सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
३४० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
शुष्यत्स्रोतसि तप्तभूमिरजसि ज्वालायमानार्णसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ १२७ ॥ वाताकीर्ण- विशीर्णवीरणातृणश्रेणीझणत्कारिणि ग्रीष्मे सोष्मणि चण्ड- सूर्यकिरणप्रकाश्यमानाम्र्भसि । वित्तारोपितकामिनीमुखशशि- ज्योत्स्नाहृतक्लान्तयो मध्याह्नेऽपि सुखं प्रयान्ति पथिका स्वं देशमुत्कण्ठिताः ॥ १२८ ॥ ग्रीष्मोष्मप्लुषशुष्यत्ययसि बक- मयोद्धान्तपाठीनभाजि प्राय पङ्कमात्र गतवति सरसि स्वल्पतोये लुटित्वा । कृत्वा कृत्वा जलाद्रीकृतमुरसि जरत्कर्- पार्थ प्रपाया तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्व न्पिपासु ॥ १२९॥ भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्र- भ्रमुक्तस्रोत पूर्णेप्रणालीपथसरणिगिरासारि सीत्कारि वारि । कौप पान्था प्रकाम शितमणिमुसलाकाग्विसंफारधार विक्षि- क्षुण्णमुक्ताकणनिकरनिभासारपातं पिबन्ति ॥ १३० ॥
वर्षावर्णनम्
चलद्बलाकादशनाभिरामः परिस्रवद्वारिमदाम्बुधार । आहन्यमानस्तडिदङ्कुशेन खरस्य दध्वान घनाद्विपेन्द्रः ॥ १ ॥ या कामिनी सा यदि मानिनी स्यात्खरस्य राज्ञो ह्यपराधिनी स्यात् । इतीव दण्डै. किमु ताड्यतेऽसौ कादम्बिनी काम- नृपस्य ढक्का ॥ २ ॥ वन्द्रबिम्ब्रविविम्ब्रतारकामण्डनानि घनमेघडम्बरै । भक्षितानि जलदोदरेषु तद्रोदनध्वनिरिवैष गर्जितम् ॥ ३ ॥ निद्रितस्य बत शम्बरद्विषो जागराय किमु वारिवाहक । ऊर्जितं दधदतीव गर्जितं सन्नमन्नभसि सन्नमाद्यधौ ॥ ४ ॥
वर्षासमयस्वभावाख्यानम्
शीतलादिव सत्रस्तं प्रावृषेण्यान्नभस्ततः । नभो बभार नीरन्ध्रं जीमूतकुलकम्बलम् ॥ ५ ॥ स्फुरन्तः पिङ्गलाभासो धरण्यामिन्द्रगोपकाः । सरक्तवान्तपान्थस्त्रीजीवा इव चका- शिरे ॥ ६ ॥ पतृत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्त¹ कृतान्तो वा दुखस्यान्तं करिष्यति ॥ ७ ॥ उत्कण्ठयति मेधाना माला वर्गं कैलापिनाम्² । यूना चोत्कण्ठ- यत्यद्य मानस मकरध्वजः ॥ ८ ॥ अस्थिरमनेकरागं गुणरहितं नित्यदुष्प्रापम् । प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्त- मिव ॥९॥ नन्दयति कस्य न मनश्चपलैर्वनधूलिधूसरच्छायैः । आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः ॥ १०॥ आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः । दिशि दिशि नीर- तरङ्गो नीरतरङ्गो³ ममापि हृद्येशः ॥ ११ ॥ गर्जति वारिद- पटले वर्षति नयनारविन्दमबलायाः । भुजवल्लिमूलसेके विरहलता पल्लवं सूते ॥ १२ ॥ अतिशयितकदम्बोऽथ मोदकदम्बानिलो वहति । वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयित ॥ १३ ॥ शमयति जलधरधारा चातकयूना तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना प्रवासरुचिम् ॥ १४ ॥ आस्वाद्य निर्विशेषं विरहविधूना मृदूनि मासानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि¹ ॥ १५॥ वर्षासु जाता नवयौवनश्रीराशावधू प्रौढपयोधराभूत् । पुष्पोद्गमोऽजायत मालतीना बभूवुरस्पृश्यतमास्तटिन्यः ॥ १६ ॥ वसन्तविश्लेषमपारयन्त्या भुवो निदाघखरतापशा- न्त्यै । आशावयस्याभिरुदाह्रियन्ते पयोदनीलोत्पलपल्लवानि ॥ १७ ॥ घनोद्यमे गाढतमेऽन्धकारे न कोऽपि निर्णेतुमर्ह शशाक । स्पृशन्मुहुः कितु करेण नाभीसरोजमंभीरकुलाधि- नाथ.² ॥ १८ ॥ कामेन कामं प्रहिता जवेन प्रावृद् चचाल त्रिजगद्विजेतुम् । कि चन्द्रबिम्बं दधि भक्षयन्ती सधार यन्ती हरितः शुभाय ॥ १९ ॥ निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह कि नु वान्तश्चन्द्रोऽयमित्यार्ततर ररासे³ ॥ २० ॥ सजलजलधर नमो विरेजे विद्युन्मिमिया रुचिस्तडिल्लतानाम् । व्यवहित- रतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ २१ ॥ परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपा निपात ॥२२॥ प्रतिदिशमभिगच्छताभिभृष्ट ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ स चित्तजन्मा गतधृतिराकुलितश्च जीव- लोक. ॥ २३ ॥ व्यथितमपि भृशं मनो हरन्ती परिणत- जम्बुफलोपभोगहृद्या । परभृतयुवतिः स्वन वितेने नवनवयो- जितकण्ठरागरम्यम् ॥ २४ ॥ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिना निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महता सुकरः समाधिभङ्गः ॥ २५ ॥ धृतबिस- वलयावलिर्वहन्ती कुमुदवनैकदकूलमात्तबाणा । शरदमल- तले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २६ ॥ समद- शिखिरुतानि हसनादै. कुसुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशायिनी समेत्य जग्मुर्गुणमहता भहते गुणाय योग. ॥ २७ ॥ सरजसमपहाय केतकीना प्रसवमुपान्तिक नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदालो मलयिनति स्म विनीलबन्धनानि ॥ २८ ॥ मुकुलितमतिशंख्य बन्धुजीव धृतजलबिन्दुधु शाद्वलस्थलीषु । अविगलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २९ ॥ रटतु जलधरः पतन्तु धाराः स्फुरतु तडिन्मरुतोऽपि वान्तु शीता । इयमुरासि
पादटिप्पण्यः (Left Footnotes): १ ऊर्ध्व कण्ठो यस्य तादृश करोति २ मयूराणाम् ३ विरतसुरतरङ्ग
पादटिप्पण्यः (Right Footnotes): १ नेत्र, पक्षे, -निर्गता रदा दन्ता यस्य, दन्तानामभावादस्थिचर्वणसमर्थे मरुत्यजतीति भाव २ भगवत्पद्मनाभ ३ आक्रन्दन कृतवान
वर्षावर्णनम ३४१
महौषधीव कान्ता निखिलभयप्रतिघातिनी स्थिता मे ॥३०॥ स्फुरदधीरत्तडिम्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितखसमयसाम्प्रतमाजगतोधरम् ॥३१॥ गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमङ्गना न चमके च कमेकरस ग्रहः ॥३२॥ अनुययौ विविधोपलकुण्डलयुतिवितानकसबलितांशुकम् । धृतधनुर्वलयस्य पयोमुचः शबलिमा वलिमानमुषो वपु ॥ ३३ ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवह्रिता विटपैरिव मञ्जरी । नवतमालनिभस्य नभस्तरोरुचिरगेचिररोचत वारिदै ॥३४॥ पटलमम्बुमुचा पथिकाङ्गना मपढि जीवित संशयमेष्यती । सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुर- मैक्षत ॥ ३५ ॥ प्रवसतः सुतरामुदकम्पयद्द्विदलकन्दल- कम्पनलालितः । नमयति स्म वनानि मनीषिनीजनमनो- नमनो वनमारुतः ॥ ३६ ॥ जलदपङ्किरनर्तयदुन्मद कल- विलापि कलापिकदम्बकम् । कृतसमाज्जनमर्दलमण्डलध्वनि- जया निजया स्वनसपदा ॥ ३७॥ नवकदम्बरजोरुणिताम्बरै- रधिपुरन्त्रि शिलीन्ध्रसुगन्धिभि । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३८ ॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाञ्जनमञ्जना- जनसुगं न सुगन्धि न चक्रिरे ॥ ३९ ॥ द्विरददन्तवलक्ष- मलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्ट- नया दिवः कृशशिखं शशिखण्डमिव च्युतम् ॥ ४० ॥ दलित- मौक्तिकचूर्णिपपाण्डव. स्फुरितनिर्झरशीकरचारव. । कुटज- पुष्पपरागकणा स्फुट विदधिरे दधिरेणुविडम्बनाम् ॥ ४१ ॥ नवपयःकणकोमलमलतीकुसुमसततितसतसङ्गिभि. । प्रच- लितोऽनिलै परिपाण्डिमा शुभरजोभरजोऽलिमिरोददे ॥४२॥ निजरज पटवासमिवाकिरद्धतपटोपमवारिमुचा दिशाम् । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलीः ॥ ४३ ॥ प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराग्भीरव । प्र- पायिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥४४॥ विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति । अभिहितेऽलिभिरेवमिवोच्चकैर्ननृते ननृते नवपल्लवैः ॥४५॥ प्रौढमौक्तिकरुच पयोमुचा बिन्दव. कुटजपुष्पबन्धवः । विद्युता नभसि नाट्यमण्डले कुर्व्वते स्म कुसुमाञ्जलिश्रियम् ॥ ४६ ॥ महीमण्डलीमण्डपीभूतपाथोधरागन्धहर्षोसु वर्षासु सद्यः । कदम्बे प्रसून प्रसूने मगन्दो मगन्दे मिलिन्दो मिलिन्दे मदोऽभूत् ॥ ४७ ॥ उन्निद्रकन्दलदलान्तरलभ्यमानगुञ्ज- न्मदान्धमधुपे नवमेघकाले। ख्मेऽपि यः प्रवसति प्रविहाय कान्ता तस्मै विषाणरहिताय नमो वृषाय ॥ ४८ ॥ घनसमयमहीभृत्पत्तन्स्र्यामबरस्य त्रिभुवनपतिचाप गोपुरत्व प्रपेदे । अपि विग्मवचोभिः प्राप्तपङ्काभिषेकाः कुकवय इव भेका खेदयन्ति स्म लोकान ॥ ४९ ॥ घनतग्घनवृन्दच्छा- दिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । रजनिदिवमभेदं मन्दवाता. शशंसु कुमुदकमलगन्धानाह- रन्त क्रमेण ॥ ५० ॥ घनतग्घनवृन्दच्छादिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । विरहमनुभव- न्ती सगम चापि भर्त्री रजनिदिवसभेद चक्रवाकी शशंस ॥ ५१ ॥ अथ नभसि निरीक्ष्य व्यामदिक्चक्रवाल मजल- जलदजाल ग्रामहर्षप्रकर्ष । विहितविपुलबर्हाडम्बगो नील- कण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥ ५२ ॥ अभि- नवयवत्रीशालिनि श्मातलेऽस्मिन्रतिशयपरभाग भेजिर्रे जिष्णुगोपाः । कुवलयशनयीये मुग्धमुग्धेक्षणाया मनाय इव विमुक्ता कामकेलिप्रसङ्गात् ॥ ५३ ॥ मलिनहुतमुग्धूम- श्यामर्दिगो मलिना घनैर्विरलतृणश्यामा भूमिर्र्नोद्व्रत- कन्दलै । सुरतसुभगो नूनं काल स एष समागतो मरण- शरणा यस्मिन्नेते भवन्ति वियोगिन. ॥ ५४ ॥ क्षेपा क्षामी- कृत्य प्रमभमपहृत्याम्बु सरिता प्रताप्योर्वी कृत्स्ना तरुगहन- मुच्छोष्य सकलम् । क सप्रत्यष्णाशुर्गत इति तदन्वेषण- परस्तैड्डिडीपालोका दिशि दिशि चरन्तीव जलदाः ॥५५॥ मेघाटोपं स्तनितसुभगं वीक्ष्य ख हस्तिदन्तै कृत्वा भिन्त्ती- नुपरिसदनं चामरैश्छादयित्वा । कर्पूरैस्ता मृगमदरसैर्भूमि- मालिप्य शेते सैहे चर्मण्युरासि दयितावाङ्गरूढ पुलिन्द ॥ ५६ ॥ उपैति घनमण्डली नढति नीलकण्ठावली तडि- ल्लसति सर्वतो वहति केतकीमारुत । इतोऽपि यदि नागतः प्रियतमो नु मन्येऽधुना दधाति मकरध्वजस्तुटितशिखिनीकं धनुः ॥ ५७ ॥ दिशा हाराकारा शमितशमभारा शमवता- मसूर्चीसचारा कृतमदविकागश्च शिखिनाम् । हृताध्व- व्यापारास्तुहिनकणसारा विरहिणीमन कीर्णाङ्गारा किरति जलधारा जलधरः ॥ ५८ ॥ देवे वर्षत्यशनपवनव्यापृता वह्निहेतोर्गोहाद्रेहं फलकनिचितै सेतुभि पङ्कभीताः । नीत्र- प्रान्तानविरलजलान्यानिमिस्ताडयित्वा शूर्पच्छत्रस्थगित- शिरसो योषितः सञ्चरन्ति ॥ ५९ ॥ आकर्ण्य स्वरयौवराज्य- पटहं जीमूतधीरध्वनिं नृत्यत्केकि कुटुम्बकस्य दधतं मन्द्रा मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दुलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान् वसुमती दत्रे शिलीन्ध्रध्वजान् ॥ ६०॥ वज्रेण त्रिजगत्पतेर्बलरिपोगच्छिन्नपक्षा. पुरा ये भीता निम- मज्जुरब्धिजठरे ते लूनपक्षाङ्गिरौन् । आश्वास्य व्रणदुःखजा शमयितु तेषामुदग्रव्यथामुत्तस्थुर्जंलदन्छलेन जलधेरूढा- म्भसः पर्वता. ॥ ६१ ॥ मन्दं मुद्रितपामवः परिपत-
१ रात्रिम् २ कृशा कृत्वा ३ तद्दिदेव दीप्तस्यालोक प्रकाशत .
