तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
अथोपमानपरिच्छेदः
उपमानलक्षणं किम् ?— उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः, तत्करणं सादृश्यज्ञानम् । तथाहि—कश्चिद् गवयपदार्थमजानन् कुत- श्चिदारण्यकपुरुषात् 'गोसदृशो गवय' इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति, तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते । । इत्युपमानपरिच्छेदः । पदकृत्यम् अवसरसङ्गतिमाभप्रेत्यानुमानान्तरमुपमानं निरूपयति—उपमितीति । उपमितेः करणमुपमानमित्यर्थः । कुठारादिवारणाय १मितीति । प्रत्यक्षादि- वारणाय उपेति । संज्ञासंज्ञीति । अनुमित्यादिवारणाय सम्बन्धेति । संयोगा- दिवारणाय संज्ञासंज्ञीति । असौ गवयशब्दवाच्य इति २अभिप्रेतो गवयो गवयपदवाच्य इत्यर्थः । तेन गवयान्तरे शक्तिग्रहाभावप्रसङ्ग इति दूषणम- पास्तम् । तथा च गोसादृश्यविशिष्टपिण्डज्ञानं करणम् । ३अतिदेशवाक्यार्थ- स्मरणमवान्तरव्यापारः । उपमितिः फलमिति सारम् । तच्चोपमानं त्रिविधं – सादृश्यविशिष्टपिण्डज्ञानमसाधारणधर्मविशिष्ट- पिण्डज्ञानं वैधर्म्यविशिष्टपिण्डज्ञानं च । तत्राद्यमुक्तमेव । द्वितीयं यथा— ४खड्गमृगः कीदृगिति पृष्टे नासिकाल्सदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्चेति तज्ज्ञातृभ्यः श्रुत्वा कालान्तरे तादृशं पिण्डं पश्यन्नतिदेशवाक्यार्थं स्मरति, तदनन्तरं खड्गमृगः खड्गपदवाच्य इत्युपमितिरुत्पद्यते । अत्र नासिकाल्सदे- कशृङ्ग एवासाधारणधर्मः । तृतीयं यथा—उष्ट्रः कीदृगिति पृष्टे अश्वादिवन्न समानपृष्ठो न ह्रस्वग्रीवशरीरश्चेति आप्तोक्ते कालान्तरे तत्पिण्डज्ञानं, ततोऽतिदेशवाक्यार्थस्मरणं, तत उष्ट्र उष्ट्रपदवाच्य इत्युपमितिरुत्पद्यते । । इति पदकृत्ये उपमानपरिच्छेदः । हिन्दी १. उपमानलक्षणमें ज्ञानार्थक 'मिति'पद न हो तो छिदादिक्रियाके करण कुठारादिमें अतिव्याप्ति होने लगेगी । एवं 'उप' यह उपसर्गपद न दिया जाय तो मिति = ज्ञानके करण प्रत्यक्ष-अनुमान और शब्द प्रमाणोंमें उपमानलक्षणकी अतिव्याप्ति होने लगेगी । २. 'असौ' पदसे गवयसामान्य अभिप्रेत है । अर्थात् गवयमात्रमें गवयपदवाच्यताका ग्रह होनेसे गवयान्तरमें शक्तिग्रह नहीं हो सकेगा यह दूषण नहीं आ सकता है । ३. "गोसदृशो गवयो भवति" यही अतिदेश वाक्य है । ४. खड्गमृगः = गैंडा । । इति तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यामुपमानपरिच्छेदः । ❖❖❖
अथ शब्दपरिच्छेदः शब्दप्रमाणस्य किं स्वरूपम् ?— आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः, यथा-गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः । पदकृत्यम् अवसरसङ्गतिमाभप्रेत्योपमानान्तरं शब्दं निरूपयति—आप्तेति । शब्द इति । शब्दप्रमाणमित्यर्थः । भ्रान्तविप्रलम्भकयोर्वाक्यस्य शब्दप्रमाणत्व- वारणाय आप्तेति । ननु कोऽयमाप्त इत्यत आह—आप्तस्त्विति । यथार्थ- वक्ता = यथाभूताबाधितार्थोपदेष्टा । वाक्यं लक्षयति—वाक्यमिति । घटादि- समूहवारणाय पदेति । शक्तमिति । निरूपक^१तासम्बन्धेन शक्तिविशिष्ट- मित्यर्थः । अस्मादिति । घटपदाद्घटरूपोऽर्थो बोद्धव्य इतीश्वरेच्छैव शक्ति- रित्यर्थः । ^२अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्वं तल्लक्षणम् । शक्तिरिव लक्षणापि पदवृत्तिः । अथ केयं लक्षणा ? शक्यसम्बन्धो लक्षणा । सा च त्रिधा— ^३जहत्-अजहत्-जहदजहद्भेदात् । वर्तते च गङ्गायां घोष इत्यत्र गङ्गापद- हिन्दी १. “अस्मात् पदादयमर्थो बोद्धव्यः” इस सङ्केतके अनुसार ईश्वरेच्छानिरूपित- पदजन्यबोधविषयतारूपा शक्ति स्वरूपसम्बन्धसे अर्थमें रहती है, किन्तु वही शक्ति (उक्त विषयता) परम्पराया निरूपकतासम्बन्धसे पदमें रहती है। इसी अभिप्रायसे “शक्तम्” का अर्थ निरूपकतासम्बन्धसे ‘शक्तिविशिष्टम्’ ऐसा किया । २. शाब्दबोधमें उपयोगी पदार्थस्मृति होती है और पदार्थस्मृतिके अनुकूल जो पद और अर्थका सम्बन्ध है, वही शक्ति और लक्षणारूप पदवृत्ति है । क्योंकि शक्तिके समान लक्षणा भी पदवृत्ति है। ३. जहल्लक्षणाका उदाहरण-“गङ्गायां घोषः” है। क्योंकि यहाँ पूर्णरूपसे शक्यार्थ-प्रवाहका परित्याग हो जाता है और तीरका बोध होता है । अजहल्लक्षणाका उदाहरण है—“छत्राणि यान्ति”। क्योंकि छत्रशब्दसे छत्रसहित छत्रधारी व्यक्तियोंका बोध होता है । जहदजहल्लक्षणाका उदाहरण है—“सोऽयमश्वः”। यहाँ “सः” पदका शक्यार्थ है—तद्देशवृत्तित्वविशिष्ट अश्वव्यक्ति । इसमें तद्देशवृत्तित्वांशका परित्याग कर तथा व्यक्त्यंशका अपरित्योग कर एतद्देशवृत्ति अश्वका बोध होता है । “तत्त्वमसि” यह यह महावाक्य भी इसका उदाहरण है ।
१७४ तर्कसंग्रहः [ शब्दपरिच्छेदः वाक्यार्थज्ञाने के हेतवः ?— आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सन्निधिः । तथा च आकाङ्क्षादिरहितं वाक्यमप्रमाणम् । यथा-गौरश्वः पुरुषो पदकृत्यम् शक्यप्रवाहसम्बन्धस्तीरे । लक्षणाबीजं च तात्पर्यानुपपत्तिः । अतएव प्रवाहे घोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति । छत्राणि यान्तीत्यादौ द्वितीया । सोऽयमश्व इत्यादौ तृतीया । १असम्भववारणाय पदान्तरव्यतिरेकप्रयुक्तेति । पुनरसम्भववारणाय पदान्तरेति । अर्थेति । २आकाङ्क्षावारणाय अर्थेति । पदानामिति । असहो- च्चारितेष्वतिव्याप्तिवारणाय अविलम्बेनेति । ३आकाङ्क्षावारणाय पदाना- मिति । आकाङ्क्षादिशून्यवाक्यस्यात्र प्रमाणत्वं निषेधति—तथा चेति । आकाङ्क्षादिकं शाब्दहेतुरित्युक्ते चेत्यर्थः । अनाकाङ्क्षायुदाहरणं दर्शयति—यथेति । हिन्दी १. एक पदद्वारा दूसरे पदके अभावके कारण अन्वयबोध न करा सकना आकाङ्क्षा है । जैसे, 'गोः' पद 'गच्छति'-पदके बिना तथा 'गच्छति' पद 'गोः' पदके बिना शाब्दबोध नहीं कराता है, अतः इन दोनोंमें परस्पर आकाङ्क्षा है । आकाङ्क्षाके लक्षणमें “पदान्तरव्यतिरेकप्रयुक्त” यह अंश न दिया जाय तो लक्षणका असंभव हो जायगा । क्योंकि