षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है; यह पृष्ठ पूर्णतः रिक्त (blank) है।
श्रीकृष्णाय नमः । पुष्टिप्रवाहमर्यादा । श्रीश्रीवल्लभकृतविवरणसमेता । श्रीमत्पितृपदाम्भोजं नत्वा सर्वार्थसिद्धिदम् । आचार्यदर्शितं मार्गत्रयं व्याख्यातुमुद्यतः ॥ १ ॥ हरिवागीशवागर्थो न स्वतो बुद्धिगोचरः । तत्कृपैव तदीयं मां ज्ञात्वार्थं बोधयिष्यति ॥ २ ॥ इति निश्चित्य मनसि स्वाशक्तिं तत्कृपाबलम् । विवृतिः कर्तुमारब्धा तत्पदाब्जप्रसादतः ॥ ३ ॥ यद्यपि पुष्टिप्रवाहमर्यादामार्गाः गीताश्रीभागवतादावुक्ता एव, तथापीयदवधि विविच्य केनापि न प्रकटीकृता इति श्रीमदाचार्याः प्रमाणपूर्वकं विविच्य प्रकटीकर्तुं प्रतिजानते पुष्टिप्रवाहमर्यादा इति । पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ मार्गा इति शेषः । विशेषेणेति । तत्र विशेषा मार्गत्रयेपि प्रत्येकं पुष्टिप्रवाहमर्या- दाभेदकृता विशेषाः । ते साङ्कर्याभावाय पृथक् निरूप्यन्ते । तत्र पूर्वं मार्गत्रयविभेद- ज्ञापकान् विशेषानाहुः जीवदेहेति । पुष्टिमार्गीया जीवाः वक्ष्यमाणमार्गद्वयजीवेभ्यो भिन्नाः । तेषां देहाः पुष्टिमार्गानुकूला भिन्ना एव । तन्मार्गदेहसम्बन्धिक्रिया अपि भिन्नाः । निरन्तरं तदनुसारिक्रियाप्रवहणं प्रवर्त्तनं प्रवाहः तेनापि भेदः । फलेन च । वक्ष्यमाणमार्गद्वयफलातिरिक्तफलेनापि भेदः । एवं प्रवाहमर्यादयोरपि । चकारात् साधनैरपि भेदः ॥ १ ॥ एवं प्रकारभेदैर्वक्ष्यामीति कथनं प्रतिज्ञाय प्रतिज्ञायाः प्रयोजनमाहुः सर्वेति । वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः । सर्वेषां मार्गत्रयाणां सन्देहाः संशयाः यस्य प्रकारभेदस्य श्रुतेः श्रवणात् कदापि कस्यापि न भविष्यन्ति । एवमुद्देशेन मार्गत्रयभेदमुक्त्वा लक्षणैराहुः । तत्र प्रथमं पुष्टिमार्गसद्भावे प्रमाणमाहुः भक्तिमार्गस्येति । १ पु. प्र. म.
२ श्रीवल्लभकृतविवरणसमेता । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥ यद्यपि भक्तिमार्गा मर्यादादिभेदेन बहव एव श्रीभागवतादावुक्ताः सन्ति, तथाच, कपिलदेवैरुक्तं 'भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यत' इत्यादि । तथा चैकादशेऽपि योगेश्वरैर्भक्तभेदकथने भक्तिभेदा उक्ता एव । तथापि शुद्धपुष्टिमार्गाचार्यैर्भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चय इति यदुक्तं तस्यायमाशयः । तत्र कपिलयोगेश्वराद्युक्त- प्रकारेषु शुद्धपुष्टिलक्षणाभावात् न शुद्धपुष्टिभक्तित्वम् । अत एव शुद्धपुष्टिलक्षणमाहुः । 'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा' इति नारदपञ्चरात्रकथनात् । यद्यपि 'स्नेहो भक्ति'रित्येतावदेव मुख्यं भक्तिलक्षणम्, तथापि 'माहात्म्यज्ञानपूर्वस्त्वि'ति विशेषणकथनस्यायमभिप्रायः । प्रथमत एवाचार्य- प्रकटितभक्तिमार्गे प्रवृत्तस्य यावत्सुदृढः सर्वतोधिकः स्नेहो भवति, तावत्सेवाधिकरणे अपराधाभावार्थं माहात्म्यज्ञानसोपयोगः । सुदृढस्नेहोत्पत्त्यनन्तरं तस्य स्वत एव निवृत्तेः । अत एव पूर्णमाहात्म्यज्ञानवतां श्रीदेवकीमातृचरणानामपि शुद्धपुष्टिमार्गस्नेहोत्पत्त्यनन्तरं माहात्म्यज्ञानतिरोभावात् 'समुद्विजे भवद्धेतोः कंसादहमधीरधी'रिति वचनम् । अन्यच्च । तत्रैव व्रजवासिनां सुदृढस्नेहवतामवस्थासाधनविरुद्धसर्वाशक्यश्रीगोवर्धनोद्धरणम्, तेन च क्षुत्पिपासायसद्यशारीरधर्मविनिवृत्तिपूर्वकं सपरिकरसर्वव्रजरक्षाकरणम् । आत्मयोगानु- भावेन श्रीगोवर्धनोपरिस्थितपक्षिश्वादिरक्षाकरणरूपाल्यद्भूतानिर्वचनीयमाहात्म्यं दृष्ट्वापि वृष्टि- निवृत्यनन्तरं श्रीगोवर्धनच्छायातः सर्वान् बहिरानीय, श्रीगोवर्धनं यथास्थानं सम्यक् स्थाप- यित्वा, बहिरागमानन्तरं दृष्टमाहात्म्यस्मरणसम्भावणारहितैर्व्रजवासिभिर्व्रजसीमन्तिनीमिश्र भगवति दध्ना तिलकं विधाय, तदुपरि अक्षतान् स्थापयित्वा, जलं श्रीभगवदुपरि भ्रामयित्वा, तज्जलपानेन तदनन्तरमाशीर्योजनेन सुदृढस्नेहवत्त्वात् स्नेहकार्यमेव सर्वैर्व्रजवासिभिः कृतम्, न तु माहात्म्यदर्शनजनितगौरवेण नमनविज्ञप्त्यादिकमपि। तदेवोक्तम्, 'तं प्रेमवेगान्निभृता व्रजौकस' इत्यादिना । अतो यावत् सुदृढः स्नेहो भवति, तावदेव माहात्म्योपयोगः, न तु सुदृढस्नेहोत्पत्त्यनन्तरमपीति सर्वमनवद्यम् । एतदेव भक्तिमीमांसायां शाण्डिल्यैरपि 'अथातो भक्तिजिज्ञासे'त्युक्त्वा 'सा परानुरक्तिरीश्वर' इत्येव भक्तिलक्षणमुक्तम् । नतु माहात्म्यज्ञान- पूर्वकत्वमपि । अत एव यत्र परानुरक्तिः, तत्र परानुरक्तेरेव सर्वात्मना प्राबल्यम्, न तु माहात्म्यज्ञानसहभावस्यापि । अत एव श्रीगोकुले मृत्स्नाभक्षणप्रस्तावे श्रीमुखव्यादानादनन्तरं सम्पूर्णब्रह्माण्डदर्शनानन्तरं पूर्णमाहात्म्यज्ञाने जातेऽपि श्रीमातृचरणानां परमानुरक्तिवशात् माहात्म्यज्ञानस्यैव तिरोभावः, न तु पुत्रत्वभावस्यापि । तस्मात् माहात्म्यज्ञानाद्युपाधिरहितः साक्षाद्धर्मिस्वरूपपर्यवसायी सुदृढः ज्ञानादिसर्वानपनोद्यः सर्वतोधिकः अगणितानन्दरूपः अतुल्यातिशयः एतादृशः स्नेह एव भक्तिपदवाच्यः । एतादृग्भक्तिमार्गस्य कथनात् प्रमाणपूर्वकं निरूपणात् पुष्टिमार्गोस्तीति निश्चयः, यथा श्रीगोकुले । अत एव १. निवृत्ति । २. दध्नादितिलकम् ।
पुष्टिप्रवाहमर्यादा । ३ श्रीमदाचार्यैरुक्तं 'निःसाधनफलात्मायं प्रादुर्भूतोऽस्ति गोकुले' इति । अत एव श्रीगोवर्धनो- द्धरणप्रस्तावे 'तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रह'मित्यादिना भगवता सप्तदिवसधारणेन लोके जीवानां देवऋषिपित्रात्मान्मीयैहिकपारलौकिक इति सप्त रक्षकाः प्रसिद्धाः, तद्रक्षातः पृथकृत्य स्वसम्बन्धस्थापनेन स्वयमेव रक्षाकरणेन केवलस्वीयत्वसम्पादनं पुष्टि- स्वरूपमिति ज्ञापनायाचार्यैरुक्तं पुष्टिरस्तीति निश्चय इति ॥ २ ॥ एवं पुष्टिस्वरूपमुक्त्वा प्रवाहस्वरूपमाहुः । 'द्वौ भूतसर्गा'वित्युक्तेः प्रवाहोपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ गीतासु 'द्वौ भूतसर्गौ लोकेस्मि'न्नित्यारभ्य 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मित्यन्तं प्रवाहलक्षणस्योक्तत्वात् आसुरजीवा एव प्रवाहपदवाच्याः । तेषां कदापि कुत्रापि 'मामप्राप्यैवे'ति भगवद्वाक्यात् भगवत्सम्बन्धाभावात् आनन्दरहित्वाच्च प्रावाहि- कत्वमेव । नदीप्रवाहपतिततृणकाष्ठादिवत् कुत्रापि स्थितगतिपर्यवसानाभावात् प्रवाहरूप- त्वमेव । यद्यपि तेषां अन्धतमःप्रवेशरूपा आसुरी मुक्तिरस्ति, तथापि तस्याः सुखदुः- खात्यन्ताभावरूपत्वेनानन्दशून्यत्वात् प्रवाहरूपतैवति ज्ञापनाय भगवतोक्तम्, 'ततो' यान्त्यधमां गति'मिति । तस्या मुक्तेरधमत्वात् प्रवाहरूपैवेत्याचार्यैरुक्तं 'द्वौ भूतसर्गा- वित्युक्तेः प्रवाहोपि व्यवस्थित इति । एवं प्रवाहलक्षणमुक्त्वा मर्यादालक्षणमाहुः वेद- स्येति । वेदस्येति सामान्यकथनात् काण्डद्वयात्मको वेद उक्तः, तत्र काण्डद्वयेपि मर्या- दाया निरूपितत्वात् । तत्र पूर्वकाण्डे कर्ममर्यादा निरूपिता, उत्तरकाण्डे ज्ञानमर्यादा निरूपितेति वेद एव मर्यादाद्वयसत्त्वे प्रमाणमित्युक्तम् । एवं कर्ममर्यादाज्ञानमर्यादासत्त्वे वेद एव प्रमाणमिति ज्ञापनायाचार्यैरुक्तं वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थितेति ॥