भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

३७८ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्


शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरगावलीनिर्मुक्तेऽमृत-
सागराम्भसि मनाग्नग्नोऽपि नाचामति । निःसारे मृग-
तृष्णिकार्णवजले श्रान्तो विमूढः पिबत्याचामत्यवगा-
हतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ३७ ॥ वरं प्राप्ते मृत्योः
पितरि तनये वा सुहृदि वा शुचाऽलं तप्यन्ते भृशमुदरताडं
जडधियः । असारे संसारे विरसपरिणामे तु विदुषा
वियोगो वैराग्यं दृढयति वितन्वन् शमसुखम् ॥ ३८ ॥
विधिरेव हि जागर्ति भव्यानामर्थसिद्धये । असचेतयमानाना
सद्गत्याः स्वामिनामिव ॥ ३९ ॥ लीलयन्त्यः कुलं घ्नन्ति
कुलानीव सरिद्वराः । दोषान्सर्वांश्च मत्याशु प्रजापतिरभाषत
॥ ४० ॥ रामो हेममृगं न वेत्ति नहुषो नो यान्युनेक्ति
द्विजान्विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते
भ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो
विनाशसमये बुद्ध्या परित्यज्यते ॥ ४१ ॥ पुरा विद्वत्ता-
सीदमलिनधिया क्लेशहतये गता कालेनासौ विषयसुखसिद्धौ
विषयिणाम् । इदानीं संप्रेक्ष्य क्षितितलभुजः शास्त्रविमुखा-
नहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥ ४२ ॥
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता
सत्यविना हयो गतिविना ज्योतिर्विना भूषणम् । योद्धा
शूरविना तपो व्रतविना छन्दो विना गायन भ्राता स्नेहविना
नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥ ४३ ॥ प्रियवचन-
कृतोऽपि योषिता दयितजनानुनयो रसाहते । प्रविशति
हृदयं न तद्विदा मणिरिव कृत्रिमरागयोजितः ॥ ४४ ॥
मानो वा दर्पो वा विज्ञानं विश्रम सुबुद्धिर्वा । सर्वे प्रण
श्यति समं वित्तविहीनो यदा पुरुषः ॥ ४५ ॥ परा
विनीतः समुपैति सेव्यता महीपतीना विनयो विभूषणम् ।
प्रवृत्तदानो मृदुसत्तरस्करः करीव भद्रो विनयेन शोभते
॥ ४६ ॥ प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव
हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ ४७ ॥ भार्याया
जनित पुत्रमादर्शेम्बिव चाननम् । ह्लादते जनिता प्रेक्ष्य
स्वर्ग प्राप्येव पुण्यकृत् ॥ ४८ ॥ हिंसकान्यपि भूतानि
यो हिनस्ति स निर्घृणः । स याति नरकं घोरं किं पुनर्ये.
शुभानि च ॥ ४९ ॥ सुखात्खादपरो यस्तु संसारे सत्स-
मागमः । स वियोगावसानत्वादु खाना धुरि युज्यते
॥ ५० ॥ पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्योऽपि
वा मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना । लोके
हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति या किं कार्य
कनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥ ५१ ॥ सुधा-
शुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोज मलय-
जरजश्चातिसुरभि । सजो हृद्यामोदास्तदिदमखिलं रागिणि
जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ ५२ ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः
प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ५३ ॥ मन्त्रे तीर्थे
द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धि-
र्भवति तादृशी ॥ ५४ ॥ बाहू द्वौ च मृणालमास्यकमलं
लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफर धम्मिल्ल-
शैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलै-
र्दग्धानांमवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५५ ॥
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधि-
गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५६ ॥ प्रिया हिताश्च
ये राज्ञो ग्राह्यवाक्या विशेषतः । आश्रयेत्पार्थिवं विद्वांस्त-
द्वारेण नान्यथा ॥ ५७ ॥ भवारण्यं भीम तनुगृहमिद
छिद्रबहुलं बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासं विरतिफलक शीलकवच समाधानं कृत्वा
स्थिरतरदृशो जाग्रत जनाः ॥ ५८ ॥ प्रत्युपस्थितकालस्य
सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमता
नयः ॥ ५९ ॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्व मृतं च भर्तारं पश्चात्सादभ्यनुगच्छति ॥ ६० ॥ प्रथमे
नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं
पुण्यं चतुर्थे किं करिष्यति ॥ ६१ ॥ रागी बिम्बाधरोऽसौ
स्तनकलशयुगं यौवनारूढगर्वं नीचा नाभिः प्रकृत्या कुटिल-
कमलकं खल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसम-
मिह मनश्चिन्तितान्याशु खेद यन्मा तस्याः कपोलौ दहत
इति मुहुः स्वच्छकौ तन्न युक्तम् ॥ ६२ ॥ यो नानाश्रुति-
मत्पदार्थरसिकोऽसारेऽपि कायायुषे सप्रेमा स विलोक्य
बर्हिमिह मे किं किं न कुर्यात्प्रियम् । इत्याविष्कृतबर्हराजि
नटते यो बर्हिणोऽम्भोदवान्वान्यन्मुञ्चति तं विहाय जलद
कोऽन्योऽस्ति शून्याशयः ॥ ६३ ॥ शरीरमेवायतन सुखस्य
दुःखस्य चाप्यायतन शरीरम् । यद्यच्छरीरेण करोति कर्म
तेनैव देही समुपानुते तत् ॥ ६४ ॥ विनयेन विना का
श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी
वाग्विदिग्धता ॥ ६५ ॥ शशिना सह याति कौमुदी सह
मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि
विचेतनैरपि ॥ ६६ ॥ वरं मौन कार्ये न च वचनमुक्तं यद-
नृतं वर क्लीव्यं पुंसा न च परकलत्राभिगमनम् । वरं प्राण-
त्यागो न च पिशुनवाक्येष्वभिरुचिर्वरं भिक्षाशित्वं न च
परधनास्वादनसुखम् ॥ ६७ ॥ पुरो रेवापारे गिरिरतिराडु-
रोहशिखरो धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् ।
सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं

संकीर्णप्रकरणम् ३७९


हरिणशिशुरिव विलपति ॥ ६८ ॥ लीलावतीना सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव सुधा षडंघ्रिः ॥ ६९ ॥ बुद्धिश्च हीयते पुंसा नीचैः सह समागमात् । मध्यमैर्मध्यता याति श्रेष्ठता याति चोत्तमैः ॥ ७० ॥ विस्तीर्णव्यवसायसाध्य- महता स्निग्धप्रयुक्ताशिषा कार्याणा नयसाहसोन्नतिमतो- मिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पार न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ७१ ॥ लोको वहति कि राजन्न मूर्द्धा दग्धुमिन्धनम् । क्षालयन्नपि वृक्षाङ्गीन्नदीवेगो निकृन्तति ॥ ७२ ॥ वरु- णेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीया- द्व्रतमेतद्धि वारुणम् ॥ ७३ ॥ लाक्षारूक्षम ललाटघट्टनमितः केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूल- रागोदयः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृश श्वासा. समाप्ति गता. ॥ ७४ ॥ लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गो यजनसमता दुःखहानिर्विलासः । धर्म. शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिना सम्भवन्ति ॥ ७५ ॥ पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली- कपालीमादाय न्यायगम्यं द्विजहुतहुतभुग्धूमधूप्रोपकण्ठम् । द्वार द्वार प्रविष्टो दरसुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ७६ ॥ अदेशकालज्ञमनायतिकक्षमं यदप्रिय ल घवकारि चात्मनः । योऽत्राब्रवीत्कारणवर्जित वचो न तद्वचः स्याद्विषमेव तद्वच. ॥ ७७ ॥ अदृष्टपूर्वान्नादाय भावानपरिशङ्कितान् । इष्टानि- ष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ७८ ॥ सत्क्षेत्रप्रति पादितः प्रियवचोबद्धाालवालवलिर्निर्दोषेण मन.प्रसादपयसा निष्पन्नसेकक्रियः । दातुस्तत्तदभीप्सित किल फलन्कालेऽ- तिबालोऽप्यसौ राजन् दानमहीरुहो विजयते कल्पद्रुमादी- नपि ॥ ७९ ॥ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभाव. शोचतामिति ॥ ८० ॥ अत्यु न्नतिं प्राप्य नरः प्रावार. कीटको यथा । स विनश्यत्य- सद्देहमहिहैवमशुना नृप ॥ ८१ ॥ क्षेत्रग्रामवनाद्रिपत्तनपुरी- द्वीपक्षमामण्डलप्रत्याशाघनसूत्रबद्धमनसा लब्धादिक ध्याय- ताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्तद्भोः प्राणभृता कुत. शमकथा ब्रह्माण्डलक्षैरपि ॥ ८२ ॥ अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ८३ ॥ अत्युत्सेकेन सहसा साहसा- द्व्यवसायिनाम् । श्रीरारोहति सदेहं महतामपि भूभृताम् ॥ ८४ ॥ ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं जीवः कथ कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ८५ ॥ अत्यादरपरो विद्वान्नीहमान. स्थिरा श्रियम् । अग्ने. शेषमृणाच्छेष शत्रोः शेष न शेषयेत् ॥ ८६ ॥ अत्यम्बुपान।द्विषमाशनाच्च दिवाश- याज्जागरणाच्च रात्रौ । सरोधनान्मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥८७॥ आश्रिताश्चैव लोकस्य विवृद्धिं यान्ति विद्विष. । विवृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजा. ॥ ८८॥ अत्यन्तचञ्चलस्नेह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ८९ ॥ अनुत्थिदान कृतपूर्व- नाशनममानन दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ९० ॥ दुर्ज- नस्य च सर्पस्य वर सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ९१ ॥ अतीव गुणसङ्गन्नो न जातु विनयान्वित. । सुसूक्ष्ममपि भूतानामुपमर्दमपेक्षते ॥ ९२ ॥ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्काल- निर्मितान्बुद्ध्वा न सज्ञा हातुमर्हसि ॥ ९३ ॥ धनवान्क्रोध- लोभाभ्यामाविष्टो नष्टचेतन. । तिर्यग्गीक्ष. शुष्कमुखः पापको भ्रुकुटीमुख. ॥९४॥ अतिवाँदास्तितिक्षेत नावमन्येत कंचन । क्रुध्यमानः प्रिय ब्रूयादाकृष्टः कुशलं वदेत् ॥ ९५ ॥ अतिक्रेशेन येऽर्था. स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मन कृथा. ॥ ९६ ॥ निर्दशन्नधरोष्ठ च क्रुद्धो दारुणभाषिता । कस्तमिच्छेद्वयरिद्रंहुं दातुमिच्छति चेन्महीम् ॥ ९७ ॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिन. श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ९८ ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्वि- मुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ ९९ ॥ मा कुरु धनजनयौवनगर्वं हरति निमेषात्काल. सर्वम् । मायामय- मिदमखिल हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥ १०० ॥ अजालवरखुरोत्सर्गमार्जनैरेणुवज्रनैः । दीपखट्वापच्छायेव त्यज्यते निर्धनो जन. ॥ १०१ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १०२ ॥ नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥ १०३ ॥ अघ स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ १०४ ॥ अध्याधानेन यज्ञेन काषायेण जटा- जिनैः । लोकान्विश्वासयित्वैव ततो लुम्पद्यथा वृकः ॥१०५॥ नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ १०६ ॥ अग्नौ प्रोस्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ।


१ अप्रियवचनानि. २ हुतम्

३८० सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्


तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥१०७॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीवि- केति बृहस्पतिः ॥ १०८॥ नाकालमत्ताः खगपन्नगाश्च मृग- द्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा नायान्यकाले शिशिरोष्णवर्षा ॥१०९॥ एवमेव कुले जाताः पावकोपमतेजसः । क्षमावन्तो निराकारा काष्ठेऽग्निरिव शेरते ॥११०॥ स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते। तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥ १११॥ नाक्रोशी स्यान्नाबमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषतीं वर्जयीत ॥११२॥ अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥११३॥ अग्निं प्राप्य यथा सद्यस्तूलराशिरिविनश्यति । तथा गंगा प्रवाहेन सर्वं पापं विनश्यति ॥ ११४ ॥ व्याधिभिर्मथ्यमानाना त्यजता विपुलं धनम् । वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ ११५ ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्र केवलं स्थण्डिलं भवेत् ॥ ११६ ॥ अक्षमा हीपरित्याग. श्रीनाशो 'धर्मसंक्षयः । अभिध्याप्रस्यता चैव सर्वे लोभा- त्प्रवर्तते ॥११७॥ शमयति गजानन्यानन्गन्धद्विपः कलभोऽपि सन्प्रभवतितरा वेगोदग्र भुजंगशिशोर्विषम्। भुबमधिपति- र्बाला वस्थोऽप्यलं परिरक्षितु न खलु वयसा जात्यैवाय स्वकार्यसहो गणः ॥ ११८ ॥ अक्षमः क्षमतामानी क्रियाया यः प्रवर्तते । स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥ ११९॥ अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ १२० ॥ ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्राज्ञः शूद्रेण सदृशो भवेत् ॥ १२१ ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानु- षाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ १२२ ॥ अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति । युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥ १२३ ॥ यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ १२४ ॥ अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ १२५ ॥ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वतः । अवेक्ष- माणस्त्रील्लोकाश्च तुल्यमिह लक्षये ॥ १२६ ॥ सन्त सच्चरि- तोदयव्यसनिन. प्रादुर्भवन्चलणा- सर्वत्रैव जनापवाद- चकिता जीवन्ति दु खं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ १२७ ॥ अकिंचन. परिपतन्सुखमाखादयि- ष्यसि । अकिंचनः सुखं शेते समुत्तिष्ठति चैव ह ॥ १२८ ॥ अकाले कृत्यमारब्धं कर्तुर्नाथीय कल्पते । तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥ १२९ ॥ ह्यः पश्यद्भिरकारण- सितसितं पाथोजकोशाकृति श्मश्रूद्वोधकठोरमद्य रभसादुत्तप्त- ताम्रप्रभम् । प्रातर्जीर्णवलक्षकेशविकृत वृद्धाइशीर्षोपमं वक्तं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥ १३० ॥ अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्त भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १३१ ॥ अकार्याण्यपि पर्याय कृत्वापि वृजिनार्जवम् । विधीयते हितं यस्य स देहः कस्य सुस्थिर. ॥ १३२ ॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ १३३ ॥ अकार्यकरणाद्धीतः कार्याणा च विवर्ज- नात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ १३४॥ अकामान्कामयति य कामयानानपरित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ १३५ ॥ स्तनयोर्घनस्थापि मध्ये मध्यं प्रिये तब । अस्ति-नास्तीति संदेहो न मेऽद्यापि निवर्तते ॥१३६॥ अकामो कामयानस्य शरीरं परिपीड्यते । इच्छन्ती कामयानस्य रतिर्भवति शोभना ॥१३७॥ अकामस्य क्रिया काचिदृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥ १३८ ॥ प्रथमा गतिरात्मैव द्वितीया गतिरात्मजः । सन्तो गतिस्तृतीयाक्ता चतुर्थी धर्मसचयः ॥ १३९ ॥ अकस्मात्प्रक्रिया नृणामकस्माच्चाप- कर्षणम् । शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम् ॥१४०॥ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् । अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत ॥ १४१ ॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डिता- न्मन्ये विशेषा हि प्रसङ्गिनः ॥ १४२ ॥ अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् । अकृतेष्वेव कार्येषु मृत्युर्वे सप्रकर्षति ॥ १४३ ॥ अधरः किसलयरागः कोमलविटपानु- कारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १४४ ॥ चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । मृगया पानमक्षाश्च ग्राम्ये चैवातिसक्तता ॥ १४५ ॥ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १४६ ॥ अध्रुवेण शरीरेण प्रतिक्षणविना- शिना । ध्रुवं यो नार्जयेद्धर्म स शोच्यो मूढचेतनः ॥ १४७॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैना सुकृतो यान्ति नैना छिन्दन्ति दुष्कृतः ॥ १४८ ॥ अध्वा जरा देहवता पर्वताना जल जरा । असभोगो जरा स्त्रीणा वाक्- शल्य मनसो जरा ॥ १४९ ॥ अनधिगतमनोरथस्य सर्व शतगुणितेव गता मम त्रियामा । यदि तु तब समागमे

