सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
आश्लिषन्त्येति ! आश्लेषं समालिङ्गनं कुर्वन्त्या । तथा च मया स्वेच्छया सङ्गो न कृतः किंतु तदिच्छया बलात्कारेण संजात इति पश्चात्तापः प्रायश्चित्ताधिकारसंपादनार्थं युक्त इति भावः । अपिशब्दात्— लङ्केश्वरो जनकजाहरणेन वाली तारापहारकृतयाऽप्यथ कीचकाख्यः । पाञ्चालिकाग्रह्णतो निधनं जगाम तच्चेतसाऽपि परदाररतिं न काङ्क्षेत् ॥ आयुः क्षितिर्विकलताऽप्युपहास्यता च निन्दाऽर्थहानिल द्युते विगतिः परत्र । स्यादेव यद्यपि रतेन पराङ्गनायाः प्राहुस्तथाऽप्यनघमित्यपि कारणेन ॥ उर्वशीसुरतचिन्तया ययौ संक्षयं किल पुरूरवा नृपः । रक्षणाय निजजीवितस्य तत्संभवेत्परवधूं न कामतः ॥ नारी चोन्नतयौवनाऽभिलषितं कान्तं न चेदाप्नुया- दुन्मादं मरणं च विन्दति तदा कंदर्पसंमोहतः । संचिन्त्येति समागतां परवधूं रत्यर्थिनीं स्वेच्छया गच्छेत्क्वापि न सर्वदा सुमतिमानित्याह वात्स्यायनः ॥ अपि द्विजश्रोत्रियमित्रभूपसंबन्धिभार्या यदि पञ्च भुक्ताः । स्युस्ताश्च दोषाय न चेत्प्रगच्छेद्धेतुं विना कामत एव नैवम् ॥ इत्युक्तेन तदिच्छाकृतसंगादोषाभावेऽप्यहं— कन्या प्रव्रजिता सती रिपुवधूर्मित्राङ्गना रोगिणी शिष्या ब्राह्मणवल्लभाऽथ पतितोन्मत्ता च संबन्धिनो । वृद्धाऽऽचार्यवधूंश्च गर्भसहिता ज्ञाता महापापिनी पिङ्गा कृष्णतमा सदा बुधजनैस्त्याज्या इमा योषितः । इत्यगम्यस्त्रीमुख्यत्वात्— मात्रा स्वस्रा दुहित्रा वा नैकशय्यासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति । इति धर्मशास्त्रस्यार्थशास्त्रतो बलवत्त्वाच्च महापातकं मन्यमानोऽधिकमनुतापीति सूचितम् । ननु तया कुतस्तवाऽऽश्लेषः कृत इत्यतो वनराजिविशेषणमाह—पुष्पवत्येति । तथा च यौवनमदभ्रामितया मां पितृत्वेनाजानन्त्या पुरुषान्तराभावान्मय्याश्लेषः कृत इति भावः । पुष्पवत्येत्यनेन रजोदर्शनसमये संजातमङ्गादधिकं पापं सूचितम् । अत्रोत्प्रेक्षया पर्वतस्यैतादृशमहापातकिन उपमा व्यज्यते । अत्र शृङ्गाररसाभासो रोदनसूचितकरुणरस- पर्यवसानान्न दोष इति ध्येयम् । यदा स्वस्य आत्मनः पर्वतरूपस्य तनुजा शरीरोत्पन्ना या लतापङ्क्तिस्तया पुष्प- वत्या आश्लिषन्त्याऽपि हृदिजखेदस्वेदवान्हृदिजो मदनस्तत्कृता ये खेदा विरहदुःखानि तैः
स्वेदः सात्त्विकभावः प्रथमधर्मोदकं तदाश्रयोभूता भूरुहः । वृक्षास्तु स्वमध्यावस्थायां स्वान्तर्गतजलं स्रवन्तीति प्रसिद्धम् । तन्मदनकृतपीडाजनितधर्मोदकोत्प्रेक्षितमिति मन्तव्यम् । अनुचितकृतसङ्गाः । अनुचितो निन्दितः कृतः संपादितः संयोगो येनासौ । लतास्तु वृक्षस्कन्धं वेष्टयन्ति । रजोदर्शनसमये स्त्रीसङ्गोऽत्यन्तं निषिद्ध इति हेतोः । अस्मीत्य- हमर्थेऽव्ययम् । उपसर्गविभक्तिस्वरप्रतिरूपकाश्चेति सूत्रात् । लताजनकः शैलः शीलसम्बन्धी शीलवान् सदाचरणशीलोऽतिश्रोत्रियः पर्वतः । अनुतप्तः सूर्यकिरणतप्तरूपतया संतापं प्राप्त इत्युत्प्रेक्षा । कन्यायास्तादृशमौद्धत्यं श्रोत्रियपितुः संतापकारकमवेतिपदस्य पुनरा- वृत्त्या । इति एवंरूपं निशि शशिकरच्छन्ननिर्झरैरूक्षकल्पै रोदितीवेत्युत्प्रेक्षा । दिने श्रोत्रियस्य स्वशिष्टत्वलज्जासंरक्षणार्थं लोकनिकटे रोदनासंभवाच्च । अस्मीत्य- त्रास्तीति पाठे इतिपदस्य नाऽऽवृत्तिरिति ध्येयम् । केचित्तु स्वतनुजवनराज्यां जीवसे संश्लिषन्त्यां वितनुजकृतसङ्गोऽस्मीति पाठं प्रकल्प्य स्वकन्यारूपायां वनराज्यां जीवने पानीये क्लीबरूपे भर्तरि संश्लिषन्त्यां सत्यामहं पर्वतो वितनुजकृतसङ्ग । विगतो तनुजः पुत्रो दौहित्रस्यापि पुत्रत्वोक्तेः । तेन कृतः सङ्गः समालिङ्गनं यस्यैतादृशो दौहित्राभाववानस्मीत्यनुतप्तोऽत एव मनसि जातो यः खेदस्तेन खेदवान् रोदितीव । को हि नाम सभर्तृकां वन्ध्यां दुहितरं द्रष्टुमीष्टे । अत्र लतायाः कुसुमसंभवेऽपि फलरूपपुत्रस्यानुत्पादाद्वन्ध्यात्वमित्यवधेयम् । लता फलभरनमिताङ्गी मां प्रति नाऽऽसतेति युक्तमाहुः । प्रसादमाधुर्यगुणौ । अनुप्रासः शब्दा- लङ्कारः । तथा च पर्वतलताप्रफुल्लनं चन्द्रज्योत्स्नाजलातिनिर्मलत्वं शरदृतुचिह्नम् ॥८॥ अथ क्रमप्राप्तं वंशस्थेन वर्णयति—सहस्यकाल इति । कृषीबलाः कर्षकाः । सहस्य- काले । हेमन्तैकदेशपौषमासग्रहणात्सं पूर्णो हेमन्तर्तुर्गृह्यते । ऋतुप्रक्रमात् । न च हिमस्य काले इति किं नोक्तमिति वाच्यम् । कृषिरक्षणार्थं गृहबाह्यस्थानां कर्षकाणां प्रावरणाल्पतया हिमर्तुनामश्रवणादतिव्याकुलतापत्तेः । न च तथाऽपि मार्गशीर्षनामग्रहणेन कथं स नोक्त इति वाच्यम् । कार्त्तिकान्तशरत्कालादग्रिममासग्रहणेन हिमर्तोरेकमासमितत्वभ्रमसंभवात् । अन्तिमपौषमासग्रहणे तु पूर्वमासस्य पूर्वमनागतत्वाद्गणना स्वतःसिद्धेति हिमर्तोर्द्विमास- त्वेनावगमाच्च । हकारलोपेन सस्यकालप्रतीत्या कर्षकाणां स्वव्यापारप्रवृत्तिसंभवाच्च । ननु मार्गशीर्षवाचकमहःशब्दसप्तम्याऽपि पदच्छेदसंभवादकाले इत्यत्रास्य विष्णोः कालो मासानां मार्गशीर्षोऽहमित्युक्तेरित्यर्थसंभवादस्य तद्विशेषणत्वाच्च कथं पौषमास- ग्रहणेऽभिनिवेश इति चेन्न । अकाले इत्यस्य व्यर्थविशेषणत्वात् । कृष्याममङ्गलाद्यंप्रतीति- कारकत्वाच्च । इमां(लां) कृषिभूमिं विलोक्य सादरं दृष्ट्वा अधिकमत्यन्तं तुष्यन्ति । अस्मिन्वर्षेऽस्माकं बहुद्रव्यलाभो भवितेति तुष्यन्तीत्यर्थः । ननु केवलतद्भूदर्शनेन द्रव्यलाभाभावात्तोषः कथं संभवत्यन्यथाऽन्यदाऽपि तदनिवा-
५१२ गोलाध्याये रणात्सस्यकाले इत्यस्य वैयर्थ्यापत्तिरत इलाविशेषणमाह - प्रहृष्टपुष्टाखिलगोकुलमिति । प्रकर्षेण हृष्टं पुष्टमभिमतभक्षणाच्छरीरारोग्यधारि । एतादृशमखिलं समग्रं गोकुलं गोबली- वर्दसमुदायो यस्याम् । अत्र कुलशब्दस्यानेकरूपसमुदायवाचकत्वादखिलशब्दस्य तत्समुदाय- वाचकत्वाद्भेद्योऽवधेयः । यद्वा - अखिलशब्दोऽदुष्टवाचकः । नतु प्रहृष्टमखिलानां कृषीवलानां गोकुलमिति । कृषीवलानामुपक्रमात्तस्य वैयर्थ्यात् । तथा च तद्विक्रयाद्द्रव्यलाभ इति भावः । ननु तत्काले प्रहृष्टपुष्टं गोकुलं कुत इत्यतो द्वितीयं विशेषणमाह - बहुसस्यमा[शा] लिनीमिति । बहुविधसस्यबाहुल्येन शोभायमानाम् । तथा च कृषिभूमावसंख्यसस्यसंभवात्त- द्भक्षणेनास्मिन्काले प्रहृष्टपुष्टं गोकुलं जातमिति भावः । अनेन धान्यादपि विक्रयेण द्रव्य- लाभादधिकं सुखं युक्तमित्यपि सूचितम् । ननु वर्षाकाले सस्यबीजरोपणादनन्तरं शरदि संजाताल्पवृद्धीनां सस्यानां हेमन्ते वर्षा- भावात्कथं संरक्षणं वृद्धिश्चा भवति । प्रत्युतातिमृदूनां सूर्यकिरणतापादग्धत्वापत्तिरतस्तृतीयं विशेषणमाह - चितामिति । अवश्ययाकमौक्तिकोत्करैः । अवश्ययास्तु नीहार इत्यभिधाना- दवश्यायो हिमं तस्य कानि जलानि सीकररूपाणि तान्येव मौक्तिकानि मुक्ताफलानि तेषा- मुत्कराः समूहास्तैरित्यर्थः । तथा च हेमन्ते हिमकणपातात्तज्जलैः सस्यानां वृद्धिः कोमल- सूर्यकिरणदाहनिवारणं च भवतीति भावः । अत्र चितामित्यमङ्गलं शरद्वर्णनविषयपापस्य देहान्तप्रायश्चित्तसूचनान्न दोषः । तादृशपापाभावे कृषिः सम्यक्सस्या भवत्यन्यथा नेति सूचनार्थमत्र तदुपा[दा]नं हठा- दिति ध्येयम् । अत्र मौक्तिकेत्यनेन कृषिभूमौ हिमजलकणा मोक्तिकानीत्युत्प्रेक्षालंकारः । अत्रानावश्यकोत्प्रेक्षया भूमौ नायिकोपमा व्यज्यत इतीदं पद्यं श्लेषार्थेन नायिकापक्षेऽपि । तथा हि- हेमन्तर्तौ कृषीवलाः कृषी वलं येषां ते कृष्युत्पन्नान्नभक्षणाद्बलं जीवनं भवतीति पुरुषा इत्यर्थः । इलाम् । इकारः शंकरः प्रोक्त इत्यभिधानात् । इं शंकरं सुखकारकपुरुषं लात्यनुगृह्णातीतीलाम् । सुखकारकपुरुषानुरागिणी तरुणीमित्यर्थः । विलोक्य सादरं स्फारस्फुट[र]न्नेत्राभ्यामावीयेत्यर्थः । अत्यन्तं तुष्यन्ति । एतां रात्रावालिङ्ग्य हिमपने- ष्यामः । अत एव- हसन्तीं वा हसन्तीं वा हसन्तीं वामलोचनाम् । हेमन्ते ये न सेवन्ते ते नरा दैववञ्चिताः ॥ इत्युक्तिरिति भावः । नन्वस्या आलिङ्गनेन हिमापगमः कथमित्यत आह - प्रहृष्टेत्यादि । प्रकर्षेण हृष्टा संतुष्टा या पुष्टा परपुष्टा । नामैकदेशे नामग्रहणात् । मिहिरस्तदेक इत्यत्र वराहमिहिरत् । अथवा प्रहृष्टेन पुष्टा संतुष्टेनैवान्यपोषणं क्रियते न दुःखितेनेति प्रहृष्टेन काकेन पुष्टा कोकिलेत्यर्थः । तस्या अखिलमदुष्टं शुभमित्यर्थः । गोकुलं वाक्समूहो
यस्याम् । तथा चैतस्या वचनानां परपुष्टवचनतुल्यतयाऽस्या दर्शनादौ कोकिलोपस्थित्या तत्समयवसन्तस्मरणेन तत्र हिमस्याभावात्तद्व्यासक्तान्तःकरणानामस्माकं हिमं न लगतीति भावः । ननु सा भवद्भिर्प्राप्येत्यत आह-बहुसस्येत्यादि । बहु सस्यं यस्य तस्मिन् पुरुषे मा[शा]लिनीं शोभायमानाम् । अत्र सस्योपलक्षणाद्धनादिकं बोध्यम् । तथा चास्माकं द्रव्येण सर्वे वशा इतीयमपि धनस्पृहया सुलभेति भावः । नन्वेवं धनस्पृहया स्वयमेव सा यास्यति किमर्थं दर्शनेन स्वानुरागप्रकटनमध्वामित्यत आह-चितामिति । अवश्यायकर्मोक्तिकोत्करैः । अवश्यो वश्य इच्छाविषयस्तद्भिन्नोऽ- निच्छाविषय इत्यर्थः । स आय एवाऽस्यको लाभोऽमूल्यमौक्तिकानीत्यर्थः । तेषामुत्करैश्चितां तदङ्गादिभूषणैः संयुक्तामित्यर्थः । तथा च साऽपि धनवती । तथास्पृहाभावा