३॥ एवं मर्यादास्त्वे प्रमाणं निरूप्य कर्ममार्गज्ञानमार्गयोरपि भक्तित्वमाशङ्क्य निराकु- र्वन्ति कश्चिदेवेति । 'कश्चिदेव हि भक्तो हि यो मद्भक्त' इतीरणात् । सर्वश्रोत्कर्षकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ न सर्वतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । 'यदा यस्ये'ति वच'न्नाहं वैदै'रितीरणात् ॥ ५ ॥ अस्यायमर्थः । कर्ममार्गस्य सकामनिःकामभेदेन द्विरूपत्वम् । तथाचोक्तं भगवद्गी- तायां, 'त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्र- लोकमश्नन्ति दिव्यान् दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते' इति भगवद्वाक्यात् सकामकर्ममार्गीयाणां लौकिककामासक्तत्वाच्च भक्तिगन्धोपि । निःकामकर्ममार्गीयाणामपि
चित्तशुद्धिद्वारा ज्ञानोत्पत्तिहेतुत्वेन ज्ञानमार्गपर्यवसायित्वमेव, न तु भक्तिपर्यवसायित्वमिति न भक्तित्वम् । ननु मर्यादामार्गीयज्ञानस्य 'ब्रह्मविदाप्नोति पर'मिति ब्रह्मविषयत्वात् भक्तित्व- मस्तु, इति चेत्, सत्यम् । यद्यपि मर्यादामार्गीयज्ञानस्य ब्रह्मविषयत्वमस्ति, तथापि शुद्ध- ज्ञानमार्गे ब्रह्मपदस्याक्षरपर्यवसानात् न भक्तिरूपत्वम् । यथा 'ब्रह्मविदाप्नोति परम्,' 'तदेषा- भ्युक्ता, सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन्, सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति श्रुत्या । श्रुत्यन्तरेणापि 'न सदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति' इत्यादि- श्रुतिभिर्मुक्तिफलत्वेन ब्रह्मस्वरूपज्ञानमुक्तम् । ज्ञानमार्गे 'यो वेद निहितं गुहाया'मित्यु- क्तत्वात् हृदयाकाश एव अक्षरब्रह्मस्वरूपचिन्तनं मुक्तिसाधनत्वेनोक्तम् । श्रुत्यन्तरेपि 'हृदा मनीषां मनसाभिकॢप्तो य एनं विदु'रिति कथनात् ब्रह्मस्वरूपं प्रादेशमात्रमङ्गुष्ठ- मात्रं वा हृद्येव कल्पयित्वा हृद्येव दर्शनम्, न तु भक्तिमार्गवत् बहिरपीति । अत एवाचार्यैरुक्तं वेदस्य विद्यमानत्वात् मर्यादापि व्यवस्थितेति । एतावत्येव वेदोक्त- ज्ञानमार्गमर्यादा । एवं मर्यादाव्यवस्थांमुक्त्वा अग्रे कश्चिदेव हि भक्तो हीति कथनस्यायमाशयः । पूर्वो- क्तमर्यादामार्गीयस्यापि कदाचिद्भगवदनुग्रहेण भगवद्भक्तसङ्गेन वा यदि भगवति स्नेहोत्पत्ति- र्भवेत्, तदा तस्यापि मर्यादामार्गीयभक्तत्वेन भगवत्प्रियत्वं भवति । अत एव गीतायां श्रीभगवतोक्तं 'अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी । सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति । कश्चिदेवेतिकथनात् ज्ञानमार्गीयभक्तिप्राप्तौ दुर्लभत्वमुक्तम् । हीति युक्तश्चायमर्थः । एकवारं हिशब्दस्य युक्तार्थत्वमुक्त्वा पुनर्हिशब्दकथनस्यायमाशयः । मर्यादामार्गीयो यदा मर्यादामार्गीयभक्तसङ्गृत्या भक्तः स्यात्, तदा जडभरतवत् प्रसिद्ध एव भवेदिति प्रसिद्धत्वज्ञापनार्थं हिशब्दः । ननु मर्यादामार्गेपि भक्तिकथनान्मर्यादा- मार्गीयभक्तेः पुष्टिभक्तेश्च समत्वं भवत्वित्याशङ्कानिरासायाहुः सर्वत्रोत्कर्ष¹कथनादिति । श्रीभागवतगीतादिषु 'भक्तियोगो बहुविध' इति यावन्तो भक्तिभेदा उक्तास्तेभ्यः सर्वेभ्यः उत्कर्षकथनात् पुष्टिरस्तीति निश्चयः सिद्धः । उत्कर्षश्च यथा गीतायां 'तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन'त्युक्त्वा 'योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत' इति भजनस्यैव सर्वोत्कर्षकथनात् । साक्षाद्भजनं पुष्टिमार्ग एव, न तु मर्या- दाभक्तावपि । श्रीभागवते भगवद्वचनं 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति । तथा श्रुतिरपि 'तमु स्तोतारः पूर्व्यं यथा- विद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो १. सर्वस्मिन् भक्तिमार्गेऽस्य स्नेहभक्तिरूपस्योत्कर्षकथनात् ।
पुष्टिम्रवाहमर्यादा । ५ सुमतिं भजामहे' इति श्रुतावपि भजनस्यैवोक्तत्वात् तद्भजनं पुष्टिमार्गे एवेति सर्वत्र पुष्टिमार्गस्यैवोत्कर्ष उक्त इति ज्ञापनायोक्तं सर्वत्रोत्कर्षकरणात् । सर्वमार्गेभ्यः पुष्टि- रुत्कृष्टेति ज्ञापनायोक्तं पुष्टिरस्तीति निश्चयः निर्गलितार्थः । तथा च गीतायां 'यो मा- मेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारते'ति कथनात् सर्वभावेन भजनं पुष्टिमार्ग एव, न त्वन्यत्रापीति । सर्वोपि । प्रकारभेदभिन्नः सर्वोपि भक्तिमार्गः मिलितः कदाचिदेतत्समौ भविष्यतीत्याशङ्कानिरासायाहुः न सर्व इति । एतत्पुष्टिमार्गसमः सर्वः सर्वोपि कोपि मार्गो न । अतः पुष्टिमार्गः प्रवाहाद्भिन्नः । वेदादपि वेदनिरूपितमर्यादामार्गादपि भिन्नः । कुतः । भेदतः । स्वरूपसाधनफलभेदतः । भेदादि- त्यर्थः । अत्र भेदे प्रमाणान्तरमप्याहुः यदा यस्येतिवचनादिति । 'यदा यस्यानुगृह्णाति भगवान् आत्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिता' मिति । यदा यस्यानु- गृह्णाति भगवान् पुष्टिमार्गे, 'अनुगृह्णाति' इति पदाद्यदा अनुग्रहं करोति, तदैव पुष्टिमार्गे प्रवेशो भवति, तदा प्रवाहतो मर्यादातोपि पृथकरोति । अत एव सिद्धान्ते 'अनुग्रहः पुष्टि- मार्गे नियामक' इत्याचार्यवचनम् । गीतास्वपि 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे'ति । 'अनन्यभक्त्ये'ति वचनात् पुष्टिरूपया भक्त्या द्रष्टुं शक्य इति भक्तिमार्गस्य साक्षाद्दर्शनहेतुत्वम्, न तु ज्ञानमार्ग- वत् मनस्येवेति नियमः । इत्याद्यनेकहेतुभ्यः सर्वोत्कृष्टत्वात् प्रवाहमार्गान् मर्यादामार्गाच्च भेद उक्तः ॥ ५ ॥ अत्र कश्चित् पूर्वपक्षी शङ्कते मार्गैकत्व इति । मार्गैकत्वेऽपि चेदन्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ त्रयाणां पुष्टिम्रवाहमर्यादामार्गाणां एकत्वमेव, भक्तिरूपत्वमेव । अस्यायमर्थः । यद्यपि पुष्टिमार्गस्य भक्तित्वमुभयवादिसम्मतमेव, तथापि अन्त्यौ प्रवाहमर्यादे तनू भक्त्यङ्गभूते । एवं सति ते अपि भक्त्यागमौ भक्तिप्रतिपादकशास्त्ररूपे मताविति तयो- र्भक्त्यङ्गत्वं यद्ब्रवीषि, तन्न प्रमाणसिद्धम् । तत्प्रमाणपूर्वकं तयोर्भक्त्यङ्गत्वं निराकुर्वन्ति न तद्युक्तमिति । तत्र प्रवाहमार्गस्य भक्त्यङ्गत्वनिराकरणे प्रमाणमाहुः सूत्रतो हीति । सूत्रं भक्तिमीमांसासूत्रम् । तद्यथा । 'तत्संस्थस्यामृतत्वोपदेशात्' । अस्यार्थस्तु, तत्संस्थस्य भक्ति- मार्गप्राप्यपुरुषोत्तमनिष्ठस्य अमृतत्वम् । तन्मार्गीयस्य साक्षाद्भगवत्सम्बन्धस्यामृतत्वोप- देशात् । अमृतत्वकथनादिति भक्तिमार्गीयसाधनफले निरूपिते । उपदेशस्तु, 'अनिमित्ता १. प्रवाहात् । अस्यैव व्याख्यानं प्रकारभेदभिन्नः सर्वोपि । २. पूर्वपक्षोक्तंकंनु श्री मत्कल्याणरायपादै- र्दर्शितमत्रापि बोध्यम् । तथाहि । ननु प्रवाहमर्यादामार्गयोरपि व्यवहारशुद्धिसाधकत्वे भक्त्युपयोगात् अङ्गाङ्गि- भावेनैको भक्तिमार्ग एवास्त्विति । ३. सूत्रं फलपरत्वेन व्याख्याय साधनपरत्वेनापि व्याकुर्वन्ति तन्मार्गीयस्येत्या- दि । ४. पुरुषोत्तमनिष्ठस्यामृतत्वं फलम् । साक्षाद्भगवदनुग्रहलक्षणस्तत्सम्बन्धः साधनं च निरूपितमित्यर्थः ।