३४२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
ज्झंकारिझङ्खामरुद्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धा- न्तरा. । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिद. प्रावृष प्रारम्भे मदयन्ति कन्दलदलोल्हासा पयोबिन्दव ॥ ६२ ॥ किंचिन्मु- द्रितपासव. शिखिकुलैरुत्कण्ठमालोकिता जीर्णावामरुद्दरि- द्रगृहिणीश्वासानिलैर्जर्जरा । एते ते निपतन्ति नूतनघना- त्प्रावृड्मरारम्भिणो विन्ध्यायीकृतविप्रयुक्तवनितावक्त्रैन्दवो बिन्दव ॥ ६३ ॥ काले नीलवलाहके मतडिति प्रीतिप्रदे बर्हिणामाश्रय कथयामि व. शृणुत भो यद्रूत्तमस्मद्गृहे । सौभाग्यव्ययसङ्ख्यैकशयने कान्ताप्रिया+यामहो मानिभ्या बत गन्निमेव सकला चीर्ण प्रवासिव्रतम् ॥ ६४ ॥ उत्फुल्ला र्जुनसर्ववासितवहत्पौरस्त्यझञ्झानिलप्रेङ्खोलत्स्खलितेन्द्रनील- शकलस्निग्धाम्बुदश्रेणय । वारासिक्तवसुन्धरासुरमय प्रासास्त एवाधुना धर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासरा ॥ ६५ ॥ आच्छन्ने क्षितितैजसी मनसिजध्यापारमेय मन. स्वात्मा च द्वयमेतदस्ति दृगम द्रव्य परषा तम । कालाकाशदिशा निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरव. कर्मापि वारिक्रिया ॥ ६६ ॥ आसारेण न हर्म्यत प्रियतमैर्यातुं वहि शक्यते शीतोत्कम्पनिमित्त- मायतदृशा गाढ समालिङ्गयते । जाले शीकरशीतलैश्च मरुतो रत्यन्तखेदच्छिदो धन्याना बत दुर्दिन सुदिनता याति प्रियासगमे ॥ ६७ ॥ उद्योग क्षयमेति हन्त सहसा जाड्य समुज्जृम्भते मित्रस्यापि च दर्शन भवति नो कि वान्यादाच- क्ष्महे । यल्लोकस्पृहणीयता गतमभूज्जीवनं व्यर्थता प्राप्त येन दुनोति तन्मम मनो दुर्देववद्दुर्दिनम् ॥ ६८ ॥ सर्व- त्रोद्गतकन्दला वसुमती वृद्धिर्जलाना परा जात निष्कमल जगत्युमलिनैर्लब्धा घनेरुन्नता । सर्पन्ति प्रतिमन्दिर द्विर- सना. सत्यक्तमार्गो जनो वर्षाणा च कलेश्च सप्रति जय- त्येकैव राज्यस्थितिः ॥ ६९ ॥ नैतद्वारिदगर्जित रतिपति- प्रस्थानढक्कारवो नैते वारिधरा. स्रवन्मदजलास्तहस्तिन्धुराः प्रोद्धुरा । नैषा विद्युदिय विभाति रुचिरा तच्चन्द्रहासप्रभा मन्ये मानिनि मानदुर्गमधुना जेतुं किमायात्यसौ ॥ ७० ॥ दृष्ट्वाडम्बरमम्बरे घनकृत सौदामिनीनर्तकीन्त्याग्ममृदङ्ग- मङ्गलख श्रुत्वा च तद्गर्जितम् । पुष्यत्युष्पभरानताङ्गण- तरुस्कन्धावसद्वायसक्राणाकर्णनसोत्सवप्रियतम पान्था ययु- र्मन्दिरम् ॥ ७१ ॥ सन्नम्येव निरन्तर निवमतिमिरैत्राद्यना- लोकनं पन्था पङ्कसमाकुल. कलुषता वारा सदा दुर्दि नम् । एवं यद्यपि दूषणानि तदपि स्वर्भूननोल्लासकृत्संसो- त्पत्तिनिमित्ततैकगुणत. प्रावृट् प्रपेदे यशः ॥ ७२ ॥
दोलाकेलिः
सौन्दर्यमिन्दीवरलोचनाना दोलासु लोलासु यदुल्ललास । यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभू ॥ ७३ ॥ प्रसार्य पादौ विहितस्थितीना दोलासु लोलांशुक पल्लवानाम् । मनोरथानामपि यन्न गम्यं तद्रष्टुमापुः सुदृशा युवान. ॥ ७४ ॥ उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बबिम्बा । दोलाविलासेन जितश्रमत्वाल्यकर्ष- मापु. पुरुषायितेषु ॥ ७५ ॥ दृशा विदधिरे दिश. कमल राजिनीराजिता कृता हसितरोचिषा हरति चन्द्रकावृथ्य. । अकारि हरिणीदृश. प्रवलदण्डकप्रस्फुरद्रुपुर्विपुलगोचिषा वियति विद्युता विश्रम. ॥ ७६ ॥ प्रत्यासन्नमुखी कगम्बुज- युगप्रेङ्खोलिता प्रेङ्खिकामारुह्ययमुदस्तहारलतिकाव्यावृत्त- तुङ्गस्तनी । दृष्टादृष्टमुखी गतागतवशालोलोलमानांशुका तन्वङ्गी गगने करोति पुरत शातहदं विश्रमम् ॥ ७७ ॥
वर्षावायवः
एते ते दुरतिक्रमक्रममिलद्द्भोर्मिभर्मेच्छिद. कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिला । गाढारम्भनिगूढ- नीग्दघटासघट्टनीलीभवद्व्योमक्रोडकटाहपातुकपयोवेणीकण- ग्राहिणः ॥ ७८ ॥ धागधौतं धुनाना शशधग्धवल केसर केतकीना कैलासे किनरीणा चलदलकलतालासयलीला दधानाः । आमूलं मानिनीना मनसि विनिहितं मानमुन्मूल यन्तो वान्त्येते वारिवाहव्यतिकरशिशिरा प्रावृषेण्या. समीगः ॥ ७९ ॥ गोकर्ण गाहमाना' पृथुतरपृषतग्राहिणः शंबरीधानाकर्षन्तो दिगन्तानपि च विदधत कन्दलीसुप्रचा- गन् । एते धावन्ति वार्धश्रवसमुग्धनुर्धारयन्त' समन्तादा- वृण्वन्तोऽभ्रवीथि वनमिव शबरभ्रान्तिभाजोऽम्बुवाहा.॥८०॥
वर्षापथिकाः
उपरि पयोधघमाला दूरे दयिता किमेतदापतितम् । हिमवति दिव्यौषधय कोपाविष्ट फणी शिरसि ॥ ८१ ॥ उपरि घन घनपटल तिर्यग्गिरयोऽपि नर्तितमयूरा । क्षितिरपि कन्दलधवला दृष्टि पथिक. क पातयतु ॥ ८२ ॥ कि गतेन यदि मा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीक्ष्य नवमेघमालिका न प्रयाति पथिकः स्वमन्दिरम् ॥ ८३ ॥ शिखिनि कूजति गर्जति तोयन्द्रे स्फुटति जातिलताकुसुमाकरे । अहह पान्थ न जीवति ते प्रिया नभसि मासि न यासि गृहं यदि ॥ ८४ ॥ १ रसति तरुणीकेशश्यामे पयोभृति निर्भर स्फुटति चपले वारवार क्षणद्युतितैजसि । उपगुरुजनं मन्ये दैन्यात्पराङ्मुख- सुसया निभृतनिभृत मन्दोच्छ्वास तया बत रुद्यते ॥ ८५ ॥ निशीथे लीनाना झटिति तडिता वीक्ष्य विषयं घनानामाभोग रसिकपथिकेनोन्मुखदृशा । न गीतं सोत्कण्ठ न च रुदितमुक्तण्ठतरलं न मुक्ता निःश्वासाः स्फुरदनुमतं किं तु हृदयम् ॥ ८६ ॥ यथा रन्ध्रं व्योमञ्चलजलदधूम. स्थगयति स्फुलिङ्गाना रूप दधति च
१ श्रावणमासे
वर्षावर्णनम् ३४३
यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च
ककुभस्तथा मन्ये लग्नं पथिकतरुखण्डे स्मरदवः ॥ ८७ ॥
बर्ही रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला
विक्रोशन्ति घना घना च विलपत्युच्चैर्बलाकावलिः ।
आत्मान मरुतः क्षिपन्ति सलिलासार. पतत्यग्रतो मुक्त्वा
प्रावृषि साहसैकरसिके याति प्रियामध्वगे ॥ ८८ ॥
नृत्यच्चन्द्रकिणि क्वणन्मधुलिहि श्यामायमानक्षितौ धीरध्वान-
पयोमुचि प्रविलसत्सौदामिनीदामनि । धाराम्भःकणवाहि-
शीतमरुति प्राणान्वयोदागमे हा हा हास्यति मुग्धिका नववधू-
रित्यध्वग क्रन्दति ॥ ८९ ॥ श्रुत्वा बालमृगीविलोलोनयना
शब्दं घनाना पुरा भीत्या वक्षसि सन्नितापि निबिड भूय
समालिङ्गति । या वक्त्रादपहत्य रोपितवती कण्ठे ममैवा-
नन सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम्
॥ ९० ॥ रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया । आस्ता
जीवितहारिण. प्रवसनालापूरय सकीर्तनं मानस्यापि जला-
ञ्जलि सरभस लोकेन दत्तो यथा ॥ ९१ ॥ ग्रामेऽस्मिन्
पथिकाय पान्थ वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डप-
तले पान्थः प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने
स्मृत्वा प्रिया तत्कृत येनाद्यापि करङ्कखण्डपतनाशङ्की जन-
स्तिष्ठति ॥ ९२ ॥ भ्रात. पान्थ कुतो भवान्नगरतो वार्त्ता
न वा वर्तते बाढ ब्रूहि युवा पयोदसमये त्यक्त्वा प्रिया
जीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि
श्रुता विस्तीर्णा पृथिवी जनोऽपि विविध कि कि न सम्भा-
व्यते ॥ ९३ ॥ धीर वारिधरस्य वारि किरत. श्रुत्वा निशीथे
ध्वनि दीर्घोच्छ्वाससमुद्रश्रुणा विरहिणी बाला चिर ध्यायता ।
अध्वन्येन विमुक्तकण्ठकरुण रात्रौ तथा क्रन्दितं ग्रामीणै.
पुनरध्वगस्य वसतिर्ग्रामे निषिद्धा यथा ॥ ९४ ॥ भ्रात
पान्थ प्रसीद प्रतिविरम- समुत्सृज्य बालमकाण्डे गन्तुं
बाष्पाम्बूपूरप्लुत नयनमुखी प्रेयसी ते न युक्तम् । वृत्तं ग्रामे-
ऽतिकष्टं यदिह गृहपते. प्रोषितस्य प्रियाया मुक्ताक्रन्दास्स्व-
मेतान्स लिलवितरणे निर्गतान्पश्य बन्धून् ॥ ९५ ॥ मन्नात्र
ग्रामके त्व वससि परिचयस्तेऽस्ति जानासि वार्तामस्मिन्न-
ध्वन्यजाया जलधररसिरतोत्का न काचिद्विपन्ना । इत्थ पान्थः
प्रवासावधिदिनविगमापायशङ्की प्रियाया. पृच्छन् वृत्तान्त-
मारात्स्थितनिजभवनेोऽप्याकुलो न प्रयाति ॥ ९६ ॥
वर्षापथिककामिनी
अदृष्टपूर्वमक्षामिर्यदेतद्दृश्यतेऽधुना । विष विषधरै
पीत मूर्च्छिता. पथिकाङ्गना ॥ ९७ ॥ सखि
हे पश्य रसमय जलधरसमय समुन्नद्धम् । विलसति
कापि बलाका कापि बलाका मुदं धत्ते ॥ ९८ ॥
शिशिरसीकरवाहिनि मारुते चरति शीतभयादिव सत्वर. ।
मनसिजः प्रविवेश वियोगिनीहृदयमाहितशोकहुताशनम्
॥ ९९ ॥ एष्यन्त्यवश्यमधुना हृदयाधिनाथो मुग्धा मुधा
कुरुत मा विविधं विलापम् । इत्थं शशंसुरिव गर्जितकौत-
वेन पाथोधराः पथिकपङ्कजलोचनाभ्यः ॥ १०० ॥ आकर्णि-
तानि रसितानि यथा प्रसर्पद्युद्युम्नराजरथनि.स्वनसोदराणि ।
उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्र प्रिये कुपितयापि तया-
भिसस्त्रे ॥ १०१ ॥ प्रणतिभिरपि पत्युः प्रार्थनाभिश्च सख्या.
क्षणमपि न मनस्तो मानिनी मानमौज्झत् । तमसशरश
स्त्रीभूतगानप्रकार. फणिनमिव शिखण्डी कि न खण्डीचकार
॥ १०२ ॥ नभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्वा
प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथचित् । मम पटमव-
लम्ब्य प्रोल्लिखन्ती धरित्रीं तदनु कृतवती सा यत्र वाचो
निवृत्ता ॥ १०३ ॥ विरमत घना कि वो वृष्ट्या मुधैव
विसृष्टया व्रजत ककुभं कामप्यन्या मनोरुचिरामतः । न
तदिह वनं नासौ मार्गो न तच्च धरातल विरहगलितैस्तन्व्या
यन्न प्लोत नयनाम्बुभिः ॥ १०४ ॥ प्रसरदलकाकीर्णे कर्णे
न केकिरुतं श्रुतं श्वसितविजितो वातो भ्रातो न वा कुट-
जोत्कट. । न च परिचितासावासपल्हृताश्रुणि लोचने
तदपि किमपि प्रावृट्श्यामा धुनोति वियोगिनी ॥ १०५ ॥
मेघैर्व्योम नवाम्बुभिर्वसुमती विद्युल्लतोभिर्दिशो धाराभि-
र्गगन वनानि कुटजै. पूरैर्वृता निम्नगाः । एका घातयितु
वियोगविधुरा दीना वराकी स्त्रियं प्रावृट्काल हताश वर्णय
कृतं मिथ्या किमाडम्बरम् ॥ १०६ ॥ वाता वान्तु कदम्ब-
रेणुशबला नृत्यन्तु सर्पद्विष. सोत्साहा नववारिगर्भगुरवो
मुञ्चन्तु नादं घना । मग्ना कान्तवियोगशोकजलधौ मा
वीक्ष्य दीनानना विद्युत्कि स्फुरसि त्वमप्यकरुणे स्त्रीत्वे
समाने सति ॥१०७॥ अम्भोवाहसुरद्विपो निवसनं ध्वान्ताद्रि-
दिव्यौषधी कन्दर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी ।
लेखा व्योमकषोपले विरचिता चामीकरस्य स्फुरद्भासः
पान्थविलासिनीजनमन.कम्पाय शम्पामवत् ॥ १०८॥ श्रुत्वा
तन्व्या निशीथे नवघनरसितं विश्लथाङ्गं पतित्वा शय्याया
भूमिपृष्ठे करतलधृतया दु.खितालीजनेन । सोत्कण्ठं मुक्त-
कण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य
स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १०९ ॥
खद्योतः
प्राचीमहीधरशिलाविनिवेशितस्य धाराधरस्फुरदयोधनता-
डितस्य । तप्तायसस्स तपनस्य कणा विकीर्णाः खद्योतपोत-
सुषमा स्फुटमावहन्ति ॥ ११० ॥
३४४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
हंसः
तटमुपगतं पद्मे पद्मे निवेशितमाननं प्रतिपुटकिनीपत्र- च्छाया मुहुर्मुहुरासितम् । मुहुरुपगतैरसैः कोष्णीकृता जल- वीचयो जलदमलिना हंसेनाशा विलोक्य पिपासता ॥ ११२ ॥
शरद्वर्णनम्
अहो बाणस्य संधानं शरदि खरभूपतेः । अपि सोऽयं द्विषामीशः कन्याराशिसुपागतः ॥ १ ॥ अपीतक्षीरैकाद- म्बमसमुष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्म- नोरमम् ॥ २ ॥ अथोपगूढे शरदा शशाङ्के प्रावृड्वधौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ ३ ॥
शरत्समयस्वभावाख्यानम्
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगम- सव्रीडा जघनानीव योषितः ॥ ४ ॥ एकेन चुलुकेनाब्धि- र्निपीतः कुम्भजेन यत् । तस्योदयेऽन्तःकालुष्यं त्यजन्त्यापो भयादिव ॥ ५ ॥ पाथोजजालजटिलं मलिनं शरदङ्गना । अम्बरं धावयामास चन्द्रिकाचयवारिभिः ॥ ६ ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् । प्रासादांस्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ ७ ॥ नमिताः फलभारेण न मिताः शालिमञ्जरीः । केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ ८ ॥ हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमलाः कुमुदानीव तारकाः शरदागमे ॥ ९ ॥ राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ॥ १० ॥ काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि । नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥ ११ ॥ द्वयमिदमत्यन्तसमं नीचे प्रभविष्णुता शरच्चेयम् । क्षेत्रेभ्यः प्राप्य फलं खलेषु निक्षिप्यते यस्याम् ॥ १२ ॥ अथ प्रसन्नेन्दुमुखी सिताम्बरा समाययावुत्पलपत्रलोचना । सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः ॥ १३ ॥ समुल्लसत्पङ्कजलोचनेन विनोदयन्ती तरूणानशेषान् । शुद्धाम्बरा गुप्तपयोधरश्रीः शरन्नवोढेव समाजगाम ॥ १४ ॥ पयोदकेशेषु विकृष्य रोषान्निष्कास्य सा कोकनदायताक्षी । वर्षावधूं स्वां श्रियमुन्नयन्ती प्रौढा सपत्नीव शरच्चकाशे ॥ १५ ॥ चन्द्रायते शुक्लरुचापि हंसो हसायते चारुगतेन कान्ता । कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥ १६ ॥ ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्धनानाई्रनखक्षताभम् । प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरम्यधिकं चकार ॥ १७ ॥ उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां महीम् । नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ १८ ॥ पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ १९ ॥ विपाण्डुभिर्म्लानतया पयोधरैश्च्युताचिराभा गुणहेमदामभिः । इयं कदम्बानिल- भर्तुरत्यये न दिग्वधुना कृशता न राजते ॥ २० ॥ विहाय वाञ्छांमुदिते मदालत्यादरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न सत्त्ववः ॥ २१ ॥ अमी पृथुस्तम्बभृतः पिशङ्कतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निद्रातुमिवावसोत्पलम् ॥ २२ ॥ विहारभूमेरभि- घोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः । असक्तमूर्धासि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ २३ ॥ जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेषुषी । द्युतिं समग्रां समितिगवामसावुपैति मन्त्रैरिव सहिताहुतिः ॥ २४ ॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदं जिघत्सामपहाय भूयसीं न ससमभ्येति मृगीकदम्बकम् ॥ २५ ॥ असावनास्थापरयावधीरिताः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ २६ ॥ अमी समुद्भूतसरोज- रेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ २७ ॥ मुखैरसौ विद्रुमभङ्गरोहितैः शिखाः पिशङ्गीः कमलस्य बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमलां धनुः श्रियं गोत्रभिदो- ऽनुगच्छति ॥ २८ ॥ ददतमन्तरिताहिमदीधिति खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपरथाप रथायववायुधः ॥ २९ ॥ स विक्षवोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगता दयितामिव । शरदगच्छगलद्धसनोपमा- क्षमघनामघनाशनकीर्तनः ॥ ३० ॥ जगति नैशमशीतकरः करैर्विगतिं वारिदवृन्दमयं तमः । जलजराजिषु नैद्रमदिद्रवेश्च महतामहताः क्व च नारयः ॥ ३१ ॥ समय एव करोति बला- बलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसखा परुषी- कृतस्वरमयूरमयूरमणीयताम् ॥ ३२ ॥ तनूरुहाणि पुरोजित- ध्वनेर्घवलपक्षविहङ्गमकूजितैः । जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ॥ ३३ ॥ अनुवनं वनराजि- वधुमुखे बहलरागजवाधरचारुणी । विकचबाणदलावलयो- ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ३४ ॥ कनकभङ्गपिशङ्ग- दलैर्दधे सरजसारुणकेसरचारुभिः । प्रियविमानितमानवती- रुषा निरसनै रसनैरवृथार्थता ॥ ३५ ॥ मुखसरोजरुचं मद- पाटलामनुचकार चकोरदृशा यतः । धृतनवातपमुत्सुकनामतो
