षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ५१ अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् शरीरपरिवर्त्तनमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः। किन्तु तनु- नवत्वेन सुलभवै। कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम्। अतः कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु। गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्। तस्याप्रतीकार्यत्वात्कथं रतिर्दुर्लभतमा नेत्याशङ्क्य मुररिपुपदस्याशयं ब्रुवन्तस्तत्स- माधानमाहुः कदाचिदिति। कस्मिन्नपि काले भगवदीयानामपराधे जाते तेन च भक्त्युत्पत्तिविषयके भगवत्कृते प्रतिबन्धे जातेऽपि राजकन्यावत् सर्वदोषान्कांयवाङ्क- नोजांनाधिदैविकादीन्कालजन्यदेहावस्थान्तरकृतान्भूतभविष्यद्वर्त्तमानान्निवार्य्य स्व- कीयान्करिष्यतीति त्वत्कृपायां सत्यां न किमपि दुर्लभमिति सुष्टूदितम्। ननु श्रीयमुनाकृपथा भगवत्कृतप्रतिबन्धापगमे किं गमकमित्याशङ्क्य मुकुन्दप्रिय इति सम्बोधनेन मूले मुररिपाविति समादधते। मुकुन्दप्रिय इति मुकुं मोक्षं ददातीति तथा। तत्प्रियात्वेन तत्समानशीलव्यसनवतीियमिति मोक्षदाने समर्था, अत एतत्कृपथा तदपगमने किञ्चित्रम्। अन्यथा मुकुन्दप्रियात्वं गच्छेत्। मोक्षस्वरूपं तु, पद्मपुराणे, 'विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण' इति। श्रीभाग- वतेपि, 'भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः'। यद्वा, 'यतोपराधस्तत एव मुक्तिरि'ति नियमाद्भक्तद्रोहे जाते तत्सेवनादेव तन्निवृत्तिः। अन्यथाम्बरीषोपाख्याने 'क्षमापय महाभाग ततः शांतिर्भविष्यती'त्युक्तमनुपन्नं स्यात्। तथा च, सर्वभक्तशिरोमणेः श्रीयमुनायाः सेवनादेतत्प्रसन्नतया 'यथा तरोर्मूलनिषेचनेने'तिवत्सर्वभक्तप्रसन्नतायां भगवत्कृतप्रतिबन्धापगम इति नानुपत्तिः काचित्। एवं च विवेकधैर्याश्रयसेवाफल- ग्रन्थयोर्वक्ष्यमाणो 'भक्तद्रोहे भक्त्यभावे भक्तैश्चातिक्रमे कृते। अशक्ये वा सुशक्ये वा सर्वथा शरणं हरिरि'ति, 'पुष्टौ नैव विलम्बयेदि'ति च भगवत्कृतप्रतिबन्धापग- मने यः प्रकारः स एवात्र मुकुन्दप्रियापदेन सूचित इति दिग्। उत्तरार्द्धमवतार- यन्ति अत इति। यतः शरीरनिवृत्तिकृन्मुकुन्दप्रियत्वसम्पादनकृच्छ्रीयमुनाकृपथा सर्वसौलभ्यमतो हेतोर्यावता कालेन इदानीं स्थितस्य अलौकिकसामर्थ्यशून्यस्य देहस्य निवृत्तिः परिवर्त्तनं तावत्कालं तव पूर्वोक्तधर्मवत्या लालना प्रेमविवशतया
५२ श्रीयमुनाष्टकम् । तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥ साऽपि त्वत्कृपयैव नान्यथेति प्रार्थ्यतेऽस्त्विति। गङ्गाया अपि फलसाधकत्वं त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की- र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितेरिति । मर्या- दामार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्व- रूपं जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥ गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । गुणगणकथनं सा स्तुतिरूपा भवतु । अस्तुपदस्य तात्पर्यमाहुः सापीति । लाल- नापि भगवत्कृतप्रतिबन्धेपि रक्षिकायास्तव कृपया सामर्थ्याभावेनैव सम्पत्स्यते, नान्यथा । इतरथा 'तदान्यसेवेति व्यर्थे'तिसेवाफलविवृतौ वक्ष्यमाणमनुपपन्नं स्यात् । एतत्सेवा तु भक्तसेवैवेति स्फुटमुक्तम्, तव सर्वभक्तमूलत्वात् । ननु गङ्गाया यद्यपि 'सन्निवेश्य मनो यस्मिन्च्छुद्धं यामुनयोमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो याता- स्तदात्मतामि'त्यादिरूपं यस्यां स्नानार्थं पानार्थं वा गच्छतः पुंसः पदे पदेऽश्वमेध- राजसूयादीनां फलं न दुर्लभमि'त्यादिरूपं च फलदात्रीत्वं श्रूयते, तथापि, यथा- धिकारमलौकिकसामर्थ्यादिफलसाधकत्वं सरश्रमजलजायास्तव संमिलनादेवेत्यत आहुः गङ्गाया इति । सुरधुनीति । धुञ्कम्पने । धुनोति तीरस्थवीरुधो द्रुमानिति धुनी । किस्मेति क्विप् । पृषोदरादित्वात्नुकू । नान्तत्वान्डीप् । सुराणां धुनी, देव- लोकनदीति, कौ तु त्वत्सङ्गमादेव स्तुता । लोके कथादिषु माहात्म्येषु च 'गङ्गा- द्वारे प्रयागे च गङ्गासागरसङ्गमे, सर्वत्र