संकीर्णप्रकरणम् ३८१

स्तम्भ १स्तम्भ २
तथैव प्रसरति सुष्ठु ततः कृती भवेयम् ॥ १५० ॥ मृदुराद्र्रःद्वारपञ्जरे विहगानिलः । यत्तिष्ठति तदाश्चर्यं वियोगे तस्य
कृशो भूत्वा शनैः संङ्गीयते रिपुः । वल्मीक इव वृक्षस्यका कथा ॥ १७१ ॥ परोक्तमात्र यस्तथ्य मन्यते बुद्धि-
पश्चान्मूलानि कृन्तति ॥ १५१ ॥ अनध्वन्याः काव्येष्वलस-वर्जितः । हसनीय परेषां म शाखारूढो जटी यथा ॥१७२॥
गतयः शास्त्रगहनेष्वदु खज्ञा वाचां परिणतिषु मूकाः परगुणे ।अनिले प्रियसवासे ससारे चक्रवद्गतौ । पथि संगतमेवैत-
विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वाद्भाता माता पिता सखा ॥ १७३ ॥ अनिर्वाच्यमनिर्भिन्नामप-
परमणितकण्डूतिनिकषाः ॥ १५२ ॥ अनभ्यासेन विद्याना-रिच्छिन्नमव्ययम् । ब्रह्वेव सुजनप्रेम दु खमूलनिकृन्तनम्
मसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां जायते व्यसनं॥ १७४ ॥ अगूढस्य बुद्धिमतो दूरस्थोऽपीति नाश्वसेत् ।
नृणाम् ॥ १५३ ॥ मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा ।दीर्घौ बुद्धिमतो बाहू याभ्या हिंसति हिंसितः ॥ १७५ ॥
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत्सुधीः ॥ १५४ ॥अनिर्वेदः श्रियो मूलं लामस्य च शुमस्य च । महान्भवत्य-
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् ।निर्विण्णः सुखं चानन्तमश्नुते ॥१७६॥ अनिश्चितैरध्यवसाय-
दैन्यं स्तेन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैवभीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विस्वादमुपागता
॥ १५५ ॥ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । इन्द्रियै-गिर. प्रयान्ति लोके परिहासवस्तुताम् ॥ १७७ ॥ मित्रं
रजितैर्बालः सुखं मन्यते सुखम् ॥ १५६ ॥ बन्धुत्याग-परित्यजति मुञ्चति बन्धुवर्गं शीघ्रं विहाय जननीमपि जन्म-
स्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौभूमिम् । ससज्य गच्छति विदेशमनिष्टलोकं वित्ताकुली-
मध्यमः क्षणिकज्वरः ॥ १५७ ॥ अनवाप्यं च शोकेन शरीरंकृतमतिः पुरुषोऽविलम्ब्य ॥ १७८ ॥ अनिष्ठसम्प्रयोगाच्च
चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनःविप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दु.खैर्दह्यन्ते
कृथाः ॥ १५८ ॥ अनातुरोत्कण्ठितयोः प्रसिध्यता समा-स्वल्पबुद्धयः ॥ १७९ ॥ अनीर्ष्युर्गुरुदारश्च सविभागो प्रियं-
गमेनापि रतिर्न मा प्रति । परस्परप्राप्तिनिराशयोर्र्वरं शरीर-वदः । श्लक्ष्णो मधुरवाक् स्त्रीणा न चासा वशगो भवेत्
नाशोऽपि समानरागयोः ॥ १५९ ॥ प्रज्ञया मानस दुःखं॥ १८० ॥ न पिता नात्मजो नात्मा न माता न सखी-
हन्याच्छारीरमौषधैः । एतद्धि ज्ञानसामर्थ्यं न बालैःजनः । इह प्रेत्य च नारीणा पतिरेको गतिः सदा ॥१८१॥
समतामियात् ॥ १६० ॥ अनात्मवान्नयद्वेषी वर्धयन्नति-अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् । उत्थानमा-
सपदः । प्राप्यापि महदैश्वर्यं सह तेन विपद्यते ॥ १६१ ॥त्मनश्चैव धीरः कुर्वीत वा न वा ॥ १८२ ॥ अनुबन्धानुपेक्षेत
अनादेयं नाददीत परीक्षीणोऽपि पार्थिवः । न चादेयंसानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत्
समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १६२ ॥ न च रात्रौ॥ १८३॥ सत्यश्चात्र प्रवादोऽयं लौकिक. प्रतिभाति माम् ।
सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोषंपितृन्समनुजायन्ते नरा मातरम्ङ्गनाः ॥ १८४ ॥ अनुयाति
सदोषोऽभ्यन्तर जनम् ॥ १६३ ॥ अनादेयस्य चादानादा-न भर्तार यदि दैवात्कथंचन । तथापि शीलं सरक्ष्यं शील-
देयस्य च वर्जनात् । दौर्बल्य ख्याप्यते राज्ञः स प्रेत्येहभङ्गात्पतत्यधः ॥ १८५ ॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति
च नश्यति ॥ १६४ ॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देह-मन्त्रिणाम् । अनवस्थितचित्तत्वात्कार्ये तैः स उपेक्ष्यते
गता नृणाम् । विनाशयति भूतानि अयोनिज इवानिलः॥ १८६ ॥ मूढ जहीहि धनागमतृष्णा कुरु तनुबुद्धिमन्तःसु
॥ १६५ ॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥१६६॥ अना-चित्तम् ॥ १८७॥ अन्तर्दुष्टः सदायुकतः सर्वानर्थकरः किल ।
म्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्याशकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १८८ ॥ अन्तर्ये
बाल्हीकाः पुरुषस्यानृतं मलम् ॥ १६७॥ अनारम्भा भव-सततं लुठन्त्यगणितास्तानेव पाथोघेरैरात्तानापतितान्तरग-
न्त्यर्थाः केचिन्चित्त्यं तथागता । कृतः पुरुषकारो हि भवेद्येषुवलयैरालिङ्ग्य गृह्णन्त्यसौ । व्यक्त मौक्तिकरल्रता जलकणा-
निरर्थकः ॥ १६८ ॥ द्वेषादिवैकृतवतः प्रतिभासतेऽन्योन्सप्रापयत्यम्बुधि प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते
मिथ्यैव चित्रमधिको विशदात्मनोऽपि । चन्द्रादि पश्यतिस्वामिभिः ॥ १८९॥ मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसं-
पुरो द्विगुण प्रकृत्या तेजोमयं तिमिरदोषहत हि चक्षुःचितम्। दंपत्योः कलहो नास्तितत्र श्रीःस्वयमागता ॥१९०॥
॥ १६९ ॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाःअन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्यप्राप्तिं सुखं
क्षिप्रमायान्ति वाग्दुष्टं क्रोधन तथा ॥ १७०॥ अनावृतनव-प्राहुर्दुःखमन्तरमन्त्ययोः ॥१९१॥ मूलमेवादितश्छिन्द्यात्पर-
३८२सुभाषितरत्नभाण्डागारम्[ ७ प्रकरणम्

पक्षस्य नित्यशः । ततः सहायास्तत्पक्षान्सर्व्वांच्च तदनन्तरम् ॥ १९२ ॥ अन्योच्छिष्टेषु पात्रेषु भुक्तवैतेषु महीभुजः । कस्मान्न लज्जामवहन् शौचे चिन्ता न वा दधुः ॥ १९३ ॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥ चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥ १९५ ॥ अन्योऽन्य- समुत्पम्भादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ १९६ ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ १९७ ॥ उद्योगेन विना नैव कार्यं किमपि सिध्यति । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ १९८ ॥ अपकारिणि विश्रम्य यः करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ १९९ ॥ लोभादेव नरा मूढा धनविद्यान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ २०० ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ २०१ ॥ अपहृत्य तमस्तीव्रं यथा भात्युदये रविः । तथापहृत्य पापानि भाति गङ्गाजलप्लुतः ॥ २०२ ॥ अगा प्रवाहो गाङ्गो वा समुद्रं प्राप्य तद्रसः । भवत्यपेयस्तद्भिद्वाज्ञाश्रयेदशुभात्मकम् ॥ २०३ ॥ सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् । तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ २०४ ॥ अपि मन्दत्वमापन्नो नष्टो वाऽभीष्टदर्शनात् । प्रायेण प्राणिना भूयो दुःखवेगोऽधिको भवेत् ॥२०५॥ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । अनिनाशयेते नित्यं यथा वह्नी महाद्रुमम् ॥ २०६ ॥ सुखार्थी नागारिप्रतिमयशमात्मत्युत सुखं जहौ शेषस्त- ल्पीकृततनु निषेव्यासुररिपुम् । यतस्तेनामुष्मिन्नधिगतवता क्लेशसहता श्रमाद्यायि न्यस्त निरवधि धराधारवहनम् ॥ २०७ ॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव कथंचन । तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्भवति तापसः ॥२०८॥ अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्वे तु त्यजतो महान्धर्म इति श्रुति ॥ २०९ ॥ सुखदुःखानि भूतानाम- जरो जरयत्यसौ । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ २१० ॥ अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ २११ ॥ अप्र- सादोऽनधिष्ठानं देयाशहरणं च यत् । कालयापोऽप्रती- कारस्तद्वैराग्यस्य कारणम् ॥ २१२ ॥ सुखदुःखे समे खाता जन्तूना क्लेशहेतुके । मूर्ध्नि स्थिताना केशाना भवेता | स्नेहच्छेदने ॥ २१३ ॥ अप्रियैरपि निष्पिष्टैः कि स्यात्क्लेशा- सहिष्णुभिः । ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ २१४ ॥ अभयस्य हि यो दाता तस्यैव सुमहत्फलम् । नहि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥२१५॥ सुखदुःखे हि पुरुषः पर्यायेणोपसेवते । न ह्यनन्तं सुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥ २१६ ॥ अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि । असावञ्जनसकाशस्त्व तु चामीकरद्युतिः ॥ २१७ ॥ अभि- प्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः। वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मैव हि सोऽनु- कम्प्यः ॥ २१८ ॥ सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् । भूतिः श्रीर्हीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥ २१९ ॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्य ॥ २२० ॥ अभिमानवता ब्रुवन्त्युक्ता- युक्तविवेकिनाम् । युज्यतेऽवश्यमोज्याना दुःखनामप्रकाशनम् ॥ २२१ ॥ सुत्वमापतित सेवेहु खमापतित वहेत् । काल- प्राप्तमुपासीत सस्यानामिव कर्षकः ॥ २२२ ॥ अभिमान श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ २२३ ॥ अभियुक्तं बलवता दुर्बल हीनसा- धनम् । हतस्व कामिन चौरमाविशन्ति प्रजागराः ॥ २२४ ॥ सुकर सर्वथा मैत्रं दुष्कर प्रतिपालनम् । अनित्यत्वाद्धि चित्ताना प्रीतिरल्पेन भिद्यते ॥ २२५ ॥ अभियोक्ता बलीय- स्वादलब्धा न निवर्तते । उपहाराहते तस्मात्संधिरन्यो न विद्यते ॥ २२६ ॥ अभिलष्य स्थिरं पुण्यं ख्यात सिद्धेर्निषे- वितम् । सेवेत सिद्धिमन्विच्छन् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥ २२७ ॥ यथा शरीरमेवेदं जलबुद्बुदसन्निभम् । प्रवात- दीपचपलास्तथा कस्य कृते श्रियः ॥ २२८ ॥ यथा हि पुरुषः कुर्याच्छरीरे यत्नमुत्तमम् । वसनाद्यैरुपायैस्तु तथा राज्ये नराधिपः ॥ २२९ ॥ अमित्रं नैव मुञ्चेत वदन्तं कारणा- न्यपि । दुःखं तत्र न कर्तव्यं हन्या पूर्वापकारिणम् ॥ २३० ॥ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । तस्मात्प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥ २३१ ॥ यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ २३२ ॥ अमित्रो न विमो- क्तव्यः कृपणो बह्वपि ब्रुवन् । कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ॥ २३३ ॥ अमित्रो मित्रता याति मित्रं चापि प्रदुष्यति । सामर्थ्ययोगात्कार्याणामनित्या वै सदागतिः ॥ २३४ ॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्तस्य वृत्तिभयं कुतः ॥ २३५ ॥ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरापद्यते

