तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
१५२ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः अनुभवस्य किं लक्षणम्, के च भेदाः ?— तद्भिन्नं ज्ञानमनुभवः । स द्विविधः—यथार्थोऽयथार्थश्च । यथार्थानुभवस्य किं लक्षणम् ?— तद्वति तत्प्रकारकोऽनुभवो यथार्थः । ( यथा रजते इदं रजत- मिति ज्ञानम् ) सैव प्रमेत्युच्यते । पदकृत्यम् संस्कारमात्रजन्यत्वं विवक्षणीयम् । क्वचित्तथैव पाठः । न चैवं सत्यसम्भवः, तस्य संस्कारजन्यत्वे सतीन्द्रियार्थसंनिकर्षजन्यार्थकत्वात् । तदिति । स्मृतित्वावच्छिन्नभिन्नमित्यर्थः । तेन यत्किञ्चित्स्मृतिभिन्नत्वस्य स्मृतौ सत्त्वेऽपि न क्षतिः । घटादावतिव्याप्तिवारणाय ज्ञानमिति । स्मृति- वारणाय तद्भिन्नमिति । तद्वतीति । 'तद्वति तत्प्रकारो यस्य स तथेत्यर्थः । तद्वद्विशेष्यकतत्प्रकारक इति यावत् । स्मृतिवारणायानुभव इति । अयथार्थानुभववारणाय तद्वतीति । निर्विकल्पकेऽतिव्याप्तिवारणाय तत्प्रकारक इति । हिन्दी ज्ञानमें अतिव्याप्ति होने लगेगी, अतः उसके निवारणके लिये संस्कारजन्यत्वविशेषण दिया । संस्कारजन्य प्रत्यभिज्ञाज्ञान ( "स एवायं श्यामः" ) भी होता है, अतः उसमें अतिव्याप्तिवारणार्थ मात्रपद देना चाहिये । क्योंकि प्रत्यभिज्ञाज्ञानमें संस्कारके साथ साथ इन्द्रियसन्निकर्षके भी कारण होनेसे संस्कारमात्रजन्यत्व नहीं है । कहीं तो मूलमें मात्रपदके सहित ही पाठ है । “किन्तु मात्रपदका सन्निवेश करनेपर असम्भवदोष हो जायगा, क्योंकि स्मृति भी संस्कारमात्रसे जन्य नहीं होती, किन्तु आत्मा और मन भी कारण होता है” ऐसी आशङ्का नहीं होगी । क्योंकि मात्रपदका अभिप्राय यह है कि संस्कारजन्य होते हुए इन्द्रियार्थसन्निकर्षसे अजन्य हो । ऐसा होनेसे प्रत्यभिज्ञामें अतिव्याप्ति भी नहीं हुई और स्मृतिमें आत्मा और मनके भी कारण होनेसे असंभव भी नहीं हुआ । १. 'तद्वति' यहां सप्तमीविभक्तिका अर्थ है विशेष्यत्व । इसलिये लक्षणका स्वरूप हुआ—तद्वद्विशेष्यक होते हुए तत्प्रकारक जो अनुभव, वह यथार्थ है । अर्थात् जिस अनुभवमें कोई विशेष्य हो ओर कोई प्रकार ( विशेषण ) हो तथा वह विशेष्य तद्वत् अर्थात् विशेषणसे युक्त हो, वह अनुभव यथार्थ होता है । अयथार्थ अनुभवमें विशेष्य और विशेषण दोनों होते हैं, किन्तु वहां विशेष्य विशेषणरहित होता है, अतः उसमें लक्षणकी अतिव्याप्ति नहीं हुई । निर्विकल्पकज्ञान निष्प्रकारक होता है, अतः तत्प्रकारकपदके देनेसे उसमें अतिव्याप्ति नहीं हुई ।
सहिन्दीपदकृत्यसहितः १५३ अयथार्थानुभवस्य लक्षणं किम् ? — तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । ( यथा-शुक्ताविदं रजतमिति ज्ञानम् ) सैवाप्रमेत्युच्यते । यथार्थानुभवभेदाः के ? — यथार्थानुभवश्चतुर्विधः—प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणं कतिविधम् ? — तत्करणमपि चतुर्विधं—प्रत्यक्षानुमानोपमानशब्दभेदात् । पदकृत्यम् तदभावेति । १तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव इत्यर्थः । यथा-शुक्तौ 'इदं रजतम्' इति ज्ञानम् । स्मृतिवारणायानुभव इति । यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय तत्प्रकारक इति । यथार्थेति । यथार्थानुभवः प्रत्यक्षमेवेति चार्वाकाः । अनुमितिरपीति काणादबौद्धौ । उपमितिरपीति नैयायिकैकदेशिनः । शाब्दमपीति नैया- यिकाः । अर्थापत्तिरपीति प्राभाकराः । आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ । साम्भविकैतिह्यकावपीति पौराणिकाः । चेष्टिकोऽपीति तान्त्रिकाः । एतेषां मतेऽस्वरसं सम्भाव्य तस्य चातुर्विध्यं दर्शितम् । तदिति । यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः । असाधारणमिति । कालादिवारणायासाधारणमिति । व्यापारेऽति- व्याप्तिवारणाय २व्यापारवदित्यपि देयम् । व्यापारश्च—द्रव्यान्यत्वे सति हिन्दी १. 'तदभाववति' इस पदमें भी सप्तमीका अर्थ पूर्ववत् विशेष्यत्व होनेसे तदभाववद्विशेष्यक तत्प्रकारक अनुभव अयथार्थानुभव हुआ । जैसे शुक्तिमें रजतका ज्ञान अयथार्थ अनुभव हुआ । क्योंकि यहां विशेष्यभूत शुक्तिके रजतत्वाभावसे युक्त होनेसे उक्तज्ञान रजतत्वाभाववद्विशेष्यक और रजतत्वप्रकारक हुआ, अतः अयथार्थ है । २. व्यापारवत्पद देनेसे "व्यापारवदसाधारणं कारणं करणम्" यह करणका लक्षण निष्पन्न हुआ । व्यापारका लक्षण है—जो द्रव्यसे अन्य हो तथा कारणसे उत्पन्न होते हुए कारणसे उत्पन्न होनेवाले घटादिका जनक हो, वह व्यापार कहाता है । जैसे—चक्रभ्रमि क्रियारूप होनेसे द्रव्यसे भिन्न है तथा दण्डसे उत्पन्न होती हुई दण्डजन्य घटकी जनिका भी है, अतः चक्रभ्रमिको व्यापार कहते हैं ।