५१४ गोलाध्याये रात्रौ । हिमोपचयाधिक्येऽपीत्यर्थः । नृणां पुरुषाणाम् । उष्मलपीनघनस्तनीभुजनिपीडनतः । उष्म० ॥ उष्णतायुक्तौ पीनौ मांसलौ पृथु घनौ निबिडौ कठिनावित्यर्थः । इभकुम्भरूपाविति फलितम् । स्तनौ वक्षोजौ यस्याः सा । तस्या युवत्या भुजाभ्यां नितरां पीडनं दृढाश्लेष- स्तेन स्वपतां निद्रादिजनितं सुप्तमिन्द्रियाणां निमीलनमित्युक्तरूपं स्वापं कुर्वताम् । हिमनाशो भवति । अनेन । मत्तेभकुम्भपरिणाहिनि कुङ्कुमाक्ते कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ इति वर्णितं ज्ञेयम् । प्रसादादिगुणाः । पूर्वार्धे यमकालंकारः । तथा च शीताधिक्यं शिशिरर्तुचिह्नं तज्ज्ञानं गृहेऽपि भवतीति भावः ॥१
: Is it: सं भ वा त्तो ऽ न्य त्र? Wait, is there an extra letter? Let's trace: प (1) र (2) म (3) ता (4) प (5) सं (6) भ (7) वा (8) त् (9) तो (10) ऽ (11) न्य (12) त्र (13) Wait! वा has a vertical bar. Then there is त्. Then तो! Wait, does it have TWO त's or ONE? वा - त् - तो - ऽ - न्य - त्र = संभवात्ततोऽन्यत्र! Wait, why did I see "संभवातत्तो"? Ah! The letter after वा is त with a horizontal bar connecting to तो? No, it's त् + तो = त्तो! Wait, look at: "वा" (v-a), then "त", then "तो"? Let's look really closely at the image: वा (vā) then a letter that looks like त then a letter that looks like तो! Wait, why does the first one have no matra and the second one has o-matra? Wait, is the first one 'त'? Yes! Is the second one 'तो'? It has an o-matra: line to the right, flag on top. Wait, is the second one 'तो' or 'त्तो'? It is 'तो
५१६ गोलाध्याये ननु कविताप्रदर्शनमेव व्यर्थं येनैतत्प्रदर्शनं युक्तं स्यादत आह—तद्विदामिति । काव्यतत्त्वज्ञानां तोषार्थमित्यर्थः । ननु काव्यज्ञानां पूर्वकाव्येनेव संतोषसद्भावात्त्वत्कृत- काव्येन तेषां तोषसंभवे मानं किमतः कविताविशेषणमाह—रसिकानामिति । काव्यरसा- भिनिविष्टानां तेषां मनोहरं कुर्वतोत्यर्थः । तथा च मनोहरवस्तुनि प्रीतिः सहजेति भावः ॥१२॥ सरसमभिलपन्ती सत्कवीनां विदग्धाऽ- नवरतरमणीया भारती कामितार्थम् । न हरति हृदयं वा कस्य सा सानुरागा नवरतरमणी या भारती कामिताऽर्थम् ॥१३॥ न भवति हृतचित्तो वाचमाकर्ण्य रम्यां परभृतसरसां ना कोऽमलां सत्कवीनाम् । सततमुपगतानां साम्बुजैर्वा पयोभिः परभृतसरसां नाकोमलां सत्कवीनाम् ॥१४॥ त्रिदिवमधरयन्तस्तीरपङ्केन नाना- रुचिरसकतया वाऽऽश्लेषिताङ्गैः सुवृत्तैः । कृतिन इह रमन्ते रम्यसारस्वतौघे रुचिरसिकतया वा इलेषिताङ्गैः सुवृत्तैः ॥१५॥ वा० भा०—कः ना नरः सत्कवीनां वाचमाकर्ण्य हृतचित्तो न भवति । किंविशिष्टाम् । अमलां निर्दूषणाम् । पुनः कथंभूताम् । सततं रम्याम् । किंवि- शिष्टाम् । परभृतसरसाम् । परभृतस्य कोकिलस्येव सरसां रसवतीम् । अथ द्वितीयोऽर्थः । के उदके वयः पक्षिणः सन्तश्च ते कवयश्च सत्कवयो हंसाद्या जल- पक्षिणः । तेषां वाचं सततं रम्यामाकर्ण्य कः ना हृतचित्तो न भवति । किंवि- शिष्टाम् । न अकोमलाम् । कोमलाम् । कथंभूतानां तेषाम् । उपगतानां तीर- विलासिनामित्यर्थः । केषाम् । परभृतसरसाम् । पराणि च तानि भृतानि पूर्णानि सरांसि । तेषां परभृतसरसाम् । कैः पयोभिः । कथंभूतैः । साम्बुजैः । अथवा । उपगतानां नगरनिकटवर्तिनां सरसां सत्कसंबन्धिनो वयः सत्कवयस्तेषाम् ।
अथ किमेवंविधयाऽत्र ग्रन्थे प्राकृतिकानां गणकानामित्याशङ्क्योच्यते । नहि मन्दार्थमेव ग्रन्थ आरभ्यत इत्याह । इह कवीनां द्वे गती । इयमियं वा । एतत्प- रोऽयं श्लोकः । रमन्ते । के । कृतिनो विद्वांसः । क्व । रम्यसारस्वतीघे । सरस्वती- नदीप्रवाहे । सरस्वत्याः सर्वगतत्वादगङ्गाद्या अपि सरस्वत्य उच्यन्ते । अत्र किंविरिशष्टा उपलक्षिताः । कैः सुवृत्तैः रम्याचारैः । पुनः कैः । आश्लेषिताङ्गैः । अवलिप्ताङ्गैः । केन । नदीतीरपङ्केन । न केवलं तेन । नानारुचिरसिकतया वा । किं कुर्वन्तः । तथा रमन्ते । अधरयन्तः । अधरीकुर्वन्तः । किम् । त्रिदिवम् । अस्मादप्युपरितनं स्थानं वाञ्छन्तः । अथ द्वितीयोऽर्थः । नानारुच्या रसिकत्वं रसिकता तयोह रम्यसारस्वतौघे वाक्यसमूहे चतुरवचननिचये कृतिनो रमन्ते । कैः कृत्वा । सुवृत्तैः श्लक्ष्णैः श्लोकैः । मालिनीप्रभृतिभिः । किंविरिशष्टैः । श्लेषिताङ्गैः । श्लेषोक्तियुक्तचरणैः । पादवृत्तिप्रभृतिभिः । किं कुर्वन्तः । त्रिदिवमधरयन्तः । त्रिदिवसुखादपि काव्यरतिसुखमधिकं मत्वेत्यर्थः । शेषं स्पष्टम् ॥