वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
Here is the line-by-line transcription of the Sanskrit text from the provided image into clean Unicode Devanagari Markdown:
( २१४ ) सिद्धान्तकौमुद्याम्- रजतादिभ्योऽञ्' इत्यञि प्राप्ते । समूहेऽप्यणि प्राप्ते ।। 'एकाकिनोऽपि परितः पौरुषेयवृता इव' इति माघः ।। तेन कृते ग्रन्थेऽणि प्राप्ते । अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ।। माणवचरकाभ्यां खञ् । ५ । १ । ११ ।। माणवाय हितं माणवीनम् । चारकीणम् ।। तदर्थं विकृतेः प्रकृतौ । ५।१।१२ ।। विकृतिवाचकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् ।। अङ्गारेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ।। छदिरुपधिवलेर्ढञ् ।५।१।१३ ।। छादिष्टेयानि तृणानि । बालेयास्तण्डुलाः ।। उपधिशब्दात्स्वार्थे इष्यते * ।। उपधीयत इत्युपधिः रथाङ्गं तदेव औपधेयम् ।। ऋषभो- पानहोर्ख्यः ।५।१।१४ ।। छस्यापवादः ।। आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्य- प्ययमेव पूर्वविप्रतिषेधेन । औपानह्यं चर्म ।। चर्मणोऽञ् । ५ । १ । १५ ।। चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् ।। वद्ध्र्यै इदं वार्द्धं चर्म । वारत्रं चर्म ।। तदस्य तदस्मिन् स्यादिति ।५।१।१६ ।। प्राकार आसाामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । प्राकारोऽस्मिन् स्यात् प्राकारीयो देशः ।। इतिशब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न-प्रासादो देवदत्तस्य स्यादिति ।। परिखाया ढञ् । ५।१।१७ ।। पारिखेयी भूमिः ।। इति छयतोराधिक़ारप्रकरणम् । अथ तद्धितेष्वार्हीयप्रकरणम् । प्राग्वतेष्ठञ् ।५।१।१८ ।। तेन तुल्यमिति वतिं वक्ष्यति ततः प्राक् ठञधिक्रियते ।। आर्हाद्गोपुच्छसंख्यापरिमाणाट्ठक् । ५ । १ । १९ ।। तदर्हतीत्येतदभिव्याप्य ठञ- धिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्व्जयित्वा ।। असमासे $^A$निष्का- दिभ्यः ।५।१।२० ।। 'आर्हात्' इत्येतत् 'तेन क्रीतम्' इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादार्हीयेष्वर्थेषु ।। नैष्किकम् । समासे तु ठञ् ।। परिमाणान्तस्या- संज्ञाशाणयोः ।७।३।१७ ।। उत्तरपदवृद्धिः स्यात् ञिदादौ ।। परमनैष्किकः । अस- मासग्रहणं ज्ञापकं भवति-'इतः प्राक् तदन्तविधिरिति । तेन-सुगव्यम् । यवापूप्य- मित्यादि ।। इत ऊर्ध्वं तु संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि ।। पारा- यणिकः । द्वैपारायणिकः ।। अलुकीति किम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् मा भूत् । किं तु ठञ् । द्विशौर्पिकम् ।। अर्धात्परिमाणस्य पूर्वस्य तु वा । ७ । ३।२६ ।। अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च ।। अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् । अर्धद्रौणिकम् ।। नातः परस्य । ७ । ३।२७ ।। अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ ।। अर्धप्रस्थिकम् । आर्ध- प्रस्थिकम् ।। अतः किम् ? आर्धकौडविकम् ।। तपरः किम् । अर्धखार्या भवा अर्धखारी । $^A$ निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि । इति निष्कादिः ॥
कनामपवादः" or "स्यादण्ठकनामपवादः"! Wait, let's look at the letter between 'स्या' and 'ण्ठ': Is it 'द'? Wait, let's look at line 15 very carefully: "एभ्योऽण् स्यादण्ठकनामपवादः ॥" Wait, could that letter be 'द'? Let's compare 'द' in: Line 13: "शूर्पादञन्यतरस्याम्" -> 'द' in 'शूर्पादञ' Line 14: "शतमानविंशतिकसहस्रवसनादण्" -> 'द' in 'वसनादण्' Line 15: "एभ्योऽण् स्या..." -> the letter has: a top horizontal bar, a short vertical stroke down, a curve to the right, then a curve back to the left, and then a curve down-right? Wait, that is an 'S' shape! That's 'ड' or 'ङ' or 'द'? Wait, 'द' doesn't curve back to the left! 'द' goes: down, curve right, and tail down. 'ड' goes: down, curve right, curve left, curve right (S shape). Wait, look at the letter in line 15: It definitely has an S-shape! Wait, why would it have an S-shape? Wait, is it
शोणाद्वा । ५ । १ । ३५ ॥ यत्स्यात्पक्षे ठञ् तस्य लुक् ॥ अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥ द्वित्रिपूर्वादण् च । ५।१।३६ ॥ शाणादित्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणा- न्तस्यासंज्ञाशाणयोरिति पर्युदासादाद्विवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्विशाणम् ॥ इह टन्नादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाश्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥ तेन क्रीतम् । ५ । १।३७ ॥ ठञ् ॥ गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थि- कम् । टक् नैष्किकम् ॥ इद्गोण्याः । १ । २ । ५० ॥ गोण्या इत्स्यात्तद्धितलुकि । लुको- ऽपवादः ॥ पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥ तस्य निमित्तं संयोगोत्पातौ । । ५।१।३८ ॥ संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः शत्यो वा धनपति- संयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ॥ वातपित्तश्लेष्म- भ्यः शमनकोपनयोरुपसंख्यानम् * ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ सन्निपाताच्चेति वक्तव्यम् * ॥ सान्निपातिकम् ॥ गोद्व्यचोऽसंख्यापरि- माणाᴬश्वादेर्यत् । ५ । १।३० ॥ गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्वयचः,-धन्यः । यशस्यः । स्वर्ग्यः ॥ गोद्व्यचः किम् ? विजयस्य वैजयिकः ॥ असंख्येत्यादि किम् ? पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् ॥ अश्वादि-आश्विकम् । आश्मिकम् ॥ ब्रह्म- वर्चसादुपसंख्यानम् * ॥ ब्रह्मवर्चस्यम् ॥ पुत्राच्छ च । ५ । १।४० ॥ चाद्यत् ॥ पुत्रीयः । पुत्र्यः ॥ सर्वभूमिपृथिवीभ्यामणञौ । ५ । १ । ४१ ॥ सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते ॥ पार्थिवः । तस्येश्वरः । ५।१।४२ ॥ तत्र विदित इति च । ५।१।४३ ॥ सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥ लोकसर्वलोकाट्ठञ् । ५ । १ । ४४ ॥ तत्र विदित इत्यर्थे ॥ लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः-सार्वलौकिकः ॥ तस्य वापः । ५ । १ । ४५ ॥ उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ पात्रात् छन् । ५।१।४६ ॥ पात्रस्य वापः क्षेत्रं पात्रिकम् । पात्रिकी क्षेत्रभक्तिः ॥ तद- स्मिन्वृद्धयायलाभशुल्कोपदा दीयते । ५ । १ । ४७ ॥ वृद्धिर्दीयते इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्क उपदा वा दीयते पञ्चकः । शतिकः । शत्यः । साहस्रः ॥ उत्तर्मणेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकं ग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थे उपसंख्यानम् * ॥ पञ्चास्मै वृद्धयादिर्दीयते पञ्चको देवदत्तः । ⁴ 'सममब्राह्मणे दानम्' इतिवदधिकरणत्वविवक्षा वा ॥ पूरणार्द्धाट्ठन् । ५।१।४८ ॥ यथाक्रमं ठक्ठिठ्नोरपवादः । द्वितीयो वृद्धयादिरस्मिन् दीयते द्वितीयिकः । तृतीयिकः ।
A अश्व, अश्मन्, गण, ऊर्णा, उमा, क्षण, वर्षा, वसु, ( गङ्गा) इत्यादिः ॥ १ शतशाणाभ्यां वा ॥ * ॥ अध्यर्धशतम् अध्यर्धशत्यम् । पञ्चशतम् पञ्चशत्यम् ॥ २ पञ्चशाणम् पञ्चशाण्यम् ॥ ३ इदं वार्तिकं सूत्रपाठे कैश्चित्प्रक्षिप्तम् ॥ ४ 'सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । अधीते शतसाहस्रमनन्तं वेदपारगे ॥' इति ॥
अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥ भागाद्यच्च । ५ । १ । ४९ ॥ चाहन् ॥ भाग- शब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन् दीयते भाग्यं भागिकं शतम् । भाग्या भागिका विंशतिः ॥ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः^A । ५।१। ५० ॥ वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्वितीयान्तादि- त्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्य इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥ वसनद्रव्याभ्यां ठन्कनौ । ५।१।५१ ॥ यथासंख्यं स्तः । वसनं हरति वहत्यावहति वा वसनिकः । द्रव्यकः ॥ संभवत्यवहरति पचति । ५।१।५२ ॥ प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थ- मवहरति पचति वेत्यर्थः ॥ तत्पचतीति द्रोणादण् च * ॥ चाड्ठञ् । द्रोणं पचतीति द्रौणी । द्रौणिकी ॥ आढकाचितपात्रात्खोऽन्यतरस्याम् । ५।१।५३ ॥ पक्षे ठञ् आढकं संभवति अवहरति पचति वा आढकीना । आढकिकी । आचितीना । आचितिकी । पात्रीणा । पात्रिकी ॥ द्विगोः ष्ठंश्च । ५।१।५४ ॥ आढकाचितपात्रादित्येव । आढकाद्य- न्ताद्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः ॥ पक्षे ठञ् तस्य 'अध्यर्धेति' लुक् । षित्त्वान्ङीष् । द्वयाढकिकी । द्वयाढकीना । 'द्विगोरिति ङीप् । द्वयाढकी । द्वयाचितिकी । द्वयाचितीना । ‘अपरिमाणेति ङीप्प्रतिषेधात्-द्वयाचिता ॥ द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥ कुलिजाल्लु- क्खौ च । ५।१।५५ ॥ कुलिजान्ताद्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः चात् ष्ठंश्च ॥ लुगभावे ठञः श्रवणम् । द्विकुलिजी । द्वैकुलिजिकी । द्विकुलिजीना । द्विकुलि- जिकी ॥ सोऽस्यांशवसनभृतयः । ५।१।५६ ॥ अंशो भागः । वसनं मूल्यम् । भृति- र्वेतनम् । पञ्च अंशो वसनो भृतिर्वास्य पञ्चकः ॥ तदस्य परिमाणम् । ५।१।५७ ॥ प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥ संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु । ५।१। ५८ ॥ पूर्वसूत्रमनुवर्तते । तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः । यद्वा 'द्व्येकयोरितिवत्संख्या- मात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे-पञ्चकः । सूत्रे-अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपा- त्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः * ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ट्यादिसंज्ञिका स्तुतिः स्तोमः ॥ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । ५।१।५९ ॥ एते रूढिशब्दा निपात्यन्ते ॥ पञ्चदशतौ वर्गे वा । ५।१।६० ॥ पञ्च परिमाणमस्य पञ्च- द्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्