दुर्लभा गङ्गे'त्यादिवचनेषु श्रीमद्यमुनासम्मिल- नात्पूर्वमपि श्रीहरिद्वारकलखलक्षेत्रादिषु च मुक्तिदात्रीत्वं श्रूयते, तदाक्षिपन्नाहुः नन्विति । विशेषमिति, अधिकारिभेदेन किञ्चित्प्रकारे नानात्वम् पुष्टीति व्याकु- र्वन्ति । मर्यादेति । वेदोपनिषत्पुराणादिश्रवणेन यथार्थभगवन्माहात्म्यज्ञानम्, तस्मि- न्सति तत्रोक्तसाधनानुष्ठानं तेन च स्वरूपज्ञानम्, तस्मिन्सति मुक्तिरिति मर्यादा- मार्गः । निजजनानुदिधीर्षुर्भगवान्दयया निस्साधनान् अनुगृह्य लीलासुष्टौ प्रवेशयतीति पुष्टिमार्गः । एवं च मर्यादामार्गीयाणां शास्त्रश्रवणैकहेतुकज्ञानवत्त्वम् । तत्र च सृष्टि- स्थित्यर्थं तदिच्छयैव तत्स्वरूपं गूढरीत्योक्तम् । तथा च श्रुतिः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्द ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति । अत्र वाग्गोचरस्तुतिकस्य मनोध्यानाविषयस्य ब्रह्मण आनन्दविदुषोऽकुतोभयवत्त्वमुच्यते,
गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम्। ५३ स्तुतिं तव करोति कः कमलजासपत्निप्रिये यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति । सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। तेन तदानन्दविद्वत्त्वं तदिच्छयैवेति भासतेऽन्यथा वाङ्मनोऽगोचरत्वमनुपपन्नं स्यात् । एवं च पुष्टिस्थानां त्विच्छयैव सर्वलीलाविशिष्टस्वरूपज्ञानं भगवान्हृदि निधत्त इति ते श्रीयमुनायाः सर्वाङ्गीणश्रमकमलजायाः स्वरूपं जानन्ति । इतरेषां तु 'द्वापरादौ युगे भूत्वा कलया मानुषादिष्वि'त्यादिप्रमुदत्ताज्ञाकरुद्रादिकलाभिर्ब्रह्मणादिभिर्भ्रा- न्तत्वान्न तेषां भगवत्स्वरूपज्ञानम्, कुतः श्रीयमुनापर्यन्तमिति ते स्तुतिं केवलगङ्गाया इति मन्यन्तेऽदीर्घदृष्टत्वात् । पुष्टिस्थास्तु पुराणादौ या स्तुतिः केवला या दृश्यते सापि त्वत्सम्बन्धादेवेति यथार्थं त्वत्स्वरूपज्ञानात् स्तुवन्ति । एतेषामेतन्मा- हात्म्यावगतेरित्येतदभिप्रेत्य मर्यादादित्यारभ्य पुष्टिस्थितैरित्यन्तमुक्तमिति । मूलान्व- यस्तु, भो मुकुन्दप्रिये ? तव सन्निधौ मम तनुभवत्वमस्तु, एतावता मुररिपौ रति- र्दुर्लभतमा नास्तीति शेषः, यत एवं, अतस्तव लालनाऽस्तु, सुरधुनी पुष्टिस्थितैः त्वत्सङ्गमात्रपरं कीर्तिता, न तु कदापि त्वद्रहितापीति शेषः । एवं चास्मिन्पद्ये भग- वति रतेर्दुर्लभत्वकथनेन भगवत्प्रियत्वसम्पादकत्वसप्तमैश्वर्यं प्रोदितम् ॥ ७॥ एवं भगवत्प्रियत्वसम्पादिकायाः स्तुतेरशक्यत्वं निरूप्य पूर्वश्लोके प्रार्थितस्य तनुभवत्वस्य प्रकारं तत्सम्पादिकात्वमशक्यस्तुतित्वे हेतुं च वदन्तः कैमुतिक- न्यायेनाऽग्रिमभवतारयन्ति यत्रेति । लीलाकृष्टौ सर्ववन्द्यात्रिविधजीवस्तुत्यगङ्गायाः स्तुतिः उत्कर्षवर्णनं त्वत्सम्बन्धा- त्तत्र त्वदुत्कर्षकथने को वा समर्थः ? हेतुं स्फुटयन्तोऽवतारयन्ति अशक्येति । सर्वत्रेति, लोके वेदे च स्तवनीयत्वं पुरुषोत्तमसंयोगादेव । 'तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः, वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशक इति, 'यद्यद्वि- भूतिमदि'तिवाक्येन च निश्चितम् । स पुरुषोत्तमसम्बन्धः सर्वत्र आब्रह्मस्थावरादिषु लक्ष्म्यपेक्षया अल्पः, तस्यास्तद्वक्षसि स्थितत्वात् । न हीतरस्तत्र क्षणमपि स्थाप्य- तेऽत एवं सर्वेषां लक्ष्मीतो न्यूनतां स्फुटीकृत्य श्रीयमुनायास्तत आधिक्यं स्फुट- यन्ति त्वन्त्विति । लक्ष्म्या एकपतिकेति तत्सदृक्सौभाग्ययुता । व्रजे चतस्रः स्वामिन्यस्ता व्रजलीलायामेव सर्वसुखानुभवं कुर्वन्ति । अन्यत्र लीलायां तु तासां ७