६ श्रीवल्लभकृतविवरणसमेता। भागवती भक्तिर्मुक्तेर्गरीयसी' । 'राजनपतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्वच किंकरो च' । 'अस्त्वेवमेव भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति- योग'मित्यादि । प्रवाहमार्गस्य 'प्रवृत्तिं च निवृत्तिं चे'त्यारभ्य 'मामप्राप्यैवे'त्यन्तेन सर्वात्मना स्वसम्बन्धाभावकथनेन । अथ च भक्तिमार्गीयमुक्तेरमृतत्वकथनेन च प्रवाहमार्गीयमुक्ते- रधमगतित्वकथनेन च प्रवाहमार्गस्य न भक्त्यङ्गत्वमिति त्वदुक्ताङ्गित्वशङ्का निरस्ता । एवं प्रवाहमार्गस्य भक्त्यङ्गत्वं निराकृत्य मर्यादामार्गस्यापि भक्त्यङ्गत्वं निराकुर्वन्ति युक्त्या हि वैदिक इति । भिन्न इति शेषः । युक्त्येत्येकवचनं जात्यभिप्रायेण । तत्रैता युक्तयः । भगवद्गीतासु द्वादशाध्याये, 'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरम- व्यक्तं तेषां के योगवित्तमा' इति अर्जुनेन भक्तिज्ञानयोस्तारतम्यप्रश्ने कृते सति, भगवता 'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता' इति भक्तिमार्गोत्कर्षमुक्त्वा, तदनन्तरं ज्ञानमार्गस्य अक्षरपर्यवसायित्वेन तारतम्यज्ञापनार्थं 'ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । सन्निय- म्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । क्लेशोधिकतरस्तेषा- मव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते' । अत्र भगवता 'ते प्राप्नुवन्ति मामेवे'ति यदुक्तम्, तदक्षरस्य पुरुषोत्तमविभूतिरूपत्वात् ज्ञानमार्गस्याक्षरपर्यवसायित्व- ज्ञापनार्थम् । तत्रासौ 'सन्नियम्येन्द्रियग्राम'मित्यारभ्य 'अव्यक्ता हि गतिर्दुःखं देहवद्भि- रवाप्यत' इत्यन्तेन साधनानां क्लेशसाध्यत्वमुक्तम् । एतदग्रे 'मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय' इति भक्तिमार्गसाधनानां सुखरूपत्वकथनेन अनायासेन स्वप्राप्तिहेतुत्वमुक्तम् । 'मय्येवे'त्येवकारेण पुरुषोत्तमपर्यव- सायित्वं च । यद्यपि पूर्वं 'ते प्राप्नुवन्ति मामेवे'त्यत्रैवकारेण पुरुषोत्तमपर्यवसायित्वमपि सम्भवति, तथापि तत्र 'ये त्वक्षर'मित्येवोद्दिश्य 'मामेवे'त्युक्तत्वात् 'मा'मितिपदस्याक्षर- पर्यवसायित्वमेव, अत्र तु 'मय्येव मन आधत्स्वे'ति सुखरूपभक्तिमार्गमुद्दिश्य कथनेन 'मय्येव'पदं पुरुषोत्तमपरमेव । एवं मर्यादामार्गविभेदिकामेकां युक्तिमुक्त्वा अन्यां युक्ति- माहुः । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति । यत्र भक्तियुक्तस्य मर्यादामार्गीयज्ञानस्य श्रेयस्त्वेनापि नोपयोगः, तत्र मर्यादामार्गीयज्ञानस्य तदुत्तराङ्गस्य वैराग्यस्यापि भक्त्यङ्गत्वभावे किं वाच्यमित्यपि युक्तिः। युक्त्यन्तरमपि । 'नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मपोतानां यथा भक्तिमतामिहे'त्यत्र 'गोपिकासुत' इति भगवति पूर्णपुरुषोत्तमत्वमुक्त्वा तस्य भक्तिमतां सुखावाप्तिकथनेन ज्ञानिनामक्षरप्राप्तौ क्लेशयुक्तसाधनत्वकथनेन भक्तिमार्गे पुरुषोत्तमः प्राप्यः, स च अनायासेनैव प्राप्यः । ज्ञानमार्गे अक्षरप्राप्तिः, सापि तु अधिकतरक्लेशेनेति भक्ति- १ 'एव'मित्यारभ्य 'आहु'रित्यन्तं 'तस्मान्मद्भक्ती'त्यादिग्रन्थस्य केनचिल्लिखित आभासो लेखकदोषान्मध्ये पतित इति भाति, असङ्गतत्वात् । इति टिप्पणं एकप्राचीनादर्शे । भगवत्कर्तृकत्वं वा कल्प्यं क्रियायाम् ।
पुष्टिमवाहमर्यादा । ७ मार्गभेदिका युक्तयः किम्तोधिकं वाच्या इति ज्ञापनायोक्तं भिन्नो युक्त्या हि वैदिक इति । पूर्वं सूत्रतो हीति हिशब्देन सूत्रप्रामाण्येन प्रवाहमार्गस्य भक्तिमार्गाङ्गत्वभावस्य युक्तत्वं ज्ञापितम् । युक्त्या हि वैदिक इत्यत्र युक्तीनां गीताश्रीभागवतादिषु मर्यादा मार्गस्य भक्तिमार्गाङ्गत्वभावप्रसिद्धिद्योतनाय हिशब्दः ॥ ६ ॥ एवं सूत्रयुक्तिभ्यां प्रवाहमर्यादयोः पुष्टिमार्गाङ्गत्वभावं निरूप्यातः परं पुष्टिमार्ग- स्थानां जीवदेहकृतीनां मार्गद्वयापेक्षया सर्वात्मना सर्वप्रकारकोत्कर्षज्ञापनाय मार्गद्वयस्थ- जीवदेहकृतीनां स्वरूपं निरूपयन्ति जीवदेहकृतीनामिति । जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः । यथा तद्धत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ॥ ७ १/२ ॥ प्रवाहमार्गे जीवा आसुराः, दैवजीवेभ्यो भिन्नाः, तेषां देहा भगवद्भजनप्रातिकूल्यात् दैवदेहेभ्यो भिन्नाः । तेषां कृतिरपि स्वार्थं पशुहिंसादिरूपा दैवजीवकृतेः सकाशाद्भिन्ना एव । एवं मर्यादामार्गेपि मर्यादामार्गीया दैवजीवाः प्रवाहमार्गीयासुरजीवेभ्यो भिन्नाः । तेषां देहा अपि वैदिकधर्मभगवत्पूजाद्यानुकूल्यात् आसुरजीवदेहेभ्यो भिन्नाः । तेषां कृति- रपि अग्निहोत्रादिश्रौतकर्मकरणेन मर्यादामार्गोक्तभगवत्पूजादिकरणेन ज्ञानोत्पत्त्यननु- कूलत्यागादिकरणेन च भिन्नैव । ननु भवता प्रवाहमर्यादयोर्जीवदेहकृतीनां भिन्नत्वं निरूपितम्, तत्र यथा मार्गद्वयेपि देहकृतीनामनित्यत्वं प्रतीयते, तथा मार्गद्वयजीवाना- मप्यनित्यत्वं भवत्वित्याशङ्कां निराकुर्वन्ति नित्यतेतिपदेन । तत्र हेतुः श्रुतेः । तत्रेयं श्रुतिः । ‘द्वा सुपर्णा सयुजा सखायौ समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्व- त्त्यनश्नन्नन्यो अभिचाकशीति’ इतिश्रुत्या अन्तर्यामिनित्यत्ववत् जीवस्य नित्यत्वं साधित- मिति न जीवानामनित्यत्वम् । अथवा । एवं मार्गद्वये जीवदेहकृतीनां भिन्नत्वं निरूप्य मार्गद्वयजीवदेहकृतीनां नित्यत्वकथनस्यायमाशयः । तत्र जीवानां नित्यत्वं सर्ववादि- सम्मतमस्त्येव, परं यद्यपि देहकृतीनां नित्यत्वं न प्रतीयते, तथापि देहकृतीनां नित्यता श्रुतेरिति नित्यत्वकथनस्यायमाशयः । प्रवाहमार्गीयो जीवो यदा उत्पद्यते, देहान्तरं गृह्णाति, तदा पूर्वदेहक्षणयुक्तमेव देहं गृह्णाति, प्राचीनदेहकर्मानुसारणेव कर्म करोति, न तु पूर्वदेहपरावृत्तौ देहान्तरं प्राप्तमिति पूर्वदेहधर्मपरावृत्तिरपि भवति । एवमेव पूर्व- कर्मणोपि । एवं प्रतिजन्मनि देहधर्मकर्मणां तादृशत्वम् । न तु विपर्यासः । एवं देह- कृतीनां प्रावाहिकीरीत्या नित्यत्वज्ञापनायोक्तं नित्यतेति । तत्र हेतुः श्रुतेरिति । श्रुतिश्च ‘सत्यं चानृतं च सत्यमभवत्’, ‘यदिदं किंच तत्सत्यमित्याचक्षते’ इति । अथवा । देहकृतीनां नित्यता लिङ्गशरीराभिप्रायेण । एवं मर्यादामार्गेपि जीवदेहकृतीनां नित्यता ज्ञेया । एवं यथा प्रवाहमर्यादामार्गीययोर्जीवदेहकृतीनां भिन्नत्वं नित्यत्वं चोक्तम्, तथा पुष्टिमार्गेपि १. ज्ञानोत्पत्त्यनुकूलेति पाठः । २. परावृत्तिरिति शेषः ।