१५४ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः करणस्य किं लक्षणम् ?— असाधारणं कारणं करणम् । कारणस्य किं लक्षणम् ?— कार्यनियतपूर्ववृत्ति कारणम् । कार्यस्य किं लक्षणम् ?— कार्यं प्रागभावप्रतियोगि । पदकृत्यम् तज्जन्यत्वे सति तज्जन्यजनकः । ईश्वरेच्छादिवारणाय तज्जन्यत्वे सतीति । कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालपुत्रस्याप्यस्त्यतस्तत्राति- व्याप्तिवारणाय प्रथमं सत्यन्तम् । दण्डरूपादिवारणाय तज्जन्यजनक इति । कार्येति । कार्य्यान्नियताऽवश्यम्भाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिर्यस्य तत्तथे- त्यर्थः । अनियतरासभादिवारणाय नियतेति । कार्यवारणाय पूर्वेति । १दण्ड- त्वादिवारणायानन्यथासिद्धत्वविशेषणस्यावश्यकत्वेन तत एव रासभादि- वारणसम्भवे नियतपदमनर्थकमेव । एवं चानन्यथासिद्धकार्यपूर्ववृत्ति कारण- मिति फलितम् । अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् । अन्यथासिद्धिश्चाव- श्यकॢप्तनियतपूर्ववर्तिनैव कार्यसम्भवे तत्सहभूतत्वम् । यथाऽवश्यकॢप्त- नियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसम्भवे तत्सहभूतत्वं दण्डत्वादौ, तदन्यथासिद्धत्वम् । प्रागभावेति । २कालादिवारणाय प्रागिति । ३असम्भववारणाय प्रतियोगीति । हिन्दी १. दण्डत्व भी घटकार्यके नियत पूर्ववृत्ति है, अतः उसमें घटके प्रति कारणता- का वारण करनेके लिये 'अनन्यथासिद्धत्व' विशेषण लगाना आवश्यक है । ऐसी स्थितिमें रासभमें भी इसी विशेषणसे घटकारणताका वारण हो जायगा । अतः नियत- पद वस्तुतः व्यर्थ है । तब लक्षणका निष्कर्ष यह हुआ -- अनन्यथासिद्ध हो और कार्यके पूर्ववृत्ति हो, वह कारण है । २. 'प्राक्'पद न देनेपर 'अभाव'पदसे अन्योन्याभाव भी गृहीत हो जायगा । ऐसी स्थितिमें अन्योन्याभावका प्रतियोगी होनेसे काल आदिमें कार्यलक्षणकी अतिव्याप्ति हो जायगी । 'प्राक्'पद देनेपर तो कालका प्रागभाव नहीं होनेसे प्रागभावप्रतियोगित्व- लक्षणकी कालमें अतिप्रसक्ति नहीं हुई ३. 'प्रतियोगी' शब्दका अर्थ है विरोधी । 'प्रतियोगी' शब्द न देनेपर प्रागभावका जो अविरोधी हो वह कार्य है, ऐसा लक्षण हो जायगा, जो असंभवदोषसे ग्रस्त है । क्योंकि कोई भी कार्य प्रागभावका अविरोधी नहीं होता, किन्तु विरोधी ही होता है । इसीलिए कार्य उत्पन्न होते ही उसका प्रागभाव नष्ट हो जाता है । अतः प्रतियोगी पद देना आवश्यक है ।
सहिन्दीपदकृत्यसहितः १५५ कारणं कतिविधम् ? — कारणं त्रिविधम्—समवाय्यसमवायिनिमित्तभेदात् । समवायिकारणस्य किं लक्षणम् ? — यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा—तन्तवः पटस्य । पटश्च स्वगतरूपादेः । असमवायिकारणस्य किं लक्षणम् ? — कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसम- वायिकारणम् । यथा—तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य । पदकृत्यम् यदिति । यस्मिन्समवायसम्बन्धेन वर्तमानं कार्यमुत्पद्यते, तदित्यर्थः । १चक्रादिवारणाय समवेतमिति ॥ कार्येणेति । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति २आत्म- विशेषगुणभिन्नत्वे सति यत् कारणं तदसमवायिकारणम् । ३तन्तुसंयोगादाव- व्याप्तिवारणाय कार्येणेति । ४तन्तुरूपादावव्याप्तिवारणाय कारणेनेति । आत्मविशेषगुणेऽतिव्याप्तिवारणायात्मविशेषगुणभिन्नत्वे सतीति । हिन्दी १. समवेतपद न देने पर चक्रादिमे संयोगेन वर्तमान होकर घटादिकार्य उत्पन्न होता है, अतः चक्रादिमें घटादिसमवायिकारणत्वकी अतिप्रसक्तिका वारण करनेके लिए समवेतपद दिया । २. "आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति" इस नियमके अनुसार "आत्मविशेषगुणभिन्नत्वे सति" यह भी असमवायिकरणके लक्षणमें देना चाहिए । ३. 'कार्येण' पद न दिया जाय तो तन्तुसंयोग पटका असमवायिकारण नहीं हो सकेगा । क्योंकि तन्तुसंयोग पटकारणीभूत तन्तुके साथ एक जगह समवायसम्बन्धसे नहीं रहता है । कार्यपद देनेपर तो पटात्मक कार्यके साथ वह तन्तुमे रहता है, अतः तन्तुसंयोगमें लक्षणकी अव्याप्ति नहीं हुई । ४. तन्तुका रूप पटरूपात्मक कार्यके प्रति असमवायिकारण होता है । किन्तु कार्यके साथ एक जगह नहीं रहता है, क्योंकि पटरूपात्मककार्य पटमें रहता है और तन्तुरूप तन्तुमें रहता है । अतः तन्तुरूपमें असमवायिकरणलक्षणकी अव्याप्ति हो गयी । कारणपद देनेसे उसका वारण हो गया । क्योंकि तन्तुरूप पटरूपके साथ भले ही एक जगह न रहे किन्तु पटरूपका कारण जो पट है, उसके साथ तो तन्तुमें तन्तुरूप भी रहता ही है । अतः अव्याप्ति नहीं हुई ।
१५६ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः निमित्तकारणस्य किं लक्षणम् ?— तदुभयभिन्नं कारणं निमित्तकारणम् । यथा—तुरीवेमादिकं पटस्य । करणस्य निष्कृष्टलक्षणं किम् ?— तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् । प्रत्यक्षप्रमाणलक्षणं किम् ?— तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । प्रत्यक्षप्रमाज्ञानलक्षणं किम्, कतिविधं च तत् ?— इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । ( ज्ञानाकरणं पदकृत्यम् १. विशेषवारणाय कारणमिति । तदुभयभिन्नं कारणं निमित्तकारण- मिति । समवाय्यसमवायिकारणवारणाय तदुभयभिन्नमिति । (विशेषादाव- तिव्याप्तिवारणाय कारणमिति ।) तदेतदिति । यस्मात्करणत्वघटकं कारणमुपदर्शितं तस्मादेतत्त्रिविधसा- धकमध्ये यत्साधकतमं तदेव करणमिति भावः । इति करणप्रपञ्चः । तत्रेति । प्रमाणचतुष्टयमध्ये । ²दण्डादिवारणाय ज्ञानेति । अनुमानादि- वारणाय प्रत्यक्षेति । इन्द्रियार्थेति । इन्द्रियं चक्षुरादिकमर्थो घटादिस्तयोः सन्निकर्षः संयोगा- दिः, तज्जन्यं ज्ञानं प्रत्यक्षमित्यर्थः । ³सन्निकर्षध्वंसवारणाय ज्ञानमिति । अनु- मित्यादिवारणायेन्द्रियार्थसन्निकर्षेति । ननु सोपनेत्रचक्षुषा कथं पदार्थग्रह- णम् ? चक्षुष उपनेत्रनिरुद्धत्वेन पदार्थेन सह सन्निकर्षाभावात् । कथं वा स्व- च्छजाह्नवीसलिलावृतमत्स्यादेश्चाक्षुषा ग्रहणम्? इति चेन्न, स्वच्छद्रव्यस्य तेजो- हिन्दी १. द्व्यणुकरूपकार्य के साथ परमाणुमें विशेष भी समवायसम्बन्धसे रहता है, अतः विशेष भी द्व्यणुकके प्रति असमवायिकारण होने लगेगा, इस अतिव्याप्तिका वारण करनेके लिए कारणपद दिया । क्योंकि द्व्यणुकके प्रति विशेष कारण ही नहीं होता है । २. दण्डादि भी घटादिके प्रति करण होता है, अतः उसमें प्रत्यक्षलक्षणकी अति- व्याप्ति न हो, एतदर्थ ज्ञानपद दिया । दण्ड तो ज्ञानका करण नहीं है । ३. सन्निकर्षका ध्वंस भी इन्द्रियार्थसन्निकर्षसे जन्य है । अतः उसका वारण करनेके लिए ज्ञानपद दिया ।