१ मत्तम् २ आकाराम्, पक्षे,-वस्त्रम्
शरद्वर्णनम्, हेमन्तवर्णनम्
३४५
न कमल कमलमभ्यदमद्द्रमसि ॥ ३६ ॥ विगतस्रजजिघस-
मघट्टयत्कलमगोपवधूर्न मृगव्रजम् । श्रुततदीरितकोमल-
गीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ॥ ३७ ॥ कृतमढ निग-
दन्तं इवाकुलीकृतजगत्त्रयमूर्जमतङ्गजम् । ववुरस्रुक्छद-
गुच्छसुगन्धय. सनतगास्ततगानगिरोऽलिभिः ॥ ३८ ॥ तीक्ष्ण
रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवा-
कृतज्ञ. । तोयं प्रसीदति सुनेरिव चित्तवृत्तिः कामं दरिद्र
इव शोषमुपैति पङ्क. ॥ ३९ ॥ आसादितप्रकटनर्मलचन्द्र-
हास. प्राप्तः शरत्समय एष विशुद्धकान्त' । उत्खाय गाढ-
तमस घनकालमुग्र रामो दशास्यमिव सम्भृतबन्धुजीवः
॥ ४० ॥ वृद्धाङ्गेनेव विजहौ सरिदुद्धतत्वं वेदान्तिनामिव
मनः शुचि नीरमासीत् । चन्द्रे प्रभा युवतिवक्त्र इवाद्यता-
भूद्विद्रक्वत्वमिव केकिरुत न रेजे ॥ ४१ ॥ मधुमधुरिम-
भङ्गी भेजिरे हसनादास्तुहिनपटललीला लेभिरे वारि-
वाहाः । क्षितिरभवदपङ्का कि च रोलम्बबालावलिकलित-
नलिन्यः शैवलिन्यस्तदासन् ॥ ४२ ॥ स्फुटं स्फुटपलाशवत्सु-
भगभासिचञ्चत्पुटे विपाककपिशीकृत. कलममञ्जरीर्बिभ्रती ।
बभौ दिवि शुकावलि. कुवलयच्छविर्जङ्गमा स्वभावहृदय-
ममा विबुधचापलक्ष्मीमिव ॥ ४३ ॥ अपाकृत्याशेषानपि
च घनजालानि परितस्तमोधूमस्तोमोद्भवमलिनिमानं च
तदनु । शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधा-
सदोहादैर्मुवनभवन पाण्डूरयति ॥ ४४ ॥ रम्यं हर्म्यतलं
नवाः सुनयना गुञ्जद्विरेफा लताः प्रोन्मीलन्नवमालतीसुर-
भयो वाता. सचन्द्रा. क्षपाः । यद्येतानि जयन्ति हन्त
परितः शस्त्राण्यमोघानि मे तद्भोः कीदृगसौ विवेकविभवः
कीदृक्प्रबोधोदय. ॥ ४५ ॥ अर्वै सुप्तो निशायाः सरमस-
सुरतायाससन्नश्लथाङ्गः प्रोद्भूतास्रह्वतृष्णो मधुमदविरतौ
हर्म्यपृष्ठे प्रबुद्ध. । संभोगाक्रान्तकान्थाशिथिलभुजलतावर्जितं
कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं
मन्दपुण्य. ॥ ४६ ॥ चेत कर्षन्ति सप्तच्छदकुसुमरसासार-
सौरभ्यलुब्धभृङ्गीसङ्गीतभङ्गीश्रुतिसुभगदिशो वासस्राः शार-
दीनाः । कि च व्याकोशपङ्केरुहमधुरमुखी सचरच्चञ्चरीक-
श्रेणीवेणीसनाथा रमयति तरुण पद्मिनीमंशुमाली ॥ ४७ ॥
भ्रमरक्रीडा
अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु । खरेणापि
सरोजाश्री न लक्षयीक्रियते शरै ॥ ४८ ॥ भ्रमात्प्रकीर्णे
श्रमरीषु किविचेलाञ्चले चञ्चललोचनाया । कुचौ
कदाचिज्जघन युवानो विलोक्य साफल्यमवापुरक्ष्णोः
॥ ४९ ॥ परिश्रमन्त्या भ्रमरीविनोदे नितम्बबिम्बाद्विगल-
दुकूलम् । विलोक्य कस्याश्चन कोमलाङ्ग्या. पुभावमन्या
सुदृशो ववाञ्छु. ॥ ५० ॥ यतो यत षट्चरणोऽभिवर्तते
ततस्तत. प्रेरितलोललोचना । विवर्तितभ्रूरियमद्य शिक्षते
भयादकामापि हि दृष्टिविभ्रमम् ॥ ५१ ॥ करौ धुनाना नव-
पल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी
कल्पलताभिशङ्कया कथं न्वितस्त्वत्सतिति षट्पदावलिः ॥ ५२ ॥
चेलाञ्चलेन चलहारलताप्रकाण्डवैणीगुणेन च चलङ्कलथी-
कृतेन । हेलाहितभ्रमरकभ्रममण्डलीभिश्च्छत्रत्रयं रचयतीव
चिर नतभ्रू ॥५३॥ मुक्ते काञ्चनकुण्डले निपतिते माणिक्य-
भूषणमौ कीर्णे केलिमरोरुहे विगलिते मुक्ताकलापे
सति । निःश्वस्याम्बुजलोचनाभ्रमरिकानृत्यावसाने पुन
प्राणेशच्युतिशङ्कयेव हृदये हस्तारविन्दं ददौ ॥ ५४ ॥
शरद्वायवः
वान्ति रात्रौ रतिक्रान्तकामिनीसुहृदोऽनिला. । ललना-
लोलधम्मिल्लमल्लिकामादवासिता ॥ ५५ ॥ वान्ति कहार-
सुभगा. सप्तच्छदसुगन्धय । वाता नवरतम्लानवधू-
गमनमन्थरा. ॥ ५६ ॥
शरत्पथिकः
पद्मानुषङ्ग पथि विस्मरन्त कथावशेषं च पयोदवृन्दे ।
मार्गेषु चन्द्रातपपिच्छिलेषु पदे पदे चस्खलुरध्वनीना
॥ ५७ ॥ इह निचुलनिकुञ्जे वशसभारभाजि स्वपिषि
यदि मुहूर्त्त पश्यसि क्षेत्रमेतत् । इति पथिकमकस्मान्मागं
एवोपविष्ट वदति तरुणकान्तं गोपिका साङ्गमङ्गम् ॥ ५८ ॥
हेमन्तवर्णनम्
हेमन्तहिमनिस्यन्दमवलोक्य मनोभवम् । प्रहर्तुं सुश्रुवा
चेतो रवेर्देवो धनूर्दधौ ॥ १ ॥ दुराशेव दरिद्रस्य तृष्णेव
कृपणस्य च । अहो न विरमत्येषा हन्त हेमन्तयामिनी ॥२॥
हेमन्ते बहुदोषाब्धै द्वौ गुणौ सर्वसमतौ । अयत्नशीतलं
वारि सुरतं खेदवर्जितम् ॥ ३ ॥
हेमन्तसमयस्वभावाख्यानम्
हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम् । अयत्न-
शीतल वारि निशा च सुरतक्षमा ॥ ४ ॥ हसन्ती वा
हसन्ती वा हसन्ती वामलोचनाम् । हेमन्ते ये न सेवन्ते
ते नूनं दैववञ्चिता ॥ ५ ॥ कामिनो हन्त हेमन्तनिश्शि
शीतज्वरातुरा । जीवन्ति हरिणाक्षीणा वक्षोजाश्लेषरक्षिता
॥ ६ ॥ अद्य शीत वरीवर्ति सरीसर्ति समीरण. ।
अपङ्कीको मरीमर्ति नरीनर्ति कुचोष्मवान् ॥ ७ ॥
हिमघवलदन्तकेशी मन्दद्युतितारका बृहत्तिमिर्रा ।
द्विगुणीभूता रजनी वृद्धेव शनै शनैर्याति ॥ ८ ॥
अम्बरमेष रमण्यै यामिन्यै वासर. प्रेयान् । अधिकं
दढौ निजाङ्गादथ सकुचित स्वयं तस्थौ ॥ ९ ॥
विकमति सूर्ये विकसति मुकुलति चास्तङ्गते तस्मिन् ।
शिशिरे नि म्वकुटुम्ब पङ्कजलीला समुद्वहति ॥ १० ॥
४४ सु र भा
३४६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
कन्याप्रसूतस्य धेनु प्रसङ्गादङ्गाधिकासादितविक्रमस्य । धैनं-
जयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥ ११ ॥
अलं हिमानीपरीदीर्णगात्र समापितः फाल्गुनसगमेन ।
अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः
॥ १२॥ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्ध-
वाहः । गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषार-
कालः ॥१३॥ निचायिनि लवलीलताविकासे जनयति लोध्र-
समीरणी च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति
नयान्न जिगीषता हि चेतः ॥ १४ ॥ कतिपयसहकारपुष्प-
रम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमन्त-
शसी समुपययौ शिशिर खरैकबन्धुः ॥ १५ ॥ गजपति-
द्वयसीरपि हेमन्तस्तुहिनयन्सरितः पृषतापति । सलिल
सततमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥ १६ ॥
इदमयुक्तमहो महदेव यद्धरतनो. स्मरयत्यनिलोऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान्स्तुहिनस्तु हिनस्तु वियोगिन
॥ १७ ॥ प्रियतमेन यया सरुषा स्थितं न सहसा सहसा
परिरभ्य तम् । श्लथयितु क्षणमक्षमताऽजना न सहसा सहसा
कृतवेपथु ॥ १८ ॥ भृशमदूयत याऽधरपल्लवक्षतिरनावरणा
हिममारुतै. । दशनरश्मिपटेन च सीत्कृतैर्निवसितेन सितेन
सुनिवर्वौ ॥ १९ ॥ व्रणभृता सुतनोः कलसीकृतस्फुरित-
दन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैर्मृदुतया
द्रुतयाधरलेखया ॥ २० ॥ धुततुषारकणस्य नभस्तस्तरु-
लताडुलितर्जनविभ्रमा । पृथुनिरन्तरमिष्टमुजान्तर वनित-
या नितया न विषेहिरे ॥ २१ ॥ हिमऋतावपि ताः स्म
भृशखिदो युवतय सुतरामुपकारिणि । प्रकटयत्यनुराग-
मकृत्रिम स्मरमयं रमयन्ति विलासिन ॥ २२ ॥ प्रालेयशैल-
शिखरानिलसप्रयोगः प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः ।
कालोऽयमातपति कुङ्कुमपङ्कपङ्कप्रोत्तुङ्गरम्यरमणीकुचसङ्ग-
योग्य. ॥ २३ ॥ शुकरितयवाना सीम्नि नीहारभासः सपदि
विगतनिद्रा कौञ्चकान्ता क्षपान्ते । विदधति कमनीयकाणमु-
घत्कार स्रलितगलनाल जर्जरत्काररेफम् ॥ २४ ॥ लघूनि
तृणकुटीरे क्षेत्रकोणे यवाना नवकलमपलालस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेख-
स्तुषारः ॥ २५ ॥ अपि दिनमणिरेश क्लेशितः शीतसद्यैरथ
निशि निजभार्या गाढमालिङ्ग्य दोर्भ्याम् । स्वपिति पुनरुदेतुं
सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा हैमनी यामिनीथम्
॥ २६ ॥ जरीमृन्मप्रौढद्युमणिकरसदोहसदृशस्फुरद्दीप्तिव्रात-
प्रगुणतरतारुण्यसुभगाम् । हसन्ती हेमन्ते परिजन-
युता वा सुवदना हसन्तीं सेवन्ते परिणतमहाभाग्यनिचयाः
॥ २७ ॥ वेपन्ते कपयो भृशं कृतजडं गोजाविकं म्लायति
श्वा चुल्लीकुहरोदर क्षणमपि प्राप्यापि नैवोज्झति । शीता-
र्तिव्यसनात्तुर. पुनरसौ दीनो जनः कूर्मवत्स्वान्यङ्गानि
शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ २८ ॥ शीताशो-
रिव नूतनस्य रुच्यो विद्या इवामेधसा विप्रातिक्रमिणा
विभूतय इव क्षीबस्य बोधा इव । भावैः सवलिता इव
प्रियतमे दृग्भङ्गयः सुध्रुवा प्रादुर्भूय तिरोभवन्ति सहसा
हैमन्तिका वासस्रा. ॥२९॥ लज्जा प्रौढमृगीदृशामिव नवव्रीणा
रतेच्छा इव स्वैरिण्या नियमा इव स्तरुचः कुल्याङ्गना-
नामिव । दंपत्योः कलहा इव प्रणयिता वाराङ्गनानामिव
प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासस्रा ॥ ३० ॥
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीर-
द्रवलिप्तचारुवपुषः खिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनी-
जनकताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्या-
सुख शेरते ॥ ३१ ॥ चक्रे चण्डरुचा समं रणमसौ
हेमन्तपृथ्वीपतिर्ये ये तत्र जिता दिवाकरकरास्ते तेऽमुना
तत्क्षणात् । कान्ताना कुचभूधरे निदधिरे मन्येऽहमेव तदा
नो चेन्मन्दर, कथं दिनकरस्तप्तश्च तन्वीस्तनः ॥ ३२ ॥
प्रोधप्रौढारविन्दद्युतिभृति विदलत्कुन्दमाद्यद्विरेफे काले
प्रालेयवातप्रबलविकसितोद्दाममन्दारदाग्नि । येषा नो कण्ठ-
लग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामियामा
यमसद नसमा यामिनी याति नूनम् ॥ ३३॥
कन्दुकक्रीडा
पयोधराकारधरो हि कन्दुकः करेण रोषादिव ताड्यते
मुहु । इतीव नेत्राकृतिभीतमुत्पलं तस्याः प्रसादाय
पपात पादयोः ॥ ३४ ॥ वनिताकरतामरसामिहत. पतितः
पतितः पुनरुत्पतसि । विदित खलु कन्दुक ते हृदयं
वनितातुललभ्धुमिव ॥ ३५ ॥ सानन्दकन्दुकविहार-
विधौ वधूना दोलायमानमणिकङ्कणनिक्वणेन । उड्डायितेषु
युवचित्तविहंगमेषु श्येना इव स्मृतितुवो विशिखा विलग्ना.
॥ ३६ ॥ खरशरधिनिकाशं कर्णपाशं कृताङ्गी रयविगलित-
तालीपत्रताटङ्कमेकम् । वहति हृदयचोर कुङ्कुमम्यास-
गौर वलयितमिव नालं लोचनेन्दीवरस्य ॥ ३७ ॥
अमन्दमणिनूपुरक्वणनचारुचारिक्रमं झणज्झणितमेखला-
स्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालित
मनो हरति सुध्रुवः किमपि कन्दुकक्रीडनम् ॥ ३८ ॥ भ्रम-
च्चरणपल्लवकणदमन्दमञ्जीरकं परिसखलदुरोहस्तबककम्प-
१ कन्याराशावुपन्नश्च, पक्षे,-कुमारिकाया प्रसूतश्च २ धनू
राशिसगमनेनेषु शरीरैरधिकमासादित संपावितो विक्रमो रोमा-
ञ्चोत्पादनादिरूप पराक्रमो येन, पक्षे,-धनुर्विद्ययाङ्गदेशेषु संपादित
पराक्रमो येन ३ धनजयोऽग्निस्तदधीन पराक्रमो बल यस्य, पक्षे,-
धनजयोऽर्जुनस्तदधीनपराक्रम ४ सूर्य
हेमन्तवर्णनम्, शिशिरवर्णनम् ३४७
मानांशुकम्। रणत्कनकमेखलं करसरोरुहाभ्यां पुरः पतन्त-
मपराऽऽददे कुसुमकन्दुकं सुन्दरी ॥ ३९ ॥ वक्त्रश्रीजित-
लजितेन्दुमलिनं कृत्वा करे कन्दुकं व्रीडाकौतुकमिश्रभाव-
मनया तिर्यग्वहन्त्याननम् । भृङ्गाग्रग्रहकृष्णकेतकदल-
स्पर्धावतीना दृशा दीर्घापाङ्कतरङ्गिणैकसुहृदा कोऽप्येष पात्री-
कृत ॥ ४० ॥ व्यावल्गत्कुचभारमाकुलकचं व्यालोलहाग-
वलि प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वक्त्राम्बुजम् ।
शश्वद्दत्तकरप्रहारमधिकश्वास रसादेतया यत्सात्कन्दुक
सादर सुभगया ससेव्यसे तत्कृती ॥ ४१ ॥ चञ्चच्चेला-
ञ्चलानि प्रतिसरणचलद्व्यस्तवेणीनि बाहोर्विक्षेपादक्षिणस्य
प्रचलितवलयस्फारकोलाहलानि । श्वासत्रुट्यद्वचांसि द्रुत-
मितकरोत्क्षेपलोलालकानि स्रस्तस्रञ्जि प्रमोदं ददति मृग-
दृशा कन्दुकक्रीडितानि ॥ ४२ ॥ अस्या खेदाम्बुबिन्दु-
च्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारंवारं वेगप्रहणन-
गणनाकेलिवाचालिताया । तत्पातोत्थानतालक्रमनमितदृश-
स्ताण्डवोत्तालतालीलाल्यालोभिता स्म प्रतिकलममुना
कन्दुकक्रीडितेन ॥ ४३ ॥
हेमन्तवायवः
दधत्यधरचुम्बन नयनपङ्कज मुद्रयन्मन्दपुलकं मनागमल-
मङ्कमालिङ्गते । विचालयति चालक चपललोचनाना
हठात्तनोत्यविनय मरुत्प्रिय इवैष हैमन्तिक. ॥ ४४ ॥
हूनीसीमन्तमुद्रा सपदि तरल्यन्कीरकान्ताकुचान्तः स्वच्छ-
न्दस्रस्तवस्त्राञ्चलचपलतया लोलयन्हारवल्लीम् । प्रालेया-
वासपृथ्वीधरशिखरचलच्चारुवारिप्रवाहप्रक्षोभप्रातिभश्रीः प्रस-
रति परितो हैमनो गन्धवाहः ॥ ४५ ॥ नीत्वोच्चैर्विक्षिप्ततः
कृततुहिनकणासारसङ्गान्नरागात्कौन्दानानन्दितालीनतितर-
सुरभीन्भूरिशो दिङ्मुखेषु । एते ते कुङ्कुमाक्तस्तनकलशभरा-
स्फालनादुच्छलन्त. पीत्वा सीत्कारिवक्त्रं शिशुरहरिणदृशा
हैमना वान्ति वाता. ॥ ४६ ॥
हेमन्तपथिकः
आहूतोऽपि सहायैरैमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तु-
मना अपि पथिकः सकोच नैव शिथिलयति ॥ ४७ ॥ हेमन्ते
पथिकजनाः प्रियावियुक्ता लोकाना गृहबहिरङ्गणे शयाना. ।
कन्दर्पाकुलमनसा निशासु तेषा शीतं कि लगति जगत्प्रकम्प-
कारि ॥ ४८ ॥ हेमन्ते हिमकरबिम्बचारुमुख्या रामाया
मृदुभुजपञ्जरे शयानाः । ये कालं परमसुखं नयन्ति तेषा शीतं
कि लगति जगत्प्रकम्पकारि ॥ ४९ ॥ हे पान्थ प्रियविप्रयोग-
हुतभुग्ज्वालानभिज्ञोऽसि कि कि वा नास्ति तव प्रिया गतघृण.
