सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
३८८ गोलाध्याये पुनरनुपात से त्रिज्यावृत्तीय वलन अ × त्रि क × त्रि ---------- तथा ---------- = क द्यु द्यु दोनों का संस्कार स्पष्ट वलन काल होता है । संस्कार = स्पष्ट वलन उक्त भाँति संस्कार से लब्ध प्राणों (असुओं) से क्षितिजस्थ ग्रह स्थान से ग्रहबिम्ब नत या उन्नत रहता है । सूर्य स्पष्ट = सू । इष्टकाल = स्पष्ट वलनासु से नत ग्रह से जो क्रम लग्न, और उन्नत ग्रह से जो उत्क्रम लग्न होती है वही ग्रहोदय लग्न होती है । इस क्रम का व्यस्त गणित, सू + ६ राशि से जो लग्न वह पश्चिमस्थ ग्रहबिम्ब दर्शनार्थ होता है । ग्रहों के लघु शर में उक्त गणित ठीक हो जाता है । यदि शर अधिक है तो मध्यम क्रान्ति से शर को स्पष्ट शर बना कर उक्त गणित करना चाहिए । तद्वशेन साधित आयनांश व वलनासुओं से ग्रह स्थान से ग्रह बिम्ब को नतोन्नत समझ कर आयनाक्ष वलन के योग वियोग संस्कृत काल में उक्तवत् लग्न साधन द्वारा ग्रह बिम्ब दर्शन समय ज्ञात करना चाहिए ॥३-९॥ अथ शरस्य स्पष्टीकरणमाह— सत्रिराशिग्रहद्युज्यानिघ्नस्त्रिज्योद्धृतः शरः । स्फुटोऽसौ क्रान्तिसंस्कारे दृक्कर्मण्यक्षजे तथा ॥१०॥ वा० भा०—अयं संक्षिप्तो गौणप्रकारः । मुख्यस्तु पूर्वं व्याख्यात एव । तथाऽपीह युक्तिमात्रमुच्यते । विषुवद्वृत्तात्क्रान्तिर्ध्रुवाभिमुखी । क्रान्त्यग्राच्छरः कदम्बाभिमुखः । कथं तेन तिर्यक्स्थेन सा संस्कार्या । अतः क्रान्त्यग्रे यद्द्युज्या- वृत्तं तस्य शराग्रस्य च यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति । तच्चान्तरं कोटिरूपम् । शरः कर्णरूपः । तद्वर्गान्तरपदं द्युज्यावृत्ते भुजः । एतत्त्र्यस्रं दिग्व- लनजत्र्यस्रसंभवम् । तत्र सत्रिराशिग्रहक्रान्तिः कदम्बध्रुवसूत्रयोरन्तरम् । तज्ज्या भुजः । तद्द्युज्या कोटिस्त्रिज्या कर्णः । यदि त्रिज्ययेयं कोटिस्तदा शरेण केत्युप-
तत्त्वात्त्रिज्यानुरुद्धमत् क्रान्तिवृत्तस्थग्रहचिह्नादासन्नध्रुवस्य द्युज्याचापांशान्तरितत्वाद्ध्रु- वाभिमुखतदन्तरसिद्धयर्थं द्युज्यापरिणतः शरः स्फुटो भवतीति तात्पर्यम् । न चैवं सत्रिरा- शिग्रहद्युज्यानुपातोक्तितः कथमुपपन्नेति वाच्यम् । ग्रहच्छायाधिकारे त्रिज्यावर्गादित्याद्युक्त- स्पष्टशर साधनस्योपपत्तावायनवलनज्याभुजा । स्त्रिज्याकर्णस्तद्वर्गान्तरपदं ध्रुवाभिमुखा यष्टिः कोटिरिति क्षेत्रादायनावलनस्य प्राचीनमते सत्रिभग्रहक्रान्तितुल्यत्वात्तज्ज्यावर्गोनत्रिज्यावर्ग- पदरूपयष्टेः सत्रिभग्रहद्युज्यात्मकत्वादुक्तमुपपन्नमिति प्रतिपादनात् । ततः किमाशङ्काया उत्तरालाभादत आह—असाविति । स्पष्टशरः क्रान्तिसंस्कारे । क्रान्तिसंस्कारार्थं स्पष्ट- क्रान्तिसिद्धयर्थमिति यावत् । अक्षजे दृक्कर्मणि । आक्षदृक्कलासाधनार्थम् । तथा उपयुक्तः । क्रान्तिध्रुवाभिमुखत्वा
३९० गोलाध्याये स्वल्पान्तरत्वेऽपि पदार्थतत्त्वनिरूपणात्मकसिद्धान्तग्रन्थे स्पष्टशरकथनं तेषामप्यावश्य- कमन्यथा तदुच्छेदापत्तिरत आह-स्थित्यर्थेति । हि । यतः । स्थित्यर्धपरिलेखादौ । मध्यस्फुटस्थित्यर्धानयने ग्रहणपरिलेखाक्रियायाम् । आदिपदाद्ग्रासेष्टग्रासानयनार्यनदृक्कमी- दीनां संग्रहः । गणितागतः कदम्बाभिमुखः शरः । एवकारात्स्फुटशरमिति स्फुटशरस्य निरासः । उपयुक्तः । तथा चोक्तं बहुस्थलेषु कदम्बाभिमुखशरस्य वस्तुभूतत्वाद्ध्रुवाभि- मुखस्पष्टशरस्य क्रान्तिसंस्काराक्षदृक्कर्मणोरेव वस्तुभूतत्वादबहूपयोगात्स्पष्टशरानुक्तिः । स्वल्पान्तरेणापि गणितक्रियालाघवसंभवादिति भावः ॥११॥ ननु ब्रह्मगुप्तादिसिद्धान्ते स्फुटशरकथनाभावाद्ब्रह्मगुप्तोक्तनक्षत्रशरा अस्फुटास्त्व- दुक्तनक्षत्रस्फुटशरतुल्याः कथं संभवन्ति । किंचिदप्यन्तरसंभवपत्तेरतोऽनुष्टुभाऽऽह- नक्षत्राणामिति । ब्रह्मगुप्तादिभिर्नक्षत्राणां स्थिरत्वात्पूर्वगतेरभावाद्ये शराः पठिताः । ते । स्फुटाः । ध्रुवाभिमुखाः । एवकारात्तेषां कदम्बाभिमुखत्वं निरस्तम् । तथा च मदुक्तनक्षत्र- स्पष्टशराणां ब्रह्मगुप्तोक्तनक्षत्रशरतुल्यत्वे क्षतिर्नेति भावः । ननु नक्षत्रध्रुवाणामायनदृक्कर्म- संस्कारनिमित्तं मध्यमशराः कदम्बाभिमुखा अपि पृथक्कि तैर्नोक्ता अतः आह-दृक्कर्म- णेति । एषां नक्षत्राणाम् । ध्रुवाः । आयनेन दृक्कर्मणा संस्कृताः सन्तः सिद्धा एव । चका- रात्स्थिरत्वादित्यर्थः । तथा । ब्रह्मगुप्तादिभिः पठिताः । तथा च नक्षत्राणामायनदृक्कर्म पुनःसंस्कारस्यानुचितत्वात्तदुपजीव्यकदम्बाभिमुखशरकथनं व्यर्थमेवेत्युपेक्षितम् । नक्षत्रस्पष्ट- क्रान्त्यर्थमाक्षदृक्कर्मार्थं च स्पष्टशरस्यैवोपयोगादिति भावः ॥१२॥ केदारदत्तः- ब्रह्मगुप्ताचार्य ने शर को स्फुटता नहीं की—मध्यम और स्पष्ट शर में अत्यन्त अल्प अन्तर पड़ने से आचार्य ब्रह्मगुप्त ने कदम्बप्रोतीय शर की स्पष्टता नहीं की है । ग्रहण की स्पर्श मोक्ष आदि स्थिति में भी गणितागत कदम्बाभिमुख शर को ही ग्रहण किया है । तथा नक्षत्रों की स्थिर स्थिति होने से नक्षत्रों का भी ध्रुवप्रोतीय शर ब्रह्मगुप्त ने पढ़ा है । कदम्बध्रुव के अत्यल्पान्तरित दूरी से फल में स्वल्पान्तर दोष को दोष नहीं माना जाता है ॥११॥१२॥ यहाँ पर आचार्य भास्कर की ब्रह्मगुप्ताचार्य पर विशेष आस्था स्पष्ट हो रही है । अथ सद् दूषणानुपहसन्नाह— क्रान्तिसूत्रे शरं केचिन्मन्यन्ते ते कुबुद्धयः । यद्येवमायनं तैश्च दृक्कर्मान्यैश्च किं कृतम् ॥१३॥ किं स्पष्टे वालने सूत्रे दत्तो मध्यशरश्च तैः । कोटिवद्वालनात्सूत्रात्स्पर्शमुक्तिक्षरौ च किम् ॥१४॥
