सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
असतीचरित्रम्
३५३
धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि किमपि कर्तुं मृगयते ॥ ३५ ॥ स्थितिर्गेहोपान्ते परिजनपरीहासकलना मुहुर्यातायाते सकृदपि गृहे व्याजगमनम् । मुहुस्तद्योग्येऽपि क्षणपरिचयो वस्तुनि दृशः समुत्पन्ने प्रेम्नः सकलमिदमापातसुखदम् ॥ ३६ ॥ नितम्बिन्यो नित्यं विनयपथविन्यस्तमनसः पताकाः स्युः पुत्रि प्रतिनियतमेताः स्वकुलयोः । गुरोरित्यादेशं सदसि सुदृशामङ्गीकृतवती गतातङ्कं राधा हरिमुखमगाङ्कं मृगयते ॥ ३७ ॥ अये को जानीते निजपुरुषसङ्गो नहि तथा यथा स्त्रीणां चेतः परपुरुषसङ्गो रमयति । अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी ॥ ३८ ॥ ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी घोटीहेषा विकृतविरुतं हेतुहीनं हसन्ती । स्थानस्थानस्खलितपदविन्यासमाभासमाना यूनामग्रे वसति कुटिलं नर्तितोश्चैर्नितम्बम् ॥ ३९ ॥ ज्ञाता मैत्री सहजमधुरापातिमिलोचितान्तैः कर्णार्कर्णि प्रथितमयशो बन्धुवर्गेरभाणि । सप्रत्येवं तदपि न मनाङ्मुञ्चति प्राणनाथं को जानीते कुवलयदृशः कीदृशः प्रेमबन्धः ॥ ४० ॥ भ्रूभेदैः कतिचिद्विरा कुटिलया काश्चित्कियत्यः स्मितैः स्वैरिण्यः कथयन्ति मन्मथरसव्यापारवश्यं मनः । कासाचित्पुनरङ्गकेषु मसृणच्छायाेषु मध्यस्थितो भावः काचपुटेषु पुंष्करमिव प्रव्यक्तमालोक्यते ॥ ४१ ॥ यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ ४२ ॥ दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपो पास्यति । एकाकिन्यपि यामि तद्धरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तमुपालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ४३ ॥ शुश्रूषस्व गुरून्निवर्तय सखीवृन्दस्व बन्धुस्त्रियः कावेरीतटसन्निविष्टनयने मुग्धे किमुत्ताम्यसि । आस्ते पुत्रि समीप एव गमनादेलालतालिङ्गितन्यञ्चद्वालतमालदन्तुरदरी तत्रापि गोदावरी ॥ ४४ ॥ भद्र तस्य तरोः स्वयं चिरकृतप्रस्थानकं कथ्यतां दुर्वारस्तमरण्यवहिरदहद्विग्दारुणं दुर्वचः । मा खिद्यस्व ततः प्रभृत्यनुदिनं तस्याः पतद्भिर्दृशोरम्भोभिः परिणद्धपल्लवघनच्छायस्तरुर्वर्धते ॥ ४५ ॥ स्वामी निःश्वसितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः । तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते वैदग्धीमधुरप्रपञ्चचतुर व्यर्थोऽयमत्र श्रमः ॥ ४६ ॥ आयातासि विमुञ्च
वेपथुभरं दृष्टासि नो केनचिन्नीलं चोलममुं विमुञ्च हरतु खेदं निशीथानिलः । इत्यन्तर्भयसन्नकण्ठमसकृच्चामीति तल्पं गता जल्पन्ती परिरभ्यते सुकृतिभिः स्वैरं नवस्वैरिणी ॥ ४७ ॥ सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिकाप्रेषणं हृद्यं श्रो भविता समागम इति प्रीतिप्रसादश्च यः । प्राप्ते कालसमागमे सरभसं यच्चुम्बनालिङ्गनं तत्कामस्य फलं तदेव सुरतं शेषा पशूनां स्थितिः ॥ ४८ ॥ इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नोच्छ्वासा हृदयं दहन्त्यशिशिरा नो याति कार्श्यं वपुः । स्वाधीनामनुकूलिकां स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहश्रमव्रतमिदं कष्टं समाचर्यते ॥ ४९ ॥ चेत्तौणदपि शङ्कसे हिमरुचोरप्यार्चिषो लज्जसे भोगीन्द्रादपि चेद्विभेषि तिमिरस्तोमादपि त्रस्यसि । चेत्कुञ्जादपि दृप्यसे जनघटध्वानादपि क्षुभ्यसि प्रायः पुत्रि हतास्मि हन्त भविता त्वत्तः कलङ्कः कुले ॥ ५० ॥ आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा । निर्गच्छ त्वरितं गृहाद्वहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः ॥ ५१ ॥ कार्ये सत्यपि जातु याति न बहिर्नीप्यन्यमालोकते साधीय्यँनुकुर्वती गुरुजनं श्वश्रूं च शुश्रूषते । विस्रम्भं कुरुते च पत्युरधिकं ग्रासे निशीथे पुनन्निद्राणे सकले जने शशिमुखी निर्याति रँन्तुं विटैः ॥ ५२ ॥ आकारेण शशी गिरा पॅरभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे समं दयितया रत्या प्रमत्तो गजः । इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति सान्नँैष दोषो यदि ॥ ५३ ॥ ज्ञातं ज्ञातिजनैः प्रमृष्टमयशो दूरं गता धीरता त्यक्ता ह्रीः प्रतिपादितोऽप्यविनयः साध्वीपदं प्रोज्झितम् । लुप्ता चोभयलोकसाधुपदवी दत्तः कलङ्कः कुले भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति ॥ ५४ ॥ देहे दुर्ललितस्य देवरशिशोः स्फोटव्रणो दारुणो यांतंस्तेन वनस्पतित्वचमुपाहर्तुं मया गम्यते । दृप्यन्तु श्वसितानि घर्मसलिलैः पत्राणि लुप्यन्तु वा वक्षो वा विलिखन्तु हन्त नखरैः क्रुद्धाः कपिश्रेणयः ॥ ५५ ॥ अम्ब श्वश्रू यदि त्वया हतशुकः संवर्धनीयस्तदा लौहं पञ्जरमस्य दुर्नयवतो गाढान्तरं कारय । अद्यैनं बदरीनिकुञ्जकुहरे सलीनमन्विष्यती दृष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः ॥ ५६ ॥ न्यस्तं पन्नगमूर्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरोस्त्यक्ता प्रीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम् ।
| १ सूर्येण २ जलम् ३ नवयौवनोपभोक्ता ४ श्रेष्ठ विलक्षणरतिकक्षम इत्यर्थ ५ कूपसम्बन्धिनीं<br>४५ सु. र. भा. | १ भगिनी २ कदाचित् ३ अनुकरणं कुर्वाणा ४ विश्वासम् ५ शयाने ६ क्रीडितुम् ७ जारैः ८ कोकिलः ९ गमने १० सम्बोधनपदम् 'जात' इति वा पाठ |
३५४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
अङ्गानां शतयातना नयनयोः कोऽपि क्रमो भैरवः कुम्भीपाकपराभवश्च मनसो युक्तं मयि प्रस्थिते ॥ ५७ ॥ नारीणां खलु बन्धुरन्धतमस पाथोधरः सोदरः कुञ्जं नाभिमृहं निशा सहचरी सेव्यः खरः क्ष्मापतिः । इत्थं चारुचकोर- चञ्चलदृशा यासा मतिर्जायते तासामेव यशः सुधाशुधवलं तासां च सौख्यं सदा ॥ ५८ ॥ हंसैः शैवलमञ्जरीति कबरी चञ्चूभिराकर्षिता वक्रे चन्द्रधिया चकोरवनिता चक्रे नखै- रक्रमम् । भृङ्गैः पङ्कजकोरकप्रतिमया वक्षोरुहो वीक्षितस्त- न्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ५९ ॥ आस्तां विश्रसनं सखीषु विदिताभिप्रायसारे जने तत्राप्य- र्पयितुं दृशं सुरुचिरा शक्नोमि न व्रीडया । लोकोऽप्येष परोपहासकुशलः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६० ॥ कार्येणापि विल- म्बनं परगृहे श्वश्रूर्न समन्यते शङ्कामर्चयन्ति यूनि भवनं प्राप्ते मिथो यातरः । वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा ननान्दा पुनः कष्टं हन्त मृगीदृशा पतिगृहे प्रायेण कारा- गृहम् ॥ ६१ ॥ एकान्ते बत नो गृहं शशिसुखोऽप्यन्या- दृशो दृश्यते क्षिप्रं साधय यातु पुत्रित्स दिने मुक्तान्यमावा- सकम् । श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रैरयन्त्या वधूः पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ६२ ॥ एते वारिकणाः किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति न सृजन्त्येते पुनर्नायकान् । त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान्चातः कातरमाल- पामि कुलटाहेतोस्त्वया कि कृतम् ॥ ६३ ॥ सपत्नक्स्याद्य तारा भवति तरलिता यत्पुरो नेत्रतारा दृष्टा केनाद्य काञ्ची यदमिसुखगता वेपते रत्नकाञ्ची । उग्रः कस्याद्य तुष्टः सखि यदनुमते कश्चिदुत्ग्रोऽनुतापः ज्ञातं केनाद्य वेणीपयसि विलुलिता यत्कृते कापि वेणी ॥ ६४ ॥ पश्यन्ति स्निग्धमुग्धं प्रतिकलमधुरैर्मोहयन्त्यङ्गहारैः साकूतैर्मन्दहासैरपि पर- पुरुषान् शश्वदानन्दयन्ति । चेष्टन्ते चेत एते किमपि परिचयाद्धारयिष्यन्ति तेषा प्राणान्को वेद लोके परजलज- दृशा चित्तमत्यन्तलोलम् ॥ ६५ ॥ पृथ्वी तावत्रिकोणा विपुलनदनदीग्रावरुद्धं तदर्थं तत्राप्यर्थे युवत्यः शिशुगत- वयसो रोगिणो योगिनश्च । त्याज्यास्तत्रापि मान्याः श्वशुर- पितृमुखाः सन्ति शेषाः कियन्तो मिथ्यावादो ममायं मुखरमुखरवः पुंश्चली पुंश्चलीति ॥ ६६ ॥
पान्थसंकेतः
ग्रामेऽस्मिन्नस्तरप्राये न ^१किंचित्पान्थ विद्यते । पयोधरो- न्नतिं दृष्ट्वा वस्तुमिच्छासि चेद्वस ॥ ६७ ॥ पान्थ मन्दमते किंचा सतापमनुविन्दसि । पयोधरं सैमा- शास्व येन शान्तिमवाप्नुयात् ॥ ६८ ॥ वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः ॥ ६९ ॥ त्वमिव पथिक ^३प्रियो मे विर्ट्पिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे सप्रति यत्पान्थ जीवामि ॥ ७० ॥ किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि सुँदे मम कथयिष्यति पान्थ तव जाया ॥ ७१ ॥ यदि गन्तासि दिगन्तं पथिक पतिस्तत्र सबोध्यः । नयनश्रवणविहीना कथमुपचर्या मयै- कया जननी ॥ ७२ ॥ निबिडतभतमालमल्लिवल्लीविचकिल- राजिविराजितोपकण्ठे । पथिक समुचितस्तवार्थ तीत्रे सवि- तरि तत्र सरित्तटे निवासः ॥ ७३ ॥ ^५भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योऽसि किं गणितशास्त्रविशारदोऽसि । केनौ- षधेन मम पश्यति भर्तुरम्बा किं वागमिष्यति पतिः सुचिर- प्रवासी ॥ ७४ ॥ एकाकिनी यदबला तरुणी तथाहमस्मिन् गृहे गृहपतिश्च गतो विदेशे । कं याचसे तदिह वासमिर्थ वराकी श्वश्रूर्नमान्धबधिरा ननु मूढ पान्थ ॥ ७५ ॥ रथ्या- रजोरुणितधूसरिताङ्गयष्टेः कच्चित्पितुः स्मरसि पुत्रक नि- र्घृणस्य । उक्त्वैवमङ्कगतयायतमायताक्ष्या पान्थस्त्रिया प्ररुदितं करुणं दिनान्ते ॥ ७६ ॥ भवनमिव मदीय निर्जनं पान्थ पन्थाः कुसुमशर इवासिस्तस्करा दुर्निवारः । गृँहप इव पँतङ्गोऽप्येष यातो दिगन्तान्मदनसुभग भूयो नैव गन्तुं समीहे ॥ ७७ ॥ अहमिह दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि ॥ ७८ ॥ यामिन्येषा बहलजलदैर्बँद्धैर्भीमान्धकारा निद्रा यातो मम पतिरसौ क्लेशितः ^११कैर्मदुःखैः । बाला चाहं मैनै- सिजभयात्त्रासगाढप्रकम्पा ग्रामश्चौरैरयमपहृतः पान्थ निद्रा जहीहि ॥ ७९ ॥ कुत्रायासीः किमिवमकरोः साहस पान्थ बन्धो यद्येतस्मिन्निवससि पुरे सावधानस्तदा स्याः । अत्रोत्तालाः कतिचिदबलाः सन्ति यासा विलासैरूत्पद्यन्ते सपदि मदनव्याधयो दुर्निवाराः ॥ ८० ॥ इयं सुरैतरं- गिणी न पुनरत्र नौसँर्गमो भवेत्तरैंणिमज्जनं पथिक नैव
१ पाषाणबहुले, पक्षे,-पाषाणतुल्ये २ आस्तरणादिकम्, पक्षे,-समागमप्रतिबन्धकम् ३ मेघानामुन्नति पर्जन्यागमसङ्केत इति यावत्; पक्षे,-स्तनयोरुन्नतिः .
१ मेघम्, पक्षे,-स्तनम् २ सम्यक्प्रार्थना कुरु ३ कान्त ४ वृक्षस मूहेषु ५ दृषांय ६ कश्चे पुस्तकधारिण पान्थ प्रति कस्याश्चित्कामिन्या स्वभिप्रायद्योतकोक्ति औषधप्रश्नेन श्वश्र्वा अन्धत्व सूचितम् प्रोषि- तस्य पत्यु कदागमन भविष्यतीति प्रश्नेन सोऽपि गृहे नास्तीति सूचितम् ७ गृहस्वामी ८ सूर्य ९ रात्रि १० भयकरगाढान्धकारा ११ कर्मजन्यैर्दुः खै श्रान्त इत्यर्थ १२ उक्तहेतुभिर्मनसि जात यद्भय तस्मात्, पक्षे,-कामभयात् १३ सुराणा तरगिणी नदी, पक्षे,-सुरतरञ्जनशीला १४ नौसगमः नौकाप्राप्ति, पक्षे,-आवयो समागम १५ तरणि सूर्य, पक्षे,-नौका
असतीचरित्रम्, वेश्यागर्हणम्, अष्टनायिकाः
३५५
[पान्थागमः]
पान्थागमः। निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे
घनघनागमे घनरसस्य¹ पारं व्रज ॥ ८१ ॥
वाणिज्येन² गतः स मे गृहपति³र्वार्तापि न श्रूयते प्रातस्त-
ज्जननी प्रसूततनया जामातृगेहं गता । बालाहं नव-
यौवना निशि कथं स्थातव्यमस्मिन्गृहे सायं संप्रति वर्तते
पथिक हे स्थानान्तरं गम्यताम् ॥ ८२ ॥
रे रे पान्थ कुतो भवाङ्नगरतो वार्ता न चापि श्रुता ब्रूहि ब्रूहि युवा पयोद-⁵
समये हित्वा प्रियां जीवति । सत्यं⁴ जीवति जीवतीति
कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः
किं किं न सम्भाव्यते ॥ ८३ ॥
शून्यं वेश्म चिरायितो⁶
गृहपतिर्जाताधुना शर्वरी स्थातुं नोचितमत्र गच्छ निभृतं
लोकैरनालक्षितः⁷ । इत्थं लोलदृशा ह्यसावभिहितो दासीमुखे-
नाध्वगः स्थित्वा किंचिदिव क्व यामि रजनी प्राप्तेत्युदीर्य⁸
स्थितः ॥ ८४ ॥
क्षन्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि⁹
त्वया स्यादेव यदि नाथ दास्यति विधिर्जातिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कुतः प्राणा.
पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ॥ ८५ ॥
भ्रातः पान्थ पथि त्वया न पथिकः कश्चित्समासादितो बाले
नैकशतानि कीदृश इति प्रख्यायता वल्लभः । यं दृष्ट्वा
प्रमदाजनस्य भवतः स्फारे मुदा लोचने स ज्ञेयो दयितो
ममेति पथिकायावेद्य मोहं गता ॥ ८६ ॥
भो पान्थ त्वरितोऽसि तिष्ठ निमिषं किंचिद्ददामो वयं मार्गोऽयं पुरतो
द्विधा खलु भवेदङ्गेन¹⁰ नो गम्यताम् । तत्रास्ते सहकारकोमल-
तरोर्मूले प्रपापालिका तस्या लोचनवागुरानिपतितो¹¹ न त्वं
पुनर्यास्यसि ॥ ८७ ॥
नाथो मे विपणौ¹² गतो न गणयत्येषा
सपत्नी च मा त्यक्त्वा मामिह पुष्पिणीति¹³ गुरवो याता गृहा-
भ्यन्तरम् । शय्यामात्रसहायिनी परिजनः श्रान्तो न मा सेवते
स्वामिन्नागमलालनीय¹⁴ रजनीं¹⁵ लक्ष्मीपते रक्ष माम् ॥ ८८ ॥
वेश्यागर्हणम्
वेश्यासौ¹⁶ मदनज्वाला रूपेन्धनसमेधिता¹⁷ । कामिभिर्यत्र
हूयन्ते यौवनानि धनानि च ॥ १ ॥
अयं च सुरतज्वाला-
कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते यौवनानि धनानि
च ॥ २ ॥
इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । निष्फलत्व-
मल यान्ति वेश्याविहगभक्षिताः ॥ ३ ॥
धनाशा कैतवस्नेहो¹ वितथैश्चित्ततोषणम्² । एकमप्यस्ति नात्ासु
कथं वेश्यासमा वयम् ॥ ४ ॥
कष्टं जीवति गणिका गण-
कोऽपि च राजसेवको वैद्यः । दिवसे दिवसे मरणं परस्य
यच्चित्तरञ्जनं वृत्तिः ॥ ५ ॥
न पर्वताग्रे नलिनी प्ररोहति
न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति
शालयो न वेशजाताः शुचयस्तथाङ्गनाः ॥ ६ ॥
हारहीरक-
हिरण्यभूषणैस्तोषमेति गणिका धनैषिणी³ । प्रेमकोमल-
कटाक्षवीक्षितैरेव जीवति कुलाङ्गनाजनः ॥ ७ ॥
एता हसन्ति
च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न च विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानघटिका⁴ इव
वर्जनीयाः ॥ ८ ॥
जात्यन्धाय⁵ च दुर्भगाय च जराजीर्णाखि-
लाङ्गाय च ग्रामीणाय⁶ च दुष्कुलाय च गलत्कुष्ठाभिभूताय
च । यच्छन्तीषु⁷ मनोहरं निजवपुर्लक्ष्मीलेवशद्धया⁸ पण्यस्त्रीषु⁹
विवेककल्पलतिकाशूलीषु रज्येत कः ॥ ९ ॥
केशः कुन्द-
मिषादिवोपहसति द्रव्यैर्विहीनाञ्जनान् यूना ग्रन्थिधनं विलो-
कितुमिवोद्ग्रीवस्तनस्तिष्ठति । प्रेमच्छेदकृपाणवल्लिसुषमा रोमा-
लिरालम्बते यस्याः सा कथमस्तु चेतसि चमत्काराय
वाराङ्गना ॥ १० ॥
वाप्या स्नाति विचक्षणो द्विजवरो
मूर्खोऽपि वर्णाधमः फुल्ला नाम्यति वायसोऽपि हि लता या
नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवे-
तरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज ॥ ११ ॥
अष्टनायिकाः
स्वाधीनपतिका
यद्यपि रतिमहोत्सवे नकारो यदपि करेण च
नीविधारणानि । प्रियसखि पतिरेष पार्श्वदेशं तदपि न
मुञ्चति तत्किमाचरामि ॥ १ ॥
मा गर्वमुद्वह कपोलतले
चकास्ति कान्त स्वहस्तलिखिता मम मञ्जरीति । अन्यापि
किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः
॥ २ ॥
अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं प्रोज्ज्वलं
नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं
त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः पतिर्नान्यतो दृष्टिं
निक्षिपतीति विश्वमितया मन्यामहे दुःखितम् ॥ ३ ॥
श्वश्रूः पश्यति नैव पश्यति यदि भ्रूभङ्गवक्त्रेक्षणा मर्मच्छेदपटु
प्रतिक्षणमसौ ब्रूते ननान्दा वचः । अन्यासामपि किं
ब्रवीमि चरितं स्मृत्वा मनो वेपते कान्त. स्निग्धदृशा
टिप्पण्यः
[पृष्ठ-भाग १] १ उदकस्य २ वाणिज्यर्थि परदेशं गत ३ भर्त्ता ४ सत्यम् ५ वर्षाकाले ६ चिरकाल दूर गत ७ अदृष्ट ८ उक्त्वा ९ गोष्ठीप्रसङ्गेन १० वामभागेन ११ लोचनमेव वागुरा मृगबन्धिनी जालमित्यर्थ १२ पण्यवीथिका १३ रजस्वला १४ आगमेन वेदेन लालनीय स्तुत्य पक्षे,-आगमनेन लालनीय . १५ रजनी व्याप्येत्यर्थ १६ वाराङ्गना. १७ रूपमेवेन्धन काष्ठ तेन सम्यक्प्रदीप्ता
[पृष्ठ-भाग २] १ कपटस्नेह. २ असत्यगोष्ठीभि ३ धनेच्छावती ४ श्मशानस्थिता घटिका घट्यो घटा इति यावत् एता यथा अस्पृश्यास्तथैव ता वर्जनीया इति भाव ५ जन्मनान्धाय ६ ग्राम्याय ७ अर्पयन्तीषु ८ लक्ष्मीलेशाशया ९ गणिकासु
| ३५६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
विलोकयति मामेतावदागः सखि ॥ ४ ॥ वक्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशा कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथ चेतःपथं क्वप्यथं काप्यान्त्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥ ५ ॥ स्वीया सन्ति गृहे गृहे मृगदृशो यासा विलासकणकाञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिर्न मा मुञ्चति ॥ ६ ॥ सन्त्येव प्रतिमन्दिर युवतयो यासा सुधासागरस्रोतःस्यूतसरोजसुन्दरचमत्कारा दृशोर्विभ्रमाः । चित्रं किं तु विचित्रमन्मथकलावैशद्यहेतोः पुनर्विश्वं चित्तहर प्रयच्छति युवा मय्येव किं कारणम् ॥ ७ ॥ एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किञ्चिद्विशिष्टं रसात् । वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि तस्मै कथम् ॥ ८ ॥ मध्ये न कृशिमा स्तने न गरिमा देहे न वा कान्तिमा श्रोणौ न प्रथिमा गतौ न गरिमा नेत्रे न वा वक्रिमा । लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा प्राणेशस्य तथापि मज्जति मनो मय्येव किं कारणम् ॥ ९ ॥
खण्डिता
वक्षः किमु कलशाङ्कितमिति किमपि प्रष्टुमिच्छन्त्याः । नयनं नवोढमुग्दशः प्राणेशः पाणिना पिदधे ॥ १० ॥ सत्यमेव गदितं त्वया विभो जीव एक इति यत्पुरावयोः । अन्यदारनिहिता नखव्रणास्तावके वपुषि पीडयन्ति माम् ॥ ११ ॥ सव्यलीकमब्रवीदरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिभाषणिपातः ॥ १२ ॥ शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखिता दयिताय । मानिनीमभिमुखाहितचित्ता शंसति स्म घनरोमविभेदः ॥ १३ ॥ वक्षोजचिह्नितमुरो दयितस्य वीक्ष्य दीर्घं न निःश्वसति जल्पति नैव किंचित् । प्रातर्जलेन वदनं परिमार्जयन्ती बाला विलोचनजलानि तिरोदधाति ॥ १४ ॥ कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः । दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः ॥ १५ ॥ भवतु विदितं व्यर्थालापैरलं प्रिय गम्यता तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथा रूढं प्रेम प्रपन्नमिमा दशा प्रकृतितरले का न पीडा गते हतजीविते ॥ १६ ॥ उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयता वसु पुरा यदङ्गीकृतम् । इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात्समाकृष्यते ॥ १७ ॥ जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा
निःपीत भवता मधु प्रविततं व्याघूर्णितं मे मनः । श्राम्यदङ्गजघने निकुञ्जभवने लब्धं त्वया श्रीफलं पञ्चेषुः पुनरेष मा बहुतरैः क्रूरैः शरैः कृन्तति ॥ १८ ॥ प्रातः प्रातरुपागतेन जनिता निर्निद्रता चक्षुषोर्मन्दाय मम गौरवं व्यपहृतं प्रोत्पादितं लाघवम् । कि तद्यन्न कृतं त्वया रमण भीर्मुक्ता मया गम्यता दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तासि तच्छ्रोष्यसि ॥ १९ ॥ लाक्षालक्ष्म ललाटपट्टफलके केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्ति गताः ॥ २० ॥ कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैरालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् । रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना करतलादर्शमादर्शयत् ॥ २१ ॥
अभिसारिका
भीतासि नैव भुजगात्पथि मद्भजस्य सङ्गे पुनः किमपि कम्पमुरीकरोषि । अम्भोघरध्वनिभिरक्षुभितासि तन्वि मद्वाचि साचिवदनासि किमाचरामि ॥ २२ ॥ इह जगति रतीशप्रक्रियाकौशलिन्त्यः कति कति न निशीथे सुभ्रुवः सञ्चरन्ति । मम तु विधिहताया जायमानसितायाः सहचरि परिपन्थी हन्त दन्तांशुखैव ॥ २३ ॥ अम्भोजाक्ष्याः पुरनवलताधाम्नि सकेतभाजश्चेतोनाथे चिरयति भृशं मोहनिद्रा गतायाः । स्वच्छे नाभीह्रदवलयित कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥ २४ ॥ किमुत्तीर्णः पन्थाः कुपितभुजगीभोगविषमो विसोढा भूयसः किमिति कुलपालीकटुगिरः । इति स्मारं स्मारं दरदलितशीतद्युतिरुचौ सरोजाक्षी शोण दिशि नयनकोणं विकिरति ॥ २५ ॥ जनो दुर्लक्ष्योऽयं कुलममलिनं वर्त्म विषमं पतिश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् । अतः काचित्तन्वी रतिविहितसंकेतगतये गृहाद्द्वारवार निरगमदथ प्राविशदथ ॥ २६ ॥ सितं वसनमर्पितं वपुषि नीलचोलञ्मानमया मृगमदाशया मलयजद्रव. सेवितः । करेण परिबोधितः स्वजनशङ्कया दुर्जन परं परमपुण्यत. सखि न लङ्घिता देहली ॥ २७ ॥ प्रत्यावृत्त्य यदि व्रजामि भवन वाचा भवेत्प्रत्ययो निर्गच्छामि निकुञ्जमेव यदि वा को वेद किं स्यादितः । तिष्ठामो यदि वा कचिद्धनतटे किं जातमेतावता मध्ये वर्त्म कलानिधे. समुदयो जातः किमातन्यताम् ॥ २८ ॥ भ्रातः कङ्कण कि कदाप्यसि घनाश्लेषेषु विश्लेषित दूरे किङ्किणि किं कृताप्यसि रतारम्भे रणत्कारिणी । कि मञ्जीर बहिः कुतोऽप्यसि रहस्तल्पाधिरोहे मया संकेताध्वनि बद्धवैरमिव यन्मौखर्यमालम्बसे ॥ २९ ॥ उत्क्षिप्तं करकङ्कणद्वयमिदं
अष्टनायिकाः ३५७
बद्धं दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयो- र्मूकता । आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे चण्डालस्तिमिरवगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ३० ॥ एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तास्यालयमागता समदना दृष्टा जलाद्रीलका । विद्युद्वारिदगर्जिते मचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ३१ ॥ मार्गे पङ्कचिते घनान्धतमसे निःशब्द- सञ्चारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा मतिम् । आजानुद्रुतनूनपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छ्रे- णास्पदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ३२ ॥ छिद्रान्वेषणतत्पर. प्रियसखि प्रायेण लोकोऽधुना रात्रिश्वापि घनान्धकारबहुला गन्तुं न ते युज्यते । मा भैष सखि वल्लभ. प्रियतमस्तत्सोत्सुका दर्शने युक्तायुक्तविचारणा यदि भवेत्स्नेहाय दत्त जलम् ॥ ३३ ॥ दूती विद्युदुपागता सह- चरी रात्रिः सहश्यायिनी दैवज्ञो दिशति स्वनेन जलदः प्रस्थानवेला शुभाम् । वाचं माङ्गलिकी तनोति तिमिरस्तोमो- ऽपि झिल्लीरवैर्जातोऽय दयिताभिसारसमयो मुग्धे विमुञ्च त्रपाम् ॥ ३४ ॥ द्वित्रै. केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्ली- स्रज कण्ठान्मौक्तिकमालिका च तदनु त्यक्त्वा पदै. पञ्चभि. । अन्तः कान्तवियोगकातरतया दूराभिसारातुरा तन्वङ्गी निरुपायमध्वनि पर श्रोणीभर निन्दति ॥ ३५ ॥ आत. प्राणगणप्रयाणसमये प्राणाधिनाथस्य मे कुर्या. स्थैर्यमपि क्षणं करुणया कण्ठश्लेषेऽपि स्थित. । यावल्लोचननीर- निर्मितनदीवन्याभिरन्यादृशं पन्थानं परिकल्पयामि भविता येनावयोर्वाञ्छितम् ॥ ३६ ॥ कान्ते कत्यपि वासराणि गमय त्व मीलयित्वा दृशौ सत्यं नाथ निमीलयामि नयने यावन्न शून्या दृश । आयाता वयमा गमिष्यसि सुहृद्वर्गस्य भाग्योदयैः संदेश वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलि. ॥ ३७ ॥ उद्दामाम्बुदवर्धितान्धतमसि प्रन्नष्टदिङ्मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । कर्णस्यासु- हृदार्णवाम्बुवडवावह्नेर्यदन्तःपुरादायातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥ ३८ ॥ पद्मीनामधिपस्य पङ्कज- दृशा पर्वोत्सवामन्त्रणे जाते सन्नजना मिथः कृतमहोत्साह पुरः प्रस्थिताः । सव्याजं स्थितयोर्विहस्य गतयो शुद्धान्त- मत्रान्तरे यूनोः स्विन्नकपोलयोर्विजयते कोऽप्येष कण्ठग्रह. ॥ ३९ ॥ लोलचोलचमत्कृति प्रविलसत्काञ्चीलताझंकृति न्यञ्चत्कञ्चुकबन्धबन्धुरचलद्वक्षोजकुम्भोन्नति । स्फूर्जद्दीधिति विस्फुरद्रति चलच्चामीकरालंकृति क्रीडाकुञ्जगृहं प्रयाति कृतिनः कस्यापि वाराङ्गना ॥ ४० ॥
कलहान्तरित
द्वारि चक्षुर्गधिपाणि कपोलौ जीवितं त्वयि कुत' कल- होऽस्या. । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्व- मियाय ॥४१॥ चकितहरिणलोललोचनाया कृधि तरुणारुण- तारहाग्कान्ति । सरसिजमिदमाननन च तस्या. मममिति चेतसि समदं विवत्ते ॥ ४२ ॥ विरमति कथन विना न खेद. सति कथने समुपैति कापि लज्जा । इति कलहमवोन्मुखी सखिभ्यो लपितुमलनाल्पितुं समाचकाङ्क्ष ॥ ४३ ॥ अनुनयति र्पति न लज्जमाना कथयति नापि सखीजनाय किंचित् । प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्त. ॥ ४४ ॥ प्रयच्छतोच्चै. कुसुमानि मानिनी विपक्षगोत्र दयितेन लम्भिता । न किंचिदूचे चरणेन केवलं लिखेख बाष्पाकुल- लोचना भुवम् ॥ ४५ ॥ न बरीभरीति कबरीभरे स्रजो न चरीकरीति मृगनाभिचित्रकम् । विजर्गिहरीति न पुरेव मत्पुरो विवरीवरीति न च विप्रिय प्रिया ॥ ४६ ॥ तत्तद्गदलपि यथावसर हस्तप्यपालिङ्जनेऽपि न निषेधति चुम्बनेऽपि । कि तु प्रमादनमयादपि निह्नुतेन कोपेन कोऽपि विहितोऽद्य रसा- वतारः ॥ ४७ ॥ न तिर्यगवलोकित भवति चक्षुरालोहित वचोऽपि परुषाक्षर न च पदेषु सगच्छते । हिमार्क इव वेपते सकल एव विम्बाधर प्रकार्मविनते भ्रुवौ युगपदेव भेदं गते ॥ ४८ ॥ मय्यायाते सपदि नयनादुत्थितं चाटु वाक्य बद्धा पाणी बहु निगदितं क्षालितं पादपद्मम् । दत्त्वा वीटी सविनयमथोद्गीजितं तालवृन्तैर्भूते कोपं कुवलयदृशो भूयसी भक्तिरेव ॥ ४९ ॥ चरणपतनप्रत्याख्यानात्मसाद- पराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति रमणे निःश्वसोच्चै. स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥ ५० ॥ स्फुटतु हृदयं काम. कामं करोतु तनुं तनुं न सखि चतुलप्रेम्णा कार्य पुनर्दाय- तेन मे । इति सरभस मानोप्रेकादुदीर्य वचस्तया रमण- पदवी सारङ्गाक्ष्या ससभ्रममीक्षिता ॥ ५१ ॥ पय.पीठं दत्ते त्वरितमभिधत्ते न च वच. समाज्ञामाधत्ते शिरसि न विधत्ते च मिलनम् । इति स्वान्ते गोपायितनिबिडकोषा प्रतिपद कृशोदर्याश्चर्या प्रियमहह पर्याकुलयति ॥ ५२ ॥ पुरस्तन्या गोत्रस्खलनचकितोऽहं नतमुख. प्रवृत्तो वैलक्ष्या- त्किमपि लिखितु दैवहतक. । स्फुटो रेखान्यास. कथमपि स तादृक्परिणतो गता येन व्यक्ति पुनरवयवै. सैव तरुणी ॥ ५३ ॥ ततश्वाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मन- स्विन्त्या रोषप्रणयरभसाद्गद्गदगिरा । अहो चित्रं चित्रं स्फुट- मिति निगद्याशुकलुष रुषा ब्रह्मास्त्रं मे शिरसि निहितो वाम- चरण. ॥ ५४ ॥ चल चेत. पुंसा सहजसरला. पङ्कजदृशो
