वाक्यमिति शेषः ॥ १४-१५ ॥ अक्लिष्ट कर्मा भगवान् परशुराम ने आप सभी लोगों को सात्त्वत मार्ग में ले आने के लिये मुझे आज्ञा दी है । इसलिये आप लोग चित्त को एकाग्र कर मेरी बात सुनिये ॥ १४-१५ ॥ अद्यप्रभृति देवेशमाराधयत केशवम् ॥ १५ ॥ रहस्याम्नायविधिना शश्वन्मोक्षप्रदेन तु । अद्येति । अद्यप्रभृति यूयं देवेशं सर्वदेवोत्तमं केशवं ब्रह्मरुद्रयोरपि स्वामिनं

६ सात्वतसंहिता नारायणं शश्वन्मोक्षप्रदेन शाश्वतमोक्षफलकेन रहस्याम्नायविधिना = सात्वतोक्तक्रमेण आराधयत = पूजयत ॥ १५-१६ ॥ आप लोग आज से सर्वोत्तम भगवान् केशव की आराधना करें क्योंकि सात्त्वत शास्त्र की विधि से पूजा किये जाने पर उसका फल मोक्ष ही कहा गया है ॥ १५-१६ ॥ ऋषय ऊचुः । नारदं प्रति ऋषीणां प्रार्थना मुने चिरप्रपन्नानां प्रकृष्टानां भवान् गतिः ॥ १६ ॥ नारायणपदप्राप्तेर्यच्छ्रेयस्तत् प्रकाशय । एवमुक्ता ऋषयः प्रार्थयन्ते—मुने इति । प्रकृष्टानां = प्रसिद्धनानाविधतपस्सिद्ध- फलानाम्, तथापि चिरप्रपन्नानाम् = उपायानुष्ठानपराणाम्, अस्माकमिति शेषः। भवान् = आचार्यभूतस्त्वं, गतिः = प्राप्यः प्रापकश्च । स्वतः सिद्धफलानां किमुपायान्वेषणेनेति न चिन्त्यमित्याहुः—नारायणपदप्राप्तेरिति । 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन' (कठो० २।२३) इति तपःप्रभृत्यलभ्यस्य 'यमेवैष वृणुते तेन लभ्यः' (मुण्ड० ३।२।३) इति सिद्धोपायकृपालभ्यस्य मोक्षफलस्य यच्छ्रेयस्साधनभूतं भगवत्प्रीतिजनकं यत् कर्म तत् प्रकाशय ॥ १६-१७ ॥ ऋषियों ने कहा—हे मुने ! हम लोग प्रसिद्ध नानाविधि तप सिद्धि के लिये चिरकाल से साध्य अनुष्ठान में प्रयत्नशील हैं । आप हमारे आचार्य हैं और 'आप ही हमारे प्राप्य और प्रापक भी हैं । अतः नारायण पद प्राप्ति के लिये जो श्रेष्ठ मार्ग है, उसका आप प्रतिपादन (प्रकाशित) कीजिये ॥ १६ ॥ नारद उवाच यच्चोदितेन हलिना प्रागुक्तं चक्रपाणिना ॥ १७ ॥ पारम्पर्यगतं तन्मे गदतः शृणुत द्विजाः । यदिति । हे द्विजाः, हलिना सङ्कर्षणेन चोदितेन चक्रपाणिना वासुदेवेन प्राक् त्रेतायुगादौ यदुक्तम् उपदिष्टम्, पारम्पर्यगतं = गुरुपूर्वकमागतं तत् सात्वतं गदतो मे मत्सकाशात् शृणुत = आकर्णयत ॥ १७-१८ ॥ नारद जी ने कहा—हे ब्राह्मणो ! प्राक् त्रेतायुग में भगवान् सङ्कर्षण द्वारा पूछे जाने पर भगवान् वासुदेव ने जो उन्हें उपदेश दिया था, उसी को मैं कह रहा हूँ । आप लोग गुरु क्रमागत उस सात्त्वत शास्त्र के उपदेश को सुनिये ॥ १७-१८ ॥ पुराऽतीते कृते प्राप्ते त्रेताख्ये ह्यापरे युगे ॥ १८ ॥ ईषदारक्ततां याते जगद्धातरि चाच्युते । आह सङ्कर्षणो विष्णुं ज्ञात्वा विनयवानपि ॥ १९ ॥ पुरेति । पुरा पूर्वं कृते अतीते = अतिक्रान्ते सति त्रेताख्ये अपरे युगे = युगभेदे प्राप्ते सति जगद्धातरि अच्युते च वासुदेवे च ईषदारक्ततां याते

