षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
६८ | सिद्धान्तमुक्तावली ।
शुद्धं ब्रह्मेति यावत्—एवमियं श्रुतिर्व्याख्याता । ततः 'सच्चिदानन्दायै'ति श्रुतिर्व्याख्याता । अतः 'कृषिर्भूवाचकः शब्द' इति गोपालतापिन्यारम्भेऽस्तीति बोध्यम् । 'परं ब्रह्मैतद्यो ध्यायति रसति भजति सोऽमृतो भवती'त्यादिश्रुतेश्च । 'यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः' 'मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जये'ति भगवद्वाक्याच्च । तुशब्देनाक्षरस्य ब्रह्मत्वेपि परत्वाभावात् परस्य पुरुषोत्तमस्यैव सेव्यत्वम् । अनेन पूर्वोदितः कृष्णसेवाविधिः समर्थितः । सच्चिदानन्दकमिति । बृहत् अक्षरं ब्रह्म सच्चिदानन्दकम् । अल्पार्थे कन् । 'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द' इति तैत्तिरीये गणितानन्दत्वात् । तदक्षरं द्विरूपमित्याहुः द्विरूपं तद्धीत्यादि । एकं सर्वं निखिलप्रपञ्चात्मकं कार्यरूपम् । अपरं तस्मात्पूर्वस्माद्विलक्षणं प्रापञ्चिकधर्मरहितं 'अस्थूलम- नण्वि'त्यादिश्रुतिविषयः, 'सत्यं ज्ञानमनन्तं ब्रह्म' 'यो वेद निहितं गुहायाम्' 'सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्' 'तदाहुरक्षरं ब्रह्म' 'तद्धाम परमं ममे'त्यादिश्रुतिस्मृतिविषयश्च । इदं तु ब्रह्मणो भौतिकं प्रपञ्चात्मकं रूपं नाशोत्पत्तिमत्त्वेन भासमानत्वान्मायिकं सगुणमित्याद्यज्ञा- नविलासैर्विकल्प्यते । वस्तुतस्तु 'स हैतावानास' 'स आत्मान १४ स्वयमकुरुत' 'ऐतदात्म्यमिद १४ सर्वम्' 'यदयमात्मा तत्सत्यम्' 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' 'कथमसतः सज्जायेत' 'सत्त्वाच्चावरस्य' 'असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्' 'पटवच्च' 'ना- भाव उपलब्धेः' 'आत्मकृतेः परिणामादि'त्यादिश्रुतिन्यायशतैरक्षरात्मकमुररीकार्यम् । तत्र नाशोत्पत्तिप्रतीतिर्भ्रान्त्या । आविर्भावतिरोभाववत्त्वेन नित्यत्वात् । ननु 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि'ति श्रुत्या विकारभूतस्य प्रपञ्चस्य कुतो न मिथ्यात्वमिति चेत् । न । 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति सूत्रेण वाचारम्भणमित्यादिशब्दानां प्रपञ्चे ब्रह्मानन्यत्वप्रतिपादनार्थताया निर्णीतत्वात् । अपि च । घटे मृद्विकारत्वमिव प्रपञ्चे ब्रह्मविकारत्वं नास्ति । अविकृतपरिणामवादस्वीकारात् । यत्र हि कार्यस्य पुनः पूर्व- भावापत्तिः सोऽविकृतपरिणामः । यथा कनककुण्डलस्य पूर्वभावापत्तिः कर्तुश्चिकीर्षया, तथा प्रपञ्चस्यापि चिदानन्दप्राकट्ये पूर्वभावापत्तिः । अतो विकारत्वाभावाद्वाचारम्भणश्रुतेर्न प्रपञ्चे प्रवृत्तिः । किञ्च । मायिकं जगदिति वदन् वादी प्रष्टव्यः कथमसत्प्रतीयत इति । शुक्तौ रजतमिवेति चेत् । न । चक्षुषोपलभ्यमानायां हि शुक्तिकायां रजतभ्रान्तिः । ब्रह्मणस्तु 'पराञ्चि खानी'ति श्रुत्या सकलेन्द्रियागोचरत्वेन न तदधिष्ठानकभ्रमसम्भावनापि । भ्रमो- त्पत्तेः सादृश्यसापेक्षत्वेन ब्रह्मप्रपञ्चयोः सादृश्याभावाद्भ्रमाभावः । न हि रज्जौ भुजङ्गभ्रम इव रजतभ्रमोऽपि सूपपादः । सादृश्याभावात् । ननु नीरूपत्वेन चक्षुरगोचरेऽपि व्योम्नि सादृ- श्यानपेक्षो नीलमिदं गगनमिति भ्रमो भवत्येव, अज्ञानकलुषितबुद्धीनामिति चेत्, न । शृणु । ' तत्र हि नभसो मनोगोचरत्वेन व्यवहारविषयत्वाद्भ्रमोद्भूतिः सम्पद्यते । ब्रह्मणि तु निर्विशेषे भ्रमो नास्त्येव । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे'ति श्रुतेर्मनोवागगोचरत्वेन सर्वथा ज्ञानाविषये भ्रमसोपपादयितुमशक्यत्वात् । भवन्मते निरुपाधिके ब्रह्मणि सर्वथा ज्ञानाविष-
यत्वमभिमतम् । विषयत्वेन जडत्वेन व्याप्तेः स्वीकारात् । नन्वारोपे ह्यधिष्ठानसामान्यज्ञानं कारणं, न तु विशेषतो ज्ञानम् । अहंवृत्तौ भासमानस्यात्मनो भवत्येव सामान्यज्ञानमिति चेत्, न । उपाध्यवच्छिन्नस्यैवाहम्प्रत्यये भासमानत्वात् । एवं सद्यात्मनो निरुपाधिकस्य ज्ञानाभावान्न तत्र जगदारोपः संभवतीति विद्वद्भिर्ज्ञेयम् । केचित्तु निषेधमुखेन ज्ञानं सामा- न्यज्ञानमित्याहुः । तन्न । शास्त्रोत्पाद्यस्य तस्यासार्वजनीनत्वे मूर्खाणां जगत्प्रत्ययाभावप्रस- ङ्गात् । सर्वव्यावृत्तताज्ञानस्य त्वधिष्ठानविशेषज्ञानत्वेन प्रत्युत भ्रमनिवर्तकत्वाच्च । न च कस्यचिद्गगनज्ञानाभाववतोऽपि बालादेर्गगने नीलिमभानान्नाधिष्ठानसामान्यज्ञानस्य भ्रम- कारणत्वम् । तथा सति निर्विशेषस्याधिष्ठानस्य सामान्यज्ञानाभावेऽपि तदधिष्ठानको जग- द्भ्रमः स्यादेवेति वाच्यम् । इदं किञ्चिन्नीलमित्याकारकस्य किञ्चित्त्वेन रूपेणाधिष्ठानज्ञानस्य तत्रापि सत्त्वात् । अन्यच्च । यद्यधिष्ठानज्ञानरहितस्यापि नीलिमप्रतीतिरङ्गीक्रियेत, तदा तत्प्रतीतेर्भ्रमत्वमेव न स्यात् । नीलिमज्ञानस्य सर्वदा सर्वेषां जायमानत्वादुपाधिजन्यत्वाभा- वेनोपाधिनाशनाश्यत्वाभावाच्च । मायिकस्य नीलरूपस्य विद्यमानस्यैव विषयत्वेन तद- वगाहिज्ञानस्य भ्रमत्वायोगात् । न च तस्यानिर्वचनीयत्वं, सदसद्भिन्नतयेति वाच्यम् । नीलिम्नः सर्वदैव विद्यमानत्वेन