३५८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भवत्येव क्रोधः क्वचिदपि कदाचित्चरणयोः । दहेदङ्गं भङ्गी विधुरपि विदध्यात्वरिमवं खरो मा मथ्नीयादिति किमपि नाज्ञासिषमहम् ॥ ५५ ॥ आनन्द क्वचिदश्व मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेय केति विचार्यता रसिक ते निर्याहि पर्याकुला । रक्ताम्भोजपरीतषट्पदपदपक्षोपमानक्षमक्षुभ्यत्पक्ष्मचलाचलेक्षणयुग पश्यामि तस्या मुखम् ॥५६॥ मानम्लानमना मनागपि नतं नालोकते वल्लभं निर्याते दयिते निरन्तरमियं बाला पर तप्यते । आनीते रमणे बलात्परिजनैर्मौनं समालम्बते धत्ते कण्ठगतानसूनियतमै निर्गन्तुकामे पुनः ॥५७॥ आयस्ता कलहं पुरेव कुरुते न संसने वाससो भुग्नभ्रूरतिकण्व्यमानमधरं धत्ते न केशग्रहे । अङ्गान्र्यर्पयति स्वय भवति नो वामा हठाल्लिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥ ५८ ॥ एकत्रानसनस्थितिः परिहृता प्रत्युद्गमादूरतास्ताम्बूलानयनच्छलेन रमसाश्लेषोऽपि सविघ्नितः । आलापोऽपि न मिश्रित परिजनं व्यापारयन्त्यान्तिके कान्त प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ५९ ॥ आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । मय्यालापवति प्रतीपवचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ६० ॥ दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणे गृहीतवसने कोपाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिक्ष्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ६१ ॥ तारल्यं सुखमेलने न च वचोवैदग्ध्यमप्यादृशं न भ्रूभङ्गपरिग्रहो न च रहःप्रश्नेऽपि मौनस्थितिः । एवं संप्रति तर्क्यते तु सुदृशः कोपस्तु मद्वस्तुनि स्वाधीनेऽपि पुरेव पङ्कजदृशो यन्न प्रभुत्वग्रहः ॥ ६२ ॥ शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीप ततः पादेन प्रहृतं तया सपदि तं धृत्वा सहासे मयि । किचित्तत्र विधातुमक्षमतया बाष्पं त्यजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ ६३ ॥ सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितै पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ६४ ॥ एकस्मिन्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगान्द्रवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सूत इवेत्यमन्दवलितग्रीव पुनर्वीक्षितः ॥६५॥ तल्पोपान्तमुपेयुषि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फूर्जत्कपोलश्रिया । हस्तन्यस्तकरे पुनर्मृगदृशा
^१ सपत्नी
लाक्षारसक्षालितप्रोष्ठीपृष्ठमयूखमासलरुचो विस्फारिता दृष्टयः ॥ ६६ ॥ भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोग. कृतः । धैर्य कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ६७ ॥ न ब्रूते परुषा गिर वितनुते न भ्रूयुग भङ्गुरं नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि । कान्ता गर्भगुहे गवाक्षविवरव्यापारिताक्ष्या बहिः सख्या वक्रमभिप्रयच्छति परं पर्यश्रुणी लोचने ॥ ६८ ॥
विप्रलब्धा
उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ॥ ६९ ॥ निःस्नेह निष्करुण निष्कृप निर्निमित्तं मद्वञ्चक त्वमपि संप्रति वञ्चितः स्याः । इत्यक्षराणि लिखितानि समीक्ष्य कश्चित्सकेतककेतकदले नितरामताम्यत् ॥ ७० ॥ संकेतकेलिगृहमेत्य निरीक्ष्य शून्यमेणीदृशो निभृतनिःश्वसिताधरायाः । अर्धार्क्षर वचनमर्धविकसि नेत्र ताम्बूलमर्धकवलीकृतमेव तस्थौ ॥ ७१ ॥ कपटवचनभाजा केनचिद्वप्रयोष सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ । इति विहसति रिङ्गद्भृङ्गविक्षिसचक्षुर्विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः ॥ ७२ ॥ नायातो यदि निर्दयः सखि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् । पश्याद्य प्रियसगमाय दयितस्याकृष्यमाणं गुणैरुत्कण्ठार्तिभराद्दिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ७३ ॥ शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञाय चेतोभुवं दूती नापि निवेदिता सहचरी पृष्टापि नो वाऽनया । शंभो शकर चन्द्रशेखर हर श्रीकण्ठ शूलिञ्शिव त्रायस्वेति परंतु पङ्कजदृशा भग्नैश्च चक्रे स्तुतिः ॥ ७४ ॥ तत्कि कामपि कामिनीमभिसृतः किंवा कलाकेलिभिर्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ७५ ॥ सास्रे मा कुरु लोचने विगलति न्यस्तं शलाकाञ्जन तीव्रं निःश्वसितं निवर्तय नवास्ताम्यन्ति कण्ठस्रजः । तल्पे मा लुठ कोमलाङ्गि तनुता हन्ताङ्गरागोऽश्नुते नातीतो दयितोपयानसमयो मा सान्यथा मन्यथाः ॥ ७६ ॥ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुहृद्यो मा नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रा निशि ॥ ७७ ॥ दत्त्वा धैर्यसुजंगमूर्ध्नि चरणावुलङ्घ्य लज्जांनदीमङ्गीकृत्य घनान्धकारपटलं तन्व्या न दृष्टः प्रियः । संतापाकुलया तया च परितः पाथोधरे गर्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ
अष्टनायिकाः ३५९
योजिते ॥ ७८ ॥ आलिभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् । न्यस्ता. कितु नवोढनीरषदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्कदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ७९ ॥
प्रोषितभर्तृका
अर्पयति प्रतिदिवस प्रियस्य पथि लोचने बाला ।
निक्षिपति कमलमाला. कोमलमिब कर्तुमध्वानम् ॥ ८० ॥
आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणय-
निहवमाचरन्ती। तत्रैव रङ्गनयना नयनारविन्दमस्पन्दमाहित-
वती दयिते गतेऽपि ॥ ८१ ॥ विरहविदितमन्तः प्रेम
विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति ।
मरिचनियममक्ष्णोर्न्यस्य बाष्पोदबिन्दून्विसृजति पुरतोऽधिद्वार-
देशोपविष्टा ॥ ८२ ॥ ता जानीथा. परिमितकथा
जीवितं मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीमिवै-
काम् । गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाला
जाता मन्ये शिशिरमथिता पद्मिनी वान्यरूपाम् ॥ ८३ ॥
माला बालाम्वुजदलसमी मौक्तिकी हारयष्टि. काञ्ची याते
प्रभवति हरौ सुभ्रुवः प्रस्थितैव । अन्यद्धूमः किमपि धमनी
वर्तते वा न वेति ज्ञातुं बाहोरहह वलयं पाणिमूलं प्रयाति
॥ ८४ ॥ समर्थ्य हृदि दारुणा मदनवेदना भूयसीमेनेन
तव वर्त्मना प्रचलित. स मे वल्लभः । न वामदिशि शब्दिंतं
किमिति बालया वायस त्वया मदनसारिके किमिति वा
कृतं न श्रुतम् ॥ ८५ ॥ आद्दष्टप्रसरात्प्रियस्य पदवीमुद्रीक्ष्य
निर्विव्णया विश्रान्तेषु पथिष्वह.परिणतौ ध्वान्ते समु-
त्सर्पति । दत्त्वैकं सश्रुचा गृहं प्रतिपदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ८६ ॥
श्वश्रूः पद्मदलं ददाति तदपि भूसज्जया गृह्यते सद्यो मर्मर-
शङ्कया न च तया सस्पृश्यते पाणिना । यातुर्वाचि सुहृ-
दूणस्य वचसि प्रत्युत्तरं दीयते श्वास. कितु न मुच्यते
हुतवहक्रूर. कुरङ्गीदृशा ॥ ८७ ॥
वासकसज्जा
निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितै. ।
अपरा परीक्ष्य शनकैर्मुमुदे सुखवासमास्यकमलश्वसनै.
॥ ८८ ॥ नेद समीरितमकारि कला न चेयमित्याकुला.
कथमपि प्रथमार्धमहः । एवं विधेयमथ वाच्यमिद मयेति
शेषं प्रियाः सुकृतिनामतिवाहयन्ति ॥ ८९ ॥ कृतं वपुषि
भूषणं चिकुरधोरणी धूपिता कृता शयनसन्निधौ
क्रमुकवीटिकासभ्रुतिः । अकारि हरिणीदृशा भवनमेत्य
देहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्द्दिनम् ॥९०॥
विदूरे केयूरे कुरु करयुगे रत्नवलयैरलं गुर्वी ग्रीवा-
भरणलतिकेयं किमनया । अवामेकामेकावलिमपि मयि त्वं
विरचयेर्न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ ॥ ९१ ॥
श्वश्रूं स्वापयति च्छलेन च तिरोधत्ते प्रदीपादुर धत्ते मौघ-
कपोतपोतनिनदैः साकेतिक चेष्टितम् । शश्वत्पार्श्वविवर्तिता-
झलतिक लोलकपोलद्युति कापि कापि कराम्बुजं प्रियधिया
तल्पान्तिके न्यस्यति ॥ ९२ ॥ चोल नीलनिचोलकर्षण-
विधौ चूडामणि चुम्बने याचिष्ये कुचयो करार्पणविधौ
काञ्ची पुन काञ्चनीम् । इत्थं चन्दनचर्चितैर्मृगमदैर्गाङ्गानि
सस्कुर्वती तत्कि यन्न मनोरथं वितनुते वारेषु वाराङ्गना
॥ ९३ ॥ दृष्ट्वा दर्पणमण्डले निजवपुर्भूषा मनोहारिणीं
दीप्तार्चि. कपिशं च मोहनगृहं त्रसत्कुरङ्गीदृशा । एवं नौ
सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिदृक्षया
च ललिता द्वारेऽर्पिता दृष्टयः ॥ ९४ ॥ हार गुम्फति
तारकान्तिरुचिर मञ्चाति काञ्चीलता दीपं न्यस्यति कितु तत्र
बहुल स्नेहं न धत्ते पुनः । आलीनामिति वासकस रजनौ
कामातुरूपा क्रिया साक्षिक्षेरमुखी नवोढसुमुखी दृग्गतसमु-
द्वीक्षते ॥ ९५ ॥ शिल्प दर्शयितु करोति कुतुकात्कह्लारहार-
स्रजं चित्रप्रेक्षणकैतवेन किमपि द्वार समुद्वीक्षते ।
गृहात्याभरणं नव सहचरीभूषाजिगीषामिषादित्थं पञ्चदृशः
प्रतीत्य चरितं खेराननोऽभूत्स्ररः ॥ ९६ ॥
उत्का
अम्भोरुहाक्षि शभोश्चरणावाराधितौ केन । यस्मै
विवलितवदना मदनाकृतं विभावयसि ॥ ९७ ॥ सखि
स विजितो वीणावाद्यै. कयाप्यपरस्त्रिया पणितमभव-
त्ताभ्या तत्र क्षपाललित ध्रुवम् । कथमितरथा शेफालेषु
स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण
विलम्ब्यते ॥ ९८ ॥ भ्रूमङ्गे रचितेऽपि दृष्टिरधिक सोत्कण्ठ-
मुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धानन
जायते । कार्कश्यं नमितेऽपि चेतसि तनू रोमाञ्चमालम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस तस्मिञ्जने ॥ ९९॥
कि रुद्ध. प्रियया कयाचिदथवा सख्या ममोद्वेजितः किंवा
कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य
मृगीदृशा करतले विन्यस्य वक्राम्बुजं दीर्घे निःश्वसित चिर
च रुदितं क्षिप्ताश्च पुष्पस्रज. ॥ १०० ॥ यन्नाद्यापि समा-
गत. पतिरिति प्रायः प्रपेदे परामित्थ चेतसि चिन्तयन्त्यपि
सखी न व्रीडया पृच्छति । दीर्घ निःश्वसितं दधाति चकितं
न प्रेक्षते केवलं किंचित्कपलाण्डपाण्डुरुचि धत्ते कपोल-
स्थलीम् ॥ १०१ ॥ आनेतुं न गता किमु प्रियसखी
भीतो भुजङ्गात्किमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणे-
श्वरो वर्तते । इत्थं कर्णसुवर्णकेतकरज.पातोपघातच्छला-
दक्ष्णोः कापि नवोदनीरर्मुखी बाष्पोदकं सुञ्चति ॥१०२॥
स्नानं वारिद्वारिभिर्विरचितो वासो घने कानने शीतै-
१ सुसभ्रमरा सफुलकुसुमवृक्षा
२ धारणम्
| ३६० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
श्चन्दनबिन्दुभिर्मनसिजो देवः समाराधितः । नीता जागरण-
व्रतेन रजनी क्रीडा कृता दक्षिणा तसं किं न तपस्तथापि
स कथं नायाति नेत्रातिथिः ॥ १०३ ॥
वीररसनिर्देशः
भर्तृपिण्डानृणकरो यशः क्रयमहापणः । सुराङ्गनास्वय-
ग्राहो रम्यः कालोऽयमागतः ॥ १ ॥ प्रायेण सुकरं दानं
प्रायेण सुकर तपः । प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः
॥ २ ॥ मा मैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
एते वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ३ ॥
खड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः । एकदोर्दण्ड-
शेषेऽपि कः सहेत पराभवम् ॥ ४ ॥ हतेऽभिमन्यौ क्रुद्धेन
तत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा
जयद्रथः ॥ ५ ॥ लोहितायति चादित्ये त्वरमाणो धन-
ञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ६ ॥
रथेभ्यो गजवाजिभ्यः सङ्ग्रामे वीरसकराः । पातिताः पात्य-
मानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ ७ ॥ पूर्णे शतसहस्रे
द्वे पदातीना नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव
पावकः ॥ ८ ॥ आकर्णपलितः श्यामो वयसाऽशीति-
पञ्चकः । रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ ९ ॥
लक्ष्मणो लघुसंधानी दूरपाती च राघवः । कर्णो दृढप्रहारी
च पार्थस्यैते त्रयो गुणाः ॥ १० ॥ न कालस्य न शक्रस्य
न विष्णोर्विंत्तदस्य च । श्रूयन्ते तानि कर्माणि यानि युद्धे
हनूमतः ॥ ११ ॥ सप्तषष्टि हताः कोट्यो वानराणां तर-
स्विनाम् । पश्चिमेनाह्नःशेषेण मेघनादेन सायकैः ॥ १२ ॥
धृतधनुषि शौर्यशालिनि शैला न नमन्ति यत्तदाश्चर्यम् ।
रिपुमज्जकेषु गणना कैव वराकेषु काकेषु ॥ १३ ॥ जीव-
न्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृत-
मुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ १४ ॥ रविमणिरपि
निश्चेष्टः पादैस्तिग्मद्युतेर्मनाक्स्पृष्टः । ज्वलतितरामिति को वा
मन्युं सोढुं क्षमो मानी ॥ १५ ॥ छिन्नेऽपि शस्त्रभिन्नेऽप्या-