सहिन्दीपदकृत्यसहितः १५७ ज्ञानं प्रत्यक्षम् ) तद् द्विविधम् — निर्विकल्पकं सविकल्पकं चेति । निर्विकल्पकलक्षणं किम् ?— ( तत्र ) निष्प्रकारकं ज्ञानं निर्विकल्पकम् । ( यथा—किञ्चि- दिदमिति । सविकल्पकलक्षणं किम् ?— सप्रकारकं ज्ञानं सविकल्पकम् । यथा—डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयमिति । सन्निकर्षः कतिविधः, कश्च सः ?— प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः—संयोगः, संयुक्त- पदकृत्यम् निरोधकत्वाभावेन तदन्तश्चक्षुःप्रवेशसम्भवात् । न १चेश्वरप्रत्यक्षेऽव्याप्ति- रिति वाच्यम्, अत्र जन्यप्रत्यक्षस्यैव लक्षितत्वात् । तत्र निष्प्रकारकमिति । सविकल्पकेऽतिव्याप्तिवारणाय निष्प्रकारक- मिति । २प्रकारवारणाय ज्ञानमिति । सप्रकारकमिति । ३घटादिवारणाय ज्ञानमिति । निर्विकल्पकवारणाय सप्रकारकमिति । प्रत्यक्षेति । तच्च प्रत्यक्षं षड्विधं—घ्राणजरासनचाक्षुषश्रोत्रत्वाचमा- नसभेदात् । ४ननु प्रत्यक्षकारणीभूतेन्द्रियनिष्ठप्रत्यक्षसामानाधिकरण्यघटकः सन्निकर्षः क इत्यपेक्षायां तं विभज्य दर्शयति-प्रत्यक्षेति । लौकिकप्रत्यक्षेत्यर्थः । हिन्दी १. ईश्वरको इन्द्रियाँ नहीं होतीं, इसलिए तथाकथित प्रत्यक्षलक्षणकी ईश्वर- प्रत्यक्षमें अव्याप्ति दिखायी गयी । तथा जन्यप्रत्यक्षको प्रकृतमें लक्ष्य मानकर उसका वारण किया गया । २. प्रकारमें प्रकार नहीं होनेसे प्रकार भी निष्प्रकारक हो गया । अतः उसमें निर्विकल्पकत्वकी अतिव्याप्ति न हो, इसके लिए ज्ञानपद दिया । ३. घट भी घटत्वरूप प्रकारवाला है, अतः उसमें वारण करनेके लिए ज्ञानपद दिया । ४. कार्य और कारणमें सामानाधिकरण्य होता है । अतः प्रत्यक्षरूप कार्य और इन्द्रियरूप कारणमें भी सामानाधिकरण्य होता है । अर्थात् विषयतासम्बन्धसे जहाँ प्रत्यक्ष रहता है, वहाँ पर संयोगादिसन्निकर्षसे इन्द्रिय भी रहती है । इस प्रकार संयोग आदि षड्विध सन्निकर्ष उक्त सामानाधिकरण्यके घटक हुए ।
१५८ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः समवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशे- षणविशेष्यभावश्चेति । घट ( द्रव्य ) प्रत्यक्षे कः सन्निकर्षः ? — चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे क सन्निकर्षः ? -- घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वादि-गुणगतजातिप्रत्यक्षे कः सन्निकर्षः ? -- रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुः- संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । शब्दप्रत्यक्षे कः सन्निकर्षः ?— श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवर्त्या- काशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात् । पदकृत्यम् संयोगमुदाहरति चक्षुषेति । तथाच द्रव्यचाक्षुषत्वाचमानसेषु संयोग एव सन्निकर्ष इति भावः । घटरूपेति । चक्षुषा इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुष त्वाच- मानस-रासन-घ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इत्यर्थः : रूपत्वेति । रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्ष इत्यर्थः । अत्रापि चक्षुषा इत्यनुषज्यते । तथाच द्रव्यसमवेतसमवेतचाक्षुष-रासन-घ्राणज स्पार्शन-मान- सेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः । 'अथ द्रव्यतत्समवेत- प्रत्यक्षेऽपि संयुक्तसमवेतसमवाय एव सन्निकर्षोऽस्त्विति चेत्, नैतत्— आत्मनोऽप्यनध्यक्षत्वप्रसङ्गात् । हिन्दी १. “द्रव्यके प्रत्यक्षमें संयोग और द्रव्यसमवेत रूपादिके प्रत्यक्षमें संयुक्तसमवायको सन्निकर्ष न मानकर संयुक्तसमवेतसमवायको ही सन्निकर्ष माना जाय । जैसे— घटप्रत्यक्षस्थलमें चक्षुःसंयुक्तकपालिका, तत्समवेत कपाल, और उसमें समवाय घटका है । ऐसे ही घटरूपके प्रत्यक्षस्थलमें चक्षुःसंयुक्त कपाल, तत्समवेत घट और उसमें समवाय घटरूपका है ।” ऐसा नहीं कह सकते । क्योंकि निरवयव आत्माका मानस- प्रत्यक्ष नहीं हो सकेगा । क्योंकि आत्मा मनसे सीधे संयुक्त है, न कि मनःसंयुक्तसम- वेतसमवेत है ।
सहिन्दीपदकृत्यसहितः १५९ शब्दत्वसाक्षात्कारे कः सन्निकर्ष ?— शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः, श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे कः सन्निकर्षः ?— अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्- भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । प्रत्यक्षप्रमाणस्य निष्कृष्टं लक्षणं किम् — एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् । । इति प्रत्यक्षपरिच्छेदः । पदकृत्यम् समवायसन्निकर्षमुदाहरति—श्रोत्रेणेति । जननीय इति शेषः । ननु श्रोत्र- शब्दयोः कथं समवाय इत्यपेक्षमाणं प्रति तमुपपाद्य दर्शयति—कर्णेति । १अथ समवायस्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापार इति चेत्, शब्दः श्रोत्र- मनःसंयोगो वेति गृहाण । शब्दत्वेति । श्रोत्रेण जननीये इत्यनुकर्षशेषः । विशेषणेति । २विशेषणभावो विशेष्यभावश्चेति बोध्यम् । इन्द्रियसम्बद्ध- विशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमिति यावत् । विशेषणभावसन्निकर्षमुप- पाद्य दर्शयति—घटाभाववदिति । 