५४ ॰श्रीयमुनाष्टकम्। हरेर्यदनुसेवया भवति सौख्यमामोक्षतः। दृश्यते। तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति। साम्यमात्रे कर्तुं शक्यत एव, अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्। गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। विप्रयोगानुभव एव। लक्ष्मीस्तु व्रजरत्नानां क्रीडावकाशे सुखानुभवं करोति। तदुक्तं श्रीमदाचार्यवर्यैः सुबोधिन्याम्, 'तासामाविरभूदि'त्यस्य व्याख्यावसरे। तथा हि, 'अथवा, व्यापिवैकुण्ठरूपेण एतावत्कालं लक्ष्म्या सह रमणं कृत्वा तेनैव रूपेण प्रादु- र्भूतः। स्रग्वी वनमालायुक्तश्च, मध्ये ब्रह्मादिपूजां च गृहीतवान्, लक्ष्म्या वा, अतो विलम्ब' इत्यपि सूचितम्। अत एव प्रथमश्लोके पूर्वाध्याये 'श्रयत इन्दिरे'त्युक्तमिति 'जयति तेधिकमि'त्यस्य व्याख्यायां च 'कदा ममावसरो भविष्यतीति निरन्तरं सेवते' इति। प्रकृतमनुसरामः। श्रीयमुना तु व्रजे तुर्यप्रियारूपेण रमते। द्वारिकायां च तथारूपेण। तत्रास्यास्तथात्वे गमकं कुरुक्षेत्रोपाख्याने द्रौपद्या पृष्टाभिर्वैदर्भीप्रभृ- तिभिर्यथाक्रमेणोत्तरं दत्तम्, तदेव। तथा हि, 'रुक्मिणी' सत्यभामा च जाम्बुव- त्पुत्रिकाँ शुभा। कालिन्दीँ मित्रविन्दाँ च सत्याँ भद्राँ च लक्ष्मणाँ। महिष्यश्च समाचख्युः स्वां स्वां वैवाहिकीं कथाम्'। अस्मास्तत्रापि ताभ्य आधिक्यं स्कान्दे श्रीभागवतमाहात्म्ये स्फुटतरमिति ततोवगन्तव्यम्। एवं श्रीयमुनेतरस्वामिनीनामे- कैकस्मिन्नवसरे रमणम्। श्रीयमुनायास्तु स्वामिनीत्वेपि लक्ष्मीसमानसौभाग्यवती- त्वमित्यपि शब्दार्थः। ननु लक्ष्मीवत्तथात्वे एतस्या अपि स्तुतिस्तद्वच्छक्या भवि- ष्यतीति पाक्षिकं दोषं परिहरन्क्षिपन्ति नन्विति। लोके दृश्यते शास्त्रादिद्वारा तत्साम्यं लक्ष्मीतुल्यत्वम्। तस्मिन्सति तद्वत्स्तुतिः शक्या भविष्यतीत्याशङ्क्य सम्बोध्यपदस्य तात्पर्यमाहुः प्रिय इतीति। व्याकुर्वन्ति साम्येति। साम्यमेव साम्यमात्रं तस्मिन्नेव सति स्तोतुं शक्येतैव। अत्रेति श्रीयमुनायाम्। ततो लक्ष्म्याः अधिकम् अवतारानवतारदशासु अनवरतलीला- सम्बन्धिरूपं प्रियत्वं विद्यते। तथा हि, लक्ष्मीर्हि सर्वपत्नीभ्यो मुख्यात एव वक्षो- निवासकृतः। अन्यासां तदंशत्वेन तदधीनता, श्रीयमुनायास्तु तद्वत्सौभाग्यवत्त्वेन न तदंशत्वम्, प्रत्युत तत्सपत्नीत्वेन तद्विरुद्धस्वभावत्वमपीत्येतत्सर्वं प्रियत्वं विना न निर्वहतीति प्रियत्वमनुमीयते प्रमीयते च, प्रियत्वे सति लक्ष्मीत आधिक्यम्।
गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम्। ५५ ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति। हरेरनु पश्चाद्यस्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति। मोक्षप्राप्तिर्भवती- त्यर्थः। न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव- त्सहिततद्भजनेन न तु केवलयाः, केवलायां मोक्षविघातकत्वात् । अनुश- ब्दात् मुख्यतया भगवद्भजनम्। तदनुगुणत्वेन लक्ष्म्याः। कालिन्द्युत्कर्षमाहु- गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। तथा हि, 'नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना, श्रियं चात्यन्तिकीं ब्रह्मण्येषां गतिरहंपरा',। यत्र मर्यादामागीयभक्तेष्वप्येतादृशी प्रतिज्ञा, तत्रानुग्रहमार्गे सकल- भक्तशिरोमणेः श्रीयमुनायाः प्रियत्वे किमुवाच्यमिति तत्करणमशक्यमित्युक्तम्। एवमनुमानप्रमाणाभ्यामाधिक्यं निश्चित्य प्रमेयसाधनफलैरप्याधिक्यं वक्तुं पुनरा- शङ्कते नन्विति । तत्र प्रमेयतः आधिक्ये 'प्रमेयं हरिरैकैव' इति निवन्धोक्तेः प्रमेयं भगवान्, साधनं च सेवा, 'तत्सिद्ध्यैतनुवित्तेजेति वक्ष्यमाणात्। एवं च प्रमेयस्य सेवानन्तरं लक्ष्म्याः सेवया साधनभूतया तत्तोषे मोक्षं पुरुषोत्तमादु- चरत्वम् । आमर्यादीकृत्य ततोऽर्वाक् 'सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत, दीयमानं न गृह्णन्ति विना मत्सेवनं जना' इत्यादिरूपम्, भगवदीयानामनिच्छा- विषयं सुखं यच्छति सा। मोक्षेति सगुणमोक्षलाभ इतिभावः। भजनानन्दस्या- 'द्विमूर्तिः कृष्ण एव सेव्यः सायुज्यकाम्यया' इति तत्त्वदीपे पुरुषोत्तमसेवैकलभ्यत्व- वदनादित्यत उक्तं न तु तत इति । हरेरित्यनेनान्यप्रमेयसापेक्षतया सेव्येत्यनेन साधनापेक्षया आमोक्षत इत्यनेन फलस्य तुच्छत्वेन ततः श्रीयमुनाया प्रमेयसाध- नफलैरुत्कर्षः सूच्यते । तत्सपत्नीत्वेन तद्विरुद्धस्वभाववतीतया । हरेरिति संयोग- सम्बन्धे षष्ठी, तत्तात्पर्यमाहुः तदपीति सगुणमोक्षमपि । तथा च, लक्ष्म्याः रूप- द्वयम् । एकं भगवता सह स्थितम्, सालोक्यादिप्रदम् । अपरं भेदेन स्थितं केवलं विभूतिरूपम् । भजनेन धनादिसम्पत्प्रदम् । तस्या 'अधनोयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् । इति कारुणिको नूनं धनं मे भूरिनाददात्' १०-८१-२० इत्यादिवाक्यैः भगवत्स्मरणविस्मारकत्वेनासुरावेशहेतुत्वात्संसारासक्तिसम्पादनद्वारा तथात्वम्, इति केवलं तद्भजनं निषेध्य तत्साकं तद्भजनमाहुरन्विति । एवं प्रमाणप्रमेयसाधनफल- स्वभावैर्लक्ष्म्याः श्रीयमुनातो न्यूनत्वमुक्त्वा श्रीयमुनायास्तनुभवत्वसम्पादने प्रकारं वदन्तःश्रीयमुनायाः प्रमाणादिभ्य उत्कर्षं कथयन्त उत्तरार्द्धमवतारयन्ति कालिन्द्यु-