१३॥१४॥१५॥ इति श्रीभास्करोये सिद्धान्तशिरोमणिवासनाभाष्ये गोलाध्याये मिताक्षरे ऋतुवर्णनं मरीचिः—ननु कथिताया मनोहरत्वं कथमित्यतो मालिन्याऽऽह—सरसमभिलपन्तीति । सत्कवीनां लक्षणलक्षितकाव्यनिर्मापिकानां भारती काव्यसंबन्धिनी वाणी का कतमा कस्य कतमस्य हृदयं मनः कामितार्थं सादरश्रवणनिमित्तं न हरति । काव्यवर्णनकारास्तेषां सर्वा अपि वाण्यः सर्वेषां मनो हरन्तीत्यर्थः । ननु कुतो हरतीत्यत आह—अनवरतरमणी- येति । नित्यं सुन्दरीत्यर्थः । तथा च मनोहरत्वं सुन्दरवस्तुनः स्वतः सिद्धमिति भावः । नन्वनवरतरमणीयैव कुत इत्यत आह—विदग्धेति । चतुरा । तथा च चतुरायास्तथात्वं साहजिकमिति भावः । ननु चतुरात्वमपि कुत इत्यत आह—अमितार्थं लपन्तीति । अमितार्थम् । वाच्य- लक्ष्यव्यङ्ग्यभेदेन । लक्षणाया अगूढव्यङ्ग्यगूढव्यङ्ग्यभेदात्सव्यङ्ग्याया अपि शुद्धागौण्योर्भ्यां भेदाच्छुद्धायाश्चजहत्स्वार्थाजहत्स्वार्थासारोपासाध्यवसानेति चतुर्भेदाद्गौण्याश्च सारोपा- साध्यवसानाभ्यां भेदाच्च सप्त भेदाः । ध्वनेरप्यविवक्षितवाच्यविवक्षितान्यपरवाच्यरूप- लक्षणाूलाभिधामूलाभ्यां द्वौ भेदौ लक्षणाूलोऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृत- वाच्याभ्यां द्विधा । अभिधामूलोऽप्यसंलक्ष्यक्रमव्यङ्ग्यलक्ष्यक्रमव्यङ्ग्यचक्रमाभ्यां द्विधेति चत्वारो भेदाः । एवमसंलक्ष्यक्रमो रसभावादिभेदेन संलक्ष्यक्रमोऽप्यलंकारवस्तुभेदेनानन्तः । एवं लक्षणोदाहरणानि काव्यप्रकाशे । विस्तरभीत्याऽत्र नोक्तानि । एवमसंख्यमर्थमित्यर्थः । अभिलपन्तीव सर्वतः प्रतिपदं वदन्तीत्यर्थः । तथा च चतुरात्वं सिद्धमिति भावः ।
५१८ गोलाध्याये नन्वमितार्थलपनेऽपि चमत्काराभावान्न चतुरात्वमित्यतोऽर्थविशेषणमाह—सरसमिति । वासनाविशेषवतां सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको भावः पौनःपुन्येन रत्यादिभिः समं गृहीतकार्यकारणभावसंबन्धैर्विभावादिभिः परिहृतविशेषैः संबन्धविशेष- स्वीकारपरिहारनियमावसायादसाधारन्येन प्रतीर्त नियतप्रमातृगतत्वेन स्थितोऽपि साधारणो- पायबलात्साधारण्यमुपगच्छन्विद्वात्मना सहाभिव्यक्तस्तत्कालोल्लसच्चर्यमाणानेकप्राणो विभा- वादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्र्फुरन्हृदयमिव प्रविशन्सर्वा- ङ्गीणमिवालिङ्गन्नन्यत्सर्वमेव तिरोदधद्ब्रह्मानन्दसहोदरोऽलौकिकचमत्कारकारी शृङ्गारा- दिको रस इति काव्यप्रकाशनिरुक्तः । तेन सहितमित्यर्थः । तथा च सरसार्थलपने चमत्कारः स्वतः सिद्धोऽत एव— रसोऽभिमानोऽहंकारः शृङ्गार इति गीयते । योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥ इत्युक्तमिति भावः । ननु रसिकानां बिना कान्तामन्यन्मनोहरं न भवतीत्यतः संशयालंकारद्योतकं पक्षान्तर- माह–वेति । अथवा सा कान्ता भारती भरतसंबन्धिनी नर्तकस्त्री कामितार्थं सुरतोत्सव- निमित्तं कस्य हृदयं न हरत्यपि तु सर्वपुरुषाणां मनो हरति । ननु तेषां तदभिलाषे मनोहरं संभवत्यतस्तस्यां तदनभिलाषे मनोहरं कथं संभवतीत्यत आह–सानुरागेति । लज्जां न धत्तेऽभिमुखं च पश्येत्पादेन भूमिं विलिखेत्स्थिता च । व्यनक्ति गात्रं कुरुते च हास्यं दृष्ट्वा कटाक्षं नयने विदध्यात् ॥ पृष्टा स्फुटं सस्मितमेव वाक्यं शनैर्व्रजेच्चानुसरेद्व्रजन्तम् । विलोक्य तं व्याजकथाप्रसङ्गादुच्चैर्वदेत्स्वं परिदर्शयन्ती ॥ तन्मित्रवर्गे प्रणयं विदध्यादित्यादिवातार्मसकृच्च पृच्छेत् । कति स्त्रियोऽस्याऽऽलयगाः सुरूपाः कस्यामयं प्रेम भृशं विधत्ते ॥ मृद्गा(दना)ति दृष्ट्वा स्वकुचं करेण संस्फोटयेदङ्गुलिकाः सुजृम्भम् । भूषाविहीना न ददाति तस्मै स्वदर्शनं याचितमप्यजस्रम् ॥ पुष्पादिना हन्ति तथाऽतितारं संकाशयेन्मार्ष्टि भुजं करेण । व्याजेन गच्छेत्सदनं कराङ्घ्रिवक्त्रेषु घर्माम्बु वहद्विलोक्य ॥ इत्यादिचिह्नैरनुरागयुक्ता ज्ञेया विदग्धा मृगशावकाक्षी । इत्युक्तानुरागयुक्तेत्यर्थः । तथा च— आभङ्गुराग्रबहुगुणदीर्घा स्वादप्रदा प्रियादृष्टिः ॥ कर्षति मनो मदीयं हृदमीतं बडिशरज्जुरिव । क्लेशयसि किमिति दूति यदशक्यं सुमुखि तव कटाक्षेण ॥
ऋतुवर्णनाध्यायः ५१९