उदयास्तवासना ३९१ किंच कृत्वा शरं कोटिं स्थित्यर्धानयनं कृतम् । तादृक् चेत्स शरस्तेन नानुपातेन सिध्यति ॥१५॥ वा० भा०—यदि क्रान्तिसूत्रे शरस्तदा ध्रुवाभिमुखः स्यात्। निरक्षदेशे क्षितिजस्थो ध्रुवः। ध्रुवाभिमुखशराग्रस्थो ग्रहः क्षितिजं न त्यजति। नामनोन्ना- मना भावात्। किं तत्राऽऽयनदृक्कर्मणा। अथवाऽऽचार्यैः कृतं ये न मन्यन्ते तैरपि कृतं भ्रान्तत्वात् तथा परिलेखे बिम्बमध्यात्स्पष्टवलनाग्रोपरिगतं सूत्रं क्रान्तिवृत्तप्राची। तस्याः कोटिवच्छरः किं दत्तः। तत्पक्षे ध्रुवसूत्रे नेयः शेषं स्पष्टम् ॥१२॥१४॥१५॥ मरीचिः—अथ ब्रह्मगुप्ताद्युक्तस्पष्टशरानयने स्वल्पान्तरसमाधानासहिष्णूनां ब्रह्मगुप्ता- नुसारिणां केषाञ्चित्समाधानमनूद्यानुष्टुभा दूषयति—क्रान्तिसूत्र इति। ये केचिद्ब्रह्मगुप्ता- नुसारिणो मद्युक्तस्पष्टशरानयनासहिष्णवः क्रान्तिसूत्रे। विषुवद्वृत्ताद्ध्रुवाभिमुखे सूत्रे। न तु क्रान्तिवृत्तात्कदम्बाभिमुखसूत्रे। मतभेदानुपपत्तेः। शरम्। अनुपातागतम्। ब्रह्म- गुप्तादिसंमतं मन्यन्ते। यथा विषुवद्वृत्तात्क्रान्तिवृत्तपर्यन्तं ध्रुवाभिमुखी क्रान्तिस्तथा क्रान्तिवृत्ताद्विक्षेपवृत्तपर्यन्तमन्तरं शरो ध्रुवाभिमुखो गणितागत इत्यङ्गीकुर्वन्ति। तेन च मद्युक्तत्समाधानस्पष्टशरसाधने न युक्ते इति द्योतयन्ति। कुबुद्धयः। अल्पबुद्धयः। पदार्थ- तत्त्वाज्ञाः। तथा च तदुक्तमतत्त्वान्नाऽङ्गीकार्यमिति भावः। ननु त्वया पूर्वग्रन्थे वस्तु- तत्त्वाप्रतिपादनं मत्वा स्वल्पान्तरमित्यवस्तुभूतं समाधानमुक्तं तैश्च तदुक्तस्य वस्तुतत्त्वेन प्रतिपादनाद्दोषामसङ्गात्प्रत्युत त्वदुक्तस्पष्टशरानयनस्य तदुक्त्या व्यर्थत्वाच्चेति कथं ते कुबुद्धय इत्यतो दूषणमाह—यदीति। एवं तदुक्तं सम्यक्। यदि चेदङ्गीक्रियते। चकार- स्तह्यर्थः। अन्यैः। ब्रह्मगुप्तादिभिः। चकारादार्षोक्तमायनं दृक्कर्म। कृतं स्वग्रन्थे उक्तं तैः तादृशसमाधानकर्तृभिः किं किमर्थमङ्गी क्रियते इत्यर्थः। तन्मते आयनदृक्कर्माङ्गी- करणमयुक्तम्। उन्मण्डले ग्रहचिह्नसबन्धिक्राले शरस्य ग्रहाभिमुखत्वादग्रहबिम्बसंबन्धेन ततस्तस्य नमनोन्नामनाभावादायनदृक्कर्मानुत्पत्तितस्ततो ब्रह्मगुप्तादिग्रन्थे शरस्य ध्रुवाभिमुख- त्वेनानुक्तितद्दर्शनान्मदुक्ततदाशयेनाऽऽयनदृक्कर्मप्रतिपादनमविरुद्धमन्यथा तत्प्रतिपादनानुप- पत्तेरिति भावः ॥ १३ ॥ ननु ग्रहचिह्नाद्यद्ग्रहबिम्बस्य ध्रुवाभिमुखशरांग्रे स्थित्यभावात्कदम्बाभिमुखशरांग्रे सत्त्वात्संपातग्रहचिह्नादनुपातानीतःशरस्याऽऽयनग्रहचिह्नध्रुवाभिमुखस्याग्रे ग्रहबिम्बसद्भावा- भ्युपगमान्मन्मतेऽप्युक्तमायनदृक्कर्मविरुद्धम् । न चैवं ग्रहचिह्नग्रहबिम्बान्तरकदम्बाभिमुख- शरेणैवाऽऽयनदृक्कर्मोत्पत्तेर्गणितागतशरादुक्तं तत्साधनमसङ्गतमिति वाच्यम् । स्वल्पान्तर- त्वादित्यस्वरसाद्दूषणान्तरमनुष्टुभाऽऽह—किं स्पष्ट इति । तैः । ब्रह्मगुप्तानीतशरं ध्रुवाभिमुखत्वेन ¸मन्यमानैरित्यर्थः । स्पष्टवलने सूत्रे ग्रहणपरिलेखे मानैक्यखण्डवृत्ते ब्रह्मशरदिक् चिह्नाद्दक्षिणोत्तररेखातोऽर्धज्याकारेण मध्यकालिकमानैक्यखण्डवृत्तपरिणतस्प-
ष्टवलनं दत्त्वा तदग्रसंबन्धिमानैक्यखण्डपरिधिप्रदेशाद्ग्राह्यवृत्तकेन्द्रपर्यन्तं या रेखा तत्रे- त्यर्थः । मध्यशरः । मध्यग्रहणकालिकशरः किमर्थं दत्तः । त्वन्मते तथा शरदानमसंगतम् । मध्यकालिकवलनाग्रसूत्रस्य क्रान्तिवृत्तयाम्योत्तररूपत्वेन कदम्बाभिमुखत्वादुक्तशरस्य ध्रुवाभिमुखस्य तत्र दानासम्भवात् । ग्राह्यकेन्द्राद्ध्रुवाभिमुखसूत्रकल्पनेन तद्दानकथनापत्ते- श्चेति भावः । चकारादुक्तायनदृक्कर्मसमर्थने आयनदृक्कर्मसाधनार्थं शरस्य त्वया स्वल्पा- न्तरत्वं मयाऽऽक्षदृक्कर्मणेति प्रतिबन्द्याः सत्त्वेऽप्येतद्दूषणं हठाद्दृत्तं प्रतिबन्ध्या अनुत्तर- त्वादिति सूचितम् । द्वितीयं दूषणमाह—कोटिवदिति । वलनात्सूत्रात् । चकारः स्पर्श- मोक्षकालिकवलनसंबन्धिग्राह्यकेन्द्राभिमुखरेखाद्वयादिति व्यवस्थार्थकः । स्पर्शमोक्षकालिक- शरौ । क्रमेण कोटिवदर्थज्याकारेण कुतो दत्तौ । त्वन्मते तथा तद्दानमनुचितम् । तद्वलनाग्र- सूत्रस्य क्रान्तिवृत्तानुकारत्वात्तद्दक्षिणोत्तरार्धज्यारेखायाः कदम्बाभिमुखत्वेनोक्तशरदानानु- पपत्तेः । वलनसूत्राद्ध्रुवाभिमुखत्वेन कल्पितऋजुरेखाकारेण तद्दानकथनापत्तेश्चेति भावः । ग्रहणपरिलेषोक्तशरदानकथनानुपपत्तिरूपत्वेन श्लोकार्थस्य फलितत्वाच्छ्लोकोक्तदूषण- मेकमेव । न तु द्वयं त्रयं वेति ध्येयम् ॥ १४ ॥ ननु ग्रहणस्य प्रत्यक्षत्वेन तत्संनिवेशस्य तत्त्वात्परिलेषस्य स्थूलत्वेनोपेक्षाविषयत्वा- दित्यस्वरसादाह--किंच कृत्वेति । शरं ब्रह्मगुप्तोक्तं कोटिं कृत्वा कल्पयित्वा चक रा- त्कोटेर्भुजकर्णसापेक्षत्वात्स्पर्शमोक्षकालिकशरमूलमध्यकल्पितशरमूलयोरन्तरं क्रान्तिवृत्तस्थं भुजं, मानैक्यखण्डं कर्णमिति क्षेत्रं कल्पयित्बेत्यर्थः । अत एव शरस्य कोटित्वदानं पूर्वश्लो- कोक्तं स्थित्यर्धानयनं कुत उक्तम् । भुजस्य क्रान्तिवृत्तस्थत्वात्तद्याम्योत्तरान्तररूपकदम्बा- भिमुखशरस्य भुजत्वसम्भवादुक्तशरस्य भवन्मते ध्रुवाभिमुखत्वेन भुजत्वासंभवादुक्तं स्थित्य- र्धानयनमुपपन्नमिति भावः । न च क्रान्तिसंस्काराक्षदृक्कर्मभिन्नस्थले त्वदुक्तशरस्य स्थूलत्वे- ऽपि स्वल्पान्तरेणाङ्गीकारस्तत्र तु तस्य सूक्ष्मत्वमेवेति वाच्यम् । बहुषु स्थलेषु सान्तरत्व- कल्पनापेक्षया स्थलद्वये सान्तरत्वकल्पनस्य लघूभूतत्वान्मदुक्तसमाधानस्यैव युक्तत्वात् । ननु स्वतन्त्रस्य नियोगादर्हत्वात्तद्गौरवमेवाङ्गीकृतम् । बहुषु स्थलेषु वस्तुभूतत्वकल्पना- पेक्षया स्थलद्वये तत्कल्पनस्य लघुभूतत्वेन च मदुक्तमेव साधनं युक्तं विनिगमनाविरहादि- त्यस्वरसाद्दृढं दूषणमाह--तादृगिति । शरो ब्रह्मगुप्तसंमतो ॰गणितागतश्चेद्यदि तादृग् ध्रुवाभिमुखोऽङ्गीक्रियते । तर्हि सः । ध्रुवाभिमुखशरः । तेन । उक्तेन । अनुपातेन न सिध्यति । सिद्धो न भवतीत्यर्थः । चेदित्यनेन ब्रह्मगुप्तशरस्य कदम्बाभिमुखत्वेन उक्ता- नयनं सुपपन्नमिति सूचितम् । तथा च गोलयन्त्रस्थध्रुवद्वयप्रोतस्थलवृत्तेन ग्रहबिम्बवेधादव- गतध्रुवाभिमुखशरेण गणितानीतशरस्य तुल्यत्वानियमदर्शनादत एव क्रान्तिवृत्ताच्छरस्य याम्योत्तरत्वादुक्तानुपातेन कदम्बाभिमुखत्वसिद्धौ बाधकाभावः । ग्रहपातयोः क्रान्तिवृत्त- स्थत्वादिति भावः ॥ १५ ॥ केदारदत्तः—क्रान्तिसूत्र में शरकल्पना सदोष है-- कुछ आचार्य शर की सत्ता ध्रुवाभिमुख ध्रुव प्रोत में मानते हैं । यदि शर की
कल्पना ध्रुवाभिमुख की जाती है तो शराग्रस्थित ग्रह क्षितिज से नमित और उन्नमित ही होगा तो वहाँ आयनदृक्कर्म ही अनावश्यक है तो वे आचार्य दृश्यग्रह साधन में आयन- दृकर्म गणित का उपयोग क्यों करते हैं ? अर्थात् उन आचार्यों पर भास्कर का सही आक्षेप है । तथा परिलेख में बिम्ब मध्य से स्पष्ट वलनोपरि गत सूत्र क्रान्तिवृत्त प्राची होती है । तो उसमें कोटि की तरह शर दान की क्या आवश्यकता थी, उन्हें तो यह शर दान संस्कार भी ध्रुव सूत्र में ही करना चाहिये था, ऐसी स्थिति में शर को मान कर स्थित्यर्धानयन जो किया गया वह तो ध्रुवाभिमुख शर मानने से कैसे स्पर्श मोक्षादि स्थिति ठीक होगी या होती हैं ? ॥१३॥१४॥१५॥ अथोत्क्रमज्यानिवृत्तिमाह- दृष्टिकर्म वलनं च केनचिद्भ्रान्तितः कथितमुत्क्रमज्यया । तत्कृतं तदनुगैस्ततोऽपरैरन्धपूरुषपरम्परोपमैः ॥ १६ ॥ ब्रह्मगुप्तकृतिरत्र सुन्दरी साऽन्यथा तदनुगैर्विचार्यते । नोद्धता
३९४ गोलाध्याये दृक्कलात्मकम् । उत्क्रमज्यया । ग्रहकोट्युत्क्रमज्यया । भ्रान्त्योक्तम् । तथा च तदुक्तवल- नस्य पूर्वमनेकधा खण्डितत्वात्तद्वलनानुरोधेनोक्तं दृक्कमापि खण्डितप्रायम् । मूलाशुद्ध्या तद्विशुद्धेरिति भ्रान्तिजल्पितत्वात्तदुपेक्षणीयमिति भावः । नन्वेकोक्तस्य तथात्वं संभवति । न त्वनेकोक्तस्य तथात्वम् । अन्यथा अतिप्रसङ्गः । उत्क्रमज्यया दृक्कर्म त्वतिप्रसिद्धमने- कोक्तत्वात् । तथा च श्रीपतिः—विक्षेपसत्रिभखगोत्क्रमजाऽपमज्याघातो ग्रहत्रयगुणेन हृतः कलास्ताः । शोध्यास्तयोः समदिशोः भचरेषु देया भिन्नाशयोर्भवति दृग्विधिरेष पूर्वः । यद्वोत्क्रमज्यात्रिभसंयुतस्य रसघनविक्षेपहता विभक्ता । त्रिचन्द्रवेदाभ्रशरैः कलाद्यं प्राग्वद्ध- नर्णं फलमायनाख्यम् । खनभोगधृतिभिः समाहृतं प्रथमं दृक्फलमायनाह्वयम् । द्युचराश्रित- भोदयामृभिर्विहृतं स्पष्टमिह प्रजायते । इतीत्यत आह—तदिति । ततो लल्लोक्तानन्तरम् । अपरैस्तदन्यैः पुरुषैस्तदनुगैर्भ्रान्तितल्ललोक्तमार्गानुसारणशीलैः । तत् । उत्क्रमज्योपजीव्यं दृक्कर्म । कृतं स्वग्रन्थे उक्तम् । तथा चानेकोक्तं प्रसिद्धमपि भ्रान्तोक्तमूलकत्वादसंगतमिति भावः । ननूपपत्तिविचारेण तदनुगानां ग्रन्थकर्तृत्वात्तैस्तथा कथमुक्तमित्यतोऽपरविशेषण- माह—अन्धपुरुषपरम्परोपमैरिति । अन्धा नेत्रद्वयरहिता ये पुरुषा मनुष्यास्तेषां या परंपरा । अतिसंलग्नतया पंक्तिः सोपमा दृष्टान्ते येषामेतादृशैरित्यर्थः । तथा चान्धस्येवा- न्वलग्नस्य विनिपातः पदे पदे । इति प्रसिद्धोक्तेः । शतमप्यन्धानां न पश्यतीति न्यायाच्च विचारविस्मरणशीलैस्तदुक्तं च तथेति भावः ।।१६।। ननु लल्लादिभित्वदुपजीव्यब्रह्मगुप्तोक्तानुरोधादेवोत्क्रमज्यया दृक्कर्म वलनं चोक्तमिति त्वदुक्तौ धृष्ट्यपूर्वकं तद्दूषणं ब्रह्मगुप्तोक्तेः पर्यवसन्नम् । न त्वेवमुचितम् । तस्या भ्रान्तत्वात्तद्दूषणं च त्वयि तदनभिप्रायबोधकत्वं सूचयतीत्यत आह—ब्रह्मगुप्तकृतिरत्र सुन्दरा साऽन्यथा तदनुगैर्विचार्यते । नोद्धता कृतिरथोध्दताऽस्तु वा मामिका सुगणका विचार्यतामिति । अत्र । वलनदृक्कर्मविषये । ब्रह्मगुप्तकृतिः । प्राक्पश्चान्नतविषुवज्ज्ययोर्वं- धात्त्रिज्ययाऽऽप्तचापांशैः । उत्तरयाम्यैः पूर्वा विषुवद्वृत्ते त्रिभे ग्राह्या । सममण्डलाद्विषु- वत्ते ग्राह्यास्त्रिग्रहाधिकोदुग्याम्ये । क्रान्त्यंशैरपमण्डलपूर्वा स्याश्चन्द्रविक्षेपः । एकान्यदि- शोर्युतियुतेर्ज्याप्रग्रहणमध्यमोक्षेषु । वलनं निमीलनोन्मीलनेषु कालेष्वतोऽन्यदिशाम् । विक्षेपसत्रिराशिकान्तवधे व्यासदलहृते लिप्ताः शोध्यास्तयोः समदिशोर्यद्यन्यदिशोग्रहे क्षेप्या इति ब्रह्मगुप्तनिर्मितार्यापङ्क्तिः । सुन्दरी । समीचीना । तत्रोत्क्रमज्यया दृक्कर्म- वलनयोरप्रतीतेः । गणितसाधारणोक्त्या केवलज्यापदेन तत्रापि क्रमज्यालाभादन्यथा सर्वत्रोत्क्रमज्याग्रहणापत्तेः । ननु तट्टीकाकारैश्चतुर्वेदाचार्यैरेतद्व्याख्यावसरे ज्यापदस्योत्क- मज्यापरत्वेन विवरणात्कथमुच्यते तत्कृतिः सुन्दरीत्यत आह-सेति । तदनुगैर्ब्रह्मगुप्त- सिद्धान्तव्याख्यातृभिश्चतुर्वेदाचार्यैः सा वलनदृक्कर्मविषयिणी ब्रह्मगुप्तोक्तार्यापङ्क्तिः । अन्यथाप्रतीयमानार्थभिन्नार्थत्वेनोत्क्रमज्यात्वेनेत्यर्थः । विचार्यते । व्याक्रियते । तथा च हेतूपपादनं विना तद्व्याख्यायां मानाभाव उक्तदूषणाच्च तद्यथाश्रुतार्थे बाधकाभावा- च्चोक्तं न विरुद्धमिति भावः । अतः स्वानौद्धत्यं फलितमित्याह-नेति । मामिका ।