त्पत्यतितेऽपि निर्विशेपेऽपि । हनुमति कृतप्रतिज्ञे दैवमदैवं
यमोऽप्ययमः ॥ १६ ॥ लोकः शुभस्तिष्ठतु तावदन्यः
पराङ्मुखानां समरेषु पुंसाम् । पल्योऽपि तेषा न हिया
मुखानि पुरः सखीनामपि दर्शयन्ति ॥ १७ ॥ हा तात
तातेति स वेदनातैः कणच्छकृन्मूत्रकफानुलिप्तः । वर मृतः
किं भवने किमाजौ सदष्टदन्तच्छदमीमवक्रः ॥ १८ ॥
समूर्च्छितं सयुगसप्रहारैः पश्यन्ति सुसप्रतिबुद्धतुल्यम् ।
आत्मानमङ्केषु सुराङ्गनाना मन्दाकिनीमारुतवीजिताङ्गम्
॥ १९ ॥ कश्चिद्विपत्खड्गहतोत्तमाङ्गः सद्यो विमानप्रभुता-
मुपेत्य । वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धनं समरे
ददर्श ॥ २० ॥ ते क्षत्रियाः कुण्डलिनो युवानः परस्पर
सायकविक्षताङ्गाः । कुम्भेषु लग्ना. सुषुपुर्गजाना कुचेषु
लग्ना इव कामिनीनाम् ॥ २१ ॥ भूरेणुदिग्धा नवपारिजात-
स्रजो रजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणाः
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २२ ॥ सलीलयातानि न
भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् । अनुद्रुतः संयति
येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ २३ ॥
कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः प्रारब्धताण्डवविधिः
सुरकामिनीभिः । आलोक्यते निजकराभिनयानुरूपव्यापारि-
तेक्षणनिवेदितसत्त्वसारः ॥ २४ ॥ स्त्रीषु प्रवीरजननी जननी
तवैव देवी स्वय भगवती गिरिनापि यस्य । त्वद्दो-
र्वशीकृतविशालमुखखावलोकक्रीडाविदीर्णहृदया स्पृहयाबभूव
॥ २५ ॥ शस्त्रीकृतस्तरवरः कपिपुंगवेन लङ्केशवक्षसि
मृणालमृदु पपात । तत्र स्थितैश्च कुसुमैः कुसुमेषुरेनं सीता-
वियोगविधुर दृढमाजघान ॥ २६ ॥ दृष्टितृणीकृतजगत्त्रय-
सत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमा-
रकेऽपि गिरिवद्गुरुता दधानो वीरो रसः किमयमेश्युत दर्प
एषः ॥ २७ ॥ अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतै-
रपहृतस्य तथापि नास्ता । कोऽप्येष वीरशिशुराकृति-
रप्रमेयमाहात्म्यसारसमुदायमयः पदार्थः ॥ २८ ॥ समर-
विहरदङ्ग्लङ्घनित्पातमित्रप्रतिनरपतिभिन्नाङ्गाख्खता बिम्ब-
मध्यात् । वयमहह धराया पातयामः पताकावसनपवन-
लोलं वारि दिव्यापगायाः ॥ २९ ॥ वयसा, क्रोधारः
प्रतिश्रुणुतः बद्धोऽञ्जलिरयं किमप्याकाङ्क्षामः क्षरति न तथा
वीरचरितम् । मृतानामस्माक भवति परवश्यं वपुरिदं
भवद्भिः कर्तव्यं नहि नहि पराचीनचरणम् ॥ ३० ॥
कपोले जानक्याः करिकलभदन्तद्युतिमुषि खरखेर गण्डो-
ड्डुमरपुलकं वक्रकमलम् । मुहुः पश्यन्शृण्वन्रजनिचरसेना-
कलकलं जटाजूटग्रन्थि द्रढयति रघूणा परिवृढः ॥ ३१ ॥
मयासेनो यस्य प्रमदयमदष्ट्रासहचरैः शरैर्मुत्तो जीवन्द्विरिव
शरजन्मा समभवत् । इमा च क्षत्राणा भुजवनमहादुर्गवि-
षहामयं वीरो धीमानजयदधिविशान्वसुमतीम् ॥ ३२ ॥
पुरोजन्मा नाद्य प्रभृति मम राम. स्वयमहं न पुत्र. पौत्रो
वा रघुकुलभुवा च क्षितिभुजाम् । अधीर धीर वा कलयतु
जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः
॥ ३३ ॥ चापाचार्यस्त्रिपुरविजयी कार्तवीर्यो विजेयः शस्त्र-
व्यस्तः सदनमुदधिर्भूरिय हैन्तकारः । अस्त्रैवैतत्किमु कृत-
१ 'ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् । अग्रं चतुर्गुणं प्रादुईन्तकार द्विजोत्तमा ' ॥
| वीररसनिर्देशः, करुणरसनिर्देशः | ३६१ |
|---|---|
| वतो रेणुकाकण्ठबाधा बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ ३४ ॥ अङ्गैः स्वैरपि सयताग्रचरणे मूर्च्छाविरामक्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्णयन् । भग्नानुद्बलयन्निजान् परभटांस्तर्जयन्निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ ३५ ॥ जन्मेन्दोरमले कुले व्यपदिशंश्चापि धत्से गदा मा दुःशासनकोष्णशोणितसुराक्षीबं रिपु भाषसे । दर्पान्धो मधुकैटभद्विषि हरावप्युद्धत चेष्टसे मत्रासात्त्रपशो विहाय समर पङ्केऽधुना लीयसे ॥ ३६ ॥ वीरोऽसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं यः पूजाञ्जलिमत्सुको घटयितुं देवस्य खद्वाङ्गिनः । सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणा-योधतः साटोपं प्रमथैः कृतभ्रुकुटिभिः स्थित्वान्तरे वारितः ॥ ३७ ॥ संतुष्टे तिसृणा पुरामपि रिपौ कण्डूलदोर्मण्डल-क्रीडाकृत्पुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम् । याच्ञादैन्य-पराङ्कि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं वर्ण्यते ॥ ३८ ॥ भूमात्रं कियदेतदर्णवमित तत्साधितं हार्यते यद्वीरेण भवादृशेन वदति त्रिःसप्तकृत्वो जय. । वीरोऽयं नवबाहुरीदृशमिदं घोर च वीरव्रतं तत्क्रोधाद्विरम प्रसीद भगवञ्ज्ञात्यैव पूज्योऽसि नः ॥ ३९ ॥ तात त्वं निजकर्मणैव गमितः स्वर्ग यदि स्वस्ति ते ब्रूमस्तेकमिदं वधूहृतिकथा तातान्तिकं मा कृथाः । रामोऽहं यदि तद्दिनैः कतिपयैर्निदानमत्कंधरः सार्ध बन्धु-जनैः सुरेन्द्रविजयी वक्ता स्वयं रावणः ॥४०॥ त्वय्यर्थासनभाजि किन्नरगणोद्गीतैर्भवद्विक्रमैरन्तःसंभृतमत्सरोऽपि भगवानाकारगुप्तौ कृती । उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चवि-द्धोच्चरद्भाष्पैरेव विलोचनैरभिनयानन्दान्दमाखण्डलः ॥ ४१ ॥ शस्त्राशस्त्रिकथैव काननमगाद्गीर्वाणपाणिग्मयाः पन्थानो दिवि सकुचन्ति वसुधा वन्ध्या न सूते भटान् । लक्ष्मीर्प्यवरविन्दसौधवलभीनिर्यूहपर्य्यङ्किकाविश्राम्तैरलिभिर्न कुञ्जरघटाग-ण्डोत्करैर्मोदते ॥ ४२ ॥ अस्त्रौघप्रसरेण रावणिरसौ यं दुर्यशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् । कच्छागर्तकुलीरता गमयता वीर त्वया रावणं तत्सम्भृतमहो विशल्यकरिणी जागर्त्ति सत्पुत्रता ॥ ४३ ॥ चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः सद्भामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्या. पशव. प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रँसति स्फीतं यशो दुन्दुभि. ॥ ४४ ॥ अद्यारभ्य कठोरकार्मुकलताविन्यस्तहस्ताम्बुजस्तावन्न प्रकटीकरोमि नयने शोणे निमेषोदयात् । यावत्तायककोटिपाटितरिपुक्ष्मापालमौलिस्खलन्मल्ली- | माल्यमिलत्परागपटलैगमोदिनी मेदिनी ॥ ४५ ॥ नो तावत्कलयामि केलिकुपणे वामभ्रुवो लोचने तावन्न प्रणया-वलीढमनसः पश्यामि मातुर्मुखम् । यावत्तारकुठारपात-निपतत्प्रत्यर्थिपृथ्वीपतिश्राम्यत्स्वर्णकिरीटबद्धशिरसो भ्राम्यन्ति नो फेरव ॥ ४६ ॥ निर्पीते कलशोद्भवेन जलधौ गौरीपतेर्गङ्गया होतुं हन्त वपुर्ललाटदहने यावत्कृतः प्रक्रमः । तावत्तत्र मया विपक्षनगरीनारीदृगम्भोरुहद्वन्द्वप्रस्खलदस्वारिपटलैः सृष्टा. पयोराशयः ॥ ४७ ॥ आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविव्राजमानज्याघातश्रेणि-सञ्जान्तरितवसुमतीचक्रजैत्रप्रशस्ति. । वक्षःपीठे घनास्र-व्रणकिणकठिने सक्ष्णवानः पृषत्कान्त्रासो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः ॥ ४८ ॥ क्षुद्राः सत्रासमेते विजहित हरयो भिन्नमत्तेभकुम्भा युष्मद्देहेषु लज्जा दधति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषा नन्वहं मेघनाद. किंचित्सरम्मलीलानियमित-जलधिं राममन्वेषयामि ॥ ४९ ॥ अस्त्रज्वालावलीढप्रति-बलजलघेरन्तरौर्वायमाणे सेनानादे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं सस्रमेण व्रज कृप समर मुञ्च हार्दिक्य शङ्का ताते चापद्वितीये वहति रणधुरं को भयस्यावकाश. ॥ ५० ॥ कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्षं भूपतीना मम भुवनपतेराज्ञया द्यूतदासी । तस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्र्रा बाहोर्वीर्यातिभारद्रविणगुरूपदं मामजित्वैव गर्वः ॥ ५१ ॥<br><br>### करुणरसनिर्देशः<br>यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी । साऽधि-शेते कथं देवी ज्वलन्तीमघुना चिताम् ॥ १ ॥ साक्षा-न्मघवतः पौत्र. पुत्रो गाण्डीवधन्वनः । स्वस्त्रीयो वासु-देवस्य तं गृध्राः पर्युपासते ॥ २ ॥ असहायः सहायार्थी माममुध्यातवान्ध्रुवम् । पीड्यमानः शरैस्तीक्ष्णैर्द्रोणद्रौणि-कृपादिभि. ॥ ३ ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य प्रदातारं भर्तार का न शोचति ॥ ४ ॥ अथ बद्धजटे रामे सुमन्त्रे गृहमागते । त्यक्तो राजा सुत-त्यागाद्विवेशस्तैरवासुभिः ॥५॥ देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं देशं नैव पश्यामि यत्र भ्राता सहोदर ॥ ६ ॥ प्रियस्य सुहृदो यत्र मम तत्रैव संभवः । भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥ ७ ॥ विकृन्त-तीव मर्माणि देहं शोषयतीव मे । दहतीवान्तरात्मानं क्रूरः शोकाग्निरुत्थितः ॥ ८ ॥ अविशीर्णकान्तपात्रे नव्यदशे सुमुखि सभृतस्नेहे । मद्देहदीपकलिके कथमुपयातासि |
१ युधिष्ठिर
२ द्रौपदी
३ शब्द करोति
४६ सु. र. भा.
| ३६२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
निर्वाणम् ॥ ९ ॥ वत्स गच्छ मम वाचिकमेतद्रामचन्द्रचरणे कथयेथाः । आवयोरिव भवेदतुरागो नावयोरिव विधिः प्रतिकूलः ॥ १० ॥ शैशवात्प्रभृति योषिता प्रियेः सौहृदादपृथगाशया प्रियाम् । छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ११ ॥ शीलानि ते चन्दनशीतलानि श्रुतानि भूमीतलविश्रुतानि । तथापि जीर्णौ पितरावतस्मिन्विहाय हा वत्स कथं प्रयासि ॥ १२ ॥ वनी मुनीनामटवी तरूणा दरी गिरीणां तु गवेषितैव । अतः परं लक्ष्मण पक्ष्मलाक्षीं प्राणा बहिर्भूय गवेषयन्तु ॥ १३ ॥ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ १४ ॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वा बत किं न मे हतम् ॥ १५ ॥ अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया । तदिहानपराधिने प्रिये सखि कोऽयं करणोज्झितक्रमः ॥ १६ ॥ विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं तनु खङ्गेन शिरीषकर्तनम् ॥ १७ ॥ मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी । गतिस्तयोरेव जनस्तमर्दयन्नहो विधे त्वा करुणा रुणद्धि न ॥ १८ ॥ मदर्थसदृष्टमृणालमन्थरः प्रियः कियदूर इति त्वयोदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृग्भविता तव क्षणः ॥ १९ ॥ इयमियं मयदानवनन्दिनी त्रिदशनाथजितः प्रसवस्थली । किमपरं दशकंधरगेहिनी त्वयि करोति करद्वययोजनम् ॥ २० ॥ उत्खातदैवतमत्वायतनं मुरारेरस्ताचलान्तरितसूर्यमिवान्तरिक्षम् । हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यम् ॥ २१ ॥ आदाय मासर्माखिलं स्तनवर्जमङ्गान्मा मुञ्च वागुरिक यामि कुरु प्रसादम् । सीदन्ति शष्पकवलग्रहणानभिशा मन्मार्गवीक्षणपराः शिशवो मदीया ॥ २२ ॥ सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी गत्वा जवात्त्रिचतुराणि पदानि सीता । गन्तव्यमस्ति कियदिर्त्यसकृद्ब्रुवाणा रामाश्रुतः कृतवती प्रथमावतारम् ॥ २३ ॥ हत्वा पतिं नृपमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद्गुणिकासि जाता । पुत्रं पतिं समधिगम्य चिता प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ २४ ॥ अस्तङ्गते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति सस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ २५ ॥ यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवी मृगस्ते ॥ २६ ॥ दैवे पराग्वदनशालिनि हन्त जाते याते च संप्रति दिवं प्रति बन्धुरत्ने । कस्मै मनः कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवैधम् ॥ २७ ॥ सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव ॥ २८ ॥ धृत्वा पदस्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे । सा मा विहाय कथमद्य विलासिनी द्यामारोहेतीति हृदयं शतधा प्रयाति ॥ २९ ॥ भूमौ स्थिता रमण नाथ मनोहरेति संबोधनैर्मधिरोपितवत्यसि द्याम् । स्वर्गं गता कथमिव क्षिपसि त्वमेणशावाक्षि त धरणीधूलिषु मामिदानीम् ॥ ३० ॥ कनकहरिणं हत्वा रामो ययौ निजमाश्रमं जनकतनया प्राणेभ्योऽपि प्रियामविलोकयन् । दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति कुटीमाशान्तनुप्रणाशभयादसौ ॥ ३१ ॥ अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये करुणकरुणैरार्यचरितैरपि ग्रावा रोदित्यपि दलैति वज्रस्य हृदयम् ॥ ३२ ॥ ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरितामतो मृत्योः शीर्यत्कणलघुषु का जन्तुषु कथा । तथाप्युच्चैरन्युव्यसनजनितः कोऽपि विषयो विवेक्रेप्रोन्माथी दहति हृदयं शोक दहनः ॥ ३३ ॥ अक्षत्रारिकृताभिमन्युहननप्रोद्भूततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा सुह्यतः । कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनन्निर्यान्ति वक्त्राद्बहिः ॥ ३४ ॥ कोऽहं ब्रूहि सखे स एव भगवानार्यः सखे राघवः के यूयं बत नाथ नाथ किमिदं दासोऽस्मि ते लक्ष्मणः । कान्तारे किमिहास्महे बत सखे देव्या गतिर्मृग्यते का देवी जनकाधिराजतनया हा जानकि कासि हा ॥ ३५ ॥ मध्याह्ने दववह्निनोष्मसमये दंदह्यमानाद्रिरेः कृच्छ्रान्निर्गतमुत्तृषं जलमथो वीक्ष्यैकरक्षाक्षमम् । प्रेम्णा जीवयितुं मिथः पिव पिवेत्युच्चार्य मिथ्या पिबन्निर्मआसमपीतवारि हरिणद्वन्द्वं विपन्नं वने ॥ ३६ ॥ हा मातस्त्वरितासि कुत्र किमिदं हा देवताः काशिषो धिक्प्राणान्पतिताऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ ३७ ॥ यास्य-
१ पशुहिंसाजीवी. २ व्याध. ३ अयोध्या समीपदेशे. ४ शिरीषकुसुमवत्कोमला. ५ वारंवारम्.