कामोऽपि तत्र सायकमकीर्तिशङ्की न संधत्ते । इति कटाक्षमात्रेणैव तद्वश्यत्वसंभवात्तदनुरागेण च सुतरां पुरुषाणां मनोहरं भवतीति भावः । ननु विवृद्धानुरागादपि पुरुषाणां तस्यां नानुराग इत्यत आह—नवरतरमणीयेति । नवरतेन प्रथमसंजातसुरतोत्सवेन रम्येत्यर्थः । नवरतार्थं योग्या वा । तथा च यौवनार- म्भादस्यां पुरुषानुरागः स्वत एव तदनुरागाच्च सुतरामिति भावः । अथ रसिकानां द्वे अपि भारती(त्यौ) मनोहरे इत्युक्त्या द्वयोर्भारत्योः संशयालंका- रात्सा दृश्यप्रतीतेस्तयोः स्वसंबन्धिविशेषणानि परस्परं विशेषणतया व्याख्यायन्ते । वाणी । सानुरागा । त्वमग्रतः संचर चञ्चलाक्षि त्वमेव जीवेश्वर निःसराग्रे । इति ब्रुवन्वेश्मनि वह्निदीप्ते मिथोऽनुरागान्मिथुनं विपन्नम् ।। इत्याद्यनुरागवर्णनयुक्त्या अनुरागे दग्धत्वमप्यनुचितं नेति सूचकं विदग्धपदमत्रा- मङ्गलमप्यदुष्टमिति ध्येयम् । नवरतरमणीया । उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा । धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः । शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु । इत्यादिनूतनसुरतवर्णनेन रम्येत्यर्थः । नर्तकस्त्री । विदग्धा नवरतरमणीया । रसि- कानां नित्यं सुन्दरी । अविदग्धस्य तु । क्रीडासु सब्रीडमहो विलासान्नीवीनिरोधे निहितं मृगाक्ष्याः । कराम्बुजं वीक्ष्य पतिः सरोषाद्ददौ ललाटे सुदृशश्चपेटाम् ।। इति रसभङ्गकृत्त्वात् । अत्र हेतुगर्भविशेषणं—सरसममितार्थं लपन्तीति । तथा च काव्यं कान्तातुल्यतया रसिकानां मनोहरम् । रतरीतिवीतवसना प्रियेव शुद्धैव वाङ्मुदे सरसा । अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ इत्युक्तेश्चेति भावः । अत्र प्रसादमाधुर्यादिगुणाः । शृङ्गारो रसः । पादयमकालंकारः ॥१३॥ ननु कविसरस्वत्या अपकृष्टनर्तकस्त्रीसाम्यं वह्निस्फुलिङ्ग इव भानुरयं चकास्तीतिबद- युक्तमित्यस्वरसात्प्रकारान्तरेण कविवाण्या मनोहरत्वं मालिन्या प्रतिपादयति—न भवतीति । सत्कवीनां वाचं काव्यसंबन्धिनीमाकर्ण्य सादरं श्रुत्वा सततं नित्यं कः कतमो ना पुरुष- स्तत्त्वज्ञो हृतचित्तो हृतं चित्तं यस्यैतादृशो न भवतीति काक्वा तत्सक्तान्तःकरणा व्यापारा- न्तरशून्याः सर्वेऽपि भवन्तीत्यर्थः । कुत इत्यत आह—रम्यामिति । श्रवणद्वाराऽऽत्मनः सुखहेतुभूताम् । यद्वाऽलंकारैर्भूषितया रम्यामतो मनोहरामिति भावः ।
५२० गोलाध्याये नन्वरसा सालंकृतिरपि न रोचते इत्यतो रम्यत्वे हेतुं वाग्विशेषणमाह—परभृतसर- सामिति। परभृताः कोकिलास्तदपेक्षया सरसां रसवतीम्। कोकिलवागपेक्षयाऽप्यति- मधुराभित्यर्थः। तथा माधुर्यादिगुणाश्रयरसवत्तया मनोहरेति भावः। अत्र परभृतेत्यनेन स्वत उदरपोषणेऽतिचिन्तया सुखाभावः। पित्रादिभिः पोषणे च चिन्ताया असंभावात्सुखा- धिक्यम्। अत एव— जीवत्सु तातपादेषु नवे दारपरिग्रहे। मातृभिः पाल्यमानानां ते हि नो दिवसा गता॥ इत्युक्तिरिति ध्येयम्। ननु तथाऽपि दुष्टं पदं श्रुतिकट्वित्यादिदूषणैः सरसाऽपि न मनो हरतीत्यत आह— अमलामिति। उक्तदोषरहिताम्। तथा च कोकिलवाण्यां यथा दोषादर्शनं तथाऽत्रापि तदभाव इति भावः। अथात्र संशयालंकारद्योतनार्थं पक्षान्तरमाह—उपगतानामिति। वा पक्षान्तरे। सकवीनाम्। के उदके वयः पक्षिणः। सन्तश्च ते कवयश्च सत्कवयो हंसाद्या जलपक्षिणः। तेसां वाचमाकर्ण्य को नरः सततं प्रत्यहं हृतचित्तो न भवत्यपि तु सर्व एव भवतीत्यर्थः। पूर्वोक्तविशेषणान्यत्रापि तुल्यान्येवेति ध्येयम्। अत एव नाकोमलाम्। न अकोमलां कोमलामित्यर्थः। इदं विशेषणं कोमलवर्णयुक्तामित्यर्थेन रम्यहेतुगर्भं कविवाचोऽपि ध्येयम्। ननु हंसानां तादृशी वाणी कथं संभवति। चूताद्यङ्कुरभक्षणासंभवादित्यतस्तेषां विशेषणमाह—उपगतानामिति। पयोभिर्जलैः। परभृतसरसाम्। परमुरुष्टं भृतानि पूर्णानि सरांसि सरोवराणि तेषामुपगतानां तीरनिवासिनामित्यर्थः। जलपक्षित्वेनैवैतत्सिद्धे- स्तुदुपदानं पुनर्व्यर्थमपि कर्णावतंसादिपदे कर्णादिध्वनिनिमितसंनिधानादिबोधाय स्थिते- [L
ऋतुवर्णनाध्यायः ५२१ सत्कविरसुनाशूर्णी निस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाऽऽद्रियते का सुधादासी ॥ इत्युक्त्यैव निरस्तमिति भावः । प्रसादमाधुर्यादिगुणाः । चरणयमकालंकारः ॥१४॥ ननु काव्यज्ञप्रीत्यर्थं कविताप्रदर्शनमत्र सिद्धान्तशिरोमणिग्रन्थे न युक्तं काव्यज्ञानाम- त्राप्रवृत्तेः । केवलगणकानां काव्यज्ञत्वाभावात्तत्प्रीत्यनुपपत्तेश्च कविताप्रदर्शनं व्यर्थमेवेत्यतो मालिन्याऽऽह-त्रिदिवमिति । कृतिनः । ज्योतिःशास्त्रसिद्धान्तकाव्यज्ञाः । इहास्मिन्ग्रन्थे । रम्यसारस्वतोघे । रम्या प्रागुक्तस्वरूपवती वाणी । तस्या ओघे समूहे । एकदेशे काव्यसंबन्धेन संपूर्णग्रन्थे तथात्वा- भिमानात् । सुवृत्तैः । मालिनीवसन्ततिलकाशालिनीप्रभृतिभिः । अङ्गैः सुवृत्तप्रतिवृत्तनीचो- च्चवृत्तादिच्छेदवृत्तैरुपपत्तिबोधकैः सुनिर्मितैस्तेषामाभासे सम्यगुपपत्तिज्ञानाभावात् । वा समुच्चयार्थकश्चपरः । रमन्ते क्रीडन्ते । ननु सुच्छन्दसां सत्त्वेऽपि गणितगोलादौ नीरसत्वेन कथं रमण