प्रतीतिविषयतया ज्ञानबाध्यत्वाभावेन गगनवत्स्थिरतयाऽनि- र्वचनीयकल्पनायाः प्रवेशानवसरात् । अधिष्ठानभूतं गगनमनवगाह्यैव इदं नीलमिति प्रत्य- यात् । गगनस्य नीरूपत्वान्नीलरूपारोपे भ्रमत्वस्य सुवचनत्वात् । तथा गगनं नीलमिति प्रती- तावेव भ्रमत्वं न तु केवलं नीलमिदमिति प्रतीतौ । तत्र गगनावगाहाभावात् । तदभाववति तदारोपाभावात्, प्रतीतिविषयतया ह्यसत्त्वस्यापि भवन्मतेऽनङ्गीकारात् । अतः सत्त्वमेवोरी- कार्यं स्यात् । तथा सति तदवगाहिज्ञानस्य प्रमात्वमेवापद्येत । अत एतद्दूषणपरिहृतयेऽ- धिष्ठानस्य वियतः केनचिद्रूपेण ज्ञानं बालादीनामप्यस्तीति मन्तव्यम् । तथाच यदा शास्त्रस- मुत्पन्नबुद्ध्या नीरूपत्वेन वियतः केनचिद्रूपेण ज्ञानं बालादीनामप्यस्तीति मन्तव्यम् । तथा च यदा शास्त्रसमुत्पन्नबुद्ध्या नीरूपत्वेन वियतो ज्ञानं समभूत्, तदा रूपरहिते वियति नील- रूपस्यासम्भवं जानन् नीलिमानमसन्तमेव निश्चिनोति । एवं बाधविषयत्वेन सत्त्वाभावाद- विद्यमाननीलरूपावगाहिज्ञानस्य भ्रमत्वं सुवचमिति सन् पन्थाः । एतावता सिद्धमेतत् । अधिष्ठानसामान्यज्ञानं भ्रममात्रे कारणम् । तथा सति परमतेऽधिष्ठानत्वेनाभिमतस्य निर्वि- शेषब्रह्मणः केनापि प्रकारेण ज्ञानविषयत्वाभावान्न तस्मिन्नधिष्ठाने भ्रमः संभवतीति दिक् । यद्यपि सत्तारूपेण सर्वत्र तदस्ति, तथापि न ज्ञातुं शक्यम् । घटः सन् पटः सन्नित्यादौ तु न निर्विशेषरूपा सत्ता प्रतीयते, अपि त्वधिष्ठेयनिष्ठसत्ताया एव प्रतीतिरिति भ्रमोऽधिष्ठानरूपब्रह्मणि निरूपयितुमशक्य एवेति प्रपञ्चमिथ्यात्वं विद्वद्भिर्नादर्तव्यम् । किञ्च । जगदभिपश्यतः परमेश्वरस्यापि भवन्मते भ्रान्तत्वापातः । भ्रमप्रतिपन्नस्य रजता-
१ जगत्प्रतीत्यभावेति ख. २ सुवचत्वादिति स्यात् ।
देशान्तेनैवाध्यक्षीकरणात् । 'वैधर्म्याच्च न स्वप्नादिवदि'ति तत्त्वसूत्रे आदिशब्देना- सत्त्वप्रतिपादकानां सर्वेषामेव निषेधात्प्रपञ्चसत्यत्वमेवाभिप्रेतं व्यासचरणानाम् । 'असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमि'ति जगदसत्यत्ववादिनां भगवता निन्दितत्वाच्च । अन्यच्च । ब्रह्मणो यथार्थज्ञानं हि जगद्भ्रमं निवर्तयति, शुक्तिबोधो रजतभ्रममिव । तच्च मननादिजन्यत्वेन प्रपञ्चमध्यपातितया नाज्ञानरूपं प्रपञ्चं दूरीकर्तुमीष्टे । यावज्ज्ञा- नानां जगदन्तःपातित्वेनाज्ञानरूपत्वात् । प्रपञ्चोपशामकज्ञानस्योपशान्तौ साधनान्तरस्य मृग्यत्वाच्च । न च चरमवृत्तिज्ञानकार्यमखिलं नाशयित्वा स्वयं नश्यति, कतकरेणुवदिति वाच्यम् । चरमवृत्तिजन्यस्याज्ञानध्वंसस्य नाशकान्तराभावेनावशिष्टस्य सत्त्याऽद्वैतसिद्धि- व्यघातात् । चरमवृत्तिनाशक्षणस्य विद्यमानतया द्वैतापत्तेश्च । अपि च । चरमवृत्तेर्जगन्नाशं प्रति कारणत्वम् । तच्च कार्यनियतपूर्ववृत्तित्वम् । पूर्वत्वं तु कालकृतमिति कारणतानिर्वाहकः कालोऽवशिष्यत एव । तथाच चरमवृत्तिः स्वयं नश्यतीत्युक्तावपि कालस्य कारणतानिर्वाहक- स्योर्वरितत्वान्नाद्वैतसिद्धिरिति ज्ञेयम् । न च ब्रह्मणतिरिक्तः कालः सुखेनावशिष्यताम्, अद्वै- ताबाधकत्वादिति वाच्यम् । चरमवृत्तिनाशरूपकार्यपरिच्छेद्यकालस्य सर्वापरिच्छेद्येन ब्रह्मणा सहाभेदस्य वक्तुमशक्यत्वादिति दिक् । न च वृत्तिरूपाणां तथात्वेऽपि 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति श्रुतेः स्वरूपभूतं ज्ञानं प्रपञ्चभ्रमापहारीति वाच्यम् । स्वरूपभूते ज्ञाने प्रपञ्चनाश- कत्वाङ्गीकारे निर्विशेषवादबाधापत्तेः । ब्रह्मण्येव प्रपञ्चनाशकत्वपर्यवसानात् । तस्य सर्वदैव विद्यमानत्वेन सदा सर्वेषां बन्धाभावप्रसङ्गाच्च । मननादिविधीनामानर्थक्यापत्तेश्च । मनना- दिविधीनां तदभिव्यक्तौ साफल्यमिति चेत्, न । तस्मिन्स्वरूपभूते ज्ञानेऽभिव्यक्त्यात्मकधर्मा- ङ्गीकारे धर्मतावच्छेदकावच्छिन्नाभाववादहानिप्रसङ्गात् । असत्त्ववादे ब्रह्मणि व्यापकत्वमपि दुरुपपादम् । व्याप्यानामज्ञानकल्पितत्वेनापार्थकत्या तत्सापेक्षस्य व्यापकत्वस्यापि सुत- रामवास्तवत्वात् । अस्तु तथात्वमिति चेत्, न । 'बृहत्त्वाद्वृंहणत्वाच्च ब्रह्मे'ति श्रुतिव्याकोपात् । जगदसत्यत्वे तदन्तःपातिनीनां श्रुतीनामपि तथात्वेन व्यवहारमात्रे प्रामाण्याङ्गीकारात्तदुक्तानां निर्विशेषत्वाज्ञेयत्वनिराकारत्वादीनां पारमार्थिकत्वेन तन्मतेऽभिमतानामपि व्यवहृतिमात्रैक- सत्यत्वापोतात् । मनोव्यापारविजृम्भितत्वाच्च । तन्मते शुद्धब्रह्मणो मनोऽप्राप्यत्वेन मनोग- म्यस्य ब्रह्मातिरेकादित्यलमुक्तिभिः । यदप्याहुः—सचेन्न बाध्येत । असचेन्न प्रतीयेत । अतः सदसद्विलक्षणमनिर्वचनीयं जगदिति । तत्र असचेन्न प्रतीयेतेति यदुक्तम् । तन्न । 'अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्चरणसेवयाऽहं पराणुदे' इति मैत्रे- यवाक्यात् 'छायाप्रत्याह्वयाभासा असन्तोप्यऽर्थकारिण' इति वाक्यान्तराच्च असतोऽपि प्रतीतिस्वीकारात् । अतोऽसत्पदार्थ एव भेदद्वयमस्ति । एकमसन्न प्रतीयते, शशशृङ्गादिवत् । एकमसत्प्रतीयते शुक्तिरजतादिवदिति व्यवस्था । न त्वनिर्वचनीयं कल्पनीयम् । मानाभा-
१ लक्षणेति पाठः । २ व्यवहृतिमात्रैकसत्यत्वाभावादिति. ख.
[Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ७१
वात् । ननु 'त्वय्यद्वितीये भगवन्नयं भ्रम' इत्यादिवाक्येष्वसत्यता दृश्यत इति चेत्, न । भ्रमः अज्ञानमसदित्यादिशब्दानामहन्ताममतात्मकसंसारविषयत्वात् । एतच्चाग्रे स्पष्टम् । किञ्च । अनादिरयं भ्रम इति प्रवादोऽपि चिन्त्यः । भ्रमत्वस्य ज्ञानत्वव्याप्यत्वात् यावज्ज्ञानानां जन्य- त्वनियमात् । न च 'बन्धोऽस्याऽविद्ययाऽनादिरि'ति वाक्यादनादित्वम् । अविद्यायाः कारणत्वव्याघातापत्तेः । तथाचेह सादित्वनिषेधो घटपटादिसाधारणोपेक्ष्यकः । देवेष्वमरपदेन मरणनिषेधवत्।अतः सर्वथा प्रपञ्चभ्रमे अनादित्वकथनमयुकमेव । अन्यच्च । ज्ञानबाध्यत्वं मिथ्या- त्वमित्याहुः । तन्न । चरमवृत्तिरूपे ज्ञाने ज्ञानबाध्यत्वाभावाद्व्याप्तेः । चरमवृत्तेः कतकरेणुदृष्टा- न्तेन स्वत एव नाशाङ्गीकारात् । न चाज्ञानजन्यत्वं मिथ्यात्वमिति वाच्यम् । मूलाज्ञानेऽज्ञान- जन्यत्वविरहेण लक्षणाव्याप्तेः । मूलाज्ञानस्य भवत्सिद्धान्तेऽनादित्वाङ्गीकारात् । प्रकृतमनुस्रियते । ब्रह्मणो रूपत्रयम् । तत्राधिदैविकं परं ब्रह्म कृष्णाख्यं प्रथमम् । आध्यात्मिकमक्षरात्मकं द्वितीयम् । आधिभौतिकं प्रपञ्चात्मकं तृतीयम् । तत्र स्पष्टार्थं गङ्गां दृष्टान्तीकुर्वन्ति द्विरूपं चापि गङ्गाषदित्यादिना । माहात्म्यसंयुतेति । मर्यादामार्गवि- धिना सेवतां भोगमोक्षदात्री द्वितीया तीर्थरूपेत्यर्थः ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ आधिदैविक्याः स्वरूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले । विहिताच फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ तृतीये भौतिके रूपे भेदमाहुः जगच्चेति । जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्मण्येत्थं हरिर्मतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् । त्रिविधं त्रिस्वभावत्वेन प्रकटम् । आधिदैविके अंशभेदानाहुः । ब्रह्मविष्णु- शिवाः देवतारूपवत्प्रोक्ता इत्यन्वयः । अत्रायमर्थः । देवताया आधिदैविकरूपाया गङ्गाया रूपाणि अंशभूतानि भीष्मजनन्यादीनि मूर्तिमन्ति तत्तत्पुराणादौ प्रोक्तानि, तद्वद्देवतारूपस्य कृष्णस्य ब्रह्मविष्णुशिवरूपाणि अंशभूतानीत्यर्थः । तान्येव रूपाणि
[Footnote] १ करणत्वेति पाठः ।
७२ सिद्धान्तमुक्तावली । राजसादिस्वभावप्रकाशकानि जगतो नियामकत्वेनोत्पत्त्यादौ कार्ये व्यापृतानि । तदंशी कृष्णस्तु नित्यनिरवद्यानन्दात्मको गुणातीतो रसात्मकलीलामात्रैककार्य इति भावः । ब्रह्मविष्णुशिवानां कृष्णांशत्वेन आधिदैविकरूप-भेदमध्ये गणना । 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरञ्चिहरेति संज्ञाः' 'न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते' इत्यादिवाक्यात् । ब्रह्मवैवर्ते स्पष्टमेव त्रयाणां कृष्णांशत्वप्रतिपादनाच्च । अत एव निबन्धे श्रीमदाचार्यचरणैरवादि 'गुणाभिमानिनो ये वै तदंशाः सगुणाः स्मृता' इति । अग्रे च 'अन्तर्याम्यक्षरं कृष्ण' इत्यारभ्य 'स्वभावकर्मकालाश्चे' त्यनेनाक्षरभेदानुक्त्वा 'रुद्रो ब्रह्मा हरिस्तथे' ति वाक्येन कृष्णभेदा उक्ताः । तथाच सिद्धमेतत् । 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मे- त्युदाहृत' इत्यत्र क्षराक्षरपुरुषोत्तमा उक्ताः, तेऽत्र 'परं ब्रह्म तु कृष्णो ही'त्यारभ्य 'देवता- रूपवत्प्रोक्ता' इत्यन्तेन प्रपञ्चाक्षरकृष्णशब्दवाच्या विवेचिताः । न च गीतासु त्रयाणां पृथ- गुप्त्या द्वैतं शङ्क्यम् । 'वासुदेवः सर्वमिति'त्यनेन शुद्धाद्वैतस्यैव भगवदभिप्रायविषयत्वस्फु- रणात् । ब्रह्मणोति । स्थितानामिति शेषः । यथा जगतो नियामकाः कृष्णांशा ब्रह्मादयः, इत्थमक्षरब्रह्मभूतानां नियामको हरिरेव न तु ब्रह्मादयः । तेषां ज्ञानिनां जगदतीतत्वादिति भावः ॥ कामचारस्त्विति । अस्मिन् क्षररूपे लोके प्रपञ्चे कामचारः तत्फलप्रेप्सया प्रवृत्तानां मनोरथप्राप्तिप्रवाहो ब्रह्मादिभ्यः कृष्णांशभूतेभ्यो भवति । दृष्टान्तेऽपि गङ्गांशभूताया एव लौकिकव्यवहारः स्मर्यते भारते शन्तनुप्रसङ्गे, न तु साक्षादंशवत्या गङ्गाया आधिदै- विक्याः सकाशात् । तस्याः केवलभक्तिलभ्यायाः प्रवाहे सर्वदैव विद्यमानत्वात् । ननु लोके कामचारो ब्रह्मादिभ्य इत्युक्ते भक्तानामपि लोकमध्यपातितया तथैव भविष्यतीत्याशङ्क्य तेषां भिन्नप्रकारमाहुः परमानन्दरूपे त्विति । लोकविशेषणमेतत् । परमानन्दो रूप्यते व्यव- ह्रियते यत्रेत्यर्थात् । तुशब्दः पूर्वप्रक्रियां व्यावर्तयति । परमानन्दरूपे लोके लीलायोग्य- प्रपञ्चे तु पुष्टिभक्तानां स्वात्मनि स्वात्मत्वेन स्फुरिते कृष्ण एव निश्चयो मनःस्थैर्यं स्वसक- लमनोरथपूरकत्वबुद्धिश्च्छन्दप्रवृत्तिप्रवाहो, न तु ब्रह्मादिभ्यः । 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्' 'अहं भक्तपराधीनः' 'तेषां नित्याभियुक्तानां योग- क्षेमं वहाम्यहम् । तेषामहं समुद्धर्त्ता मृत्युसंसारसागरादि'त्यादिवाक्येषु साधारणेभ्यः पृथक्तया भक्तानां चतुर्विधपुरुषार्थसाधकत्वस्य स्वस्मिन्नेव भगवताङ्गीकृतत्वात् । एवं साधारणजीवानां पुष्टिस्थानामंशांशिभेदेन कामचारव्यवस्थामुक्त्वा वस्तुतः साधारणानामं- शेभ्यो जायमानमपि फलं भगवत एवेति भगवान् एव सर्वेषां सर्वफलदायक इति प्रतिपाद- यन्ति अतस्त्वित्यादिना । वस्तुविमर्शे सर्वस्य कृष्णात्मकत्वं तदधीनत्वम्, अतो ब्रह्मवादेन तु कृष्ण एव बुद्धिः फलप्रदत्वबुद्धिर्विधीयताम् । 'फलमत उपपत्तेरि'ति न्यायेन कृष्णस्यैव
१ व्याव़त्तानीति ख. २ स्वच्छन्दवृत्तिरूपः कामचार इति पाठः ।