१ पराङ्मुखे. २ खेदे. ३ मनोव्यथाम्. ४ श्रमसंपादिता. ५ स्वर्गम्. ६ कपटम्. ७ आचरितम्. ८ दुष्टै. ९ अत्यन्तकरुणै. १० पाषाण. ११ शीर्यंति. १२ नाश. १३ विवेकोन्मूलन.
करुणरसनिर्देशः, अद्भुतरसनिर्देशः, हास्यरसनिर्देशः | ३६३
त्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भित- बाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम ताव- दीदृशमपि स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ ३८ ॥ पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवता स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्यु- त्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ३९ ॥ या केलिच्युतकेशलेशविषमा शय्या न भेजे पुरा या जालान्तरनिर्गतार्ककिरणद्योतादपि म्लायते । सेयं निष्ठुर- काष्ठसंचितचिता देदीप्यमानानला सस्रेरा भजते यदि प्रियमुलं स्नेहस्य किं दुष्करम् ॥ ४० ॥ ध्वस्तः काव्योरु- मेरुः कविविपणिमहारत्नराशिनिवेशीर्णः शुष्कः शब्दौघसिन्धु. प्रलयमुपगतो वाक्यमाणिक्यकोशः । दिव्योक्तीना निधानं निधनमुपगत हा हता दिव्यवाणी बाणे गीर्वाणवाणी- प्रणयिनि विधिना शायिते दीर्घनिद्राम् ॥ ४१ ॥
अद्भुतरसनिर्देशः
तस्मिन्युद्धे क्षणेनैव त्वरितो वानरध्वजः । सरथं सध्वजं सार्थं भीममन्तर्दधे शरैः ॥ १ ॥ रत्नभित्तिषु सक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन त- स्वतः ॥ २ ॥ चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य तत्क्षणात् । कक्षाक्षिप्तं निशान्ते स्वे वाली पौलस्त्यमत्यजत् ॥ ३ ॥ न केनापि श्रुतं दृष्टं वारिणा वारि शुष्यति । अहो गोदा- वरीवारा भवसिन्धुर्विशुष्यति ॥ ४ ॥ एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नात. शश- शृङ्गधनुर्धरः ॥ ५ ॥ कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति । रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥ ६ ॥ चित्रं कनकलताया पल्लव एवामृतं सूते । कुसुमसमूद्गम- समये नो जाने किं परं भावि ॥ ७ ॥ अम्बुजमम्बुनि जातं नं हि दृष्टं जातमम्बुजादम्बु । अधुना तद्विपरीतं चरण- सोजाद्विनिर्गता गङ्गा ॥ ८ ॥ जाता लता हि शैले जातु लताया न जायते शैलः । अधुना तद्विपरीतं कनकलताया गिरिद्वयं जातम् ॥ ९ ॥ कमलमनम्भसि कमले कुवलय- मेतानि कनकलताकायाम् । सा च सुकुमारसुभगेत्युत्पात- परम्परा केयम् ॥ १० ॥ चित्रं कनकलताया शरदन्दुिस्तत्र
खञ्जनद्वितयम् । तत्र च मनोजधनुषी तदुपरि गाढान्ध- काराणि ॥ ११ ॥ चित्र महानेष बतावतारः क्व कान्ति- रेषामभिनैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः काप्या- कृतिर्नूतन एष सर्ग ॥ १२ ॥ स्थाणु. स्वयं मूलविहीन एव पुत्रो विशाखो रमणी त्वपर्णा । परोपनीतैः कुसुमैरजस्रं फलत्यभीष्टं किमिदं विचित्रम् ॥ १३ ॥ कि क्रमिष्यति किलैष वामनो यावदित्यमहसन्त दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ १४ ॥ युगा- न्तकालप्रतिसंहृतात्मनो जगन्ति यस्या सविकासमासत । तनौ मसूरस्य न कैटमद्विपस्तपोधनाभ्यागमसम्भवा मुदः ॥ १५ ॥ कथमुपरि कलापिन. कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिल- कुसुमं तदध प्रवालमक्षात् ॥ १६ ॥ विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमात्सक- लया पपे पुन. स पुरस्त्रियैकतनयैकया दृशा ॥ १७ ॥ पाश्चात्यभागमिह सानुषु संनिषष्णाः पश्यन्ति शान्तमनसा- न्द्रतरांशुजालम् । सपूर्णलव्धललनालपनोपमानमुत्सङ्गसङ्गि- हरिणस्य हिमांशुमूर्तेः ॥ १८ ॥ इदं तावच्चित्रं यदवनि- तले पार्वणशशी कलङ्कादुन्मुक्त. किमपि च तदन्तर्विल- सति । प्रवालं माणिक्यं कुवलययुदलं मन्मथधनुर्मनोवीणा- वाद्वध्वनिरिति महच्चित्रमधरम् ॥ १९ ॥ मूकारब्धं कमपि वधिराः श्लोकमाकर्णयन्ति श्रद्धांलुस्तं विलिखति कुणिः श्ला- घया वीक्षतेऽन्ध । अभ्यारोहत्यहह सहसा पङ्गुरप्यद्रि- शृङ्गं सान्द्रालस्याः शिशुभरणतो मन्दमायान्ति वन्ध्याः ॥ २० ॥ काकुत्स्थेन शिरासि यानि शतशश्छिन्नानि माया- निधेः पौलस्त्यस्य विमानसीमान तथा भ्रान्तानि नौकौक- साम् । तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडा- चामरडम्बरानुकृतिभिर्दोलायमानैः कचैः ॥ २१ ॥ किं ब्रूमो हरिम्लस्य विश्वमुदरे कि वा फणान्भोगिनः शेते यत्र हरिः स्वयं जलनिधे. सोऽप्येकदेशे स्थितः । आश्चर्यं कल- शोद्भवो मुनिरसौ यस्यैकहस्तेऽम्बुधिर्गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ २२ ॥ दोर्दण्डाञ्चितचन्द्र- शेखरधनुर्दण्डावभङ्गोद्यतद्धारध्वनिरार्यबालचरितप्रस्तावना- डिण्डिमः । द्राक्पर्यस्तकपालसपुटमिलद्ब्रह्माण्डभाण्डोदरभ्रा- म्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ २३ ॥
हास्यरसनिर्देशः
जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् । निर्विशेषेण वक्तव्यं निर्लज्जः को न पण्डितः ॥ १ ॥ परान्नं प्राप्य
पादटिप्पण्यः (Footnotes):
१ अरण्यवासिन २ गृहस्थाश्रमिण ३ कन्यावियोगदु खै ४ उदकेन ५ खमाकाश तस्य पुष्पेण कृत शेखर शिरोभूषण येन ६ मरुमरीचिकोदके कृतमज्जन ७ शशशृङ्गकृतधनुर्धारी ८ विश्वास ९ गोपस्त्री १० सुवर्णवर्णाङ्गी या स्त्री तस्या कोमलशरीरे ११ पर्वततुल्यमतिनिबिड स्तनद्वयमिति भाव
१ श्रद्धावान् २ विकलपाणि ३ शिखरम् ४ देवानाम् ५ अगस्त्य
३६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
दुर्बुद्धे मा प्राणेषु दया कुरु । दुर्लभानि परानानि प्राणा जन्मनि जन्मनि ॥ २ ॥ विना मद्यं विना मांसं परस्वहरणं विना । विना परापकारेण ^१दिविरो दिवि रोदिति ॥ ३ ॥ पूर्वं चेटी ततो बेटी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा वेश्या तपस्विनी ॥ ४ ॥ यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति चापलम् । जघनेष्वेव तत्सर्वं पतत्यनपराधेषु ॥ ५ ॥ केशलोञ्चनसाम्येऽपि हन्त पश्यैतदन्तरम् । उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः ॥ ६ ॥ सामगायनपूत मे नोच्छिष्टमधरं कुरु । उत्कण्ठितासि चेद्भद्रे वामं कर्णं दशस्व मे ॥ ७ ॥ भस्माङ्गुलिर्बकोड्डीयी बालशौची तथा हिहिः । धारावतीं चक्रवर्ती षडेते पुरुषाधमाः ॥ ८ ॥ प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः । योगी तत्कालरोगी च षडेते सेवकाधमाः ॥ ९ ॥ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥ १० ॥ गताः केचित्प्रबोधाय स्वयं तं कुम्भकर्णकम् । तदधःपवनोत्सर्गादुड्डीय पतिताः क्वचित् ॥ ११ ॥ असारे खलु संसारे सारं श्वशुरमन्दिरम् । हरो हिमालये शेते हरिः शेते महोदधौ ॥ १२ ॥ कमले कमला शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ १३ ॥ बिलाद्वहिर्बिलस्यान्तःस्थितमार्जारसर्पयोः । मध्ये चाखुरिवाभाति पलीद्वययुतो नरः ॥ १४ ॥ सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥ १५ ॥ स्वय पञ्चमुखः पुत्रौ गजाननषडाननौ । दिगम्बरः कथं जीवेदन्नपूर्णा न चेद्गृहे ॥ १६ ॥ उदरद्वयभरणभयादर्धाङ्गाहितदार । यदि नैवं तस्य सुतः कथमद्यापि कुमारः ॥ १७ ॥ अङ्गुलिभङ्गविकलपनविविधविवादप्रवृत्तपाण्डित्यः । जपचपलौष्ठः स जने ध्यानपरो नगररथ्यासु ॥ १८ ॥ मुण्डो जटिलो नम्रश्छत्री दण्डी कषायचीरी वा । भस्मखेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ १९ ॥ भ्रुकुटीकुटिलललाटः कण्टकिताङ्गः कटाक्षविकटाक्षः । कवलयति पृथुलकवलैस्तण्डुलमचलं द्विजः क्रुद्धः ॥ २० ॥ क्रयविक्रयकुतुलालाघवविनिक्षेपरक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति महाजनं वणिजः ॥ २१ ॥ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् । दृष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ॥ २२ ॥ दत्त्वा दिशि दिशि दृष्टि याचकचकितोऽवगुण्ठनं कृत्वा । चौर इव कुटिलचारी पलायते कुटिलरथ्याभिः ॥ २३ ॥ गणयति गगने गणकश्चन्द्रेण समागम विशाखायाः । विविधभुजगक्रीडासक्ता गृहिणी न जानाति ॥ २४ ॥
कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणैः । कायस्थ्लुण्ठ्यमाना रोदिति खिन्नैव राज्यश्रीः ॥ २५ ॥ वाचयति नान्यलिखितं लिखितमनेनापि वाच्यति नान्यः । अयमपरोऽस्य विशेष स्वयंमपि लिखितं स्वयं न वाचयति ॥ २६ ॥ अर्थो नाम जनाना जीवितमखिलक्रियाकलापश्च । तं सहरन्ति धूर्ताश्छगलगला गायना लोके ॥ २७ ॥ तमसि वराकश्चौरो हाहाकारेण याति सन्त्रस्तः । गायनचौरः कपटो हा हा कृत्वा न याति लक्ष्यं च ॥ २८ ॥ आमन्त्रणजयशब्दैः प्रतिपदहुङ्कारघर्घरारावैः । स्वयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ २९ ॥ मेरु. स्थितोऽतिदूरे मनुष्यभूमि परा परित्यज्य । भीतो भयेन चौर्याद्धोराणा हेमकाराणाम् ॥ ३० ॥ तस्मान्महीपतीनामसभंवे दस्युचौराणाम् । एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ ३१ ॥ उपमुक्तखदिरवीटकजनिताधररागमङ्गभ्रमायत् । पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति ॥ ३२ ॥ वर्णनदयितः कश्चिद्वनदयितो दानकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्याना नर्मदयितोऽन्यः ॥ ३३ ॥ शृणु सखि कौतुकमेकं ग्राम्येण कुकामिना यदद्य कृतम् । सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥ ३४ ॥ श्रमेणः श्रावकवध्वाः सुरतविधौ दशति नाधर दत्तम् । मदिराक्षिमासमक्षणमखत्ससमये निषिद्धमिति ॥ ३५ ॥ द्विजराजशेखरो यद्धूभारूढ. सदा सदारस्त्वम् । चक्रे हर तद्विधिना पुनरपनयनं ललाटघटितं ते ॥ ३६ ॥ विनापि तातेन विना जनन्या गजाननः शंभुसुताभिधान । विनैव शास्त्रेण विनैव वेदैर्माध्यांदिनानामिव पाठकोऽभूत् ॥ ३७ ॥ शिक्षितापि सखिभिर्ननु सीता रामचन्द्रचरणौ न ननाम । कि भविष्यति मुनीशवधूवद्वालरत्नमिह तद्रजसेति ॥ ३८ ॥ अयं पैटो मे पितुरङ्गभूषणं पितामहाद्यैरपभुक्तयौवनः । अलंकारिष्यथ पुत्रपौत्रकान्मयाधुना पुष्पवदेव धार्यते ॥ ३९ ॥ वैराग्यभङ्गिरचनावचनैः प्रतार्य रण्डा चिराय विकटस्तनसनताङ्गीम् । ब्रह्मोपदेशमिषसगतगण्डभित्ति निःशङ्कचुम्बनर्सैः कितवा द्रवन्ति ॥४०॥ धान्याकनागरनिशार्द्रकदाडिमत्वक्तुम्बरी लवणतै लसुसंस्कृतान्नः । मत्स्यान्सुशीतसितभक्ततले ददाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा ॥ ४१ ॥ खट्वा नितान्तलघुका शिथिलप्रताना द्वेष्यः पतिः स च निरन्तरचाटुकारी । तत्रापि दैवहतिकाः खलु माघरात्र्यो हा सङ्गता कथमयं व्यसनप्रपञ्चः ॥ ४२ ॥ आकुञ्चय पाणिमशुचि मम मूर्ध्नि वेश्या मन्नाम्भसा प्रतिपदं पृषतैः पवित्रे । तारस्वर प्रहित^३फूकमदात्प्रहार हा हा हतोऽहमिति रोदिति
^१ कायस्थ
^१ प्राणिहिंसाभीरुजैनथमेनिष्ठ
^२ वस्त्रम्
^३ लाला
| हास्यरसनिर्देशः, भयानकरसनिर्देशः | ३६५ |
|---|
विष्णुशर्मा ॥ ४३ ॥ गौरी तनुर्नयनमायतमुन्नता च नामा कृशा कटितटी व पटी विचित्रा । अङ्गानि रोमरहितानि सुखाय भर्तु पुच्छं न तुच्छमिति कुत्र ममस्त्ववस्तु ॥ ४४ ॥ आपाण्डुरा शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषाद । एणीदृशो युवतय पथि मा विलोक्य तातेति भाषणपरा. खलु वज्रपात ॥ ४५ ॥ कटी मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदर स्तनौ घण्टालोलौ जघनमधिगन्तुं व्यवसितौ । क्षितं मेरीनादो सुखमपि च यत्तद्व्र्यकर तथाप्येषा रण्डा परिभवति सतापयति च ॥ ४६ ॥ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निंवार. । शेष. शय्या शयनमुदधौ वाहन पन्नगारिः स्मारं स्मारं स्वगृहचरित दारुभूतो मुरारि. ॥ ४७ ॥ गत्वा द्वारवती नयामि दिवसानाराधयन्ती हरिं त्यक्त्वा वाडनशनेन जीवितमिदं मुञ्चामि भागीरथीम् । प्रात. प्रातरिति प्रवर्तितकथा निर्वेदमातन्वती रण्डा नक्तमनन्तजारसुरतप्रीता सुखायास्तु व ॥ ४८ ॥ पाणौ ताम्रघटी कुश करतले धौते सिते वाससी भाले मृत्तिलकः सचन्दनरसो व्यस्तैकपुष्प गिर. । दूरात्क्षिप्तपदा गतिर्दृढतरव्याक्लिष्टदन्ता गिरः मोऽयं वञ्चयितुं जगद्भगवतो दम्भस्य देहक्रम. ॥ ४९ ॥ यत्थोथापनमात्रनि.सहजरच्चर्मविशेषाक्षयश्चेच्छसि दुर्बलाङ्गचलनव्यर्थोद्यमालिङ्गने । लज्जावाधिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे रते यत्सात्त्वत्प्रतिभाव्य कि नु हसितुं युक्तं किमारोदितुम् ॥ ५० ॥ दत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः सोदर तन्नाभीगृहमाकलय्य मकरावास मनाङ्नोज्झति । तन्नामप्रणयान्न लम्पति हरि श्रीवत्समङ्के स्थित किं केन क्रियता स एव यदमूदेतादृशः क्लीवश. ॥ ५१ ॥ अतु वाञ्छति वाहनं गणपतेरौखुं क्षुधार्त फणी तं च कौञ्चेपतेः शिखी च गिरिजासिंहोऽपि नागाननम् । गौरी जह्नुसुतामसूयति कलानाथं कपालानलो निर्विण्ण म पपौ कुटुम्बकलहादीशोडपि हालाहलम् ॥ ५२ ॥ रण्डा पीनपयोधराकृत मया चण्डानुगङ्गाद्वुज दोर्दण्डद्वयपीवरस्तनभर नो गाढमालिङ्गिता । बुद्धेभ्य शतश शपे यदि पुन कुत्रापि कापालिनीपीनोत्तुङ्गकुचावपीडनभर. प्राप्त. प्रबोधोदयः ॥ ५३ ॥ जग्ध्वा माषमयानपूपवटकानाध्मायमानोदरे फट्फद्फाडिति पायवीयपवनं योगेश्वरे मुञ्चति । उड्डीनं विहगैर्घटैर्विघटितं दोलायितं भित्तिभिः शिष्यैर्वातितमर्भकैर्निपतितं कोलाहलोऽभून्मठे ॥ ५४ ॥ पीठीप्रक्षालनेन क्षितिपत्तिकथया सञ्जनाना प्रवादेर्नीत्वा यामार्थमेव कुशकुसुम-
समारम्भणव्यग्रहस्ता । पश्चाद्देते निमज्जत्पुरयुवतिकुचामोगदत्तेक्षणार्वा. प्राणायामपदेशादिह मरिति सदा वासगणि क्षिपन्ति ॥ ५५ ॥ रे रे लोका• कुरुध्व श्रवणपुटपिधानं द्रुत हस्तयुग्मै• गला. सर्वेऽपि यूयं भवत गुरुतरा. सावधाना धरित्र्याम् । शीघ्र रे गवण त्व विरचय वसनेर्नासिकाना पिधानं सुमोड्य कुम्भकर्ण. कटुरविकटं शेर्धते दीर्घमुच्चे. ॥ ५६ ॥
भयानकरसनिर्देशः
