वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
[अ० १०१-१०२ श्लो० ३४६-३५५।१-८] वायुपुराणम् । ४१३ ( प्रतिसर्गवर्णनम् )
विष्णुना सह संयुक्तः करोति विकरोति च । स रुद्रो यः साममयस्तथैव च यजुर्मयः ॥ ३४६ स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् । एको हि भगवान्नाथो ह्यनादिश्रान्तकृद्विजाः ॥ ३४७ ततस्त ऋषयः सर्वे दिवाकरसमप्रभाः । स्वं स्वमाश्रमसंवासमारोप्याग्निं तथाऽऽत्मनि ॥ ३४८ कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना । अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ॥ ३४९ व्रतोपवासनिरताः सर्वभूतदयापराः । योगमनुपमं दिव्यं प्राप्तं तैश्छिन्नसंशयैः ॥ ३५० प्रपद्य परया भक्त्या ज्ञानयुक्तेन तेजसा । तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३५१ यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम् । * ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा स्वक्रियापरः ॥ लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः । अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ॥ ३५३ आभूतसंप्लवस्थायी अप्रतीघातलक्षणः । गाणपत्यं स लभते स्थानं वा सार्वकामिकम् ॥ ३५४ मद्यपो मद्यपैः सार्धं भूतसंघैश्च मोदते । सोऽर्च्यमानो महीपृष्ठे मर्त्यानां वरदो भवेत् ॥ इति होवाच भगवान्वायुर्वाक्यमिदं वरः ॥ ३५५
इति श्रीमहापुराणे वायुप्रोक्ते शिवपुरवर्णनं नामैकशततमोऽध्यायः ॥ १०१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१०११५
अथ द्व्यधिकशतमोऽध्यायः ।
प्रतिसर्गवर्णनम् ।
सूत उवाच-- प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयंभुवः । ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥ १ यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः । अव्यक्तान्यसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥ २ परं तदनु कल्पानामपूर्णे कल्पसंक्षये । उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥ ३ अन्ते द्रुमस्य संप्ताप्ते पश्चिमस्य मनोस्तदा । अन्ते कलियुगे तस्मि(×न्क्षीणे संहार उच्यते ॥ ४ संप्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते । प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये ॥ ५ महदादेर्विकारस्य विशोपान्तस्य संक्षये । स्वभावकारिते तस्मि)न्प्रवृत्ते प्रतिसंचरे ॥ ६ आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ॥ ७ आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः । सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ॥ ८
* इत उत्तरमधिकमर्धं ख. पुस्तके तद्यथा-शिवलोके स वसति यावदाभूतसंप्लवम् । इति । × धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
४१४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०२श्लो० ९-३७] ( प्रतिसर्गवर्णनम् )
अपामस्ति गुणी यस्तु ज्योतिषे लीयते रसः। नश्यन्त्यापस्तदा तच्च रसतन्मात्रसंक्षयात् ॥ ९ तेजसा संहतरसा ज्योतिष्ट्वं मामुवन्त्युत। ग्रस्ते च सलिले तेजः सर्वतोमुखमीक्ष्यते ॥ १० अथाग्निः सर्वतो व्याप्त आदत्ते तज्जले तदा। सर्वमापूर्यतेऽर्चिभिस्तदा जगदिदं शनैः ॥ ११ अर्चिभिः संतते तस्मिंस्तिर्यगूर्ध्वमधस्ततः। ज्योतिषोऽपि गुणं रूपं वायुरत्ति प्रकाशकम् ॥ प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥ १२ प्रनष्टे रूपतन्मात्रे हतरूपो विभावसुः। उपशाम्यति तेजो हि वायुना धूयते महत् ॥ १३ निरालोके तदा लोके वायुभूते च तेजसि। ततस्तु मूलमासाद्य वायुः संभवमात्मनः ॥ १४ ऊर्ध्वं चाधश्च तिर्यक्च दोधवीत दिशो दश। वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥ १५ प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम्। अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ॥ १६ सर्वमापूरयन्नादैः सुमहत्तम्प्रकाशते। परिमण्डलं तच्छूषिरमाकाशं शब्दलक्षणम् ॥ १७ शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति। तं तु शब्दगुणं तस्य भूतादिग्रसते पुनः ॥ १८ भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै। अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥ १९ भूतादि ग्रसते चापि महान्वै बुद्धिलक्षणः। महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ॥ २० बुद्धिमंतश्च लिङ्गञ्च महानक्षर एव च। पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः ॥ २१ संपलीनेषु भूतेषु गुणसाम्ये तमोमये। स्वात्मन्येव स्थिते चैव कारणे लोककारणे ॥ २२ विनिवृत्ते तदा सर्गे प्रकृत्याऽवास्थितेन वै। तदाऽऽद्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्याचित् ॥ २३ अनाख्यानादेवाधत्वादज्ञानेनाज्ञिनाामपि। आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥ २४ भावग्राह्यानुमानाच्च चिन्तयित्वेदमूच्यते। स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मिके ॥ २५ अनिर्देश्या प्रवृत्तिर्वै स्वात्मिका कारणेन तु। एवं सप्तादयोऽभ्यस्तात्क्रमात्प्रकृतयस्तु वै ॥ २६ प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परम्। येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ २७ सप्तद्वीपसमुद्रान्तं ससलोको सपर्वतम्। उदकावरणं यच्च ज्योतिषां लीयते तु तत् ॥ २८ यत्तैजसं चाऽऽवरणमाकाशं ग्रसते तु तत्। यद्वायव्यं चाऽऽवरणमाकाशं ग्रसते तु तत् ॥ २९ आकाशावरणं यच्च भूतादिर्ग्रसते तु तत्। भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः ॥ ३० महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम्। एतौ संहारविस्तारौ ब्रह्माऽव्यक्तात्ततः पुनः ॥ ३१ सृजते ग्रसते चैव विकारान्सर्गसंयमे। सांसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥ ३२ गत्वा जवं जवीभावे स्थानेष्वेपु प्रसंयमात्। प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥ ३३ अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते। साधर्म्यवैधर्म्यकृतः संयोगोऽनादिमांस्तयोः ॥ ३४ एवं सर्गेषु विज्ञेयं क्षेत्रज्ञोऽविह ब्राह्मणाः। ब्रह्मविच्चैव विज्ञेपः क्षेत्रज्ञानात्पृथक्पृथक् ॥ ३५ विषयाविषयत्वं च क्षेत्रक्षेत्रज्ञयोः स्मृतम्। ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ॥ ३६ क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते। बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥ ३७
[अ० १०२ श्लो० ३८-६१] वायुपुराणम्। ४१५
(प्रतिसर्गवर्णनम्)
अव्यूहासंकाराच्चैव ज्योतिर्वच्च व्यवस्थितः। यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धता ॥ ३८
तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ॥ ३९
यदा प्रवर्तते चैषां भेदानां चैव संयमः। स्वभावकारिताः सर्वे कालेन महता तदा ॥ ४०
निवर्तते तदा तस्य स्थितिरोगः स्वयंभुवः । सहसा योज्यकैः सर्वैर्ब्रह्मलोकनिवासिभिः ॥ ४१
विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम् । तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ॥ ४२
उत्पद्यन्तेऽथ वैराग्यमात्मवादप्रणाशनम् । भोज्यभोक्तृत्वनानात्वे तेषां तद्भावदर्शिनाम् ॥ ४३
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः। प्रकृतौ करणातीताः सर्वे नानाप्रदर्शिनामः ॥ ४४
स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः । शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ॥ ४५
तत्रैव परिनिर्वाणाः स्मृता नाऽऽगामिनस्तु ते । निर्गुणत्वान्निरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ॥ ४६
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयंभुवः । भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ॥ ४७
इत्येष संयमश्चैव तत्त्वानां करणैः सह । तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्तको द्विजाः ॥ ४८
सूत उवाच-
धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा। ऊर्ध्वभावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ॥ ४८
सर्वमेतन्मयातस्य गुणमात्रात्मकं स्मृतम् । निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ॥ ४९
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति । योन्यवस्था स्वभावे च देहिनां तु निषिच्यते । ५०
जन्तूनां पापपुण्यं तु प्रकृतौ यत्प्रतिष्ठितम् । अव्यक्तस्थानि तान्येव पुण्यपापानि जन्तवः ॥ ५१
योजयन्ति पुनर्देहे देहान्तरत्वे तथैव च ॥ ५२
धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ । करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥ ५३
सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः । सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः ॥ ५४
संयुज्यन्ते वियुज्यन्ते करणैः संचरन्ति च ॥ ५५
राजसी तामसी चैव सात्त्विकी चैव वृत्तयः । गुणमात्राः प्रवर्तन्ते पुरुषाधिष्ठितास्त्रिध' ॥ ५६
ऊर्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः । तयोः प्रवर्तकं मध्य इहैवाऽऽवर्तकं रजः ॥ ५७
इत्येवं परिवर्तन्ते त्रयः श्रोतृगुणात्मकाः । लोकेषु सर्वभूतानां तन्न कार्यं विजानता ॥ ५८
अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः । एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ॥ ५९
तमसाऽभिभवाज्जन्तुर्याथातथ्यं न विन्दति । अतत्त्वदर्शनात्सोऽथ त्रिविधं बध्यते ततः ॥ ६०
प्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्तते ॥ ६१
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः । अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ॥ ६२
* अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः । येषामेते मनोदोषा ज्ञानदोषा विपर्ययात् ॥ ६३
* नास्त्ययं श्लोकः ख. पुस्तके।
४१६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०२श्लो०६२-८८] ( प्रतिसर्गवर्णनम् )