८ श्रीवल्लभकृतविवरणसमेता । जीवदेहकृतीनां भिन्नत्वं नित्यत्वं चाहुः तद्वत्पुष्टिमार्ग इति । यद्यपि पुष्टिमार्गे जीवा दैवा एव, तथापि तेषां मर्यादामार्गीयदैवजीवेभ्यो वैलक्षण्यं दर्शयन्ति । यद्यपि मर्यादामार्गीय- जीवा दैवाः, पुष्टिमार्गीया जीवाश्च दैवा एव, तथापि द्वयोरपि दैवजीवत्वेपि मर्यादामार्गी- यजीवादीनां निषेधपूर्वकं पुष्टिमार्गीयजीवादीनां भिन्नत्वं चाहुः द्वयोरपि निषेधत इति । तत्र भेदप्रकारः । दैवत्वेपि पुष्टिमार्गे 'अनुग्रहः पुष्टिमार्गे नियामक' इति वचनात् पुष्टिमार्गी- यजीवानामनुग्रहविशिष्टत्वम्, न तु मर्यादामार्गीयजीववद्विध्यधीनत्वमपि । किञ्च । पुष्टिमार्गीयजीवानां 'यमेवैष वृणुते तेन लभ्य' इति श्रुत्या साक्षात्पुरुषोत्तमवरणात् साक्षा- त्पुरुषोत्तमप्राप्तिरेव । मर्यादामार्गीयाणां तदभावादक्षरप्राप्तिरेव । यथा मर्यादामार्गीयदे- हस्याग्निहोत्राद्यनुकूलत्वम्, तथा पुष्टिमार्गीयदेहस्य शुद्धपुष्टिमार्गीयाचार्यप्रकटितभगव- त्सेवापरत्वमेव, न त्वन्यपरत्वमिति देहभेदः । देहभेदनिरूपणेन कृतेरपि देहाधीनत्वात् कृतीनां भेदः सिद्ध एवेति नानुपपन्नं किञ्चित् । अथवा । यद्यपि पुष्टिमार्गीयजीवदेहकृतीनां पूर्वोक्तप्रावाहिकरीत्या नित्यत्वमस्त्येव, तथापि प्रकारान्तरेणापि नित्यत्वमुच्यते । साक्षा- त्पुष्टिपुष्टिभक्तानां साक्षात्पुरुषोत्तमसंबन्धिफलानुभवयोग्यदेहानां नित्यत्वमेव । अन्यथा श्रीगोकुलवासिनां 'ते तु ब्रह्महदं नीता' इति मुक्त्यनुभवकालेपि तेनैव देहेन मुक्त्यनुभवः । तदनन्तरं तेनैव देहेन सर्वेषां यथायोग्यं भक्तिमार्गीयफलानुभवः । यदि पुष्टिमार्गीयसाक्षा- त्पुरुषोत्तमसम्बन्धिफलानुभवयोग्यदेहानां नित्यता न स्यात्, तदा मुक्त्यनुभवकाले स्थितिर्न स्यात् । तस्मात् पुष्टिमार्गीयदेहानां नित्यत्वमेवेति नानुपपन्नं किञ्चित् । एवं फलोपयोगि- देहनित्यत्वनिरूपणेनैव साक्षात्पुरुषोत्तमसम्बन्धिफलानुभवयोग्यकृतीनां नित्यत्वमुक्तसि- द्धमितिदिक् । एवं पुष्टिमार्गीयजीवदेहकृतीनां स्वरूपं निरूप्योपसंहरन्ति प्रमाणभेदादिति । 'अनुग्रहः पुष्टिमार्गे नियामक' इत्याद्युक्तप्रमाणैर्भेदनिरूपणात् प्रवाहमर्यादाभ्यां भिन्नः सर्वोत्कृष्टः शुद्धपुष्टिमार्गो निरूपितः । हि युक्तश्चायमर्थः । न हि साक्षात्पुरुषोत्तमसम्बन्धो- पयोगिनो धर्माः मार्गान्तरेपि सम्भवन्तीति पुष्टिमार्गस्यैव सर्वोत्कृष्टत्वं युक्तमेवेति ज्ञापनार्थ हीत्युक्तम् ॥ ७ १/२ ॥ एवं प्रमाणभेदेन मार्गत्रयभेदं निरूप्य एतदग्रे मार्गत्रयस्य सर्गान्तरसादृश्यनिरा- करणपूर्वकं सर्गमारभ्य फलपर्यवसानपर्यन्तं भेदं निरूपयन्ति सर्गभेदमित्यादि । सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥ तत्र प्रथमं प्रवाहमार्गसर्गभेदमाहुः इच्छामात्रेनेति । हरिः इच्छामात्रेण कांश्चिज्जी- वानासुरान् करिष्यामीतीच्छया मनसा प्रवाहमार्गसृष्टिं कृतवान् । एवं प्रवाहमार्गसृष्टिमुक्त्वा १. ऐक्यनिषेधपूर्वकमित्यर्थः । २. कृतिभेदः । ३. जीवदेहानाम् ।
मर्यादामागैसृष्टिप्रकारमाहुः वचसेति । वचसां वेदरूपवाण्या मर्यादामागं सृष्टवान् । मर्यादामागंस्य वेदमूलकत्वप्रसिद्धिद्योतनार्थं हिशब्दः । एवं शरीरैकदेशाभ्यां मार्गद्वयसर्ग- मुक्त्वा पुष्टिमार्गसृष्टेः सर्वोत्कृष्टत्वज्ञापनाय पुष्टिमार्गसृष्टिमाहुः पुष्टिं कायेनेति । आनन्द- मात्रकरपादमुखोदरादिरूपेण सम्पूर्णकायेन पुष्टिमार्गसृष्टिं कृतवान् । मार्गत्रयप्रयोजनमग्रे वक्ष्यन्ति । सम्पूर्णदेहेन पुष्टिसर्गस्य कथनात् पुष्टिसर्गस्य सर्वोत्कृष्टत्वं निर्धारितमिति ज्ञापनायोक्तं निश्चय इति ॥ ९ ॥ एवं मार्गत्रयसर्गस्वरूपं निरूप्य मार्गभेदेन मार्गत्रयफलस्वरूपमाहुः मूलेच्छात् इति । मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥ सृष्ट्यन्तर्गतानां केषाञ्चित् जीवानामासुरत्वसम्पादिका या भगवदिच्छा सा मूलेच्छा, ततः तदिच्छया लोके प्रवाहमार्गे फलं अन्धंतमःप्रवेशरूपं भवतीत्यर्थः । एवं प्रावाहिकाणां फलं निरूप्य मर्यादामार्गीयाणां फलं निरूपयन्ति वेदोक्तं वैदिकेऽपि चेति । वैदिके मर्यादाज्ञानमार्गे 'तमेव विदित्वाति मृत्युमेति' इत्यादिश्रुतिप्रतिपाद्यमक्षरप्राप्तिरूपं फल- मुक्तम् । एवं कर्ममार्गेपि 'अग्निष्टोमेन स्वर्गकामो यजेते'त्यादिश्रुत्या सकामस्य स्वर्गलोक- प्राप्तिरूपं फलम्, निष्कामयागकर्तुरपि स्वर्गलोककामनाभावात् स्वर्गलोके च 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत्पदं स्वःपदास्पद'मिति स्वःपद- लक्षणाभावात् आत्मसुखे च स्वःपदलक्षणयोगात् निष्कामयागकर्तुरात्मसुखरूपं फलं भवति । चकारात्तादृशस्यापि भगवदनुग्रहेण भगवद्भक्तसङ्गेन भक्तिप्राप्तौ सत्यां मर्यादा- मार्गीयभक्तस्यापि मुक्तिरूपा पुरुषोत्तमप्राप्तिर्भवतीति ज्ञापनाय चकारः। एवं द्विविधमर्यादा- मार्गीयाणां द्विविधं वेदोक्तं फलं निरूप्य पुष्टेः फलं निरूपयन्ति कायेन तु फलं पुष्टा- विति । कायेन आनन्दमात्रकरपादमुखोदरादिरूपेण, सर्वेन्द्रियास्वाद्यस्वरूपानन्ददानरूपं फलम् । एतदतिरिक्तप्रकारस्य फलत्वाभावार्थे तुशब्दः । अत एव पुष्टिश्रुतिरूपाभिर्व्रजसी- मन्तिनीभिः 'अक्षण्वता'मिति श्लोके सर्वश्रुतिविरोधपरिहारेण सर्वेन्द्रियास्वाद्यपुरुषोत्तम- स्वरूपस्यैव फलत्वं निरूपितम् । ननु मर्यादामार्गीयभक्तेरपि पुरुषोत्तमप्रापकत्वात् पुष्टि- मार्गीयभक्तेरपि पुरुषोत्तमप्राप्तिहेतुत्वात् उभयोरपि फलैक्यं भवत्वित्याशङ्कां परिहरन्ति भिन्नेच्छातोपि नैकतेति । तस्यायमर्थः । यद्यपि मर्यादामार्गीयभक्तस्यापि अन्ते पुरुषो- त्तमप्राप्तिरस्ति, तथापि तस्य मुक्तिरूपैव प्राप्तिः, न तु पुष्टिमार्गीयभक्तवत् साक्षात्सम्बन्ध- रूपप्राप्तिः, यतो मर्यादामार्गीयभक्तस्यान्ते स्वप्राप्तौ तादृश्येव भगवदिच्छा । अत एव श्रीभागवते 'अनिच्छतोपि गतिमण्वीं प्रयुङ्क्त' इति । पुष्टिमार्गीयस्य साक्षात् स्वरूपसम्बन्धानु- भवरूपफलप्राप्तावेव भगवदिच्छा । यदि मार्गद्वयेपि एकमेवं फलं स्यात्, तदा मार्गभेदवै- यर्थ्यमेव स्यादित्यत उक्तं 'भिन्नेच्छातोपि नैकते'ति ॥ १० ॥ १. गोपीभिरित्यधिकं क्वचित् । २ पु. प्र. म.