उदयास्तवासना ३९५
ममेयमित्यर्थः । कृतिः । पूर्वप्रणीतपद्यार्धरूपा । उद्धता । ब्रह्मगुप्तन्यक्कारविषयिणी । मदौद्धत्यसूचिका । न । नास्ति । ब्रह्मगुप्तोक्तस्य मदभिमतत्वात् । ननु तथाऽपि लल्लादि- पूर्वाचार्यन्यक्कारविषयवेनापि तवौद्धत्यमनुचितमत आह-अथेति । औद्धत्यपरिहारानन्तरमपि हठादौद्धत्यमापाद्यते तर्हीत्यर्थः । वा पक्षान्तरेण । कृतिरुद्धता । अस्तु तथा च तदुद्धतपदैः कृतेरुद्धतत्वं नार्थतः । तादृशोक्तेर्जगत्प्रसिद्धसंगतोत्क्रमज्यानिवारकत्वतात्पर्यात् । अन्यथा मत्सङ्गतोक्तस्यैकदेशत्वेन सर्वेषां बहुसंमततयोत्क्रमज्याहेयत्वानुपपत्तेरिति भावः । ननु वलनदृष्टान्तेनोत्क्रमज्यानीतदृक्कर्मणोऽसंगतत्वमुक्तं न युक्तं तयोः परस्परान्वयाभावात् । तथा चैकस्य तथैव भ्रान्तत्वं कल्प्यं लाघवान्न गौरवाद्बहूनामित्यत आह-सुगणका इति । हे सुगणकाः । पदार्थतत्त्वज्ञाः । द्वेषशून्याः । भवद्भिर्विचार्य॑ताम् । मयि भ्रान्तत्वं तेषु वा भ्रान्तत्वमिति । तथा चोपपत्तिविचारेण भ्रान्तत्वं कल्प्यम् । लाघव- गौरवं चात्राप्रयोजके इति मदुक्तस्योपपत्त्या वस्तुभूतत्वनिर्णयान्ममाभ्रान्तत्वमिति भावः । रथोद्धतेति च्छन्दोऽपि सूचितम् । तत्पक्षे व्याख्यानं तु-अत्र सिद्धान्तेषु ब्रह्मगुप्तकृतिः सुन्दरा । आर्यात्मकत्वात् । गोवर्धनार्यावत् । सा । आर्यात्मिका कृतिः । तदनुगैर्ब्रह्मगुप्तानुगैः । आधुनिकैः । अन्यथा । असुन्दरा इति । विचार्यंते । पठने आर्याः सुन्दरा न लगन्तीत्यर्थः । अतः कारणात् । मामिका । मदीया । कृतिः । रथोद्धता । काव्य- तया रथोद्धता । नोद्धता । नगणेन । उत्कृष्टत्वेन मध्यमत्वेन । हृता । अधिगता । मध्य- स्थत्वज्ञानायाऽऽहृ-सुगणो यस्माद्भवति । प्रस्तारेणोत्पन्न एतादृशा यो रगणास्तावभयतो यस्यामित्यर्थः । एतादृशी । तदनुगैः । अन्तःस्थरगणादन्वनन्तरं योगः । गुरुः । उपलक्षणा- ल्लघुरपि । तेन लघोरल्पत्वादगुरोर्महत्त्वाच्चात्य(न्तः)स्थरगणानन्तरं लघुगुरुभ्यामित्यर्थः । बहुवचनं चरणबहुत्वात् । अत्र सिद्धान्ते । सुन्दराऽस्तु । 'रो नराविह रथोद्धता लगौ' इति वृत्तरत्नाकरोक्तलक्षणात् । नन्वार्या रथोद्धता वा सुन्दरेति न निश्चय इत्यत आह-वा विचार्यतामिति । वा पक्षान्तरे । छन्दस्तत्त्वज्ञैर्युष्माभिः । विचार्यताम् । अनुभवेन या सुन्दरा सैव सुन्दरेति ॥१७ ॥ केदारदत्तः—ब्रह्मगुप्त पर आस्था एवं चतुर्वेदाचार्य मत में अनास्था— ब्रह्मगुप्त का कथन अत्यन्त सुन्दर होते हुये भी अन्य आचार्यों से उनका मत अन्यथा समझा गया है । दृक्कर्म और वलन गणित का साधन कुछ आचार्यों ने भ्रान्ति से उत्क्रम- ज्या-विधान से किया है । पुनः उत्तरवर्ती अन्य चतुर्वेदादि आचार्यों ने भी इन्हीं लल्लाचार्य की भ्रान्ति पर ध्यान न देकर उसी भ्रम को अग्रेसरित किया है । यही अन्धविश्वास परम्परा भास्कराचार्य तक चली आ रही है । मैंने “सिद्धान्ततः प्राप्त क्रमज्या विधान से आयनाक्ष वलन-दृक्कर्म जो किया है, वह सहृदय विद्वान् गणितज्ञों से मान्य होगा" ऐसी आशा है । या मेरा कथन भी औद्धत्य पूर्ण है तो भी मान्य ग्रहगणितज्ञ विचार करेंगे ॥१६॥१७॥
३९६ गोलाध्याये अथ व्यभिचारमाह— उत्क्रमज्याविधानेन दृक्कर्म वलनं तथा । यत्तैरुक्तं न तत्तथ्यं व्यभिचारोऽत्र कथ्यते ॥१८॥ जिनाल्पकाक्षांशगुणत्रिभज्याघातो जिनज्याविहृतोऽस्य चापम् । तेन त्रिभोनेन समः प्रतीच्यां प्राक्सत्रिभेण द्युचरः कुजे चेत् ॥१९॥ दृङ्मण्डलाकारतयाऽपवृत्तं तद्याम्यसौम्यं क्षितिजं तदा स्यात् । क्षिप्तोऽपि खेटः परमेषुणाऽत्र याम्योत्तरत्वात्क्षितिजं न जह्यात् ॥२०॥ दृक्कर्मसंभूतफलद्वयस्य नाशो भवेदत्र धनर्णसाम्यात् । नैवोत्क्रमज्याविधिनाऽत्र साम्यं दृक्कर्म कार्यं क्रमजीवयाऽतः ॥२१॥ तथैव नाशो वलनद्वयस्य साम्याद्दिगन्यत्ववियोजनेन । न साम्यमत्रोत्क्रमजोवया स्यात्क्रमज्ययोऽतो वलनं विधेयम् ॥२२॥ वा० भा०—यत्र चतुर्विंशतिभागेभ्योऽल्पोक्षस्तत्राक्षज्यात्रिज्ययोर्घातो जिनां- शज्याभक्तः। फलस्य यावच्चापं तावतो भुजस्य क्रान्तिज्योत्तराक्षज्यासमा भवतीत्यर्थः । तद्यथा—अक्षांशाः २०। एषां ज्या १२१०। अस्यास्त्रिज्यागुणाया ३८ जिनज्याहृतायाश्चापं राशिद्वयम् २। अनेन सत्रिभेण समो ग्रहो ५ यदा पूर्व- क्षितिजे । अथवा वित्रिभेण ११ समः प्रत्यक्क्षितिजे ग्रहो भवति तदा वृषभान्तः खस्वस्तिके। अतो दृङ्मण्डलाकारं क्रान्तिवृत्तं स्यात् । अस्य क्रान्तिवृत्तस्य क्षितिजप्रदेशे क्षितिजमेव दक्षिणोत्तरं स्यात् । यतस्तदा कदम्बः क्षितिजे वर्तते । अतः क्षितिजस्थो ग्रहः परमेणापि शरेण कदम्बोन्मुखेन विक्षिप्तः क्षितिजं न त्यजति । क्रान्तिवृत्तग्रहस्थानमेवोदयलग्नं स्यात् । एवं दृक्कर्मफलयोधर्नर्णयोः साम्यं भवति । उत्क्रमज्याविधानेन तयोर्न साम्य स्यात् । अतः क्रमज्ययैव- कर्तव्यम् । एवं तत्रैव वर्तमानस्यार्कस्य वलनाभावः । वलनयोर्भिन्नदिशोः साम्रात् । उत्क्रमज्यया नैव साम्यमित्यर्थः । अथ यत्खस्वस्तिकगे रवाविति श्लोकद्वयं पूर्वं व्याख्यातमेव ॥१८॥१९॥२०॥२१॥२२॥ मरीचिः—ननु तैरपि त्वदुक्तमुच्यते इति निर्णयः कथमवगन्तव्य इत्यतोऽनुष्टुभाऽऽह— उत्क्रमज्येति । उत्क्रमज्याविधानेन । ग्रहस्य कोट्युत्क्रमज्याग्रहणेनेत्यर्थः । दृक्कर्मवलनं तथेति समुच्चयार्थकम् । उत्क्रमज्यातस्तदानयनम् । तैर्लल्लादिभिर्यदुक्तं स्वग्रन्थे तत्तथ्यं वस्तुभूतं न । कुत इत्यत आह—व्यभिचार इति । तत्र तदुक्तानयने । व्यभिचारः । गोलसिद्ध-