प्रथमः परिच्छेदः ७ 'धत्ते सितादिकं रूपं चतुर्धा यत् कृते युगे । रक्ताख्यं सितनिष्ठं च त्रेतायां हि महामते ॥' (५।८७-८८) इति वक्ष्यमाणक्रमेण रक्ताङ्गे सतीत्यर्थः ॥ १८ ॥ आहेति । सङ्कर्षणो ज्ञात्वापि = रक्ताङ्गताहेतुं विदित्वापि, विनयवान् सन् गुरोरु- पदेशेन ज्ञातव्यमित्याकारकविनययुक्तः सन् विष्णुं वासुदेवं प्रत्याह—किमिति ॥ १९ ॥ पूर्वकाल में जब सत्ययुग समाप्त हो गया था और त्रेतायुग प्राप्त हो गया था । जिस समय जगद्धाता अच्युत रक्त वर्ण के हो गये थे उस रक्ताङ्गता के हेतु को जान कर भी विनयी सङ्कर्षण देव ने उन विष्णु से कहा ॥ १८-१९ ॥ किमिदं देव पश्यामि तव रूपविपर्ययम् । प्रहस्योवाच भगवान् मेघगम्भीरया गिरा ॥ २० ॥ हे देव ! तव रूपविपर्ययं वर्णभेदं पश्यामि । इदं किं कुतः प्राप्तमित्यर्थः । प्रह- स्येति । भगवान् वासुदेवः प्रहस्य मेघगम्भीरया गिरा = मेघगर्जितसदृशगाम्भीर्ययुक्तया गिरा । अत्र उपमानलुप्तलङ्कारः । गिरा वाचा सङ्कर्षणं प्रत्युवाचेत्यर्थः ॥ २० ॥ हे देव ! आप के रूप का यह विपर्यय किस कारण से हो रहा है? तब भगवान् ने हँसते हुए मेघ के समान गम्भीर वाणी में उनसे कहा ॥ २० ॥ नायं स कालो यत्रासीत् सत्त्वैकबहुलो जनः । अद्य रागपरो लोकस्तद्गतं धारयाम्यहम् ॥ २१ ॥ नायमिति । यत्र = यस्मिन् काले, जनः सत्त्वैकबहुलः = शुद्धसात्त्विक आसीत्, अयं स कालो न, विभिन्न इत्यर्थः । अद्येति । अद्य = अस्मिन् काले, लोकः = जनः, रागपरः = अनुरागपरः, अनुरागविशिष्टः । तद्वत् = एतत्कालीन- जनवत्, अहमपि तं रागं धारयामि ॥ २१ ॥ हे सङ्कर्षण ! अब वह काल नहीं रहा, जब सत्त्वबहुल लोग थे, आज का लोक रागपरक है । इसलिये मै भी राग पर हो कर रक्त वर्ण हो गया हूँ ॥ २१ ॥ सङ्कर्षण उवाच कालस्वभावजः केन कर्मणा राग ईदृशः । नाच्छादयति लोकानां त्वद्भक्तानां विशेषतः ॥ २२ ॥ एवमुक्तः सङ्कर्षणः प्रतिवदति—कालेति । कालस्वभावजः = त्रेतायुगस्वभाव- जन्यः, ईदृशो रागः केन कर्मणा विशेषतः, त्वद्भक्तानां लोकानामिति कर्मणि षष्ठी, भक्तजनान् नाच्छादयति न तिरोधत्ते ॥ २२ ॥ सङ्कर्षण ने कहा—त्रेतायुगादि काल तो स्वभावजन्य है । फिर किस कारण से आपके भक्त लोगों को वह आच्छादित नहीं करता ॥ २२ ॥