^A वंश, कुटज, बल्वज, स्थूण, स्थूणा, अक्ष, अश्व, अश्मन्, श्लक्ष्ण, मूल, इक्षु, खङ्ग । इति वंशादिः ॥ १४-२
।५।१।६२ ॥ त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ब्राह्मणानि ॥ तदर्हति ।५।१।६३ ॥ लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः ॥ श्वेतच्छत्रम- र्हति श्वेतच्छत्रिकः ॥ ᴬछेदादिभ्यो नित्यम् ।५।१।६४ ॥ नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छेदिको वेतसः । छिन्नप्ररूढत्वात् ॥ विराग विरङ्गं च * ॥ विरागं नित्यम- र्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यच्च ।५।१।६५ ॥ शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः । शीर्षच्छेदिकः । यट्ठकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते ॥ ᴮदण्डादिभ्यो यत् ।५।१।६६ ॥ एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः वध्यः ॥ पात्राद् घंश्च ।५।१।६८ ॥ चाद्यत् तदर्हतीत्यर्थे ॥ पात्रीयः । पात्र्यः ॥ कडङ्करदक्षिणाच्छ च।५।१ ।६९ ॥ चाद्यत् ॥ कडं करोतीति विग्रहे अत एव निपातनात् खच् । कडङ्करं माषमुद्गा- दिकाष्ठमर्हतीति कडङ्करीयो गौः । कडङ्कर्यः । दक्षिणामर्हतीति दक्षिणीयः । दक्षिण्यः ॥ स्थालीबिलात् ।५।१।७० ॥ स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः । स्थाली- बिल्याः । पाकयोग्या इत्यर्थः ॥ यज्ञर्त्विग्भ्यां घखञौ ।५।१।७१ ॥ यथासंख्यं स्तः ॥ यज्ञमृत्विजं वाऽर्हति यज्ञियः । आर्त्विजीनो यजमानः ॥ यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसं- ख्यानम् * ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां प्रकरणम् । अथ ठञधिकारे कालाधिकारप्रकरणम् । अतः परं ठञेव ॥ पारायणतुरायणचान्द्रायणं वर्तयति ।५।१।७२ ॥ पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः तं वर्तयति तौरायणिको यजमानः । चान्द्रायणिकः ॥ संशयमापन्नः ।५।१।७३ ॥ संशयविषयीभूतोऽर्थः सांशयिकः ॥ योजनं गच्छति ।५।१।७४ ॥ यौजनिकः । क्रोशशतयोजनशतयोरुपसंख्यानम् * ॥ क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् * ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥ पथः ष्कन् ।५।१।७५ ॥ षो ङीबर्थः । पन्थानं गच्छति पथिकः । पथिकी ॥ पन्थो ण नित्यम् ।५।२।७६ ॥ पन्थानं नित्यं गच्छति पान्थः । पान्था ॥ उत्तरपथेनाहृतं च ।५।१।७७ ॥ उत्तरपथेनाहृतम् औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ A छेद, भेद, द्रोह, दोह, नर्त, कर्ष, तीर्थ, संयोग, विप्रयोग, प्रयोग, विप्रकर्ष, प्रेषण, संप्रश्र, विप्रश्र, विकर्ष, प्रकर्ष, ‘विराग विरङ्गं च’ । इति छेदादिः ॥ B दण्ड, मुसल, मधुपर्क, कशा, अर्ध, मेघ, मेधा, सुवर्ण, उदक, वध, युग, गुहा, भाग, इभ, भङ्ग । इति दण्डादिः ॥ १ अत्र य इति त्वपपाठः ॥ २ संशयशब्दस्तद्विषयत्वे लाक्षणिकः । एवं च स्थाणुर्वा पुरुषो वेति संश- यविषयीभूते स्थाण्वादावेवायं प्रयोगः ॥
्कुपथेन गच्छति शाङ्कुपथिकः" -> wait, 'शा', 'ङ्कु' (with u-matra), 'प', 'थि', 'कः'! Yes, "शाङ्कुपथिकः"! Wait, let's look closely at line 30: "शङ्कुपथेन गच्छति शाङ्कुपथिकः शङ्कुपथेनाहृतं शाङ्कुपथिकम् ॥" Let's check the first one: "शाङ्कुपथिकः" - wait, there is no u-matra on the first one or there is? Wait, let's zoom in on line 30: "शङ्कुपथेन गच्छति शाङ्कुपथिकः" - wait, under the ङ्क, is there a curve? Wait: "शा" + "ङ्क" + "प" -> wait, does it have ु? The second one definitely has ु: "शाङ्कुपथिकम्". The first one: wait, let's look at "शाङ्कुपथिकः": there is a small tail, but it might be missing or faint. Actually in Paninian vritti: "शाङ्कपथिकः" or "शाङ्कुपथिकः"? The base is शङ्कुपथ. With ठञ्: शङ्कुपथ + ठञ् -> उत्तरपदवृद्धि or आदि Mans? By "अजपथशङ्कुपथाभ्यां चेति वक्तव्यम्", ठञ
( २२० ) सिद्धान्तकौमुद्याम्- पारेजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ॥ तदस्य ब्रह्मचर्यम् ॥५।१।९४ ॥ द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् ॥ अत्य- न्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । अर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥ ^Aमहानाम्न्यादिभ्यः षष्ठ्य- न्तेभ्य उपसंख्यानम् * ॥ महानाम्यो नाम 'विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य महानाम्निकः । हरदत्तस्तु 'भस्याढे' इति पुंवद्भावान्माहानामिक इत्याह ॥ चतुर्मासाण्ण्यो यज्ञे तत्र भव इत्यर्थे * ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ संज्ञाया- मण् * ॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अणन्तत्वान्ङीप् ॥ त