५६ श्रीयमुनाष्टकम् । इयं तव कथाऽधिका सकलगोपिकासङ्गम- रिथे तव कथेति । इयमग्रत उच्चमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका । अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे— “अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत- सुखलेशाभासाः परमभागवता एकान्तिन” इति । सा केत्याकाङ्क्षायामाहुः सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एतेन जलाणवो न श्रम- स्वेदरूपाः किन्तु विविधसङ्गमसस्य सर्वावयवपूर्णस्याऽत्युच्छलनेन बहि- त्कर्षमिति । कलिन्दस्येयं कालिन्दी, अस्या उदधिकं कर्षशं तनुभवत्वसम्पादनेन लीलासृष्टिप्रवेशनम् । कथामुखेनाहुः इयमग्रत इति । सर्वेति सालोक्यादितदपे- क्षया अधिका उत्कृष्टा । वैकुण्ठस्थितस्य भगवत एकस्मिन्वक्षःस्थलरूपगात्रस्थिता- यास्तस्याः कथायाः सकलाङ्गसम्बन्धिन्याः श्रीयमुनायाः कथा अधिका, अतस्तत एतत्कथारसनिमग्नानां न सालोक्यादिमुक्तीच्छालेशोपि । तदेवेति कथारसपूर्णा- नामन्यविस्मरणमेव । वृत्रपीडितदेवताभिर्नवमाध्याये षष्ठस्कन्धस्य कृष्णस्तुता- वुक्तम् । एवं रसिकानामितरविस्मृतिं प्रामाण्य श्रीयमुनायाः कथां विशदयितुमव- तारयन्ति सा केतीति । कलाभिः सहितः सकलः पुरुषोत्तमस्तस्य गोपिकाभिः सम्यग्गमनं, तदुक्तं ताभिर्युताः सकलाश्चतुर्विधा अपि गोपिका तासां यः सङ्गमः तद्धेतुको यः स्मरः कामः तज्जन्यो यः श्रमस्तेन करणभूतेन जनिता दृग्गोचरीकृता ये प्रस्वेदपयःकणाः, सकलतनूद्भवास्तैः सङ्गमो विविधभावभरेण, गमनं गमः । घञर्थे- कविधानमितिकः । सम्यक्प्राप्तिर्लीलासृष्टौ यस्याः श्रीयमुनायाः । यद्वा, यस्या इति पञ्चमी । यस्याः सकाशात्सङ्गमोऽन्येषामेतत्सम्बन्धिनां तनुभवत्वे सम्पने भवतीति श्रीयमुनाया आमघटस्य वह्निसङ्गमेन पक्वत्वमिव सकलगोपिकासङ्गमस्मरश्रमजलाणु- सङ्गमेनैव तनुभवत्वं सम्पाद्यावरणानाच्छन्नभगवल्लीलासृष्टौ निजानां तदनुभव- करणसामर्थ्यसम्पादनमिति महदाधिक्यम् । ननु बिन्दवश्चेत् सङ्गमजास्तर्हि तत्सङ्ग- मेन कथं तनुभवत्वं सेत्स्यतीत्याशङ्क्य बिन्दुस्वरूपं वर्णयन्ति एतेनेति, श्रीयमुना- १ सर्वत्र मुक्त्य० पाठः ।
[शीर्षक] गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ५७
स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥
रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै- रिति। एभिर्विशेषणैः परमकांष्ठा¹पन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस- पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपतित्वादिकं सूचितम् । स्वस्यै- तद्रसपूर्णत्वेन केवलैतद्भजनकत्र्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल- क्षण्यम् ॥ ८ ॥
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
यास्तत्समकथनेन, तनुभवत्वसम्पादनमभिप्रेत्य कथनेन, च । अत एवेति । यदि श्रमस्वेदरूपाः स्युस्तर्हि सकलगात्रजा न भवेयुः । केशनखादिषु स्वेदस्यानुप- लब्धेः । तेन रसरूपा एवेतिभावः । एभिरिति, सकलगोपिकासङ्गम इत्यनेन पुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वे, स्मरश्रमजलाणुभिरनेन सर्वदैतद्रसपूर्णत्वम्, सकलगा- त्रजैरनेन भक्तानुगुणत्वम्, सङ्गम इत्यनेन लीलामध्यपतित्वम्, चादिपदेन तत्समा- नसौभाग्यवतीत्वेन तद्विरुद्धस्वभावात् । यथा रजोगुणप्रधाना सा (लक्ष्मीः) जीवान्मदेन केवलभजनकर्तॄन् भगवद्विमुखान्कृत्वा स्वर्गादिलोभेन प्रवाहमार्गे निपातयति, न तथेयमिति तत्सपत्नीत्वात् । दृश्यते हि परस्परं विरुद्धस्वभावत्यः सपत्न्यो लोके । एतदेव विशदयन्त आहुः स्वस्यैतदिति, यद्यपि, ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति भगवता प्रतिश्रुतम्, तथापि श्रीमद्यमुनायां रसविवशेन भगवता स्वस्याष्टविधैश्वर्यस्य स्थापितत्वाच्छ्रीयमुनाया अनन्य- भजनकर्त्तुस्तनुभवत्वं सम्पाद्य तद्रसदानमिति भावः । दृश्यते हि लोकेपि महा- राज्ञां पूर्णाधिकारिणां विनाज्ञां, लघुकार्यस्याप्यकरणम्, अपूर्णाधिकारिणामप्याज्ञातो महत्कार्यसम्पादनम्, किं तत्राखिललोकनियन्तुर्भगवतः प्राणादपि प्रियायाः श्रीमद्यमु- नायास्तथाकरणे चित्रमिति हृदयम् । अन्वयस्तु, हे प्रिये ! कमलजासपत्नि तव स्तुतिं कः करोति, तत्र हेतुः, यत् हरेरनुलक्ष्म्याः सेवया आमोक्षतः सुखं भवति, तव कथा इयं अधिका, यत्सकलगोपिकासङ्गमस्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमो भवति, लक्ष्म्याः यत् (न) भवतीत्येतेषामध्याहारः । एवं अस्मिन्पद्ये तनुभवत्वसम्पादक- त्वमष्टमैश्वर्यं दर्शितम् ॥ ८ ॥
१ पराकाष्ठा० पाठः ।
५८ श्रीयमुनाष्टकम् । तवाऽष्टकमिदं मुदा पठति सूरसूते सदा- समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहस्तवाऽष्टकमिति । यद्य- प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव भवति, नाऽन्यथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत अवोक्तं, “नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत” इति । मुकुन्दपदाद्यद्यपि मोक्षमेव साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम्। ततः किमिति तत्राऽऽहुः अतः परं श्रीगोकुलनाथचरणानां विवृतिः । एवमष्टविधैश्वर्यप्रतिपादकान्श्लोकानुत्कर्षवर्णनतद्वश्यवर्णनद्वारा व्याख्याय स्तोत्रस्यासाधारणफलवोधकमग्रिमभवतारयन्ति एवमिति । उक्तप्रकारेण कलिदोष दात्रीं अलौकिकप्रकारेण संस्तूय अष्टविधैश्वर्यप्रतिपादकस्तोत्रस्य व्यक्ततयोदितस्य श्रीमत्प्रभुतुष्टिरूपं फलं प्रतिजानन्त आहुः यद्यपीति । अन्यैतिशङ्कराचार्यप्रभृतिभि- र्निर्मितानि । वक्ष्यमाणमिति अस्मिन्नेव पद्येऽनुपदं कथ्यमानम् । फलमिति स्तोत्रपाठमात्रेणैव भृशं सकलदुरितनिवृत्तिपूर्वकमुकुन्दरतिनिष्पत्तिः एतत्पाठेनैव तत्र हेतुमाहुः अन्यकृतेति । एवं विधेति स्तुतिं तवेतिश्लोकोक्तस्वरूपनिरूपणस्य तथात्वात् । फले क्रमं वदन्तो मूलान्वयमाहुः इदमिति । अत्र प्रमाणमाहुः अत एवोक्तमिति । एतेन दुरितनाशस्य भक्तिप्रजनने हेतुत्वमुक्तं भवति । मूलस्थस्य मुकुन्दपदस्याशयमाहुः मुकुन्दपदादिति । तथा चोक्तं पञ्चमस्कन्धे, 'राजन्पतिर्गुरुर- लम्भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किंकरी वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगमिति ५-६-१८। भक्तिमेवेति। मूलस्थस्य निश्चयवाचकवैपदस्य तात्पर्यं बोध्यम् । तेन यद्यपि स मोक्षदस्तथापि त्वत्स्तुतेः प्रीतो भक्तिं ददातीति सुष्ठूक्तं भगवत्स्वभावपरावर्त्तकत्वमिति । उत्तरार्द्धमव- तारयन्ति तत इति, दुरितक्षयानन्तरं भगवद्रतेः किमग्रे फलं तदाहुः तथेति शेषपदा-
गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम् । ५९ तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति- बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि- पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा- कृत्य ता अङ्गीकृतवानेवमेतत्पाठेनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती- त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति । स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा- गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । न्तम् । यद्वा, तया मुकुन्दरत्या सकलसिद्धयो गोप्यो मुररिपुश्च सन्तुष्यति । सक- लस्य पुरुषोत्तमस्य रमणस्य सिद्धिर्याभ्यः । भगवत्कृतप्रतिबन्धस्यानिवार्यत्वेन तद्गतो भक्तद्रोग्धारो यदेदं स्तोत्रं पठिष्यन्ति तत्र का व्यवस्थेति मनसिकृत्य क्षिपन्तो मूल- स्थस्य सुररिपुपदस्य सद्दष्टान्तमाशयमाहुः नन्वित्यारभ्य पदमित्यन्तम् । मूले च सन्तुष्यतीति । तथा च, लोके स्वोत्कर्षवर्णनात्स्वप्रियोत्कर्ष कथनस्यात्यन्तं स्वतो- षबीजत्वेन श्रीयमुनायाश्चात्यन्तं स्वहार्दवित्त्वेनैतत्स्तोत्रानुजल्पनेन प्रतिबन्धनिवारकः