८ सात्वतसंहिता श्रीभगवानुवाच त्रिविधेन प्रकारेण परमं ब्रह्म शाश्वतम् । आराधयन्ति ये तेषां रागस्तिष्ठति दूरतः ॥ २३ ॥ इति प्रेरितो भगवान् प्रत्याह—त्रिविधेनेति । त्रिविधेन प्रकारेण परव्यूह- विभवभेदेन शाश्वतं परं ब्रह्म श्रीमन्नारायणं ये जना आराधयन्ति, तेषां दूरतो राग- स्तिष्ठतीति ॥ २३ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण! पर व्यूह विभव भेद से जो तीन भेदों वाले हैं उस परब्रह्म श्रीमन्नारायण की जो आराधना करते हैं, मेरे उन भक्तों से राग बहुत दूर चला जाता है ॥ २३ ॥ सङ्कर्षण उवाच भगवंस्त्रिविधं ब्रूहि उपेयं ब्रह्मलक्षणम् । हितार्थं च प्रपन्नानां व्यामोहविनिवृत्तये ॥ २४ ॥ पुनः सङ्कर्षण आह—भगवन्निति । हे भगवन्, त्रिविधं त्रिप्रकारम्, उपेयं प्राप्यत्वरूपं ब्रह्मलक्षणं प्रपन्नानां व्यामोहविनिवृत्तये हितार्थं च अनिष्टनिरसनेष्टप्राप्त्यर्थं ब्रूहि वदस्वेत्यर्थः ॥ २४ ॥ सङ्कर्षण ने पुनः कहा—हे भगवन् ! प्रपन्नों के हित के लिये तथा उनके व्यामोह की निवृत्ति के लिये आप तीन प्रकार वाले प्राप्यत्व रूप ब्रह्म लक्षण को कहिये ॥ २४ ॥ श्रीभगवानुवाच षाड्गुण्यविग्रहं देवं भास्वज्ज्वलनतेजसम् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २५ ॥ एवं पृष्टो नारदः परत्वादिलक्षणमाह—षाड्गुण्येति । षाड्गुण्यविग्रहं = ज्ञानैश्वर्यशक्तिबलवीर्यतेजोमयविग्रहम्, भास्वज्ज्वलनतेजसं = सूर्यवह्निसमप्रभम्, सर्वतः पाणिपादं सर्वतोऽक्षिशिरोमुखं = सर्वव्यापिनमित्यर्थः । एवं भगवतः सर्वतः पाणिपादत्वादिकमनुमानगम्यम् । तथा च जयाख्ये— तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ॥ तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते । नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ॥ अतः सर्वगतत्वाद्धै सर्वतःपात् प्रभुः स्मृतः । ऊर्ध्वं तिर्यगधो यातैर्यथोच्चैर्भासयेद् रविः ॥ तद्वत् प्रकाशरूपत्वात् सर्वचक्षुस्ततो ह्यजः । यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः ॥ भवेऽस्मिन् प्राकृतानां तु न तथा तस्य सत्तम । समत्वात् पावनत्वाच्च सिद्धः सर्वशिराःप्रभुः ॥