संकीर्णप्रकरणम् ३८३


मोहात्सत्येनापघतेऽमृतम् ॥ २३६ ॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूषमनसूयकम् । दान्तं जितेन्द्रियं चापि शाको न स्पृशते नरम् ॥ २३७ ॥ बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २३८ ॥ बुद्धिरूपगुणायुष्मत्पुत्रान्विद्याविशारदान् । प्राप्नुवन्ति नरा. सर्वे सुकृतैः पूर्वजन्मनि ॥ २३९ ॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ २४० ॥ दिशो वास. पात्रं करकुहरमेनाः प्रणयिनः समाधानं निद्रा शयनमवनी मूलमशनम् । कदैतत्सम्पूर्णं मम हृदयवृत्तेरभिमतं भविष्यत्यत्युग्रं परमपरितोषोपचितये ॥ २४१ ॥ तप सीमा मुक्ति सकलगुणसीमा वितरण कलासीमा काव्यं जननसुखसीमा सुवदना । भियः सीमा मृत्यु. सुकृतकुलसीमा-श्रितभृतिः क्षुधासीमाञ्चान्तः श्रुतिमुखरसीमा हरिकथा ॥२४२॥ यदा विनाशकालो वै लक्ष्यते दैवनिर्मितः । तदा वै विपरीतेषु मनः प्रकुरुते नरः ॥ २४३ ॥ व्यालाश्रयापि विफलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तोरेको गुणः खलु निहन्ति समस्तदोषान् ॥ २४४ ॥ प्रेयान्सोऽहं त्वमपि च मम प्रेयसीति प्रवादस्त्वं मे प्राणा अहमपि तवासीति हन्त प्रलापः । त्वं मे ते स्यामहर्माप च यत्तच्च नो साधु राधे व्यवहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥ २४५ ॥ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः । शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥ २४६ ॥ उत्पततोऽन्तरीक्षं वै गच्छतोऽपि महीतलम् । धावत. पृथिवीं सर्वो नादत्तमुपतिष्ठते ॥२४७॥ उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षं निहुतो यथा ॥ २४८ ॥ उपशमफलाद्विद्याबीजात्फलान्तरमिच्छता भवति विकलो यत्प्रारम्भस्तदत्र किमद्भुतम् । नियतविषया ह्येते भावा न यान्ति विपर्ययं जनयति यतः शालेर्बीजं न जातु यवाङ्कुरम् ॥ २४९ ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ २५० ॥ एकाकी गृहसत्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि सवाञ्छते लोके तृष्णाया पश्य कौतुकम् ॥ २५१ ॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥ द्वाविमौ न विराजते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुक ॥२५३॥ आहारयति न स्वस्थो विनिद्रो न प्रबुध्यते । वक्ति न स्वेच्छया किंचित्सेवकः कि तु जीवति ॥ २५४ ॥ आयस तुर्यभागेन व्ययकर्म प्रवर्तयन् । अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥ २५५ ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ २५६ ॥ आयत्या च तदात्वे च यत्स्याद्भावादपेशलम् । तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥२५७॥ एतत्कामफल लोके यद्वयोरकचित्तता । अन्यचित्तकृते कामे शवयोरिव सगमः ॥२५८॥ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । आत्मौभावमुपैहि सत्यज निजा कल्लोललोला गतिं मा भूयो भज भङ्गुरा भवरतिं चेतः प्रसीदाधुना ॥ २५९ ॥ धैर्ये हि कार्ये सतत महद्भिः कृच्छ्रेऽपि कष्टेऽप्यतिसकटेऽपि । कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति धैर्येाच्छ्रिता ये प्रतिपत्तिदक्षाः ॥२६०॥ देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च । आलोकयन्ति यावत्स्यादस्ति-नास्तीति न क्वचित् ॥ २६१ ॥ एते सत्पुरुषा. परार्थघटका. स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोघेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ २६२ ॥ देवस्याम्बुसुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति व्यञ्जन् यः प्रियसत्कटं घटयते जन्तोः क्षणादप्रियम् । क्षिप्रं दीर्घनिदाघवासरवियत्सतापनिर्वापणा प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गे च यः ॥ २६३ ॥ देवी श्रीर्जनकआत्मजा दशमुखस्यासीद्गृहे रक्षसो नीता चैव रसातल भगवती वेदत्रयी दानवैः । गन्धर्वस्य मदालसा च तनया पातालकेतुच्छलाद्दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥२६४॥ किमशक्य बुद्धिमता किमसाध्यं निश्चयं दृढं दधताम् । किमशक्यं प्रियवचसा किमलभ्यमिहोद्यमस्यानाम् ॥ २६५ ॥ गन्धाप्यसौ भुवनविदिता केतकी स्वर्णवर्णा पद्माभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुममर्जसा कण्टकैरूनपक्षः स्थातुं गन्तु द्वयमपि सखे नैव शक्तो द्विरेफः ॥ २६६ ॥ गवाथें ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथ वा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ २६७ ॥ गावो गन्धेन पश्यन्ति वेदैर्नैव द्विजातयः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जना ॥ २६८ ॥ त्यागो गुणे गुणशताम्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि । शौर्ये च नाम यदि तत्र नमोऽस्तु तस्मै तच्च त्रयं न च यदीर्घ्यति चित्रमेतत् ॥ २६९ ॥ त्याज्यं सुखं विषयसङ्गमजन्म पुंसा दुःखोपसृष्टमिति मूर्ख विचारणैषा । व्रीहीञ्जिहासति सितोत्तम-तण्डुलाढ्यान्को नाम मोस्तुवकणोपहितानितीर्था ॥२७०॥ दुर्गे त्रिकूटः परिखा समुद्रो रक्षासि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीत स रावणो दैववशाद्विपन्नः

३८४ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

॥२७१॥ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्ष- वृत्तीना फलैः कर्म विभावयेत् ॥२७२॥ किं गजेन प्रभिन्नेन राजकर्मीण्यकुर्वता । स्थूलोऽपि यदि वाऽस्थूलः श्रेयानृत्यकरः पुमान् ॥२७३॥ किं चन्दनैः शर्करायुक्तैर्हिनैः शीतलैश्च किम् । सर्वे ते मित्रगात्रस्य कला नार्हन्ति षोडशीम् ॥ २७४ ॥ नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी । अस्थि निर्द- शन. श्वेत्र जिह्वया लेढि केवलम् ॥ २७५ ॥ नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनता गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमना- स्तत्त्वं विजानन्नपि त्वन्त्रासास्रियमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ २७६ ॥ दायादा व्ययभीरुतापहृतारब्धेर्भवेन्त्यु- न्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केऽपि प्रियम् । राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूर्भर्तुः क्रियते द्विषेव रमसाल्लोभेन कि नाप्रियम् ॥ २७७ ॥ कोकिलोऽहं भवान्काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ॥२७८॥ क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः क्व स जलनिधेर्वेला बद्धा नृपः सगरस्तथा । क्व स करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनुर्ननु बलवता कालेनैते प्रबध्य निमीलिताः ॥ २७९ ॥ आदीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाहिना वरमहं दष्टो न तच्चक्षुषा । दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौष- धम् ॥ २८० ॥ आदौ चित्ते ततः काये सतां सञ्जायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥ अत्युक्तिं रहसि गतं विचित्रमल्पेन भाषमाणं च । उचित- प्रणयमपि नृपं सहसायी नोपसर्पन्ति ॥ २८२ ॥ दुर्जन- सङ्गतिरनर्थपरम्पराया हेतुः सतामधिगतं वचनीयमत्र । लङ्केश्वरे हरति दाशरथे. कलत्रं प्रामोति बन्धमथ दक्षिण- सिन्धुराजः ॥२८३॥ जलौकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः । मृगीदृशा जलाकाना विचारान्महदन्तरम् ॥ २८४ ॥ जलौका केवलं रक्तमाददाना तपस्विनाम् । प्रमदा सर्वमा- दत्ते वित्तं वित्तं बल सुखम् ॥ २८५ ॥ कुलं वृत्तं च शौर्य च सर्वमेतन्न गण्यते । दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि रज्यते ॥ २८६ ॥ दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥ २८७ ॥ निःश्वासोदीर्णहुतभुग्भूधूम्रीकृताननैः । वरमाशीविषैः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥ २८८ ॥ किं रुद्धः प्रियया कयाचिदथ वा सख्या ममोद्वेजितः किं वा कारण- गौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं शिक्षाश्च पुष्पस्रजः ॥ २८९ ॥ कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः । ऐणमासमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ २९० ॥ उपायो न जयो यादृग्विप्रोस्तादृश हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २९१ ॥ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । विजयस्य ह्यनित्यत्वादभ्रसेन न सपतेत् ॥ २९२ ॥ नैतद्विचित्रं मनुजार्थमाधिनः परावराणा परमस्य वेधसः ॥ अधोऽपि यत्स्पर्शनधौतपातकः प्राप्तार्मसाम्य त्वसता सुदुर्लभम् ॥ २९३ ॥ ये बालभावान्न पठन्ति विद्या ये यौवनस्था ह्यधनात्मदाराः ॥ ते शोचनीया इह जीव- लोके मनुष्यरूपेण मृगाश्चरन्ति ॥ २९४ ॥ दमेन हीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥ साङ्ख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥ कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ॥ तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधः प्रपद्ये ॥ २९६ ॥ शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः ॥ तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥ २९७ ॥ ऋतेन जीवेदवृतेन जीन्मिवृतेन जीवेत्प्रमितेन जीवेत् ॥ सत्यानृताभ्यामथवापि जीवेत् श्ववृत्तिमेका परिवर्जयेत्तु ॥ २९८ ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ॥ अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ २९९ ॥ नास्तीदृश सवनन त्रिषु लोकेषु किञ्चन ॥ यथा मैत्री च लोकेषु दान च मधुरा च वाक् ॥ ३०० ॥ न तथा तप्यते विद्धः पुमान्बाणै. सुमर्मगै. ॥ यथा तुदन्ति मर्मस्था हृसता परुषेषवः ॥ ३०१ ॥ शूरस्त्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ॥ प्रागेव पश्चाद्विपरीतरूपा ये ते तु भृत्या न हिता भवन्ति ॥३०२॥ यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः ॥ यत्तीर्थबुद्धिः सलिले न कर्हिचिज्जनेष्व- भिज्ञेषु स एव गोखरः ॥ ३०३ ॥ कं योजयेन्मनुजोऽर्थं लभेत निपातयन्नहृद्ददर्श हि गर्ते ॥ एव नराणा विषयस्पृहा च निपातयन्निरये त्वन्धकूपे ॥ ३०४ ॥ कृत्यं किमत्रास्य खलस्य जीवन न वा अमीषा च सता विहिसनम् ॥ द्वयं कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाऽविशत्तुण्डमशेषदग्धहरिः ॥ ३०५ ॥ लोक. स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः । अन्योऽन्यवैरः सुखलेशहेतोरनन्तदुःखं न च वेद मूढः ॥ ३०६ ॥ सत्या क्षितौ किं कशिपॊ. प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ॥ सत्यञ्जलौ कि पुरुधाऽऽन्नपात्र्या

संकीर्णप्रकरणम्

३८५


[स्तम्भः १]

दिग्वल्कलादौ सति किं दुकूलैः ॥ ३०७ ॥ भूतैराक्रम्य-
माणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्व-
शिक्षं क्षितेर्व्रतम् ॥३०८॥ प्राणवृत्त्यैव संतुष्येन्मुनिर्नेवेन्द्रिय-
प्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३०९॥
गुणैर्गुणानुपादत्ते यथाकाल विमुञ्चति ॥ न तेषु युज्यते देही
गोभिर्गा इव गोपतिः ॥ ३१० ॥ महीयसा पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥३११॥ नवनीतोपमा वाणी
करुणाकोमलं मनः । वर्मबीजप्रसूतानामेतत्प्रत्यक्षलक्षणम्
॥ ३१२ ॥ कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ३१३ ॥
किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीति-
सशङ्कितेन । सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि
जीवति चिरं च बलिं च भुङ्क्ते ॥ ३१४ ॥ तन्मङ्गलं यत्र
मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा । तदर्जितं यत्स्व-
जनेन भुक्तं तद्वर्जितं यत्स्मरे रिपूणाम् ॥ ३१५ ॥ वेदादि-
शास्त्रमखिलं प्रपठन्तु लोका कुर्वन्तु नाम सततं क्षितिपाल-
सेवाम् । उग्रं तपः प्रतिदिनं प्रतिसाधयन्तु न श्रीस्तथापि च
मजत्यतिभाग्यहीनम् ॥ ३१६ ॥ त्यक्त्वात्मानमदैवपराननु-
ध्यान् उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः । अन्विष्य यत्नाद्वृणुया-
न्नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम् ॥ ३१७ ॥ नित्य
छेदस्तृणानां धरणिविलिखनं पादयोश्चापमार्दन्र्दन्तानाम-
ल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वैसन्ध्ये चापि
निद्रा विवसनशयनं ग्रासहासातिरेकः स्वर्गे पीठे च वाद्यं
हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥ ३१८ ॥ कुचेलिनं
दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् । सूर्योदये
ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥३१९॥
तद्वर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः । निष्पादयति तं
प्राज्ञा प्रवदन्ति नरोत्तमम् ॥३२०॥ भिक्षार्थी जनमध्यसङ्ग-
रहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चि-
त्तपस्वी स्थितः । रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो
निर्मानो निरहंकृतिः शमसुधाभोगैकबद्धस्पृहः ॥ ३२१ ॥
रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्स
न संरोहति वाक्क्षतम् ॥ ३२२ ॥ शय्या शैलशिला गृहं
गिरिगुहा वस्त्रं तरूणां त्वचः सारङ्गाः सुहृदो नुं क्षितिरुहा
वृत्तिः फलैः कोमलैः । येषां नैर्झरिणाम्बु पानमुचितं रत्नै
श्च विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न
सेवाञ्जलिः ॥३२३॥ स्वामिनि गुणान्तरज्ञे गुणवति भृत्यऽ-
नुवर्तिनि कलत्रे । मित्रे चानुपचर्ये निवेद्य दुःखं सुखी
भवति ॥ ३२४ ॥ ताम्बूलं कटु तिक्तमिश्रमधुरं क्षारं कषा-


[स्तम्भः २]

यान्वितं वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् ।
वक्त्रस्याभरणं मलापहरणं कामाग्निसंदीपनं ताम्बूलस्य सखे
त्रयोदश गुणाः स्वर्गेऽप्यमी दुर्लभाः ॥ ३२५ ॥ यः पित्रा
समुपात्तानि धनवीर्ययशांसि वै । न्यूनतां नयति भ्रांङ्गस्तमाहुः
पुरुषाधमम् ॥३२६॥ भोगा मङ्गुरवृत्तयो बहुविधास्तैरेव चायं
भवस्तत्कस्नेह कृते परिभ्रमय रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं चेत समाधीयता काम्यो-
त्पत्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३२७ ॥ लज्जा
गुणौघजननी जननीमिव स्वामत्यन्तशुद्धहृदयामनुवर्तमानाः।
तेजस्विन सुखमसूनपि सत्यजन्ति सत्यव्रतव्यसनिनो न पुनः
प्रतिज्ञाम् ॥ ३२८ ॥ शीघ्रकृत्येषु कार्येषु नरो यदि विल-
म्बते । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥ ३२९ ॥
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो
नारी या नारी माऽर्थत पुमान् ॥ ३३० ॥ दक्षता भद्रता
दार्थ्यं क्षान्तिः क्लेशसहिष्णुता । संतोषः शीलमुत्साहो मण्ड-
यन्त्यनुजीविनाम् ॥ ३३१ ॥ यदुपान्तं यशः पित्रा धनं
वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः
स्मृतः ॥ ३३२ ॥ प्रियेमेवाभिघातव्यं नित्यं सत्सु द्विषत्सु
च । शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥ ३३३ ॥
राज्ञो विपद्धन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः ।
आस्वाद्यतेऽस्याः कटु निष्फलायाः फल मयैतच्चिरजीवितायाः
॥ ३३४ ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिम् ।
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥ ३३५ ॥
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव
निधनं यान्ति काकाः कापुरुषा मृगाः ॥ ३३६ ॥ के वा न
सन्ति तामरसावतंसा हंसावलीवलयिनो जलसन्निवेशाः ।
कि चातकः फलमपेक्ष्य सवज्रपाता पौरदरीमुपगतो नव-
वारिधाराम् ॥३३७॥ मानमुद्वहतः पुंसो वरमापत्पदे पदे ।
मानहीनं सुरैः सार्धं विमानमपि सत्यजेत् ॥ ३३८ ॥
पुनर्दांराः पुनर्विन्तं पुनः क्षेत्रं पुन. पुन: । पुन: शुभाशुभं
कर्म शरीरं न पुनः पुनः ॥ ३३९ ॥ रथः शरीर पुरुषस्य
राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशली
सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ ३४० ॥ विधात्रा
रचिता रेखा ललाटेऽक्षरमालिका । न ता मार्जयितुं शक्तः
स्वबुद्ध्याप्यतिपण्डितः ॥३४१॥ सत्यं जना वच्मि न पक्ष-
पाताल्लोकेषु सर्वेषु च तथ्यमेतत् । नान्यन्मनोहारि नितम्बि-
नीभ्यो दुःखस्य हेतुर्न च कश्चिदन्यः ॥३४२॥ एकं भूमिपतिः
करोति सचिवं राज्ये प्रधानं यदा त मोहाच्छ्रयते मदः स
च मदाद्दासेन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये
तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणेष्वभि-


४० सु. र. भा.