? No. Wait, look at line 13: खमध्ये । अत्रोत्तरगोले खमध्ये भुजस्य भुजोनषड्भस्य वा संभवाद्यदा भुजोन- Look atखमध्ये: under खthere is a little line:ख॒मध्ये. Look at line 19 again: Wait, could the mark under ग्रहचिह्नbe the same editorial mark? Look: underह्नthere is a subscript mark or something:ग्रहचिह्न॒! And then नसंबद्ध? Or is that ऽसंबद्ध? Wait! Why would someone put that mark? In proofreading/printing, sometimes an omission or correction mark is placed! Wait, what if the text originally was ग्रहचिह्नासंबद्धorग्रहचिह्नसंबद्ध? Wait, look at the letter again: Could it be ऽ? Why would it be ऽसंबद्ध`? "अतः कारणात् । ग्रहचिह्नात्परमेषुणा । परमशरेण । परमोन्मननसंभावनार्थं परमशरेणेति ।"
Wait, if the planet's latitude is maximum:
"ग्रहचिह्नात्परमेषुणा... क्षिप्तोऽन्तरितः खेटः... क्षितिजवृत्तं न जह्यात् ।"
"कुत इ
३९८ गोलाध्याये ·शरक्रमेणोन्नमननमने ऋणधनरूपे इति धनर्णयोः साम्यं संख्यातुल्यत्वं तस्मादित्यर्थः । तथा हि—आयनवलनस्य ग्रहद्युज्यापरिणताक्षज्यत्वादायनं त्रिज्यया चेत्यादित्यादिना त्रिज्याक्ष- ज्यामध्यमशराणां घातो द्युज्यावर्गभूत(भक्त) इत्यायनदृक्कालरूपम् । आक्षवलनस्यापि तत्र ग्रहद्युज्यापरिणताक्षज्यात्वाल्लम्बज्ययाऽक्षजमित्यादिना त्रिज्यावर्गस्पष्टशराक्षज्याघातो द्युज्यावर्गलम्बज्याघातभक्त इत्याक्षदृक्कालः सिद्धोऽत्रापि स्फुटशरनिमित्तं मध्यमशरस्य सत्रिराशिग्रहद्युज्यारूपलम्बज्यागुणस्त्रिज्याहर इति तुल्ययोर्लम्बज्यात्रिज्ययोर्नाशात्त्रिज्याक्ष- ज्यामध्यमशराणां घातो द्युज्यावर्गभक्त इत्याक्षदृक्कालपूर्वापर(यन)दृक्कालतुल्यः । प्राचीन- मतेऽक्षज्याया एवाऽऽयनाक्षवलनत्वादद्युज्यानुपा
अथवा २रा—३रा = ११ राशि कुम्भ राशि पश्चिम क्षितिज में होती है। ऐसी स्थिति तब होगी जब वृषभान्त राशि खमध्य में होगी क्योंकि खमध्य से ९०° पर क्षितिज वृत्त होता है। निश्चय ही उस समय क्रान्तिवृत्त का स्वरूप दृङ्मण्डल होता है तथा तदुपरि लम्ब रूप वृत्त क्षितिज ही होता है। अर्थात् ऐसी स्थिति में कदम्ब तारा भी क्षितिज में ही होती है। कदम्बाभिमुख शर कदम्ब से विक्षिप्त होने पर भी क्षितिज में ही रहेगा, नामन या उन्नामन उभय स्थितियों में ग्रह स्थान और ग्रह बिम्ब एक समयावच्छेदेन क्षितिज में उदित होकर दृश्य होते हैं। क्रान्ति वृत्त और ग्रहोदय लग्न ही यहां लग्न है। और आक्ष दृक्कर्म = आयन दृक्कर्म, परस्पर एक धन दूसरा ऋण (+ ४ - ४) = ० होने से दृक्कर्म = ० यह सही स्थिति क्रमज्या गणित से ही होती है। उत्क्रमज्या गणित से कदापि संभव नहीं है। यहाँ पर भिन्न दिशाओं के वलनों के होने से वलन का भी अभाव है। उत्क्रमज्या गणित से, जो साम्यता होनी चाहिए नहीं होती अतएव गणित गोल से उत्क्रमज्या प्रकार से वलनादि साधन सदोष है जो सुतरां त्याज्य भी है ॥१८।१९।२०।२१।२२॥ अथ तन्मतिभ्रमे कारणमाह— गर्वादिसराभ्यासात्परविश्वासात्प्रमादतश्चापि । मुह्यन्त्यपि मतिमन्तः किं मन्दोऽन्यैस्तथा चोक्तम् ॥२३॥ गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य । रसिकत्वेनाऽऽकुलिता वेश्यापतयः कुकवयश्च ॥२४॥ वा० भा०—स्पष्टम् ॥२३॥२४॥ इति श्रीभास्करीये गोलभाष्ये मिताक्षर उदयास्तदृक्कर्मवासना ॥ मरीचिः—अथोक्तैतद्दूषणरीतेविपरीतरीत्योत्क्रमज्यानीतायनवलने कल्पितं दूषणं ग्रहाधिकारोक्तं तत्र गणितनिरूपणे शिष्याणां गोलज्ञानाभावादुद्बोधमत्र प्रसङ्गाद्बोधार्थमनु- वदति । यत्खस्वस्तिकगे रवौ भवत्ये दृग्वृत्तसत्संस्थिते प्रत्यक्षं वलनं कुजे त्रिभयुतार्काग्रासमं दृश्यते । त्वं चेदुत्क्रमजीवयाऽऽनयसि तत्तावत्सखे गोलविन्मन्ये तर्ह्यमलं तदेव वलनं धीवृद्धि- दायोदितमिति । चन्द्रग्रहणाधिकारे व्याख्यातम् ॥२३॥ अथ द्वितीयं तदधिकारोक्तं दूषणं बोधार्थमत्र प्रसङ्गादनुवदति । यत्राऽऽक्षोऽङ्गरसा लवा दिनमणेस्तत्रोदयं गच्छतो मेषे वा वृषभेऽपि वाऽप्यनिमिषे कुम्भे स्थितस्यापि वा। स्पर्शी दक्षिणतस्तदा क्षितिजवत्सा क्रान्तिवृत्तं यतस्तद्वत्स्यादुत्क्रमजीवयाऽत्र वलनं व्यासार्ध- तुल्यं कथमिति । इदमपि तत्रैव व्याख्यातम् ॥२४॥ ननु यैरुत्क्रमज्ययोक्तं तैः किमाशयेनोक्तम् । न च भ्रान्त्या । सर्वत्र तथात्वापत्तेरित्यत