प्रभुः सम्यक् तुष्यति । यथा व्रजवरकुमारिकास्वेत्तत्तटे तुष्टो रासादिसुखं दत्तवाँस्त- थैतज्जल्पितारमप्यनुगृह्णातीतिभावः । किञ्च, श्रीयमुनाष्टकपाठात्स्वामिनि तुष्टेऽनावर- णानाच्छन्नप्रथुलीलामध्यपातिनि जीवे स्वामिन्योऽपि तुष्यन्ति, न तु भगवत्प्रिय- त्वरूपस्वभोग्यफलभोक्तरि जीवे ईर्ष्यन्ति, मुरलिकावत् । भगवत्प्रियकलिवारक- श्रीयमुनातोषस्य सर्वभक्ततोषहेतुत्वादिति चकारार्थः। टीकायां फलान्तरमिति सकल- दुरिताऽभावपूर्वकभगवद्रतिनिष्पत्तिरूपमेकं फलं पूर्वं निरूपितम्, तेन भगवत्स्वभा- वपरावर्त्तकत्वमेतस्योक्तम्, अतः परं जीवस्वभावपरावर्त्तकत्वमुच्यते स्वभावस्येति । स्वभावश्च जीवात्मनो भावः, प्रकृतिजन्यबोधे प्रकारः । जीवस्य जीवत्वमिति यावत् । तथा चोक्तं, विद्वन्मण्डने, 'आनंदांशस्तु पूर्वमेव तिरोहितो, येन जीवभाव' इति । तथा च, जीवस्याविद्यासम्बन्धेन भगवद्बहिर्मुख्यत्वस्यैतत्पाठितुः कृपया हृदि प्रभावाविर्भू- तेऽन्तरसानुभवत्वे सम्पन्ने बाह्यतश्च परावृत्तिर्भवति । यद्वा, स्वभावशब्देन मन उच्यते । तस्य विजयः स्वातन्त्र्येण प्रवर्त्तनं भवति । यद्वा, स्वस्य जीवस्य भावः । श्रीगोकुलप्राणप्रियसेवनरूपसहजधर्मस्तस्य विविध उत्कर्षः । परा अत्यन्तं आवृत्ति- रसकृत्सेवनम्, सम्पूर्णसेवाधिकारसिद्धिर्भवति । सेवाफलग्रन्थे वक्ष्यमाणस्य आद्य- स्यालौकिकसामर्थ्यरूपफलस्य प्राप्तिरिति यावत् । स वासनेतीति अनेकमनोरथानां
६० श्रीयमुनाष्टकम्। स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीमद्वैश्वानरावतार श्रीमद्वल्लभाचार्यचरणविरचितं श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् । वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनेकतपः साध्यं कथमेतत्पाठमात्रा- दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् । नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वक्तुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा- ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः। अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा- दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब- न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना- त्तत्कथनमिति नाऽनुपपत्तिः काचित् । इति श्रीविठ्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा । गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्। पूर्त्तिर्भवति । स्तोत्रपठितुः 'कृष्णोऽहं पश्यत गतिमिति' श्लोकोक्तो मोक्षः सम्पद्यते । बाहिर्मुख्यनिवृत्तिपक्षे कर्मवासनानामनुद्भवो भवति । दुष्टस्वभाव इति । बहिर्मु- ख्यादिदोषग्रस्तोपि दैन्यभावसिद्ध्या सन्मुखो भवति । एतद्विषये प्रामाण्यं वक्तुमा- शङ्कन्ते नन्विदमिति । समादधते वदति वल्लभ इति, प्रियाः प्रियाभिप्रायं विज्ञा- यैव वदन्तीति भावः । तेनाऽऽप्तत्वेनेति । आप्तश्च यथार्थवादी, तादृशास्त्वत्राचार्य- चरणा एव । अन्येषामेतज्ज्ञानं नेति वक्तुं क्षिपन्ति नन्वित इति । श्रीहरेरिति । श्रीभिः स्वामिनीभिर्युक्तस्य सर्वदुःखहर्तुः प्रियोहम् । यतो वदामि तेन तत्तथैव । अग्रे स्पष्टम् । तथा हि, साक्षादिति श्रीयमुनाप्रभृतीनां स्मरश्रमे इत्याद्युक्तं रूपम् । साक्षात्तदिति श्रीमदाचार्या एव जानन्ति । स्वातिरिक्तानामिति, श्रीमदाचार्य- पादाब्जामोदरहितानाम् । साक्षादित्यादि । (अभावादिति) । आवरणानाच्छन्नस्वा- मिनीसहितगोकुलपतेरसम्बन्धात् । साक्षादिति श्रीयमुनायाः, तदिति एतादृ- क्प्रकारस्याकथनम् । स्वस्येति श्रीमदाचार्यरूपेण स्थितस्य साक्षादिति प्रकटतया, तादृशत्वादिति वस्तुतः कृष्णरूपत्वात्, तदिति 'स्मरश्रमे'त्याद्युक्तस्वरूपस्य- वर्णनमिति, न शङ्कालेश इति दिक् । मूलान्वयस्तु, हे सूरसूते ! इदं तवाष्टकं यः सदा मुदा पठति, तस्य समस्तदुरितक्षयो भवति, वै मुकुन्दे रतिर्भवति, तया सकलसिद्धयो भवन्ति, मुररिपुश्च सन्तुष्यति, स्वभावविजयो भवेत्, श्रीहरेर्वल्लभो वदति ।
गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ६१ श्रीमदाचार्यकृपया भर्तुः श्रीगिरिधारिणः । श्रीमद्विठ्ठलनाथस्य कृतिर्हि विवृता मया ॥ १ ॥ अत्र किञ्चिदयुक्तं यन्मयोक्तं स्वल्पबुद्धिना । क्षम्यन्तु तन्निजाचार्याः किङ्करे निजवंशजे ॥ २ ॥ युग्मम् ॥ स्वान्तःकरणनिष्ठेन श्रीमदाचार्यरूपिणा । श्रीमद्विठ्ठलनाथेन श्रीगोवर्द्धनधारिणा ॥ ३ ॥ प्रेरितेन कृतेयं श्रीमथुरानाथसूनुना । प्रीत्यै भूयाद्भगवतोः कालिन्दीकृष्णदेवयोः ॥ ४ ॥ इति श्रीमद्गोपीजनसुखपतेः पादयुगले, मनो धृत्वा दीनं किसलयदलाभे विरचिता । सदा श्रीकृष्णस्यात्मजचरणदेशे प्रपतिता निजा भक्ता एनाममुदिनमुदारां विदधतु ॥ ५ ॥ कालिन्दीकृष्णयोः प्रीत्यै सुगमान्वयबोधिनी । कृता तेन प्रसीदन्तु श्रीमदाचार्यनन्दनाः ॥ ६ ॥ श्रीमद्गोवर्द्धनधरसेवायां प्रतिबन्धकाः । ये ते सर्वे प्रणश्यन्तु ममेति प्रार्थनं प्रभो ॥ ७ ॥ इति श्रीमथुरानाथात्मजश्रीद्वारकेशचरणविरचिता सुगमान्वयबोधिनी श्रीयमुनाष्टकविवृतिटीका सम्पूर्णा । श्रीविठ्ठलेश्वरप्रभुचरणविरचितायाः श्री य मु ना ष्ट क वि वृ तेः वि व र ण त्र यं समाप्तम् ।
इस पृष्ठ पर कोई पाठ (text) मुद्रित नहीं है; यह एक रिक्त (blank) पृष्ठ है।
श्रीमद्-वल्लभाचार्य-महाप्रभु-विरचित-षोडश-ग्रन्थान्तर्गतः-द्वितीयः बालबोधः तिसृभिष्टीकाभिः समलंकृतः १. श्रीदेवकीनन्दनानां प्रकाशः २. श्रीपुरुषोत्तमानां विवृतिः ३. श्रीद्वारकेशानां टीका श्रीमद्-वल्लभाचार्य-महाप्रभु-प्रवर्तित-शुद्धाद्वैत-सम्प्रदायस्य-सप्त- पीठान्तर्गत-प्रथम-पीठाधिष्ठित-गोस्वामिश्री १००८ श्रीरणछोडा- चार्य(अ. भा. पु वै. परिषदप्रचाराध्यक्ष) महाराजश्रीत्येतै : प्रकाशित : वि. सं. २०३६ श्रीवल्लभाब्दाः ५०२
प्रकाशकः गोस्वामीश्री १००८ श्री रणछोडाचार्य 'प्रथमेश' गिरधर निवास, जतिपुरा, गोवर्धन, मथुरा, २८१५०२, भारत. साधारण संस्करण २००० प्रति राज संस्करण १००० प्रति श्रीवल्लभाब्दः ५०२ ग्रन्थ-परिचय लेखक : गोस्वामी श्याम मनोहर मुद्रक : स्टुडियो बहार, २३-ए, सेन्ट्रल चौपाटी बिल्डिंग, चौपाटी, बम्बई-४०० ००७.
गोस्वामिश्री १००८ श्री रणछोडाचार्य 'प्रथमेश'
इस पृष्ठ पर कोई पाठ (टेक्स्ट) अंकित नहीं है (यह एक रिक्त/कोरा पृष्ठ है)।
॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ-परिचय एक किंवदन्तीके१ अनुसार 'बालबोध' ग्रन्थका प्रणयन श्रीमहाप्रभुने वि. सं. १५५० में पुष्करराजमें२ किया था. ८४ वैष्णवन की वार्ता ५७ मी के भाव प्रकाशके अनुसार अम्बालाके नारायणदास कायस्थको यह बालबोध स्वयम् श्रीमहाप्रभुने द्वारकामें पढ़ाया था. नारायणदासके पिता सरकारी दफ्तरमें नोकरी करते थे. बीस वर्षकी आयुमें नारायणदासको जूआ खेलनेकी लत लग गयी और इसके कारण घर छोड़कर भागना पडा. भटकते हुए दक्षिणमें कहीं जाकर कुछ विद्यार्जन किया और बाजारमें बच्चोंको पढ़ानेकी एक दुकान खोल ली. पढ़ाते समय विद्यार्थी बालकोंका प्रताडन और प्रबोधन दोनों कठोरतासे करते थे! श्रीमहाप्रभुके सेवक कृष्णदासके टोकनेपर भी एकबार किसी विद्यार्थी बालककी पिटाई करने पर जब वह बेहोश हो गया तभी इन्हे अपनी कठोरताका होश आया. भाग कर सीधे कृष्णदासके पास आये और उनके द्वारा श्रीमहाप्रभुके सम्मुख उपस्थित हुए. श्रीमहाप्रभुके प्रतापसे तब वह बालक और नारायणदास दोनों ही स्वस्थ होगये. दीक्षित होनेके बाद दक्षिणसे द्वारकातककी यात्रामें ये श्रीमहाप्रभुके साथ रहे. द्वारकामें इन्हें जब घर लौटने आज्ञा दी गई तब स्वधर्मनिर्वाहकी इनकी चिन्ताका निवारण श्रीमहाप्रभुने- "तोसों स्वरूपसेवा निबहेगी नाहीं. पराई चाकरी करनी. घरपें कोउ सेवक नाही. ताते हस्ताक्षर लिख देत हों सामग्री जो बने सो भोग धरिके महाप्रसाद लीजियो"-कह कर किया. गद्यमन्त्र तथा अष्टाक्षर सेवार्थ लिखकर पधरा दिये. नारायणदासकी बिनती पर कि "महाराज इतने दिन आपके पास रह्यो परन्तु मेरे अन्तःकरणमें बोध न भयो. सो ऐसी कृपा करो जो संसारको दुःख-सुख कछु मोकों बाधा १. श्रीनागरदास बांभनिया शास्त्रीजी द्वारा लिखित लेख "श्रीषोडशग्रन्थनी रचना... महत्वनी तवारीखो". वैष्णववाणी अंक ४ वर्ष १९७९. २. दृष्टव्यः श्रीयदुनाथजीकृत श्रीवल्लभदिग्विजय मध्यम यात्रा प्रकरण
This page is blank and contains no text to transcribe.
॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ-परिचय एक किंवदन्तीके१ अनुसार 'बालबोध' ग्रन्थका प्रणयन श्रीमहाप्रभुने वि. सं. १५५० में पुष्करराजमें२ किया था. ८४ वैष्णवन की वार्ता ५७ मी के भाव प्रकाशके अनुसार अम्बालाके नारायणदास कायस्थको यह बालबोध स्वयम् श्रीमहाप्रभुने द्वारकामें पढ़ाया था. नारायणदासके पिता सरकारी दफ्तरमें नौकरी करते थे. बीस वर्षकी आयुमें नारायणदासको जूआ खेलनेकी लत लग गयी और इसके कारण घर छोड़कर भागना पडा. भटकते हुए दक्षिणमें कहीं जाकर कुछ विद्यार्जन किया और बाजारमें बच्चोंको पढ़ानेकी एक दुकान खोल ली. पढ़ाते समय विद्यार्थी बालकोंका प्रताडन और प्रबोधन दोनों कठोरतासे करते थे! श्रीमहाप्रभुके सेवक कृष्णदासके टोकनेपर भी एकबार किसी विद्यार्थी बालककी पिटाई करने पर जब वह बेहोश हो गया तभी इन्हे अपनी कठोरताका होश आया. भाग कर सीधे कृष्णदासके पास आये और उनके द्वारा श्रीमहाप्रभुके सम्मुख उपस्थित हुए. श्रीमहाप्रभुके प्रतापसे तब वह बालक और नारायणदास दोनों ही स्वस्थ होगये. दीक्षित होनेके बाद दक्षिणसे द्वारकातककी यात्रामें यें श्रीमहाप्रभुके साथ रहे. द्वारकामें इन्हें जब घर लौटने आज्ञा दी गई तब स्वधर्मनिर्वाहकी इनकी चिन्ताका निवारण श्रीमहाप्रभुने-“तोसों स्वरूपसेवा निबहेगी नाहीं. पराई चाकरी करनी. घरपें कोउ सेवक नाही. ताते हस्ताक्षर लिख देत हों सामग्री जो बने सो भोग धरिके महाप्रसाद लीजियो”-कह कर किया. गद्यमन्त्र तथा अष्टाक्ष र सेवार्थ लिखकर पधरा दिये. नारायणदासकी बिनती पर कि “महाराज इतने दिन आपके पास रह्यो परन्तु मेरे अन्तःकरणमें बोध न भयो. सो ऐसी कृपा करो जो संसारको दुःख-सुख कछु मोकों बाधा १. श्रीनागरदास बांभनिया शास्त्रीजी द्वारा लिखित लेख "श्रीषोडशग्रन्थनी रचना... महत्वनी तवारीखो". वैष्णववाणी अंक ४ वर्ष १९७९. २. दृष्टव्यःश्रीयदुनाथजीकृत श्रीवल्लभदिग्विजय मध्यम यात्रा प्रकरण
न करे अरु चित्त श्रीठाकोरजीके चरणारविन्दमे लग्यो रहे". श्रीमहाप्रभुने अपना चरणामृत दिया और उन्हें यह बालबोध ग्रन्थ पढ़ाया. बालबोधमें सर्वसिद्धान्तोंका संग्रहरूपेण निरूपण है किन्तु स्वसिद्धान्तका नहीं. अन्यान्य सिध्दान्तोंके साधन एवम् फलों का एकबार बराबर ज्ञान हो जानेपर पुष्टिजीवके अन्य मार्गोंपर भटक जानेका भय नहीं रह जाता. सभी मोक्षशास्त्र या तो सांसारिक दुःख दूर करनेके रूपमे या फिर पारलौकिक सुखकी प्राप्तिके रूपमे मोक्षका प्रतिपादन करते हैं. इस संसारमें रहते हुए भी भगवत्सेवा और/अथवा भगवत्कथा के द्वारा भजनानन्दकी प्राप्ति ही पुष्टि- जीवके लिए मोक्ष है. इसका निरूपण किन्तु चतुश्लोकीमे किया जायेगा. यहां वह विवक्षित नहीं है. वैसे तो मनुष्यके मनमे अगणित कामना या महत्त्वाकांक्षा भरी रहती हैं. विद्वानोंने उन्हे किन्तु चार पुरुषार्थोंके रूपमे वर्गीकृत किया है: (१) धर्म (२) अर्थ (३) काम और (४) मोक्ष. स्थूल अर्थोमे इन्हे क्रमशः (१) कर्तव्य (२) सम्पदा (३) प्रेयस् और (४) श्रेयस् कह सकते हैं. जीवनमे दिखलाई देती हर तरहकी कामनाओका इन चार पुरुषार्थोंमे अन्तर्भाव हो जाता है. इनके वास्तविक सहज एवम् शुभ स्वरूपकी जिज्ञासाका समाधान अलौकिक वेदादि शास्त्रोंमे भी मिलता है तथा विभिन्न ऋषियोंके द्वारा प्रणीत आर्ष शास्त्रोंमे भी. प्रस्तुत बालबोध ग्रन्थमे वैदिक धर्मार्थकाममोक्ष पुरुषार्थोंका निरूपण अभिप्रेत नही है. वह तो सर्वनिर्णयमे ही विशदतया निरूपित हो गया है. आर्ष अथवा लौकिक शास्त्र, जिनमे त्रिवर्ग धर्म अर्थ या काम पुरुषार्थ का निरूपण किया गया है, यहां उन शास्त्रोंका विवेचन भी अभिप्रेत नहीं है. यहां तो केवल अन्यान्य ऋषियों द्वारा प्रणीत मोक्षशास्त्र और उनमे प्रतिपाद्य मोक्षस्व- रूपके बारेमें ही श्रीमहाप्रभु अपना अभिमत प्रगट करना चाहते हैं. मोक्षका निरूपण करनेवाले विभिन्न ऋषियोंद्वारा प्रणीत शास्त्रोंमें चार शास्त्र प्रमुख है. अन्य शास्त्रोंका या तो इन्हींमें अन्तर्भाव समझना चाहीये या फिर उन्हें सिद्धान्ततः उपेक्षणीय ही समझना चाहिये.