कि वा विहीनो धिया । येनास्मिन्नवकुङ्कमारुणारुचिव्यासङ्ग-
धर्मोचिते कुन्दानन्दितमत्तषट्पदकुले काले गृहान्निर्गत
॥ ५० ॥ शीतातिक्षप्रसरस्तथाकुलपदन्यासैः ससृत्कम्पिभिः पान्थै-
र्निर्दयतूच्छगोघननद्द्वापागवै. सूचिता. । प्राप्यन्ते हिमपीडि-
तानि निभृतप्रोत्द्घाटधूमा घनस्तोकालक्षकुटीरका कथमाप
प्राप्ता गिरिग्रामकाः ॥ ५१ ॥ अन्योन्याहतिदन्तनादमुखर
वक्त्रं सुख कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि
कण्डूयता । हा हा हेति सुनिष्ठुर विवदता बाहू प्रसार्य क्षण
पुण्याग्निः पथिकेन पीयत इव ज्वालाहृतश्मश्रुणा ॥ ५२ ॥
शिशिरवर्णनम्
प्रावरणैर्गङ्गारैर्गर्भगृहै स्तनतटैश्च दयितानाम् । सतर्जित-
माढ्याना निपतति शीतं दरिद्रेषु ॥ १ ॥
शिशिरसमयस्वभावाख्यानम्
कारणोत्पन्नकोपोऽपि साप्रतं प्रमदाजन. । निशि शीता-
पदेशेन गाढमालिङ्गति प्रियम् ॥ २॥ एते समुल्लसद्भासो रा-
जन्ते कुन्दकोरका. । शीतभीता लताकुन्दमाश्रिता इव तारकाः
॥ ३ ॥ अशुंकमिव शीतभयात्सस्त्यानत्वच्छलेन हिमधवलम् ।
अम्भोभिरपि गृहीत पश्यत शिशिरस्य माहात्म्यम् ॥ ४ ॥
आचुम्ब्य बिम्बाधरमङ्गवल्लीमालिङ्ग्य सस्पृश्य कपोलपालिम् ।
श्रीखण्डमादाय करेण कान्त. सत्रासयामास सरोरुहाक्षीम्
॥ ५ ॥ तपनस्तपति स्म मन्दमन्दं ज्वलनोऽपि ज्वलति स्म किचि-
देव । शरणं शिशिरेऽथ कि च यूना युवतीना स्तनयुग्ममात्र-
मासीत् ॥ ६ ॥ कुसुमयनफलिनीरनिलैरैर्मदविकासिभिराहित-
दुकृतिः । उपवनं निरभर्त्सयत प्रियान्वियुवतीर्युवतीः शिशि-
रानिल. ॥ ७ ॥ उपचितेषु परेष्वसमर्थता व्रजति काल-
वशाद्वलवानपि । तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमहा-
निकरोऽभवत् ॥ ८ ॥ अभिषिषेणयिषुं भुवनानि यः खरमि-
वारुयत लोध्ररजश्रय । क्षुभितसैन्यपगगविपाण्डुरद्युतिरय
तिर्यञ्चदुभूदिशः ॥ ९ ॥ शिशिरमासमपास्य गुणोऽस्य नः कइव
शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे धनमतो
नमतोऽनुमतान्प्रियाः ॥ १० ॥ अधिलवङ्गममी रजसाधिकं मलि-
नितासुमनोदलतालिन. । स्फुटमिति प्रसवेन पुरो हसतस्सपदि
कुन्दलता दलतालिना ॥ ११ ॥ द्वार गृहस्य पिहित शय-
नस्य पार्श्वे वह्निर्ज्वलत्युपरि तूलपटो गरीयान् । अङ्गानुकूल-
मनुरागवश कलत्रमित्थ करोति किमसो स्वपतस्तुषारः
॥ १२ ॥ वह्ने शक्तिर्जलमिव गता दर्शनाद्दाहवृत्तेर्निर्मूल्यो-
द्धून्चे नवमरुबके वर्तते पुष्पकार्यम् । शीतत्रास दधदिव
रविर्याति सिन्धोः कृशानुः शीतैर्भीता इव च दिवसा-
सांप्रतं सकुचन्ति ॥ १३ ॥ पीनोत्तुङ्गपयोधरा, परिलसत्स-
पूर्णचन्द्राननाः कान्ता नैव गृहे गृहे न च दृढ जात्यं न
काश्मीरजम् । ताम्बूलं न च तूलिका न च पटी तैल न
१ वह्नि २ सूर्य ३ वह्नि ४ केशरम
३४८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
गन्धाविलं सद्यो गोघृतपाचिता न वटका. शीतं कथं गम्यते ॥ १४ ॥ चुलीसीमनि गोरसार्द्रमशनं भुक्त्वा परीत्याऽर्भकैरभ्याशे ख्रुक्पूषीक्षुयन्त्रनिनदं हर्षात्समाकर्णयन् । शेते संहतगोगणोष्मणि गृहे स्रस्ताम्बरां गेहिनीमालिङ्गयागणयन्नि॒िशासु तुहिनं प्रौढामरः पामरः ॥ १५ ॥
दृङ्मीलनक्रीडा न पाणिप्रच्छाद्य नयनयुगमत्यायतमइदं नितम्बसौंदार्यात्त्वरितगतियोगोऽप्यसुलभः । अतिकल्पौ पाणी स्तनभरनिरोधान्न मिलितौ निमीलत्क्रीडाया कलुषयसि मुग्धे किमिति न. ॥ १६ ॥ नैतस्याः प्रसृतिद्वयेन सरले शक्ये विधातुं दृशौ सर्वत्रैव विलोक्यते मुखशशिज्योत्स्नावितानैरियम् । इत्थं बालतया सखीभिरसकृद्दृङ्मीलनाकेलिषु व्याषिद्धा रजनीमुखे च नयने स्वे गर्हते कन्यका ॥ १७ ॥
शिशिरवायवः केशानाकुलयन्दृशौ मुकुलयन्वासो बलादाक्षिपन्नान्वन्पुलकोद्गमं प्रकटयन्नावेगकम्प गतेः । वारंवारमुदारसीत्कृतभरैर्दन्तच्छदं पीडयन्प्रायः शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥ १८॥ चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः । ऊरूनाकम्पयन्तः पृथुजघनतटात्संसयन्तोंऽशुकानि व्यक्तं कान्तानानाना विटचरितभृतः शैशिरा वान्ति वाताः ॥ १९॥
शिशिरपथिकः पुण्याग्नौ पूर्णवाञ्छः प्रथममगणितप्लोषदोषः प्रदोषे पान्थः सुप्त्वा यथेच्छं तदनु तनुतृणे धामनि ग्रामदेव्याः । उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रे वाते वाति प्रकामं हिमकणिनि कणत्कोणतः कोणमेति ॥ २० ॥ सविष्ठे ग्रामदेव्याः कुटघटितकुटीकुड्यकोणेकदेशे शीते सवाति वायौ हिमकणिनि रणद्दन्तपङ्किद्वयाग्रः । पान्थः कन्था निशीथे परिकुथितजरत्तन्तुसंतानगुर्वीं ग्रीवापादाग्रजानुग्रहणचटचटत्कर्पटा प्रावृणोति ॥ २१ ॥ आरात्कारीषवह्नेर्विरचितसुतृणप्रस्तरान्तर्निषण्णैः संशीर्णग्रन्थिकन्थाविवरवशविशच्छीतवाताभिभूतैः । नीता. कृच्छ्रेण पान्थैः श्वमिरिव निबिडं जानुसंकोचकुब्जैरन्तर्दुर्वारंढु खद्विगुणतरकृतायामयामास्त्रियामा ॥ २२ ॥
स्त्रीस्वभावनिन्दा अनृतं साहस माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणा दोषा. स्वभावजाः ॥१॥ स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसहसाः । घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ २ ॥ स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः । पुरुषाणा तु पाण्डित्य शास्त्रेणैवोपदिष्यते ॥ ३ ॥ विधौयालीकविभ्रममज्जेषु त्यक्तसौहृदाः । नवं नवममीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ ४ ॥ जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् । हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ५ ॥ स्त्रीणा द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥ ६ ॥ अन्तःक्रूराः सौम्यमुखा अगाधहृदया स्त्रियः । अन्तर्विषा बहिःसौम्या मक्ष्या विषकृता इव ॥ ७ ॥ कामनाम्रा किरातेन विर्त्तता मूढचेतसाम् । नार्यो नैरविहंगाना मङ्गबन्धनवागुराः ॥ ८ ॥ दर्शनाद्धरते चित्तं स्पर्शनाद्धसते बलम् । सगमाद्धसते वीर्य नारी प्रत्यक्षराक्षसी ॥ ९ ॥ चतुरः सृजतः पूर्वमुपायास्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषित ॥ १० ॥ क्रियस्तु यः कामयते सनिकर्तुं च गच्छति । ईषत्प्रकुरुते सेवा तं तमिच्छन्ति योषित ॥ ११ ॥ स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणा सतीत्वमुपजायते ॥ १२ ॥ यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत्क्रीडाशंकुन्तवत् ॥ १३ ॥ अनर्थित्वान्मनुष्याणा भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥ १४ ॥ नासा कश्चिदगम्योऽस्ति नासा च वयसि स्थितिः । विरूप रूपवन्त वा पुमानित्येव भुञ्जते ॥ १५ ॥ रक्तोऽभिजायते भोग्यो नारीणा शांटैको यथा । घृष्यते यो दशालम्बी नितम्बे विनिवेशितः ॥ १६ ॥ अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिरलाद्रक्त. पादमूले निपात्यते ॥ १७ ॥ शम्बरस्य च या माया या माया नमुचेरपि । बले कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥ १८ ॥ हसन्त प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगत. ॥ १९ ॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पति. । स्त्रीबुद्ध्या न विशिष्येत तस्माद्रक्ष्याः कथं हि ताः ॥ २० ॥ अनृतं सत्यमित्याहुः सत्य चापि तथानृतम् । इति यास्ताः कथ धीरैः सरक्ष्याः पुरुषैरिह ॥ २१ ॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकारा योषित. केन निर्मिताः ॥ २२ ॥ यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छन. । स्त्रीणा तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हित. ॥ २३ ॥ या भार्या दुष्टचरिता सतत कलहप्रिया । भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ २४ ॥ तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणामिह हि मर्वासा य इच्छेत्सुखमात्मनः
१ अमल्पम् २ कपटम् ३ दु सहा ४ स्वभावत
१ कपटविश्वासम् २ कुलटा ३ स्वेच्छावृत्तय ४ सह ५ भिलेन ६ प्रसृता ७ नरा एव विहगा पक्षिनस्तेषाम् ८ पाशा ९ समुचितावमर १० क्रीडार्थं पालित पिञ्जरस्थो हि पक्षी यथा भाषणादि करोति तद्वत ११ पट
स्त्रीस्वभावनिन्दा ३४९
॥ २५ ॥ के नाम न विनश्यन्ति मिथ्याज्ञानाश्रितन्त्रिणीम् । रम्या बुद्धोपसर्पन्ति ये ज्वाला शलभा इव ॥ २६ ॥ यदन्तस्तन्न जिह्वाया यज्जिह्वाया न तद्बहिः । यद्बहिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रिय ॥ २७ ॥ ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिता. । न वश योषितो यान्ति न दानेर्न च सस्तवै. ॥ २८ ॥ आस्ता तावत्किमन्येन दौरात्म्येनात्र योषिताम् । विधुत सोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥ २९ ॥ रूक्षाया स्नेहसभार कठोराया सुमार्दवम् । नीरसाया रस बालो बालिकाया विकल्पयेत् ॥ ३० ॥ मोजनाच्छादने दद्यादृतुकाले च सगमम् । भूषणाद्यं च नारीणा न ताभिर्मन्त्रयेत्सुधी. ॥ ३१ ॥ यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । राजन्निर्मूलता याति तद्गृह भार्गवोऽब्रवीत् ॥ ३२ ॥ तावत्स्यात्सुप्रसन्नास्सस्तावद्गुरुजने रत । पुरुषो योषिता यावन्न शृणोति वचो रह. ॥ ३३ ॥ एताः स्वार्थपरा नार्य केवलं स्वसुखे रता । न तासा वल्लभ. कोऽपि सुतोऽपि स्वसुखं विना ॥ ३४ ॥ यदि स्याच्छीतलो वह्निश्चन्द्रमा दहनात्मक. । सुस्वाद सागरः स्त्रीणा तत्सतीत्वं प्रजायते ॥ ३५ ॥ सगतानि मृगाक्षीणा तडिद्विलसितान्यपि । क्षणद्वयं न तिष्ठन्ति घनाग्न्व्यान्यपि स्वयम् ॥ ३६ ॥ उत्तमानामपि स्त्रीणा विश्वासो नैव विद्यते । राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ ३७ ॥ न लज्जा न विनीतत्वं न दाक्षिण्य न भीरुता । प्रार्थनाभाव एवैक सतीत्वे कारण स्त्रिया ॥ ३८ ॥ न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमा. स्त्रियः ॥ ३९ ॥ सुरूपं पुरुष दृष्ट्वा भ्रातर यदि वा सुतम् । योनि क्लिद्यति नारीणामपात्रमिवाम्भसा ॥ ४० ॥ न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥ ४१ ॥ कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु न तिष्ठन्ति स दोष. स्त्रीषु नारद ॥ ४२ ॥ समयज्ञानर्थवत प्रतिरूपान्वशे स्थितान् । पतीना तटमासाद्य नाल नार्यः प्रतीक्षितुम् ॥ ४३ ॥ न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथचन । न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ ४४ ॥ माद्यति प्रमदा दृष्ट्वा सुरा पीत्वा न माद्यति । यस्माद्दृष्टिमदा नारी तस्मात्ता परिवर्जयेत् ॥ ४५ ॥ यौवने वर्तमानाना मृष्टाभरणवाससाम् । नारीणा स्वैरवृत्तीना स्पृहयन्ति कुलस्त्रिय. ॥ ४६ ॥ या हि शश्वद्वहुमता रक्ष्यन्ते दयिता. स्त्रिय. । अपि ता. सप्रसज्जन्ते कुब्जान्धजडवामनैः ॥ ४७ ॥ पङ्गुष्वपि च वैरूप्ये ये चान्ये कुत्सिता जनाः । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ ४८ ॥ अलाभात्पुरुषाणा हि भयात्परिजनस्य च । वधबन्धभयाच्चैव तथा गुप्ता हि योषितः ॥ ४९ ॥ लोकानामपि दातार कर्तार मानसान्तवोः । रक्षितारं न मृष्यन्ति भर्तार परमस्त्रिय ॥ ५० ॥ न कामभोगान्बहुलाञ्छालङ्कारार्थसञ्चयान् । तथा हि बहु मन्यन्ते यथा रत्या परिग्रहम् ॥ ५१ ॥ असमद्धर्मरूपयं स्त्रीणामस्माकं भवति प्रभो । पापीयसो नरान् यद्वै लज्जा त्यक्त्वा भजन्ति ता ॥ ५२ ॥ अविद्वासमलं लोके विद्वाममपि वा पुन' । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ ५३ ॥ यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः । स्त्रिय त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ५४ ॥ यस्य जिह्वामहस स्याज्जीवेत्साम्प्रतं च य । अनन्यकर्मा स्त्रीदोषान्त्सोऽप्यनुक्त्वा लयं व्रजेत् ॥ ५५ ॥ न विषेण न शस्त्रेण नाग्निना न च मृत्युना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृता ॥ ५६ ॥ नयनविकारैरन्य वचसैरन्य विचेष्टितैरन्यम् । स्मयति सुगतेनान्य स्त्री बहुरूपा निजा कस्य ॥ ५७ ॥ स्त्रीषु न रागः कार्यो रक्त पुरुष स्त्रिय. परिभवन्ति । रक्तेव हि रन्तव्या विरक्तभावा तु हातव्या ॥ ५८ ॥ हृदयं हरन्ति नार्यो मुनेरपि भ्रूकटाक्षविक्षेपैः । दोर्मूलनाभिदेश प्रदर्शयन्त्यो महाचपला. ॥ ५९ ॥ सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा । मधु तिष्ठति वाचि योषिता हृदये हालहल महद्विषम् ॥ ६० ॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । पुरुषैः सुखलेशवञ्चितैर्मधुलुब्धै. कमल यथालिभि. ॥ ६१ ॥ गुणाश्रयं कीर्तियुत च कान्तं पति विधेयं सधनं रतिज्ञम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तर शील$^३गुणादिहीनम् ॥ ६२ ॥ समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागा. । स्त्रियो हृतार्थाः पुरुष निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ ६३ ॥ स्त्रियो हि मूलं निर्धनस्य पुंस स्त्रियो हि मूल व्यसनस्य पुंस. । स्त्रियो हि मूलं नरकस्य पुंस स्त्रियो हि मूल कलहस्य पुंसः ॥ ६४ ॥ अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च स्त्रीषु च विश्वसन्ति । स्त्रियो हि कुर्वन्ति तथैव नार्यो भुजंगकन्यापरिसर्पणानि ॥ ६५ ॥ अन्यं मनुष्य हृदयेन कृत्वा अन्यं ततो दृष्टिभिराहयन्ति । अन्यत्र मुञ्चन्ति, मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ ६६ ॥ नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेत्कुलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तै. पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षै. ॥ ६७ ॥ कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नर प्रसक्तम् । ज्ञात्वाथ तं मन्मथ-