३८६सुभाषितरत्नभाण्डागारम्[ ७ प्रकरणम् ]
वामभागःदक्षिणभागः
द्रुह्यति ॥ ३४३ ॥ सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।<br>कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ३४४ ॥ परं<br>क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशानः<br>स च मूढतमो नरः ॥ ३४५ ॥ धनानि जीवितं चैव परार्थे<br>प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति<br>॥३४६॥ सनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो<br>भाजनं राजन् यश्चापत्सु न मुह्यति ॥ ३४७ ॥ परिचरि-<br>तव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् । यास्तेषां<br>स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ३४८ ॥ श्रीमङ्गल्य-<br>त्प्रभवति प्रागल्भ्यात्सप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमा-<br>त्प्रतितिष्ठति ॥ ३४९ ॥ पञ्चभिः सम्भृतः कायो यदि पञ्चत्व-<br>मागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३५०॥<br>धनहेतोर्य ईहेत तस्यानीहा गरीयसी । भूयान्दोषो हि<br>वित्तस्य यश्च धर्मस्तदाश्रयः ॥ ३५१ ॥ वाचाशौचं च मनसः<br>शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम्<br>॥ ३५२ ॥ हृष्यन्ति देवताः सर्वा गायन्ति ऋषयस्तथा ।<br>नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते ॥ ३५३ ॥ दुर्वृत्तं<br>वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयेत्त्वेव भार्या<br>धर्मेषु निष्ठिता ॥ ३५४ ॥ न भिक्षा दुष्प्रापा पथि मम<br>महारामचरिते फलैः सम्पूर्णा भूरपि मृगसुचर्मापि वसनम् ।<br>सुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा त्रिनेत्रं कस्यक्त्वा<br>धनलवमदान्धं प्रणमति ॥ ३५५ ॥ यद्यपि भ्रातरः क्रुद्धा<br>भार्या वा कारणान्तरे । स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते<br>जनः ॥ ३५६ ॥ ललाटदेशे रुधिरं सवेद्यच्छूरस्य यस्य<br>प्रविशेच्च वक्त्रे। तत्सोमपानेन समं भवेच्च संग्रामयज्ञे विधिवत्प्र-<br>दिष्टम् ॥३५७॥ मीनः स्नानपरः फणी पवनभुङ् मेषश्च पर्णा-<br>शनो गर्ते तिष्ठति मूषिकोऽपि विपिने सिंहो बको ध्यानवान् ।<br>शश्वद्भ्राम्यति चक्रिगौः परिचरन्देवैः सदा देवलः कि तेषा<br>फलमस्ति तेन तपसा तद्भावशुद्धि कुरु ॥ ३५८ ॥ बाहुवीर्ये<br>बलं राज्ञो ब्राह्मणो ब्रह्मविद्वली । रूपयौवनमाधुर्यं स्त्रीणा बल-<br>मनुत्तमम् ॥३५९॥ नश्यतो युध्यतो वापि तावद्भवति जीवि-<br>तम् । यावद्धाताऽसृजत्पूर्वे न यावन्मनसेप्सितम् ॥ ३६० ॥<br>पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि<br>जायात्वं यदस्या जायते पुनः ॥ ३६१ ॥ दग्धं दग्धं त्यजति<br>न पुनः काञ्चनं कान्तिवर्णं छिन्नं छिन्नं त्यजति न पुनः<br>स्वादुतामिक्षुदण्डम् । घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारु-<br>गन्धं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥३६२॥<br>नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषा भुवनलाभेऽपि<br>निःसीमानो मनोरथाः ॥ ३६३ ॥ छादयित्वात्मभावं हि<br>चला हि शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थःसुमहान्भवेत् ॥ ३६४ ॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा<br>विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्व सुखी<br>भव ॥ ३६५ ॥ तर्षच्छेदो न भवति पुरुषस्येह कल्पशत् ।<br>निवर्तते तदा तर्षः पापमन्तगतं यदा ॥ ३६६ ॥ दिवसे<br>सनिधानेन पिशुनप्रेरणा प्रभोः । ईर्ष्यालुना खरैणीव<br>रक्षितुं यदि पार्यते ॥३६७॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति<br>कारकः । प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च ॥३६८॥<br>कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । कि वा<br>काव्यरसः स्वादुः कि वा स्वादीयसी सुधा ॥ ३६९ ॥ उर्वी-<br>पतेश्च स्फटिकाश्मनश्च शीलोञ्झितस्त्रीहृदयस्य चान्तः । अस-<br>निधानान्तसतस्थितीनामन्योन्चरागं कुरुते प्रवेशम् ॥३७०॥<br>आत्मोत्कर्षे न मार्गेत परेषा परिनिन्दया । खगुणेरैव<br>मार्गेत विप्रकर्षं पृथग्जनात् ॥३७१॥ कृतिनोऽपि प्रतीक्ष्यन्ते<br>सहायं कार्यसिद्धये । चक्षुष्मानपि नालोकाद्विना वस्तु न<br>पश्यति ॥ ३७२ ॥ किं देवकार्याणि नराधिपस्य कृत्वा विरोधं<br>विषयस्थितानाम् । तद्देवकार्यं जपयज्ञहोमा यस्याश्रुपाता न<br>पतन्ति राष्ट्रे ॥ ३७३ ॥ देयमार्तस्य शयनं स्थितश्रान्तस्य<br>चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम्<br>॥ ३७४ ॥ राजन्नजन्यपाध्यायौ देवी यच्छिष्येद्रहः । तत्र<br>प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ किं ते धनैर्बान्धवै-<br>र्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानम-<br>न्विच्छ गुहा प्रविष्टं पितामहस्ते क गतः पिता च ॥३७६॥<br>न व्याधयो नापि यमः प्राप्तं श्रेयः प्रतीक्षते । यावदेव<br>भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ ३७७ ॥ न व्याधिर्न विषं<br>तापस्तथान्याऽपि भूतले । दुःखाय स्वशरीरोत्थं मौर्ख-<br>मेतद्यथा नृणाम् ॥ ३७८ ॥ सुखाद्बहुतरं दुःखं जीविते<br>नास्ति संशयः । स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम्<br>॥ ३७९ ॥ सामुद्रास्तििमयो नृपाश्च सदृशा एके हृतानम्भस-<br>स्वसादेव कणाध्वनस्स जहतो जानन्ति ये दातृताम् ।<br>सर्वस्सास्फुटलुष्ठिताद्वितरतो लेशान्तिक्लान्येऽपि ये दुष्का-<br>यस्यकुलस्स हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ ३८० ॥<br>सुखं च दुःख च भवाभवौ च लाभालाभौ मरणं जीवित च ।<br>पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न शोचेत्<br>॥ ३८१ ॥ कृषिका रूपनाशाय अर्थनाशाय वाजिनः ।<br>शालको गृहनाशाय सर्वनाशाय पावकः ॥ ३८२ ॥<br>एको बहूना मूर्खाणा मध्ये निपतितो बुधः । पद्मः पय-<br>स्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ३८३ ॥ निजात्सुपततः<br>शत्रून्पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति<br>तमापद्ग्रसते नरम् ॥ ३८४ ॥ ज्ञानं सता मानमदादिनाशनं<br>केषांचिदेतन्मदमानकारणम् । स्थानं विविक्तं गमिना

संकीर्णप्रकरणम् ३८७

विमुक्तये कामातुगणमतिकामकारणम् ॥ ३८५ ॥ तद्भोजन यद्विजभुक्तशेषं तन्मोहदं यत्क्रियते' परस्मिन् । सा प्राज्ञता या न करोति पाप दम्भं विना य. क्रियते स धर्म. ॥ ३८६ ॥ धर्मात्पैजवनो राजा चिराय बुभुजे भुवम् । अधर्माच्चैव नहुष प्रतिपेदे रसातलम् ॥ ३८७ ॥ कः स्वभावगभीराणा लक्षयेद्वहिरापदम् । वालापत्येन भृत्येन यदि सान प्रकाश्यते ॥३८८॥ नास्ति धर्मसमो बन्धुर्नास्ति धर्मसमा क्रिया । नास्ति धर्मसमो देव. सत्य सत्यं वदाम्यहम् ॥३८९॥ नास्ति सत्यात्परो धर्मो नानृतात्पातक परम् । श्रुतिर्हि सत्यं धर्मश्च तस्मात्सत्य न लोपयेत् ॥३९०॥ एष ते विद्रुमच्छाया मारुमार्ग इवाधर । कस्य नो तनुते तन्वि पिपासाकुलित मन. ॥ ३९१ ॥ नावज्ञया प्रदातव्यं किचिद्वा केनचित्क्वचित् । अवज्ञा हि यद्दत्त दातुस्तद्दोष- मावहेत् ॥ ३९२ ॥ एकीभूय स्फुटमिव किमप्याचचद्भिः प्रलीनैरैविर्भूतै. खग कति कृता. स्वान्त ते विप्रलम्भा । तस्मादेषा त्यज परिचय चिन्तय म्वव्यवस्थामा- भाषस्ते किमु न विदितः पण्डितः खण्डित. स्यात् ॥३९३॥ नाश्रमः कारण धर्मे क्रियमाणो भवेद्धि स । अतो यदात्मनोऽपथ्यं परेषा न तदाचरेत् ॥ ३९४ ॥ जलाहतौ विशेषेण विद्युतामिव द्युतिः । आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥ ३९५ ॥ नाभूतिकालॆषु फलं ददन्ति शिल्पानि मन्त्राश्च तथौषधानि । तान्येव कालेन समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥ ३९६ ॥ देशकालविहीनानि कर्माणि विपरीतनन् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३९७ ॥ ऐश्वर्यमदपापिष्ठा मदा पानमदादय । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥३९८॥ कुलोद्गत सत्यमुदारविक्रम स्थिर कृतज्ञ धृतिमन्त- मूर्जितम् । अतीव दातारमुपेतवत्सल सुदुष्प्रसाध्य प्रवदन्ति विद्विषम् ॥ ३९९ ॥ ऐश्वर्यात्सङ्घसम्बन्धं न कुर्याच्च कदा- चनं । गते च गौरव नास्ति आगते च धनक्षय. ॥४००॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवा कुलमिच्छन्ति मिष्टान्नमितरे जना. ॥ ४०१ ॥ नारभेतान्य- सामर्थ्यात्पुरुष. कार्यमात्मन. । मतिसाम्य द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ ४०२ ॥ एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापद प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥ धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः । सततं तोषये- द्दारान्नाप्रिय क्वचिदाचरेत् ॥ ४०४ ॥ का तव कान्ता कस्ते पुत्र. संसारोऽयमतीव विचित्र । कस्य त्वं वा कुत आया- तस्तत्त्वं चिन्तय तदिदं भ्रातः ॥ ४०५ ॥ ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः । व्याधिभि. परिक्लिश्यन्ते मृगा व्याधैरिवार्दिता ॥ ४०६ ॥ काले महिष्णुर्गिरिवदमहिष्णुश्च वह्नित् । स्कन्धेनापि वहेच्छत्रुन्प्रियाणि समुदाहरन् ॥ ४०७ ॥ ऐन्द्रादर्चिष. कामी शिशिर हव्यवाहनम् । अबलाविरहदशविह्वलो गणयत्ययम् ॥ ४०८ ॥ पुनर्विन्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीर पुन. पुन. ॥ ४०९ ॥ कश्चिद्राम्रवणं छित्त्वा पलाश्राश्च निषिञ्चति । पुष्प दृष्ट्वा फले गृद्ध न शोचति फलागमे ॥ ४१० ॥ देवो गजा गुरुर्भार्या वैद्यनक्षत्रपाठका. । रिक्तहस्ता न गच्छन्ति गते कार्ये न सिध्यति ॥ ४११॥॥ त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा । कमलं जलसरोहि त्वन्मुखं त्वद्वपुःश्रयम् ॥ ४१२ ॥ परोऽप्यपत्य हितकृद्यथो- षधा स्वदेहोऽप्यायमयत्सुतोऽहित. । छिन्द्यात्तदङ्ग यदुता- त्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ ४१३ ॥ क श्रद्धास्यति भूताथ सर्वो मा तुलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४१४ ॥ पूर्व वयसि कर्माणि कृत्वा पापानि ये नराः । पश्चाद्गङ्गा निषेवन्ते तेऽपि यान्त्युत्तमा गतिम् ॥ ४१५ ॥ तरुणिसमारम्भे तस्या शरीरसरोवर मरभस मनोईस श्रीमन्प्रयासि कथं पुन. । श्रवणलतिकापाशौ पाश्चे प्रसारितपातितौ हतविधि- वशाद्वन्धायान्धो न पश्यति कि भवान् ॥ ४१६ ॥ पीतः क्रुद्धेन तातश्चरणतलगहतो वल्लभोऽन्येन रोषादाऽऽस्वाल्य्या- द्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेह मे छेद- यन्ति प्रतिदिवसमुमाकान्तपूजा निमित्तत्तात्तस्मात्खिन्ना सदाहं द्विजकुलनिलय नाथ युक्त त्यजामि ॥ ४१७ ॥ दूर्वाया भूषणं पत्र वृक्षाणा भूषण सुमम् । स्ववृत्तिर्भूषणं पुंसा नारीणा भूषणं पति ॥ ४१८ ॥ कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । छन्न सतिष्ठते वैर गूढोऽग्निरिव दारुषु ॥ ४१९ ॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रिय. शीलमाञ्श्चिर पाल्यते महीम् ॥ ४२० ॥ धनहीनो न हीनश्च धनिक. स सुनिश्चयात् । विद्यारत्नेन यो हीनः स हीन सर्ववस्तुषु ॥ ४२१ ॥ परकाव्येन कवय. परद्रव्येण चेश्वराः । निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ ४२२ ॥ धननाशोऽधिक दुःखं मन्ये सर्वमहत्तरम् । ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्युतम् ॥ ४२३ ॥ तीर्थसेवनमौनभागपि तिमि. सक्तः स्वकुल्याशने वाताशान्न्यसते शिखी घनपयोमात्राशनोऽप्यन्वहम् । विश्व- स्ताञ्चलचारिण प्रकटितध्यानाऽपि बुद्धे बक सत्कर्माचरणे- ऽपि दोषविकृतौ न प्रत्यय. पापिनाम् ॥ ४२४ ॥ कृतविद्योऽपि वलिना व्यक्त रागेण रज्यते । रागानुरक्त चित्तस्तु कि न कुर्यादसाम्प्रतम् ॥ ४२५ ॥ त्वया