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ७३ फलदत्वम् । 'यो यो यां यां तनुं भक्त' इत्यारभ्य 'मयैव विहितान् हि तानि'त्यन्तेन स्वस्यैव फलदातृत्वोक्तेश्च । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । ज्ञानाभावे पुष्टिमार्गे तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः । अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तेव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥ भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतना इति । आत्मनि आत्मविषये । उच्यत इति शेष इति प्रभुचरणाः । तथाच आत्मनीति प्रतिज्ञायां ज्ञेयम् । ब्रह्मरूपे जीवे छिद्राश्चेतना व्योम्नि छिद्राश्चेतना इवेत्यन्वयः । छिद्राणि विषयत्वेन विद्यन्ते यासु चेतनासु ताः छिद्राश्चेतनाः । अर्शआद्यच् । चेतनाशब्दो बुद्धिवाचकः । 'प्रतिपज्ज्ञप्ति- चेतना' इति कोशात् । तथाच छिद्राश्चेतनाश्छिद्रवत्यो बुद्धय इत्यर्थः । बुद्धीनां छिद्र- वत्त्वं तु विषयत्वेन छिद्राणां तत्र स्फुरणात् । एवञ्च व्योम्नि अविद्यमानानां छिद्राणां बुद्धिवृत्तिषु स्फुरणाच्छिद्राश्चेतना विपर्यासबुद्धय इति फलितम् । 'संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथग्'ति कपिल- वाक्याद्विपर्यासस्य बुद्धिवृत्तित्वात् । तत्र दोषविशेषवद् दृशा व्योम्नि छिद्राणि प्रतीयन्ते । अतश्छिद्रवत्यो बुद्धयो व्योम्नि यथा मिथ्याभूतपदार्थावगाहिन्यः, तथा ब्रह्मरूपे जीवे छिद्राश्चेतनाः सदोषत्वादिबुद्धयो मिथ्याभूतसंसारावगाहिन्यो, न तु यथार्थावगाहिन्यः । 'जीवसंसार उच्यत' इति निबन्धे संसारस्य मिथ्याभूतत्वेन सिद्धान्तितत्वात् । 'उच्यते, १० सि० मु०
न तु जायत’ इति व्याख्यानात् । व्योम्नि यथा छिद्राश्चेतनाः, तथा जीवे छिद्राश्चेतनाः । पूर्वत्र छिद्रशब्दस्य विवरविशेषवाचकत्वम्, उत्तरत्र तु छिद्रशब्दो दोषवाचकः । ‘खलः सर्षपमात्राणि परच्छिद्राणि पश्यती’त्यादौ दोषाणां छिद्रपदवाच्यत्वात् । तथाच जीवो ब्रह्मांशत्वेन वस्तुतो ब्रह्मरूप एव, न तु संसारी । संसारित्वं त्वौपाधिकम् । तच्च पूर्वोक्तकृष्णसेवानाश्यमित्यभिप्रायः । इदमेवानुपदमुपपाद्यते उपाधिनाश इत्या- दिना । स्वसिद्धान्ते यादृशं जीवस्वरूपं तद्बन्धमुक्तिस्वरूपं च प्रभुचरणैरेतट्टीकायां विवृत- मेव ‘जीवा ह्यणवोऽक्षरात्मका’ इत्यादिनेति न मया लिख्यते । ननु जीवस्याणुत्वं निरूपितं, तन्मास्तु । किन्त्वविद्यायां ब्रह्मप्रतिबिम्बो जीव इत्युररीकार्यम् । पूर्वं बहुभिरा- दृतत्वादिति चेत्, न, नीरूपस्य ब्रह्मणः प्रतिबिम्बासम्भवात् । न च गुणे गुणानङ्गीकारान्नी- रूपस्य रूपस्य प्रतिबिम्बदर्शनाद्रूपरहितस्य ब्रह्मणोऽपि प्रतिबिम्बः सुलभ इति वाच्यम् । रूपवतो घटादेः प्रतिबिम्बिततया तन्निष्ठरूपप्रतीतौ सिद्धायां पृथग्रूपप्रतिबिम्बे मानाभा- वात् । स्वाश्रयातिरेकेण रूपोपलब्धेः सर्वथाविरुद्धत्वात् । किञ्च । दर्पणादौ प्रतिबिम्बितं घटनिष्ठरूपं पश्यन् स्वयं प्रतिबिम्बितमिति रूपं च नीरूपमिति नीरूपस्य ब्रह्मणोपि प्रति- बिम्ब इति मनुषे । तथैव रूपशून्यं रूपं चाक्षुषमिति नीरूपः परमात्मापि चक्षुर्ग्राह्य इति मन्यस्व । ननु नीरूपस्य गगनस्य प्रतिबिम्बान्नीरूपस्य ब्रह्मणोऽपि स्यादिति चेत्, न, जला- दावौपाधिकस्य प्रतिबिम्बितरूपस्य दर्शनादौपाधिकेन तेन च वियतः सम्बन्धाभावादाकाशप्र- तिबिम्बस्य वक्तुमयोग्यत्वात् । अन्यथा नीलमिदं गगनमितिप्रतीत्या गगनचाक्षुषत्वमङ्गीकृत्य ब्रह्मचाक्षुषत्वमङ्गीकार्यं स्यात् । न च कल्पितरूपवतो जगज्जन्मादिकारणस्य भवत्वेव चाक्षुषत्व- मिति वाच्यम् । सोपाधिके ब्रह्मणि भवन्मते मायिकरूपाङ्गीकाराच्चाक्षुषत्वप्रतिबिम्बितत्वयोः सुवचत्वेऽपि शुद्धे नीरूपे ब्रह्मणि द्वयोरप्यसम्भवेन विवक्षितप्रमेयालाभात् । अपि च । चक्षु- र्ग्रहणयोग्यस्यैव प्रतिबिम्बसम्भवं जानन्नप्ययोग्यस्य शुद्धस्य प्रतिबिम्बं प्रतिपादयन्नयोग्यस्य चाक्षुषत्वं किमिति न मनुषे । अन्यच्च । अवयवेऽवयवानङ्गीकाराच्चरणरहितयोरपि चरण- योर्गमनदर्शनाच्चरणरहितस्याऽपि कस्यचिद्देवदत्तादेर्गमनसम्भवः स्यात्, स चाखिलप्रमाणवि- रुद्ध इति चरणविशिष्ट एव पुंसि गतिरङ्गीकार्या । एवं नेत्रादावपि । तथा च रूपविशिष्ट एव प्रतिबिम्बते, न तु रूपं पृथक्तयेति न रूपशून्यस्य प्रतिबिम्ब इत्यविद्यायां ब्रह्मप्रतिबिम्बो जीव इति नादर्तव्यं सुधीभिः । ननु जपाकुसुमारुणगुणो द्रव्यं विहायैव स्फटिके प्रतिस्फुरति । अन्यथा दर्पणादौ मुखान्तरप्रतीतिवत् स्फटिके जपाकुसुमान्तरप्रतीतिः स्यात् । सा तु नास्ति । किन्तु केवलमरुणिमैव प्रतीयते । तत्र च नीरूपत्वमेव । गुणे गुणानङ्गीकारात् । अतो नीरूपस्याप्यरुणस्य प्रतिबिम्बदर्शनान्नीरूपस्य ब्रह्मणोऽपि प्रतिबिम्ब उपपन्न इति प्राप्ते— समाधिरुच्यते । रूपमात्रस्यापि प्रतिबिम्बे रूपवतो जपाकुसुमादेः कारणत्वमन्वयव्यतिरे- कसिद्धम् । रूपवज्जपाकुसुमादि विना रूपप्रतिबिम्बाभावात् । एवं सर्वत्र ज्ञेयम् । न हि रूप- वन्तं विना रूपमात्रप्रतिबिम्बो लभ्यते कुत्रापि । तथाच प्रतिबिम्बत्वावच्छिन्ने रूपवद्वस्तुनः कारणत्वाद्व्रह्मणः प्रतिबिम्बो नोपपद्यते । अत एवाचार्यवर्यैर्निबन्ध उक्तं ‘न प्रति- स्फुरणं रूपरहितस्य कदाचने’ति । अत एव न वायोः प्रतिबिम्बः । एवं सति रूपवान्