५२२ गोलाध्याये मृत्तिकाबालुकाघटितैरिति भावः । यद्वा वृत्तैः प्रत्येकं रमन्ते । तत्र श्लेषिताङ्गैर्मल्लयु- द्धैरिति । ननु सत्कर्माचरणं तदङ्गानाचरणादफलमित्यत आह—रुचिरसिकयेति । रुचिरुक्त- कर्माचरणाभिलाषस्तया रसिकता निरालस्येन यावद्विहितकर्मानुष्ठातृत्वं तेनेत्यर्थः । आश्ले- षिताङ्गैः । संबद्धानि अङ्गानि येषां तैरित्यर्थः । तथा च साङ्गकर्मानुष्ठानमालस्याभावा- त्तत्सक्तान्तःकरणाच्च भवत्येवेति भावः । ननु सत्कर्माचरणाद्गङ्गासेवनाच्च फलयोर्भेदात्कस्य फलं भवतीत्यत आह— त्रिदिव- मिति । स्वर्गं तत्फलं तिरस्कुर्वन्तः । ततोऽप्युत्कृष्टफलमिच्छन्तः । तथा च ब्रह्मानन्दा- वाप्तिरूपमोक्षः फलमुभयोर्न तुच्छमिति भावः । अत्र श्लेषार्थेन ग्रन्थस्य गङ्गातुल्यताप्रती
ऋतुवर्णनाध्यायः ५२३ केदारदत्तः—यन्त्राध्याय के श्लोक ३६ में आचार्य ने यन्त्रों और गणित की युक्तियों से स्पष्ट सूर्य का भुजांश ज्ञान किया है । स्पष्ट है कि एक सौर वर्ष में, मेषादि राशित्रय से....कर्कादि, तुलादि....मकरादि....तीन तीन राशियों की स्पष्टसूर्य की स्थिति में वर्षके चार ४ समयों में भुजांशों की एकता होती है तो, आगत सूर्य भुजांश से, सूर्यस्पष्ट की कालस्थिति क्या है ? यह ज्ञान कैसे होगा ? तो आचार्य ने प्रकृति लक्षणों के अनुसार ऋतुओं के ज्ञान के आधार से साधित सूर्य भुजांश से मेषादि मीन पर्यन्त रवि स्पष्ट ज्ञान का समीचीन उपाय बताया है कि वसन्त, ग्रीष्म, वर्षा, शरद, शिशिर और हेमन्त इन ऋतुओं का प्रत्येक ऋतु का वर्ष में दो-दो मास के लिये आगमन होता है, अतएव खगोलज्ञ गणक ने ऋतुओं की प्राकृतिक उपलब्ध प्रत्यक्ष स्थिति से स्पष्ट रवि की राश्यादि का ज्ञान कर लेना चाहिए । क्योंकि मकर कुम्भ के सूर्य में शिशिर, मीन मेष के सूर्य में बसन्त, वृष, मिथुन सूर्य में ग्रीष्म, कर्क-सिंह के सूर्य में वर्षा और कन्या तुला के सूर्य में शरद ऋतु होती है । खगोलग्रहगणित मर्मज्ञ होते हुये भी अलङ्कार शास्त्र के अपने प्रौढ़ पाण्डित्य परिचय के लिये आचार्य ने— ‘“ऋतुचिह्नैर्ज्ञानं स्यादृतुचिह्नानि अग्रे वक्ष्ये’’ इत्यादि से आचार्य ने इस अवसर पर, वसन्तादि ६ ऋतुओं का वर्णन करते हुये ब्रह्म- रसास्वादप्रद-ग्रहगणितगोलशास्त्र के साथ अलङ्कारादि अनेक शास्त्र ज्ञान का अर्थात् सर्व शास्त्रज्ञता का परिचय दिया है । ऋतु वर्णनों में अद्यावधि विद्वानों की लेखनी निरन्तर चल रही है चलती रहेंगी । प्रकृत विषय से ऋतुवर्णन का कोई सम्बन्ध नहीं है, ग्रन्थ विस्तार भय और समय की न्यूनता से तथा यहाँ पर इस विषय की अनावश्यकता वश इसका हिन्दो व्याख्यान नहीं किया जा रहा है । तथा संस्कृत के मरीचि भाष्य से, जो इस सम्बन्ध का यहाँ दिया जा रहा है इससे ही अलङ्कार शास्त्रज्ञों की मनस्तुष्टि अवश्य होगी जो पर्याप्त है । १३।१४।१५॥ इति सिद्धान्त शिरोमणि ग्रहगोलाध्याय के ऋतुवर्णनाध्यायः १२ की श्री पंडित हरिदत्त ज्योतिर्विदात्मज पर्वतीय श्री केदारदत्त जोशी कृत सोप- पत्तिक "केदारदत्तः" हिन्दी व्याख्यान सम्पन्न ।
अथ प्रश्नाध्यायः । अथ प्रश्नाध्यायो व्याख्यायते । तत्राऽऽदौ तदारम्भप्रयोजनं तत्प्रशंसां चाऽऽह— प्रौढिं प्रौढसभासु नैति गणकः प्रश्नैर्विना प्रायशो- त्स्तां वच्मि विचित्रभङ्गिचतुरप्रीतिप्रदानाय यान् । आकर्ण्यापि सुवर्णवर्णवदनं वैवर्ण्यमेति क्षणात् तस्याखर्वकुगर्वपर्वतशिरःप्रौढचाऽधिरूढोऽत्र यः ॥ १ ॥ पाट्या च बीजेन च कुट्टकेन वर्गप्रकृत्या च तथोत्तराणि । गोलेन यन्त्रैः कथितानि तेषां बालावबोधे कतिचिच्च वच्मि ॥२॥ वा० भा०—स्पष्टार्थम् ॥१॥२॥ मरीचिः—अथोद्दिष्टसिद्धान्तपदार्थविशिष्टप्रश्नाध्याय आरब्धो व्याख्यायते । तत्र तदारम्भं सप्रयोजनं शार्दूलविक्रीडितेन प्रतिजानीते—प्रौढिं प्रौढसभास्विति । अतोऽस्मात्कारणात् । तान् प्रश्नान् । व
न्यम् । अप्रतिभम् । एति प्राप्नोति । अपिशब्दात्काव्याद्यर्थश्रवणेन सुखानुभवादधिकं प्रफुल्लितं मुखं भवत्यत्र तु विपरीतमित्याश्चर्यं सूचितम् । तथा च प्रश्नश्रवणेनान्येषाम- प्रतिभात्वसंभवादर्थसिद्धा स्वप्रौढिरिति भावः । ननु प्रश्नश्रोतुः पूर्वोक्तज्ञानाभावाद्ध्रुवमेवाप्रतिभत्वमिति नैतावता प्रौढिसिद्धिर- तस्तस्येत्यस्यापेक्षितमाह—अखर्वेत्यादि । यः श्रोता । अत्र पूर्वोक्तग्रन्थे । अखर्वकुगर्वपर्वत- शिरः । प्रौढ्या । अखर्वो दीर्घो यः कुगर्वः कुत्सितगर्वः । महत्त्वारसिकत्वात् । स एव पर्वतस्तस्य शिरस्युपरि प्रकर्षेणोढिरारोहणं तया । अधिरूढः । अधिकमत्यन्तं प्रसिद्धः । तथा च परः पूर्वोक्तग्रन्थतत्त्वज्ञानेऽप्यप्रतिभः प्रश्नश्रवणाद्भवतीति स्वप्रौढिः सिद्धेति भावः ॥१॥ ननु पूर्वं प्रश्नात्रया (श्ना