तद्धितेषु भावकर्मार्थप्रकरणम् । (२२१) प्रभवति सान्तापिकः । सांग्रामिकः ॥ योगाद्यच्च ५।१।१०२ ॥ चाट्ठञ् । योगाय प्रभ- वति योग्यः । यौगिकः ॥ कर्मण उकञ् । ५।१।१०३ ॥ कर्मणे प्रभवति कार्मुकम् ॥ सम- यस्तदस्य प्राप्तम् । ५।१।१०४ ॥ समयः प्राप्तोऽस्य सामयिकम् ॥ ऋतोरण् । ५।१। १०५ ॥ ऋतुः प्राप्तोऽस्य आर्तवम् ॥ कालाद्यत् । ५।१।१०७ ॥ कालः प्राप्तोऽस्य काल्यं शीतम् ॥ प्रकृष्टे ठञ् । ५।१।१०८ ॥ कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥ प्रयोजनम् । ५।१।१०९ ॥ तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥ विशाखाषाढादण्मन्थद- ण्डयोः । ५।१।११० ॥ आभ्यामण् स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः । चूडादिभ्य उपसंख्यानम् * ॥ चूडा, चौडम् । श्रद्धा, श्राद्धम् ॥ ^Aअनुप्रवचनादिभ्यश्छः । ५।१।१११ ॥ अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥ समापनात्सपूर्वपदात् । ५।१।११२ ॥ व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥ ऐकागारिकट् चौरे । ५।१।११३ ॥ एकमसहा- यमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चौरः ॥ आकालिकाडाद्यन्तवचने । ५।१।११४ ॥ समानकालावायन्तौ यस्येत्याकालिकः । समानकालस्याकाल आदेशः । आशु विनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ॥ आकालाट्ठंश्च * ॥ आकालिका विद्युत् ॥ इति ठञधिकारप्रकरणम् । अथ भावकर्मार्थप्रकरणम् । तेन तुल्यं क्रिया चेद्वतिः । ५।१।११५ ॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते ॥ क्रिया चेदिति किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥ तत्र तस्येव । ५।१।११६ ॥ A अनुप्रवचन, उत्थापन, उपस्थापन, संवेशन, प्रवेशन, अनुप्रवेशन, अनुवासन, अनुवचन, अनुवाचन, अन्वारोहण, प्रारम्भण, आरम्भण, आरोहण, इत्यनुप्रवचनादिः ॥ १ ^Aअग्न्निपदादिभ्य (उपवस्त्रादिभ्यः) उपसंख्यानम् ॥ * ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशित्रम् ॥ २ भाष्ये 'अग्निपदादिभ्यः' इत्युक्त्वापि 'चौ^Bलम् श्राद्धम्' इत्युदाहरणदानमेवात्र प्रमाणम् ॥ ३ छत्रकरणे विशिपूरिपदिहरुहिप्रकृतेरनात् सपूर्वपदादुपसंख्यानम् ॥ * ॥ गेहानुप्रवेश- नीयम् । प्रपापूरणीयम् । गोप्रपदनीयम् । प्रासादारोहणीयम् ॥ ^Cस्वर्गादिभ्यो यत् ॥ * ॥ स्वर्ग्यम् । आयुष्यम् ॥ ^Dपुण्याहवाचनादिभ्यो लुक् ॥ * ॥ पुण्याहवाचनम् । शान्तिवाचनम् ॥ A उपवस्तृ, प्राशितृ । इत्यग्निपदादिः (इत्युपवस्त्रादिः) ॥ B चूडा, श्रद्धा । इत्यग्निपदादिः (इति चूडादिः) ॥ C स्वर्ग, यशस्, आयुस्, काम, धन । इति स्वर्गादिः ॥ D पुण्याहवाचन, स्वस्तिवाचन, शान्तिवाचन । इति पुण्याहवाचनादिः ॥
( २२२ ) सिद्धान्तकौमुद्याम्- मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः १ । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥ तदर्हम् । ५ । १ । ११७ ॥ विधिमर्हति विधिवत्पूज्यते ॥ क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । तेनेह न-राजा- नमर्हति छत्रम् ॥ तस्य भावस्त्वतलौ । ५ । १ । ११९ ॥ प्रकृतिजन्यबोधे प्रकारो भावः ॥ गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबम्, तलन्तं स्त्रियाम् ॥ आ च त्वात् । ५ । १ । १२० ॥ 'ब्रह्मणस्त्वः' इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः, स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतल- वणवटुयुधकतरसलसेभ्यः । ५ । १ । १२१ ॥ इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषात्न स्युरचतुरादीन्व्र्जयित्वा ॥ अपतित्वम् । अपटुत्वम् ॥ नञ्पूर्वात्किम् ? बार्हस्पत्यम् ॥ तत्पुरुषात्किम् ? नास्य पटवः सन्तीत्यपटुस्तस्य भावः आपटवम् ॥ अचतुरिति किम् ? आच- तुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकतर्यम् । आरस्यम् । आलस्यम् ॥ Aपृथ्वादिभ्य इमनिज्वा । ५ । १ । १२२ ॥ वावचनमणादिसमावेशार्थम् ॥ र ऋतो हलादेर्लघोः । ६ । ४ । १६१ ॥ हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥ टेः । ६।४।१५५ ॥ भस्य टेर्लोपः स्यादिष्टेमेयस्सु ॥ पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । म्रदवम् ॥ वर्णदृढादिभ्यः B ष्यञ् । ५ । १ । १२३ ॥ चादिमनिच् ॥ शौक्ल्यम् ॥ शुक्लिमा । द्राढ्यम् । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । द्रढिमा ॥ षो ङीषर्थः-औचिती । याथाकामी ॥ गुणवचनब्राह्मणादिभ्यः C कर्मणि च । ५ । १ । १२४ ॥ चाद्भावे ॥ जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम् च * ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥ यथातथा- A पृथु, मृदु, महत्, पटु, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, बहुल, खण्ड, दण्ड, चण्ड, अकिंचन, बाल, वत्स, होड, पाक, मन्द, स्वादु, ह्रस्व, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुद्र, अणु । इति पृथ्वादिः ॥ B दृढ, वृद्ध, परिवृढ, भृश, कृश, वक्र, शुक्र, चुक्र, आम्र, कृष्ट, लवण, ताम्र, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, स्थिर, 'वेर्यान्तान्मतिमनःशारदानाम्' 'समो मतिमनसोः' जवन । इति दृढादिः ॥ C ब्राह्मण, वाडव, माणव, 'अर्हतो नुम् च' चोर, धूर्त, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, अक्षेत्रज्ञ, संवादिन्, संवेशिन्, संभाषिन्, बहुभाषिन्, शीर्षघातिन्, विघातिन्, समस्थ, विषमस्थ, परमस्थ, मध्यस्थ, अनीश्वर, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, विश्व, बालिश, अलस, दुःपुरुष, कापुरुष, राजन्, गणपति, अधिपति, गड्डुल, दायाद, विशस्ति, विषम, विपात, निपात, 'सर्ववेदादिभ्यः स्वार्थे, 'चतुर्वेदस्योभयपदवृद्धिश्च,' शौटीर, ब्राह्मणादिराकृति- गणः । तेन औचित्यमित्यादि सिद्धम् ॥ १ प्रकार इति ॥ मुख्यविशेष्यतानिरूपितप्रकारताश्रय इत्यर्थः ॥ स च प्रवृत्तिनिमित्तमेव । तत्त्वं च यं विशेषणतया बुद्धिस्थीकृत्य विशेष्यभूतार्थबोधनार्थं शब्दस्य प्रवृत्तिस्तत्तत्त्वम् । क्वचित् प्रकारस्य तत्त्वम् यथा गवादिपदे । क्वचिच्च संसर्गस्यैव तत्त्वम् । यथा औपगवराजपुरुषपाचकादौ ॥ अत एव 'कृत्तद्धितसमा- सेभ्यः संबन्धाभिधानं भावप्रत्ययेन' । इति हरिणा टीकायामुक्तम् ॥
यथापुरयोः पर्यायेण । ७ । ३ । ३१ ॥ नञः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्निदादौ । अयथातथाभावः आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथा- पुर्यम् । आपादसमाप्तेर्भावकर्माधिकारः ॥ ^Aचतुर्वर्णादीनां स्वार्थ उपसंख्यानम् * ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाड्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः 'सर्वादेरिति लुक् । स एव सार्ववेद्यः ॥ चतुर्वेदस्योभयपदवृद्धिश्च * ॥ चतुरो वेदानधीते चतुर्वेदः स एव चातुर्वेद्यः ॥ चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्विद्यः ॥ स्तेनाद्यन्नलोपश्च । ।५।१।१२५ ॥ नेति संघातग्रहणम् । स्तेन चौय पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमपि केचिदिच्छन्ति ॥ सख्युर्यः ।५।१।१२६ ॥ सख्युर्भावः कर्म वा सख्यम् ॥ दूतवणिग्भ्यां च * ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका ॥ माधवस्तु वणिज्याशब्दः स्वभावात् स्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह ॥ भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव ॥ ब्राह्मणादित्वा- द्वाणिज्यमपि ॥ कपिज्ञात्योर्ढक् ।५।१।१२७ ॥ कापेयम् । ज्ञातेयम् ॥ पत्यन्तपुरो- ^Bहितादिभ्यो यक् ।५।१।१२८ ॥ सैनापत्यम् । पौरोहित्यम् ॥ राजाऽसे * ॥ राजश- ब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात् ष्यञ् । आधिराज्यम् ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ।५।१।१२९ ॥ प्राणभृज्जाति-आश्वम् । औष्ट्रम् । वयोवचने-कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥ हायनान्तयुवादिभ्योऽ^Dण् ।५।१।१३० ॥ द्वैहायनम् । त्रैहाय- नम् । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च * ॥ श्रौत्रम् । कुशलचपलनिपुणपिशु- नकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशालमित्यादि ॥ इग- A चतुर्वर्ण, चतुराश्रम, सर्वविद्य, त्रिलोक, त्रिस्वर, षड्गुण, सेना, अनन्तर, संनिधि, समीप, उपमा, सुख, तदर्थ, इतिह, मणिक । इति चतुर्वर्णादिः ॥ B पुरोहित, 'राजाऽसे' ग्रामिक, पिण्डिक, सुहित, बाल, मन्द, खण्डिक, दण्डिक, वर्मिक, कर्मिक, धर्मिक, शिलिक, सूतिक, मूलिक, तिलक, अञ्जलिक, अञ्जनिक, ऋषिक, पुत्रिक, अविक, छत्रिक, पर्णिक, पथिक, चर्मिक, प्रंतिक, सारथि, आस्तिक, सूत्रिक, संरक्ष, सूत्रक, नास्तिक, अजानिक, शाङ्कर, नागर, चूडिक । इति पुरोहितादिः ॥ C उद्गातृ, उन्नेतृ, प्रतिहर्तृ, प्रशास्तृ, होतृ, पोतृ, हर्तृ, रथगणक, पत्तिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, सुभग, मन्त्र । इत्युद्गात्रादिः ॥ D युवन्, स्थविर, होतृ, यजमान, 'पुरुषोऽसे' भ्रातृ, कुतुक, श्रवण, कटुक, कमण्डलु, कुस्त्री, सुस्त्री, दुःस्त्री, सुहृदय, दुर्हृदय, सहृद्, दुहृद्, सुभ्रातृ दुर्भ्रातृ, वृषल, परिव्राजक, सब्रह्मचारिन्, अनुशंस, 'हृदयासे' कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, 'श्रोत्रियस्य यलोपश्च' इति । युवादिः । १ अपिना दौत्यम् । अत एव 'यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ॥' इति मार्कण्डेयपुराणम् ॥
न्ताच्च लघूपूर्वात् ।५।१।१३१॥ शुचेर्भावः कर्म वा शौचम् । मौनम् ॥ कथं 'काव्यम्' कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥ योपधाद्गुरूपोत्तमाद्वुञ् ।५।१।१३२ ॥ रामणी- यकम् । आभिवानीयकम् ॥ सहायाद्द्वा * ॥ साहाय्यम् । सहायकम् ॥ द्वन्द्वमनोज्ञा- दि^Aभ्यश्च ।५।१।१३३ ॥ शैष्योपाध्यायिका । मनोज्ञकम् ॥ गोत्रचरणाच्छ्लाघात्या- कारतद्वेतेषु ।५।१।१३४ ॥ अत्याकारोविक्षेपः । तद्वेत्तस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः काठकेन श्लाघते ॥ होत्राभ्यश्छः ।५।१।१३५ ॥ होत्राशब्दः ऋत्वि- ग्वाची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाक
तद्धितेषु पाञ्चमिकप्रकरणम् । (२२५)
नयं बद्धाभक्ष्या॑तिनेयेषु ।५।२।९॥ अनुरायामे सादृश्ये च । अनुपदं बद्धा अनु- पदीना उपानत् । सर्वन्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः । तं नेयः अयानयीनः शारः ।॥ परोवरपरस्परपुत्रपौत्रमनुभवति ।५।२।१० ॥ परांश्चा- वरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते ॥ परांश्च परतरांश्चानुभवति पर- म्परीणः । प्रकृतेः परस्परभावो निपात्यते ॥ पुत्रपौत्राननुभवति पुत्रपौत्रीणः ॥ परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् ॥ कथं पारोवर्यवदिति ? असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥ अवारपारात्यन्तानु- कामं गामी ।५।२।११ ॥ अवारपारं गामी अवार
( २२६ ) सिद्धान्तकौमुद्याम्- कर्णस्य मूलं कर्णजाहम् ॥ पक्षात्तिः । ५ । २ । २५ ॥ मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥ तेन वित्तश्चुञ्चुप्चणपौ । ५ । २ । २६ ॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिष्ट- स्तेन चस्य नेत्संज्ञा । विद्यया वित्तौ विद्याचुञ्चुः । विद्याचणः ॥ विन्ञ्भ्यां नानाञौ नसह । ५ । २ । २७ ॥ असहार्था पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ ॥ विना । नाना ॥ वेः शालच्छङ्कटचौ । ५ । २ । २८ ॥ क्रियाविशिष्टसाधनवाचकात्स्वार्थे ॥ विस्तृतम् । विशा- लम् । विशङ्कटम् ॥ संप्रोदश्व कटच् । ५ । २ । २९ ॥ सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् * ॥ अलाबूनां रजः अलाबू- कटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः * ॥ गवां स्थानं गोगोष्ठ
वतुप्त्स्याद्वस्य च घः ॥ कियान् । इयान् ॥ किमः संख्यापरिमाणे डति च ।५।२। ४१ ॥ चाद्वतुप् । तस्य च वस्य घः स्यात् ॥ का संख्या येषां ते कति । कियन्तः ॥ संख्याया अवयवे तयप् ।५।२।४२ ॥ पञ्चावयवा अस्य पञ्चतयं दारु ॥ द्वित्रिभ्यां तयस्यायज्वा ।५।२ । ४३ ॥ द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥ उभा- दुदात्तो नित्यम् ।५।२।४४ ॥ उभशब्दात्तयपोऽयच् स्यात् स चायुदात्तः ॥ उभयम् ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ।५ । २ । ४५ ॥ एकादश अधिका अस्मिन्नेकाद- शम् ॥ शतसहस्रयोरेवेष्यते * ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ प्रकृति- प्रत्ययार्थयोः समानजातीयत्व एवेष्यते * ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥ षडन्तविंशतेश्च ।५।२
( २२५ ) सिद्धान्तकौमुद्याम्-
शतादिमासार्धमाससंवत्सराच्च । ५ । २ । ५७ ॥ शतस्य पूरणः शततमः । एकश- ततमः ॥ मासादेरत एव डट् । मासतमः ॥ षष्ट्यादेश्चाऽसंख्यादेः । ५ । २ । ५८ ॥ षष्टितमः । संख्यादेस्तु 'विंशत्यादिभ्य' इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥ मतौ छः सूक्तसाम्नोः । ५ । २ । ५९ ॥ मत्वर्थे छः स्यात् ॥ अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सूक्तम् । वारवन्तीयं साम ॥ अध्यायानुवाकयोर्लुक् । ५ । २।६० ॥ मत्वर्थस्य छस्य ॥ अत एव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् ॥ गर्द- भाण्डः । गर्दभाण्डीयः ॥ Aविमुक्तादिभ्योऽण् । ५।२।६१ ? ॥ मत्वर्थेऽण् स्यादध्यायानु- वाक्ययोः ॥ विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥ Bगोषदादिभ्यो वुन् । ५ । २। ६२ ॥ मत्वर्थेऽध्यायानुवाकयोः ॥ गोषदकः । इषेत्वकः ॥ तत्र कुशलः पथः । ५ । २ । ६३ ॥ वुन् स्यात् ॥ पथि कुशलः पथकः ॥ Cआकर्षादिभ्यः कन् । ५ । २।६४ ॥ आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निक- षोपलः ॥ धनहिरण्यात्कामे । ५ । २ । ६५ ॥ काम इच्छा । धने कामो धनको देवद- त्तस्य । हिरण्यकः ॥ स्वाङ्गेभ्यः प्रसिते । ५ । २ । ६६ ॥ केशेषु प्रसितः केशकः । तद्र- चनायां तत्पर इत्यर्थः ॥ उदराट्ठगाच्यूने । ५ । २ । ६७ ॥ अविजिगीषौ ठक् स्यात् । कनोऽपवादः ॥ बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः ॥ आच्यूने किम् ? उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥ सस्येन परिजातः । ५ । २ । ६८ ॥ कन् स्वर्यते नतु ठक् ॥ सस्यशब्दो गुणवाची नतु धान्यवाची ॥ शस्येनेति पाठान्तरम् ॥ सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥ अंशं हारी । ५ । २ । ६९ ॥ हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥ तन्त्रादचिरापहृते । ५ । २।७० ॥ तन्त्रकः पटः । प्रत्यग्र इत्यर्थः ॥ ब्राह्मणकोष्णिके संज्ञायाम् । ५ । २ । ७१ ॥ आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥ शीतोष्णाभ्यां कारिणि । ५ । २ । ७२ ॥ शीतं करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥ अधिकम् । ५ । २।७३ ॥ अध्या- रूढशब्दात्कन् उत्तरपदलोपश्च ॥ अनुकाभिकाभीकः कमिता । ५ । २ । ७४ ॥ अन्व- A विमुक्त, दैवासुर, रक्षोसुर, उपसद्, सुवर्ण, परिसारक, सदसत, वस्तु, मरुत, पत्नीवत्, वसुमत, महीयत्व, सत्त्ववत, बर्हिवत, दशार्ण, दशार्ह, वयसु, हविर्धान, पतत्रिन्, महित्री, अस्वहत्य, सोमापूषन्, इडा, अग्नाविष्णू, उर्वशी, वृत्रहन् । इति विमुक्तादिः ॥ B गोषद, इषेत्वा, मातरिश्वनः, देव्यत्वा, देवीरापः, कृष्णोस्याखरेष्ठः, दैवीं धियम्, रक्षोहण, युञ्जान, अञ्जन्, प्रभूत, प्रतूर्तं, कृशानु । इति गोषदादिः ॥ C आकर्ष ( आकष ), त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन्, निचाय, चय, विजय, जय, आचय, नय, पाद, दीप, हृद, हाद, गद्गद, शकुनि । इत्याकर्षादिः ॥ १ अध्यारूढो द्रोणः खारीमिति अधिकः खार्या द्रोणः । अधिका खारी द्रोणेन । इत्यधिकः कचित् पाठः ॥