प्रथमः परिच्छेदः ९ यथाऽनन्तरसाः सर्वे तस्य सन्ति सदैव हि । सर्वत्र शान्तरूपस्य अतः सर्वमुखः स्मृतः ॥ सत्त्वराशिर्र्यतो विद्धि स एवं परमेश्वरः । सर्वतः श्रुतिमांश्चासौ यथादृक्श्रावकोरगः ॥ (४।७६-८२) इति । एकम् = अद्वितीयम्, निःसमाभ्यधिकमिति यावत् । सर्वाश्रयं = निखिल- जगदाधारम्, प्रभुं = जगत्स्वामिनं देवं परवासुदेवं परमिति समाख्यातम् । तदेतत् परत्वविशिष्टं ब्रह्म सद् विद्धीत्यनुषङ्गः ॥ २५ ॥ श्रीभगवान् ने कहा—वह ब्रह्म ज्ञान, ऐश्वर्य, शक्ति, बल एवं वीर्य तथा तेजोमय होने से षाड्गुण्य विग्रह वाले हैं, देदीप्यमान सूर्य एवं अग्नि के समान तेजस्वी हैं । स्वतः पाणिपाद तथा सर्वतोऽक्षि एवं शिरोमुख वाले हैं ॥ २५ ॥ परमेतत् समाख्यातमेकं सर्वाश्रयं प्रभुम् । एतत्पूर्वं त्रयं चान्यज्ज्ञानाद्यैर्भेदितं गुणैः ॥ २६ ॥ विद्धि तद् व्यूहसंज्ञं सद् निःश्रेयसफलप्रदम् । एवं परलक्षणमुक्त्वा व्यूहलक्षणमाह—एतदिति । एतत्पूर्वम् = एष परवासुदेवः पूर्वं प्रथमो यस्य तत् तथोक्तम् । ज्ञानाद्यैर्गुणैर्भेदितम् बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ॥ ऐश्वर्येण तु वीर्येण प्रत्यग्भावेऽवतिष्ठते । तेजःशक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ॥ (३।६-७) इति वक्ष्यमाणप्रकारेण तत्तद्गुणभेदितम् अन्यत् त्रयं = सङ्कर्षणप्रद्युम्नानिरुद्ध- त्रयम् । एवं च वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धचतुष्टयम् । व्यूहसंज्ञं तद् = ब्रह्म सद् निःश्रेयसफलप्रदं = मोक्षफलप्रदं च सद् विद्धि ॥ २६ ॥ वह एक हैं, सर्वाश्रय हैं, प्रभु है, ज्ञानादि गुणों के भेदों के कारण वह ब्रह्म तीन प्रकार के हैं । इस प्रकार उस ब्रह्म का पर स्वरूप कहा गया इसलिये परख विशिष्ट नहीं ब्रह्म सत् है, ऐसा समझना चाहिए । इससे पूर्व वही पर वासुदेव भी है, जिन्हें ज्ञानादि से भेदित किया गया है । वासुदेव, सङ्कर्षण, प्रद्युम्न एवं अनिरुद्ध भेद से उन ब्रह्म की व्यूहसंज्ञा भी है । वह व्यूह तथा सत् संज्ञक होने के कारण निःश्रेयस तथा मोक्षफल देने वाले हैं ॥ २६-२७ ॥ मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैः । नानाकृतिं च तद् विद्धि वैभवं भुक्तिमुक्तिदम् ॥ २७ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां प्रश्नप्रतिवचनं नाम प्रथमः परिच्छेदः ॥ १ ॥ — ❦ ❁ ❧ — सा० सं० - 5

१० सात्वतसंहिता अथ विभवलक्षणमाह—मुख्येति । मुख्यानुवृत्तिभेदेन ज्ञानादिभिर्गुणैर्युतम् = अस्य विभवावतारसमूहस्य अनिरुद्धोत्पन्नत्वात् स्वकारणेऽनिरुद्धे यथा शक्तितेजसो- र्मुख्यत्वं ज्ञानादिगुणचतुष्टयस्यानुवृत्तत्वम्, तथा मुख्याभ्यां शक्तितेजोभ्यामनुवृत्तै- र्ज्ञानादिगुणैश्च युक्तमित्यर्थः । विभवदेवानामनिरुद्धोत्पन्नत्वं लक्ष्मीतन्त्रेऽपि— विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्वते । (२।