१ प्रतीकाररहित पारुष्य क्रौर्य यासा ता
२ तरङ्ग
३ मायत नाम्नविव क्षणमनुरागिण्य
४ निष्पीडितलाक्षारसरञ्जितकार्पासवत्
५ मरणस्य
६ दु.खस्य
| ३५० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
पाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति ॥ ६८ ॥ संमोह-
यन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विंषा-
दयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम
वामनयना न समाचरन्ति ॥ ६९ ॥ स्त्रीणामशिक्षितपटुत्व-
ममानुषीणां सन्दृश्यते किमुत याः परिबोधवत्यः । प्रागन्त-
रिक्षगमनात्स्वमपत्यजातमन्यद्विजैः परभृताः किल पोषयन्ति
॥७०॥ अनङ्कुरितकूर्चकः स तु ^२सितोपलाढ्यं पयः स एव
धृतकूर्चकः सलवणम्बुतक्रेोपमः । स एव सितकूर्चकः
कथितगुग्गुलूद्वेगकृद्भवन्ति हरिणीदृशा प्रियतमेषु भावास्त्रयः
॥ ७१ ॥ शृणु हृदय रहस्यं यत्प्रशस्तं मुनीना न खलु न
खलु योषित्सन्निधिः संविधेयः । हरति हि हरिणाक्षी क्षिप्र-
मक्षि क्षुरैः पिहितशमतनुत्रं चित्तमप्युत्तमानाम् ॥ ७२ ॥
शास्त्रज्ञोऽपि प्रकटविनयोऽप्यात्मबोधेऽपि गाढं संसारेऽस्मि-
न्भवति विरलो भाजनं सद्गतीनाम् । यैनैतस्मिन्निरयनगर-
द्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चि-
केव ॥ ७३ ॥ अपसरत रे दूरादस्मात्कटाक्षविषानलात्प्रकृ-
तिविषमाद्योषित्सर्पीद्विलासफणामृतः । इतरफणिना दष्टः
शक्यश्चिकित्सितुमौषधैश्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि
मन्त्रिणः ॥ ७४ ॥ स्वातन्त्र्यं पितृमन्दिरे च वसतियांत्रो-
त्सवे संगतिर्गोष्ठीपूरुषसन्निधाननियमो वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः पत्युर्वार्धक-
मीप्सितं प्रवासनं नाशस्य हेतुः स्त्रियः ॥ ७५ ॥ अग्राहां
हृदयं तथैव वदनं यद्दर्पणान्तर्गतं भावः पर्वतसूक्ष्ममार्ग-
विषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं विद्व-
द्भिराशंसित नारी नाम विषाङ्कुरैरिव लतादोषैः समं वर्धिता
॥ ७६ ॥ एकेन स्मितपाटलाधररुचो जल्पन्त्यनलपाक्षरं
वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । दूरोदार-
चरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थ-
तोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥ ७७ ॥ कार्कश्यं स्तन-
योर्दृशोस्तरलताऽलीक मुखे दृश्यते कौटिल्यं कचसंचये प्रव-
चने मान्द्यं त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं
मायाप्रयोगः प्रिये यासा दोषगणो गुणा मृगदृशा ताः किं
नराणां प्रियाः ॥ ७८ ॥ भर्ता यद्यपि नीतिशास्त्रनिपुणो
विद्वान्कुलीनो युवा दाता कर्णसमः प्रसिद्धविभवः शृङ्गार-
दीक्षागुरुः । स्वप्राणाधिककल्पिता स्ववनिता स्नेहेन संला-
लिता तं कान्तं प्रविहाय सैव युवती जारं पतिं वाञ्छति
॥७९॥ आलापैर्मधुरैश्च काश्चिदपरानलोकितैः सस्मितैरन्या-
निश्चमतल्यनाभिरितरानङ्गैरनङ्गोत्ज्वलैः । आचारैश्चतुरैः परा-
नभिनवैरन्यान्यभुवः कम्पनेरित्यं काश्चन रञ्जयन्ति सुदृशो
मन्ये मनस्वव्यथा ॥ ८० ॥ हासस्तूकलिकाप्रदीपनपटुर्हस्ता-
ङ्गिनेत्राननं तन्वङ्ग्या विषजातमेव भुजगी वेणी च रोमावलिः ।
किं च श्रीफलमुन्नतस्तनभरः कामं मनस्तामिमा सर्वाकार-
विषोग्रमूर्तिमबला प्राप्यापि यज्जीवति ॥ ८१ ॥ मुक्ताहारलता
रणन्मनिमया हेमास्तुलाकोटयो रागः कुङ्कुमसंभवः सुरभय
पौष्यो विचित्रा स्रजः । वासश्चित्रदुकूलमल्पमतिभिर्नार्या-
महो कल्पितं बाह्यान्तः परिपश्यता तु निरयो नारीति
नाम्ना कृतः ॥ ८२ ॥ आवर्तः सशयानामविनयभवनं
पत्तन्नं साहसाना दोषाणां सनिधानं कपटशतमय क्षेत्रम-
प्रत्ययानाम् । दुर्ग्राह्यं यन्महद्भिरनरवरवृषमैः सर्वमायाकरण्डं
स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् ॥ ८३ ॥
सतीवर्णनम्
यस्य भार्या ^१शुचिर्दक्षा भर्तारमनुगामिनी । नित्यं मधुर-
वक्त्री च सा ^२रेमा न रमा रमा ॥ १ ॥ नित्यं स्नाता सुगन्धा
च नित्यं च प्रियवादिनी । अल्पमुद्रमितवक्त्री च देवता
सा न मानुषी ॥ २ ॥ असारभूते संसारे सारभूता नित-
म्बिनी । इति संचिन्त्य वै शंभुरर्धाङ्गे पार्वतीं दधौ ॥ ३ ॥
सैव साध्वी सुभक्तश्च सुस्नेहः सरसोज्ज्वलः । ^३पाकः सजा-
यते यस्याः करादप्युदरादपि ॥ ४ ॥ ^४रूपसपन्नम्^५अग्राम्यं
^६प्रेमप्रायं ^७प्रियंवदम् । कुलीनमनुकूलं च ^८कलत्र कुत्र लभ्यते
॥ ५ ॥ न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु
गृहिणीहीनं कान्तारादतिरिच्यते ॥ ६ ॥ वृक्षमूलेऽपि
दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनो ह्यरण्य-
सदृशः स्मृतः ॥ ७ ॥ तावत्कुलस्त्रीमर्यादा यावल्लेज्जा-
वगुण्ठनम् । हृते तस्मिन्कुलस्त्रीभ्यो वर वेश्याङ्गनाजनः
॥ ८ ॥ कार्ये दासी रतौ वेश्या भोजने जननीसमा ।
विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा ॥ ९ ॥ वश्य-
भावेन सुमनाः सुव्रता सुसमाहिता । अनन्यचित्ता सुमुखी
भर्तुः सा धर्मचारिणी ॥ १० ॥ न कार्येषु न भोगेषु नैश्वर्ये
न सुखे तथा । स्पृहा साच्च यथा भर्तुः सा नारी सुख-
भागिनी ॥ ११ ॥ ^१०कल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता ।
सुसमृष्टगृहा चैव गोशकृत्कृतलेपना ॥ १२ ॥ श्वश्रूश्वशुरयोः
पादौ तोषयन्ती पतिव्रता । मातापितृपरा नित्यं या
पादटिप्पण्यः (Left Footnotes):
१ अनुद्गतश्मश्रु २ शर्करायुक्त दुग्धमिव सुखावहः ३ सितकूर्चक-
स्तु स्त्रीणां कथितगुग्गुलुवदुद्वेगजनक न कथमपि सन्तोषजनक इत्यर्थे
४ 'चात्री' इति लोके ५ समागम ६ प्रवास ७ चित्ताभिप्राय
८ पर्वतस्यसूक्ष्ममार्गवदस्फटिकिन ९ कमलपत्रगतजलबिन्दुवच्चञ्चलम्
१० उपदेष्टा
पादटिप्पण्यः (Right Footnotes):
१ पवित्रा २ लक्ष्मी ३ पकान्नम्, पक्षे,-बालक ४ सौन्दर्य-
पूर्णम् ५ सव्यवहारचतुरम् ६ प्रेमबहुलम् ७ मधुरभाषि ८ पत्नी
९ लज्जाया अवगुण्ठन सवरणम् १० प्रातरुत्थाननियमा
सतीवर्णनम्, असतीचरित्रम् ३५१
[स्तम्भः १]
नारी सा पतिव्रता ॥ १३ ॥ पतिर्हि देवो नारीणा पति-
र्बन्धुः पतिर्गतिः। पत्युर्गुतिसमा नास्ति दैवत वा यथा
पतिः ॥ १४ ॥ बालया वा युवत्या वा वृद्धया वापि योषि-
ता। न स्वातन्त्र्येण कर्तव्यं किंचित्कार्यं गृहेष्वपि ॥ १५ ॥
नास्ति स्त्रीणा पृथग्यज्ञो न व्रतं नाप्युपोषणम्। पति शुश्रू-
षते येन तेन स्वर्गे महीयते ॥ १६ ॥ पाणिग्राहस्य साध्वी
स्त्री जीवतो वा मृतस्य वा। पतिलोकमभीप्सन्ती नाचरे-
त्किंचिदप्रियम् ॥ १७ ॥ सदा प्रहृष्टया भाव्यं गृहकार्यं च
दक्षया। सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ १८ ॥
जीवति जीवति नाथे मृते मृता या मुदा युता मुदिते।
सहजस्नेहरसाला कुलवनितात केन तुल्या स्यात् ॥ १९ ॥
प्रतिरजनि प्रतिदिवस विहर बहिश्चण्डि डिण्डिमं दत्त्वा।
कोणवधूरुग्वलितैर्विश्च पुनराकुलीभवति ॥ २० ॥ दीप-
दशा कुलयुवती वैदग्ध्येनैव मलिनतामेति। दोषा अपि
भूषायै गणिकायाः शशिकलायाश्च ॥ २१ ॥ प्रतिपक्षेणापि
पति सेवन्ते भर्तृवत्सलाः साध्व्यः। अन्यरुदिता शतानि
हि समुद्राः प्रापयन्त्यब्धिम् ॥ २२ ॥ तल्पे प्रभुरिव
गुरुरिव मनसिजशास्त्रे श्रमे मुनिज्ञेयः। गेहे श्रीरिव गुरुजन-
पुरतो मूर्तेव सा व्रीडा ॥ २३ ॥ ढक्कामाहत्य मद वितन्वते
करिण इव चिर पुरुषाः। स्त्रीणा करिणीनामिव मदः पुनः
स्वकुलनाशाय ॥ २४ ॥ अकरुण कातरमनसा दर्शितनीरा
निरन्तरालेयम्। त्वामनुधावति विमुखं गङ्गेव भगीरथं
दृष्टिः ॥ २५ ॥ परपतिनिर्दयकुलटाशोषित शठ नेर्ष्या न
कोपेन। दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥ २६ ॥
कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा।
धर्मेऽनुकूला क्षमया धरित्री भार्या च षाड्गुण्यवतीह दुर्लभा
॥ २७ ॥ बहिर्न लोला दृगपाङ्गमूलादुपैति कूलादिव साग-
रोर्मि। न वा सतीनामभिलाषबन्धं व्यनक्ति गन्धं कलि-
केव चेतः ॥ २८ ॥ लज्जावशावनतमन्थरदृष्टिपातं यैश्श्रु-
म्बितं कुलवधूवदनारविन्दम्। तेषामनेकपुरुषव्रणिताधरेषु
सक्तिः कथं भवति वेशवधूमुखेषु ॥ २९ ॥ नातः पर कुल-
मतः परतो न शीलं नातः पर च करुणासदन मृगाक्ष्याः।
यद्वाष्पबिन्दुरपराधवतोऽपि पत्युरुत्सङ्गितेन चरणेन तया-
पनिन्थे ॥ ३० ॥ मानाभिवर्धनमहौषधमेतदेव स्त्रीणा सपत्न-
वनिताहृयकीर्तनं यत्। अव्याजनिर्भरभयप्रणतोत्तराणा
मन्ये विशेषत इदं कुलकन्यकानाम् ॥ ३१ ॥ पदन्यासो
गेहाद्बहिरहिफणारोपणसमो निजौवासादन्यद्भवमपरद्वीप-
तुलितम्। वचो लोकालब्यं कृपणधनतुल्य मृगदृशः पुमानन्यः
१ सर्प २ स्वगृहात्
[स्तम्भः २]
कान्ताद्विधुरिव चतुर्थ्यांसमुदितः ॥ ३२ ॥ चतुर्थेऽह्नि
स्नाता त्रिदिनविरहात्पाण्डुवदना रजोमुक्ता तन्वी चपल-
नयना कामकलिताम्। हिमलग्नेमार्जारीमलयभवगन्ध-
प्रणयिनीमधन्यः को भुङ्क्ते च्युतकुसुमशेषामिव लताम् ॥ ३३ ॥
गतागतकुतूहल नयनयोरपाङ्गावधि स्मितं कुलनातश्रुवा-
मधर एव विश्राम्यति। वचः प्रियतमश्रुतेरतिथिरैव कोप-
क्रमः कदाचिदपि चेत्तदा मनसि केवल मज्जति ॥ ३४ ॥
भक्तिः प्रेयसि सत्रितेषुँ करुणा श्वश्रूषु नम्रं शिरः प्रीतिर्या-
तृषु गौरवं गुरुजने क्षान्तिः कृतागस्वपि । म्लाना कुल-
योषिता व्रतविधिः सोऽय विधेयः पुनर्मद्भर्तुर्दयिता इति प्रिय-
सखीबुद्धिः सपत्नीष्वपि ॥ ३५ ॥ अभ्युत्थानमुपागते गृह-
पतौ तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधिस्तत्तोपै-
चर्या स्वयम्। सुप्ते तत्र शयीत तत्प्रथमतौ जह्याच्च शय्या-
मिति प्राच्यैः पुत्रि निवेदितः कुलवधूस्सिद्धान्तधर्मोगमः
॥ ३६ ॥ शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्ति सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः। भूयिष्ठ भव
दक्षिणा परिजने मोगेष््वनुत्सेकिनी यान्त्येव गृहिणीपदं
युवतयो वामाः कुलस्याधयः ॥ ३७ ॥ निर्व्याजा दयिते नना-
न्दुषु नता श्वश्रूषु भक्ता भव स्निग्धा बन्धुषु वत्सला परि-
जने स्नेरा सपत्नीष्वपि। भर्तुर्मित्रजने सनम्रवचना खिन्ना
च तद्वैरिषु प्रायः सवननं नतभ्रु तदिदं वीतौषधं भर्तुषु
॥ ३८ ॥ स्नानाम्भो बहु साधित रसवती देवाग्निकार्यो-
चितः सम्भारो रचितो विशुद्धवसने कालोचिते योजिते।
स्नानं नाथ विधीयतामतिथयः सीदन्ति नान्या त्वरा धन्यं
बोधयते शनैरिति पति मध्याह्नसुप्तं सती ॥ ३९ ॥ सचारो
रतिमन्दिरावधि सखीकर्णावधि व्याहृतं चेतः कान्तसमीहि-
तावधि महामानोऽपि मौनावधि। हास्यं चाधरपल्लवावधि
पदन्यासावधि प्रेक्षितं सर्वं सावधि नावधिः कुलभुवा 'प्रेम्णः
पर केवलम् ॥ ४० ॥ शुश्रूषामनुरुन्धती गुरुजने वाक्ये
ननान्दुः स्थिता दाक्षिण्यैकपरायणा परिजने स्निग्धा सपत्नी-
ष्वपि। सन्नद्धातिथिसत्कृतौ गृहमरे नैस्तन्द्यमाबिभ्रती वत्से
कि बहुना भजस्व कुशल भर्तुः प्रिये जाग्रती ॥ ४१ ॥
असतीचरित्रम्
यस्य भार्या विरूपा च कश्मला कलहप्रिया। अधिका-
धिकभक्षा च सा जँरा न जरा जरा ॥ १ ॥ एषैव योषि-
ता धन्या शीलं च लभते सुखम्। दिवा पतिव्रता भूयो
१ कान्तात्प्रियादन्य पुमान्वरदचतुर्थ्युदितश्चन्द्र इव दर्शनानर्ह
इत्यर्थ २ भर्तरि. ३ आश्रितेषु ४ क्षमा ५ अपराधिनि
६ प्रफुल्लवदना ७ पूजा ८ त्यजेत् ९ अमङ्गला १० वृद्धत्वम्
३५२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
नक्तं च कुलटा यतः ॥ २ ॥ पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतिलुब्धाः ॥ ३ ॥ दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ ४ ॥ इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का । तस्मिन्नभिनववध्वा नीता वीतोद्यमाः क्षणदाः ॥ ५ ॥ सुखशय्या ताम्बूलं विश्रब्धाश्लेषचुम्बनादीनि । तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ६ ॥ दिवसे घटिकास्त्रिंशन्निश्रिाद्घटिकाः परं रजनौ । लक्ष्यं नगरयुवानस्तात विघातः किमाचरितम् ॥ ७ ॥ आरोपिता शिलायामइमेव त्वं भवेति मन्त्रेण । मन्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ८ ॥ कुलपतनं जनगर्हा बन्धनमपि जीवितस्य संदेहम् । अङ्गीकरोति सकलं वनिता परपुरुषसक्ता ॥ ९ ॥ सखि सुखयत्यवकाशे प्राप्तः प्रेयान् यथा तथा न गृहे । वाताद्वारितादपि भवति गवाक्षानिलः शीतः ॥ १० ॥ द्वारि स्तम्भविलग्ना प्रियसखि दृष्टिं पथि क्षिपसि । प्रहिणोषि भाग्यभाजि प्रेयसि दूतीमिव भ्रमरीम् ॥ ११ ॥ सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम् । पीयूषेऽपि हि भेषजभावोपहिते भवत्यरुचिः ॥ १२ ॥ इह नगरे प्रतिरथ्यं भुजंगसर्वोर्धरुचिरसंचारे । सुन्दरि मम मतमेतन्नैकुलप्रतिपालनं श्रेयः ॥ १३ ॥ केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटवः । बन्धक्याः परितोषो न स्यादनभीष्टदंपत्योः ॥ १४ ॥ संदिग्धे परलोके जनापवादे च जगति बहुचित्रे । स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥ १५ ॥ यदि भवति दैवयोगात्पुमान्विरूपोऽपि बन्धकी रहसि । न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव ॥ १६ ॥ यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥ १७ ॥ तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च । दन्तमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥ १८ ॥ एष्यति मा पुनरयमिति गमने यद्मङ्गलं मयाकारि । अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥ १९ ॥ ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ २० ॥ मया कुमार्यापि न सुसमेकया न जारमुत्सृज्य पुमान्विलोकितः । अनेन गोत्रस्थितिपालनेन मे प्रसन्नतामेतु भवोेपकारिणी ॥ २१ ॥ पाणौ गृहीतापि पुरस्कृतापि स्नेहेन नित्यं परिवर्धितापि । परोपकाराय भवेद्वश्यं वृद्धस्य भार्या करदीपिकेव ॥ २२ ॥ प्रियो मयैवावचितैः प्रसूनैर्हृष्टो हरस्यातनुते सपर्याम् । अतो नतानेकलतावृतानि यास्यामि सायं विपिनानि सख्यः ॥ २३ ॥ निभृतं निभृतं निभालयन्त्या वरुणाशाभरणाग्रितं पतङ्गम् । गुरुयन्त्रितयापि गोपवध्वा नयनान्तेन निमन्त्रितो मुकुन्दः ॥ २४ ॥ शिरसि शिरसिजं दृशोर्निमेषं विटपिनि पल्लवमाल्ये तृणं वा । गणयितुमपि पारयन्ति केचित्प्रियसखि के कथयन्तु जारसंख्याम् ॥ २५ ॥ पतिरतीव धनी सुभगो युवा परविलासवतीषु पराङ्मुखः । शिशुरलंकुरुते भवनं सदा तदपि सा सुदती रुदती कुतः ॥ २६ ॥ नाम्बुजैर्न कुसुमैरुपमेयं स्वैरिणीनयनपङ्कजयुग्मम् । नोदये दिनकरस्य न वेन्दोः केवलं तमसि यस्य विकासः ॥ २७ ॥ दृग्भङ्गमङ्गिमशतैरसतीरहस्यमन्वेषयन्कपटभिक्षुक लक्षितोऽसि । म्वस्य प्रभुर्न च भवामि ततः क्षमस्व भिक्षोपढौकनमिषादयमङ्गलिस्ते ॥ २८ ॥ ब्रह्मैव सत्यमखिलं नहि किंचिदन्यत्तत्त्वान्न मे सखि परापरभेदबुद्धिः । जारे तथा निजवरे सदृशोऽनुरागो व्यर्थं किमर्थमसतीति कदर्थयन्ति ॥ २९ ॥ जन्मैव मास्तु यदि वा न नितम्बिनीषु तत्रापि चेदहह नैव कुलाङ्गनासु । हा धिग्विधे कुलवधूरथ चेद्भवेयं नैवास्तु च क्वचन मे मनसोऽनुबन्धः ॥ ३० ॥ गोष्ठेषु तिष्ठति पतिर्बधिरा ननान्दा नेत्रद्वयस्य च न पाटवमस्ति यातुः । इत्थं निशम्य तरुणी कुचकुम्भसीम्नि रोमाञ्चकञ्चुकमुदञ्चितमाततान ॥ ३१ ॥ वयसि बाल्ये बालास्तरुणिमनि यूनः परिणतावपीच्छामो वृद्धान् परिणयविधौ नः स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुमनेनैकपतिना न मे गोत्रे पुत्री क्वचिदपि सतीलाञ्छनमभूत् ॥ ३२ ॥ दृशा किंचित्किंचिच्चलितमुजलीलाविलसितैः कराघातैः किंचिन्नखविलिखनैः किंचिदधिकम् । स्पृशन्त्यः सर्वाद्ये गुरुभिरनभिप्रेक्षितपथे यथेष्टं चेष्टन्ते स्फुटकूचतटाः पश्य कुलटाः ॥ ३३ ॥ अनार्यप्रज्ञानामिह जनवधूनां हि मनसो महाशल्यं कर्णे तव नवकजम्बूकिसलयः । भ्रमन्भिक्षाहेतोरधिनगरि बुद्धोऽसि न मया त्वयैतावद्वेषः पथिक न विधेयः पुनरपि ॥ ३४ ॥ अयं रेवोपकण्ठः कुसुमशरसेवासमुचितः समीरोऽयं वेलानवविदलदेलापरिमलः । इयं प्रावृड्
पादटिप्पण्यः (Footnotes)
वामभागस्थपादटिप्पण्यः: १ दुर्दिने २ रात्रयः ३ स्थापिता ४ परिणयरूपायामापदि संकटे ५ अदृष्टताम् ६ निन्दाम् ७ अवसरे ८ रथ्यायां रथ्यायाम् ९ सर्पाः, पक्षे,-जाराः समर्द १० नकुलस्य पालनम्, पक्षे,-न इति पदच्छेदः ११ कुलप्रतिपालनं न श्रेयः १२ बन्धकी = कुलटा १३ अशोककलिका १४ अशोकतरुतले कृतसंकेतं तत्र गत्वा तदीयपञ्जरीं मादाय प्रतिनिवृत्तं दृष्ट्वा गृहव्यापारावेशात्वत्कृतसंकेतभङ्गात्स्वापराधभावनया तस्या मुखच्छाया लज्जया मलिना भवतीत्यर्थः
दक्षिणभागस्थपादटिप्पण्यः: १ प्रीत्या, पक्षे,-तैलेन २ सुन्दरः, अथ च,-सुष्ठु भं नक्षत्रं तस्मिन्गच्छति कुयोगं त्यक्त्वा भार्या व्रजति इदमेव रोदनकारणम् ३ उपमातुं योग्यम् ४ बाल्यावस्थायाम् ५ तारुण्ये ६ वार्धक्ये ७ इच्छाविषयान्कुर्मः ८ जनसमर्दे ९ व्यापारं कुर्वते १० स्वैरिण्यः ११ नर्मदातीरभवं लतागृहम्
असतीचरित्रम्
३५३
धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि किमपि कर्तुं मृगयते ॥ ३५ ॥ स्थितिर्गेहोपान्ते परिजनपरीहासकलना मुहुर्यातायाते सकृदपि गृहे व्याजगमनम् । मुहुस्तद्योग्येऽपि क्षणपरिचयो वस्तुनि दृशः समुत्पन्ने प्रेम्नः सकलमिदमापातसुखदम् ॥ ३६ ॥ नितम्बिन्यो नित्यं विनयपथविन्यस्तमनसः पताकाः स्युः पुत्रि प्रतिनियतमेताः स्वकुलयोः । गुरोरित्यादेशं सदसि सुदृशामङ्गीकृतवती गतातङ्कं राधा हरिमुखमगाङ्कं मृगयते ॥ ३७ ॥ अये को जानीते निजपुरुषसङ्गो नहि तथा यथा स्त्रीणां चेतः परपुरुषसङ्गो रमयति । अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी ॥ ३८ ॥ ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी घोटीहेषा विकृतविरुतं हेतुहीनं हसन्ती । स्थानस्थानस्खलितपदविन्यासमाभासमाना यूनामग्रे वसति कुटिलं नर्तितोश्चैर्नितम्बम् ॥ ३९ ॥ ज्ञाता मैत्री सहजमधुरापातिमिलोचितान्तैः कर्णार्कर्णि प्रथितमयशो बन्धुवर्गेरभाणि । सप्रत्येवं तदपि न मनाङ्मुञ्चति प्राणनाथं को जानीते कुवलयदृशः कीदृशः प्रेमबन्धः ॥ ४० ॥ भ्रूभेदैः कतिचिद्विरा कुटिलया काश्चित्कियत्यः स्मितैः स्वैरिण्यः कथयन्ति मन्मथरसव्यापारवश्यं मनः । कासाचित्पुनरङ्गकेषु मसृणच्छायाेषु मध्यस्थितो भावः काचपुटेषु पुंष्करमिव प्रव्यक्तमालोक्यते ॥ ४१ ॥ यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ ४२ ॥ दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपो पास्यति । एकाकिन्यपि यामि तद्धरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तमुपालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ४३ ॥ शुश्रूषस्व गुरून्निवर्तय सखीवृन्दस्व बन्धुस्त्रियः कावेरीतटसन्निविष्टनयने मुग्धे किमुत्ताम्यसि । आस्ते पुत्रि समीप एव गमनादेलालतालिङ्गितन्यञ्चद्वालतमालदन्तुरदरी तत्रापि गोदावरी ॥ ४४ ॥ भद्र तस्य तरोः स्वयं चिरकृतप्रस्थानकं कथ्यतां दुर्वारस्तमरण्यवहिरदहद्विग्दारुणं दुर्वचः । मा खिद्यस्व ततः प्रभृत्यनुदिनं तस्याः पतद्भिर्दृशोरम्भोभिः परिणद्धपल्लवघनच्छायस्तरुर्वर्धते ॥ ४५ ॥ स्वामी निःश्वसितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः । तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते वैदग्धीमधुरप्रपञ्चचतुर व्यर्थोऽयमत्र श्रमः ॥ ४६ ॥ आयातासि विमुञ्च
वेपथुभरं दृष्टासि नो केनचिन्नीलं चोलममुं विमुञ्च हरतु खेदं निशीथानिलः । इत्यन्तर्भयसन्नकण्ठमसकृच्चामीति तल्पं गता जल्पन्ती परिरभ्यते सुकृतिभिः स्वैरं नवस्वैरिणी ॥ ४७ ॥ सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिकाप्रेषणं हृद्यं श्रो भविता समागम इति प्रीतिप्रसादश्च यः । प्राप्ते कालसमागमे सरभसं यच्चुम्बनालिङ्गनं तत्कामस्य फलं तदेव सुरतं शेषा पशूनां स्थितिः ॥ ४८ ॥ इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नोच्छ्वासा हृदयं दहन्त्यशिशिरा नो याति कार्श्यं वपुः । स्वाधीनामनुकूलिकां स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहश्रमव्रतमिदं कष्टं समाचर्यते ॥ ४९ ॥ चेत्तौणदपि शङ्कसे हिमरुचोरप्यार्चिषो लज्जसे भोगीन्द्रादपि चेद्विभेषि तिमिरस्तोमादपि त्रस्यसि । चेत्कुञ्जादपि दृप्यसे जनघटध्वानादपि क्षुभ्यसि प्रायः पुत्रि हतास्मि हन्त भविता त्वत्तः कलङ्कः कुले ॥ ५० ॥ आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा । निर्गच्छ त्वरितं गृहाद्वहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः ॥ ५१ ॥ कार्ये सत्यपि जातु याति न बहिर्नीप्यन्यमालोकते साधीय्यँनुकुर्वती गुरुजनं श्वश्रूं च शुश्रूषते । विस्रम्भं कुरुते च पत्युरधिकं ग्रासे निशीथे पुनन्निद्राणे सकले जने शशिमुखी निर्याति रँन्तुं विटैः ॥ ५२ ॥ आकारेण शशी गिरा पॅरभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे समं दयितया रत्या प्रमत्तो गजः । इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति सान्नँैष दोषो यदि ॥ ५३ ॥ ज्ञातं ज्ञातिजनैः प्रमृष्टमयशो दूरं गता धीरता त्यक्ता ह्रीः प्रतिपादितोऽप्यविनयः साध्वीपदं प्रोज्झितम् । लुप्ता चोभयलोकसाधुपदवी दत्तः कलङ्कः कुले भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति ॥ ५४ ॥ देहे दुर्ललितस्य देवरशिशोः स्फोटव्रणो दारुणो यांतंस्तेन वनस्पतित्वचमुपाहर्तुं मया गम्यते । दृप्यन्तु श्वसितानि घर्मसलिलैः पत्राणि लुप्यन्तु वा वक्षो वा विलिखन्तु हन्त नखरैः क्रुद्धाः कपिश्रेणयः ॥ ५५ ॥ अम्ब श्वश्रू यदि त्वया हतशुकः संवर्धनीयस्तदा लौहं पञ्जरमस्य दुर्नयवतो गाढान्तरं कारय । अद्यैनं बदरीनिकुञ्जकुहरे सलीनमन्विष्यती दृष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः ॥ ५६ ॥ न्यस्तं पन्नगमूर्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरोस्त्यक्ता प्रीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम् ।
| १ सूर्येण २ जलम् ३ नवयौवनोपभोक्ता ४ श्रेष्ठ विलक्षणरतिकक्षम इत्यर्थ ५ कूपसम्बन्धिनीं<br>४५ सु. र. भा. | १ भगिनी २ कदाचित् ३ अनुकरणं कुर्वाणा ४ विश्वासम् ५ शयाने ६ क्रीडितुम् ७ जारैः ८ कोकिलः ९ गमने १० सम्बोधनपदम् 'जात' इति वा पाठ |
३५४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
अङ्गानां शतयातना नयनयोः कोऽपि क्रमो भैरवः कुम्भीपाकपराभवश्च मनसो युक्तं मयि प्रस्थिते ॥ ५७ ॥ नारीणां खलु बन्धुरन्धतमस पाथोधरः सोदरः कुञ्जं नाभिमृहं निशा सहचरी सेव्यः खरः क्ष्मापतिः । इत्थं चारुचकोर- चञ्चलदृशा यासा मतिर्जायते तासामेव यशः सुधाशुधवलं तासां च सौख्यं सदा ॥ ५८ ॥ हंसैः शैवलमञ्जरीति कबरी चञ्चूभिराकर्षिता वक्रे चन्द्रधिया चकोरवनिता चक्रे नखै- रक्रमम् । भृङ्गैः पङ्कजकोरकप्रतिमया वक्षोरुहो वीक्षितस्त- न्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ५९ ॥ आस्तां विश्रसनं सखीषु विदिताभिप्रायसारे जने तत्राप्य- र्पयितुं दृशं सुरुचिरा शक्नोमि न व्रीडया । लोकोऽप्येष परोपहासकुशलः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६० ॥ कार्येणापि विल- म्बनं परगृहे श्वश्रूर्न समन्यते शङ्कामर्चयन्ति यूनि भवनं प्राप्ते मिथो यातरः । वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा ननान्दा पुनः कष्टं हन्त मृगीदृशा पतिगृहे प्रायेण कारा- गृहम् ॥ ६१ ॥ एकान्ते बत नो गृहं शशिसुखोऽप्यन्या- दृशो दृश्यते क्षिप्रं साधय यातु पुत्रित्स दिने मुक्तान्यमावा- सकम् । श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रैरयन्त्या वधूः पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ६२ ॥ एते वारिकणाः किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति न सृजन्त्येते पुनर्नायकान् । त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान्चातः कातरमाल- पामि कुलटाहेतोस्त्वया कि कृतम् ॥ ६३ ॥ सपत्नक्स्याद्य तारा भवति तरलिता यत्पुरो नेत्रतारा दृष्टा केनाद्य काञ्ची यदमिसुखगता वेपते रत्नकाञ्ची । उग्रः कस्याद्य तुष्टः सखि यदनुमते कश्चिदुत्ग्रोऽनुतापः ज्ञातं केनाद्य वेणीपयसि विलुलिता यत्कृते कापि वेणी ॥ ६४ ॥ पश्यन्ति स्निग्धमुग्धं प्रतिकलमधुरैर्मोहयन्त्यङ्गहारैः साकूतैर्मन्दहासैरपि पर- पुरुषान् शश्वदानन्दयन्ति । चेष्टन्ते चेत एते किमपि परिचयाद्धारयिष्यन्ति तेषा प्राणान्को वेद लोके परजलज- दृशा चित्तमत्यन्तलोलम् ॥ ६५ ॥ पृथ्वी तावत्रिकोणा विपुलनदनदीग्रावरुद्धं तदर्थं तत्राप्यर्थे युवत्यः शिशुगत- वयसो रोगिणो योगिनश्च । त्याज्यास्तत्रापि मान्याः श्वशुर- पितृमुखाः सन्ति शेषाः कियन्तो मिथ्यावादो ममायं मुखरमुखरवः पुंश्चली पुंश्चलीति ॥ ६६ ॥
पान्थसंकेतः
ग्रामेऽस्मिन्नस्तरप्राये न ^१किंचित्पान्थ विद्यते । पयोधरो- न्नतिं दृष्ट्वा वस्तुमिच्छासि चेद्वस ॥ ६७ ॥ पान्थ मन्दमते किंचा सतापमनुविन्दसि । पयोधरं सैमा- शास्व येन शान्तिमवाप्नुयात् ॥ ६८ ॥ वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः ॥ ६९ ॥ त्वमिव पथिक ^३प्रियो मे विर्ट्पिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे सप्रति यत्पान्थ जीवामि ॥ ७० ॥ किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि सुँदे मम कथयिष्यति पान्थ तव जाया ॥ ७१ ॥ यदि गन्तासि दिगन्तं पथिक पतिस्तत्र सबोध्यः । नयनश्रवणविहीना कथमुपचर्या मयै- कया जननी ॥ ७२ ॥ निबिडतभतमालमल्लिवल्लीविचकिल- राजिविराजितोपकण्ठे । पथिक समुचितस्तवार्थ तीत्रे सवि- तरि तत्र सरित्तटे निवासः ॥ ७३ ॥ ^५भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योऽसि किं गणितशास्त्रविशारदोऽसि । केनौ- षधेन मम पश्यति भर्तुरम्बा किं वागमिष्यति पतिः सुचिर- प्रवासी ॥ ७४ ॥ एकाकिनी यदबला तरुणी तथाहमस्मिन् गृहे गृहपतिश्च गतो विदेशे । कं याचसे तदिह वासमिर्थ वराकी श्वश्रूर्नमान्धबधिरा ननु मूढ पान्थ ॥ ७५ ॥ रथ्या- रजोरुणितधूसरिताङ्गयष्टेः कच्चित्पितुः स्मरसि पुत्रक नि- र्घृणस्य । उक्त्वैवमङ्कगतयायतमायताक्ष्या पान्थस्त्रिया प्ररुदितं करुणं दिनान्ते ॥ ७६ ॥ भवनमिव मदीय निर्जनं पान्थ पन्थाः कुसुमशर इवासिस्तस्करा दुर्निवारः । गृँहप इव पँतङ्गोऽप्येष यातो दिगन्तान्मदनसुभग भूयो नैव गन्तुं समीहे ॥ ७७ ॥ अहमिह दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि ॥ ७८ ॥ यामिन्येषा बहलजलदैर्बँद्धैर्भीमान्धकारा निद्रा यातो मम पतिरसौ क्लेशितः ^११कैर्मदुःखैः । बाला चाहं मैनै- सिजभयात्त्रासगाढप्रकम्पा ग्रामश्चौरैरयमपहृतः पान्थ निद्रा जहीहि ॥ ७९ ॥ कुत्रायासीः किमिवमकरोः साहस पान्थ बन्धो यद्येतस्मिन्निवससि पुरे सावधानस्तदा स्याः । अत्रोत्तालाः कतिचिदबलाः सन्ति यासा विलासैरूत्पद्यन्ते सपदि मदनव्याधयो दुर्निवाराः ॥ ८० ॥ इयं सुरैतरं- गिणी न पुनरत्र नौसँर्गमो भवेत्तरैंणिमज्जनं पथिक नैव
१ पाषाणबहुले, पक्षे,-पाषाणतुल्ये २ आस्तरणादिकम्, पक्षे,-समागमप्रतिबन्धकम् ३ मेघानामुन्नति पर्जन्यागमसङ्केत इति यावत्; पक्षे,-स्तनयोरुन्नतिः .