भिम्यां कन् । अभेः पाक्षिको दीर्घश्च ॥ अनुकामयते अनुकः । अभिकामयते अभिकः । अभीकः ॥ पार्श्वेनान्विच्छति । ५ । २ । ७५ ॥ अनृजुरुपायः पार्श्वं तेनान्विच्छति पा- र्श्वकः ॥ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । ५ । २ । ७६ ॥ तीक्ष्ण उपायोऽयःशूलं तेनान्विच्छति आयःशूलिकः साहसिकः । दण्डाजिनं दम्भः तेनान्विच्छति दाण्डाजि- निकः ॥ तावतिथं ग्रहणमिति लुग्वा । ५ । २ । ७७ ॥ कन् स्यात्पूरणप्रत्ययस्य च लुग्वा ॥ द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् * ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः॥ स एषां ग्रामणीः । ५ । २ । ७८ ॥ देवदत्तो मुख्यो येषां ते देवदत्तकाः । त्वत्काः ।
( २३० ) सिद्धान्तकौमुद्याम्- अथ मतुबर्थीयप्रकरणम् । तदस्यास्त्यस्मिन्निति मतुप् ॥ ५।२।९४ ॥ गावोऽस्यास्मिन्वा सन्ति गोमान् ॥ भूमनि- न्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ १ ॥ Aरसा- दिभ्यश्च ॥ ५।२।९५ ॥ मतुप् ॥ रसवान् । रूपवान् ॥ अन्यमतुबर्थीयनिवृत्त्यर्थं वचनम् ॥ रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, गुणात् ॥ गुणग्रहणं रसादीनां विशेषणम् ॥ एकाचः ॥ स्ववान् ॥ तसौ मत्वर्थे । १।४।१९ ॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः * ॥ शुक्लो गुणो- ऽस्यास्तीति शुक्लः पटः । कृष्णः ॥ Bमादुपधायाश्च मतोर्वोऽयवादिभ्यः । ८।२।९ ॥ मवर्णा- द्वर्णात्तान्मवर्णावर्णोपधायाश्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशस्वान् । भास्वान् ॥ यवादेस्तु-यवमान् । भूमिमान् ॥ झयः । ८।२।१० ॥ झयन्तान्मतोर्मस्य वः स्यात् ॥ अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥ संज्ञा- याम् । ८।२।११ ॥ मतोर्मस्य वः स्यात् ॥ अहीवती । मुनीवती । शरदीनां चेति दीर्घः ॥ आसन्दीवद्दष्ठीवच्चक्रीवत् [ ५कक्षीवद् ] रुमण्वच्चर्मण्वती । ८।२।१२ ॥ एते षट् संज्ञायां निपात्यन्ते । आसन्नशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासन्नवान् ॥ अस्थिश- ब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र ॥ चक्रशब्दस्य चक्रीभावः । चक्री- वान्नाम राजा । चक्रवानन्यत्र ॥ [ ६कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावान- न्यत्र ] ७लवणशब्दस्य रुमणभावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र ॥ चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी चर्मवत्यन्यत्र ॥ उदन्वानुदधौ च । ८।२।१३ ॥ उद- कस्य उदन्भावो मतौ उदधौ संज्ञायां च । उदन्वान् समुद्रः ऋषिश्च ॥ राजन्वान् सौ- राज्ये । ८।२।१४ ॥ राजन्वती भूः । राजवानन्यत्र ॥ प्राणिस्थादातो लजन्यतर- स्याम् । ५।२।९६ ॥ चूडालः । चूडावान् ॥ प्राणिस्थात्किम्? शिखावान्दीपः ॥ अतः किम् ? हस्तवान् ॥ प्राण्यङ्गादेव । नेह-मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसी- A अयं गणो मूल एवोक्तः ॥ B यव, दल्मि, ऊर्मि, भूमि, कृमि, कुञ्चा, वशा, द्राक्षा, त्राक्षा, ऋजि, व्रजि, ध्वजि, निजि, सञ्जि, हरित्, ककुद्, मरुत्, गरुत्, इक्षु, द्रु, मधु, । आकृतिगणोऽयं यवादिः ॥ १ यवमान् । ककुदावर्तिनी कन्या । रूपवान् । क्षीरिणो वृक्षाः । उदारिणी कन्या । दण्डी । मतुबर्थानां भूमादीनां क्रमेणोदाहरणानि ॥ २ रसिको नटः 'उर्वशी वै रूपिण्यप्सरसाम्' 'स्पर्शीको वायुः' इत्यादा- वन्यस्यापि प्रत्ययस्य दर्शनात्प्रत्याख्यातं भाष्यकृता ॥ ३ तेन जलादिवाचकेभ्यो रसादिभ्यो द्रव्यवचनगन्धा- दिभ्यश्च नेति भावः ॥ ४ 'एकाचः' इति गणसूत्रमुदाहरति-स्ववानिति ॥ ५-६ 'कोष्ठकान्तर्गतो- ऽत्रापाठः' इति 'न संप्रसारणे' इति सूत्रभाष्यप्रामाण्यतोऽवगम्यते ॥ ७ 'रुमा स्त्री लवणाकरः' इति कोशे 'सीमा' इतिवद् डाबन्तन्कारान्तयोर्निर्देशस्त्यैवेष्टसाधकत्वेन रुमन् शब्दे नलोपाभावनत्वे निपात्येते इत्येव तूचितम् ॥ ८ अत्रापि 'पद्दनः' इत्युदकस्योदन्नादेशे सिद्धे नलोपाभावमात्रं राजन्वच्छब्द इव निपात्यते -इत्येव तत्त्वम् ॥