इदं मघोन• कुलिश धारासनिटितानलम् । स्मरणं यस्य दैत्यस्त्रीगर्भपाताय केवलम् ॥ १ ॥ तत पगमर्शविवृद्धमन्योर्भ्रूभङ्गदु.प्रेक्ष्यमुखस्य तस्य । स्फुरत्प्रदर्चि. सहसा तृतीयादक्षण कृशानु. किल नि.पपात ॥ २ ॥ विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यहच्छयापि यम् । ससञ्जमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ ३ ॥ अशक्नुवन्सोदुमवीग्लोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहाङ्गुहान्तर निनाय विम्व्यदिवसानि काशिक ॥ ४ ॥ महाप्रलयमारुतक्षुभितपुष्करावर्तकप्रचण्डघनगर्जितप्रतिरवानुकारी मुहु. । रवः श्रवणभैरव. स्थगितरोदसीकन्दर. कुतोऽद्य समरोदघेरणमभूतपूर्वं पुर ॥ ५ ॥ किंचित्कोपकलाकलापकलनाहुंकारविभ्रङ्गुवोर्विस्नेपादकरोदमौ रघुपतिर्लङ्कापते. पत्तनम् । कन्दत्फेरु रटत्करेढु विघटद्दारु स्फुटद्गुग्गुलु कोत्कीडत्कपि नि.श्वसत्फणि रणज्झल्लि भ्रमद्वीपि च ॥ ६ ॥ अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालनव्यावल्गद्गकपालतालरणितैर्नृत्यत्पिशाचाञ्जना । उद्वायन्ति यशांसि यस्य विततैर्नादै. प्रचण्डानिलप्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोभय. ॥ ७ ॥ गीर्वाणा. प्रतियन्ति नैव पिदधे कर्णौ सुधर्माधिप कर्णाकर्णिकयन्ति हन्त निभृत शुशुक्ष्यभूगुणा. । दूरादेत्य कृतान्तदूतनिवहा. स्वाकारसगोपनैरुद्वीव कलयन्ति कोणपृचमूनाथे शयाने रणे ॥ ८ ॥ निशङ्क बहिरम्ब चण्डमनसो नामानुरूपा क्रिया सर्वैण्यापदघर्घरखनवती न कापि रङ्गस्थली । किन्चात्यद्गकंघराद्वियुगले कल्याणभाजि स्फुटं लङ्काया प्रतिपक्षविक्रमयथाशङ्काकरी भ्राम्यति ॥ ९ ॥ अग्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटास्रुकैश्यामषिभैर्ध्रुगुग्र्ररुदास्कालोच्छलन्मूर्धजा । व्यादायाननमट्टहासविकट दूरेण तारापथात्त्र्रसत्सिद्धपुरत्रिवृन्दरमसोन्युक्तादुपक्रामति ॥ १०॥ प्रौढच्छेदानुरूपोच्छलनरयवशात्सैहिकेयोपमेयत्रासाकृष्टाश्वतिर्यग्गलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वन्काकुत्स्थवीर्यस्तुतिमिव मरुता कंधरारन्ध्रभाजा झाङ्कारैर्भाममेतत्निपतति
पादटिप्पण्यः (Footnotes):
१ मूषिकम् २ कार्त्तिकेयस्य ३ मयूर ४ गजवदनम् ५ ईष्टि
१ अपानवायु मुञ्चति २ ओष्ठप्रान्त ३ लालसा ४ पक्षा ५ स्त्री
| ३६६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् ] |
|---|
| वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ११ ॥ माध्यन्मातङ्गकुम्भस्थलबहुलवसावासनाविस्रगन्धव्यासक्तव्यक्तमुक्ताफलशकललसत्केसग्लीकरालः । एणीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा गुञ्जन्कुञ्जे गिरीणां हरिरिह शबरीगर्भपातं विधत्ते ॥ १२ ॥ मन्थायस्तार्णवाम्भःप्रतिकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥१३॥ निर्मज्जच्चक्षुरन्तर्भमदतिकपिलक्रूरतारो नरास्थिग्रन्थिं दन्तान्तरालप्रथितमविरतं जिह्वया घट्टयन्ती । ध्वान्तेऽपि व्यात्तवक्त्रे ज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृध्ररौद्री दिवसुपरि परिक्रीडते ताडकेयम् ॥ १४ ॥<br><br>### बीभत्सरसनिर्देशः<br>प्रस्वेदमलदिग्धेन वहता मूत्रशोणितम् । व्रणेन विकृतेनेदं सर्वमन्वीकृतं जगत् ॥ १ ॥ विकीर्णहरिचन्दनद्रविणि यत्र लीलालसा निपेतुर्लतिचञ्चलाश्चतुरकामिनीदृष्टयः । तदेतदुपरिभ्रमन्निबिडगृध्रजालं जनैर्लुठत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते ॥ २ ॥ अङ्गैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलब्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रज । एताः शोणितपङ्ककुङ्कुमजुषः सभ्यङ् कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ३ ॥ उत्कृत्य ज्वलिता शवात्कथमपि प्रेताशनः पैशितीं पेशीमभ्रिमयीं निगीर्य सहसा दन्दह्यमानोदरः । धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति सपिनष्टि जठर सुध्या चलन्मस्तकः ॥ ४ ॥ अग्रप्रोतवृहत्कपालनकलकूरकणत्कङ्कणप्रायप्रेङ्खितभूरिभूषणरवैराधोपयन्त्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ ५ ॥ रक्तं नक्तंचरौघः पिबति वमति च ग्रस्तकुन्तः शकुन्तः क्रव्यं नव्यं गृहीत्वा प्रणदति मुदितो मत्तवेतालवालः । क्रीडत्यक्रीडमस्मिन्विधिरमदवशात्पूतना नूतनाङ्गी योगिन्यो मासभेदःप्रमुदितमनसः शूरशक्ति स्तुवन्ति ॥ ६ ॥ उत्कृत्योत्कृत्य कृंत्ति प्रथममथ पृथूच्छोफभूयांसि मासान्यंसस्फिक्पृष्ठपिण्डाद्वयववसुलभान्यङ्ग्रपूतीनि जंग्ध्वा । आत्तक्षायन्त्रनेत्रः प्रकटितदशनः प्रेतरूङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ७ ॥ | ### रौद्ररसनिर्देशः<br>स रोषदग्दाधरलोहिताक्ष्यैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः । तस्तार गा भल्लनि कृत्तकण्ठैहुंकारगर्भैर्द्रुढता शिरोभिः ॥१॥ पातालत. किमु सुधारसमानयामि निष्पीड्य चन्द्रममृतं किमु वाह्रामि । उद्यन्तमद्य तपनं किमु वारयामि कीनाशपाशमथवा किमु चूर्णयामि ॥ २ ॥ चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानाधनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचास्तव देवि भीमः ॥ ३ ॥ कुंतमनुमतं दृष्ट वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नैरकरिपुणा सार्ध तेषा सभीमैकिरीटिना महमयमसमृद्धोदमासैः करोमि दिशा बलिम् ॥ ४ ॥ यत्सत्यव्रतमङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विकर्तुमपीहितं शमवता शान्ति कुलेच्छच्छता । तद्यूतारणिसंभृतं नृपसुताकेशाम्बराकषणै. क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिर जृम्भते ॥ ५ ॥ येन स्वा विनिहत्य मातरमपि क्षत्रास्रपूरास्वादामोदमत्तपरश्वधेन विदधे निःक्षत्रिया मेदिनी । यद्वाणव्रणवर्त्मनः शिखरिरणः क्रौञ्चस्य हसच्छलादद्याप्यस्थिकणा. पतन्ति स पुनः क्रुद्धो मुनिर्मार्गवः ॥ ६ ॥ देशः सोऽयमरतिशोणितजलैर्यस्मिन्ह्रदा. पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यास्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधन. ॥ ७ ॥ यैः प्राणापहृतिः कृता मम पितुः क्रुद्धैर्युधि क्षत्रियै रामोऽहं रमणीर्विहाय बलवान्निःशेषमेषा हठात् । भास्वत्प्रौढकुठारकोटिघनकाकाण्डत्रुटत्कंधरास्रोतोऽन्त.क्षुतशोणशोणितभरैः कुर्या क्रुधा निर्वृतिम् ॥ ८ ॥ राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रत. प्रत्यक्षं कुरु बान्धवस्य च तथा कर्णस्य शल्यस्य च । पीतं तस्य ममाद्य पाण्डववधूकेशाम्बराकषिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ ९ ॥ स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञा कुरूणा पुरः । यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽय मङ्गजपञ्जरे निपतितः सरक्ष्यता कौरवाः ॥ १० ॥ रक्तोत्फुल्लविशाललोलनयनः कम्बोत्तराङ्गो मुहुर्मुक्त्वा कर्णमपेतधीर्धुतधनुर्बाणो हरेः पश्यतः । आम्नातः कटूकोक्तिभिः स्वमसम्रुद्धोर्विक्रमं कीर्तयंश्चासास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रवृत्तोऽर्जुनः ॥ ११ ॥ त्रैलोक्यत्राणशौण्डः सैरसिजवसतं· सप्रसूतो भुजाभ्या सुक्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोर्विलीनः । ज्वाला- |
पादटिप्पणी (Footnotes)
| वामभागः (Left Column) | दक्षिणभागः (Right Column) |
|---|---|
| १ श्मशाने शवं भुञ्जानं प्रेतं दृष्ट्वा माधवस्योक्तिरियम् | १ स्वय मृतद्रोणशिरश्छेदकृद्दृष्टद्युम्नाश्वास्य उक्तिरियम् |
| २ चर्म | २ कृष्णेन |
| ३ कटिदेशस्थमासपिण्ड | ३ अर्जुन |
| ४ अत्यन्तदुर्गन्धीनि | ४ रक्षणम् |
| ५ भक्षयित्वा | ५ ब्रह्मण |
| ६ प्रेतदरिद्र | ६ बाहौ |
| ७ मृतशरीरात् | |
| ८ निम्नोन्नतप्रदेशस्थम् | |
| ९ मासम् |
रौद्ररसनिर्देशः, शान्तरसनिर्देशः ३६७
| जिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जग-<br>न्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ॥ १२ ॥ अन्योन्या-<br>स्फालभिन्नद्विपस्रुधिरवसामासमस्तिष्कपङ्के मग्नानां स्यन्दना-<br>नामुपरि कृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरस-<br>दशिवशिवातूर्यनृत्यत्कवन्धे सङ्ग्रामैकार्णवान्तः प्रविचरितु-<br>मलं पण्डिताः पाण्डुपुत्राः ॥ १३ ॥ रे धृष्टा धार्तराष्ट्राः<br>प्रबलभुजवृहत्ताण्डवाः पाण्डवा रे रे वार्ष्णेयाः सकृष्णाः<br>शृणुत मम वचो यद्ब्रवीम्यूर्ध्वबाहुः । एतत्सोलबातबाहो-<br>र्द्रुपदनृपसुतातार्पितः पापिनोऽहं पाता हृच्छोणितानां प्रम-<br>वति यदि वस्तत्किमेतं न पाथ ॥ १४ ॥ नाहं रक्षो न<br>भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकाशं विस्तीर्णोरुप्रतिज्ञा-<br>जलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्य-<br>वीराः समरशिखिशिखाभुक्तशेषाः कृतं वस्त्रासेनानेन लीनै-<br>र्हितकरितुरगान्तर्हितैरास्यते यत् ॥ १५ ॥ यो यः शस्त्रं<br>बिभर्ति स्वभुजगुरुमदः पाण्डवीना चमूना यो यः पाञ्चाल-<br>गोत्रे शिशुरधिकवया गर्भशय्या गतो वा । यो यस्तत्कर्म-<br>साक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्ध-<br>स्तस्य तस्य स्वयमिह जगतामन्तकान्तकोऽहम् ॥ १६ ॥<br><br>### शान्तरसनिर्देशः<br>#### वैराग्यम्<br>को देशः कानि मित्राणि कः कालः कौ व्ययागमौ ।<br>कश्चाहं का च मे शक्तिरिति चिन्यं मुहुर्मुहुः ॥ १ ॥<br>पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः । सरःपङ्कान्तरे मग्ना<br>जीर्णा वनगजा इव ॥ २ ॥ मन्ये मायेयमज्ञानं यत्सुखं<br>स्वजनादपि । निदाघवारणायालं निजच्छाया न कस्यचित्<br>॥ ३ ॥ विपत्प्रशान्त्यै सेव्यन्ते यदि कष्टेन भूभृतः ।<br>तत्करिष्यति कथापि विपत्किमधिकं ततः ॥ ४ ॥ मितमायु-<br>र्वयोऽनित्यं नैति यातं कदाचन । परामृशन्ति तदपि न<br>भवं भोगलोलुपाः ॥ ५ ॥ निःस्नेहो याति निर्वाणं<br>स्नेहोऽनर्थस्य कारणम् । निःस्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम्<br>॥ ६ ॥ अश्रीमहि वयं भिक्षामआशावासो वसीमहि ।<br>शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ७ ॥ यावन्तः<br>कुरुते जन्तुः सबन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते<br>हृदये शोकशावः ॥ ८ ॥ प्रचण्डवासनावातैरूद्धता नौर्मनो-<br>मयी । वैराग्यकर्णधारेण विना रोढुं न शक्यते ॥ ९ ॥<br>रागिण्यपि विरागिण्यः स्त्रियस्तासु रमेत कः । अह च<br>कलये मुक्ति या विरागिणि रागिणी ॥ १० ॥ लावण्य<br>तदसौ कान्तिस्तद्रूप स वचःक्रमः । तदा सुधास्पदम्भूदधुना<br>तु ज्वरो महान् ॥ ११ ॥ पूरयित्वाथिनामाशा प्रियं कृत्वा | द्विषामपि । पारं गत्वा श्रुतौघस्य धन्या वनमुपासते<br>॥ १२ ॥ पुत्रदारादिसारः पुंसा संमूढचेतसाम् । विदुषा<br>शास्त्रसंसार. सद्योगभ्यासविघ्नकृत् ॥ १३ ॥ गतः काम-<br>कथोन्मादो गलितो यौवनज्वरः । गतो मोहश्र्युता तृष्णा<br>कृतं पुंण्याश्रमे मनः ॥ १४ ॥ वनान्यमूनि न गृहाण्येता<br>नद्यो न योषितः । द्रुमा इमे न दायादास्तन्मे नन्दति<br>मानसम् ॥ १५ ॥ शान्तिकन्थालसत्कण्ठो मनःस्थाली-<br>मिलत्करः । त्रिपुरारिपुरद्वारि कदाहं मोक्षभिक्षुकः ॥ १६ ॥<br>उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्ये<br>प्रयाणे विस्मयः कुतः ॥ १७ ॥ निर्विवेकतया बाल्यं<br>कामोन्मादेन यौवनम् । वृद्धत्व विकलत्वेन सदा सोपद्रवं<br>नृणाम् ॥ १८ ॥ प्रातर्मूत्रपुरीषाभ्या मध्याह्ने क्षुत्पिपासया ।<br>तृषाः कामेन बाध्यन्ते प्राणिनो निशि निद्रया ॥ १९ ॥<br>गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम् । लालापान-<br>मिवाङ्गुष्ठे बालाना स्तन्यविभ्रमः ॥ २० ॥ दिनमेक शशी<br>पूर्णः क्षीणस्तु बहुवासराम् । सुखादुःखं सुराणामप्यधिकं<br>का कथा नृणाम् ॥ २१ ॥ न विषयभोगो भाग्यं योग्यं<br>खलु यत्र जन्तुमात्रमपि । ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु<br>वैराग्यम् ॥ २२ ॥ पाषाणखण्डष्वपि रत्नबुद्धिः कान्तेति<br>धीः शोणितमासपिण्डे । पञ्चात्मके वर्ष्मणि चात्मभावो<br>जयत्यसौ काचन मोहलीला ॥ २३ ॥ त्रय्यन्तसिद्धाञ्जन-<br>निर्मलाक्षैस्तपोधनैर्यन्नवेक्षितं यत् । अवेक्ष्यते धाम तदेव<br>काश्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ २४ ॥ कुटुम्बचिन्ता-<br>कुलितस्य पुंसः कुलं च शीलं च गुणाश्च सर्वे । अपक्वकुम्भे<br>निहिता इवापः प्रयान्ति देहेन सम विनाशम् ॥ २५ ॥<br>सुरमन्दिरतुरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्व-<br>परिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ २६ ॥<br>निखिलं जगदेव नश्वरं पुनरस्मिन्नितरा कलेवरम् । अथ<br>तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २७ ॥<br>मल्यानिलकालकूटयो रमणीकुन्तलभोगिमोगयोः । क्षेप-<br>चँत्तमसुवोः किमन्तरं मम भूयात्परमात्मनि स्थितिः ॥ २८ ॥<br>नवनीलमेघरचिरः पर. पुमानर्नैनीमवाप्य धृतगोपविग्रहैः ।<br>नवनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्यते<br>॥ २९ ॥ सार्वभौममधनं वनवासो निक्खमाभवमभावनथा<br>ते । बालिशो हि विषयेन्द्रियचौरैर्मुष्यते स्वभवने च वने च<br>॥३०॥ इतो न किचित्परतो न किचिद्यतो यतो यामि ततो<br>न किचित् । विचार्य पश्यामि जगन्न किचित्स्वात्मावबो-<br>धादधिक न किचित् ॥ ३१ ॥ व्याघ्रीव तिष्ठति जरा ५प॑रि- |
१ भार्गव . २ रक्षथ ३ नाशमामुवति
१ प्रव्रज्यायाम् २ प्राणवायु ३ विचारशून्यत्वेन ४ शैशवम् ५ निःसारे ६ संपूर्णम् ७ नाशनत् ८ शरीरम् ९ चाण्डाल ० १० ब्रह्मा. ११ पृथ्वीम् १२ देह ० १३ भर्त्सयन्ती.