घटादिर्दर्पणादौ धर्मिरूपेण प्रतिबिम्बते । रूपवान् जपाकुसुमादिः स्फटिके धर्मरूपेणारु- णगुणेन प्रतिस्फुरति । एवमुभयथा रूपवत एव प्रतिबिम्बसम्भवाच्चीरूपस्य ब्रह्मणः प्रति- बिम्बो न युक्तिसह इति सुधियो विदन्तु । अत एव प्रतिबिम्बत्वावच्छिन्ने रूपवतः कारण- तामवगत्य विद्वन्मण्डन उक्तम्—'रूपवत एव प्रतिबिम्बनियमादि'ति । उपाधिनाश इति । भगवज्जीवयोरन्तरायभूताऽविद्या तस्याः कार्यस्य नाशे सति । 'अन्यद्युष्माकमन्तरं बभूवे'ति श्रुतेर्ज्ञानं प्रत्यविद्यानाशस्य प्रतिबन्धकाभावत्वेन कारणतयाऽवश्यमपेक्षणात् । विज्ञान इति । ब्रह्मणो विशेषतः सर्वात्मकत्वेन सर्वातिरिक्त रूपत्वेन च ज्ञाने सति । ब्रह्मा- त्मत्वावबोधन इति । ब्रह्मज्ञानानन्तरं जडजीवयोस्तदात्मकतया स्वस्यापि ब्रह्मात्मत्वेना- वबोधे सति वक्ष्यमाणं फलं भवति । सिद्धान्ते हि ब्रह्मज्ञानं पुमर्थाय । 'यस्मिन् विदिते सर्वमिदं विदितं भवती' ति श्रुतेः । न त्वेकदेशभूतं पराभिमतं जीवमात्रे ब्रह्मत्वेन ज्ञानम् । एवं सत्यविद्यानाशे ब्रह्मस्वरूपज्ञानं तस्मिन् सति सर्वस्यापि पदार्थजातस्य बोधः, तेन स्वस्यापि सर्वमध्यपातितया निर्विकाराक्षरत्वेनापरोक्षस्फूर्तिः, ततो 'ब्रह्म वेद ब्रह्मैव भवती'- ति श्रुतेरक्षरात्मकतायां सिद्धायां 'तद्धाम परमं मम' 'विष्णोर्धाम परं साक्षात्पुरुषस्य महा- त्मन' इत्यादिवाक्यैरक्षरस्य भगवदधिष्ठानत्वात्तत्र स्थितमक्षरातीतं पुरुषोत्तमं कृष्णं ज्ञानी भक्तः पश्यति । तदाहुः तथा कृष्णं परं ब्रह्मेत्यादि । तत्र दृष्टान्तः गङ्गातीरस्थित इति । यथा प्रवाहसन्निधौ वर्तमानस्तन्मध्यवर्तिनीं मूर्तिमतीं गङ्गां श्रद्धाधिक्ये पश्यति, तथा ज्ञानी भक्तोऽपि भगवदधिष्ठानत्वेन निकटस्थायिन्यक्षरात्मके स्वस्वरूपे भक्त्या कृष्णं पश्य- तीति भावः । अत एव भगवता 'चतुर्विधा भजन्ते मामि'ति सन्दर्भे ज्ञानी भक्तः प्रशं- सितः । निबन्धेऽपि 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः पर' इत्युक्तम् । ननु भक्त्या केवलयैव सर्वपुरुषार्थसिद्धौ किमर्थं ज्ञानाग्रह इत्याशङ्क्य प्रेमवतस्तदनपेक्षत्वेप्यनुत्पन्नस्नेहस्य भजनाङ्गत्वेनास्त्येव ज्ञानापेक्षेति तद्रहितस्य दोषमाहुः संसारीति । अनिवृत्ताहन्ताममताको- ऽनुत्पन्नबोध इति यावत्। स तु कृष्णं भजन दिदृक्षाया आधिक्यादविद्ययाऽन्तरायभूतया दर्श- नाभावाद्दुःखभाग्भवति । अत्र दृष्टान्तः दूरस्थ इति । यथा गङ्गाभक्तः स्नानपानाद्यर्थं तज्ज- लमभिलषन्नादिशब्देनाधिदैविकीं दिदृक्षन् दर्शनाभावात्प्रवाहरूपगङ्गाविप्रकर्षेणाधिदैविकी- विप्रकर्षादुभयमलभमानो दुःखी भवति तद्वदित्यर्थः। सिद्धमुपदिशन्ति तस्मादिति । श्रीकृष्ण- ष्णमार्गस्थ इति । भक्तिमार्गस्थ इत्यर्थः । सर्वलोकतः संसारतः विमुक्तो भूत्वा शुद्धपुष्टि- मार्गींयव्रजसुन्दरीवृन्दविहारिणं कृष्णमेव निरवध्यानन्दं विशेषेण चिन्तयेत्, मानसीसिद्ध्यर्थं लीलाविशिष्टभावनं कुर्यादिति भावः । अयमेवार्थः श्रीमत्प्रभुचरणैष्टीकायां विवृतः 'कृष्ण- पदा'दित्यारभ्य, 'आत्मपदं भगवत्पर' मित्यन्तेन । ननु ज्ञानरहितो भक्तो भगवद्दर्शनावरोधक- संसारस्य विद्यमानत्वाद्दुःखी भवतीत्युक्तम् । तथा सति केवलज्ञानवत् तादृग्भक्तेरप्यप्रयो- जकत्वमित्याशङ्क्य पूर्वोक्तमनूद्य केवलभजनेनापि निर्वाहमाहुः लोकार्थीति । लोकार्थी पशुपुत्रादिविषयकाङ्क्षावान् । अनुत्पन्नज्ञानः संसारीति यावत् । भजनं कुर्वन् पूर्वोक्तप्रका- रेण दिदृक्षाधिक्याद्दर्शनाभावात्क्लिष्टो भवति । तादृगपि आग्रहं कृत्वा भजनं चेन्न त्यजति, तदा भगवत्कृपया लोकः संसारोऽहन्ताममतात्मको भगवत्साक्षात्कारप्रतिबन्धकर्ता नश्यती-
त्यर्थः । अत्र प्रपञ्चवाचिना लोकशब्देन तदन्तःस्थितः संसारो लक्ष्यते । नाशस्योक्तत्वादर्थ- खारस्याच्च लक्ष्यार्थ एव ग्राह्यः । एवं केवलया भक्त्या भगवद्भजनं निर्वहतीत्युक्तम् । तत्कथमित्याकाङ्क्षायां प्रमेयबलेन तद्भवतीति वदन्ति अनुग्रह इति । पुष्टिमार्गस्यानुग्र- हैकनियम्यत्वात्प्रमाणविरुद्धमपि प्रमेयबलेन भवेत् । 'नेमं विरञ्चो न भवो न श्रीरप्यङ्गसं- श्रया । प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिकादि'त्यादिवाक्येभ्य इति भावः । पुष्टिमार्ग इति । पुष्टिजन्ये भक्तिमार्ग इत्यर्थः । पुष्टिश्च 'पोषणं तदनुग्रह' इति वाक्यादनुग्रहरूपो भगवद्धर्मः । स च लौकिकालौकिकोत्तमफलसाधकः । विशेषानुग्रहस्तु विरलजनविषयो भगवद्रूपात्मकफलसाधकः । तज्जन्यत्वं पुष्टिभक्तौ । अत्र पुष्टिंशब्देन पुष्टिविशेषो ग्राह्यः, न तु साधारणानुग्रहः । तस्य लौकिकफलं प्रति कारणत्वात् । अत एव पुष्टिस्र्कन्धे साधा- रणेनैव कृष्णानुग्रहेणेन्द्रादीनां दैत्यानां च तादृग्भक्तिरहितानामपि स्वाभिलषितलौकिकफल- सिद्धिः । तथोक्तं निबन्धे 'एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता । सर्वबाधारूपा हि दैत्ये पुष्टिर्योच्यत' इति । इन्द्रे महापुष्टिरित्यानुग्रहे महत्त्वं तु बलवत्प्रतिबन्धकनिवृत्त्या मनो- रथपूरकत्वं, न तु भक्तितत्सम्बन्धिसाधकत्वम् । लौकिकफलस्यैव दृश्यमानत्वात् । अतः साधा- रणानुग्रहो लौकिकफलसाधकः । विशेषानुग्रहस्तादृग्भक्तिहेतुरिति निष्कर्षः । सा च नवमस्क- न्धसूर्यसोमवंशीयवृत्तान्तकथनेन प्रपञ्चिता, मर्यादापुष्टिभेदेनेशानु कथाशब्देन व्यवह्रियते । ईशस्य अनुगामिनां भक्तानां कथा भक्तिरित्यर्थः । पुष्टिजन्या भक्तिः पुष्टिभक्तिः । अत एवोक्तं श्रीमत्प्रभुचरणैः 'तदनुग्रहैकलभ्यां भक्तिं च नुम' इति भक्तिहेतुनिर्णये । एवं सति भगवत्स्वरू- पातिरिक्तफलाकाङ्क्षारहिता भक्तिः पुष्टिभक्तिरिति पुष्टिभक्तेर्लक्षणं ज्ञेयम् । न च निष्काममर्या- दाभक्तावतिव्याप्तिः । अत्र मोक्षात्मकफलस्याकाङ्क्षितत्वात् । न च मोक्षः स्वरूपात्मक एवेति वाच्यम् । 'न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्ष' इति वृत्रवाक्ये स्वरूपा- तिरेककथनात् । अत एव पुष्टिमार्गीया नैनं कामयन्ते । एतच्च 'अक्षण्वतामि' ति श्लोकविवृतौ, 'वीक्ष्यालकावृतमुखमि'त्यस्य सुबोधिन्यां स्पष्टम् । अत एव मोक्षकामनापि काम्यमध्ये विसृष्टा । तथोक्तं निबन्धे 'तत्समुद्धारणं काम्यग् । हरिसालोक्यकाम्ययेति वाक्यादि' ति । अतः स्वरूपातिरिक्तफलाकाङ्क्षारहिताः पुष्टिमक्ता एवेति सुधीभिर्विभावनीयम् ॥ १२ ॥ यदुक्तं श्रीमदाचार्यैर्विवृतं विठ्ठलेश्वरैः । कृतं तदनुसार्येतद्बालकृष्णाङ्घ्रिसेविना ॥ १ ॥ यदत्र बुद्धिदोषेण चेष्टितं बालचापलम् । क्षम्यतां श्रीमदाचार्यचरणैः कृपया मयि ॥ २ ॥ श्रुतिसिद्धरसामत्वकृष्णप्रेमप्रकाशकाः । दासे मयि प्रसीदन्तु प्रभवो विठ्ठलेश्वराः ॥ ३ ॥ कालिन्दीपुंलिने शरच्छशिकरैः शुभ्रीकृते मल्लिकाकुन्दामोदमदोन्मदालिनिनदे घोषाङ्गनाभूषिते। रासे राधिकया समं विहरतो मोदैर्मुहुर्नृत्यतः श्रीगोवर्धनधारिणो भगवतः सेवेय पादद्वयम् ४ यश्चिन्त्यो ब्रह्मरुद्राद्यैर्बालवीजनचिन्तकः । अस्मत्कुलपतिः श्रीमद्बालकृष्णः प्रसीदतु ॥ ५ ॥ इति श्रीमद्गोवर्धनधरश्रीवल्लभाचार्यवरश्रीविठ्ठलेश्वरचरणानुचरसेवकेन लालुभट्टो- पनामविदितबालकृष्णेन विरचिता सिद्धान्तमुक्तावलीयोजना सम्पूर्णा ।