३८८ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्


नीलोत्पलं कर्णे खरेणास्त्रं शरासवे । मयापि मरणे चेतन्मयमेतत्समं कृतम् ॥ ४२६ ॥ धनक्षयः शिष्टगर्हा सदाचारविवर्जनम् । ज्ञातिभिः पीडनं चैव धूतासक्तधिया नृणाम् ॥ ४२७ ॥ त्रासहेतोर्विनीतिस्तु क्रियते जीविता- शया । पञ्चत्वं चेद्गमिष्यामि कि सिंहानुनयेन मे ॥ ४२८ ॥ निर्दहति कुलशेषं ज्ञातीना वैरसंभवः क्रोधः । वनमिव घनपवनाहततरुवरसंघर्षसंभवो दहनः ॥ ४२९ ॥ पयोमुचः परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महता परदुःखोपशान्तये ॥ ४३० ॥ त्यजेद्धर्मं दयाहीनं विद्याहीन गुरुं त्यजेत् । त्यजेत्क्रोधमुखी भार्या निःस्नेहान्बान्धवांस्त्य- जेत् ॥ ४३१ ॥ त्यजेत सचयान्साक्षात्तज्ज्ञानेक्षान्वहेत वा । नहि सचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ४३२ ॥ नौका च खलजिह्वा च प्रतिकूलप्रवर्तिनी । प्रतारणाय लोकाना दारुणा केन निर्मिता ॥ ४३३ ॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः ॥ ४३४ ॥ नोपभोगो न वा दानं बन्धुना भरणं न वा । तथापि गुरुता धत्ते नृणा सरक्षितं धनम् ॥ ४३५ ॥ द्वावेव कथितौ सद्भि पन्थानौ वदता वर । अहिंसा चैव सत्य च यत्र धर्म प्रतिष्ठित ॥ ४३६ ॥ तृणोल्कया जायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥ ४३७॥ निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम् ॥ ४३८ ॥ दोग्ध्री धान्य हिरण्य च मही राज्ञा सुरक्षिता । नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ ४३९ ॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा । ददात्यमित्रेष्वभियाचितः सं तमात्मवन्तं प्रजहत्यनर्थाः ॥ ४४० ॥ यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायकः ॥ ४४१ ॥ भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणाम् । यदि कालेन पच्यन्ते भेषजैः कि प्रयोजनम् ॥ ४४२ ॥ मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति वाक्यशल्येन अदृशं कण्टको यथा ॥ ४४३ ॥ यत्रोदकं तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्ते पुनराश्रयन्ते ॥ ४४४ ॥ भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनाया च लोकस्य स सुखेष््वेव जीर्यते ॥ ४४५ ॥ मृत्योर्वा गृहमेतद्वै या ग्रामे वसतो रतिः । देवानामेष वै गोष्ठो यदारण्यमिति श्रुतिः ॥ ४४६ ॥ यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । व्यापत्सु शाखविटपी स फलं प्रसूय पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ ४४७ ॥ भेषज्यमेतद्दुःखस्य यदेतन्नानु- चिन्तयेत् । चिन्त्यात्मानं हि न व्येति भूयश्चापि प्रवर्धते ॥ ॥ ४४८ ॥ पुष्पं पुष्प विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ ४४९ ॥ भक्त द्वेषो जडे प्रीतिः सुरुचिर्गुरुसङ्गने । मुखे कटुकता नित्यं धनिना ज्वरिणामिव ॥ ४५० ॥ यत्सग्रहो रत्नमहौषधीना करोति सर्वव्यसनावसानम् । त्यागेन तद्यस भवेन्नमोऽस्तु चित्रप्रभावाय धनाय तस्मै ॥ ४५१ ॥ उपकार करोम्यस्य ममाप्येष करिष्यति । अय चापि प्रतीकारो रामसुग्रीव- योरिव ॥ ४५२ ॥ महाबलान्वयस्य महानुभावान्वयशास्य भूमि धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलाश्च भोगान्गतान्नरेन्द्वान्वशमन्तकस्य ॥ ४५३ ॥ यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढा खरवद्वहन्ति ॥ ४५४ ॥ फेनमात्रोग्रमे देहे जीवे शकुनिवत्स्थिते । अनित्ये प्रियसवासे कथं स्वपिषि पुत्रक ॥ ४५५ ॥ यदा विनाशो भूताना दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ ४५६ ॥ प्रिया वा मधुरा वा तु स्वाम्येष्वेव विराजते । क्षीरक्षणे प्रमाणं तु वाचः सुनयर्ककशाः ॥ ४५७ ॥ महादेवो देवः सरिदपि च सैवामरसरिद्गुहा एवागार वसनमपि ता एव हरितः । सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ४५८ ॥ यथा तैलक्षयाद्दीषः प्रह्रासमुपगच्छति । तथा कर्मक्षयाद्दैव प्रह्रासमुपगच्छति ॥ ४५९ ॥ प्राप्य कार्य गरीयस्तु प्रियसमुत्सृज्य दूरतः । हितमेव हि बक्तव्यं सुहृदा मंत्रिणा सदा ॥ ४६० ॥ मत्या परीक्ष्य मेधावी बुद्ध्या सपांच चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ॥ ४६१ ॥ यस्या यस्यामवस्थाया यत्करोति शुभाशुभम् । तस्या तस्यामवस्थाया तत्फलं समुपानुते ॥ ४६२ ॥ भर्तारं किल या नारी छायेवानुगता सदा । अनुगच्छति गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥ ४६३ ॥ महान्तमप्यर्थम- धर्मयुक्तं यः सत्यजत्यनपकृष्ट एव । सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ ४६४ ॥ यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण कि जटाभस्मलेपनैः ॥ ४६५ ॥ मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिन । हरन्ति न तथा वाचो यथा साधु-

संकीर्णप्रकरणम् ३८९

विपश्विताम् ॥ ४६६ ॥ प्राज्ञो वा यदि वा मूर्खः सधनो
निर्धनोऽपि वा । सर्व. कालवशं याति शुभाशुभसमन्वित
॥ ४६७ ॥ यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत
एव भावि । आहारयोगेण वियुज्यमान परण को नाम
भवेद्विषादी ॥ ४६८ ॥ मधुरेणदृशा मानं मधुरेण
सुगन्धिना । सहकारोद्भवेनैव शब्दशेषं करिष्यति
॥ ४६९ ॥ तद्भावभावनिरता तत्संयोगपरायणा । तमेव
भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥ ४७० ॥
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वर. । मृत स
चाल्पदु खाय यावज्जीव जडो दहेत् ॥ ४७१ ॥ प्राकृतो
हि प्रशंसन्वा निन्दन्वा किं करिष्यति । वने काक
इवा बुद्धिर्वाशमानो निरर्थकम् ॥ ४७२ ॥ यस्मिन्यथा
वर्तते यो मनुष्यस्तस्मिन्तथा वर्तितव्य स धर्मः। मायाचारो
मायया बाधितव्य साध्याचार. साधुना प्रत्युपेयः
॥ ४७३ ॥ मयास्योपकृतं पूर्वं ममाप्येष करिष्यति । इति
य. क्रियते सधि प्रतीकार स उच्यते ॥ ४७४ ॥
युगान्ते चलते मेरु कल्पान्ते सप्त सागरा । साधव.
प्रतिपन्नार्थान्न चलन्ति कदाचन ॥ ४७५ ॥ भवने सुहृदो
यस्य समागच्छन्ति नित्यश । चित्ते च सौख्येन न
किंचित्सदृशं भुवि ॥ ४७६ ॥ वणिक्प्रमादी भृतकश्च
मानी भिक्षुर्विलासी ह्यधनश्च कामी । वराङ्गना
चाप्रियवादिनी च न ते च कर्माणि समारभन्ते
॥ ४७७ ॥ चितासहस्त्रेषु च तेषु मध्ये चिताश्रतस्त्रोऽप्यसि-
धारतुल्या । नीचापमानं क्षुधितं कलत्रे भार्या विरक्ता
सहजोपरोधः ॥ ४७८ ॥ कान्तावियोगः स्वजनापमान
ऋणस्य शेष. कुजनस्य सेवा । दारिद्यभावाद्दिमुखाश्च मित्रा
विनाग्निना पञ्च दहन्ति तीव्राः ॥ ४७९ ॥ यदा न योगोप-
चितासु चेतो मायासु मिक्षुस्य विषञ्जतेऽङ्ग । अनन्यहेतु-
त्थव मे गतिः स्यादातत्यनिको यत्र न मृत्युहासः ॥ ४८० ॥
गृहेश्वरी सद्गुणभूषिता शुभां पङ्ग्वन्धयोगेन पति समेताम् ।
न लालयेत्पूरयेन्नैव कामं स कि पुमान्न पुमान्मे मृतोऽस्ति
॥ ४८१ ॥ योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु
मूढः ॥ प्रलोभितात्मा क्षुपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टि.
॥ ४८२ ॥ एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनि-
वर्तकस्य । अध्यात्मयोगे गतमानसस्य गोक्षो ध्रुवं नित्यमहिं-
सकस्य ॥ ४८३ ॥ न शब्दशास्त्रे निरतस्य मोक्षो न वर्णराङ्गे
निरतस्य चैव । न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे
रतस्य ॥ ४८४ ॥ बालातप प्रेतधूमः स्त्री वृद्धा तरुणं दधि ।
आयुष्कामो न सेवेत तथा समार्जनी रज. ॥ ४८५ ॥
नाश्नन्ति पितरो देवा क्षुद्रस्य वृषलीफ्तेः । भा
नाश्नन्ति यस्य चोपपतिर्गृहे ॥ ४८६ ॥ सङ्गं त्यजेत मिथुन-
व्रतिना मुमुक्षु सर्वात्मना न विसृजेद्वहिरिन्द्रियाणि ।
एकश्चरन्न्रहसि चित्तमनन्त ईशे युञ्जीत तद्गतिषु साधुषु
चैत्यसङ्ग. ॥ ४८७ ॥ धर्म. प्रव्रजितस्तप प्रचलितं सत्य च
दूरं गतं पृथ्वी वन्ध्यफला जन. कपटिनो लौल्ये स्थिता
ब्राह्मणा. । मर्त्याः स्त्रीवशगा. स्त्रियश्च चपला नीचा जना
उन्नता हा कष्ट खलु जीवितं कलियुगे धन्या जना ये
स्मृता ॥ ४८८ ॥ यस्मिन्यदा पुष्कटनाममायया दुरन्तया
स्पृष्टधियः पृथग्दृश. । कुर्वन्ति तत्र ह्यनुकम्पया कृपा
न साधवो दैवबलात्कृते क्रमम् ॥ ४८९ ॥ यो धर्मशीलो
जितमानरोषो विद्याविनीतो न परोपतापी ॥ स्वदारतुष्टः
परदारवर्जितो न तस्य लोके भयमस्ति किचित् ॥ ४९० ॥
अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।
सिद्धेऽन्यथार्थे न यतेत भूय. परिश्रमं तत्र समीक्षमाणः
॥ ४९१ ॥ भय प्रमत्तस्य वनेष्वपि स्याद्गत. स आस्ते सह
षट्सपत्नः । जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः कि नु
करोत्यवद्यम् ॥ ४९२ ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते
तत्र देवता. । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः
क्रिया. ॥ ४९३ ॥ पुनर्विचं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्य न शरीर पुन. पुन. ॥ ४९४ ॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य
जानन्ति स वै पण्डित उच्यते ॥ ४९५ ॥ ममत्वं हि न
कर्तव्यमैश्वर्ये वा धनेऽपि वा । पूर्वावाप्तं हरन्त्यन्ये
राजधर्म हि तं विदुः ॥ ४९६ ॥ प्रज्ञावास्तेव पुरुषः
संयुक्तः परया धिया । उदयास्तमनज्ञो हि न हृष्यति न
शोचति ॥ ४९७ ॥ यस्य पुत्रो वशीभूतो भार्या
छन्दानुगामिनी । विभवे यश्च सतुष्टस्तस्य स्वर्ग इहैव हि
॥ ४९८ ॥ भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत् ॥ ४९९ ॥ मार्दवं
सर्वभूतानामनसूया क्षमा धृति. । आयुष्याणि बुधा
प्राहुर्भिन्नाणा चापि मानना ॥ ५०० ॥ पुन्नाम्नो
नरकाद्यस्मात्त्रायते पितर सुत. । .तस्मात्पुत्र इति प्रोक्त.
स्वयमेव स्वयम्भुना ॥ ५०१ ॥ यस्य भार्या गृहे नास्ति
साध्वी च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं
तथा गृहम् ॥ ५०२ ॥ भस्मना शुध्यते कास्यं ताम्रमम्लेन
शुध्यति । रजसा शुध्यते नारी नदी वेगेन शुध्यति ॥५०३॥
मा वन छिन्धि सव्याघ्र मा व्याघ्रा नीनशन् वनात् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ५०४ ॥
यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।