'इह भूतले घटो नास्ती'त्यादौ विशेष्यता- सन्निकर्षोऽवसेयः, सप्तम्यन्तस्य विशेषणत्वात् । प्रत्यक्षप्रमाणमुपसंहरति—एवमिति । उपदर्शितक्रमेणेत्यर्थः । ननु सिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थसन्निकर्षः किं न स्यादिति चेन्नेत्याह- तत्करणमिति । प्रत्यक्षप्रमाणं निगमयति—तस्मादिति । प्रत्यक्षप्रमाकरण- त्वादित्यर्थः । सिद्धमिति । न्यायसिद्धान्ते सिद्धमित्यर्थः । । इति पदकृत्यके प्रत्यक्षपरिच्छेदः । हिन्दी १. समवायसन्निकर्षके नित्य होनेसे कदाचित् होनेवाले शब्दप्रत्यक्षमें क्या व्यापार है ? तो इसका उत्तर देते हैं कि—शब्दप्रत्यक्षमें शब्द ही व्यापार है, अथवा श्रोत्रमनका संयोग व्यापार है । २. अभावप्रत्यक्षमें विशेषणता और विशेष्यता दोनों ही सन्निकर्ष हैं। अर्थात् इन्द्रियसम्बद्धविशेषणता और इन्द्रियसम्बद्धविशेष्यता सन्निकर्ष हैं। प्रथमका उदा- हरण—“घटाभाववद्भूतलम्” प्रत्यक्ष है और दूसरेका उदाहरण “इह भूतले घटो नास्ति” यह प्रत्यक्ष है ।। । इति श्रीकेदारनाथत्रिपाठिकृतायां तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यां प्रत्यक्षपरिच्छेदः ।
अथानुमानपरिच्छेदः अनुमानस्य किं लक्षणम् ? — अनुमितिकरणमनुमानम् । अनुमितिः का ? — परामर्शजन्यं ज्ञानमनुमितिः । परामर्शस्य किं स्वरूपम् ? — व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः यथा-वह्निव्याप्य- धूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः । व्याप्तिः का ? — यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः । पदकृत्यम् प्रत्यक्षानुमानयोः कार्यकारणभावसङ्गतिसभिप्रेत्य प्रत्यक्षानन्तरमनुमानं निरूपयति—अनुमितीति । अनुमितेः करणमनुमानमित्यर्थः । तच्च लिङ्ग- परामर्श एवेति निवेदयिष्यते । कुठारादावतिव्याप्तिवारणाय अनुमितीति । प्रत्यक्षादावतिव्याप्तिवारणाय-अन्विति । नन्वनुमितेरेव दुर्निरूपत्वात्तद्घटितानुमानमपि दुर्निरूपमित्यत आह— परामर्शति । प्रत्यक्षादावतिव्याप्तिवारणाय परामर्शजन्यमिति । परामर्श- ध्वंसवारणाय ज्ञानमिति । ^१परामर्शप्रत्यक्षवारणाय हेत्वविषयकमित्यपि बोध्यम् । व्याप्तिविशिष्टेति । विषयितासम्बन्धेन व्याप्तिविशिष्टं पक्षधर्मताज्ञानं परामर्श इत्यर्थः । घटादिज्ञानवारणाय पक्षधर्मतेति । धूमवान्पर्वत इत्यादि- ज्ञानवारणाय व्याप्तिविशिष्टेति । तदिति । परामर्शजन्यमित्यर्थः । यत्र यत्रेति । 'यत्र यत्र धूमस्तत्र तत्राग्निरि'ति व्याप्तेरभिनयः । तत्र साह- चर्यनियम इति लक्षणम् । सहचरतीति सहचरस्तस्य भावः साहचर्यं सामाना- धिकरण्यमिति यावत् । तस्य नियमो व्याप्तिरित्यर्थः । स चाव्यभिचरितत्वम् । हिन्दी १. परामर्शका मानसप्रत्यक्ष भी परामर्शजन्य है, अतः उसमें अनुमितिलक्षणकी अतिव्याप्तिका वारण करनेके लिये "हेत्वविषयक" ऐसा विशेषण लगाना चाहिये ।
सहिन्दीपदकृत्यसहितः १६१ पक्षधर्मतायाः किं लक्षणम् ?— व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । अनुमानं कतिविधम् ?— अनुमानं द्विविधं—स्वार्थं परार्थं च । किं नाम स्वार्थानुमानम् ?— स्वार्थं स्वानुमितिहेतुः, तथाहि—स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति— पदकृत्यम् तच्च व्यभिचाराभावः । व्यभिचारश्च साध्याभाववद्वृत्तित्वम् । तथा च साध्याभाववदवृत्तित्वं व्याप्तिरिति पर्यवसन्नम् । महानसं वह्निमद् धूमादि- त्यादौ साध्यो वह्निस्तदभाववान् जलह्रदादिस्तद्वृत्तित्वं नौकादाववृत्तित्वं प्रकृते हेतुभूते धूमे इति कृत्वा १लक्षणसमन्वयः । धूमवान् वह्नेरित्यादौ साध्यो धूमस्तदभाववदयोगोलकं तद्वृत्तित्वमेव वह्न्यादाविति २नातिव्याप्तिः । ननु ज्ञातेयं व्याप्तिः, पक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मता इत्य- पेक्षमाणं प्रति तत्स्वरूपं निरूपयति—व्याप्यस्येति । व्याप्यो नाम व्याप्या- श्रयः, स च धूमादिरेव, तस्य पर्वतादिवृत्तित्वं पक्षधर्मतेत्यर्थः । अथ कथमनुमानमनुमितिकरणं कथं वा तस्मादनुमितेर्जनिरिति जिज्ञास- मानं प्रति लाघवादनुमानविभागमुखेनैव बुबोधयिषुरनुमानं विभजते—अनु- मानमिति । द्वैविध्यं दर्शयति—स्वार्थं परार्थं चेति । ३स्वस्यार्थः प्रयोजनं यस्मात् तत् स्वार्थमिति समासः । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः । एवं परार्थमित्यस्यापि । अयमिति । व्याप्तिबलेन लीनमर्थं गमयतीति लिङ्गम्, तच्च धूमादि, तस्य परामर्शो ज्ञानविशेष इत्यर्थः । तस्मादिति । लिङ्गपरामर्शादित्यर्थः । स्वार्थानुमानमुपसंहरति—तदेतदिति । यस्मादिदं स्वप्रतिपत्तिहेतुस्तस्मादे- तत्स्वार्थानुमानमित्यर्थः । हिन्दी १. व्याप्तिलक्षणका समन्वय हुआ । २. व्याप्तिलक्षणकी अतिव्याप्ति नहीं हुई । ३. अनुमेय अर्थका ज्ञानरूप अपना प्रयोजन जिस अनुमानसे सिद्ध हो, वह स्वार्थानुमान है । तथा दूसरेको अनुमेयार्थज्ञानरूप प्रयोजन जिससे सिद्ध हो, वह परार्थानुमान है । ११