आर्य्याऽऽह—गर्वाद्रसराभसात्परविश्वासात्प्रमादतश्चापि । मुह्यन्त्यपि मतिमन्तः किं मन्दोऽन्यैस्तथा चोक्तम् । मतिमन्तः सुबुद्धयः । अपिशब्दस्तेषां मोहासंभावनायां तत्संभव इति महदाश्चर्यसूचकः । सर्वथा मुह्यन्ति । अध्ययनसमये गुरुणोपदिष्टं स्वबुद्धिवैभवेन झटिति बुद्ध्वाऽहं सुबुद्धिर्यदैव मयाऽवलोक्यं तदैव बुद्ध्या सर्वं निष्काशनीयमिति संजातगर्वादुपेक्ष्य च कालान्तरेऽवलोकनसमये गुरुपदिष्टं विस्मृतं स्वबुद्ध्याऽन्यदेव तन्मौढ्यान्निर्णीतम् । तत्र तस्य मोहे गर्वः कारणम् । अगर्वे च गुरुपदेशानन्तरं तत्कालमेव मुहुस्तद्भावनाभि- स्तद्दृढसंस्कारादविस्मरणात्तीक्ष्णबुद्ध्या तदधिकस्फुरणाच्च मोहासंभवः । रसराभस्यात् । ग्रन्थकर्तृत्वेन लोके कीर्त्यातिशयदर्शनाद्ग्रन्थकरणे प्रवृत्तस्य झटित्ययं ग्रन्थो भवत्वित्यभि- [L9
उदयस्तवासना ४०१ अथाऽऽरब्धोऽधिकारो निरूपित इति फक्किकयाऽऽह—इत्युदयास्तवासनाधिकार इति । उदयास्तयोर्दृक्कर्मज्ञानाधीनत्वाद्दृक्कर्मवासनानिरूपणेन तदधिकारवासनैव निरूपिता । तत्रोक्तस्य सुगमोपपत्तिकत्वादित्यर्थः । एतेनैव ग्रहच्छायाधिकारवासना प्रतिपादितेति सूचितम् । दैवज्ञवर्यगणसंततसेव्यपार्श्वश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् । याता शिरोमणिमरीच्यभिधे समाप्तिं दृक्कर्मयुक्तिनिचयाधिकृतिः स्फुटेयम् ॥ इति श्रीसकलगणकसार्वभौमरङ्गनाथगणकात्मजविश्वरूपापरनामकमुनीश्वरगणकवि- रचिते सिद्धान्तशिरोमणिमरीचावुत्तराध्याये दृक्कर्मवासनाधिकारः संपूर्णः ॥ केदारदत्तः—मन्द बुद्धि विद्यार्थी या कवि के लिए कहा जा रहा है कि— गुरु मुख से सम्यगध्ययन में मन न लगाने से विषय बुद्धिगत न होते हुये भी विषय ज्ञान के गर्व (मिथ्या) से, रस के अतिशयत्व लाभ से, पर विश्वास से या अत्यन्त प्रमाद से, बुद्धिमान विद्यार्थी भो मोह के वश में आकर अशुद्ध सिद्धान्त को भी शुद्ध मान बैठता है तो मन्दबुद्धि विद्यार्थी के लिये कहना ही क्या है ? कुत्सित काव्य रचयिता मन्दबुद्धि का कुकवि व्याकरण सिद्ध शब्द के महत्त्व को नहीं जानते, काव्यरचना के अभिमान से उत्पन्न सन्तोष से दूसरे के सही अर्थ बोधक वाक्य को भी नहीं मानते । वेश्या सेवनत्वेन रसिक होने के मिथ्याभिमान से सज्जन वृन्द से कृत निन्दा की भी उपेक्षा करते हैं । अर्थात्—शिष्टाचार और मर्यादा भङ्ग की भी ऐसे लोग उपेक्षा करते हैं । ग्रहगणित सिद्धान्त ग्रन्थों में उक्त प्रकार के ग्रन्थ रचयिता लोगों पर आचार्य ने यह कड़ा आक्षेप दर्शाया है आचार्य के इस कथन से लल्लनाचार्य पर ही अधिक आक्षेप हो सकता है।।२३।।२४।। इति सिद्धान्त शिरोमणि ग्रहगोलाध्याय के उदयास्तवासनाध्याय :—१० की श्री पण्डित हरिदत्त ज्योतिर्विदात्मज पर्वतीय श्री केदारदत्त जोशी कृत “केदारदत्तः” हिन्दी व्याख्यान सम्पन्न । २६
अथ शृङ्गोन्नतिवासना अथ शृङ्गोन्नतिवासना । तत्र शुक्लत्वे च कारणमाह— तरणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदिशि चन्द्रश्चन्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलश्यामलश्री- र्घट इव निजमूर्त्तिच्छाययैवाऽऽतपस्थः ॥१॥ सूर्यादधःस्थस्य विधोरधःस्थमर्धं नृदृश्यं सकलासितं स्यात् । दर्शेऽथ भार्धान्तरितस्य शुक्लं तत्पौर्णमास्यां परिवर्तनेन ॥२॥ कक्षाचतुर्थे तरणेर्हि चन्द्रकर्णान्तरे तिर्यगिनो यतोऽब्जात् । पादोनषट्काष्ट८९ल्वान्तरेऽतो दलं नृदृश्यस्य दलस्य शुक्लम् ॥३॥ ४५ उपचितिमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं व्रजतश्च मेचकत्वम् । जलमयजलजस्य गोलकत्वात् प्रभवति तीक्ष्णविषाणरूपताऽस्य ॥४॥ यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः कोटिस्तूर्ध्वाधरमपि तयोर्यच्च तिर्यक् स कर्णः । दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्चकोटिस्तदग्रे चन्द्रः कर्णो रविदिगनया दीयते तेन शौक्ल्यम् ॥५॥ वा० भा०—स्पष्टम् । अस्य वासना पूर्वं कथितैव । तथाऽपि किंचिदिहोच्यते । प्राग्वद्भित्तेरुत्तरपार्श्वे चन्द्रकक्षां रविकक्षां च विलिख्य तत्रोध्वंरेखां तिर्यग्रेखां च कृत्वा चन्द्रकक्षाोध्वंरेखासंपाते चन्द्रबिम्बं विलिख्येदं दर्शयेत् । तिर्यग्रेखाया उपरि चन्द्रकक्षाव्यासार्धमितेऽन्तरेऽन्यां तिर्यग्रेखां कुर्यात् । ता रेखा प्रत्यग्रविकक्षायां यत्र लग्ना तत्र स्थित एवार्क ऊर्ध्वं रेखावच्छिन्नचन्द्रबिम्बार्धं पश्चिमतः शुक्लं भवति । तस्यार्धमधस्तनं मनुष्यदृश्यम् । तत्रस्थेऽर्के व्यर्केन्दुः सपादचतुर्भागोनं राशित्रयं भवति । २५ । ४५ । एतावत्येव व्यर्केन्दुभुजे बिम्बार्धं पश्चिमं पूर्वं वा शुक्लं भवि- तुमर्हति । न त्रिभे ॥१॥-॥३॥४॥५॥
...? Let's look closely at भ्रमरूपममत्वेनाविवेकाच्चन्द्रो: भ्र - म - रू - प - त - म - स्त्वे - ना - वि - वे - का - च्च - न्द्रो! Wait! Look at त: it's तnotम! Then म: म. Then स्त्वे: स्+त्वे! YES! तमस्त्वेनाविवेकाच्चन्द्रो! "भ्रमरूप-तमस्त्वेन अविवेकात् चन्द्रो न दृश्यते"! Because of the confusion/illusion that it is the darkness of space! आकाशभ्रमरूपतमस्त्वेनाविवेकाच्चन्द्रो! Let's re-verify: तदफलनाच्छ्यामतयाऽऽकाशभ्रमरूपतमस्त्वेनाविवेकाच्चन्द्रो न दृश्यत इति भावः । Yes! That makes 100% philosophical/astronomical sense and matches the glyphs: त - म - स्त्वे - ना! Excellent! * L30: तदन्ते । भार्धान्तरितस्य सूर्यषड्राश्यन्तरितचन्द्र गोलस्य तत् । नृदृश्यगोलार्धं शुक्लं स्यात् । Wait, is there a space betweenचन्द्रandगोलस्य`?