१० श्रीवल्लभकृतविवरणसमेता । एवं मार्गत्रयस्य सर्गभेदं फलभेदं च निरूप्यैतेषां त्रयाणां स्वरूपाङ्गक्रिया निरूप- यन्ति । तत्र प्रथमं प्रवाहमार्गीयाणां स्वरूपमाहुः तानहं द्विषतो वाक्यादिति । 'तानहं द्विषतो' वाक्याद्विन्ना जीवाः प्रवाहिणः । अत एवैतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ 'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमसुरानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मिति प्रवाहमार्गीया जीवा मर्यादामार्गीयपुष्टिमार्गीयजीवेभ्यो भिन्ना आसुरा इत्यर्थः । अत एवैतरौ मर्यादामार्गीयपुष्टिमार्गीयजीवौ प्रवाहमार्गीयजीवेभ्यो भिन्नौ दैवावित्यर्थः । भेदप्रकारमाहुः सान्ताविति । तत्तन्मार्गीयफलपर्यवसानावन्तौ । फलरूप- माहुः मोक्षप्रवेशत इति । स्वस्वमार्गीयमोक्षप्रवेशत इत्यर्थः । ननु प्रावाहिकाणां जीवाना- मपि तन्मार्गीयमोक्षप्राप्त्या सान्तत्वसम्भवेपि उभयोरेव सान्तत्वकथने को हेतुरिति चेत्, सत्यम्, यद्यपि तन्मार्गीयमुक्त्या तस्यापि सान्तत्वं सम्भवति, तथापि तन्मुक्तेरानन्दरहित्या- न्मोक्षलक्षणाभावात्, किञ्च, 'ततो यान्त्यधमां गति'मिति तन्मुक्तेरधमगतित्वनिरूपणात् आनन्दरूपफलपर्यवसानाभावाच्च सान्तत्वेन गणना, न सान्तत्वमिति उभावेव सान्तौ गणितौ, न तु प्रवाहोपि, इति ज्ञापनायोक्तं सान्तौ मोक्षप्रवेशत इति । ननु 'मोक्षप्रवेशत' इति सामान्योक्त्या मोक्षस्य मार्गद्वयेपि एकरूपता भविष्यतीत्या- शङ्कानिरासायाहुः तस्मादिति । यस्मात् पूर्वमेव पुष्टिमार्गीयाणां 'कायेन तु फलं पुष्टा'- वित्यत्र फलभेदोपि निरूपित एव, तथापि पुनरपि यत् 'मोक्षप्रवेशत' इति सामान्योक्त्या फलैकत्वशङ्का तन्निरासाय विशेषतस्तेषां पुष्टिमार्गीयजीवानां स्वरूपमाहुः तस्माज्जीवाः पुष्टिमार्गे भिन्ना इति । मर्यादामार्गीयेभ्यो भिन्ना एव, अत्युत्कृष्टा एवेत्यर्थः । तेषां कदाचिन्मार्गान्तरीयसङ्गेपि मार्गान्तरप्रवेशो न भवतीति ज्ञापनाय न संशय इत्युक्तम् । अतः परं केवलपुष्टिसृष्टेः सर्वात्मना सर्वतो भेदेन सर्वोत्कृष्टत्वनिरूपणस्य प्रयोजनमाहुः भगवद्रूपसेवार्थमिति । यथा मर्यादासृष्टेः तन्मार्गीयधर्मकरणं प्रयोजनम्, तथा पुष्टिसृष्टेः भगवत्सेवाकरणमेव प्रयोजनमिति, अत उक्तं भगवद्रूपसेवार्थमिति । यद्यपि मर्यादा- मार्गे सेवा वर्तते, परं तत्र मनस्येव अङ्गुष्ठमात्रादिरूपकल्पनेन, न तु साक्षादानन्दमात्र- करपादमुखोदरादिरूपेण प्रकटस्येति ज्ञापनाय स्वरूपपदमुक्तम् । नान्यथेति । एतत्प्रयो- जनातिरिक्तप्रयोजनाभावार्थमुक्तं नान्यथेति । यदिदं प्रयोजनं न भवेत्, तदा पुष्टि- सृष्टिरेव न भवेत्, अत उक्तं नान्यथा भवेदिति ॥ १२ ॥
पुष्टिप्रवाहमर्यादा । ११ सेवाकरणप्रकारमाहुः स्वरूपेणेति । स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥ तथापि यावता कार्यं तावत्तस्य करोति हि ॥ १३½ ॥ यद्यपि केवलस्वरूपपदं केवलजीवपरमपि भवति, तथाप्यत्र फलरूपसेवाकरण- प्रकारनिरूपणे देहरहितकेवलजीवस्वरूपेण सेवाकरणासम्भवात् स्वरूपपदं लीलोपयोगि- देहपरमेव । देहस्य फलरूपसेवोपयोगिफलोपयोगिफलरूपभजनोपयोगित्वकथनेन अविकृत- त्वमानन्दमयत्वं नित्यत्वं च ज्ञापितम् । एवं साक्षाद्भजनोपयोगिदेहस्वरूपं निरूप्या- विर्भावप्रकारमाहुः अवतारेणेति । अवतारेण साक्षात् फलरूपभजनोपयोगिसमाजमध्ये प्राकट्येन । भजनोपयोगिप्रकारान्तरमाहुः लिङ्गेनेति । भजनोपयोगिदेहचिह्नैस्तैरित्यर्थः । चकारस्तदुपयोगिवयःसमुच्चयार्थः । पुनः प्रकारान्तरमाहुः गुणेनेति । गुणाः सौन्दर्य- रसोद्बोधकचातुर्यभावादयः । फलभोगस्य सर्वाज्ञातत्वप्रकारज्ञापनाय चकारः । (यतोऽयं रसः सर्वात्मना गोपनीय एव, भगवतो रसपोषाय । अत एव फलप्रकरणीयलीलारम्भे मुख्यभक्तानां भगवन्निकटागमनसमये 'ता वार्यमाणा' इति भर्त्रादीनां तदागमनज्ञाना- नन्तरमपि रसपोषाय योगमायाद्वारा तथा प्रभुः सम्पादितवान्, यथा तेषां 'मन्यमानाः स्वपार्श्वस्था'निति वचनात् तदागमनज्ञानसम्भावनापि नाभूत् । यदि तेषां तदागमनज्ञान- सम्भावनापि स्यात्, तदा रसाभासः स्यात् । अतः सर्वाज्ञानमावश्यकम् ।) ननु पुष्टिमार्गीय- फलानुभवः भोक्तृभोग्यसाम्ये सति सम्पूर्णो भवति, न तु यत्किञ्चित्तारतम्येन । प्रभो- रगणितानन्दस्वरूपत्वेन भजनरसानुभवकर्तॄणां तत्समत्वाभावात् पूर्णरसानुभवो न भविष्य- तीत्याशङ्कापरिहाराय स्वरूपेणेत्यादिना भजनरसानुभवकर्तृयोग्यताप्रकारं निरूप्य पूर्ण- रसानुभवसिद्धिहेतुमाहुः तारतम्यं न स्वरूप इति । पूर्वोक्तरसानुभवकर्तृयोग्यताप्रकारैः पूर्णस्वरूपरसानुभवसिद्धिप्रतिबन्धेहेतुतारतम्याभाव उक्तः । तारतम्यं न स्वरूप इति । स्वरूपे । यथा आनन्दमात्रकरपादमुखोदरादेर्भगवतः आत्मनि देहे वा आनन्दमयत्वेन तारतम्याभावः, तथा साक्षात्फलानुभवकर्तृभक्तेष्वपि आत्मनि आत्मस्वरूपे देहे वा आनन्द- मयत्वादिना तारतम्याभावः । नतु प्राकृतदेहवत् देहात्मनोस्तारतम्यमपि । अत एव जन्मो- त्सवाध्याये शुकदेवैरपि 'गोप्यश्चाकर्ण्य मुदिता' इतिश्लोके एतासां देहस्यालौकिकानन्दम- यत्वज्ञापनाय 'आत्मानं भूषयाञ्चक्रु'रित्युक्तम्, न तु देहं भूषयाञ्चकुरिति । तेनात्मपदोपादा- नात् यथा आत्मा नित्य आनन्दमयः अविकृतः, तादृश एवैतासां देह इति ज्ञापितम् । यद्येवं न स्यात्, तदा 'ते तु ब्रह्महदं नीता' इत्यत्र मुक्तिसुखानुभवसमये तद्देहस्थितिर्न स्यात् । मुक्त्यनुभवानन्तरमपि तेनैव देहेन मुक्त्यधिकपूर्णभजनानन्दानुभवो न स्यात् । एतदेवा- भिप्रेत्याचार्यैरुक्तं तारतम्यं न स्वरूपे देहे वा तत्क्रियासु चेति । अन्यथा उभयत्र पूर्ण- १. चिह्नान्तर्गतं नास्ति क्वचित् । २. पूर्णरसः ।