१६२ तर्कसंग्रहः [ अनुमानपरिच्छेदः 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । परार्थानुमानस्य किं स्वरूपम् ?— यत्तु स्वयं धूमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयव- वाक्यं प्रयुज्यते, तत्परार्थानुमानम् । यथा—पर्वतो वह्निमान्, धूम- वत्त्वात्, यो यो धूमवान् स वह्निमान्, यथा महानसम्, तथा चायम्, तस्मात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते । पञ्चावयवाः के ?— प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स स वह्निमानित्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् । पदकृत्यम् क्रमप्राप्तं परार्थानुमानमाह—यत्त्विति । यत्पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानमिति सम्बन्धः । पञ्चावयवेति । अथावयवत्वं नाम द्रव्यसम- वायिकारणत्वम्, प्रतिज्ञादिषु तदसम्भवात्कथमेतेऽवयवाः स्युरिति चेत्, अनु- मानवाक्यैकदेशत्वात्तु अवयवा इत्युपचर्यत इति गृहाण । नन्वेमपि पञ्चा- वयववाक्यस्यानुमानत्वमेव न विचारसहं तस्य लिङ्गपरामर्शत्वाभावादिति चेत्, मैवम्, लिङ्गपरामर्शप्रयोजकलिङ्गप्रतिपादकत्वेनानुमानमित्युपचार- मात्रत्वात् । तदुदाहरति—यथेति । तथा चायमिति । अयं च पर्वत:, तथा— वह्निव्याप्यधूमवानित्यर्थः । तस्मात्तथेति । वह्निव्याप्यधूमवत्त्वाद्वह्निमानि- त्यर्थः । अनेनेति । अनेन पञ्चावयववाक्येनेत्यर्थः । ननु पञ्चावयववाक्यमित्यत्र के ते पञ्चावयवा अतस्तान्दर्शयति—प्रति- ज्ञेति । प्रतिज्ञाद्यन्यतमत्वमवयवत्वम् । साध्यविशिष्टपक्षबोधकवचनं प्रतिज्ञा । पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनं हेतुः । व्याप्तिप्रतिपादकदृष्टान्तवचन- मुदाहरणम् । उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकवचन- मुपनयः । पक्षे साध्यस्याबाधितत्वप्रतिपादकवचनं निगमनम् । इदमेव लक्षणं हृदि निधाय प्रतिज्ञादीन्विशिष्य दर्शयति—पर्वतो वह्निमानित्यादिना ।
सहिन्दीपदकृत्यसहितः १६३ स्वार्थानुमितिपरार्थानुमित्योः किं करणम् ?— स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करण म् । तस्मा- ल्लिङ्गपरामर्शोऽनुमानम् । लिङ्गं कतिविधं किञ्चान्वयव्यतिरेकिलक्षणम् ?— लिङ्गं त्रिविधम्–अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि, यथा-वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा ह्रद इति व्यतिरेक- व्याप्तिः । पदकृत्यम् लिङ्गेति । १ज्ञायमानं लिङ्गमनुमितिकरणमिति वृद्धोक्तं न युक्तम्, इयं यज्ञशाला वह्निमती अतीतधूमादित्यादौ लिङ्गाभावेऽप्यनुमितिदर्शनादित्य- भिप्रायाल्लिङ्गपरामर्श एव करणमित्याचष्टे-लिङ्गपरामर्श एवेति । अनु- मानमुपसंहरति-तस्मादिति । अनुमितिकरणत्वादित्यर्थः । अयमेव तृतीयज्ञान- मित्युच्यते । तथाहि--महानसादौ धूमाग्न्योर्व्याप्तौ गृह्यमाणायां यद्धूमज्ञानं तदादिमम् । पक्षे यद्धूमज्ञानं तद्द्वितीयम् । अत्रैव वह्निव्याप्यत्वेन यद्धूम- ज्ञानं तत्तृतीयम् । इदमेव लिङ्गपरामर्श इत्युच्यते । अनुमानमिति । व्यापार- वत्कारणं करणमिति मते व्याप्तिज्ञानमेवानुमानं लिङ्गपरामर्शो व्यापार इत्यवसेयम् । अन्वयव्यतिरेकिणो लक्षणमाह--अन्वयेति । तृतीयायाः प्रयोज्यत्वमर्थः । साध्यसाधनयो साहचर्यमन्वयः । २तदभावयोः साहचर्यं व्यतिरेकः । तथा चान्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः । केवलव्यतिरेकिण्यतिव्याप्तिवारणाय अन्वयेनेति । केवलान्वयिनि व्यभिचार- हिन्दी १. प्राचीनमतानुसार ज्ञायमानलिङ्ग अनुमितिका करण है । किन्तु नवीनोंको यह मान्य नहीं है, क्योंकि "इयं यज्ञशाला वह्निमती अतीतधूमात्" वहाँ पर धूमलिङ्गके वर्तमान न होनेपर भी अनुमिति होती है । अतः लिङ्गपरामर्श ही अनुमितिका करण है । प्रकृत अनुमितिमें धूम न होने पर भी उसका ज्ञान तो है ही ।
१६४ तर्कसंग्रहः [ अनुमानपरिच्छेदः केवलान्वयिनः किं लक्षणम्— अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा-घटोऽभिधेयः प्रमेय- त्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । पदकृत्यम् वारणाय व्यतिरेकेणेति । तथा चान्वयव्याप्तिरुपदर्शिंतैव । व्यतिरेकव्याप्तिश्च १साध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः । तदुक्तं— व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतःप्रतीयते ॥ २अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ इति । केवलान्वयिनो लक्षणमाह—अन्वयेति । अन्वयेनैव व्याप्तिर्यस्मिन् स तथा । प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिं निराकरोति - अत्रेति । अभिधे- यत्वसाध्यकानुमान इत्यर्थः । ननु कुतस्तन्निषेधोऽतस्तत्र हेतुमाह-सर्वस्येति । पदार्थमात्रस्येत्यर्थः । तथाच ३सकलपदाभिधेयत्वस्येश्वरप्रमाविषयत्वस्य चात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वेन तदभावाप्रसिद्ध्या तद्घटित- व्यतिरेकव्याप्तिर्न सम्भवत्येवेति भावः । हिन्दी १. साध्य वह्नि, उसका अभाव वह्न्यभाव, उसका व्यापकीभूत अभाव धूमाभाव, उसकी प्रतियोगिता धूममें होनेसे धूममें वह्निकी व्यतिरेकव्याप्ति भी सिद्ध हो गयी । २. अन्वयव्याप्तिमें हेतु व्याप्य होता है और साध्य व्यापक होता है ! किन्तु व्यतिरेकव्याप्तिमें इसके विपरीत साध्याभाव व्याप्य होता है और हेत्वभाव व्यापक होता है । ३. घटपदाभिधेयत्व केवल घटमें है अन्यत्र नहीं है, ऐसे ही पटपदाभिधेयत्व केवल पटमें ही है, अन्यत्र उसका अत्यन्ताभाव है । किन्तु 'सर्व'पदका अभिधेयत्व सबमें होनेसे केवलान्वयी हुआ । इसी प्रकार हमारी प्रमाकी विषयता कुछ ही पदार्थोंमें है । किंतु ईश्वरीयप्रमाविषयता सर्वत्र होनेसे अत्यन्ताभावका अप्रतियोगी वह भी हुई । इसलिये प्रमेयत्व भी केवलान्वयी हुआ । इसलिये केवलान्वयी होनेसे अभिधेयत्व और प्रमेयत्वका अभाव अप्रसिद्ध होगा । अतः अभावघटित व्यतिरेकव्याप्ति प्रमेयत्व और अभिधेयत्व में नहीं हो सकती है । इसलिये इसे केवलान्वयी कहते हैं ।