स्यादौ ‘स्वरितो वानुदात्ते पदादाविति स्वरितवावनार्थश्चकारः॥ ^Aसिध्मादिभ्यश्च ।५।२।९७॥ लच्वा स्यात् ॥ सिध्मलः । सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते नतु प्रत्यय- विकल्पार्थम् । तेनाकारान्तेभ्य इनिठनौ न । वातदन्तवलललाटानामूङ् च ॥ वातूलः ॥ वत्सांसाभ्यां कामबले ।५।२।९८ ॥ आभ्यां लच्वा स्याद्यथासंख्यं कामवति बलवति चार्थे ॥ वत्सलः । अंसलः ॥ फेनादिलच्च ।५।२।९९ ॥ चालच्च । अन्यतरस्यांग्रहणं मतुप्समुच्च- यार्थमनुवर्तते ॥ फेनिलः । फेनलः । फेनवान् ॥ ^Bलोमादिपामा^Cदिपिच्छा^Dदिभ्यः शने- लचः ।५।२।१०० ॥ लोमादिभ्यः शः ॥ लोमशः । लोमवान् । रोमशः रोमवान् ॥ पामा- दिभ्यो नः । पामनः ॥ अङ्गात्
ख्यानम् * ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च * ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डरशब्दस्तु अव्युत्पन्न एव ॥ कच्छ्वा ह्रस्वत्वं च कच्छुरः ॥ द्युद्रुभ्यां मः । ५ । २ । १०८ ॥ द्युमः । द्रुमः ॥ केशाद्वोऽन्य- तरस्याम् । ५ । २ । १०९ ॥ प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठन्योः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च * ॥ अर्णवः ॥ गाण्ड्यजग- त्संज्ञायाम् । ५।२।११०॥ ह्रस्वदीर्घयोरेणा तन्त्रेण निर्देशः ॥ गाण्डिवम्—गाण्डीवम् अर्जुनस्य धनुः । अजगवं पिनाकः ॥ काण्डाण्डादीरन्नीरचौ । ५ । २ । १११ ॥ का- ण्डीरः । आण्डीरः ॥ रजःकृष्यासुतिपरिषदो वलच् । ५।२।११२ ॥ रजस्वला स्त्री । कृषीवलः—'वले' इति दीर्घः । आसुतीवलः शौण्डिकः । परिषद्वलः । पर्षदिति पाठा- न्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते * ॥ आतृवलः । पुत्रवलः । शत्रुवलः 'वले' इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥ दन्तशिखात्संज्ञायाम् । ५।२।११३ ॥ दन्तावलो हस्ती । शिखावलः केकी ॥ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्म- लिनमलीमसाः । ५।२।११४ ॥ मत्वर्थे निपात्यन्ते ॥ ज्योतिष उपधालोपो नश्च प्रत्ययः ॥ ज्योत्स्ना ॥ तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमतन्त्रम् ॥ शृङ्गादिनच् । शृङ्गिणः ॥ ऊर्जसो वलच् । तेन बाधा मा भूदिति विनिरपि । ऊर्जस्वी । ऊर्जस्वलः । ऊर्जोऽ- सुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः ॥ गोशब्दान्मिनिः । गोमी ॥ मलशब्दादिनच्
तद्धितेषु मत्वर्थीयप्रकरणम् । (२३३)
काङ्क स्यान्मत्वर्थे ॥ नैष्कशतिकः । नैष्कसहस्रिकः ॥ रूपादाहतप्रशंसयोर्यप् ।५।२। १२० ॥ आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः ॥ आहतेति किम् ? रूपवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥ अस्मायामेधास्रजो विनिः ।५।२।१२१ ॥ यशस्वी । यशस्वान् । मायावी । माया- वान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ आमयस्योप- संख्यानं दीर्घश्च * ॥ आमयावी ॥ शृङ्गवृन्दाभ्यामारकन् * ॥ शृङ्गारकः । वृन्दारकः ॥ फलवर्हिभ्यामिनच् * ॥ फलिनः । बर्हिणः ॥ हृदयाच्चालुरन्यतरस्याम् * ॥ इनूठनौ मतुप् च ॥ हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने * ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ हिमाच्चेलुः * ॥ हिमं न सहते हिमेलुः ॥ बलादूलः * ॥ बलं न सहते बद्दूलः ॥ वातात्समूहे च * ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ तप्पूर्वमरुद्वच्चाम् * ॥ पर्वतः । मरुत्तः ॥ ऊर्णाया युस् ।५।२।१२३ ॥ सित्त्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अंशुशममोरित्यत्रैवो- र्णाग्रहणं कुर्यात् ॥ वाचो ग्मिनिः ।५।२।१२४ ॥ वाग्मी ॥ आलजाटचौ बहुभा- षिणि ।५।२।१२५ ॥ कुत्सित इति वक्तव्यम् * ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव ॥ स्वामिन्नैश्वर्ये । ५ । २। १२६ ॥ ऐश्वर्य- वाचकात्स्वशब्दान्मत्वर्थे आमिनच् ॥ स्वामी ॥ ᴬअर्शआदिभ्योऽच् ।५।२।१२७ ॥ अर्शा- स्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥ द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः ।५।२।१२८ ॥ द्वन्द्वः–कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः–कुष्ठी । किलासी । गर्ह्यं निन्द्यम्–ककुदावर्ती । काकतालूकी ॥ प्राणिस्थात्किम् ? पुष्पफलवान्वटः ॥ प्राण्य- ङ्गाच्च * ॥ पाणिपादवती ॥ अत इत्येव । चित्रकलालाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठना- दिबाधनार्थम् ॥ वातातीसाराभ्यां कुक् च ।५।२।१२९ ॥ चादिनिः । वातकी । अतीसारकी ॥ रोगे चायमिष्यते * ॥ नेह–वातवती गुहा ॥ पिशाचाच्च * ॥ पिशा- चकी ॥ वयसि पूरणात् ।५।२।१३० ॥ पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये ॥ मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । टन्बाधनार्थमिदम् ॥ वयसि किम् ? पञ्चमवान् ग्रामः ॥ ᴮसुखादिभ्यश्च ।५।२।१३१ ॥ इनिर्मत्वर्थे ॥ सुखी । दुःखी । माला क्षेपे ॥ माली ॥ धर्मशीलवर्णान्ताच्च ।५।२।१३२ ॥ धर्माद्यन्तादिनिर्मत्वर्थे ॥ ब्राह्मणधर्मी । ब्राह्मणशैली । ब्राह्मणवर्णी ॥ हस्ताज्जातौ ।५।२।१३३ ॥ हस्ती ॥ जातौ ˙A अर्शस्, उरस्, तुन्द, चतुर, पलित, जटा, घटा, घाटा, अघ, कर्दम, अम्ल, लवण, 'स्वाङ्गाद्धीनात्' वर्णात् । अर्शआदिराकृतिगणः ॥ B सुख, दुःख, तृप्त, कृच्छ्र, अह्न, आह्व, अलीक, करुण, कठण, सोढ, प्रतीप, शील, हल, 'माला क्षेपे,' कृपण, प्रणय, दल, कक्ष । इति सुखादिः ॥