१२ श्रीवल्लभकृतविवरणसमेता । रसानुभवो न स्यात् । एवं देहात्मनोस्तारतम्याभावमुक्त्वा तत्क्रियास्वपि तारतम्याभावमाहुः तत्क्रियास्विति । क्रियासु तारतम्याभावप्रकारविशेषः । यथा भगवत्कर्तृकरसोपयोगिक्रिया- विशेषैर्भक्तेषु परमानन्दरसानुभवः, तथा भक्तकर्तृकरसोपयोगिक्रियाविशेषैर्भगवति परमानन्द- रसानुभव इति तारतम्याभावः, तथा सर्वत्र तारतम्याभावज्ञापनाय वाशब्दः । यद्यपि सर्वत्र तारतम्याभावोऽस्त्येव, तथापि भगवान् ततोपि अनिर्वचनीयपरमकाष्ठापन्नरसानुभवार्थं तारतम्यमपि करोतीत्याहुः तथापि यावतेति । यथा फलप्रकरणीयप्रथमाध्याये ‘बाहु- प्रसारपरिरम्भे’ति श्लोके ‘उत्तम्भयन् रतिपतिं रमयाञ्चकारे’ति स्वरमणेन पूर्णरसानुभवं कारयित्वा, अग्रिमश्लोके ‘आत्मानं मेनिरे स्त्रीणां मानिन्योभ्यधिकं भुवी’ति स्वरूपपरावृत्ति- रूपेण पूर्णरसानुभवं कारयित्वापि, पुनश्च फलप्रकरणीयचतुर्थाध्याये ‘तद्दर्शनाह्लादविधूत- हृद्रुज’ इतिश्लोके ‘मनोरथान्तं श्रुतयो यथा ययु’रित्यनेन भक्तमनोरथागम्यमपि पूर्वानु- भूतपूर्णरसतार्तम्यं ज्ञापयितुं स्वरूपानन्दं दत्तवानितिप्रकारं ज्ञापयितुमुक्तं यावतेति । यावता तारतम्येन तस्य भक्तस्य कार्यं मनोरथान्तरूपं स्वरूपानन्दानुभवं सिध्यति, तावत्ता्रतम्यं करोति । यत्र पूर्णरसदानार्थं तारतम्याभावं येषु भक्तेषु सम्पादितवान्, तेषु मनोरथान्तं स्वरूपानन्ददानं युक्तमेवेति ज्ञापनार्थं हिशब्दः ॥ १३३/२ ॥ एवं प्रकारभेदेन शुद्धमार्गत्रयाणां फलपर्यवसानमुक्त्वा शुद्धमिश्रभेदेन मार्गत्रयेपि द्वैविध्यमाहुः ते हि द्विधेति । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ॥ १५१/२ ॥ एवं द्वैविध्ये शुद्धभेदप्रकारस्य पूर्वोक्तत्वात् परं मिश्रभेदस्य भेदत्रयमाहुः मिश्रा- स्त्रिधा पुनरिति । मिश्रेशु त्रैविध्यं दर्शयन्ति प्रवाहादिविभेदेनेति । त्रैविध्यदर्शन- प्रयोजनमाहुः भगवत्कार्यसिद्धय इति। भगवत्कार्यं मार्गत्रयसर्गरूपम्, तत्सिद्धये मार्ग- त्रयविवेकज्ञानसिद्ध्यर्थमित्यर्थः । अथवा । भगवत्कार्यं लीलारूपम्, तत्सिद्धये क्रीडारस- सिद्ध्यर्थमित्यर्थः । अत एव श्रीभागवते विन्ध्यावल्याप्युक्तं ‘क्रीडार्थमात्मन इदं त्रिजग- त्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्यु’रिति । मिश्राणां त्रैविध्यं दर्शयन्ति पुष्ट्या विमिश्रा इति । ये सर्वज्ञास्ते सर्वज्ञत्वेन पुष्टिमार्गोत्कर्षं ज्ञात्वा पुष्ट्या विमिश्रा भवन्ति, यथा नारदप्रह्लादादयः, ये पूर्णज्ञानफलनिष्ठाः सन्तः पुष्टिखरूपभिज्ञास्ते पुष्ट्या विमिश्रा भवन्ति । पुष्टिमार्गाभिज्ञत्वे हेतुः सर्वज्ञा इति । ‘ज्ञाननिष्ठा तदा ज्ञेया सर्वज्ञो हि यदा भवेत्’ । ये स्वभावतः पूर्णज्ञाननिष्ठाः सन्तः सर्वज्ञत्वात् पुष्टिमार्गस्वरूपा- भिज्ञास्त एवोक्ताः पुष्ट्या विमिश्राः सर्वज्ञा इति । अतः परं प्रवाहविमिश्रणप्रकारमाहुः १, स्वरूपाङ्गगवरूपादपि परावृत्तिः पूर्वरूपापेक्षया स्वखरूपपरावृत्तिर्वा तत्पूर्वकमित्यर्थः ।
पुष्टिप्रवाहमर्यादा । १३ प्रवाहेण क्रियारता इति । ये स्वभावतः काम्यकर्मरताः काम्यकर्मनिष्ठाः सन्तः प्रवाहेण मिश्रा जाताः, तदा विशेषेण काम्यकर्मनिष्ठाः काम्यकर्मरताः काम्यकर्मजडा एव भवन्ति । यथा सर्वज्ञाः पुष्ट्या विमिश्रा भवन्ति, तद्वदेव प्रवाहेण विमिश्रास्ते कर्मजडा एव भवन्ति । न तु मार्गान्तरविमिश्रा भवन्ति । त एवोक्ताः प्रवाहेण क्रियारता इति । एवं प्रवाहविमिश्रणप्रकारमुक्त्वा मर्यादाविमिश्रणप्रकारमाहुः मर्यादया गुणज्ञा इति । ये शुद्धमर्यादामार्गीयास्ते मर्यादामार्गीयभक्तसङ्गविमिश्रणेन भगवद्गुणपरा भवन्ति भगवद्गुणज्ञा इति । एवं मिश्रभेदान्निरूप्य सर्वतः सर्वोत्कृष्टत्वज्ञापनाय केवलपुष्टि- मार्गीयान् निरूपयन्ति शुद्धाः प्रेम्णेति । शुद्धाः प्रेम्णा पुष्टिमार्गीयभावातिरिक्तभावान्तर- रहितास्ते अतीव दुर्लभाः । अतीव दुर्लभाः इत्यत्रातीवशब्दात् भगवदनुग्रहैकलभ्या इत्यर्थः । एवं मिश्रभेदप्रकारेण मार्गत्रयं निरूप्य शुद्धपुष्टिप्रकारनिरूपणेन पुष्टिमार्गस्य सर्वोत्कृष्टत्वं निरूपितम् ॥ १५ १/२ ॥ एवं तेषां मार्गत्रयाणां सर्गभेदप्रकारमुपसंहरन्ति एवं सर्ग इति । एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥ भगवानैव हि फलं स यथाविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥ आसक्तौ भगवानेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ॥ २० १/२ ॥ एवं अनेन प्रकारेण सर्गभेदमुपसंहृत्य तेषां फलनिरूपणं प्रतिजानते फलं त्वत्र निरूप्यत इति । अत्र मार्गत्रयनिरूपणप्रस्तावे मार्गत्रयस्य फलं निरूप्यते । तत्र पूर्वं पुष्टिमार्गस्य फलमाहुः भगवानेव हि फलमिति । अत्र भगवत्पदेन साक्षात्पुरुषोत्तम उक्तः । एवकारेण साक्षात् स एवानन्दमात्रकरपादमुखोदरादिरूपेण प्रकट एव फलम् । स यथा पूर्वोक्तस्वरूप एव भुवि पुष्टिमार्गीयभक्तस्थितिस्थाने आविर्भवेत् प्रकटो भवेत् । कदाचित् ज्ञानिभक्तन्यायेन हृद्येव भावनाप्रकारेण प्राकट्यं भविष्यतीत्याशङ्का- निरासायाहुः गुणस्वरूपभेदेनेति । गुणाः ईक्षणभाषणादिलीलारूपाः, स्वरूपं तु पूर्वोक्त- मेव, तद्भेदेन तत्तत्प्रकारभेदेन यथा प्रकटो भवेत्, तथा तेन प्रकारेण प्रकारभेदेन तेषां फलानुभवहेतुर्भवेदित्यर्थः । पुष्टिमार्गीयाणां साक्षात्सम्बन्धस्यैव फलत्वमेव युक्तमिति १. जीवाः । २. त्रयभेदम् ।
१४ श्रीवल्लभकृतविवरणसमेता । ज्ञापनाय हिशब्दः । ननु पुष्टिमार्गस्य सर्वोत्कृष्टत्वं यद्यपि सर्वप्रमाणसिद्धम्, तथापि तन्मा- र्गीयस्यापि वृत्रास्यासुरयोनिप्रवेशे को हेतुरित्याशङ्कानिरासायाहुः आसक्तावपीति । पुष्टि- मार्गीयस्य स्वमार्गीयभगवत्स्वरूपातिरिक्तासक्तेरनुचितत्वात् वृत्रस्य पूर्वजन्मनि सङ्कर्षण- स्वरूपासक्तत्वात् तस च साक्षात् पुरुषोत्तमत्वाभावात् तदासक्तिनिवृत्त्यर्थं शापं दापि- तवान् । अथवा । अहङ्कारे सत्यपि क्वचित् लोके भक्ताय शापं दापयति । यथा परी- क्षिति । कचिदितिपदात् अहङ्काराभावेपि क्वचित् शापो दृश्यते । यथेन्द्रद्युम्ने अगस्त्यशापः । शापायोग्येष्वपि भगवद्भक्तेषु शापानिमित्तोद्मनदर्शनेन यत् शापदानम्, तद्भगवदिच्छ- यैव, नतु प्रकारान्तरेणेति ज्ञापनाय भगवानेवेत्यत्र एवकारः । तत्र शापदाने हेतुमाहुः तन्मार्गस्थापनाय हीति । यस्य यस्मिन् मार्गे अङ्गीकारः, तस्य शापानन्तर- मपि तन्मार्गाङ्गीकारस्य नित्यत्वेन तन्मार्ग एव स्थापनम्, न तु मार्गान्तरसम्बन्धस्तदर्थ- मित्यर्थः । नित्यपदार्थस्य परावृत्त्यभावो युक्त इति ज्ञापनायोक्तं हीति । अतःपरं शापानन्तरमपि मार्गाङ्गीकारस्थितिनित्यत्वज्ञापनप्रकारमाहुः न ते पाषण्डतां यान्तीति । यदि भगवदङ्गीकारस्य नित्यत्वं न स्यात्, तदा तेषां भगवत्सम्बन्धाभावात् पाषण्डित्वमेव स्यात् । यदि तेषां भगवदङ्गीकारो न स्यात्, तदा कल्माषपादवत् ब्रह्मद्रोहरूपं दुष्टकर्म्माचरणं स्यात् । अत एवोक्तं न ते पाषण्डतां यान्तीति । ते पाषण्डमार्गप्रविष्टा न भवन्ती- त्यर्थः । एवमेकं मार्गाङ्गीकारनित्यत्वज्ञापकलक्षणमुक्त्वाव्यान्यान्यपि लक्षणान्याहुः । शापस्य क्लेशहेतुत्वमाशङ्क्याङ्गीकारनित्यत्वेन तदभावमाहुः न च रोगाद्युपद्रव इति । तेषां व्याध्याद्युपद्रवो न भवति । अत एव वृत्रस्य सर्वाभिभावुकत्वम्, न तु केनाप्यभिभाव्य- त्वम् । लक्षणान्तरमाहुः महानुभावा इति । महान् अनुभावो येषाम् । यद्यपि शाप- युक्तास्तथापि ते महानुभावा एव । अत एव भगवन्मार्गतत्त्वज्ञैर्महादेवैः शापदानान्तरं पार्वतीं प्रति तेषामनुभाव उक्तः । 'दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् । नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गा- पवर्गनरकेष्वपि तुल्यार्थदर्शिन' इति । ननु यदि तेषां महानुभावत्वं तर्हि कथं शापसम्भव इत्यत आहुः प्रायेण शास्त्रं शुद्धत्वहेतवे इति । शास्यते अनेनेति व्युत्पत्त्या शास्त्रमिति, शापस्य शास्त्ररूपत्वात् पूर्वजन्मापराधन्निवृत्तिहेतुत्वेन शुद्धिहेतुत्वमुक्तम् । प्रायेणेति सम्भावना । एवं भगवदङ्गीकारस्य नित्यत्वं मर्यादामार्गेपि ज्ञेयम् । नित्यत्वज्ञापका धर्माः 'न ते पाषण्डतां यान्ती'त्यादयो मर्यादामार्गेपि ज्ञेयाः । परीक्षिति गजेन्द्रे च । ननु यदि शापानन्तरमपि भगवदङ्गीकारस्य नित्यत्वेन त्रिष्वपि पूर्वधर्मसमानत्वम्, तर्हि फलेपि साम्यं भविष्यतीत्याशङ्कानिरासायाहुः भगवत्तारातभ्येनेति । भगवत्स्वरूपतद्भजनप्रकारतारत- म्येन फलेपि भक्तास्तारतम्यं भजन्ति हि । तत्र भजनतारतम्यप्रकारः । पुष्टिमार्गभजने स्नेह एव नियामकः । मर्यादामार्गीयभक्तभजने मर्यादामार्गीयभक्तस्य यद्यपि भजनीयः पुरुषोत्तम एव, तथापि तत्र विधिरेव नियामकः, न तु स्नेहोपीति तारतम्यम् । इन्द्रद्युम्नस्य
पुष्टिप्रवाहमर्यादा । १५ पूजापरत्वात्, तत्र पूज्यस्य पुरुषोत्तमविभूतिरूपत्वात् पूजायाश्च कर्ममार्गत्वात् तत्रापि विधिरैव नियामक इति । भगवत्स्वरूपतद्भजनप्रकारतारतम्येन तारतम्यं भजन्ति । भजन- तारतम्येन फलतारतम्यस्य युक्तत्वज्ञापनाय हिशब्दः । फलतारतम्यं तु 'गजेन्द्रो भगव- त्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासश्चतुर्भुज'मित्यादिवाक्येषु प्रसिद्धमिति नात्र विचारः । ननु यदि तेषां केवलं भगवत्परत्वमेव, तर्हि श्रौतस्मार्तकर्म- चरणे को हेतुरिति चेत्, तत्राहुः लौकिकत्वं वैदिकत्वमिति । यद्यपि ज्ञानमार्गीयस्यापि भक्तस्य 'तावत्कर्माणि कुर्वीते'त्यनेन श्रौतस्मार्तकर्माणचरणस्यानावश्यकत्वं श्रूयते, पुष्टिमार्गी- याणामपि 'यानास्थाये'तिवाक्यात् । अत्र 'आस्थाये'ति, आस्थानं नाम कायवाङ्मनसां तदे- कपरत्वम्, तादृशानामपि श्रौतस्मार्तकर्मचरणानावश्यकत्वेपि यत्कर्माचरणं तत्र को हेतुरि- त्याशङ्कय हेतुमाहुः वैदिकत्वं लौकिकत्वं कापट्यादिति । वैदिकत्वं वैदिककर्माचरणम्, लौकिकत्वं लौकिकव्यवहारादिप्रतिपालनम्, तत्तेषु कापट्यात् कापट्याद्धेतोरित्यर्थः । कापट्यं नाम लोकसङ्ग्रहः । अत एव भगवताप्युक्तं 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् । न बुद्धिभेदं जनयेदज्ञानां कर्म- सङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्' इति भगवद्वाक्यात् तत्तन्मार्गीय- पूर्णभक्तिमतां लौकिकवैदिककर्माचरणं लोकसङ्ग्रहार्थमेव, न तु कर्मासक्तानामिव परमपु- रुषार्थरूपत्वेन । यद्यपि तेषां पूर्वोक्तकर्मकरणमनासक्तिपूर्वकं लोकसङ्ग्रहार्थमेवेत्युक्तम्, तर्हि तेषां कस्मिन् कर्मणि आसक्तिपूर्वकं करणमिति चेत्, तत्राहुः वैष्णवत्वं हि सहज- मिति । वैष्णवत्वं नाम पुष्टिमर्यादामार्गप्रवर्तकाचार्योपदेशपूर्वकं तदुक्तप्रकारेण तन्मार्गा- नुवर्तित्वम्, तदेव तेषां सहजो धर्मः स्वाभाविकोधर्मः, सहजमिति । तेन तन्मार्गीया- णामेव धर्माणामासक्तिपूर्वकं करणम्, ततोऽन्यत्र ततः वैष्णवधर्मातिरिक्तधर्मेषु विपर्ययः पूर्वोक्तप्रकारः अनासक्तिपूर्वकं करणम्, लोकसङ्ग्रहार्थं करणमित्यर्थः ॥ २०१/२ ॥ एवं मार्गद्वयजीवानां फलपर्यवसानान्तां कृतिं निरूप्य पुष्टिमर्यादामार्गाङ्गीकाररहितानां दैवजीवानां साधारणानां स्वरूपं कृतिं चाहुः सम्बन्धनस्त्विति । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ॥ २२१/२ ॥ सम्बन्धिनः दैवजीवत्वेन पुष्टिमर्यादामार्गाङ्गीकृतजीवसम्बन्धिनो, न तु तन्मा- र्गप्रवृत्ताः । तथा अपरे प्रवाहस्थाः । ते सर्वे चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमण- शीलाः । त एव सर्ववर्त्मसु मार्गत्रयेष्वपि क्षणात् कालविशेषं प्राप्य सर्वत्वं तत्तन्मार्गी- यत्वं प्राप्नुवन्ति, तत्तन्मार्गीयधर्मानुकरणं कुर्वन्ति । ते मार्गत्रयधर्मानुकरणमेव कुर्वन्ति ।
१६ श्रीवल्लभकृतविवरणसमेता । न तु तेषां कुत्रचित् रुचिः । रुचिः क्वापि न भवतीत्यर्थः । न तु क्वापि श्रद्धेत्यर्थः । तेषां फलपर्यवसानमाहुः तेषां क्रियानुसारेणेति । तेषां तत्तन्मार्गीयक्रियानुकरणेन सर्वत्र सकलं कामितं कामनाविषयं फलं भवतीत्यर्थः । तेषां भगवदङ्गीकृतानां साधारणानां कामासक्तत्वात् तत्तत्क्रियानुसारेण सकलं तत्तत्कामितं फलं भवतीत्यर्थः ॥ २२½ ॥ एवं सम्बन्धिनां स्वरूपमुक्त्वा केवलप्रवाहस्थानां स्वरूपमाहुः प्रवाहस्थान् प्रवक्ष्यामीति । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥ जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २६½ ॥ कथनप्रकारमाहुः स्वरूपाङ्गक्रियायुतानिति । तेषां स्वरूपमाहुः जीवा इति । ते प्रवाहस्था जीवा आसुराः, ते सर्वे भगवतैव 'प्रवृत्तिं च निवृत्तिं चे'ति वर्णिताः । आसुरेष्वपि प्रकारभेदमाहुः ते द्विधेति । द्वैविध्यमेव प्रदर्शयन्ति ह्यज्ञदुर्ज्ञविभेदत इति । यथा दैवजीवेष्वपि केचन पण्डिताः, केचन न, तद्वत् केचन आसुरेष्वपि दुर्ज्ञाः, केचन अज्ञाः । दुर्ज्ञानां लक्षणमाहुः दुर्ज्ञास्त इति । 'प्रवृत्तिं च निवृत्तिं चे'ति भगवत्प्रोक्त- लक्षणा दुर्ज्ञाः । अज्ञानाहुः तानन्विति । ये तान् अनु तदुक्तप्रकारानुवर्तिनस्ते अज्ञाः । नन्वासुरेष्वपि जीवेषु म्लेच्छादिषु कस्यचिद्भगवत्परतादर्शने को हेतुरित्याशङ्काया- मुच्यते । वस्तुतस्तु स नैवासुरजीवः, शुद्ध आसुरजीवे भगवद्भावस्यासम्भवात् । किन्तु भगवदपराधाद्भगवद्भक्तापराधाद्वा सोपि पुष्टिमार्गीयः प्रवाहे समागत्य प्रवाहस्थैः सङ्गं प्राप्यापि, तत्कुले जन्म वा प्राप्यापि, तैर्न युज्यते, आसुरभावैर्योगं न प्राप्नोति । ननु यदि स आसुरभावैर्न युज्यते, तर्हि तस्यासुरकुलोत्पत्तौ को हेतुरिति चेत्, तत्राहुः कर्मणा जायते यत इति । कर्मणा पूर्वोक्तभगवदपराधरूपेण, अथवा, तज्जनितप्रारब्धकर्मणा, जन्मनः प्रारब्धकर्माधीनत्वात् । तत्रासुरकुले जन्मान्तरमपि तद्भावसम्बन्धाभावः कथं सम्भवतीति चेत्, उच्यते । तस्य पूर्वजन्मनि पुष्टिमार्गीयत्वेन भगवदङ्गीकृतत्वात् । भगवदङ्गीकारस्य नित्यत्वात् । अत एव गीतायां भगवताऽप्युक्तम् 'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भया'दिति । तस्य पूर्वजन्मनि भगवद्धर्मीचरणाख्यसंस्कारस्य बलिष्ठ- त्वात् आसुरकुले जन्मान्तरमपि नासुरभावप्रवेशः । किञ्च । गीतायां 'अयतिः श्रद्धयो- पेतो योगाच्चलितमानस' इत्यारभ्य 'त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते' इत्यन्तेन पार्थपृष्टेन भगवता 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति । प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः । शुचीनां