सान्दपदकृत्यसहितः १६५ केवलव्यतिरेकिणः किं लक्षणम् ?— व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा-पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्, यदितेरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम्, न चेयं तथा, तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्न- मित्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् । पक्षस्य किं लक्षणम् ?— सन्दिग्धसाध्यवान् पक्षः । यथा-धूमवत्त्वे हेतौ पर्वतः । पदकृत्यम् केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । व्यतिरेकेणैव व्याप्तिर्य- स्मिंस्तत्तथा । अन्वयव्यतिरेकिण्यतिव्याप्तिवारणाय मात्रेति । न चेयं तथेति । इयं पृथिवी, न तथा-न गन्धाभाववतीत्यर्थः । तस्मान्न तथेति । गन्धाभाव- वत्त्वाभावादितरभेदाभाववती नेत्यर्थः । नन्वत्र किमिति नान्वयव्याप्ति- रीत्याशङ्क्य परिहरति-अत्रेति । इतरभेदसाधकानुमान इत्यर्थः । इदमुपल- क्षणम् । जीवच्छरीरं सात्मकं, प्राणादिमत्त्वात्, यन्नैवं तन्नैवं यथा घटः । प्रत्य- क्षादिकं प्रमाणमिति व्यवहर्तव्यं, प्रमाकरणत्वात्, यन्नैवं तन्नैवं यथा प्रत्यक्षा- भासः । विवादास्पदम् आकाशमिति व्यवहर्तव्यं, शब्दवत्त्वादित्यादिकमपि केवलव्यतिरेकि द्रष्टव्यम् । अत्रेदं बोध्यम् — १अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते, तानि कानि ! इति चेच्छ्रूयताम्-पक्षधर्मत्वं सपक्षसत्त्वम् विपक्षाद्व्या- वृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । अबाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम्, तस्य भावस्तत्त्वम् । एवं साध्याभावसाधकं हेत्वन्तरं यस्य, स सत्प्रतिपक्ष इत्युच्यते स नास्ति यस्य सोऽसत्प्रतिपक्षः, तस्य भावस्तत्त्व- मिति बोध्यम् । केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात् । केवलव्यतिरेक्यपि तथा तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति, उपदर्शितरूपाणां मध्ये कतिपयरूपो- पपन्नत्वात् । अथ पृथिवीमात्रस्य पक्षत्वादित्यत्र किं नाम पक्षतेत्यपेक्षायां तां निर्वक्ति - सन्दिग्धेति । सपक्षवारणाय सन्दिग्धेति । हिन्दी १. अन्वयव्यतिरेकी हेतु पक्षसत्त्व, सपक्षसत्त्व, विपक्षव्यावृत्तत्व, अबाधितविषयत्व और असत्प्रतिपक्षत्वरूप पञ्चरूप से युक्त होकर साध्यकी सिद्धि करता है। केवलान्वयी हेतु तो चाररूपोंसे ही युक्त होकर अपने साध्यकी सिद्धि करता है। क्योंकि विपक्ष नही होनेसे विपक्षव्यावृत्तत्व नहीं मिल सकेगा। एवं केवलव्यतिरेकी हेतु भी चाररूपोंसे
१६६ तर्कसंग्रहः [ अनुमानपरिच्छेदः सपक्षस्य किं लक्षणम् ? — निश्चितसाध्यवान् सपक्षः । यथा-तत्रैव महानसम् । विपक्षस्य किं लक्षणम् ? — निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः । हेत्वाभासाः कतिविधाः ? — सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । सव्यभिचारस्य लक्षणं किं, कतिविधश्च सः— सव्यभिचारोऽनैकान्तिकः । स त्रिविधः—साधारणासाधार- णानुपसंहारिभेदात् । पदकृत्यम् निश्चितेति । पक्षेऽतिव्याप्तिवारणाय निश्चितेति । तत्रैवेति । धूमवत्त्व- हेतावेवेत्यर्थः । निश्चितेति । सपक्षेऽतिव्याप्तिवारणाय साध्येति । पक्षेऽतिव्याप्तिवार- णाय निश्चितेति । तत्रैव—धूमवत्त्व एव । हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह—सव्यभिचारेति । हेतुवदाभासन्ते इति हेत्वाभासाः । १तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञान- विषयत्वम् । बाधस्थले 'वह्निरनुष्ण' इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णत्व- वद्वह्नावुष्णत्वसाधकं द्रव्यत्वमित्याकारकं, तद्विषयत्वस्य विषयतासम्बन्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः । सद्धेतुवारणाय यथार्थेति । घटा- दिवारणाय अनुमितितत्करणान्यतरप्रतिबन्धकेति । व्यभिचारिणि अव्याप्ति- वारणाय तत्करणान्यतरेति । हिन्दी ही युक्त होकर साध्यकी सिद्धि करता है। क्योंकि सपक्ष नहीं होनेसे सपक्षसत्त्वका अभाव रहेगा । १. अनुमिति और उसका करण व्याप्तिज्ञान इन दोनोंमें किसी एकका प्रतिबन्धक जो यथार्थज्ञान, अर्थात् सव्यभिचारत्व, विरुद्धत्व, सत्प्रतिपक्षत्व, असिद्धत्व और बाधित- त्वका यथार्थज्ञान, इसका जो विषय सव्यभिचार आदि, वे ही हेत्वाभास हैं । जैसे, बाधस्थलमें “वह्निरनुष्णः” इस अनुमितिका प्रतिबन्धक ज्ञान होगा “उष्णे वह्नौ अनु- ष्णत्वसाधकं द्रव्यत्वम्” इत्याकारक, उसकी विषयता द्रव्यत्वमें है । इसलिये द्रव्यत्व हेतु नहीं है किन्तु हेत्वाभास है ।