| ३६८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
तर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३२ ॥
दैन्यं क्वचित्क्वचन मन्मथजा विकाराः कुत्राप्यनेकविधबन्धुजनप्रपञ्चः । क्वापि प्रभुत्वधनकल्पितमीश्वरत्वमित्येकवैकृतमिदं जगदाविभाति ॥ ३३ ॥
आस्तामकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि नैव तृणाय मन्ये । निःशङ्कसुप्तहरिणीकुलसङ्कुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ३४ ॥
ते तीक्ष्णदुर्जननिकारशरैर्न भिन्ना धीरास्त एव शमसौख्यमुजस्त एव । सीमन्तिनीभुजलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ ३५ ॥
बुद्धेर्गोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः । तत्त्वं क्रमेण विदुषा करुणावदाते श्रद्धावता हृदि पदं स्वयमादधाति ॥ ३६ ॥
दधति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता । मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥ ३७ ॥
क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः । जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर्नरः संसाराङ्के विशति यमधानीजवनिकाम् ॥ ३८ ॥
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरः क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः । क्वचिद्भिक्षावृत्तिः क्वचिदपि च मृष्टाशनरुचिर्महात्मा योगज्ञो न गणयति दुःखं न च सुखम् ॥ ३९ ॥
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ ४० ॥
गतास्तातभ्रातृप्रमुखसुखपीयूषमधुराः पुरा लक्ष्मीक्षैब्यव्यसनसरसास्तेऽपि दिवसाः । अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवी मजत्यम्यासोऽयं जनयति सुखं भावविसुखम् ॥ ४१ ॥
अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्तास्वेते शमसुखमनन्तं विदधति ॥ ४२ ॥
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ४३ ॥
धनं तावल्लब्धं कथमपि तथाप्यस्य नियतं विनाशेऽलाभे वा तव सति वियोगोऽप्युभयथा । अनुत्पादः श्रेयान्किमु कथय तस्याथ विलयो विनाशो लब्धस्य व्यथयतितरा न त्वनुदयः ॥ ४४ ॥
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलिलम् । प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे विविक्तः सकल्पः किमिह हि फलं पुष्यति न ते ॥ ४५ ॥
यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहायैः संलापः श्रुतमुपशमैकव्रतफलम् । मनो मन्दस्पन्द बहिरपि चिरश्चापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ४६ ॥
तडिन्मालालोलं प्रतिदिवसदन्तान्धतमस भवे मौर्य्यं हित्वा शमसुखमुपादेयमनघम् । इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतक्रीडाः शुक इव पठामः परममी ॥ ४७ ॥
यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्तदा तस्योद्दामप्रसररसस्रूदैर्व्यवसितैः । क्व तद्धैर्य्यालाने क्व च निजकुलाचारनिगडः क्व सा लज्जारज्जुः क्व विनयकटोराङ्कुशमपि ॥ ४८ ॥
कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः । निशान्तादस्वन्तात्कथमपि विनिष्क्रान्तमधुना मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम् ॥ ४९ ॥
गत कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षं कालिन्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं व्यसनिनि मुधैव ग्लपयसि ॥ ५० ॥
गतः कालो यत्र द्विचरणपशूना क्षितिभुजां पुरः स्वस्तीत्युक्त्वा विषयसुखमास्वादितमभूत् । इदानीमस्माकं तृणमिव समस्तं कलयतामपेक्षा भिक्षायामपि किमपि चेतःक्षपयति ॥ ५१ ॥
अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूर्भूमिर्दर्पणामहमपसर त्वं पिशुन हे । अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥ ५२ ॥
अतिक्रान्तः कालो ललितललनाभोगसुखदो भ्रमन्तः शान्ताः स्मः सुचिरमिह संसारसरणौ । इदानीं खैः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिवशिवशिवेति प्रतनुमः ॥ ५३ ॥
मैहाशय्या भूमिर्मृदुमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दी पश्चन्द्रः स्वधृतिवनितासङ्गमुदितः सुखं शान्तः शेते विगतभवभीतिर्नृप इव ॥ ५४ ॥
कदा वृन्दावन्ये नवघननिभं नन्दनयनं परीतं गोपीभिः क्षणरुचिमनेोज्ञाभिरभितः । गमिष्यामस्तोषणं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥ ५५ ॥
कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् । कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥ ५६ ॥
कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अये कृष्ण स्वामिन्मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि
१ पद्धतौ २ स्वर्णवा ३ पर्यङ्क ४ मृदु ५ उल्लोच ६ स्वधृति स्वीय धैर्य तदेव वनिता स्त्री तस्या सङ्गेन मुदितो हृष्ट सन्
शान्तरसनिर्देशः
३६९
दिवसान् ॥ ५७ ॥ कदा वा सैकते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । अये राम स्वामिञ्जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५८ ॥ कदा वाराणस्याममरतटिनीरोधसि वसन्वसानः कौपीन शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५९ ॥ भू पर्यङ्को निजभुजलतागेन्दुकः खं वितानं दीपश्चन्द्रो विरतिवनितालब्धयोगप्रमोदः । दिक्कन्याना व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः शेते नृप इव सदा वीतरागो जितात्मा ॥ ६० ॥ आस्सारातत्रिभुवनमिदं चिन्वता तात तादृङ्गो वाऽस्माकं नयनपदवी श्रोत्रवर्त्मागतो वा । योऽयं धत्ते विषयकरिणीगाढगूढाभिमानक्षीयत्स्वान्तःकरणकरिणः संयमानानलीलाम् ॥ ६१ ॥ आयुर्वायुव्यथितनलिनीपत्रमित्र किमन्यत्संपच्छम्पाद्युतिसहचरी खेरचारी कृतान्तः । कस्मादस्मिन्भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ॥ ६२ ॥ पूर्वं तावत्कुवलयदृशा लोललोलैरपाङ्गैरराकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः । संप्रत्यन्तर्निहितसदसद्भावलब्धप्रबोधप्रत्याहारैर्विशदहृदये वर्तते कोऽपि भावः ॥ ६३ ॥ मातर्माये भगिनि कुमते हे पितर्मोहजाल व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः । सद्यो लक्ष्मीचरणचरणभ्रष्टगङ्गाप्रवाहव्यामिश्राया दृषदि परमब्रह्मदृष्टिर्भवामि ॥ ६४ ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रा गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये ॥ ६५ ॥ भेदाभेदौ सपदि गलितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमुपगतौ नष्टसदेहवृत्तेः । शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६६ ॥ यद्वात्मानं सकलवपुषामेकमन्तर्बहिःस्थं दृष्ट्वा पूर्ण खमिव सततं सर्वभाण्डस्थमेकम् । नान्यत्कार्य किमपि च ततः कारणाच्चिन्नरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६७ ॥ हेम्नः कार्य द्रुतबहूगतं हेममेवेति यद्वत्क्षीरे क्षीर समरसतया तोयमेवाम्बुमध्ये । एवं सर्व समरसतया त्वंपदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६८ ॥ यस्मिन्सर्वं सकलभुवन सामरसैकभूतंमुखी ह्यापोऽनलमनिलञ्च जीवमेवं क्रमेण । यत्क्षाराब्धौ समरसतया सैन्धवैकत्वभूतं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६९ ॥ यद्वन्नद्योदधिसमरसौ सागरत्वं ह्यवासौ तद्वज्जीवा-
लयपरिगतौ सामरसैकभूतौ । भेदातीतं परिलयगतं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७० ॥ दृष्ट्वा वेद्य परमथ पदं स्वात्मनोवस्वरूपं बुद्ध्वात्मान सकलवपुषामेकमन्तर्बहिःस्थम् । भूत्वा नित्यं समुदिततया स्वप्रकाशस्वरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७१ ॥ कार्यकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः । एव देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७२ ॥ कस्मान्कोऽह किमपि च भवान्कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्य गगनसदृश पूर्णतत्त्वप्रकाशम् । आनन्दारूयं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७३ ॥ कि कदर्प कर कदर्थयसि रे कोदण्डटङ्कारितै रे रे कोकिल कोमलैः कलरवै कि त्वं सुधा वल्गसि । मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरल चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ७४ ॥ मातर्मेदिनि तात मारुत सखे ज्योतिः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतोद्रेकः स्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि ॥ ७५ ॥ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ ७६ ॥ येषा वल्लभया सह क्षणमपि क्षिप्रं क्षपा क्षीयते तेषा शीतकरः शशी विरहिणामुल्केव संतापकृत् । अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनार्मिन्दू राजति दर्पणाकृतिरसो नोष्णो न वा शीतलः ॥ ७७ ॥ धावन्त प्रतिवासर दिशि दिशि प्रत्याशया संपदा दृष्ट्वा कालवशेन हन्त पलित कस्यापि दैवद्रुमम् । श्रावं श्रावमवज्ञयोपहसितं सर्वत्र भग्नोद्यमा जीवामः परमार्थशून्यहृदयास्तृप्ता मनोमोदकैः ॥ ७८ ॥ सन्त्येके धनलाभमात्रगहनव्यामोहसम्मुर्च्छिताः केचिद्दैववसुन्दरीस्तनपरीरम्भभ्रमव्याकुलाः । अन्तर्भूतसमस्ततत्त्वनिवहं चिन्मात्रशेषं शिवं दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं न शिष्टाः क्वचित् ॥ ७९ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ८० ॥ यत्रैकं शृतमक्षर पशुपतेर्हेतुः श्रुतीना कृतौ सद्यो रोहति चाष्टधा तनुभृता यत्रैकमुग्धदृपुः । यत्रैकाअनदीकणेऽपि विधृते सर्वैव सा धार्यते सा दृष्टाद्भुतवैभवा कविगिरा पारे हि
१ अयोध्यायाम्
२ भागीरथीतीरे
३ उपधानम्
४७ सु र. भां.