भवेत्स गुणकः कुट्टक इति पूर्वेषां व्यपदेशात् । तत्प्रकारेणेत्यर्थः । चः पूर्वार्थपरः । यद्यपि पाटीबीजयोः कुट्टकनिरूपणात्कुट्टकेनेति पृथगुद्देशोऽनुपपन्नस्तथाऽपि तन्निरपेक्षेणापि कुट्टकस्य प्रधानतया प्रश्नोत्तरसाधकत्वात्पृथगुद्देशः । वर्गप्रकृत्या । वर्गप्रकृतिप्रकारेणेत्यर्थः । चः पूर्वार्थपरः । अस्या अपि पृथगुद्देशः प्रधानतया प्रश्नोत्तरसाधकत्वात् । पूर्वैराचार्यैः । आर्यब्रह्मगुप्तादिभिः । कथितानि । गोलेन । गोलस्थितिज्ञानेन । यन्त्रैः प्रागुक्तैः । तथा कथितानीत्यर्थः । तथा च प्रश्नोत्तरा- णामुक्तषट्प्रकारान्यतमरीत्या संभवात्कल्पकत्वं संभवत्येवेति भावः । गोलेन यन्त्रैरित्यनेनोद्देशक्रमेण प्रश्नोत्तरकथने गोलयन्त्राभ्यामुत्तरदानमशक्यम् । पूर्वं तदज्ञानादिति यन्त्रनिरूपणानन्तरं प्रश्नाध्यायकथनं युक्ततरमिति सूचितम् । एतेन प्रश्नाध्यायः पूर्वग्रन्थसिद्धो न मत्कल्पित इत्यपि सूचितम् । अत्राध्याये उत्तरकथनेऽपि न सोत्तरप्रश्नाध्यायत्वं किन्तूत्तराणामपि प्रश्नसापेक्षत्वात्प्रश्नाध्यायत्वं प्राधान्यादिति ध्येयम् ॥२॥ **केदारदत्तः—**प्रश्नाध्याय का व्याख्यान तथा प्रयोजन कहा जा रहा है— कोई भी गणक, गोलगणिततत्त्वज्ञ ज्योतिर्विदों के समाज में, गणित ग्रहगोल सम्बन्धी प्रश्नों के बिना उत्कृष्ट तत्वार्थज्ञता की पदवी नहीं प्राप्त कर सकता है । अतएव नाना प्रकार की चातुर्यकला में चतुर विद्वानों की प्रीति प्रदान के लिये तथा जिन गणितज्ञों की दीर्घकालीन कुत्सित गर्व (अहंकार) रूपी पर्वत की चोटी आरोहण में प्राप्त प्रसिद्धि भी जिन प्रश्नों के श्रवण मात्र से ही सुवर्णवर्णवत् वदन के ज्योतिषी गणों की आकृति भी क्षण भर के लिये विकृत सी हो जाती है उस प्रश्नाध्याय का व्याख्यान आचार्य से हो रहा है ॥१॥ पाटीगणित (अंकगणित) और बीजगणित में वर्णित, प्रसिद्ध कुट्टक व वर्ग प्रकृति सदृश श्रेष्ठ गणितों से महाप्रश्नों के आधार से तथा ग्रहगोल वर्णित अनेकों यन्त्रों के आधार से बाल जनों के बोध के लिये (बालजन का अर्थ अवस्था से बाल्यता नहीं, अर्थात् जो अवस्था सम्पन्न युवक या वृद्ध भी इस विषय को नहीं जानता वह सभी बाल शब्द से उच्चरित होते हैं ऐसा शास्त्रज्ञों का मत है ।) (अनधीत शास्त्रम्–बालः) आचार्य स्वयं यहाँ पर प्रश्नाध्याय के कुछ प्रश्नों का व्याख्यान करने जा रहे हैं ॥२॥ अथ बुद्धिमतः प्रशंसामाह— अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः । किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते ॥३॥ वर्गं वर्गपदं घनं घनपदं संत्यज्य यद्गण्यते तत्तैराशिकमेव भेदबहुलं नान्यत्ततो विद्यते ।
प्रश्नाध्यायः ५२७ एतद्यद्बहुधाऽस्मदादिजडधीधीवृद्धिलुब्धया बुधै- र्विद्वच्चक्रचकोरचारुमतिभिः पाटीति तन्निर्मितम् ॥४॥ नैव वर्णात्मकं बीजं न बीजानि पृथक् पृथक् । एकमेव मतिर्बीजमनल्पा कल्पना यतः ॥५॥ वा० भा०—स्पष्टार्थम् ॥३॥४॥५॥ मरीचिः—ननु सुबुद्धीनामपि प्रश्नोत्तररीत्यवगमं विनोत्तरकल्पकत्वं न संभवतीति पूर्वं बालेति किमर्थमुक्तमित्यतोऽनुष्टुभा पूर्वप्रतिज्ञां समर्थयति—अस्ति त्रैराशिकमिति । अतः कारणात् । मन्दार्थं प्रश्नोत्तरज्ञाननिमित्तमुत्तरं मयोच्यते । कथ्यते । अतः कुत इत्यत आह—किमिति । सुबुद्धीनामज्ञातं ज्ञानविषयं किमस्ति येन तदर्थमपि कथनमावश्यकं स्यात् । अपि तु तेषां ज्ञानाविषयं न किमप्यस्ति । तेषां सर्वज्ञानविषयकल्पकत्वात् । अतस्तेषां स्वत एव प्रश्नोत्तरज्ञानसंभवात्तन्निमित्तमुत्तरकथनं व्यर्थमेवेति भावः । ननु सुबुद्धीनामुत्तरज्ञानं स्वतः कुतः संभवतीत्यतः पाटीबीजयोरुत्तरसाधकयोः स्वरूप- माह—अस्तीति । त्रैराशिकम् । प्रमाणमिच्छा च समानजातीत्याद्युक्तं त्रैराशिकगणितम् : पाटी । अस्ति । वर्तते । मतिर्बुद्धिर्बीजम् । चकारादस्तीत्यर्थः । ननु दोषांशयुक्तया बुद्ध्या कार्यं न निर्वहतीति साधारण्येन बुद्धिः कथं बीजमुक्तमित्यतो मतिविशेषणमाह—विमलेति । विगतो मलो दोषांशो यस्याः सा शुद्धा बुद्धिरित्यर्थः । एतेन कुट्टकादीनामपि बीजत्वेन ग्रहस्तेषामपि बुद्धिगम्यत्वादिति