परिशिष्टम् । श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाचार्यवर्यचरणपाथोजनितयुगलाय नमः । श्रीगो- पीजनवल्लभाय नमः । श्रीमदाचार्यवर्यश्रीविठ्ठलेशैः प्रचोदितः । कुरुते मथुरानाथगोस्वामि- तनयोऽद्भुतां । श्रीमदाचार्यसिद्धान्तमुक्तावल्या विवेचने । टिप्पण्या विवृतिं दासो द्वारि- केशः सविस्तरम् । अथ श्रीमद्गोकुलनाथाः श्रीमद्विठ्ठलेश्वरविरचितां सिद्धान्तमुक्तावल्या विवृतिं विवरीतुं निर्विघ्नतायै प्रार्थनात्मकं मङ्गलमाचरन्ति 'यद्वाञ्छये'ति । यस्य श्रीमद्वि- ट्ठलेश्वरपादरजसो वाञ्छया प्राप्तमनोरथेन पुंसः अर्थाः प्रयोजनाः जन्मप्रभृतियावत्कृतिवि- षयाः धर्मादयो भक्त्यन्ता वा मोक्षान्ता इति व्युच्चरणमारभ्य अक्षरप्रवेशपर्यन्तं यावज्जन्मकृताः अधरीकृताः हस्तागता भवन्ति सः कोपि अनिर्वचनीयः पितृपद्रेणुः मह्यं श्रीगोकुलनाथाय प्रसीदतु प्रसन्नो भवतु, तत्प्रसादं विना तद्भाष्याभिप्रायो हृदये न समायाति, यतः अतः प्रार्थ्यते । स इति पितृपद्रेणोः परोक्षत्वकथनेन श्रीमद्गोस्वामिनां कन्दराप्रवेशानन्तरं टिप्पणी कृतेति । अथ श्रीमद्वल्लभनंदनाः सिद्धान्तमुक्तावलीं विवरिषवः श्रीमदाचार्य- चरणाब्जपरागनमनात्मकं मंगलं विधाय ग्रन्थविवरणं प्रतिजानते प्रणम्येति । पितुः श्रीमदाचार्यस्य पादयोः अब्जयोः परागाब्जरजुरेणुर्मह्यं प्रसीदतु अनुरागतः प्रकर्षेण नत्वा तत्कृपया तद्वाङ्मुक्तावलीं विशदीकुर्मः । नमने प्रकर्षः भूमिपर्यन्तं साष्टाङ्गप्रणामः पितुः पालन- कर्तुः रूढ्या । श्रीमदाचार्यस्य पादयोरब्जयोर्निजभक्ततापहारकानंददायकयोर्यत् परागं रजः अनुरागः अनुरागश्च रागेण पूर्वं भगवता वरणे कृते तं अनुलक्षीकृत्य जायमानभक्त्या तत्कृपया श्रीमदाचार्यवाग्रूपां मुक्ताफलानामावलीं विशदीकुर्मो, धारणयोग्यां कुर्मो, मुक्तानां वर्तुलत्वेन दोरके प्रवणं विना तेषां वलेर्विशदीकरणं न संभवति यतः । अत एव समाप्तौ वक्ष्यन्ति ‘श्रीविठ्ठलस्तद् वाङ्मालां हृदये दधौ’ इति । अथ सा माला कालबाहुल्येन मलिना शिथिला च जातेति तद्रुजलादिनोज्ज्वलां कृत्वा धारणयोग्यां कर्तुं प्रकाशोधमः तत्र साधनं तेषां कृपा । अथ श्रीमद्वल्लभाचार्यचरणाः स्वीयानां स्वकीयसिद्धान्ताज्ञानजन्यतापं निवारयितुं नम- नात्मकं मंगलं विधाय स्वकीयसिद्धान्तविनिश्चयं प्रतिजानते । नत्वेति । स्मर्तृणामखिला- घहरं श्रीहरिं श्रीकृष्णं नत्वा, णम प्रहृत्वे शब्दे चेत्यनुशासनात् । अग्रे वक्ष्यमाणैर्बहु- भिर्मिथोविरुद्धैः सिद्धान्तैः शास्त्रार्थसंदेहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामि—श्रीगोकुलाधीशाः प्रतीकमाहुरग्रे इति । सिद्धान्तमुक्तावल्यां चतुर्थश्लोके । अथ प्रभवः प्रतीकमाहुः स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैरिति । मायिकं सगुणमित्यादिभिरित्यर्थः । तत्र परस्परविरोधस्य स्पष्टत्वात् साक्षाच्छ्रुतिनिरूपितं वक्ष्यामीति विशब्दार्थः । तस्यैव स्वकीयत्वज्ञापनाय स्वपदं, साक्षाच्छ्रुतिरिति । ननु श्रुतौ सेवाप्रकारः कुत्रोक्त इति चेच्छृणु । ‘भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायूः' । कर्णेभिरिति वैदिकपदोक्त्या कर्णानां दिव्यत्वं बहुवचनेन ‘विधत्स्व कर्णा- युतमेष इति प्रार्थनया प्राप्तत्वं भद्रं स्वं स्वं रवं शृणुयाम, ततो जागरणानंतरं भद्रं
भगवद्रूपं पश्येम, अक्षभिः अलौकिकनेत्रैः, भो यजत्राः सेवाकर्तारः ततो नीरांजनसमये तनूभिः कोमलैः स्थिरैरङ्गैस्तुष्टुवांसः यदायुस्तदेव हितं भगवदर्थं व्यशेम समर्पयावः, याव- ज्जीवं सेवां कुर्मः इत्यादिभिः सर्वोपि षडङ्गस्तुसेवाप्रकार उक्तः । स एव श्रीमदाचार्याणां सिद्धान्तविनिश्चयः श्रुत्यर्थानंदसंदोहः श्रीव्रजाभरणदीक्षितैः कृतः । तत्र सेवाप्रकारो विस्तरेण विवृतः । प्रकृतमनुसरामः। टीकायां कर्मणीति यथा 'अनुदिते सूर्ये जुहोति' 'उपस्थायार्कमुद्यन्त' मित्यादि तथा सेवायां नास्ति, अत्र तु 'किमपि क्वाप्युपाहर्तुमिच्छत्युद्धा तद्गोपिकेश' इति स्वेनैवोक्तम् । 'ण्य अवश्यके' इति सूत्रात् यद्यपि मानसी सेवा न जीवकृतिसाध्या, यथा तत्फलं अलौकिकसामर्थ्यं भगवता दाने कृते सिध्यति, तथापि मूले कार्येति विधिवाक्येन टीकायां अकरणे प्रत्यवायीभवतीति विवरणेन च श्रीमदाचार्यगोस्वामिभ्यां स्वशरणगतेभ्यो वरत्वेन दत्तेति मम प्रतिभाति, मूले कृष्णसेवेति कृष्णसेवयोः समासेन कार्यकारणान्विय- संबंधः सूचितः । श्लोकान्वयस्तु अहं श्रीमदाचार्यः हरिं नत्वा स्वसिद्धान्तविनिश्चयं प्रवक्ष्यामि किं च तत् कृष्णसेवा सदा कार्या, तेन यथा कृष्णः फलात्मा, तथा कृष्णसेवापि फलात्मिका । प्रतीकभवतारयन्ति प्रभवः एतदेवेति । एतदिति यदेकादशे श्रीकृष्णेनोद्धवं प्रति द्वादशाध्याये रामेण सार्धमिति संदर्भे उक्तम्, प्रुङ्गतौ, प्रवणं गमनं, तस्मिन् प्रवणं तत्प्रवणं चेतसः तत्प्रवणं तदेव सेवारूपं, चेत इति, चेतस्तत्प्रवणे यथा मणिच्छिद्रे दोरकस्य प्रवणं तथा भगवदीयचेतसो भगवति तत्प्रसादोत्पादनानुकूलव्यापारे वा प्रवणं यथा स स्वाधीनो भवेत्तथा करणं सेवा तत्सिद्धयै तनुवित्तजास्ति, ततः संसारदुःखस्य निवृत्ति- र्ब्रह्मबोधनं च भवतः, ......... 