१ नक्र
२ अभ्भसां भ्रम
३७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
वाराणसी ॥ ८१ ॥ क्षारस्मेरमदोन्मज्जत्कुचतटीकान्ताकरा-
न्दोलितैः पुष्पाम्भोनिचितैःशरीररचितैः किं तालवृन्तैर्भ्रम ।
अन्वानन्दवनं सुखं शिशयिषोरर्धप्रमीलदृशो यातायातरिप-
श्रमं शमयिता गङ्गातरङ्गानिलः ॥ ८२ ॥ एकद्वैः किम-
भावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च
किं त्रिचतुरा घोरा महाव्याधयः । सप्ताहैरल्मिदमेतदपि
नश्चेत. क्षणान्यञ्चपान्स्वान्मन्येव रमस्व तेजसि गते कालेऽथ
वा सर्वतः ॥ ८३ ॥ नित्यानित्यविचारणा प्रणयिनी वैराग्य-
मेक सुहृन्मित्राण्येव यमादय. शमदमप्राया. सखायो
मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा
बलादुच्छेद्या रिपवश्च मोहममतासंकल्पवैरादयः ॥ ८४ ॥
पुण्यैर्मूलफलैः प्रियप्रणयिनी वृत्ति कुरुष्वाधुना भूशय्या
नवपल्लवैः कुरु तृणैरृत्तिष्ठ यामो वने । क्षुद्राणामविवेकगूढ-
मनसा यत्रेश्वराणा सदा वित्तव्याध्यविवेककुलगिरा
नामापि न श्रूयते ॥ ८५ ॥ भस्मोद्धूलन भद्रमस्तु भवते
रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखालोको-
च्छेदिनी मोक्षनामनि महामोहे निधीयामहे ॥ ८६ ॥
कृत्वा दीननिपीडना निजजने बद्ध्वा वचोविग्रहं नैवालोच्य
गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघा परि-
सचिता. खलु मया यस्याः कृते साप्रतं नीवाराञ्जलिनापि
केवलमहो सेयं कृतार्था तनुः ॥ ८७ ॥ रथ्यान्तररतस्तथा
धृतजरत्कन्थालवस्साध्वगैः सत्रास च सकौतुक च
सदय दृष्टस्य तैर्नागरै. । निर्याणीकृतचित्सुधारसमुदा
निद्रायमाणस्य मे निःशङ्कं कैरटः कदा करपुटीभिक्षा
विलुण्ठिष्यति ॥ ८८ ॥ सौजन्याम्बुमरुस्थली सुचरिता-
लेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छ-
च्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषा शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥ ८९ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्य-
भय बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादभयं
गुणे खलभय काये कृतान्ताद्भयं सर्वे वस्तु भयान्वितं भुवि
नृणा वैराग्यमेवाभयम् ॥ ९० ॥ शय्या शार्दूलमासनं शुचि
शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दा-
सहाया मृगाः । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको
वने दुष्प्रापार्थिनि यत्परार्थघटनाबन्ध्धैर्वृथा स्थीयते ॥ ९१ ॥
याञ्चाशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा व्यालाना
पशवस्तृणाङ्कुरभुज. सुस्थाः स्थलीशायिनः । ससारार्णव-
लङ्घनक्षमधिया वृत्तिः कृता सा नृणा यामन्वेषयता प्रयान्ति
सततं सर्वे समाप्ति गुणाः ॥ ९२ ॥ बीभत्सा विषया जुगु-
प्सिततमः कायो वयो गत्वर प्रायो बन्धुभिरध्वनीव पथिकै-
र्योगो वियोगावहः । हातव्योऽयमसार एष विरसः ससार
इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्या-
त्मनः ॥ ९३ ॥ पुत्रः स्यादिति दुःखितः सति सुते तस्या-
मये दुःखितस्तद्बाधिकमार्जने तदनये तन्मूर्खतादुःखितः ।
जातश्चेत्सगुणोऽथ तन्मृतिभय तस्मिन्मृते दुःखितः पुत्रव्याज-
मुपागतो रिपुरयं मा कस्यचिज्जायताम् ॥ ९४ ॥ आ-
हारः फलमूलमात्मरचितं शय्या मही वल्कलं सवीताय
परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः । वस्त्रान्नाश्रयदान-
भोगविभवा निर्यन्त्रणा. शाखिनो मित्राणीत्यधिक गृहेषु
गृहिणा कि नाम दुःखाहते ॥ ९५ ॥ सूक्ति कर्णसुधा
व्यनक्तु सुजनस्तस्मिन्न मोदामहे ब्रूता वाचमसूयको विष-
मुचं तस्मिन्न खिद्यामहे । या यस्य प्रकृति. स ता वितनुता
कि नस्तया चिन्तया कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय
यज्जायते ॥ ९६ ॥ यत्क्षान्तिः समये श्रुतिः शिव शिवे-
त्युक्तौ मनोनिर्वृतिर्भैक्षे चामिरुचिर्धनेषु विरतिः शश्वत्स-
माधौ रति. । एकान्ते वसतिर्गुरौ प्रतिनतिः सद्भिः समं
सङ्गति. सत्त्वे प्रीतिरनङ्कनिर्जितिरसौ सन्मुक्तिमार्गे स्थितिः
॥ ९७ ॥ सम्भोगाद्विषयामिषस्य परित. सौहित्यमस्ताखिल-
ज्ञानोन्मेषतया कथं तव भवेदव्यासपद देहिनः । साध्यं
तद्धि तदेव साधनमितो व्यावृत्तिरेवामिषात्तस्सा ज्योतिरुपैत्य-
निन्धनमिदं दोषत्रयं धक्ष्यति ॥ ९८ ॥ सत्यं वक्तुमशेष-
मस्ति सुलभा वाणी मनोहारिणी दातुं दानवर शरण्यमभयं
स्वच्छं पितृभ्यो जलम् । पूजार्थं परमेश्वरस्य विमलः स्वाध्याय-
यज्ञः पर क्षुद्बाधेः फलमूलमस्ति शमनं क्लेशात्मकैः
कि धनैः ॥ ९९ ॥ जिह्वे लोचन नासिके श्रवण हे त्वक्
चापि नो वार्यसे सर्वेभ्योऽस्तु नमः कृताञ्जलिरहं सप्रश्रयं
प्रार्थये । युष्माकं यदि संमतं तदधुना नात्मानमिच्छाम्यहं
होतुं भूमिभुजा निकारदहनज्वालाकराले गृहे ॥ १०० ॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिच्छिदं सर्वदा दुर्मात्सर्यमदा-
भिमानमथनं दुःखौघविध्वसनम् । सर्वत्रान्वहमप्रयत्नसुलभं
साधुप्रियं पावनं शम्भोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगी-
श्वराः ॥ १०१ ॥ मातर्लक्ष्मि भजस्व कंचिदपरं मत्का-
ङ्क्षिणी मा स्म भूर्भोगेष्वः स्पृहयालवो नहि वयं का निःस्पृ-
हाणामसि । सद्यःस्यूतपलाशपत्रपुटके पात्रे पवित्रीकृते
भिक्षासक्तुभिरेव संप्रति वयं वृत्ति समीहामहे ॥ १०२ ॥
धैर्ये यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं
सूनुरयं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमि-
पादटिप्पण्यः (Footnotes):
| १ काक | २ नवतृणमयम् |
|---|---|
| १ उपजीवनम् | २ वाञ्छामहे |
| ३ गृहस्था पत्नी | ४ पुत्र. |
| ५ मनोनिग्रह.. |
आन्तरसन्निवेशः ३७१
तल दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो वद सखे कस्माद्वाय योगिन. ॥ १०३ ॥ सन्ध्या- वन्दन भद्रमस्तु भवते भो स्नान तुभ्य नमो भो देवाः पितरश्च तर्पणविधौ नाह क्षम. क्षम्यताम् । यत्र कापि निषद्य यादवकुलोत्तमस्य कंसद्विषः स्मार स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ १०४ ॥ एणाक्षीस्पृहयालुना न कथमप्यास्ते विवेकोदयान्नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे । आप्त्येयेषु विनाशिवन्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने पर हरिपदध्याने मनो वा- ञ्छति ॥ १०५ ॥ जानोऽह जनको ममेष जननी क्षेत्रं कलत्र कुल पुत्रा मित्रमरातयो वसु बलं विद्या सुहृद्बा- न्धवाः । चित्तस्पन्दितकल्पनामृतभवन्विद्वानविद्यामयी निद्रा- मेत्य विघूर्णितो बहुविधान्स्वप्नानिमानपश्यति ॥ १०६ ॥ लाटीनेत्रपुटीपयोधरघटीक्रीडाकुटीदोस्तटीपाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिन नीयते । गोविन्देति जनार्दनेति जगता नाथेति कृष्णेति च व्याहारै समयस्तदेकमनमा पुंसामति- क्रामति ॥ १०७ ॥ वेदस्याध्ययनं कृतं परिचित शास्त्रं पुराणं स्मृतं सर्वं व्यर्थमिदं पदं न कमलाकान्तस्य चेत्की- र्तितम् । उत्खातं सदृशीकृतं विरचितः सेकोऽम्भसा भूयसा सर्वं निष्फलमालवालवलये क्षिप्तं न बीज यदि ॥ १०८ ॥ हेयं हर्म्यमिदं निकुञ्जभवनं ^३श्रेयं प्रदेयं धनं पेयं तीर्थपयो हरेर्भगवतो गेयं पदाम्भोरुहम् । नेयं जन्म चिराय दर्भ- शयने धर्मे निधेयं मनः स्थेयं तत्र सितासितस्य सविधे ध्येय पुराणं महः ॥ १०९ ॥ गङ्गोत्तुङ्गत रङ्गरिङ्गणलघूत्सर्प- न्मरुच्छीतलान्दुग्बन्धट्दमञ्जुवज्जुलसकुञ्जोपकण्ठान्मुदा । अभ्यास्य प्रणवाय मानसमहो शंभोः पदाम्भोरुहे धन्याः प्राप्य पर पदं प्रतिदिन नन्दन्ति योगं बिना ॥ ११० ॥ कौपीन शतखण्डजर्जरतर कन्था पुनस्तादृशी निश्चिन्त सुखसाध्यभैक्षमशनं शय्या श्मशाने वने । मित्रामित्रसमा- ^०नता पशुपतेश्चिन्ताथ शून्यालये स्वात्मानन्दमदप्रमोदमुदितो योगी सुखं तिष्ठति ॥ १११ ॥ धिग्विधिक्तान्कृमिनिर्विशेष- वपुषः स्फूर्जन्महासद्धयो निष्पन्दीकृतशान्तयोऽपि च तमः- कारागृहेब्वासते । तं विद्वासमिह स्तुमः करपुटीभिक्षाञ्चशा- कोऽपि वा बालाषक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः ॥ ११२ ॥ पाणिः पात्र पवित्रं भ्रमणपरिगतं भैक्षमक्षय्य- मन्नं वस्त्रं विस्तीर्णमाशादशकममलिन तदपमखल्पसुर्वी । येषा निःसङ्गताङ्गीकरणपरिचितिः स्वान्तसन्तोषिनस्ते धन्या. सन्य- स्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ११३ ॥ आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्य कदा स्याद्या
प्रान्त्या सा विद्ध्यादिह किमपि तथा मध्यमा सा परत्र । आद्या मा नोभयत्राप्यहह तदपि कि मत्तता यामि तस्या या प्रोत्पादप्रगल्भे प्रतिदिनमसुमे ते कदर्थीकरोति ॥ ११४ ॥
विषयोपहासः
नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् । यस्य नोद्वि- जते चेत शास्त्रं तस्य करोति किम् ॥ ११५ ॥ कृमयो मम विष्ठा वा निष्ठा यम्येयमीदृशी । स काय परतापाय युज्यतामिति को नय. ॥ ११६ ॥ रक्तमासममय. कायः स्त्रीणा स्पर्शसुखाय नः । नमेवाश्नन्ति मिष्टान्द्या रम्यं नास्तीह वस्तुतः ॥ ११७ ॥ अङ्गमङ्गेन सपोड्य मास मामेन तु स्त्रिय । पुगहमभव प्रीतो यत्तन्मोहविजृम्भितम् ॥ ११८ ॥ उत्तानोच्छूनमण्डूकपाटिनोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिर्मूक्रमे कस जायते ॥ ११९ ॥ दृष्ट्वैव विकृतं कार्यं वायुस्पर्शविवर्जितम् । ये तु निर्व्याजमासक्तास्तेभ्योऽपि बिभ्रिमो वयम् ॥ १२० ॥ अन्यत्र भीष्माद्राङ्गेयादन्यत्र च हनूमतः । हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ १२१ ॥ त्वङमासरुधिरस्नायुमेदोमज्जास्थिसंहतौ । विण्मूत्र- पूये रमत्ता कुमीणा कियदन्तरम् ॥ १२२ ॥ चर्मखण्डं द्विधा भिन्नमपानोद्वारधूपितम् । ये रमन्ते नरास्तत्र कृमितुल्याः कथ न ते ॥ १२३ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा. पापानि कुर्वते ॥ १२४ ॥ लाला वक्त्रासवं वेत्ति मासपिण्डौ पयोधरौ । मासास्थिकूटं जघन जनः कामग्रहातुरः ॥ १२५ ॥ दाराः परिवभवकार बन्धुजनो बन्धनं विषं विषयाः । कोड्य जनस्य मोहो ये रिपवस्तेषु सुहृद्दाशा ॥ १२६ ॥ केश. काशस्तवकविलासः कायः प्रकटितकरभविलासः । चक्षुर्देग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥ १२७ ॥ आलोचन च वचनं च निगूहन च यासा खरश्ममृगवत्वसरस कृशस्त्वम् । तासा किमङ्ग पिशितास्र- पुरीषपात्रं गात्र खरन्मृगदृशा न निराकुलोऽसि ॥ १२८ ॥ प्रादुर्भवन्ति वपुष. कति नाम कीटा यान्यत्नतः खलु तनो- रपसारयन्ति । मोह. क एष जगतो यदपत्यसज्ञा तेषा विधाय परिशोषयति स्वदेहम् ॥ १२९ ॥ स्तनौ मासग्रन्थी कनककलशावित्युपमितौ मुख श्लेष्मागार तदपि च शशाङ्केन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं परं निन्द्य रूप कविजनविशेषैर्गुरु कृतम् ॥ १३० ॥ तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधार्तः सञ्छाली- न्कवलयति मासाज्यकलितान् । प्रदीप्ते कामाग्नौ सुदृढतर- माश्रिष्यति वधूं प्रतीकोर ब्याधेः सुखमिति विपर्यस्यति जनः ॥ १३१ ॥ कृशः काण. खञ्ज. श्रवणरहितः पुच्छविकलो
१ वस्त्रम् २ तीरे ३ आश्रयणीयम्
१ उत्तमाद्यपानादिरूतान्कारनाशकस्य २ नाशनोपाय..
३७२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः । क्षुधाक्षामो जीर्णः पिठरककपालाङ्कतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ १३२ ॥ श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततमबला दुःखबहुलास्तथाप्यस्मिन्संसारे पथि बत रता हन्त कुधियः ॥ १३३ ॥ समाश्लिष्यत्युच्चैर्घनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चेषकं सौसवमिव । अमेध्येह्लादार्द्रे पथि च रमते स्पर्शरसिको महामोहान्धाना किमिव रमणीयं न भवति ॥ १३४ ॥ बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं परीरप्सते । का त्वामिच्छति का व पश्यति पशो मासास्थिनिर्मिर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १३५ ॥ आस्य यस्या सुधांशुं कलयति नयनाभ्या जित पुंसमूहः कान्त्या विद्युत्कुचाभ्या तरुणजलरुहे निर्जितेऽस्या सुधाशुम् । कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहिव्याप्तं तन्मक्षिकामिर्गतैरिति वपुषः कुत्सिता नास्ति लोके ॥ १३६ ॥ क्वैतद्वक्त्रारविन्दं क्व तदधरमधु कायतास्ते कटाक्षाः कालापाः कोमलास्ते क्व च मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्स्मीर रागान्धानामि-वोच्चैरुपहसति महामोहजालं कपालम् ॥ १३७ ॥
गर्भवासप्रयुक्तं दुःखम्
कृमिभिः^४ क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् । मूर्च्छामाप्नोत्युरुक्लेशो^५ गर्भस्थैः क्षुधितैर्भृशम् ॥ १३८ ॥ कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिर्बणैः^६ । मातृभुक्तैरुपस्पृष्टः सर्वाङ्गेष्वितिवेदनः ॥ १३९ ॥ उल्बेन संवृत्तस्तस्मिन्स्निग्धैश्च^७ बहिरावृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ १४० ॥ अकल्पः^९ स्वाङ्गचेष्टाया^१० शकुन्त^११ इव पञ्जरे । अनुच्छसन्सरेत्पूर्वै^१३ गर्भे किं नाम विन्दते ॥ १४१ ॥ निःसृतोऽहं^१४ करिष्यामि सुकृतानीति चिन्तयन् । मेदोसृग्दिग्धसर्वाङ्गो^१५ जरायुपुटसंवृतः^१६ ॥ १४२ ॥ निष्क्रामन्मूर्धशु^१७ खातौ^१८ रुदैन्नुच्चै^१९रधोमुख । यत्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यथ^२० ॥ १४३ ॥
अनित्यता निरूपणम्
एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः । स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च वा ॥ १४४ ॥ एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ १४५ ॥ येषा निमेषोन्मेषाभ्या जगता प्रलयोदयौ । तादृशाः पुरुषा याता मादृशा गणनैव का ॥ १४६ ॥ गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि । मा जीवितनिबद्धाश विहसिष्यन्ति साधवः ॥ १४७ ॥ संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे । आस्था चेदनुबध्नामि तन्मूर्खो नास्ति मत्परः ॥ १४८ ॥ येषु येषु दृढं बद्धा भावना दृष्टवस्तुषु । तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥ १४९ ॥ यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् । सर्वमेवापवित्रं तद्विनाशा मेध्यदूषितम् ॥ १५० ॥ नीलोत्पलाभनयना' परमप्रेमभूषणम् । हासायैव विलासिन्यः क्षणमङ्गितया स्थिता ॥ १५१ ॥ गन्धर्वनगराकारः संसारः क्षणभङ्गुर । मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १५२ ॥ गतेनापि न सबन्धो न सुखेन भविष्यता । वर्तमानं क्षणातीतं सगति कस्य केन वा ॥ १५३ ॥ पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते । सुशोष सागरजलं शरीरे तत्र का कथा ॥ १५४ ॥ इद युगसहस्रस्य भविष्यद्भववद्दिनम् । तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ १५५ ॥ लब्धास्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया । न सन्ति खलु तावन्तो गङ्गायामपि वालुकाः ॥ १५६ ॥ आसन्नतामेति मृत्युरायुर्याति दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ १५७ ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ १५८ ॥ एकसार्थप्रयाताना सर्वेषा तत्र गामिनाम् । यद्येकस्त्वरितं यातस्तत्र का परिदेवना ॥ १५९ ॥ सत्य मनोरमा रामा सत्य रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १६० ॥ मातापितृसहस्राणि पुत्रदारशतानि च । त्वानन्तानि यातानि कस्य ते कस्य वा भवान् ॥ १६१ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हिं जीवितम् ॥ १६२ ॥ बिडालभक्षिते दुःखं यादृशं गृहकुक्कुटे । न तादृग्ममताशून्ये कलविङ्केऽथ मूषके ॥ १६३ ॥ शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १६४ ॥ अन्तकः पर्यवस्थाता जन्मनः सततमापद । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १६५ ॥ न्यस्तं यथा मूर्ध्नि मुदोत्ति मेषो यवाक्षताद्यं बलिकल्पितः सन् । मृत्युं समीपस्थितमप्यजानन्नुनक्ति मर्त्यो विषयास्तथैव ॥ १६६ ॥ नन्दन्ति मन्दाः श्रियमाप्य नित्यं परं विषीदन्ति विपद्धहीताः । विवेकदृष्ट्या
१ मामपिण्डम्. २ पानपात्रम् ३ मद्ययुक्तम् ४ कीटैके ५ महाकष्टयुक्त ६ उत्कटै ७ जरायुणा ८ व्याप्त ९ असमर्थ १० चलनादिव्यापारे ११ पक्षीव १२ उच्छ्वास त्यक्तुमशक्त १३ प्राचीन कर्म १४ गर्भशयाच्युत १५ मेदोरक्तलिससर्वाङ्ग १६ जरायुकोशव्यास १७ बहिर्नि सरन् १८ नि सरणकालेऽत्यन्तदु खयुक्त १९ उच्चस्वरेण रोदनं कुर्वन् २० उत्तान शेतेऽसौ. १ उच्चत्व उन्नतत्व वा २ हर्षेण भक्षयति