सूचितम् । तथा च सुबुद्धीनां स्वतो विमलबुद्ध्या कल्पनासामर्थ्यात्त्रैराशिकावगमाच्च गणि- तकल्पनासंभवात्प्रश्नोत्तरज्ञानं संभवतीति भावः । अतो बालावबोधे कतिचिच्च वच्मीति प्राक्प्रतिज्ञातं नासंगतमिति सिद्धम् । केचित्त 'ननु सूर्यादिप्रणीतशास्त्रेषु कथं पाटीबीजगणिते नोक्ते । मनुष्यकृतौ कथं तत्प्रतिपादनमित्यत आह—किमज्ञातमित्यादि । मयासुरप्रभृतीनां सुबुद्धीनां किं नामाज्ञात- मस्ति पाटीकुट्टकवर्गप्रकृतिबीजप्रतिपाद्यविषयेषु । अतस्त्वार्यसिद्धान्तेषु तानि न प्रतिपादि- तानि । तन्मूलोत्तरप्रश्नाप्रतिपादनं च । मनुष्यास्तदपेक्षया मन्दबुद्धयोऽतस्तद्बुद्धिविवृद्धये पाटीबीजगणिताद्य मुच्यते' इत्याहुः । तदसत् । सूर्याद्यार्षसिद्धान्तप्रसङ्गस्याप्रकृतत्वात्प्रतिज्ञातायारेत्राप्रतिपादनाच्च । मनु- ष्याणां मन्दत्वेनाभ्युपगमात्तदर्थं तत्कथकस्याऽऽर्षकथकं विनाऽप्रसिद्धेश्च । पूर्वार्धोक्तस्वरूपयोः पाटीबीजयोः सूर्यसिद्धान्तादौ सत्त्वेनोत्तरार्धभासस्यासंगतत्वाच्चेति ॥३॥ ननु परिकर्मविंशतिं यः संकलिताद्यां पृथग्विजानाति । अष्टौ च व्यवहारान्छायान्तान्भवति गणकः सः ॥
इति ब्रह्मगुप्तोक्तपाटीलक्षणादस्ति त्रैराशिकं पाटीति लक्षणमयुक्तं विरुद्धत्वात् । अन्यथोक्त- कारेण पाट्यध्यायनिरूपणानुपपत्तेरित्यतः शार्दूलविक्रीडितवृत्तेनाऽऽह-वर्गं वर्गपदमिति । वर्गम् । समद्विधारूपं गुणनम् । वर्गपदम् । कस्यायं समद्विघात इति वर्गमूलं गृह्यते । घनम् । समानां त्रयाणां गुणनम् । घनपदं कस्यायं समत्रिघात इति घनमूलं गृह्यते । इदं चतुष्टयं संत्यज्य सम्यक्प्रकारेण त्यक्त्वा । यत्किंचिद्यद्गण्यते गणितं क्रियते तद्गणितं त्रैराशिकम् । त्रैराशिकात्मकं यद्गणितं वर्गादिचतुष्टयान्यतमासंबद्धं तत्तैराशिकात्मकं भवतीत्यर्थः । एवकारात्त्रैराशिकानन्तर्गततया भासमानमपि तत्तदतिरिक्तं नेत्यर्थः । ननु प्रमाणमिच्छेत्याद्युक्तत्रैराशिकस्वरूपादर्शनेन कथं तादृशं गणितं त्रैराशिकमित्यतस्त्रै- राशिकविशेषणमाह -
प्रश्नाध्यायः ५२९ प्रसिद्धेः । तेभ्यश्चाहः सुन्दरी मतिर्बुद्धिर्येषां ते तद्बुद्ध्यधिकबुद्धयः । अतिसुज्ञाधिकश्रेष्ठाः पण्डिता इत्यर्थः । चक्रेत्यत्र चन्द्रेति क्वचित्पाठे विद्वांसः सूर्याद्यार्षास्ते च ते चन्द्रास्तेषां चकोराश्चाह- मतयो येषां ते । यथा चकोरैश्चन्द्रकिरणाः पीयन्ते तथा ब्रह्मगुप्तादिबुद्धिभिः सूर्याद्यार्ष- ज्ञानांशाः पीयन्ते इत्यर्थः । तथा च बुधैरार्षग्रन्थेषु तद्भेदाभिप्रायं ज्ञात्वा मन्दबुद्धयर्थं तद्विवरणं पाटीरूपं कृतमिति भावः ॥४॥ ननु बुद्धिर्बीजं तर्हि वर्णात्मकं चतुर्भेदं कथं बीजं निरूपितमित्यतोऽनुष्टुभाऽऽह—नैव वर्णात्मकमिति । वर्णात्मकं यावत्तावत्कालकनीलकादिवर्णाभिन्नमेकं बीजं नास्ति । एवकाराद्वर्णत्वेन प्रतिपादितमपि तत्त्वतया न ज्ञेयमित्यर्थः । अथ तद्भेदानपि खण्डयति-नेत्यादि । पृथक्पृथ- ग्भिन्नं भिन्नं बीजानि । एकवर्णोनेकवर्णतन्मध्यमाहरणभावितात्मकानि चत्वारि न सन्ति । तर्हि बीजं किमित्यत आह—एकमिति । मतिः शुद्धा बुद्धिर्बीजम् । एकं मुख्यम् । एक- संख्याकं च । एवकाराद्वीजस्य चातुर्विध्यप्रतिपादनेऽपि तत्त्वतया तन्नावधेयमित्यर्थः । अत्र हेतुमाह—अनल्पेति । यतो हेतोः कल्पना बुद्धिकल्पना । अनल्पा । अनन्ता । तथा च तच्चातुर्विध्यप्रतिपादनं बुद्धिकल्पनया कृतमेवं बुद्ध्या तदुक्तातिरिक्तकल्पनाऽपि संभवतीत्यनेकबीजोपाधिसंभवान्निरूपितं बीजं कल्पनाप्रकाररीतिद्योतकं न तद्रूपमिति भावः ॥५॥ केदारदत्तः—बुद्धिमान् मानव प्रशंसनीय है— त्रैराशिक गणित अर्थात् आनुपातीय राशि गणित को अंकगणित या पाटी गणित कहते हैं । सूक्ष्म से सूक्ष्म और स्वच्छ से स्वच्छ बुद्धि का नाम बीजगणित कहा गया है । बुद्धिमान् के लिये कोई वस्तु अज्ञात नहीं है वह सब कुछ सूक्ष्म से सूक्ष्म विषय को बुद्धिगत कर लेता है । किन्तु विश्व में सभी बुद्धिमान् ही नहीं होते मन्द बुद्धि के लिये ही सभी विषयों को ग्रन्थ रूप में बताया जाता है । सद्बुद्धि स्वयं ग्रन्थ है । वर्ग, वर्गमूल, घन, और घनमूल इत्यादि इन गणितीय विषय चतुष्टय को छोड़कर अन्य सारा अनेक भेद युक्त गणित तो त्रैराशिकगणित विद्या पर अवलम्बित है । त्रैराशिक से इतर और कोई अन्य गणित गणित नहीं है । अस्मदादि मूर्खबुद्धि के सदृश मानव के बुद्धि विवर्धन के लिये सूर्यसिद्धान्तादिक आर्षग्रन्थ हैं हीं, चन्द्रचकोर मतिमान् मानवके लिये यहाँ प्रश्नाध्याय का व्याख्यान किया जा रहा है । ३४