१ मेघम्, पक्षे,-स्तनम् २ सम्यक्प्रार्थना कुरु ३ कान्त ४ वृक्षस मूहेषु ५ दृषांय ६ कश्चे पुस्तकधारिण पान्थ प्रति कस्याश्चित्कामिन्या स्वभिप्रायद्योतकोक्ति औषधप्रश्नेन श्वश्र्वा अन्धत्व सूचितम् प्रोषि- तस्य पत्यु कदागमन भविष्यतीति प्रश्नेन सोऽपि गृहे नास्तीति सूचितम् ७ गृहस्वामी ८ सूर्य ९ रात्रि १० भयकरगाढान्धकारा ११ कर्मजन्यैर्दुः खै श्रान्त इत्यर्थ १२ उक्तहेतुभिर्मनसि जात यद्भय तस्मात्, पक्षे,-कामभयात् १३ सुराणा तरगिणी नदी, पक्षे,-सुरतरञ्जनशीला १४ नौसगमः नौकाप्राप्ति, पक्षे,-आवयो समागम १५ तरणि सूर्य, पक्षे,-नौका
असतीचरित्रम्, वेश्यागर्हणम्, अष्टनायिकाः
३५५
[पान्थागमः]
पान्थागमः। निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे
घनघनागमे घनरसस्य¹ पारं व्रज ॥ ८१ ॥
वाणिज्येन² गतः स मे गृहपति³र्वार्तापि न श्रूयते प्रातस्त-
ज्जननी प्रसूततनया जामातृगेहं गता । बालाहं नव-
यौवना निशि कथं स्थातव्यमस्मिन्गृहे सायं संप्रति वर्तते
पथिक हे स्थानान्तरं गम्यताम् ॥ ८२ ॥
रे रे पान्थ कुतो भवाङ्नगरतो वार्ता न चापि श्रुता ब्रूहि ब्रूहि युवा पयोद-⁵
समये हित्वा प्रियां जीवति । सत्यं⁴ जीवति जीवतीति
कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः
किं किं न सम्भाव्यते ॥ ८३ ॥
शून्यं वेश्म चिरायितो⁶
गृहपतिर्जाताधुना शर्वरी स्थातुं नोचितमत्र गच्छ निभृतं
लोकैरनालक्षितः⁷ । इत्थं लोलदृशा ह्यसावभिहितो दासीमुखे-
नाध्वगः स्थित्वा किंचिदिव क्व यामि रजनी प्राप्तेत्युदीर्य⁸
स्थितः ॥ ८४ ॥
क्षन्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि⁹
त्वया स्यादेव यदि नाथ दास्यति विधिर्जातिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कुतः प्राणा.
पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ॥ ८५ ॥
भ्रातः पान्थ पथि त्वया न पथिकः कश्चित्समासादितो बाले
नैकशतानि कीदृश इति प्रख्यायता वल्लभः । यं दृष्ट्वा
प्रमदाजनस्य भवतः स्फारे मुदा लोचने स ज्ञेयो दयितो
ममेति पथिकायावेद्य मोहं गता ॥ ८६ ॥
भो पान्थ त्वरितोऽसि तिष्ठ निमिषं किंचिद्ददामो वयं मार्गोऽयं पुरतो
द्विधा खलु भवेदङ्गेन¹⁰ नो गम्यताम् । तत्रास्ते सहकारकोमल-
तरोर्मूले प्रपापालिका तस्या लोचनवागुरानिपतितो¹¹ न त्वं
पुनर्यास्यसि ॥ ८७ ॥
नाथो मे विपणौ¹² गतो न गणयत्येषा
सपत्नी च मा त्यक्त्वा मामिह पुष्पिणीति¹³ गुरवो याता गृहा-
भ्यन्तरम् । शय्यामात्रसहायिनी परिजनः श्रान्तो न मा सेवते
स्वामिन्नागमलालनीय¹⁴ रजनीं¹⁵ लक्ष्मीपते रक्ष माम् ॥ ८८ ॥
वेश्यागर्हणम्
वेश्यासौ¹⁶ मदनज्वाला रूपेन्धनसमेधिता¹⁷ । कामिभिर्यत्र
हूयन्ते यौवनानि धनानि च ॥ १ ॥
अयं च सुरतज्वाला-
कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते यौवनानि धनानि
च ॥ २ ॥
इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । निष्फलत्व-
मल यान्ति वेश्याविहगभक्षिताः ॥ ३ ॥
धनाशा कैतवस्नेहो¹ वितथैश्चित्ततोषणम्² । एकमप्यस्ति नात्ासु
कथं वेश्यासमा वयम् ॥ ४ ॥
कष्टं जीवति गणिका गण-
कोऽपि च राजसेवको वैद्यः । दिवसे दिवसे मरणं परस्य
यच्चित्तरञ्जनं वृत्तिः ॥ ५ ॥
न पर्वताग्रे नलिनी प्ररोहति
न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति
शालयो न वेशजाताः शुचयस्तथाङ्गनाः ॥ ६ ॥
हारहीरक-
हिरण्यभूषणैस्तोषमेति गणिका धनैषिणी³ । प्रेमकोमल-
कटाक्षवीक्षितैरेव जीवति कुलाङ्गनाजनः ॥ ७ ॥
एता हसन्ति
च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न च विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानघटिका⁴ इव
वर्जनीयाः ॥ ८ ॥
जात्यन्धाय⁵ च दुर्भगाय च जराजीर्णाखि-
लाङ्गाय च ग्रामीणाय⁶ च दुष्कुलाय च गलत्कुष्ठाभिभूताय
च । यच्छन्तीषु⁷ मनोहरं निजवपुर्लक्ष्मीलेवशद्धया⁸ पण्यस्त्रीषु⁹
विवेककल्पलतिकाशूलीषु रज्येत कः ॥ ९ ॥
केशः कुन्द-
मिषादिवोपहसति द्रव्यैर्विहीनाञ्जनान् यूना ग्रन्थिधनं विलो-
कितुमिवोद्ग्रीवस्तनस्तिष्ठति । प्रेमच्छेदकृपाणवल्लिसुषमा रोमा-
लिरालम्बते यस्याः सा कथमस्तु चेतसि चमत्काराय
वाराङ्गना ॥ १० ॥
वाप्या स्नाति विचक्षणो द्विजवरो
मूर्खोऽपि वर्णाधमः फुल्ला नाम्यति वायसोऽपि हि लता या
नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवे-
तरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज ॥ ११ ॥
अष्टनायिकाः
स्वाधीनपतिका
यद्यपि रतिमहोत्सवे नकारो यदपि करेण च
नीविधारणानि । प्रियसखि पतिरेष पार्श्वदेशं तदपि न
मुञ्चति तत्किमाचरामि ॥ १ ॥
मा गर्वमुद्वह कपोलतले
चकास्ति कान्त स्वहस्तलिखिता मम मञ्जरीति । अन्यापि
किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः
॥ २ ॥
अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं प्रोज्ज्वलं
नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं
त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः पतिर्नान्यतो दृष्टिं
निक्षिपतीति विश्वमितया मन्यामहे दुःखितम् ॥ ३ ॥
श्वश्रूः पश्यति नैव पश्यति यदि भ्रूभङ्गवक्त्रेक्षणा मर्मच्छेदपटु
प्रतिक्षणमसौ ब्रूते ननान्दा वचः । अन्यासामपि किं
ब्रवीमि चरितं स्मृत्वा मनो वेपते कान्त. स्निग्धदृशा
टिप्पण्यः
[पृष्ठ-भाग १] १ उदकस्य २ वाणिज्यर्थि परदेशं गत ३ भर्त्ता ४ सत्यम् ५ वर्षाकाले ६ चिरकाल दूर गत ७ अदृष्ट ८ उक्त्वा ९ गोष्ठीप्रसङ्गेन १० वामभागेन ११ लोचनमेव वागुरा मृगबन्धिनी जालमित्यर्थ १२ पण्यवीथिका १३ रजस्वला १४ आगमेन वेदेन लालनीय स्तुत्य पक्षे,-आगमनेन लालनीय . १५ रजनी व्याप्येत्यर्थ १६ वाराङ्गना. १७ रूपमेवेन्धन काष्ठ तेन सम्यक्प्रदीप्ता
[पृष्ठ-भाग २] १ कपटस्नेह. २ असत्यगोष्ठीभि ३ धनेच्छावती ४ श्मशानस्थिता घटिका घट्यो घटा इति यावत् एता यथा अस्पृश्यास्तथैव ता वर्जनीया इति भाव ५ जन्मनान्धाय ६ ग्राम्याय ७ अर्पयन्तीषु ८ लक्ष्मीलेशाशया ९ गणिकासु
| ३५६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
विलोकयति मामेतावदागः सखि ॥ ४ ॥ वक्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशा कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथ चेतःपथं क्वप्यथं काप्यान्त्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥ ५ ॥ स्वीया सन्ति गृहे गृहे मृगदृशो यासा विलासकणकाञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिर्न मा मुञ्चति ॥ ६ ॥ सन्त्येव प्रतिमन्दिर युवतयो यासा सुधासागरस्रोतःस्यूतसरोजसुन्दरचमत्कारा दृशोर्विभ्रमाः । चित्रं किं तु विचित्रमन्मथकलावैशद्यहेतोः पुनर्विश्वं चित्तहर प्रयच्छति युवा मय्येव किं कारणम् ॥ ७ ॥ एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किञ्चिद्विशिष्टं रसात् । वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि तस्मै कथम् ॥ ८ ॥ मध्ये न कृशिमा स्तने न गरिमा देहे न वा कान्तिमा श्रोणौ न प्रथिमा गतौ न गरिमा नेत्रे न वा वक्रिमा । लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा प्राणेशस्य तथापि मज्जति मनो मय्येव किं कारणम् ॥ ९ ॥
खण्डिता
वक्षः किमु कलशाङ्कितमिति किमपि प्रष्टुमिच्छन्त्याः । नयनं नवोढमुग्दशः प्राणेशः पाणिना पिदधे ॥ १० ॥ सत्यमेव गदितं त्वया विभो जीव एक इति यत्पुरावयोः । अन्यदारनिहिता नखव्रणास्तावके वपुषि पीडयन्ति माम् ॥ ११ ॥ सव्यलीकमब्रवीदरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिभाषणिपातः ॥ १२ ॥ शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखिता दयिताय । मानिनीमभिमुखाहितचित्ता शंसति स्म घनरोमविभेदः ॥ १३ ॥ वक्षोजचिह्नितमुरो दयितस्य वीक्ष्य दीर्घं न निःश्वसति जल्पति नैव किंचित् । प्रातर्जलेन वदनं परिमार्जयन्ती बाला विलोचनजलानि तिरोदधाति ॥ १४ ॥ कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः । दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः ॥ १५ ॥ भवतु विदितं व्यर्थालापैरलं प्रिय गम्यता तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथा रूढं प्रेम प्रपन्नमिमा दशा प्रकृतितरले का न पीडा गते हतजीविते ॥ १६ ॥ उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयता वसु पुरा यदङ्गीकृतम् । इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात्समाकृष्यते ॥ १७ ॥ जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा
निःपीत भवता मधु प्रविततं व्याघूर्णितं मे मनः । श्राम्यदङ्गजघने निकुञ्जभवने लब्धं त्वया श्रीफलं पञ्चेषुः पुनरेष मा बहुतरैः क्रूरैः शरैः कृन्तति ॥ १८ ॥ प्रातः प्रातरुपागतेन जनिता निर्निद्रता चक्षुषोर्मन्दाय मम गौरवं व्यपहृतं प्रोत्पादितं लाघवम् । कि तद्यन्न कृतं त्वया रमण भीर्मुक्ता मया गम्यता दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तासि तच्छ्रोष्यसि ॥ १९ ॥ लाक्षालक्ष्म ललाटपट्टफलके केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्ति गताः ॥ २० ॥ कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैरालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् । रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना करतलादर्शमादर्शयत् ॥ २१ ॥
अभिसारिका
भीतासि नैव भुजगात्पथि मद्भजस्य सङ्गे पुनः किमपि कम्पमुरीकरोषि । अम्भोघरध्वनिभिरक्षुभितासि तन्वि मद्वाचि साचिवदनासि किमाचरामि ॥ २२ ॥ इह जगति रतीशप्रक्रियाकौशलिन्त्यः कति कति न निशीथे सुभ्रुवः सञ्चरन्ति । मम तु विधिहताया जायमानसितायाः सहचरि परिपन्थी हन्त दन्तांशुखैव ॥ २३ ॥ अम्भोजाक्ष्याः पुरनवलताधाम्नि सकेतभाजश्चेतोनाथे चिरयति भृशं मोहनिद्रा गतायाः । स्वच्छे नाभीह्रदवलयित कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥ २४ ॥ किमुत्तीर्णः पन्थाः कुपितभुजगीभोगविषमो विसोढा भूयसः किमिति कुलपालीकटुगिरः । इति स्मारं स्मारं दरदलितशीतद्युतिरुचौ सरोजाक्षी शोण दिशि नयनकोणं विकिरति ॥ २५ ॥ जनो दुर्लक्ष्योऽयं कुलममलिनं वर्त्म विषमं पतिश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् । अतः काचित्तन्वी रतिविहितसंकेतगतये गृहाद्द्वारवार निरगमदथ प्राविशदथ ॥ २६ ॥ सितं वसनमर्पितं वपुषि नीलचोलञ्मानमया मृगमदाशया मलयजद्रव. सेवितः । करेण परिबोधितः स्वजनशङ्कया दुर्जन परं परमपुण्यत. सखि न लङ्घिता देहली ॥ २७ ॥ प्रत्यावृत्त्य यदि व्रजामि भवन वाचा भवेत्प्रत्ययो निर्गच्छामि निकुञ्जमेव यदि वा को वेद किं स्यादितः । तिष्ठामो यदि वा कचिद्धनतटे किं जातमेतावता मध्ये वर्त्म कलानिधे. समुदयो जातः किमातन्यताम् ॥ २८ ॥ भ्रातः कङ्कण कि कदाप्यसि घनाश्लेषेषु विश्लेषित दूरे किङ्किणि किं कृताप्यसि रतारम्भे रणत्कारिणी । कि मञ्जीर बहिः कुतोऽप्यसि रहस्तल्पाधिरोहे मया संकेताध्वनि बद्धवैरमिव यन्मौखर्यमालम्बसे ॥ २९ ॥ उत्क्षिप्तं करकङ्कणद्वयमिदं
अष्टनायिकाः ३५७
बद्धं दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयो- र्मूकता । आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे चण्डालस्तिमिरवगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ३० ॥ एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तास्यालयमागता समदना दृष्टा जलाद्रीलका । विद्युद्वारिदगर्जिते मचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ३१ ॥ मार्गे पङ्कचिते घनान्धतमसे निःशब्द- सञ्चारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा मतिम् । आजानुद्रुतनूनपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छ्रे- णास्पदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ३२ ॥ छिद्रान्वेषणतत्पर. प्रियसखि प्रायेण लोकोऽधुना रात्रिश्वापि घनान्धकारबहुला गन्तुं न ते युज्यते । मा भैष सखि वल्लभ. प्रियतमस्तत्सोत्सुका दर्शने युक्तायुक्तविचारणा यदि भवेत्स्नेहाय दत्त जलम् ॥ ३३ ॥ दूती विद्युदुपागता सह- चरी रात्रिः सहश्यायिनी दैवज्ञो दिशति स्वनेन जलदः प्रस्थानवेला शुभाम् । वाचं माङ्गलिकी तनोति तिमिरस्तोमो- ऽपि झिल्लीरवैर्जातोऽय दयिताभिसारसमयो मुग्धे विमुञ्च त्रपाम् ॥ ३४ ॥ द्वित्रै. केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्ली- स्रज कण्ठान्मौक्तिकमालिका च तदनु त्यक्त्वा पदै. पञ्चभि. । अन्तः कान्तवियोगकातरतया दूराभिसारातुरा तन्वङ्गी निरुपायमध्वनि पर श्रोणीभर निन्दति ॥ ३५ ॥ आत. प्राणगणप्रयाणसमये प्राणाधिनाथस्य मे कुर्या. स्थैर्यमपि क्षणं करुणया कण्ठश्लेषेऽपि स्थित. । यावल्लोचननीर- निर्मितनदीवन्याभिरन्यादृशं पन्थानं परिकल्पयामि भविता येनावयोर्वाञ्छितम् ॥ ३६ ॥ कान्ते कत्यपि वासराणि गमय त्व मीलयित्वा दृशौ सत्यं नाथ निमीलयामि नयने यावन्न शून्या दृश । आयाता वयमा गमिष्यसि सुहृद्वर्गस्य भाग्योदयैः संदेश वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलि. ॥ ३७ ॥ उद्दामाम्बुदवर्धितान्धतमसि प्रन्नष्टदिङ्मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । कर्णस्यासु- हृदार्णवाम्बुवडवावह्नेर्यदन्तःपुरादायातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥ ३८ ॥ पद्मीनामधिपस्य पङ्कज- दृशा पर्वोत्सवामन्त्रणे जाते सन्नजना मिथः कृतमहोत्साह पुरः प्रस्थिताः । सव्याजं स्थितयोर्विहस्य गतयो शुद्धान्त- मत्रान्तरे यूनोः स्विन्नकपोलयोर्विजयते कोऽप्येष कण्ठग्रह. ॥ ३९ ॥ लोलचोलचमत्कृति प्रविलसत्काञ्चीलताझंकृति न्यञ्चत्कञ्चुकबन्धबन्धुरचलद्वक्षोजकुम्भोन्नति । स्फूर्जद्दीधिति विस्फुरद्रति चलच्चामीकरालंकृति क्रीडाकुञ्जगृहं प्रयाति कृतिनः कस्यापि वाराङ्गना ॥ ४० ॥