३९० सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

वैवस्वतस्तद्धरतेऽस्य सर्वं मोघ श्रमो भवति हि क्रोधनस्य ॥ ५०५ ॥ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ ५०६ ॥ भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या धर्मफलावाप्त्यै भार्या संतानहेतवे ॥ ५०७ ॥ ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा । तेषु साधुषु वस्तव्यं स वास. श्रेष्ठ उच्यते ॥ ५०८ ॥ वध्यन्ते न ह्यविश्वास्ता शत्रुभिर्दुर्बला अपि । विश्वास्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलै. ॥ ५०९ ॥ पुरत कृच्छ्रकालस्य धीमान् जागर्ति पूरुषः । स कृच्छ्रकालं संप्राप्य व्यथा नैवैति कर्हिचित् ॥ ५१० ॥ बन्धनानि खलु सन्ति बहूनि प्रेमरज्जु दृढबन्धनमुक्तम् । दारुभेदनिपुणोऽपि षडङ्घ्रिर्निष्क्रियो भवति पङ्कजकोशे ॥ ५११ ॥ यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते । स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत् ॥ ५१२ ॥ ब्राह्मणेपु च ये शूरा स्त्रीषु ज्ञातिषु गोषु च । वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५१३ ॥ यत्त सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । पुमांस्तत्रानुपालभ्यो दैवमन्तरितपौरुष. ॥ ५१४ ॥ पुष्पे गन्धं तिले तैलं काष्ठेऽग्नि पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकत. ॥ ५१५ ॥ मुखं पद्मदलाकार वाक्यं चन्दनशीतलम् । हृदय वह्निसदृश त्रिविधं धूर्तलक्षणम् ॥ ५१६ ॥ भार्या पति सप्रविश्य स यस्माज्जायते पुन । जायायास्तद्धि जायात्वं पौराणा. कवयो विदु. ॥ ५१७ ॥ पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । भ्राजते न सभामध्ये जारगर्भ इव स्त्रियाः ॥ ५१८ ॥ यस्य स्नेहो भय तस्य स्नेहो दु खस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥ ५१९ ॥ ब्राह्मणं ब्राह्मणो वेद भर्ता वेद श्रियं तथा । अमात्य नृपतिर्वेद राजा राजानमेव च ॥ ५२० ॥ यस्य स्त्रीषु गते शक्तिर्जीर्णशक्तिश्च भोजने । देहेऽधिकबला शक्तिस्तस्यारोग्यं प्रचक्षते ॥ ५२१ ॥ प्रकीर्णविषयारण्ये धावन्त विप्रमाथिनम् । ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥ ५२२ ॥ प्रकुप्यत्यप्रतीकार्ये क्षतेजस्ततचेतसाम् । शरणं मरण त्यक्त्वा किमिवान्यद्य- शोऽर्थिनाम् ॥ ५२३ ॥ सज्जमानमकार्येषु सुहृदो वार- यन्ति ये । सत्य ते नैव सुहृदो गुरवो गुरवो हि ते ॥ ५२४ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ५२५ ॥ प्राप्ते भार्ये परित्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्ट मित्रमित्यक्षरद्वयम् ॥ ५२६ ॥ सत्य वक्तुमशेषमस्ति सुलभा वाणी मनोहारिणी दातु दानवरं शरण्यममयं स्वच्छं पितृभ्यो जलम् । पूजार्थ परमेश्वरस्य विमलः स्वाध्याययज्ञ. पर शुद्ध्याद्यैः फलमूलमस्ति शमन क्लेशात्मकैः किं धनैः ॥ ५२७ ॥ फलतीह पूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्गता. । यस्य यदा विभवः स्यात्तस्य तदा दासता यान्ति ॥ ५२८ ॥ सर्वनाशे च सजाते प्राणानामपि सशये । अपि शत्रुं प्रणम्योच्चै रक्षेत्प्राणान्धनानि च ॥ ५२९ ॥ प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युते । पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥ ५३० ॥ सचये च विनाशान्ते भरणान्ते च जीविते । संयोगे च वियोगान्ते को नु विप्र- णयेन्मन. ॥ ५३१ ॥ प्राप्तविद्यार्थशिल्पाना देशान्तरनिवासि- नाम् । क्रोशमात्रोऽपि भूभाग. शतयोजनवद्भवेत् ॥ ५३२ ॥ सता मतमतिक्रम्य योऽसता वर्तते मते । कालेन व्यसन प्राप्य पश्चात्तापं स गच्छति ॥ ५३३ ॥ पृथिवी रत्नसम्पूर्णा हिरण्यं पशव. स्त्रिय । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ ५३४ ॥ व्यथयन्ति पर चेतो मनोरथ- शतैर्जना. । अनुष्ठानैर्विहीनाः स्यु कुलजा विधवा इव ॥ ५३५ ॥ बोद्धारो मत्सरग्रस्ता. प्रभव. स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ ५३६ ॥ प्रवृद्धमानास्तीक्ष्णेन नीचाः परयशोध्निना । अशक्तास्तत्पदं गन्तुमतो निन्दा प्रकुर्वते ॥ ५३७ ॥ फलं धर्मस्य विभवो विभवस्य फलं सुखम् । सुखमूलं तु तन्वङ्ग्यो विना ताभि. कुतः सुखम् ॥ ५३८ ॥ वणिगालोक्य निजे हृदि सोत्साहं परिचितग्रहीतारम् । हृष्यति तद्वन्लुब्धो यद्वत्पुत्रेण जातेन ॥ ५३९ ॥ बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिता । न कथंचिद्विलीयन्ते विद्वद्भिर्निश्चि- न्तिता नयाः ॥ ५४० ॥ श्यामा प्रिया केशव एव देवो मानो धनं मन्मथ एव धन्वी । वाणी सखी वारण एव यानं कालो वसन्तः कवितेव विद्या ॥ ५४१ ॥ बुभुक्षितः कि न करोति पाप क्षीणा नरा निष्करुणा भवन्ति । प्राणार्थमेते हि समाचरन्ति मतं सता यन्न मतं यदेषाम् ॥ ५४२ ॥ प्रायेण श्रीमता लोके भोक्तुं शक्तिर्न विद्यते । जीर्यन्त्यपि तु काष्ठानि दरिद्राणा महीपते ॥ ५४३ ॥ शत्रुशा योजयेच्छत्रुं बलिना बलवत्तरम् । स्वकार्याय यतो स्वात्काचित्पीडात्र तत्क्षये ॥ ५४४ ॥ प्रायः कन्दुकपातेनोत्पत्यत्यार्यः पतन्नपि । तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ ५४५ ॥ बहूनामप्यसाराणा समवायो बलावहः । तृणैरावेष्ट्यते रज्जुस्तया नागोऽपि बध्यते ॥ ५४६ ॥ वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रिय. । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥ ५४७ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य

संकीर्णप्रकरणम् ३९१

विघ्नविहता विरमन्ति मध्या । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥ ५४८ ॥ शक्याशक्यमविज्ञाय यस्त्वमाथ्ये प्रवर्तते । स केवलमवाप्नोति निजजीवितसंक्षयम् ॥ ५४९ ॥ प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रे पतितः प्रतिबुध्यते ॥ ५५० ॥ विप्रो वृक्षस्तस्य मूलं च संध्या वेदः शाखा धर्मकर्मादि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥५५१॥ शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्यमत्रादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्तमनसः परितापदुःखमापत्ससङ्गमसुलभं पुरुषा प्रयान्ति ॥ ५५२ ॥ विश्राम्यन्ति महात्मानो यत्र कल्पतगाविव । स श्लाघ्य जीवति श्रीमान्सत्सभोगफला श्रियः ॥ ५५३ ॥ सचिन्त्य सचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बुसिक्ता इव चर्मबन्धा सर्वे प्रयासाः शिथिलीभवन्ति ॥ ५५४ ॥ प्रविष्टः सर्वभूतानि यथा चरति मारुतः । चारेणैव चरेद्राजा स्मृतं तन्मारुतं व्रतम् ॥ ५५५ ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ५५६ ॥ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णता तथा । गरुडानिलयो शैघ्यमनुगच्छन्ति योषितः ॥ ५५७ ॥ व्यञ्जनं हन्ति वै पूर्वं चैव पयोधरौ । रतिरिष्टास्तथा लोकान्कन्याच पितर रजः ॥ ५५८ ॥ प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः । मज्जन्ति पापगुरवः शश्वं स्कन्नमिवोदके ॥ ५५९ ॥ सर्वेषामेव मर्त्याना व्यसने समुपस्थिते । वाङ्मात्रेणापि साहाय मित्रान्दन्यो न सन्दधे ॥ ५६० ॥ शठस्तु समयं प्राप्य नोपकार हि मन्यते । वर तमपकर्तारं दोषद्रुष्ट्वा न दूष्येत ॥ ५६१ ॥ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ ५६२ ॥ प्रयाति शमनं यस्य तेजस्तेजस्वितेजसा । वृथाजातेन किं तेन मातुर्यौवनहारिणा ॥ ५६३ ॥ साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥ ५६४ ॥ विकार याति नो चित्तं विचे यस्य कदाचन । मित्रं स्यात्सर्वकाले च कार्येन्मित्रमुत्तमम् ॥ ५६५ ॥ सामवादाः प्रकोषस्य शत्रोः प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५६६ ॥ विपुलमपि धनौघं प्राप्य भोगान्वियो वा पुरुष इह न शक्तः कर्महीनो हि भोक्तुम् । सुनिहितमपि चार्थ दैवतै रक्ष्यमाणं पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः ॥ ५६७ ॥ योऽभ्यर्थितः मद्गिरसज्जमानः करोत्यर्थं शक्तिमत्रापयित्वा । क्षिप्रं यशस्तं समुपैति सन्तमनुं प्रसन्ना हि सुम्वाय सन्तः ॥ ५६८ ॥

षण्णामात्मनि युक्तानामिन्द्रियाणा प्रमाथिनाम् । यो धीरो धारयेद्रश्मीन्स स्यात्परममार्यथः ॥ ५६९ ॥ वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणंक स्तस्य कुर्याद्वचनं प्रमाणम् ॥ ५७० ॥ सहायवन्धना ह्यर्था महायाश्चार्थबन्धनाः । अन्योन्यबन्धनावेतो विनान्योन्य न सिध्यत ॥ ५७१ ॥ वैराग्ये सच्र्गत्यंको नीतो भ्रमति चापरः । शृङ्गारे रमते कश्चिद्भुवि मेदा परस्परम् ॥ ५७२ ॥ हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः । पीडितोऽपि हि मेधावी न ता वाचमुदीरयेत् ॥ ५७३ ॥ विद्वद्भि सुहृदामत्र चिन्हैरैतैनिंसंशयम् । परीक्षाकरणं प्रोक्तं होमाग्नेरिव भूतले ॥५७४॥ सन्तोषस्त्रिषु कर्तव्यो स्वदार भोजने । त्रिषु चैव न कर्तव्योऽध्येन तपदानयोः ॥ ५७५ ॥ प्रसारितकरे मित्रे जगदुद्योतकारिणि । किं न कैरव लज्जा ते कुर्वतः कोशसंवृत्तिम् ॥ ५७६ ॥ यो यत्र सततं याति युद्धे चैव निरन्तरम् । स तत्र लघुता याति यदि शक्रसमो भवेत् ॥५७७॥ लब्धव्यमर्थ लभते मनुष्यो देवोऽपि तं वारयितु न शक्तः । अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति ॥ ५७८ ॥ ये च मूढतम। लोके ये च बुद्धेः पर गताः । त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥५७९॥ वर न राज्यं न कुराजराज्यं वर न मित्रं न कुमित्रमित्रम् । वर न शिष्यो न कुशिश्यशिष्यो वर न दारा न कुदारदाराः ॥ ५८० ॥ यो जित. पञ्चवर्गेण सहजेनात्मकर्षिणा । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ५८१ ॥ प्रालेयलेशमिश्रे मरुति प्रामातिके च वाति जडे । गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥ ५८२ ॥ प्राणत्यागे समुत्पन्ने यदा स्यान्मित्रदर्शनम् । तद्राभ्या सुखदं पश्चाजीवतोऽपि मृतस्य च ॥ ५८३ ॥ सङ्गः सत्सु विधीयता भगवतो भक्तिर्दृढाधीयता शान्त्यादिः परिचीयता दृढतर कर्माशु सत्यज्यताम् । सद्भिद्यो ह्युपसर्प्यता प्रतिदिनं तत्पादुका सेव्यता बह्मैकाक्षरमर्च्यता श्रुतिगिरोवाक्यं समाकर्ण्यताम् ॥ ५८४ ॥ विरहोऽपि सगमः खलु परस्पर सगतं मनो येषाम् । यदि हृदयं तु विघटितं समागमोऽपि विरहं विशेषयति ॥ ५८५ ॥ प्रणयमधुराः प्रेमोद्गाढा रसादलसास्तथा भणितिमधुरा मुग्धप्रायाः प्रकाशितसमदाः । प्रकृतिसुभगा विश्रम्भार्हाः खरोदयदायिनो रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ५८६ ॥ शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधारामं स्त्रीणा को वेद चेष्टितम् ॥ ५८७ ॥ यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूच्छितः कटुकान्याह

३९२ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्


किंचित्रियं सदा तं कुरुते जनो हि ॥ ५८८ ॥ प्रतीपं कुप्यमाणो हि नोत्तरेदुत्तरेन्नरः । बाध्यमानोऽनुकूलं तु नद्योघाद्वधसनावत्था ॥ ५८९ ॥ संप्राप्य पण्डितः कृच्छ्रं प्रज्ञामेवावगाहते । बालस्तु कृच्छ्रमासाद्य शिलेवाम्भसि मज्जति ॥ ५९० ॥ प्रणिपातेन हि गुरून्सतोऽनूचानचेष्टितैः । कुर्वीताभिमुखान्भूत्यै देवान्सुकृतकर्मणा ॥ ५९१ ॥ समानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाका- ङ्गेदवमानस्य सर्वदा ॥ ५९२ ॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ५९३ ॥ सर्वौषधीनाममृता प्रधाना सर्वेषु सौख्येष्बशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥ ५९४ ॥ राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥ ५९५ ॥ यो नायतूक्तं प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् । पापं च यो नेच्छति तस्य हन्तुस्तस्नेह देवाः स्पृहयन्ति नित्यम् ॥ ५९६ ॥ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः सन्विभाव्यते ॥ ५९७ ॥ वित्तं देहि गुणान्वितेषु मति- मन्नान्यत्र देहि क्वचित्प्रासं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा । जीवान्स्थावरजङ्गमांश्च सकलान्संजीव्य भूमण्डल भूयः पश्य तदेव कोटिगुणितं यच्छन्तमम्भोनिधिम् ॥५९८॥ प्रियमनुचितं क्षमापण्यस्त्रीक्षणप्रसुरीश्वरो रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः । नृपमपथगं पान्ति प्राणा- नुपेक्ष्य निजानपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥ ५९९ ॥ प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् । एवं विद्वांनविद्वाश्च ब्राह्मणो दैवतं परम् ॥ ६०० ॥ संसारश्रान्तचित्तानां तिस्रो विश्रान्तिभूमयः । अपत्यं च कलत्रं च सता संगतिरेव च ॥ ६०१ ॥ वाति गन्धः सुमनसां प्रतिवातं कथंचन । धर्मजस्तु मनुष्याणां वाति गन्धः समन्ततः ॥ ६०२ ॥ शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ ६०३ ॥ विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् । ऋजुर्मूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्याज्या ॥ ६०४ ॥ यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत् । अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥ ६०५ ॥ राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥ ६०६ ॥ प्राणवद्रक्षयेद्वृत्यान्खकाय- मिव पोषयेत् । सदैवैकदिवसस्यार्थे यत्र स्याद्रिपुसंगम. ॥ ६०७ ॥ तं शोकवेगाभिहतं व्याधि. स्पृशति दारुणः । तस्तात्मा सप्रमुह्येत न शोकात्परमुच्यते ॥६०८॥ सवर्धितोऽपि