पदान्तरका सहयोग पाकर सभी पद अन्वयके अनुभावक ही होते हैं अननुभावक नहीं होते । अतः उक्त अंश देना आवश्यक है । एवं व्यतिरेकप्रयुक्त.... इत्यादि कहा जाय किन्तु “पदान्तर” यह अंश न दिया जाय तो भी असंभव-दोष होगा । क्योंकि पदान्तरका सहयोग रहनेपर भी किसी न किसी वस्तुका व्यतिरेक रहता ही है, ऐसी स्थितिमें भी वह पद अनुभावक ही होता है, अननुभावक नहीं । इसप्रकार अननुभावकत्व नहीं होनेसे असंभव हो जायगा । अतः “पदान्तर” इस पदका भी निवेश आवश्यक है । २. अर्थपद न दिया जाय तो किसके अबाधको योग्यता कहेंगे ? अतः ऐसी आकाङ्क्षाके निवारणके लिये अर्थपद दिया । ३ पूर्ववत् आकाङ्क्षानिवृत्तिके लिये 'पदानाम्' ऐसा कहा । अन्यथा किसका अविलम्बेन उच्चारण विवक्षित है ? ऐसी आकाङ्क्षा बनी ही रह जायगी । । इति श्रीकेदारनाथत्रिपाठिकृतायां तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यां शब्दपरिच्छेदः ।
सहिन्दीपदकृत्यसहितः १७५ हस्तीति न प्रमाणम्—आकाङ्क्षाविरहात् । वह्निना सिञ्चतीति न प्रमाणम्—योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामा- नयेत्यादिपदानि न प्रमाणम्—सान्निध्याभावात् । वाक्यं कतिविधम् ? — वाक्यं द्विविधम्—वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्स- र्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् । शाब्दज्ञानं किम् ? — वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं तु शब्दः । । इति शब्दपरिच्छेदः । पदकृत्यम् नन्वेतावता शाब्दसामग्री प्रपञ्चिता । प्रमाविभाजकवाक्ये शब्दस्याप्यु- द्दिष्टत्वेन तत्कुतो न प्रदर्शितमित्यत आह - वाक्यार्थेति । शाब्दत्वं च शब्दात्प्रत्येमीत्यनुभवसिद्धा जातिः । शाब्दबोधक्रमो यथा—चैत्रो ग्रामं गच्छतीत्यत्र ग्रामकर्मकगमनानुकूलवर्तमानकृतिमांश्चैत्र इति शाब्दबोधः । द्वितीयायाः कर्मत्वमर्थः, धातोर्गमनम् । अनुकूलत्वं च संसर्गमर्यादया भासते । लटो वर्तमानत्वम्, आख्यातस्य कृतिः । तत्सम्बन्धः संसर्गमर्यादया भासते । रथो गच्छतीत्यत्र गमनानुकूलव्यापारवान् रथः इति शाब्दबोधः । स्नात्वा गच्छतीत्यत्र गमनप्रागभावावच्छिन्नकालीनस्नानकर्ता गमनानुकूल- वर्तमानकृतिमानिति शाब्दबोधः । क्त्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वं चार्थः । एवमन्यत्रापि वाक्यार्थो बोध्यः । । इति पदकृत्ये शब्दपरिच्छेदः ।
अथावशिष्टपरिच्छेदः अयथार्थानुभवस्य कति भेदाः ?— अयथार्थानुभवस्त्रिविधः—संशयविपर्ययतर्कभेदात् । संशयस्य किं लक्षणम् ? – एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः । यथा—स्थाणुर्वा पुरुषो वेति । विपर्ययः कः ? — मिथ्याज्ञानं विपर्ययः । यथा—'शुक्तौ रजतम्' इति । तर्कस्य किं स्वरूपम् ? — व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा—यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति । पदकृत्यम् अयथार्थानुभवं विभजते—अयथार्थेति । संशयं लक्षयति—एकस्मिन्निति । एकस्मिन्धर्मिणि=एकस्मिन्नेव पुरोवर्तिनि पदार्थे, विरुद्धाः = व्यधिकरणा ये नानाधर्माः स्थाणुत्वपुरुषत्वादयस्तेषां वैशिष्ट्यं सम्बन्धः, तदवगाहि ज्ञानं संशय इत्यर्थः । घटपटाविति समूहा- लम्बनज्ञानस्य घटत्वपटत्वरूपविरुद्धनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रस- क्तिवारणाय एकस्मिन्निति । घटः पृथिवीति ज्ञानस्येकस्मिन्धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसङ्गवारणाय विरु- द्धेति । पटत्वविरुद्धघटत्ववान् घट इति ज्ञानेऽतिप्रसक्तिवारणाय नानेति । मिथ्येति । यथार्थज्ञानवारणाय मिथ्येति । १अयथार्थवारणाय ज्ञानेति । तर्कं लक्षयति—व्याप्यारोपेणेति । २असम्भववारणाय व्याप्यारोपेणेति । हिन्दी १. मिथ्या भुजङ्गादिमें विपर्ययत्वका वारण करनेके लिये ज्ञानपद दिया । रज्जुसर्प मिथ्या तो है किन्तु वह ज्ञान नहीं है इसलिये उसका वारण हो गया । २. व्याप्यके अतिरिक्त किसी अन्यके आरोपसे व्यापकारोप असंभव होनेसे लक्षणका असंभव हो जायगा । इसलिये असंभवदोष वारणके लिये “व्याप्यारोपेण” यह कहा । अथवा व्याप्यारोपात्मक निमित्तके बिना भी व्यापकारोप असंभव है, इसलिये “व्याप्यारोपेण” यह निमित्तसूचक तृतीयान्त पद दिया ।
सहिन्दीपदकृत्यसहितः १७७ स्मृतिः कतिविधा ?— स्मृतिरपि द्विविधा—यथार्था अयथार्था च । प्रमाजन्या यथार्था, अप्रमाजन्या अयथार्था । सुखस्य किं लक्षणम् ?— सर्वेषामनुकूलवेदनीयं सुखम् । दुःखस्य किं लक्षणम् ?— प्रतिकूलवेदनीयं दुःखम् । इच्छाद्वेषप्रयत्नानां कानि लक्षणानि ? इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । पदकृत्यम् १पुनरसम्भववारणाय व्यापकारोप इति । अत्र बह्न्यभावो व्याप्यः धूमा- भावो व्यापकः । २यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचितः, तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम् । स्वप्नस्तु पुरीतद्बहिर्दे- शान्तर्देशयोः सन्धौ इडानाड्यां वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण वा जन्यते । स च मानसविपर्ययान्तर्गतः । सुखं निरूपयति-सर्वेषामिति । सर्वात्मनामनुकूलमिति वेद्यं यत्तत्सुख- मित्यर्थः । अहम् सुखीत्यनुभवसिद्धसुखत्वजातिमत्, ३धर्ममात्रासाधारणकारणो गुणो वा सुखम् । शत्रुदुःखवारणाय सर्वेषामिति । प्रतिकूलेति । दुःखत्वजातिमत्, अधर्ममात्रासाधारणकारणो गुणो वा दुःखम् पदकृत्यं पूर्ववत् । इच्छां निरूपयति-इच्छेति । काम इति पर्यायः । इच्छात्वजातिमती इच्छा । सा द्विविधा-फलेच्छा उपायेच्छा च । फलं सुखादिकं । उपायो हिन्दी १. व्याप्यारोपसे व्यापकारोपके सिवा और कुछ होता ही नहीं, अतः किसी अन्यके अभिप्रायसे किया गया लक्षण असंभवदोषग्रस्त होगा, इसके वारणके लिये व्यापकारोपपद दिया । २. यद्यपि तर्क भी अवास्तव होनेसे विपर्यय ही है, अतः इसका पृथग् विभाग करना अनुचित है, तथापि अन्य विपर्यय प्रमाणके अनुग्राहक नहीं होते किन्तु तर्क तो प्रमाणका पोषक होता है । इसी विशेषताके कारण इसे पृथक् कहा । ३. धर्ममात्र है असाधारण कारण जिसका ऐसा बहुव्रीहि समास हैं । १२