सहिन्दीपदकृत्यसहितः १६७ साधारणस्य किं लक्षणम् ?— तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः । यथा-पर्वतो वह्निमान् प्रमेयत्वादिति । (अत्र) प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । असाधारणस्य किं लक्षणम् ?— सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा-शब्दो नित्यः शब्दत्वादिति । (अत्र) शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति । अनुपसंहारिणः किं लक्षणम् ?— अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा-सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति । विरुद्धस्य किं लक्षणम् ?— साध्याभावव्याप्तो हेतुविरुद्धः । यथा-शब्दो नित्यः कृतकत्वात् पदकृत्यम् तत्रेति । साधारणादित्रितयमध्य इत्यर्थः । अथ 'विरुद्धेऽतिप्रसक्तिरिति मा स्म दृप्यः, सपक्षवृत्तित्वस्यापि निवेशात् । अथैवमपि स्वरूपासिद्धे दूषणं जागर्तीति मा वह गर्वम्, पक्षवृत्तित्वस्यापि तथात्वात् । पक्षमात्रेति । सर्वे ये सपक्षा विपक्षास्तेभ्यो व्यावर्तत इति सपक्षविपक्ष- व्यावृत्तः । केवलव्यतिरेकिवारणाय तद्भिन्न इत्यपि देयम् । अन्वयेति । केवलान्वयिन्यतिव्याप्तिवारणाय अन्वयेति । केवलव्यतिरे- किण्यतिव्याप्तिवारणाय व्यतिरेकेति । अत्रेति । उपदर्शितानुमान इत्यर्थः । विरुद्धं लक्षयति—साध्येति । सद्धेतुवारणाय साध्याभावव्याप्त इति । ²सत्प्रतिपक्षवारणाय सत्प्रतिपक्षभिन्न इत्यपि बोध्यम् । कृतकत्वादिति । हिन्दी १. साध्याभाववद्वृत्तित्व विरुद्धहेतुमें भी रहता है, अतः उसमें साधारणानैका- न्तिककी अतिप्रसक्ति रोकनेके लिये सपक्षवृत्तित्वका निवेश कर देना चाहिये ; एवं स्वरूपासिद्धमें अतिव्याप्तिवारणके लिये पक्षवृत्तित्वका भी निवेश कर देना चाहिये । तब यों लक्षण बन गया—सपक्षवृत्तित्वे सति पक्षवृत्तित्वे सति साध्याभाववद्वृत्तित्वम् साधारणानैकान्तिकत्वम् इति । २. सत्प्रतिपक्ष हेतु भी साध्याभावसे व्याप्त होता है, अतः उसमें विरुद्धलक्षणकी अतिव्याप्तिके वारणार्थ 'सत्प्रतिपक्षभिन्न' ऐसा विशेषण देना चाहिये ।
१६८ तर्कसंग्रहः [ अनुमानपरिच्छेदः घटवदिति । (अत्र) कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् । सत्प्रतिपक्षस्य किं लक्षणम् ? — साध्याभावसाधकं हेत्वन्तरं यस्य, स सत्प्रतिपक्षः । यथा- शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत्, शब्दोऽनित्यः कार्यत्वाद् घटवत् । असिद्धः कतिविधः ? — असिद्धस्त्रिविधः—आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासि- सिद्धश्चेति । आश्रयासिद्धः कः ? — आश्रयासिद्धो यथा-गगनारविन्दं सुरभि, अरविन्दत्वात्, सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः, स नास्त्येव । स्वरूपासिद्धस्य किं रूपम् ? — स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति, शब्दस्य श्रावणत्वाद् । पदकृत्यम् कार्यत्वादित्यर्थः । कृतकत्वमिति । अनित्यत्वेन व्याप्तमिति । यद्यत्कृतकं तत्तदनित्यमिति व्याप्तिर्भवत्येव तथेति भावः । सत्प्रतिपक्षं लक्षयति — साध्येति । यस्य हेतोः साध्याभावसाधकं = साध्या- भावस्यानुमापकं हेत्वन्तरं = प्रतिपक्षो हेतुः विद्यते, स हेतुः सत्प्रतिपक्ष इत्यर्थः । अयमेव प्रकरणसम इत्युच्यते । विरुद्धवारणाय हेत्वन्तरं यस्येति । वह्न्यादिवारणाय साध्याभावेति । असिद्धं विभजते — असिद्ध इति । आश्रयासिद्ध्याद्यन्यतमत्वमसिद्धत्वम् । आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्पक्षकत्वम् । भवति हि अर- विन्दत्वे गगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम्, अरविन्दरूपपक्षे गगनीयत्वविरहात् । ननु कथमरविन्दे गगनीयत्वविरहोऽत आह-अत्रेति । उपदर्शितानुमान इत्यर्थः । पक्षे हेत्वभावः स्वरूपासिद्धिः । सद्धेत्वभावेऽतिव्याप्तिवारणाय पक्षे इति । घटाद्यभाववारणाय हेत्विति । सोऽयं स्वरूपासिद्धः शुद्धासिद्धभागा- सिद्धविशेषणासिद्धविशेष्यासिद्धभेदेन चतुर्विधः । तत्राद्यस्तूपदर्शित एव ।
सहिन्दीपदकृत्यसहितः १६९ व्याप्तत्वासिद्धः कः किञ्चोपाधिस्वरूपम् ?— सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रति- पदकृत्यम् द्वितीयो यथा—उद्भूतरूपादिचतुष्टयं गुणः रूपत्वादित्यत्र रूपत्वहेतोः पक्षैकदेशवृत्तित्वेन तस्य भागे स्वरूपासिद्धत्वम् । तृतीयो यथा—वायुः प्रत्यक्षः रूपवत्त्वे सति स्पर्शवत्त्वादित्यत्र रूपवत्त्वविशेषणस्य वायाव- भावात्तद्विशिष्टस्पर्शवत्त्वस्यापि तथात्वेन तस्य स्वरूपासिद्धत्वं निर्वहति, विशेषणाभावे विशिष्टस्याप्यभावात् । तुरीयो १यथा—अत्रैव विशेषण- विशेष्यवैपरीत्येन हेतुः । तस्य स्वरूपासिद्धत्वं तु विशेष्याभावप्रयुक्त- विशिष्टाभावादिति बोध्यम् । व्याप्यत्वासिद्धं निरूपयति—सोपाधिक इति । ननु कोऽयमुपाधिरत आह—साध्येति । २साधनाव्यापक उपाधिरित्युक्ते शब्दोऽनित्यः कृतकत्वा- दित्यत्र सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्रहणार्हत्वमप्युपाधिः स्यात्तदर्थं साध्यव्यापकत्वमुक्तम् । ३तावत्युक्ते सामान्यवत्त्वादिनाऽनित्यत्वसाधने कृतकत्वमुपाधिः स्यात्तदर्थं साधनाव्यापकत्वम् । ४उपाधिभेदमादायासम्भव- हिन्दी १. "वायुः प्रत्यक्षः स्पर्शवत्त्वे सति रूपवत्त्वात्" यहाँका हेतु विशेष्यासिद्ध नामक चतुर्थ स्वरूपासिद्ध है । क्योंकि यहाँ रूपवत्त्वरूपविशेष्याभावप्रयुक्त विशिष्टाभाव है । २. उपाधिके लक्षणमें यदि केवल साधनाव्यापकत्व कहा जाय, साध्यव्यापकत्वका निवेश न हो तो "शब्दोऽनित्यः कृतकत्वात्" इस सद्धेतुस्थलमें "सामान्यवत्त्वे सति अस्मदादिबाह्येन्द्रियग्रहणविषयत्व" भी उपाधि हो जायगा । इसे वारण करनेके लिए "साध्यव्यापकत्व" कहा । यहाँ अनित्यत्वरूपसाध्य अस्मदादिके