भुजंगः पयसा न वश्यस्तत्पालकानपि निहन्ति बलेन सिंहः । दुष्ट. परैरुपकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः ॥ ६०९ ॥ विद्यार्थी सेवक. पान्थः क्षुधार्तो भयकातरः । भाण्डागी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ ६१० ॥ शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥ ६११ ॥ श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचारस्थिरता दया सुकुलता दाक्षिण्यवद्दारता । आयुष्मद्बहुपुत्रता खवशता सौजन्यवन्मित्रता श्रीशे भक्तिरती च यस्य स नरः स्यान्मान- वानन्दवान् ॥ ६१२ ॥ वयसः परिणामेऽपि यः खलः खल एव स. । सुपक्कमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥ ६१३ ॥ शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलं क्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ ६१४ ॥ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ ६१५ ॥ रुजन्ति हि शरीराणि रोगा. शरीरमानसा । सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ ६१६ ॥ भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । वस्तुग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ ६१७ ॥ रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तर- सौहृदानि ॥ ६१८ ॥ संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ६१९ ॥ शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः । अग्निभीता च या नारी त्रयः स्वर्ग न यान्ति हि ॥ ६२० ॥ विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः । अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ ६२१ ॥ रसायन- विदुश्चैव सप्रयुक्तंरसायना. । दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥ ६२२ ॥ योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते । शृणोति चानुकूलानि द्विषतां वशमेति सः ॥ ६२३ ॥ लक्ष्म्या लक्ष्मीवता लोके विकाशिन्या च किं तया । बन्धुमिश्च सुहृद्भिश्च विश्रब्धं या न भुज्यते ॥६२४॥ रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ ६२५ ॥ लक्ष्मी- र्धर्मश्च सतां कीर्तिश्चायुष्यवैभवम् । वर्धते दयया नित्यं राजन्यभूतदयां कुरु ॥ ६२६ ॥ प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्ब- भारस्य चिन्ताभि. ॥ ६२७ ॥ रम्या रामा यदि कुलवधू- स्त्यागभोगाय वित्तं वक्त्रे वाणी सरलकविता केशवे चित्त- वृत्तिः । सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसा

संकीर्णप्रकरणम् — ३९३

धिग्धिग्दूराद्दर्शनपथं सर्वमेकान्तदुर्गम् ॥ ६२८ ॥ पूर्णो-
पूर्णे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याकथस्य
कथनं प्रकृतिरियं स्यात्किरातानाम् ॥ ६२९ ॥ विवेकिन-
मनुप्राप्ता गुणा यान्ति मनोज्ञताम् । सुतरा रत्नमाभाति
चामीकरनियोजितम् ॥ ६३० ॥ पूर्णेन्दुमालोक्य यथा
प्रीतिमाज्ञापयते नरः । एवं यत्र प्रजाः सर्वा निर्वृतास्तच्छशी-
व्रतम् ॥ ६३१ ॥ सत्कृता ललिताश्चैव वैदेहि प्राकृता
स्त्रियः । दरिद्रमवमन्यन्ते भर्तार न तु सत्स्त्रियः ॥ ६३२ ॥
कश्चित्तरति काष्ठेन सुगम्भीरा महानदीम् । स तारयति
तत्काष्ठ स च काष्ठेन तार्यते ॥६३३॥ कुमुदान्येव शशाङ्कः
सविता बोधयति पङ्कजान्येव । वशिना हि परपरिग्रह-
संश्लेषपराङ्मुखी वृत्तिः ॥ ६३४ ॥ निर्गत्य न विशेद्भूयो
महता दन्तिदन्तवत् । कूर्मग्रीवेव नीचाना वच आयाति
याति च ॥६३५॥ बालिशस्तु नरो नित्य वैक्लव्यं योऽनुवर्तते ।
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ ६३६ ॥ कुपुत्रे
नास्ति विश्वासः कुभार्याया कुतो रतिः । कुराज्ये निर्वृति-
र्नास्ति कुदेशे नास्ति जीविका ॥६३७॥ जीवित च शरीरेण
जात्यैव सह जायते । उभे सह विवर्तेते उभे सह
विनश्यतः ॥६३८॥ प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः
सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा
माप्यगदाः सुसिद्धाः ॥६३९॥ बन्धनानि खलु सन्ति बहूनि
प्रेमरज्जु दृढबन्धनमुक्तम् । दारुभेदनिपुणोऽपि षडङ्घि-
र्निष्क्रियो भवति पङ्कजकोशे ॥६४०॥ भार्या हि परमो ह्यर्थः
पुरुषसेह पठ्यते । असहायस्य लोकेऽस्मिंल्लोकयात्रासहायिनी
॥ ६४१ ॥ कोशद्वंद्वमिय दधाति नलिनी कादम्बचञ्चुंक्षत
धत्ते चूतलता नव किसलय पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घकायास्तते चैलान्तेन
तिरोदधे स्तनतट बिम्बाधर पाणिना ॥ ६४२ ॥ जानाति
विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् ।
जानाति मात्रा च तथा क्षमा च तं तादृशं श्रीर्जुषते समग्रा
॥ ६४३ ॥ एकाग्रः स्याद्विवृत्तो नित्यं विवरदर्शकः ।
राजनित्यं सपत्नेषु नित्योध्वियः समाचरेत् ॥ ६४४ ॥ कर्म-
भूमिमिमा प्राप्य कर्तव्यं कर्म यच्छुभम् । अग्निवायुश्च
सोमश्च कर्मणा फलभागिनः ॥ ६४५ ॥ न किंचित्सहसा
कार्य कार्य कार्यविदा क्वचित् । क्रियते चेद्विविच्यैव तस्य
श्रेयः करस्थितम् ॥ ६४६ ॥ दातारो यदि कल्पशाखिभिरलं
यद्यर्थिनः किं तृणैर्नास्तिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः
किं फलम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति
प्रिया ससारे नसतीन्द्रजालमपर यद्यस्ति तेनापि किम्
॥ ६४७ ॥ एकान्ते सुखमास्यता परतरे चेतः समाधीयता
प्राणात्मा सुसमीक्ष्यता जगदिदं तद्बाधितं दृश्यताम् ।

प्राक्कर्म प्रविलोप्यता चितिबलात्प्राप्युत्तरे श्लिष्यता प्रारब्ध
त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥ ६४८ ॥ धूमा-
द्वाढमलीमसाच्छुचि पयः सूते घनसोद्गमो लोहस्यातिशितस्य
जातिरचलात्कुष्ठाश्ममालामयात् । किं चात्यन्तजडाज्जला-
द्युतिमतो ज्वालाध्वजसोद्भवो जन्मावध्यनुकारिणो न महता
सत्यं स्वभावाः क्वचित् ॥ ६४९ ॥ भूतानामपरः कश्चिद्वि-
साया सततोत्थितः । वञ्चनाया च लोकस्य स सुखेष्वेव
जीर्यते ॥ ६५० ॥ एकाभिप्रप्रभवमेव सहोदराणामुज्जृम्भते
जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत्कुरुपाण्डवाना
तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ ६५१ ॥ ते पिबन्तः
कषायाश्च सर्पीषि विविधानि च । दृश्यन्ते जरया भग्ना
नगा नागैरिवोत्तमैः ॥ ६५२ ॥ न कालस्य प्रियः कश्चिन्न
द्वेष्यः कुरुसत्तम । न मध्यस्थः क्वचित्कालः सर्व कालः
प्रकर्षति ॥ ६५३ ॥ एकाकिना न गन्तव्यं यदि कार्य-
शतान्यपि । कर्कटीजन्तुमात्रेण कालसर्पो निपातितः
॥ ६५४ ॥ न दानैः शुध्यते नारी नोपवासशतैरपि । न
तीर्थसेवया तद्वद्गङ्गेः पादोदकैर्र्यथा ॥ ६५५ ॥ भेषज्यमेत-
दुःखस्य यदेतन्नानुचिन्तयेत् । चिन्त्यमान हि न व्येति
भूयश्चापि प्रवर्धते ॥ ६५६ ॥ न दिष्टमप्यतिक्रान्तुं शक्यं
भूतेन केनचित् । दिष्टमेव ध्रुवं मन्ये पौरुष तु निरर्थकम्
॥ ६५७ ॥ भिषजो भेषजं कर्तु कस्मादिच्छन्ति रोगिणाम् ।
यदि कालेन पच्यन्ते भेषजै कि प्रयोजनम् ॥ ६५८ ॥
भार्या यस्य गृहे नित्यमतीव परिगर्विता । तस्य लक्ष्मीः
क्षयं याति कृष्णपक्षे यथा शशी ॥ ६५९ ॥ न कर्मणा
लभ्यते नेज्यया वा नाप्यस्ति दाता पुरुषस्य कश्चित् ।
पर्याययोगाद्विहितं विधात्रा कालेन सर्व लभते मनुष्यः
॥ ६६० ॥ भोक्तु पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
व्यवसाय सदैवेच्छेन्नहि क्लीबवदाचरेत् ॥६६१॥ धूमायन्ते
व्यपेतानि ज्वलन्ति सहितानि च । धृतराष्ट्रोल्मुकानीव
ज्ञातयो भरतर्षभ ॥ ६६२ ॥ कुर्मः किल्विषमेतदेव हृदये
कृत्वेति कौतूहलात्स्वैरैण्यः क्षितिपाश्च धिक्चपलता क्रौर्ये
च कुर्युः सकृत् । पापाक्रान्तधियो भवन्त्यथ यथा नान्त्या-
न्स्पृशन्त्योऽपि ता दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोऽपि
शान्तत्रपाः ॥ ६६३ ॥ दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं
भयाद्भयम् । मृतेभ्यः प्रसृतं यान्ति दरिद्राः पापकारिणः
॥ ६६४ ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ६६५ ॥ जल-
रेखा खलप्रीतिरर्धवारिघटस्यथा । शिरसा धार्यमाणोऽपि
खलः खलखलायते ॥ ६६६ ॥ जीवन्तं मृतवन्मन्ये देहिन
धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः
॥ ६६७ ॥ न वाचा दुर्गमः पारः कार्याणा राक्षसाधम ।


^१ वणिजाम्
^५० सु. र भा.

३९४ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ ६६८ ॥
नयेन जाग्रत्यनिशं नरेश्वरे सुखं स्वपन्तीह निरामयाः प्रजा ।
प्रमत्तचित्ते स्वपतीह सन्नमात्रजागरेणास्य जगत्प्रबुध्यते ॥ ६६९ ॥
चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो ।
बिन्दुनेनाविका चिता चितात्यल्पा हि भूतले ॥ ६७० ॥
न कुल वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ६७१ ॥
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयेत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ६७२ ॥
न सा प्रीतिर्दिविस्वस्य सर्वकामानुपाश्नतः ।
सभवेद्वा परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ६७३ ॥
तीर्थस्थितः स्वकुलजास्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिरुपैत्य वनान्तवासी । व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्रान्युपर्युपरि वञ्चनवञ्चनायाम् ॥ ६७४ ॥
एतल्लब्धमिदं च लब्धमधिकं तन्मूललब्धं ततो लभ्यं चापरमित्यनारतमहो लब्ध्यं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात्सर्वग्रासमियं ग्रसिष्यति महामोहन्धकारावृतम् ॥ ६७५ ॥
पूर्वं समानता यत्र पश्चाच्चैव विमानना । जह्यात्तत्सत्त्ववान्स्थानं शत्रोः समानितोऽपि सन् ॥ ६७६ ॥
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभ्यते सर्वं धर्मसारमिदं जगत् ॥ ६७७ ॥
न वैगुण्यमभिजानान्ति गुणान्पश्यन्ति नागुणान् । विरोधं नाविगच्छन्ति ये त उत्तमपूरुषाः ॥ ६७८ ॥
क्षीणे रविरवति शशी वृद्धौ च वर्धयति पयसा नाथम् । अन्ये विपदि सहाया धनिना श्रियमनुभवन्त्यन्ये ॥६७९॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् । कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥ ६८० ॥
किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६८१ ॥
नहि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्यवशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥ ६८२ ॥
तीक्ष्णोपायप्रान्तगम्योऽपि योऽर्थस्तस्याप्याढौ संश्रय साधुयुक्तः ।
उतुङ्गाग्रः सारभूतो वनानां सालोऽभ्यर्च्य छिद्यते पादपेन्द्रः ॥ ६८३ ॥
नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।
आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ ६८४ ॥
पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ ६८५ ॥
धर्मस्थाने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ ६८६ ॥
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते । स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ ६८७ ॥
न खे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः । दत्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ ६८८ ॥
तिलार्धं स्वीयभागश्च निःसारं बदरीफलम् । आहारातपरतः श्रेयो धूलिः परगृहादपि ॥ ६८९ ॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारमिच्छतः ॥ ६९० ॥
न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्टमभिहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ६९१ ॥
दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ ६९२ ॥
किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः । पश्याग्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥
धार्मीत्मन शुभैर्वृत्तैः क्रतुमिश्चाप्तदक्षिणेः । धूतपापा गताः स्वर्गं पितामहनिषेवितम् ॥ ६९४ ॥
न विश्वामाजातु परस्य गेहे गन्धेन्नशयेतानो विकाले । न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत ॥ ६९५ ॥
बध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु बध्यन्ते चलवन्तोऽपि दुर्बलैः ॥ ६९६ ॥
न वैरमुद्दीपयति प्रशान्तं न दुर्मारोहति चास्ति मेति । न दुर्गंतोऽस्मीति करोत्यकार्यं तमार्थ्यशील परमाहुरार्याः ॥ ६९७ ॥
काले मृदुर्यो भवति काले भवति दारुणः । प्रमाधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥ ६९८ ॥
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ ६९९ ॥
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ७०० ॥
मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ॥ ७०१ ॥
न स्पृष्टत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् । अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥ ७०२ ॥
कोशमूलो हि राजेति प्रवादः सार्वलौकिकः । एतत्स्र्वं जहातीह कोशव्यसनवान्नृपः ॥ ७०३ ॥
कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति । कालेन पद्मोत्पलवज्जल च कालेन पुष्यन्ति नगा वनेषु ॥ ७०४ ॥
त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः । अनाख्यातं न ते किंचिन्नाथ केनोपमीयसे ॥७०५॥
क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्ता जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्त श्रीमन्तः पान्तु पृथ्वी प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥ ७०६ ॥