'विवक्ष्यामि त्वं मे भक्तः सुहृत् सखेति दुर्लभत्वं प्रतिज्ञाय द्वितीयपादविवरणमवतारयन्ति श्रीगोकुलनाथा मानथायत्वं ? । यद्वा फलमत उपपत्तेरित्यारभ्य भाष्यकर्तृत्वेनाचार्यत्वं, अत एवास्मिन् मार्गे आचार्यद्वयम्, उत्तरार्धमवतारयन्ति प्रभवः एतादृशस्येत्यादि, टीकायां समस्तपदमिति तनुवित्तजेति समस्तं । तनुश्च वित्तं च तनुवित्ते ताभ्यां जाता कृता स्वतः प्रादुर्भूता वा तनुवित्तजा । द्वन्द्वान्ते श्रूयमाणत्वात् तनुजा वित्तजा च, तत्सिद्धौ, ते इति संसारनिवृत्तिर्ब्रह्मबोधनं, वस्तुस्वभावादिति मानसीपूर्वरूपवस्तुस्वभावात् , मानसीसेवासिद्धयै तनुवित्तजा, सृष्टिः दैवी आसुरी च पुष्टिं कायेनेति वाक्याद् दैवी तनुजा, वित्तं माया तदुद्भूता आसुरी, उभे मानसी सेवार्थके दैवी सेवा कर्त्री, द्वितीया तद्रूपज्ञा- पिका । तृतीयश्लोकमवतारयन्ति प्रभवः इदमेवेति, इदमित्यक्षरं ब्रह्म, परं ब्रह्मेति पुरुषोत्तम इति अत्रेति अक्षरब्रह्मेति, भेदकमिति पुरुषोत्तमाद्भेदकम् , एते हीति 'सच्चिदानंदा इति, तदा- त्मक इति अक्षरब्रह्मात्मकः, प्रपञ्चेति श्रीभागवते प्रपञ्चवर्णनं कृत्वा एतद्भगवतो रूपं ब्रह्मणः परमात्मन' इत्युपसंहारात् , एकरूपत्वेनेति 'अतःपरं यन्महतो महान्तं यदेकमव्यक्तमनं- तरूपं । विश्वं पुराणं तमसः परस्तात् परात्परं नान्यदणीयसो हि' परात् परम्, श्रुतिप्र- तिपाद्यत्वेनेति । सर्वे वेदा यत् पदमामनंतीति, ज्ञान्युपास्यत्वेनेति । ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । क्लेशोधिकतरस्तेषामिति गीतावाक्येन ज्ञान्युपास्यत्वमक्षरब्रह्मणः, तन्मुक्तिस्थानत्वेनेति । न संदृशे तिष्ठति रूपमस्य न चक्षुषा
परिशिष्टम् । पश्यति कश्चनैनं । हृदा मनीषी मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्तीति श्रुत्या ज्ञानि- मुक्तिस्थानत्वम् । पुरुषोत्तमाधिष्ठानत्वं तु तदाहुरक्षरं ब्रह्म सर्वकारणकारणं । विष्णोर्धाम परं साक्षात् इति तृतीयस्कन्धे एकादशाध्यायवाक्यात् । इत्यादिभिरित्यादिपदेन अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः अणोरणीयान् महतो महीयान् करोत्यकर्तैव निहंत्यहन्तेत्यादयः परिगृहीताः । इदमिति ब्रह्मणि विरोधाभावनं, ब्रह्मसूत्रभाष्य इति फलमत उपपत्तेरित्यतः स्वकृते, अत्र सिद्धान्तमुक्तावलीविवरणे, एतद्भाष्यकरणानंतरमेतत्करणमिति लक्ष्यते । श्लोकान्वयस्तु कृष्णस्तु हि निश्चयेन परं ब्रह्मास्ति, बृहत् सच्चिदानंदकमस्ति, तद्धि द्विरूपमस्ति, एकं सर्वं स्यात् , एकं तस्माद् विलक्षणमपरमस्ति । स्वमते श्रुतिर्सं- मतत्वनिरूपणार्थं परमतनिरूपणमित्याशयेनाग्रिममवतारयन्ति प्रभवः विरोधेति । विरोध- परिहारस्तु भगवतः सर्वभवनसमर्थत्वेनाचिंत्यानन्तशक्तिमत्त्वेन वा । अत एव विरुद्धांश- परित्यागात् प्रमाणं सर्वमेव हि विचारितं । सांख्यमतानुसारिणः प्रकृतिः कर्त्री, पुरुषस्तु पुष्करपलाशवन्निर्लेप इति सिद्धान्तमाश्रित्य मायागुणकार्यं जगदिति वदन्ति, नैयायिकास्त- र्किकाः, गौतमकणादाक्षचरणादयः, ते हि परमाणवो नित्या अन्यत् सर्वमीश्वरकार्यमप्य- नित्यमिति वदन्ति, मीमांसकाः जैमिनिमतानुवर्तिनः, स्वभाववादिनः जगत् स्वभावत एव भवति, न कोप्यस्य कर्तेति वदन्ति, वेदबाह्या जैनाः कौला वामाः शाक्ता इत्यादयः । श्लोकान्वयस्तु तत्र पूर्वस्मिन्नपरं वादिनः मायिकं सगुणं कार्यं स्वतंत्रं चेति नैकधा बहुधा जगुः । स्वमतस्य सर्वमूर्धन्यत्वबोधनायाहुः मूले तदेवेति । ब्रह्मैवेति, एतत् परिदृश्यमानं जगत्, प्रकारेण भवतीति वर्तते नतूपद्यते, नित्यत्वात् , यतो वेत्यादिश्रुतयस्तु आविर्भाव- तिरोभावपराः, स्वमतेति प्रपञ्चो भगवत्कार्यस्तद्रूपो माययाभवत् इत्यादि रूपस्य, श्लोका- न्वयस्तु तदेवैतत् इति स्पष्टं, अस्तीत्यध्याहारः, द्विरूपमपि च गङ्गावत् ज्ञेयं, सा जलरूपिणीत्युत्तरेणान्वेति, सा गङ्गा जलरूपं शीलं यस्या एतादृश्येका आधिभौतिकी प्रथमा । पूर्वमक्षरात्मकसैवेति परमतनिराकरणासंभवात् , सेवां कुर्वाणानां भोगमोक्षप्रदा- ध्यात्मिकी द्वितीया, सा च यथा अक्षरं ब्रह्म पुरुषोत्तमाधिष्ठानं, यथाधिदैविकं गङ्गारूपा- धिष्ठानं, यतः प्रसन्ना गङ्गा आधिदैविकी स्वं स्वामिनीरूपं निजभक्तेभ्यो दर्शयति, यथा भगीरथाय प्रदर्शितं, तदुक्तं श्रीमद्भागवते नवमस्कन्धे नवमाध्याये 'दर्शयामास तं देवी प्रसन्ना वरदास्मि ते' इत्यादिना, माहात्म्यमपि तत्रैव 'भगीरथः स राजर्षिः निन्ये भुवन- पाविनीं । यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते । रथेन वायुवेगेन प्रयांतमनुधावती । देशान् पुनन्ती निर्दग्धानासिञ्चत् । सगरात्मजान् यज्जलस्पर्शमात्रेण ब्रह्मदंडहता अपि । सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः । भस्मीभूतांगसंगेन स्वर्गयाताः सगरात्मजाः । किं पुनः श्रद्धया देवीं ये सेवन्ते धृतव्रताः । श्लोकान्वयस्तु सा जलरूपिणी मर्यादामार्गविधिना सेवां कुर्वतां नृणां माहात्म्य- संयुता भक्तिमुक्तिदा तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥
स्वतन्त्रः ।
श्रीकृष्णाय नमः । तस्मादिति । यस्मात् ज्ञानयुक्तस्य भक्तस्यात्मनि भगवदाविर्भावो न बहिरितिलोकस्फूर्तिराहित्येन तदपरित्यागो । यद्वाद्धा प्रपन्नासक्तस्य तन्निष्ठतयैव तदसम्भ- वस्तस्माद्धेतोर्यः श्रीकृष्णमार्गस्थः आविर्भूतसदानन्देन 'तस्मात्त्वम्' 'सर्वधर्मान्परित्यज्ये'त्या- दिना प्रोक्तो मार्गो, गोपिका मनसि निधाय, '...पुष्टिमार्गस्तस्मिन् स्थितः सर्वलोकत उदासी- नः स्वीयरूपतः स्वयमेव विमुक्तो, न तु ते स्वस्मान्मोचनीयाः, अभिसारिकाभिरिव व्याजेन । तथा सति सर्वथा सर्वपरित्यागाभावेन सर्वात्मभावो न भवेत् । एतादृश आत्मानन्दसमुद्रस्थं बहिः स्वामिनीसंबंधिलीलासान्धिनिमग्नमितरस्फूर्तिरहितं कृष्णमेव तद्भावरूपमेव, न तु स्वात्मनि स्वभावरूपं विचिन्तयेत्, विशेषेण लीलाविशिष्टतया भावयेत् । ननु लोकपरि- त्यागाभावेपि कामिनीनामिव भजनसंभवात्किमर्थं स उक्त इति चेत् । तत्राहुः लोकार्थी चेदिति । तदपरित्यागे यत्किञ्चित्संकोचसंभवेन तदर्थित्वमेव तादृशस्य भजने कामिनीनाम्, मनःसत्त्वेप्यवसराप्राप्त्या क्लेशवत् क्लेशः स्यात् । ननु तथाप्यभिसरणादौ रसविशेषोस्तीति किं क्लिष्टोपीति चेत्तत्राहुः क्लिष्टोपीति । क्लिष्टोपि चेद्भजेत्तदातिभजने लोकप्रसिद्ध्या कामिनामिव लोकनाशः । अतो भजने प्रतिबन्धं संपाद्य वृथालोकानुरोधः पुष्टिमार्गीयैर्न विधेयो, रसस्वरूपत्मकत्वात्सर्वात्मभावसिद्धौ विशेषत एव तत्सिद्धिरितिभावः । इति श्रीह- रिदासोक्तः सिद्धान्तमुक्तावलीस्थतस्माच्छ्रीकृष्णमार्गस्थो लोकार्थीचेत्यत्र लेखः।