Look
४०४ | गोलाध्याये वात्संपूर्णमण्डलं श्वेतं न भवति तथाऽपि व्यवधानेनातिसूक्ष्मश्यामतया संजातासंपूर्ण- श्वेतमण्डलं संपूर्णतया दृश्यते । न्यूनशरे च किरणाप्रतिफलनस्य भूगोलेन निवारितत्वादृग (दृग्)हणमेव भवतीति भावः ॥२॥ अथ दर्शपौर्णिमान्तयोः सिताभावपरमत्वोक्तेः फला(पक्षा)र्धे त्रिभान्तरितचन्द्रमण्डल- स्यार्धं श्वेतं न्यायासिद्धं पूर्वाचार्यसंमतं निराकर्तुं युक्त्याऽन्यत्र चन्द्रमण्डलार्धं श्वेतं भवतीत्यु- पजातिकया प्रतिपादयति—कक्षाचतुर्थ इति । यतः कारणात् । अस्माच्चन्द्रात् । इनः सूर्यः । कर्णान्तरे । चन्द्रयोजनकर्णोनरवियोजनकर्णमितरविचन्द्रान्तररूपकर्णोन्दर्शान्ते शौक्ल्याभावः । पौर्णमास्यन्तरे रविचन्द्रस्पष्टयोजनकर्णयोगमितसूर्यचन्द्रान्तररूपकर्णे शौक्ल्यपरमत्वं तत्र तयोरूर्ध्वाधरान्
यहाँ प्रस्तुत पृष्ठ का सम्पूर्ण देवनागरी पाठ पंक्ति-दर-पंक्ति दिया गया है:
भावात् । अथ त्रिभेऽन्तरे यतः कर्णान्तरे चन्द्रसूर्यस्तिर्यग्भवति । न सरलरेखान्तरेणातस्त- त्राधिकशौक्ल्यसंभवादित्यध्याहारेण तदूनेऽन्तरेऽर्धशौक्ल्यसंभावादयुक्तोऽर्थ इति चेन्न । उक्तभागान्तरे तत्संभवे कारणाकथनात् । कर्णान्तरे इत्यस्यानुपपत्तेश्च ॥ ३ ॥ अथ फलितं प्रश्नोत्तरं तत्प्रसङ्गाच्छृङ्गोन्नतिवासनां चाह—उपचितिमिति । इनं सूर्यम् । त्यजतश्चन्द्रस्य शौक्ल्यमुपचितिमुपचयमुपयाति । प्राप्नोति । व्रजतः सूर्यं प्रति गच्छतश्चन्द्रस्य मेचकत्वं श्यामत्वमुपचयं प्राप्नोति । चकारोव्यवस्थाथर्कः । तथा च दर्शान्ते सूर्यचन्द्रयोः समत्वेन केवलमूर्ध्वाधरान्तरत्वात्सूर्यकराश्चन्द्रोर्ध्वगोऽलार्धे प्रतिफलिताः । न तदधो गोलार्धे मनुष्यदृश्ये । ततश्चन्द्रो बहुगत्याऽर्काद्यथा यथाऽग्रे भवति तथा तथा सूर्यस्य पश्चिमभागस्थत्वेन सूर्याभिमुखचन्द्रगोलार्धे दृश्यादृश्यात्मके सूर्यकराः प्रतिफलिता- इत्युत्तरोत्तरं दृश्यार्धशौक्ल्यवृद्धिः । एवं पौर्णमास्यन्ते षड्भान्तरत्वात्सूर्याभिमुखचन्द्रगो- लदृश्यार्धे सूर्यकराः प्रतिफलिता इति संपूर्णमण्डलं श्वेतम् । ततस्तदधिकान्तरे सूर्यस्य तत्पूर्वभागस्थत्वेन सूर्यकराश्चन्द्रगोलार्धे दृश्यादृश्यात्मके पूर्वभागे पतन्तीति दृश्यगोलार्ध- पश्चिमभागे तदफलनाऽसितत्वमित्युत्तरोत्तरमसितवृद्धिः शौक्ल्यापचयः । अत एव सिता- सितवृद्ध्या मासपक्षयोः शुक्लकृष्णत्वमिति भावः । नन्वेवमर्धमण्डलो येनशृंगतायांगोत्तचं कथमुपलभ्यते इत्यत आह—जलमयजलजस्येति । अस्य प्रत्यक्षसिद्धस्य जलमयश्चसौ- जलजश्चेति पृथिवीभागोपष्टम्भकोपष्टम्भ्यजलभागात्मकचन्द्रस्येत्यर्थः । गोलकत्वात् । कन्दु- काकारत्वात् । तीक्ष्णविषाणरूपता । तीक्ष्णशृङ्गरूपत्वम् । प्रभवति । संभवति । एतच्छृ- ङ्गोन्नत्यधिकारे विस्तरेण प्रतिपादितम् । अयुजि नयुगरेफतो यकारो युजि च नजौ जर- गाश्च पुष्पिताग्रेत्युक्तेरिदं पुष्पिताग्रा वृत्तम् । पुराणमतानुसारिणस्तु—चन्द्रस्य जलम- यगोलत्वे सर्वमिदं भवदुक्तमुपपन्नं स्यात्तत्रैव च मानाभावः । अनुमानेन तेजोमयमण्डल- त्वस्यैव व्यवस्थापनात् । तथा हि—विमतमिन्दुबिम्बं तैजसं भास्वररूपाधिकरणत्वाद्वी- पवदिति सर्वावयवोपपन्नेनान्वयव्यतिरेकिणैवाभिमतसिद्धेरिति । न च दीपे योग्योष्णस्प- र्शाधिकरणत्वमुपाधिः । आकरजे सुवर्णादौ प्रभादौ च व्यभिचारेण साध्याव्यापनात् । नापि चन्द्रबिम्बमतैजसम् । शीतस्पर्शाधिकरणत्वात् । भास्वररूपाधिकरणत्वानुपपत्तेः । सितवृद्धि- क्षयौ तु दक्षशापादिति पुराणेषु प्रसिद्धत्वात्प्रथमं पिबते वह्निरित्यादिश्रुत्या भागं देवेभ्यो विधातीत्यादिश्रुत्या च तत्कलानां देवताभोज्यदानत्वाभ्यामित्याहुः । ज्योतिर्विदस्तु नैतदनु- मानं चन्द्रस्य तेजोमयमण्डलत्वे मानं हेत्वसिद्धेः । तथा हि—न तावदिन्दुबिम्बे तत्स्वाभाविकं रूपम् अपि तु चण्डकरकरनिकरप्रसारानुसारितया तदुपचयदर्शनेन याचितकमण्डनकमनी यतान्यायेनजपाकुसुमसंनिहितस्फटिकशिलातलारुणगुणत्ववदस्यापि सौरकिरणाश्रयणोभास्वर- स्त्रपस्यौपाधिकत्वात् । किंच तद्रूपं न चन्द्रसमवेतं तेजोजलान्यतररूपत्वे सत्यावद्द्रव्यभावि त्वाद्व्याप्तवृत्तित्वादन्यसंबन्धानुविधायित्वात्कादाचित्कत्वाच्च । अपि च । तस्य तदीयत्वा भिमाने कथममादौ तथाविधरूपाभावः । अत्र वेदबोधितविविधविबुधपीतत्वं न विषयः । सर्व- थैवै तस्यायोग्यत्वनिश्चयात् । तथा च तथाविधवेदप्रामाण्यनिर्वाहायावश्यमेवास्मदुक्तमिन्दो-
रम्यत्वमभ्युपेयम् । अन्यथाऽनुपपन्नतत्वेन तस्य निर्वोढु मेिवाशक्यत्वात् । अथ स्यादेतत्कथ- मनुषपत्तिरस्मन्मतेऽपि चन्द्रबिम्बस्योपवृद्ध (ष्टम्भ्य) द्रव्यत्वेन जलावयवसंमिश्रितत्वेन तयो ग्य- तोपपादनादिति चेत्तर्हीहासिताचतुर्दश्यमादौ योग्यतया जलभागस्य पीतत्वेन तत्संपर्काभावेना- भिभावकाभावात्खरतररविकरप्रसारपरम्परावशेन ऽऽतपसंपादनद्वारा ऽविरलतेजस्युपस्थितावपि दिनकरतुल्यतया क्षणदाया अपि दिनतापत्तिः । अपि च स्ववशमिलन्मधुपालिपालीसमलं- कृतसकलभूमण्डलजलगत्कमलवनसंजीवनक्षमत्वमपि स्यादेव प्रद्योतनवदिति । अथ तथा- भूतस्यापि पुनरुत्पादे किं बाधकमिति चेन्न । कारणचक्रान्तःपातिप्रागभावाद्ध्यकारणविरहे सकलकारणयौगपद्यरूपसामग्र्यभाव एव । ननु तर्हि पुनस्तदेव द्रव्यान्तरमुत्पाद्यतां तदुत्पादे तु बाधकाभावात् । नवो नवो भवति जायमान इत्यादिनैकवाक्योपस्थितत्वेन विरोधादित्य- स्येव तस्यापि वेदेन नवीनत्वोपपादनादिति चेन्न । तत्रैकवाक्यताया एवाभावात् । भावे वा तस्य प्रमाणान्तरबाधितार्थार्थकत्वात् । यतो द्वितीयामारभ्य पञ्चमीमवधीकृत्याथवा कृष्णैकादश्यादिचतुर्दशीपर्यन्तमविकृतस्यैवाशेषबिम्बस्य