५८-५९ इति ।) ‘विभोः शक्त्यात्मना सौम्ये संस्थितः परमेश्वरः’ (३।७) इत्यनिरुद्धस्य तेजः- शक्तिगुणकत्वमुक्तम् । तस्मिन् ज्ञानादीनामनुवृत्तत्वे किं मानमिति चेत्? ‘विभोः शक्त्या’ (३।७ इत्यादिना) तद्वक्ष्यति तृतीये परिच्छेदे । स्पष्टमुक्तं लक्ष्मीतन्त्रेऽपि— यद्यप्येकगुणोन्मेषस्तदाप्येते हि षड्गुणाः । अन्यूनानधिकाः सर्वे वासुदेवात् सनातनात् ॥ (४।२१) इति । यद्वा मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैरित्यस्य पूर्वेणैवान्वयो ज्ञेयः । नाना- कृति पद्मनाभादिभेदेन नानाविधाकारं देवं वैभवं तद् ब्रह्म सद् विद्धि । भुक्तिमुक्ति- फलप्रदं च सद् विद्धीति परव्यूहविभवलक्षणान्युक्तानि । तथा चैवमेव क्रोडीकृतानि परादिलक्षणानि सहस्रनामभाष्ये—‘परव्यूहविभवा- त्मना त्रिविधं परं ब्रह्मेति भागवतसिद्धान्तः । तत्र परं नामाकार्यं कार्यादनवच्छिन्नपूर्ण- षाड्गुण्यमहार्णवोत्कलिकैकातपत्रीकृतनिस्समनित्यभोगविभूतिकं मुक्तोपसृप्यमनौपा- धिकमवस्थानम् । व्यूहश्च मुमुक्षुसिसृक्षया प्रदेयसृष्टिस्थितिलयाः शास्त्रतदर्थतत्फलानि ध्यानाराधने लीला चेतीदृशकार्योपयुक्तविभक्तपरगुणरूपव्यापारशीकरव्यूहनिर्वाहित- ली्लाविभूतिकं मुक्तिसाधकं चतुर्थावस्थानम् । विभवश्च तच्छायाः सुरनरतिर्यगादिः स्वविभवसजातीय ऐच्छः प्रादुर्भाववर्ग इति ।...... तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः । अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन, यथा भार्गवराम- कृष्णद्वैपायनादयः । अपरे काले शक्त्यावेशेन, यथा पुरञ्जयादिषु । इतरे च व्यक्तिषु स्वयमेवावतीर्य, यथार्चावतार इति चतुर्धा' (द्र० ९.६१) इति । नन्वर्चावतारस्यापि प्रादुर्भावेष्वन्तर्भावो वक्तव्यः । यद्वा— विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्वते । अर्चापि लौकिकी या साभगवद्भावितात्मनाम् ॥ मन्त्रमन्त्रेश्वरन्यासात् सापि षाड्गुण्यविग्रहा । पराद्यर्चतावारेऽस्मिन् मम रूपचतुष्टये ॥ तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः । (२।५८-६१) इति लक्ष्मीतन्त्राद्युक्तरीत्याऽर्चावतारस्य प्रथमनिर्देशः कार्य इति चेत्? ब्रूमः । अर्चावतारस्य यत्र यत्र प्रथमनिर्देशः कृतस्तत्र न विवादः । श्रीसात्वतसंहितायां तु पर- व्यूहविभवाख्यत्रिविधभेदानामेव प्रतिपादितत्वात् तदनुसारेण श्रीमत्पराशरभट्टारकैर्-

प्रथमः परिच्छेदः ११