पुष्टिप्रवाहमर्यादा । १७
श्रीमतां गेहे योगभ्रष्टोभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः । जिज्ञासुरपि योगस्य परं ब्रह्मातिवर्तते' इत्यन्तेन पार्थसंशयो निवारितः । यत्र योगभ्रष्टस्यापि पूर्वजन्मयोगधर्मा- चरणसंस्कारानिवृत्तिः, तत्र भगवदङ्गीकृतस्य पुष्टिमार्गीयस्य पूर्वजन्माचरितभगवद्धर्मस्य सर्वतोधिकप्राबल्यात् आसुरसङ्गेन तत्कुलजन्मनापि पूर्वजन्मसंस्कारानिवृत्त्यभावात्, यावज्जीवं तत्संस्कारवत्त्वेन अन्तकालेपि तत्संस्कारस्य विद्यमानत्वात् 'अन्ते या मतिः सा गति'रिति शास्त्रात् 'यं यं वापि स्मरन् भाव'मिति भगवद्वाक्याच्च तस्य भगवत्प्राप्तिरेव, न तु आसुरभावजनितः कोप्यन्तराय इति सर्वमनवद्यम् ॥ २५॥
यद्यप्यत्र ग्रन्थोपसंहारदर्शनाभावादग्रेपि ग्रन्थोस्तीति ज्ञायते, तथाप्यग्रिमग्रन्थस्या- प्रसिद्धत्वाद्यावत्प्रसिद्ध एव व्याख्यात इति नानुषपत्तिः काचित् ।
श्रीमत्कृष्णस्य वागर्थो दुर्बोधः सर्वथा स्वतः । तत्कृपात्तस्तदीयस्य बुद्धिगम्यो न चान्यथा ॥ १ ॥ नत्वा पितृपदाम्भोजं कृपामधुसुपूरितम् । तदालोडितबुद्ध्यैव श्रीमदाचार्यभाषितम् ॥ २ ॥ पुष्टिप्रवाहमर्यादाभेदकं शास्त्रमद्भुतम् । श्रीवल्लभेन व्याख्यातं तत्कृपातो यथामति ॥ ३ ॥ तेनाचार्याः प्रसीदन्तु मयि निःसाधने स्वतः । तेनैव मम नैश्चिन्त्यमैहिके पारलौकिके ॥ ४ ॥
इति श्रीपितृचरणैकतानश्रीवल्लभ विरचितं पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।
श्रीगोपीजनवल्लभाय नमः। पुष्टिप्रवाहमर्यादा । श्रीरघुनाथकृतविवरणसमेता । नमो भक्तभयाभावभाविने भक्तिदायिने । श्रीमदग्निकुमाराय पारोवाराय सत्कृते ॥ १ ॥ इदानीं भगवत्प्राप्तिलक्षणमुख्यफलतदभावौ किंनिबन्धनाविति संशयं निवारयितुं मार्गभेदविचारमारभन्ते पुष्टिप्रवाहमर्यादा इति । पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः। पुष्टिरनुग्रहो धर्म्येकनिष्ठः, स एको मार्गः। प्रवाहो 'जायस्व म्रियस्वे'त्येवं- रूपः। मर्यादा वेदोक्तवचनोत्थो मार्गः। एतान् पृथक् पृथक् प्रत्येकं तेषामसाधारण- लक्षणैर्जीवदेहप्रवाहक्रियाफलरूपैर्विशिष्य यथा ज्ञायन्ते, तथा वक्ष्यामि, यतो यच्छ्रू- वणानन्तरं पूर्वसन्देहाः सर्वविषयका न भविष्यन्तीत्यर्थः। अत्र जीवप्रवाहयोर्विशेषण- विशेष्यभावेनैक्यं ज्ञेयम्, न भेदः। देहक्रिययोरप्येवमेव ज्ञेयम्। भेदानग्रे स्वयमेव वदिष्यन्ति ॥ १ ॥ मार्गत्रयसद्भावं प्रमाणयन्ति भक्तिमार्गस्येति । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥ 'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ कथनादिति । श्रीभागवतगीतादौ । अत्र भक्तिरूपकार्येण कारणं पुष्टिरस्तीति निश्चीयते । इदं धर्मिनिष्ठं पुष्टिमार्गे प्रमाणमुक्तम् । 'द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव चे' त्याद्युक्तेः प्रवाहाख्योपि मार्गः प्रमाणसिद्धोस्तीति निश्चीयते । काण्डत्रयात्मक- वेदस्य विद्यमानत्वाच्छ्रूयमाणत्वान्मर्यादामार्गेपि सप्रमाणत्वं सिद्धम् ॥ ३ ॥ त्रयाणामसङ्कीर्णमितरेतरभेदकं लक्षणमाह कश्चिदिति । कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् । सर्वत्रोत्कर्षंकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ १. मुक्तिदायिने । २. पारः संसारस्तदुत्तारकायेत्यर्थः । ३. प्रवाहेतिनास्ति ४. अतः। ५. वेदेति नास्ति क्वचित् ।
पुष्टिप्रवाहमर्यादा । १९
न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । 'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥ 'मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति वचनाद्भक्तिमार्गीया विरला एव भवन्ति । न हि भगवत्प्रियत्वं स्वल्पसाध्यम्, अतः प्रवाहाद्भिन्नः पृथगेव । प्रवाहस्य सर्वसाधारणत्वाद्भक्तेरनुग्रहैकलभ्यत्वान्महानेव भेदोस्तीति मन्तव्यम् । मर्यादायाप्यसङ्कीर्णत्वं वेदाच्च भेदत इत्यारभ्य निश्चय इत्यन्तेनाह । 'यदा यस्ये'ति श्रीभागवते । 'नाहं वेदैर्न तपसे'ति गीतायाम् । सर्वत्र भगवच्छास्त्रादौ भक्तिमार्गस्य कर्माद्यपेक्षयोत्तमत्वकथनात् पुष्टिमार्गो भिन्नोस्तीति निर्धारितम् । अभेदे तूत्कर्षवैयर्थ्यात् ॥ ५ ॥ मर्यादाप्रवाहयोर्भक्तावन्तर्भावमाशङ्क्य निषेधन्ति मार्गैकत्वेनेति । मार्गैकत्वेन चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । अन्त्यौ प्रवाहमर्यादे । तनू भक्तिं प्रत्यङ्गभूते, साधने इति यावत् । एवंविधे भूत्वा भक्त्यागमौ भक्तिशास्त्ररूपौ मतौ चेत्, तन्न युक्तमिति योजना । तन्कुतो नेत्याशङ्क्याह सूत्रतो हीति । वैदिको मर्यादामार्गो भिन्नः, भक्तेः पृथगित्यर्थः । अत्र प्रमाणं ब्रह्मसू- त्राणि । द्वितीयं तदर्थानुरुद्धा युक्तयः साधकवाक्यानि । तत्र 'अथातो ब्रह्मजिज्ञासा' इत्यादिषु जीवब्रह्माभेदः प्रतिपाद्यते । भक्तौ तु तवाहमिति स्वस्वामिसम्बन्धः प्रतिपाद्यते, अतः स्फुटो भेदः । युक्तयस्तत्तर्कास्ते च शास्त्र(प्र)सिद्धा ज्ञेयाः । भक्तेरपि शाण्डिल्यसूत्रतो वैलक्षण्यं श्रूयते । तथाहि । 'अथातो भक्तिजिज्ञासा' इत्युपक्रम्य 'सा परानुरक्तिरीश्वरे' 'द्वेषप्रतिपक्षाद्रसभावाच्च राग' इति द्वितीयतृतीयसूत्राभ्यां स्नेहरूपत्वमुक्तम् । तच्च कर्मज्ञान- काण्डादिविरुद्धमेव । अतोपि मर्यादायाः पृथक्त्वम् । हिशब्द उभयत्रापि प्रसिद्ध्यर्थः । भेदकान्तरमप्याह जीवेति । आसुरजीवानां दैत्यदानवप्रभृतीनामपि वेदेधिकारप्रवृत्ती दृश्येते । भक्तिमार्गे तेषां गन्धोपि न । प्रत्युत तद्भक्तसु द्वेष एव, अतो जीवभेदः स्फुटः । वेदे स्त्रीशूद्रादीनामनधिकारः श्रूयते । भक्तौ तु ब्राह्मणादिसाधारण्येन सै दैवजीवमा- त्रस्य । 'देवोऽसुरो मनुष्यो वे'ति वचनात् । 'यो मद्भक्तः स मे प्रियः' 'मां हि पार्थ व्यपा- श्रित्य' इत्यादौ तथैवाज्ञानात् । भक्तौ स्नेहनिबन्धनकृतेरियत्ताया अभावाद्देहवत् कृति- भेदोपि स्फुटः । किञ्च । श्रुतेर्वेदस्य नित्यता । अकरणे प्रत्यवायजनकत्वात् । श्रुतिपदेन तदुक्तधर्मा उच्यन्ते । उक्तप्रकारेण वेदे अन्यमार्गापेक्षया यथा भेदः, तद्वत् तथैव पुष्टिमार्गे
१. भक्त्या त्वनन्ययेति गीतायाम् । २. अधिकारवृत्ती अधिकारप्रवृत्तिरिति, पाठद्वयम् । ३. दैवेति पाठः ।