कलहान्तरित
द्वारि चक्षुर्गधिपाणि कपोलौ जीवितं त्वयि कुत' कल- होऽस्या. । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्व- मियाय ॥४१॥ चकितहरिणलोललोचनाया कृधि तरुणारुण- तारहाग्कान्ति । सरसिजमिदमाननन च तस्या. मममिति चेतसि समदं विवत्ते ॥ ४२ ॥ विरमति कथन विना न खेद. सति कथने समुपैति कापि लज्जा । इति कलहमवोन्मुखी सखिभ्यो लपितुमलनाल्पितुं समाचकाङ्क्ष ॥ ४३ ॥ अनुनयति र्पति न लज्जमाना कथयति नापि सखीजनाय किंचित् । प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्त. ॥ ४४ ॥ प्रयच्छतोच्चै. कुसुमानि मानिनी विपक्षगोत्र दयितेन लम्भिता । न किंचिदूचे चरणेन केवलं लिखेख बाष्पाकुल- लोचना भुवम् ॥ ४५ ॥ न बरीभरीति कबरीभरे स्रजो न चरीकरीति मृगनाभिचित्रकम् । विजर्गिहरीति न पुरेव मत्पुरो विवरीवरीति न च विप्रिय प्रिया ॥ ४६ ॥ तत्तद्गदलपि यथावसर हस्तप्यपालिङ्जनेऽपि न निषेधति चुम्बनेऽपि । कि तु प्रमादनमयादपि निह्नुतेन कोपेन कोऽपि विहितोऽद्य रसा- वतारः ॥ ४७ ॥ न तिर्यगवलोकित भवति चक्षुरालोहित वचोऽपि परुषाक्षर न च पदेषु सगच्छते । हिमार्क इव वेपते सकल एव विम्बाधर प्रकार्मविनते भ्रुवौ युगपदेव भेदं गते ॥ ४८ ॥ मय्यायाते सपदि नयनादुत्थितं चाटु वाक्य बद्धा पाणी बहु निगदितं क्षालितं पादपद्मम् । दत्त्वा वीटी सविनयमथोद्गीजितं तालवृन्तैर्भूते कोपं कुवलयदृशो भूयसी भक्तिरेव ॥ ४९ ॥ चरणपतनप्रत्याख्यानात्मसाद- पराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति रमणे निःश्वसोच्चै. स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥ ५० ॥ स्फुटतु हृदयं काम. कामं करोतु तनुं तनुं न सखि चतुलप्रेम्णा कार्य पुनर्दाय- तेन मे । इति सरभस मानोप्रेकादुदीर्य वचस्तया रमण- पदवी सारङ्गाक्ष्या ससभ्रममीक्षिता ॥ ५१ ॥ पय.पीठं दत्ते त्वरितमभिधत्ते न च वच. समाज्ञामाधत्ते शिरसि न विधत्ते च मिलनम् । इति स्वान्ते गोपायितनिबिडकोषा प्रतिपद कृशोदर्याश्चर्या प्रियमहह पर्याकुलयति ॥ ५२ ॥ पुरस्तन्या गोत्रस्खलनचकितोऽहं नतमुख. प्रवृत्तो वैलक्ष्या- त्किमपि लिखितु दैवहतक. । स्फुटो रेखान्यास. कथमपि स तादृक्परिणतो गता येन व्यक्ति पुनरवयवै. सैव तरुणी ॥ ५३ ॥ ततश्वाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मन- स्विन्त्या रोषप्रणयरभसाद्गद्गदगिरा । अहो चित्रं चित्रं स्फुट- मिति निगद्याशुकलुष रुषा ब्रह्मास्त्रं मे शिरसि निहितो वाम- चरण. ॥ ५४ ॥ चल चेत. पुंसा सहजसरला. पङ्कजदृशो
३५८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भवत्येव क्रोधः क्वचिदपि कदाचित्चरणयोः । दहेदङ्गं भङ्गी विधुरपि विदध्यात्वरिमवं खरो मा मथ्नीयादिति किमपि नाज्ञासिषमहम् ॥ ५५ ॥ आनन्द क्वचिदश्व मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेय केति विचार्यता रसिक ते निर्याहि पर्याकुला । रक्ताम्भोजपरीतषट्पदपदपक्षोपमानक्षमक्षुभ्यत्पक्ष्मचलाचलेक्षणयुग पश्यामि तस्या मुखम् ॥५६॥ मानम्लानमना मनागपि नतं नालोकते वल्लभं निर्याते दयिते निरन्तरमियं बाला पर तप्यते । आनीते रमणे बलात्परिजनैर्मौनं समालम्बते धत्ते कण्ठगतानसूनियतमै निर्गन्तुकामे पुनः ॥५७॥ आयस्ता कलहं पुरेव कुरुते न संसने वाससो भुग्नभ्रूरतिकण्व्यमानमधरं धत्ते न केशग्रहे । अङ्गान्र्यर्पयति स्वय भवति नो वामा हठाल्लिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥ ५८ ॥ एकत्रानसनस्थितिः परिहृता प्रत्युद्गमादूरतास्ताम्बूलानयनच्छलेन रमसाश्लेषोऽपि सविघ्नितः । आलापोऽपि न मिश्रित परिजनं व्यापारयन्त्यान्तिके कान्त प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ५९ ॥ आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । मय्यालापवति प्रतीपवचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ६० ॥ दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणे गृहीतवसने कोपाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिक्ष्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ६१ ॥ तारल्यं सुखमेलने न च वचोवैदग्ध्यमप्यादृशं न भ्रूभङ्गपरिग्रहो न च रहःप्रश्नेऽपि मौनस्थितिः । एवं संप्रति तर्क्यते तु सुदृशः कोपस्तु मद्वस्तुनि स्वाधीनेऽपि पुरेव पङ्कजदृशो यन्न प्रभुत्वग्रहः ॥ ६२ ॥ शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीप ततः पादेन प्रहृतं तया सपदि तं धृत्वा सहासे मयि । किचित्तत्र विधातुमक्षमतया बाष्पं त्यजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ ६३ ॥ सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितै पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ६४ ॥ एकस्मिन्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगान्द्रवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सूत इवेत्यमन्दवलितग्रीव पुनर्वीक्षितः ॥६५॥ तल्पोपान्तमुपेयुषि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फूर्जत्कपोलश्रिया । हस्तन्यस्तकरे पुनर्मृगदृशा
^१ सपत्नी
लाक्षारसक्षालितप्रोष्ठीपृष्ठमयूखमासलरुचो विस्फारिता दृष्टयः ॥ ६६ ॥ भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोग. कृतः । धैर्य कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ६७ ॥ न ब्रूते परुषा गिर वितनुते न भ्रूयुग भङ्गुरं नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि । कान्ता गर्भगुहे गवाक्षविवरव्यापारिताक्ष्या बहिः सख्या वक्रमभिप्रयच्छति परं पर्यश्रुणी लोचने ॥ ६८ ॥
विप्रलब्धा
उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ॥ ६९ ॥ निःस्नेह निष्करुण निष्कृप निर्निमित्तं मद्वञ्चक त्वमपि संप्रति वञ्चितः स्याः । इत्यक्षराणि लिखितानि समीक्ष्य कश्चित्सकेतककेतकदले नितरामताम्यत् ॥ ७० ॥ संकेतकेलिगृहमेत्य निरीक्ष्य शून्यमेणीदृशो निभृतनिःश्वसिताधरायाः । अर्धार्क्षर वचनमर्धविकसि नेत्र ताम्बूलमर्धकवलीकृतमेव तस्थौ ॥ ७१ ॥ कपटवचनभाजा केनचिद्वप्रयोष सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ । इति विहसति रिङ्गद्भृङ्गविक्षिसचक्षुर्विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः ॥ ७२ ॥ नायातो यदि निर्दयः सखि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् । पश्याद्य प्रियसगमाय दयितस्याकृष्यमाणं गुणैरुत्कण्ठार्तिभराद्दिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ७३ ॥ शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञाय चेतोभुवं दूती नापि निवेदिता सहचरी पृष्टापि नो वाऽनया । शंभो शकर चन्द्रशेखर हर श्रीकण्ठ शूलिञ्शिव त्रायस्वेति परंतु पङ्कजदृशा भग्नैश्च चक्रे स्तुतिः ॥ ७४ ॥ तत्कि कामपि कामिनीमभिसृतः किंवा कलाकेलिभिर्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ७५ ॥ सास्रे मा कुरु लोचने विगलति न्यस्तं शलाकाञ्जन तीव्रं निःश्वसितं निवर्तय नवास्ताम्यन्ति कण्ठस्रजः । तल्पे मा लुठ कोमलाङ्गि तनुता हन्ताङ्गरागोऽश्नुते नातीतो दयितोपयानसमयो मा सान्यथा मन्यथाः ॥ ७६ ॥ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुहृद्यो मा नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रा निशि ॥ ७७ ॥ दत्त्वा धैर्यसुजंगमूर्ध्नि चरणावुलङ्घ्य लज्जांनदीमङ्गीकृत्य घनान्धकारपटलं तन्व्या न दृष्टः प्रियः । संतापाकुलया तया च परितः पाथोधरे गर्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ
अष्टनायिकाः ३५९
योजिते ॥ ७८ ॥ आलिभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् । न्यस्ता. कितु नवोढनीरषदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्कदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ७९ ॥
प्रोषितभर्तृका
अर्पयति प्रतिदिवस प्रियस्य पथि लोचने बाला ।
निक्षिपति कमलमाला. कोमलमिब कर्तुमध्वानम् ॥ ८० ॥
आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणय-
निहवमाचरन्ती। तत्रैव रङ्गनयना नयनारविन्दमस्पन्दमाहित-
वती दयिते गतेऽपि ॥ ८१ ॥ विरहविदितमन्तः प्रेम
विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति ।
मरिचनियममक्ष्णोर्न्यस्य बाष्पोदबिन्दून्विसृजति पुरतोऽधिद्वार-
देशोपविष्टा ॥ ८२ ॥ ता जानीथा. परिमितकथा
जीवितं मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीमिवै-
काम् । गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाला
जाता मन्ये शिशिरमथिता पद्मिनी वान्यरूपाम् ॥ ८३ ॥
माला बालाम्वुजदलसमी मौक्तिकी हारयष्टि. काञ्ची याते
प्रभवति हरौ सुभ्रुवः प्रस्थितैव । अन्यद्धूमः किमपि धमनी
वर्तते वा न वेति ज्ञातुं बाहोरहह वलयं पाणिमूलं प्रयाति
॥ ८४ ॥ समर्थ्य हृदि दारुणा मदनवेदना भूयसीमेनेन
तव वर्त्मना प्रचलित. स मे वल्लभः । न वामदिशि शब्दिंतं
किमिति बालया वायस त्वया मदनसारिके किमिति वा
कृतं न श्रुतम् ॥ ८५ ॥ आद्दष्टप्रसरात्प्रियस्य पदवीमुद्रीक्ष्य
निर्विव्णया विश्रान्तेषु पथिष्वह.परिणतौ ध्वान्ते समु-
त्सर्पति । दत्त्वैकं सश्रुचा गृहं प्रतिपदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ८६ ॥
श्वश्रूः पद्मदलं ददाति तदपि भूसज्जया गृह्यते सद्यो मर्मर-
शङ्कया न च तया सस्पृश्यते पाणिना । यातुर्वाचि सुहृ-
दूणस्य वचसि प्रत्युत्तरं दीयते श्वास. कितु न मुच्यते
हुतवहक्रूर. कुरङ्गीदृशा ॥ ८७ ॥
वासकसज्जा
निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितै. ।
अपरा परीक्ष्य शनकैर्मुमुदे सुखवासमास्यकमलश्वसनै.
॥ ८८ ॥ नेद समीरितमकारि कला न चेयमित्याकुला.
कथमपि प्रथमार्धमहः । एवं विधेयमथ वाच्यमिद मयेति
शेषं प्रियाः सुकृतिनामतिवाहयन्ति ॥ ८९ ॥ कृतं वपुषि
भूषणं चिकुरधोरणी धूपिता कृता शयनसन्निधौ
क्रमुकवीटिकासभ्रुतिः । अकारि हरिणीदृशा भवनमेत्य
देहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्द्दिनम् ॥९०॥
विदूरे केयूरे कुरु करयुगे रत्नवलयैरलं गुर्वी ग्रीवा-
भरणलतिकेयं किमनया । अवामेकामेकावलिमपि मयि त्वं
विरचयेर्न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ ॥ ९१ ॥
श्वश्रूं स्वापयति च्छलेन च तिरोधत्ते प्रदीपादुर धत्ते मौघ-
कपोतपोतनिनदैः साकेतिक चेष्टितम् । शश्वत्पार्श्वविवर्तिता-
झलतिक लोलकपोलद्युति कापि कापि कराम्बुजं प्रियधिया
तल्पान्तिके न्यस्यति ॥ ९२ ॥ चोल नीलनिचोलकर्षण-
विधौ चूडामणि चुम्बने याचिष्ये कुचयो करार्पणविधौ
काञ्ची पुन काञ्चनीम् । इत्थं चन्दनचर्चितैर्मृगमदैर्गाङ्गानि
सस्कुर्वती तत्कि यन्न मनोरथं वितनुते वारेषु वाराङ्गना
॥ ९३ ॥ दृष्ट्वा दर्पणमण्डले निजवपुर्भूषा मनोहारिणीं
दीप्तार्चि. कपिशं च मोहनगृहं त्रसत्कुरङ्गीदृशा । एवं नौ
सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिदृक्षया
च ललिता द्वारेऽर्पिता दृष्टयः ॥ ९४ ॥ हार गुम्फति
तारकान्तिरुचिर मञ्चाति काञ्चीलता दीपं न्यस्यति कितु तत्र
बहुल स्नेहं न धत्ते पुनः । आलीनामिति वासकस रजनौ
कामातुरूपा क्रिया साक्षिक्षेरमुखी नवोढसुमुखी दृग्गतसमु-
द्वीक्षते ॥ ९५ ॥ शिल्प दर्शयितु करोति कुतुकात्कह्लारहार-
स्रजं चित्रप्रेक्षणकैतवेन किमपि द्वार समुद्वीक्षते ।
गृहात्याभरणं नव सहचरीभूषाजिगीषामिषादित्थं पञ्चदृशः
प्रतीत्य चरितं खेराननोऽभूत्स्ररः ॥ ९६ ॥
उत्का
अम्भोरुहाक्षि शभोश्चरणावाराधितौ केन । यस्मै
विवलितवदना मदनाकृतं विभावयसि ॥ ९७ ॥ सखि
स विजितो वीणावाद्यै. कयाप्यपरस्त्रिया पणितमभव-
त्ताभ्या तत्र क्षपाललित ध्रुवम् । कथमितरथा शेफालेषु
स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण
विलम्ब्यते ॥ ९८ ॥ भ्रूमङ्गे रचितेऽपि दृष्टिरधिक सोत्कण्ठ-
मुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धानन
जायते । कार्कश्यं नमितेऽपि चेतसि तनू रोमाञ्चमालम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस तस्मिञ्जने ॥ ९९॥
कि रुद्ध. प्रियया कयाचिदथवा सख्या ममोद्वेजितः किंवा
कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य
मृगीदृशा करतले विन्यस्य वक्राम्बुजं दीर्घे निःश्वसित चिर
च रुदितं क्षिप्ताश्च पुष्पस्रज. ॥ १०० ॥ यन्नाद्यापि समा-
गत. पतिरिति प्रायः प्रपेदे परामित्थ चेतसि चिन्तयन्त्यपि
सखी न व्रीडया पृच्छति । दीर्घ निःश्वसितं दधाति चकितं
न प्रेक्षते केवलं किंचित्कपलाण्डपाण्डुरुचि धत्ते कपोल-
स्थलीम् ॥ १०१ ॥ आनेतुं न गता किमु प्रियसखी
भीतो भुजङ्गात्किमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणे-
श्वरो वर्तते । इत्थं कर्णसुवर्णकेतकरज.पातोपघातच्छला-
दक्ष्णोः कापि नवोदनीरर्मुखी बाष्पोदकं सुञ्चति ॥१०२॥
स्नानं वारिद्वारिभिर्विरचितो वासो घने कानने शीतै-
१ सुसभ्रमरा सफुलकुसुमवृक्षा
२ धारणम्