ज्ञान-सुखादिमें है, किन्तु उसमें हमारी बाह्येन्द्रियद्वारा ग्रहणकी विषयता नहीं है । अतः साध्यव्यापक नहीं होनेसे इस सद्धेतुस्थलमें उक्त उपाधि नहीं होगा । ३. यदि 'साधनाव्यापकत्व' पद न दिया जाय तो 'गमनादि कर्म अनित्यं सामान्य- वत्त्वे सति बाह्येन्द्रियग्रहणार्हत्वात्" इस सद्धेतुक अनुमानमें भी कृतकत्व उपाधि होने लगेगा । उक्त पद देनेपर दोष नहीं हुआ । क्योंकि कृतकत्व यद्यपि अनित्यत्वरूप साध्यका व्यापक है, तथापि उक्त साधनका अव्यापक नहीं है किन्तु व्यापक ही है । ४. उपाधिके अन्तर्गत व्यापकत्वके स्वरूपमें अत्यन्ताभाव न कहा जाय तो 'पर्वतो धूमवान् वन्हेः' इत्यादिमें आर्द्रन्धनसंयोग आदि कोई भी उपाधि नहीं हो सकेगा, अर्थात् सर्वत्र उपाधिलक्षणका असंभव हो जायगा । क्योंकि जहाँ जहाँ साध्य होगा वहाँ उपा-
योगित्वं साध्यव्यापकत्वम्। साधनवनिष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। पर्वतो धूमवान् वह्निमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः। यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता। यत्र पदकृत्यम् वारणाय व्यापकत्वशरीरेऽप्यत्यन्तपदमादेयम्। साधनभेदमादाय साधनस्यो- पाधित्ववारणायाव्यापकत्वशरीरेऽप्यत्यन्तपदमवश्यं देयम्। सोऽयमुपाधिस्त्रिविधः—केवलसाध्यव्यापकः पक्षधर्मावच्छिन्नसाध्यव्या- पकः साधनावच्छिन्नसाध्यव्यापकश्चेति। तत्राद्य उपदर्शितः। एवं क्रत्वन्तर्व- र्तिनी हिंसा अधर्मजनिका हिंसात्वात् क्रतुबाह्यहिंसावदित्यत्र निषिद्धत्व- मुपाधिः। तस्य यत्राधर्मजनकत्वं तत्र निषिद्धत्वमिति साध्यव्यापकता। यत्र हिंसात्वं तत्र न निषिद्धत्वमिति निषिद्धत्वमुपाधिः साधनाव्यापकः, क्रतुहिं- सायां निषिद्धत्वस्याभावात्। ‘न हिंस्यात्सर्वाणि (सर्वा) भूतानि’ इति सामान्यवाक्यतः ‘पशुना यजेत’ इत्यादिविशेषवाक्यस्य बलीयस्त्वात्। अतो हिंसात्वं नाधर्मजनकत्वे प्रयोजक मपि तु निषिद्धत्वमेवेत्यादिकमपि द्रष्टव्यम्। द्वितीयो यथा—वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्व- मुपाधिः। तस्य यत्र प्रत्यक्षत्वं तत्रोद्भूतरूपवत्त्वमिति न केवलसाध्यव्याप- कत्वं, रूपे व्यभिचारात्, किन्तु द्रव्यत्वरूपो यः पक्षधर्मस्तदवच्छिन्नबहिःप्रत्य- क्षत्वं यत्र, तत्रोद्भूतरूपवत्त्वमिति पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव। हिन्दी धिका भेद रह जानेसे वह उपाधि साध्यसमानाधिकरणभेदका प्रतियोगी ही हो जायगा और वह साध्यव्यापक नहीं हो सकेगा। अतः व्यापकत्वशरीरमें अत्यन्ताभावका निवेश आवश्यक है। ऐसे ही "साधनाव्यापकत्वम्" यहाँ भी अव्यापकत्वस्वरूपमें केवल अभाव न कहकर अत्यन्ताभावका निवेश आवश्यक है; अन्यथा "पर्वतो धूमवान् वह्नेः" इत्यादि स्थलमें सर्वत्र साधन ही उपाधि बन जायगा। क्योंकि वह्निहेतु धूमरूप- साध्यका व्यापक भी है और वह्न्यधिकरणमें वह्निका अत्यन्ताभाव न होनेपर भी वह्निका भेद तो रहेगा ही। अतः वह्निसमानाधिकरणभेदकी प्रतियोगिता वह्निमें होनेसे स्वयं वह्नि ही वह्निका अव्यापक भी हो जायगा। इस प्रकार सर्वत्र सोपाधिक स्थलमें साधन ही उपाधि होने लगेगा। जो असंगत है। असंगत इसलिए है कि उपाधिके व्यभिचारसे हेतुमें साध्यके व्यभिचारका अनुमान कराना उपाधिका प्रयोजन है, वह नहीं हो सकेगा। क्योंकि यदि हेतु ही उपाधि हो तो उसीका व्यभिचारी वही नहीं होता है, अतः वह साध्यके व्यभिचारका अनुमान कैसे करा सकेगा ?
सहिन्दीपदकृत्यसहितः १७१ वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावा- दिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्याप- कत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्य- त्वासिद्धम् । बाधितस्य किं लक्षणम् ? — यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा- वह्निरनुष्णो द्रव्यत्वादिति । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् । । इत्यनुमानपरिच्छेदः । पदकृत्यम् आत्मनि व्यभिचारवारणाय ‘बहिः’ पदम् । यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च, वायावुद्भूतरूपविरहात् । तृतीयो यथा — ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वमुपाधिः । तस्य यत्र विनाशित्वं तत्र भावत्वमिति न केवलसाध्यव्यापकत्वम्, प्रागभावे भावत्वविरहात्, किन्तु जन्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र, तत्र भावत्वमिति साधनावच्छिन्नसाध्यव्यापकत्वमेव । यत्र जन्यत्वं तत्र न भावत्वमिति साधनाव्यापकत्वञ्च, ध्वंसे भावत्वविरहात् । एवं स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वमुपाधिः । श्यामत्वस्य नीलघटेऽपि सत्त्वान्न केवलसाध्यव्यापकत्वम्, किन्तु साधनावच्छिन्नसाध्यव्यापकत्वमेव । अष्टमे पुत्रे शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं चेत्यादिकमपि द्रष्टव्यम् । यस्येति । १सद्धेतुवारणाय प्रमाणान्तरेणेति । घटादिवारणाय साध्येति । । इति पदकृत्येऽनुमानपरिच्छेदः । हिन्दी १. भ्रमात्मक साध्याभावके निश्चयको लेकर सद्धेतु भी बाधित न हो जाय इसके लिए प्रमाणान्तरका निवेश किया । उदासीन घटादिके अभावनिश्चयसे सद्धेतु भी बाधित न हो जाय, इसके लिए साध्यपद दिया । अर्थात् साध्याभावनिश्चयसे ही हेतु बाधित होता है । । इति श्रीकेदारनाथत्रिपाठिकृतायां तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यामनुमानपरिच्छेदः ।