केवलं सितोपचयापचयवतः सर्व- जनोपलब्धत्वेन स्वरूपापलापस्य कर्तुमशक्यत्वात् । अपि च तत्स्वरूपापलापपक्षे वलक्षपक्षा- दाविनासन्नतया पश्चादेवोदयनियमो न स्यात् । लुप्तकिरणत्वानभ्युपगमेनान्यस्यैवो- त्पादस्वीकारात् । किंच चतुर्दशीनिशावसानसमये सूर्यापेक्षया द्वादशभागोन्मितान्तरेण पश्चादुपलक्षितापमण्डलस्थानदिनद्वयानियमेन पुनर्द्विगुणान्तर एव द्वितीयायामुदयनिश्चयो न स्यात् । प्रत्युत्सन्नापरनक्षत्रकेत्वादिवत् । अपि च दिनकरदिश्येव प्रथमकलिकोत्पादनिय- मोऽपि न भवेद्देवकार्यन्तरत्वेन कदाचिदपि विपर्यासस्यार्धपूर्णत्वाद्देवां(व) केनाप्यनिवारि- तत्वेनोत्पादप्रसङ्गात् । किंच तदपि भवेदेव । अन्यसम्बन्धानपेक्षत्वेनानियम्यत्वादिति । तथा च तथोपगमे दोषसहस्रोपदर्शनेन वेदस्यापि प्रत्यहमधिकाधिकप्राशस्त्यप्रतिपादनादिपरतयो- त्प्रेक्षादिन्यायैनान्यत्रैव तात्पर्यम् । अन्यथा नवीनांशतात्पर्यकत्वे तिरते दीर्घमायुरित्यादिना भागस्याऽऽनर्थक्यं पूर्वैरपि समाधातुमशक्यमेवेति । तन्नाशोपगमेन परमोपप्लवापादने तदधः कृता दापितिरश्चा (?) । किंच तत्र जलस्योपष्टम्भकत्वमपि विवेकविरुद्धम् । तयोरुपष्ट- म्योपष्टम्भकभावाभ्युपगम उभयोविरोधि तया तदेकतरनाशापत्तेः । नन्वारम्भकस्य तेज- स्त्रैविद्ध्यात्कथमत्र विरोधापादनमयोग्यत्वादिति चेत्सत्यम् । किमेतदिन्दुमण्डलारम्भक- मुद्भूतरूपस्पर्शमथोद्भूतस्पर्शमनुद्भूतरूपमनुद्भूतस्पर्शमुद्भूतरूपं चेति । नाऽऽद्यः । उष्णस्पर्शानुपलम्भात् । तदुभयसाम्योपगमे तु का हानिरिति चेत्सुन्दोपसुन्दन्यायेन प्रथम- मन्योन्यापाय एव । अथ कथमपीश्वरेच्छादिना तदपायप्रतिबन्धोऽपि तेजोभागगतस्पर्श- स्योत्कर्षेण जलभागस्पर्शाभिभावकत्वं भवेदेव । बलवत्त्वादिरोधित्वाच्चेति तदनुपलम्भप्रसङ्ग इति । ननु तत्राप्यन्योन्यसमानबलत्वोपगमे किमुत्तरमिति चेन्न । आश्रयस्याऽऽधिक्यमन्तरा तथात्वस्यासंभवात् । अपि च समबलजला नलसंयोगात्सोऽनुष्णाशीत एव स्यात् । अथ प्रतीत्यन्यथानुपपत्त्योपष्टम्भकस्य भूयस्त्वकल्पने प्रत्युतान्यगुणानामभिभूतत्वे तथाविधरूप- स्यादर्शनप्रसङ्गः । तस्याप्यभिभूतत्वात् । न द्वितीयः । तस्य स्वपरप्रकाशकत्वेन सकल-
लोकावगतरूपवत्तयाऽनुद्भूतरूपकत्वाभावाद्यदुद्भूतस्पर्शाभावाच्च । नान्त्यः । तस्यानुद्भूत- स्पर्शत्वेन व्यवधानेऽपि द्रव्यान्तरस्पर्शापनायकत्वं न स्यात् । व्यवहितसुवर्णादिवत् । अन्यथा कनकस्यापि पीतभागगतस्पर्शापनायकत्वं व्यवधानेऽपि भवेदेव । सजातीयतया द्वयोर- विशेषात् । किंच जलतेजसोरुभयोरपि विरलावयवतया तदेकतरोपष्टम्भेऽपि चिरानपायं कार्यं न निर्वहेदेव । तस्यापि विरलावयवतया प्रबलप्रभञ्जनाघातेनाथवा प्रत्यहमारोहाव- रोहविधौ नीचोच्चदेशसम्बन्धे सूतादेरिव कदाचिदप्यवयवविभागापत्तेरिति दृढतरपिण्डी- भावापादनायोभयभूयसां भूभागानामप्युपष्टम्भकत्वमवश्यमास्थेयम् । तथा चोपष्टम्भक- भूयस्त्वेनाऽऽरम्भकभागगतरूपाभिभवापत्तिः । नन्वारम्भकरूपस्योत्कृष्टत्वेनाविरोधितया चोपष्टम्भकभूयस्त्वेऽपि न तेन तस्याभिभव इति चेन्न । रजतेऽपि तदनभिभवापत्तेः । उपष्टम्भकभूयस्त्वेऽपि तदारम्भकरूप उत्कर्षाविरोधयोः सत्त्वादिष्टापत्तिरत्रेति चेत्तर्हि निबिडतमे तमसि रजतस्योपलम्भप्रसङ्गो रूपस्यानभिभूतत्वात् । तस्माज्जलस्य तदुपष्टम्भ- कत्वानुपपत्त्याऽनेकप्रकारावगतं वरमारम्भकत्वमेव तस्येति । तथा चेन्दुबिम्बमाप्यं शीत- स्पर्शाधिकरणत्वात्करकावदिति सर्वावयवोपपन्नेन निर्दुष्टेनान्वयव्यतिरेकिणा सिद्धमिन्दो- रम्मयमण्डलत्वम् । नन्वत्रापि हेत्वसिद्धिर्दोषः । तस्योपष्टम्भकजलभागगतत्वेन चन्द्रस्य तदनाश्रयत्वादिति चेन्न । ज्ञातमतिप्राज्ञोऽसि । यतोऽनन्तरोक्तं सर्वमेव विस्मरसीति हन्त सम्भवति तस्योपष्टम्भकत्वे किल हेतोरसिद्धिः । प्रत्युत तदेवासिद्धमिति किमर्थमिद- मनर्थकमाशङ्कनम् । तथा चासिततरपृथिवोपरमाणुपरम्परोपष्टब्धा जलपरमाणव एव परम्परयाऽऽरम्भकत्वेन व्यवस्थिता इति सिद्धम् । किंच स्वानुविधे(द्धे) वस्तुविशेषे जला- नलनभस्वतामुत्कर्षाविसरे सजातीयद्रव्योत्पादनसामर्थ्यमखिलजनसिद्धम् । तद्यथा—अर्कस्य लोहविशेषादर्शच्छुरिकाकरवालस्वन्तशिलातलादौ संमुखतापन्ने तेजोन्तरजनकत्वमथवा भौमदहनस्याप्यन्तसंयोगिनि घृततैलादौ वह्न्युपचयारम्भकत्वमथवा वर्षाकाले जलदस्योत्कर्षे लवणक्षारेक्षुविकारादौ स्वानुविद्धे जलजनकत्वमेवं प्रकृतेऽपि स्वानुवृद्धितया शशि- कान्तशिलासु जलभागाविर्भाविहेतुत्वेन नियमानुरोधादपि वक्तुमुचितमेवास्यापि तथात्वमिति । अपि च यच्चैतदुपलभ्यमानं रूपं वस्तुतस्तदोयमेवाभविष्यत्तदा तैजसव्यवस्थापकमप्यभविष्यत् । अथ तत्तदाश्रितमेव स्याद्यावद्द्रव्यभावि स्यादव्याप्यवृत्ति वा न स्यादन्यसंबन्धानु- विधायि वा न स्यादित्यादिप्रतिकूलतर्कपराघातेन तैजसत्वाभिमानमात्रोच्छेदे व्यवस्थित- मिन्दोरम्मयत्वमिति । ननु भवतु तावदस्य जलमयगोलकत्वं परंतु प्रतिपादितसितवृद्धि- क्षयोपपत्तौ स्मृतिवेदाविरोधप्रसङ्ग इति चेन्न । तयोरनेकोपपत्तिविरोधितया तदतात्पर्य- कत्वात् । तथा हि—दिनकरबिम्बापेक्षया पूर्वापरयाम्योत्तरान्तरानुसारेण स्फुरदादित्यकर- प्रसारपरम्परावशेन कलोपचयापचयदर्शनेन शृङ्गस्यापि तदनुविधानेनैवोन्नमनादन्वयव्यति- रेकाभ्यामनयोस्तदेकनिमित्तत्वमेवावसीयते । यतः सर्वत्र लौकिकप्रमाणावगतहेतुभावे तयो- रेव नियामकत्वात् । तथा चानुमानमपि—चन्द्रे सितोपचयापचयौ संगतादित्यकरनिकर- प्रसारापसारनिमित्तकौ । अनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात् । यद्यदन्वयव्य-