इति श्रीसुभाषितरत्नभाण्डागारे सप्तमं संकीर्णप्रकरणम् ॥

समाप्तोऽयं ग्रन्थः

सुभाषितरत्नखण्डमञ्जूषा

अकाण्डपातोपनता न कं लक्ष्मीर्विमोहयेत् । (कै० स०)अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । (शि० व०)
अकालमेघवद्वृत्तमकस्मादेति याति च । (क० स०)
अकृत्यं मन्यते कृत्यम् । (प० त०)अनवसरे याचितमिति सत्पात्रमपि कुप्यते दाता ।
अक्षोभ्यतैव महतां महत्त्वस्य हि लक्षणम् । (क० स०)अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् । (क०स०)
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ।अनार्यं परदारव्यवहारः । (अ० शा०)
अगम्यं मन्यते सुगम् ।अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः । (क० स०)
अगाधजलसंचारी न गर्वं याति रोहितः । (प० त०)अनार्यसङ्गमाद्दूरं विरोधोऽपि समं महात्मभिः । (कि० उ०)
अगुणस्य हतं रूपम् ।अनाश्रया न शोभन्ते पण्डिता वनिता लताः ।
अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ।अनियुक्तोऽपि च ब्रूयाद्यदोच्छेत्स्वामिनो हितम् । (क० स०)
अङ्गीकृतं सुकृतिनः परिपालयन्ति ।अनिर्वर्णनीयं परकलत्रम् । (अ० शा०)
अचिन्त्य शीलवृत्तानां चरितं कुलयोषिताम् । (क० स०)अनिश्चितावधि धीरा सहन्ते विरहं चिरम् । (क० स०)
अचिन्त्यं हि फलं सूते सद्यः सुकृतपादपः । (क० स०)अनुक्तेऽपि कलत्रे नीचः परदारलम्पटो भवति ।
अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः । (क० स०)अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् । (क० स०)
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ।अनुत्सेकः खलु विक्रमालङ्कारः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् । (प० त०)अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् । (अ० शा०)
अजानतो हठात्कुर्वन्नाज्ञमानी विनश्यति । (क० स०)अनुरागपरायत्ताः कुर्वते किं न योषितः । (क० स०)
अजीर्णे भोजनं विषमन् । (हि०)अनुरागान्धमनसां विचारः सहसा कुतः । (क० स०)
अज्ञता कस्य नामेह नोपहासाय जायते । (क० स०)अनुसृत्य सतां वर्त्म यत्स्वल्पमपि तद्बहु ।
अज्ञानामृतचेतसामतिरुषा कोऽर्थस्थिरश्चा गुणे. ।अनुहुंकुरुते घनध्वनिं नहि गोमायुरुतानि केसरी । (शि० व०)
अतर्क्या कुट्टनी कूटरचना हि विधेरपि । (क० स०)अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् । (क० स०)
अतिदानाद्बलिर्बद्धः । (भाग०)अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । (प० त०)
अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।अन्त सारविहीनानामुपदेशो न विद्यते ।
अतिभुक्तिरतीवोक्तिः सद्यः प्राणापहारिणी ।अन्धस्य दीपो बधिरस्य गीतम् ।
अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके । (प० त०)अन्यस्माल्लब्धपदो नीचः श्रयेण दुःसहो भवति ।
अति सर्वत्र वर्जयेत् । (प० त०)अन्यायं कुरुते यदा क्षितिपतिः कस्तं निरोद्धुं क्षमः ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । (प० त०)अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः । (र० व०)अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः । (र० व०)
अत्युच्चैर्भवति लघीयसा हि धाष्टर्यम् । (शि० व०)अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।
अथास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ।अपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ।
अदाता वंशदोषेण ।अपायो हस्तकस्थो हि विषयग्रस्तचेतसाम् । (क० स०)
अधरेऽवमृतं हि योषितां हृदि हालाहलमेव केवलम् ।अपां हि तृप्ताय न वारिधारा, स्वादु सुगन्धिः स्वदते तुषारा । (नै० च०)
अधर्मयुद्धेन जयं को हीच्छेत्क्षत्रियो भवन् । (क० स०)अपि गङ्गाजलस्नानादधः केशः कुशायते ।
अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् । (क० स०)अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् । (मा० मा०)
अधिकस्याधिकं फलम् ।अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ।
अनध्वा वाजिनां जरा । (प० त०)अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा । (कु० स०)अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः । (र० व०)
अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता ।
अनपायिनि संश्रयद्रुमे गजभङ्गे पतनाय वल्लरी । (कु०स०)

१ एतत्सांकेतिकचिह्नानां विवरणं 'सांकेतिकचिह्नपरिचयात्' अवसेयम् ।
1 सु० र० भा०

सुभाषितरत्नभाण्डागारम्


[स्तम्भः १]

अपुत्रस्य गृहं शून्यम् ।
अपृष्टोऽपि हितं ब्रूयात् यस्य नेच्छेत् पराभवम् ।
अपेक्षन्ते हि विपदः किं पेलवमपेलवम् । (क० स०)
अप्यप्रसिद्धं यशसे हि पुसामनन्यसाधारणमेव कर्म । (कु० स०)
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियाः लभते ।
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः । (क० स०)
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः । (प० त०)
अबला यत्र प्रबला ।
अबुद्ध्वा चित्तमप्राप्य विश्रम्भं प्रभविष्णुषु । (क० स०)
अभक्ष्यं मन्यते भक्ष्यम् ।
अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।
अमितसमयोऽपि मार्दवं भजते कैव कथा शरीरिषु । (र० व०)
अभोगस्य हतं धनम् । (प० त०)
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे । (कु० स०)
अभ्यागतो यत्र न तत्र लक्ष्मीः ।
अमर्षेण शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्नः । (र० व०)
अमृतं क्षीरभोजनम् ।
अमृतं प्रियदर्शनम् ।
अमृतं राजसम्मानम् ।
अमृतं शिशिरे वह्निः ।
अमृतायते हि स्तुतयः सुकर्मणाम् । (कि० अ०)
अमोघो देवतानां च प्रसादः किं न साधयेत् । (क० स०)
अम्बुगर्भा हि जीमूतश्चातकैरभिनन्द्यते । (र० व०)
अयमश्वः पताकेयमथवा वीरघोषणम् ।
अयशोभीरवः किं न कुर्वते बत साधवः । (क० स०)
अयाच्यो नार्तानामनुपकरणीयो न महताम् ।
अयातपूर्वां परिवादगोचरं सतां हि वाणी गुणमेव भाषते । (कि० अ०)
अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
अयोविकारे स्वरितत्वमिष्यते कुतोऽयमा सिद्धरसस्पृशामपि । (नै० च०)
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिसन्दूषणानि । (कि० अ०)
अरंतुदत्वं महता ह्यगोचरः । (कि० अ०)
अर्थभारवती वाणी भजते कामपि श्रियम् ।
अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । (च० प०)
अर्थार्थी जीवलोकोऽयं । (प० त०)
अर्थातुराणां न गुरुर्न बन्धुः ।


[स्तम्भः २]

अर्थिनि जने त्यागं विना श्रीश्च का ।
अर्थेन बलवान् सर्वः । (प० त०)
अर्थो हि कन्या परकीय एव । (अ० शा०)
अर्धमात्रालाघवेनापि पुत्रोत्सवं मन्यन्ते वैयाकरणाः ।
अर्धो घटो घोषमुपैति नूनम् ।
अलब्धशाणोल्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ।
अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् । (कु० स०)
अल्पबीजं हतं क्षेत्रम् ।
अल्पविद्यो महागर्वी ।
अल्पश्च कालो बहवश्च विघ्नाः ।
अल्पसत्त्वेषु धीराणामवज्ञैव हि शोभते । (क० स०)
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् । (र० व०)
अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
अल्पीयसोऽप्यायतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः । (कि० अ०)
अवसाययितुं क्षमा सुखं न विधेयेषु विशेषसपदः । (कि० अ०)
अवस्तुनि कृतक्लेशो मूर्खो यात्यवहास्यताम् । (क० स०)
अविचार्य प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः । (क० स०)
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः । (कि० अ०)
अविद्याजीवनं शून्यम् ।
अविनीता रिपुर्भार्या ।
अविश्रमो लोकतन्त्राधिकारः । (अ० शा०)
अव्यवस्थितचित्तस्य प्रसादोऽपि भयकरः । (भर्तृ०)
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् । (र० व०)
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । (प० त०)
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः । (कु० स०)
अशीलः कस्य नाम स्यान्न खलीकारकणम् । (क० स०)
अश्लीलं कस्य भूतये । (क० स०)
अश्लीलस्य हतं कुलम् ।
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता । (कु० स०)
अश्नुते स हि कल्याणं व्यसने यो न मुह्यति । (क० स०)
अश्रेयसे न वा कस्य विश्वासो दुर्जने जने । (क० स०)
अश्वं श्लक्ष्णं शास्त्रं वीणा वाणी नरश्च नारी च । (प० त०)
अश्वा यस्य जयस्तस्य । (चा० नी०)
अश्वा यस्य यशस्तस्य ।
असंतुष्टा द्विजा नष्टाः । (प० त०)
असन्मैत्री हि दोषाय कूलच्छायेव सेविता । (कि० अ०)
असभाष्या अपि नृणां भवन्तीह समागमाः । (क० म०)

सुभाषितरत्नखण्डमञ्जूषा ३


असंभोगो जरा स्त्रीणाम् । असता सङ्गदोषेण साधवो यान्ति विक्रियाम् । असाध्यं सत्यसाध्वीना किमस्ति हि जगत्त्रये । (क० स०) असाध्यं साधयत्यर्थं हेलयाभिमुखो विधिः । (क० स०) असारे दग्धसंसारे सार सारङ्गलोचनाः । असारोऽस्मिन्भवे तावद्भावा पर्यन्तनीरसा । (क० स०) असिद्धार्था निवर्तन्ते न हि धीरा कृतोद्यमा । (क० स०) असिद्धेस्तु हता विद्या । अस्थाने पतिता सतीव महतामेतादृशी स्याद्गति । अस्थिर जीवित लोके । (हि०) अस्थिराः पुत्रदाराश्च । (हि०) अस्थिरे धनयौवने । (हि०) अस्वर्ग्यं लोकविद्विष्टम् । अहह कलिकाल प्रभवति । अहह कष्टमपण्डितता विधे । (भर्तृ०) अहह महता निःसीमानश्चरित्रविभूतयः । (भर्तृ०) अहितो देहजो व्याधि । अहो अतीव भोगाशा कं नाम न विडम्बयेत् । (क० स०) अहो चित्राकारा नियतिरिब नीतिर्नयविद् । अहो दुरन्ता बलवद्विरोधिता । (कि० अ०) अहो दैवाभिशस्ताना प्राप्तोऽप्यर्थं पलायते । (क० स०) अहो नवनवाश्चर्येनिर्माणे रसिको विधिः । (क० स०) अहो रूपमहो ध्वनिः । (हि०) अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणाम् । (क० स०) अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । (क० स०) अहो विनेन्द्रजालेन स्त्रीणा चेष्टा न विद्यते । (क० स०) अहो विश्वास्य वञ्च्यन्ते धूर्तैश्छद्मभिरीश्वरा । (क० स०) अहो सहन्ते बत नो परोदयम् । आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया । आकरः स्वपरभूरिकथाना प्रायशो हि सुहृदो. सहवास. (नै० च०) आकृष्ट. कामलोभाभ्यामपाय. को हि पश्यति। (क० स०) आचार प्रथमो धर्म. । (म० स्मृ०) आज्ञा गुरूणा ह्यविचारणीया । (र० व०) आत्मबुद्धि. सुखायैव । आत्मार्थे पृथिवी त्यजेत् । (प० त०) आत्मेश्वराणा नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति । (कु० स०) आदानं हि विसर्गाय सता वारिमुचामिव । (र० व०) आदावसत्यवचन पश्चाज्जाता हि कुत्स्यिय. । (क० स०) आदौ साम प्रयोक्तव्यम् । (प० त०) आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः । (क० स०) आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् । (प० त०) आपत्सु धीरान्पुरुषान्व्स्वयमायान्ति सम्पद । (क० स०)


आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । (प० त०) आपदि येनापकृतं येन च हसित दशासु विषमेषु । (प० त०) आपदि स्फुरति प्रज्ञा यस्य धीर स एव हि । (क० स०) आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् । (कि० अ०) आपद्यपि त्याज्य न सत्त्व संपदेषिभि । (क० स०) आपद्यपि सतीवृत्त कि मुञ्चन्ति कुलस्त्रिय. । (क० स०) आपन्नत्राणविकले किं प्राणै. पौरुषेण वा । (क० स०) आपन्नस्य विषयवासिन आर्तिहरेण राज्ञा भवितव्यम् । (अ० शा०) आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् । (मे० दू०) आपो वहन्तीह हि लोकयात्रा यथा न भूतानि तथापराणि । (नै० च०) आमुखापाति कल्याणं कार्यसिद्धिं हि शसति । (क० स०) आये दु खं व्यये दु ख धिगर्था. कष्टसश्रया । (प० त०) आरब्धा ह्यसमाप्तैव कि धीरैस्त्यज्यते क्रिया । (क० स०) आरब्धे हि सुदुष्करेऽपि महता मध्ये विराम कुत. । (क० स०) आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । (प० त०) आर्जवं हि कुटिलेषु न नीति । (नै० च०) आलस्योपहता विद्या । (हि०) आवेष्टितो महासर्पैश्चन्दन किं विधायते । आशाबन्ध कुसुमसदृशं प्रायशो ह्यङ्गनाना सद्य पाति प्रणयि हृदयं विप्रयोगे रुणद्धि । (मे० दू०) आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तव. । (क० स०) आश्वस्तो वेत्ति कुसृतिं प्रभु. को हि स्वमन्त्रिणाम् । (क० स०) आसुर कुलमनादरणीयम् । आहारे व्यवहारे च त्यक्तलज्ज. सुखी भवेत् । आहु ससपदी मैत्री । आह्वता हि विषयैकतानतां ज्ञानधौतमनस न लिम्पति । (नै० च०) इच्छादानपरोपकारकरण पात्रानुरूप फलम् । इतो भ्रष्टस्ततो भ्रष्ट. । इदं च नास्ति न परं च लभ्यते । इन्द्रोऽपि लघुता याति स्वयं प्रख्यापितैर्गुणै. । (प० त०) इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् । (शि० व०) इष्टं धर्मेण योजयेत् । (प० त०) इष्टप्रवासजनितान्यबलाजनस्य दु.खानि नूनमतिमात्रासुदु सहानि । (अ० शा०) इष्टमूलानि शोकानि । इहामुत्र च नारीणां परमा हि गति पतिः । (क० स०) ईर्ष्या हि विवेकपरिपन्थिनी । (क० स०)