१७८ तर्कसंग्रहः [ अवशिष्टपरिच्छेदः धर्मस्य अधर्मस्य च किं लक्षणम् ?— विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्यस्त्वधर्मः । आत्ममात्रविशेषगुणाः के ?— बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धिच्छाप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य, अनित्या जीवस्य । संस्कारः कतिविधः, तद्भेदाश्च किंस्वरूपाः ?— संस्कारस्त्रिविधः—वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना, पदकृत्यम् यागादिः । द्वेषं निरूपयति-क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः । प्रयत्नम् निरूपयति-कृतिरिति । प्रयत्नत्वजातिमान् प्रयत्नः । स त्रिविधः-प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् । इच्छाजन्यो गुणः प्रवृत्तिः । द्वेषजन्यो गुणो निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनिः । स च प्राणसंचारकारणम् । धर्ममाह - विहितेति । वेदविहितेत्यर्थः । अधर्मवारणाय वेदविहितेति । यागादिक्रियावारणाय कर्मजन्य इति । कर्मनाशाजलस्पर्शांकीर्तनभोग- तत्त्वज्ञानादिना नश्यति । अधर्मलक्षणमाह निषिद्धेति । वेदेनेत्यर्थः । धर्मवार- णाय वेदनिषिद्धेति ! वेदनिषिद्धक्रियावारणाय कर्मजन्य इति । स च भोग- प्रायश्चित्तादिना नश्यति । एतावेव अदृष्टमिति कथ्येते वासनाजन्यो च । वासना च विलक्षणसंस्कारः । संस्कारं विभजते—संस्कार इति । २सामान्यगुणात्मविशेषगुणोभयवृत्ति- गुणत्वव्याप्यजातिमान् संस्कारः । ३घटादिवारणाय गुणत्वव्याप्येति । ४संयो- हि०दी १. किसी वस्तुके सम्बन्धमें “इदं द्विष्टसाधनम्” इस ज्ञानसे उत्पन्न होने वाला जो गुण वह द्वेष है । २. सामान्यगुण वेग और स्थितिस्थापक तथा आत्माका विशेषगुण संस्कार, इनमें रहने वाली गुणत्वव्याप्या जाति संस्कारत्वजाति जिसमें रहे, वह संस्कार है । ३. केवल जातिमान् लक्षण करनेपर घटत्वजातिमान् घटमें अतिव्याप्ति होगी, उसका वारण करनेके लिये गुणत्वव्याप्यपर्यन्त निवेश किया । ४. “सामान्यगुणवृत्तिगुणत्वव्याप्यजातिमान् संस्कारः” ऐसा लक्षण करनेपर संयोगत्वजातिको लेकर संयोगमें अतिव्याप्ति हो जायगी । इसके वारणार्थ ‘आत्म- विशेषगुणोभयवृत्ति’ पद दिया ।
सहिन्दीपदकृत्यसहितः १७९ आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थिति- स्थापकः, कटादिपृथिवीवृत्तिः । इति गुणाः । पदकृत्यम् गादिवारणाय आत्मविशेषगुणोभयवृत्तिरिति । १ज्ञानादिवारणाय सामा- न्येति । द्वितीयादिपतनासमवायिकारणं वेगः । २रूपादिवारणाय द्वितीया- दिपतनेति । कालादिवारणाय असमवायीति । भावनां लक्षयति-अनुभवेति । आत्मादिवारणाय प्रथमदलम् । अनुभव- ध्वंसवारणाय द्वितीयदलम् । स्थितिस्थापकमाह-अन्यथेति । पृथिवीमात्रममवेतसंस्कारत्वव्याप्येति । भावनात्वमादाय भावनावारणाय पृथवीसमेवेतेति । ३स्थितिस्थापकरूपान्य- तरत्वमादाय रूपवारणाय जातीति । इति गुणा इति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । द्रव्यकर्मणो- रतिव्याप्तिवारणाय विशेषणदलम् । सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम् इति गुणाः । हिन्दी १. सामान्यपद न दिया जाय तो आत्मविशेषगुणवृत्ति ज्ञानत्वजातिको लेकर ज्ञानमें अतिव्याप्ति हो जायगी । इसके निवारणार्थ सामान्यपद दिया । क्योंकि सामान्य- गुण और आत्माका विशेषगुण दोनोंमें रहनेवाली एकमात्र संस्कारत्व ही जाति है, ज्ञानत्व आदि नहीं । २ केवल असमवायिकारण रूपादि भी है, उसके वारणके लिये "द्वितीयादिपतन" इतनेका निवेश किया । ३. स्थितिस्थापकका लक्षण है- पृथिवीमात्रमें समवायसम्बन्धसे रहता हुआ संस्कारत्वव्याप्यजाति (स्थितिस्थापकत्व) मान् जो हो, उसे स्थितिस्थापक संस्कार कहते हैं । इस लक्षणमें "संस्कारत्वव्याप्य" न कहा जाय तो गन्धमें अतिव्याप्ति हो जायगी । क्योंकि गन्ध पृथिवीमात्रमें समवेत भी है और गन्धत्वजातिमान् भी हैं । उक्त विशेषण देनेसे अतिव्याप्ति नहीं हुई । क्योंकि गन्धत्वजाति संस्कारत्वव्याप्य नही है । आत्मामें समवेत भावनामें अतिव्याप्तिवारणार्थ 'पृथिवीसमवेत' पद दिया । एवं स्थितिस्थापक तथा रूपगत अन्यतरत्वधर्म भी संस्कारत्वव्याप्य है, अतः अन्यतरत्वधर्मवाले रूपमें भी स्थितिस्थापकका लक्षण चला जायगा, अतः इसे वारण करनेके लिये जाति पद दिया । यहाँ अन्यतरत्व जाति नहीं है। यहाँ व्याप्यत्वका अभि- प्रेत अर्थ है - न्यूनवृत्तित्व । क्योंकि अतिरिक्तवृत्तित्वरूप संस्कारत्वव्याप्यत्व उक्त
१८० तर्कसंग्रहः [ अवशिष्टपरिच्छेदः अथ कर्मादिलक्षणप्रकरणम्— कर्मणः किं लक्षणम् ?— चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदे- शसंयोगहेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् । सामान्यस्य किं लक्षणम् ?— नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं सत्ता, अपरं द्रव्यत्वादि । विशेषाणां किं लक्षणम् ?— नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । पदकृत्यम् चलनेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । १हस्त- पुस्तकसंयोगवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यदलम् । ऊर्ध्वेति । अपक्षेपणवारणाय ऊर्ध्वेति । कालादिवारणाय असाधारणेत्यपि बोध्यम् । अधोदेशेति । उत्क्षेपणवारणाय अधोदेशेति । कालादिवारणाय असाधारणे- त्यपि देयम् । शरीरेति । प्रसारणादिवारणाय सन्निकृष्टेति । कालादि- वारणाय असाधारणपदमप्यावश्यकम् । नित्यमिति । संयोगादिवारणाय नित्यमिति । कालादिपरिमाणवारणाय अनेकेति । अनेकानुगतत्वम् च समवायेन बोध्यम्, तेन नात्यन्ताभावेऽति- व्याप्तिः । नित्यद्रव्यवृत्तय इति । घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति । २आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम् । हिन्दी अन्यतरत्वमें नहीं जायगा । कारण, संस्कारत्वसे शून्य रूपमें रहनेवाला अन्यतरत्वधर्म अतिरिक्तवृत्ति होनेसे व्याप्य नही बन सकेगा तथा इसे लेकर अतिव्याप्ति देना असंगत हो जायगा । १. हस्तपुस्तकसंयोग भी शरीरपुस्तकसंयोगके प्रति असमवायिकारण है । इसमें कर्मलक्षण न जाय, इसके लिये 'संयोगभिन्नत्वे सति' विशेषण दिया । २. आत्मत्व-मनस्त्व भी नित्यद्रव्यवृत्ति है, अतः इनमें विशेषका लक्षण न जाय, इसलिये "आत्मत्व-मनस्त्वभिन्नाः" यह भी विशेषके लक्षणमें जोड़ देना चाहिये ।
सहिन्दीपदकृत्यसहितः १८१ समवायस्य किं लक्षणम् ? — नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा- अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति। प्रागभावस्य किं लक्षणम् ? — अनादिः सान्तः प्रागभावः, उत्पत्तेः पूर्वं कार्यस्य। प्रध्वंसस्य किं लक्षणम् ? — सादिरनन्तः प्रध्वंसः, उत्पत्त्यनन्तरं कार्यस्य। अत्यन्ताभावस्य किं लक्षणम् ? — त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा- भूतले घटो नास्तीति। पदकृत्यम् नित्येति। आकाशादिवारणाय सम्बन्ध इति। संयोगवारणाय नित्येति। स्वरूपसम्बन्धवारणाय तद्भिन्न इत्यपि बोध्यम्। प्रागभावं लक्षयति —अनादिरिति। घटादिवारणाय प्रथमदलम्। परमाणुवारणाय द्वितीयदलम्। पुनः प्रागभावः कस्मिन्कालेऽस्तीत्यत आह- उत्पत्तेरिति। १कार्यस्योत्पत्तेः प्राक् स्वप्रतियोगिसमवायिकारणे वर्तते इत्यर्थः। ध्वंसं लक्षयति—सादिरिति। घटादिवारणाय अनन्त इति। आत्मादि- वारणाय सादिरिति। उत्पत्तीति। २कार्यस्योत्पत्त्यनन्तरं स्वप्रतियोगिसम- वायिकारणवृत्तिरित्यर्थः। स च 'ध्वस्तः' इति प्रत्ययविषयः। अत्यन्ताभावं लक्षयति—त्रैकालिकेति। त्रैकालिकत्वे सति संसर्गा- वच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। ध्वंसप्रागभाववारणाय त्रैकालिकेति। भेदवारणाय ३संसर्गेत्यादि। हिन्दी १. घटरूपकार्यका प्रागभाव घटोत्पत्तिक पूर्व स्वप्रतियोगीभूत जो घट, उसके समवायिकरणमें अर्थात् कपाल में रहता है। २. घटध्वंस भी घटोत्पत्ति के अनन्तर होता है और स्वप्रतियोगीभूत घटके समवायिकरण कपाल में रहता है। ३. यहाँ संसर्गपद तादात्म्यसे अतिरिक्त सम्बन्धपरक होने से तादात्म्यसम्बन्धाव- च्छिन्नप्रतियोगिताकभेदका वारण हो गया। ध्वंस और प्रागभावकी प्रतियोगिता
१८४ तर्कसंग्रहः [ अवशिष्टपरिच्छेदः सगुणोपासना एवं काशीमरणादिको मुक्तिका हेतु कहा गया है, किन्तु वह भी तत्त्व- ज्ञानके द्वारा ही मुक्तिका हेतु है, साक्षात् नहीं । इसीलिए काशीमें परमेश्वर तारक- मन्त्रका उपदेश देते हैं । वह तारकमन्त्र तत्त्वज्ञान ही है । इति शिवम् । टिप्पणी पदकृत्यस्य गूढभावावबोधिनी । मया संयोजिता नूनं छात्राणां हितमावहेत् ॥ इति न्यायवेदान्तसांख्ययोगाचार्यश्रीकेदारनाथत्रिपाठिविरचिता तर्कसंग्रहपदकृत्यस्य हिन्दीटिप्पणी समाप्ता । —:०:—