श्रीमद्-वल्लभाचार्य-महाप्रभु-विरचित-षोडश-ग्रन्थान्तर्गता-चतुर्थी पुष्टि प्रवाह मर्यादा चतसृष्टिीकाभिः समलंकृता १. श्रीगोकुलनाथानां विवरणम् २. श्रीरघुनाथानां विवरणम् ३. श्रीकल्याणरायाणां विवृतिः ४. श्रीपीताम्बराणां विवरणम् श्रीमद्-वल्लभाचार्य-महाप्रभु-प्रवर्तित-शुद्धाद्वैत-सम्प्रदायस्य-सप्त- पीठान्तर्गत-तृतीय-पीठाधिष्ठित-गोस्वामिश्री १००८ श्रीव्रजभूषणलालजी-महाराजश्रीत्येतैः प्रकाशिता. वि. सं. २०३६ श्रीवल्लभाब्दाः ५०२
प्रकाशक : गोस्वामीश्री १००८ श्रीव्रजभूषणलालजी महाराज (तृतीय पीठाधीश्वरः कांकरोली-बडौदा) बैठकमंदिर, केवडाबाग, बडौदा. गुजरात-३९०००१ भारत साधारण संस्करण २००० प्रति राज संस्करण १००० प्रति श्रीवल्लभाब्दः ५०२ ग्रन्थ-परिचय लेखकः गोस्वामी श्याम मनोहर मुद्रकः स्टूडिओ बहार २३ ए, सेन्ट्रल चौपाटी बिल्डिंग, चौपाटी, मुम्बई-४००००७
गोस्वामिश्री १००८ श्रीव्रजभूषणलालजी महाराज
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है, यह एक रिक्त (कोरा) पृष्ठ है।
॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ-परिचय कुछ विद्वानोंकी धारणा है कि प्रारम्भमें श्रीमहाप्रभु दैवी तथा आसुरी जीवोंके भिन्न-भिन्न होनेके गीताप्रतिपादित सिद्धान्तको तो मान्य करते थे पर दैवी जीवोंके अवान्तर भेद — पुष्टिजीव और मर्यादाजीव के भिन्न-भिन्न होनेका सिद्धान्त श्रीमहाप्रभुने अपनी वयके उत्तरार्धमें स्थापित किया था. अतएव पुष्टिप्रवाहमर्यादा ग्रन्थका रचनाकाल श्रीमहाप्रभुके अडैलमें स्थिर निवासके समयके आसपास निर्धारित किया जाता है. इस विषयमें यह दृष्टव्य है कि निबन्धका शास्त्रार्थप्रकरण श्रीमहाप्रभुकी प्रथम रचना है यह तो प्रायः सर्वमान्य है. इस ग्रन्थकी कारिका ४५-५२ के अवलोकन करनेसे यह स्पष्ट हो जाता है कि निबन्धके रचनाकालमें भी पुष्टिजीव मर्यादाजीव और प्रवाहजीवों के भिन्न-भिन्न होनेकी धारणा श्रीमहाप्रभुकी दार्शनिक मान्यताओंमें स्थान ले चुकी थी. एतदर्थ कुछ शब्दप्रयोगोंपर लक्ष्य- पात अपेक्षित है. यथा : (१) तत्त्वसृष्टिप्रवृत्तानां देवानां मुक्तियोग्यता.(का.४६) (२) ब्रह्मानन्दे प्रविष्टानामात्मनैव सुखप्रमा, संघातस्य विलीनत्वाद्, भक्तानां तु विशेषतः, सर्वेन्द्रियैस्तथाचान्तःकरणैरात्मनापि हि ब्रह्मभावात्तु भक्तानां गृह एव विशिष्यते (का. ५०-५१) (३) तीर्थादावपि या मुक्तिः कदाचित् कस्यचिद् भवेत् कृष्णप्रसादयुक्तस्य नान्यस्येति विनिश्चयः(का. ४७)
यहां स्पष्टतया मुक्तियोग्य जीवोंमें से किसीको ब्रह्मानन्द और किसीको भजनानन्द मिलता है यह निश्चित हुआ है. मर्यादाविधिके अनुसार तीर्थ आदिद्वारा जिन्हें मुक्ति मिलती है वह भी कृष्णकी मुक्तिदानकी इच्छापर अवलम्बित है यह भी कहा गया है. इन कारिकाओंपर लिखे गये प्रकाशके अध्ययन करनेपर भी मर्यादाजीव और पुष्टिजीवों के प्रभेदकी धारणा स्फुट हो जाती है. यथा- "ये सात्त्विका दैव्यां सम्पदि जाता विध्युपजीविनः सर्वदा तेषां मुक्तिर्भविष्यति" (प्रका. ४६) तथा "स्वतन्त्रभक्तानां तु गोपिकादितुल्यानां सर्वेन्द्रियैस्तथान्तःकरणैः स्वरूपेण चानन्दानुभवः अतो भक्तानां जीवन्मुक्त्यपेक्षया भगवत्कृपासहितगृहाश्रम एव विशिष्यते" (प्रका. ५०-५१). इन उद्धरणोंसे यह सिद्ध हो जाता है कि दैवीजीव तथा आसुरीजीव का भेद और इसी तरह विध्युपजीवी मर्यादाजीव तथा स्वतन्त्र पुष्टिजीव का अवान्तर प्रभेद भी श्रीमहाप्रभुको निबंधमें भी विवक्षित है ही. ऐसी स्थितिमें इस पूर्वोक्त आधारपर ग्रन्थका रचनाकाल निर्णीत कर पाना कठिन है. यह ग्रन्थ किस अवसरपर तथा किस अनुयायीके लिए लिखा गया था यह पता नहीं चलता. इसके अलावा यह ग्रन्थ पूर्णतया उपलब्ध नहीं होता है. यह ग्रंथके प्रारम्भमें की गयी प्रतिज्ञासे स्पष्ट हो जाता है. विभिन्न व्याख्याकार भी इस वातका उल्लेख करते हैं. सर्गभेद-कारणभेद, फलभेद, मार्ग या साधनभेद तथा जीवोंके स्वरूपा- दिभेद के आधारपर पुष्टिमार्ग मर्यादामार्ग तथा प्रवाहमार्ग परस्पर भिन्न-भिन्न हैं. यह श्रीमहाप्रभु इस ग्रन्थके द्वारा हमें समझाना चाहते हैं. उपलब्ध ग्रन्थके पूर्ण न होनेके कारण यह कह पाना अब कठिन हैं कि इदमित्थतया श्रीमहा- प्रभुने किस प्रकारसे पूर्वोक्त मार्गोंका पृथक्करण विश्लेषण एवम् वर्गीकरण किया था. उपलब्ध अंशके अध्ययनसे तीन तरहकी सम्भावनायें प्रकट होती है. यह सब समानन्यायकी सामान्य युक्तिपर की गयी सम्भावनायें है, जिनका तुलनात्मक प्रामाण्य अन्य ग्रन्थोंमें श्रीमहाप्रभुके द्वारा इस विषयके बारेमें किये गये विधानोंके साथ संवादपर अवलम्बित है.
प्रथम सम्भावित वर्गीकरण जीव दैवी आसुरी मार्गाधिकृत चर्षणी चर्षणी मार्गाधिकृत पुष्टि मर्यादा अज्ञ दुर्ज्ञ शुद्ध मिश्र पुष्टि मर्यादा प्रवाह पुष्टि मर्यादा प्रवाह कुल: १० द्वितीय सम्भावित वर्गीकरण जीव पुष्टि मर्यादा प्रवाह शुद्ध मिश्र पुष्टि मर्यादा प्रवाह पुष्टि मर्यादा प्रवाह पुष्टि मर्यादा प्रवाह कुल: १० तृतीय सम्भावित वर्गीकरण जीव पुष्टि मर्यादा प्रवाह शुद्ध मिश्र शुद्ध मिश्र शुद्ध मिश्र पुष्टि मर्यादा प्रवाह पुष्टि मर्यादा प्रवाह पुष्टि मर्यादा प्रवाह कुल: १२