र्चावतारस्यापि दर्शितः । स कथमुपपद्यते? यतः परव्यूहविभवानां त्रयाणामप्यर्चारूप- त्वसंभवाद् अर्चावतारस्य परादिषु त्रिषु च विभवेष्वेवान्तर्भाव उक्तः । वस्तुतस्तु वासुदेव (सङ्कर्षण)प्रद्युम्नानिरुद्धाख्यव्यूहानामेव श्रीकृष्णबलभद्र- प्रद्युम्नानिरुद्धरूपेणावतीर्णत्वेऽपि तेषां यथा विभवत्वमेव न व्यूहत्वम्, तथा परव्यूह- विभवानामर्चावताररूपेणावतीर्णत्वेऽपि तेषां विभवेष्वेवान्तर्भावः, न तु परव्यूहयोरिति भट्टारकाणामाशयः । यतः— गुणकल्पनयाऽध्वस्तोगुणोन्मेषकृतक्रमः । मूर्तीभूतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ॥ (२।३९) इति लक्ष्मीतन्त्रोक्तमूर्तीभूतगुणत्वरूपं विभवत्वं विभवार्चावतारयोरुभयत्रापि समानम् ॥ २७ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये प्रथमः परिच्छेदः ॥ १ ॥ — ❦❃❧ — मुख्यानुवृत्ति भेद से तथा ज्ञानादि गुणों से युक्त होने के कारण (चतुर्व्यूह के परव्यूहात्मक पद्मनाभादि) विभवावतार अनेक आकृतियों वाले हैं । वही विभवाव- तार भोग और मोक्ष को देने वाले हैं, ऐसा समझना चाहिए ॥ २७ ॥ ॥ इस प्रकार प्रो० रामकुबेर मालवीय के द्वितीय आत्मज डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के प्रश्नप्रतिवचन नामक प्रथम परिच्छेद की हिन्दी समाप्त हुई ॥ १ ॥ — ❦❃❧ —

द्वितीयः परिच्छेदः तुरीयव्यूहसमाराधनम्

नारद उवाच श्रुत्वैवमच्युतमुखाद् देवदेवो हलायुधः । हितार्थं भवभीतानां पुनराह द्विजोत्तमाः ॥ १ ॥ सङ्कर्षण उवाच विधिना कीदृशेनैव ह्युपासा विहिताऽत्र वै । उपासकानां भक्तानां समासाद् ब्रूहि मे विभो ॥ २ ॥ श्रीभगवानुवाच शृणु सम्यक् प्रवक्ष्यामि यदहं चोदितस्त्वया । यज्ज्ञात्वा न पुनर्जन्म पुनरेवाप्नुयान्नरः ॥ ३ ॥ अथ द्वितीयः परिच्छेदो व्याख्यास्यते । इह आदौ वासुदेवसङ्कर्षणयोर्भगवदुपा- सनप्रकारविषयकप्रश्नप्रतिवचनक्रममाह—श्रुत्वेत्यादिश्लोकत्रयेण ॥ १-३ ॥ नारद जी ने कहा—हे द्विजोत्तम गण ! अच्युत के मुख से इस प्रकार की बातें सुनकर देवाधिदेव हलायुध ने इस संसार से भयभीत होने वालों के हित के लिये पुनः पूछा ॥ १ ॥ सङ्कर्षण ने कहा—हे विभो ! आपने राग से दूर रहने के लिये उपासना का उपदेश दिया (१.२४) । अतः संक्षेप में बताइये कि यह 'उपासना' उपासक भक्तों को किस प्रकार करनी चाहिये? ॥ २ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण ! जिस प्रश्न को आपने मुझसे पूछा है, मैं उसका उत्तर सात्त्वततन्त्र में उपदिष्ट उपदेश के अनुसार दे रहा हूँ, जिसको जान लेने पर भक्त पुनः जन्मादि को प्राप्त नहीं करते ॥ ३ ॥ ब्राह्मणानां च सद्ब्रह्मवासुदेवाख्ययाजिनाम् । लक्ष्यभूतं यदासृष्टेर्हृदिस्थमधिकारिणाम् ॥ ४ ॥