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम् । अज्ञानं तमसो मूलं कर्मद्वयफलं रजः ॥ कर्मजस्तु पुनर्देहो महादुःखं प्रवर्तते ॥ ६२ श्रोत्रजा नेत्रजा चैव त्वग्जिह्वघ्राणतस्तथा । पुनर्भवकरी दुःखा कर्मणां जायते तु सा ॥ ६३ सतृष्णोऽभिहितो बालः स्वकृतैः कर्मणः फलैः । तैलपालीकवज्जीवस्तत्रैव परिवर्तते ॥ ६४ तस्मात्स्थूलमनर्थानामज्ञानमुपादिश्यते । तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत् ॥ ६५ ज्ञानाद्धि त्यज्यते सर्वं त्यागाद्बुद्धिर्विरज्यते । वैराग्याच्छुध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥ ६६ अत ऊर्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् । अभिष्वङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ६७ अनिष्टमभिषङ्गं हि प्रीतितापविषादनम् । दुःखलाभेन तापश्च सुखानुस्मरणं तथा ॥ ६८ इत्येष वैषयो रागः संभूत्याः कारणं स्मृतम् । ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके ॥ अज्ञानपूर्वकं तस्मादज्ञानं तु विवर्जयेत् ॥ ६९ यस्व चार्षं न प्रमाणं शिष्टाचारं तथैव च । वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ॥ ७० एष मार्गो हि निरधितिर्यग्योनौ च कारणम् । निरयंग्योनिगतं चैव कारणं स निरुच्यते ॥ ७१ विविधा यातना स्थाने निरयंग्योनौ च पङ्ग्विधे । कारणे विषये चैव प्रतिघातस्तु सर्वशः ॥ ७२ अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम् । इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ॥ ७३ सत्त्वस्थमात्रकं चित्तं यथा सत्त्वपदर्शनात् । तत्त्वानां च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ॥ ७४ सत्त्वक्षेत्रज्ञानात्वामेतज्ज्ञानार्थदर्शनम् । नानात्वदर्शनं ज्ञानं ज्ञानाद्वैयोगमुच्यते ॥ ७५ तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च । संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ॥ ७६ निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते । स्वात्मन्यवस्थितश्चापि विरूपारूप्येन लिख्यते ॥ ७७ इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयोः । स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ॥ ७८ पूर्वं वियोगो ज्ञानेन द्वितीयो रागसंक्षयात् । लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम् । ७९ निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते । तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ॥ ८० निमित्तमप्रतीघात इष्टशब्दादिलक्षणे । अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ८१ क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु । अत ऊर्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥ ८२ दिव्ये च मानुषे चैव विषये पञ्चलक्षणे । अप्रद्वेषोऽनभिष्वङ्गः कर्तव्यो दोषदर्शनात् ॥ ८३ तापप्रीतिविषादानां कार्यं तु परिवर्जनम् । एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥ ८४ आनित्यमशिवं दुःखामिति बुद्ध्वाऽनुचिन्त्य च । विशुद्धं कार्यकरणं सत्वाभ्येति चरान्तुय(?) ॥ ८५ परिपक्वकषायो हि कृत्स्नान्दोषान्मपश्यति । ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥ ८६ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥ ८७ प्राणस्थानानि भिन्दन्हि च्छिन्दन्मर्माण्यतीत्य च । शैत्यात्प्रकुपितो वायूरूर्ध्वं तु क्रमते ततः ॥ ८८
[ अ० १०२ श्लो० ८९-११७ ] वायुपुराणम् ४१७
( प्रतिसर्गवर्णनम् )
स चायं सर्वभूतानां प्राणस्थानैष्ववस्थितः । समासात्संवृते ज्ञाने संवृतेषु च कर्मसु ॥ ८९ स जीतोऽनभ्यधिष्ठानः कर्मभिः स्वैः पुराकृतैः । अष्टाङ्गप्राणवृत्तीर्वे स विचयावयते पुनः ॥ ९० शरीरं प्रजहं(हत्)सो वै निरुच्छ्वासस्ततो भवेत् । एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥ ९१ यथेह लोके खद्योतं नीयमानमितस्ततः । रञ्जनं तद्दधे यत्तु नेता नेता न विद्यते ॥ ९२ तृष्णाक्षयस्तृतीयास्तु व्याख्यातं मोक्षलक्षणम् । शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ॥ ९३ अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् । वैराग्यकारणं ह्येतत्प्रकृतीनाः लयस्य च ॥ ९४ अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम् । अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ॥ ९५ वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्रविरोधिनः । वर्णाश्रमाणां धर्मोऽयं देवस्थानेषु कारणम् ॥ ९६ ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवताः । ऐश्वर्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥ ९७ निमित्तमप्रतीघात इष्टे शब्दादिलक्षणे । अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ९८ क्षेत्रज्ञेष्वनुषज्यन्ते गुणमात्रात्मकानि तु । प्रावृट्काले पृथक्त्वेन पश्यन्तीह न चक्षुषा ॥ ९९ पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा । धाविति थानपानश्च (?) योनीः प्राविशतस्तथा ॥ १०० तिर्यगूर्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम् । जीवमाणास्तथा लिङ्गं कारणं च चतुष्टयम् ॥ १०१ पर्यायवाचकैः शब्दैरेकार्थैः सोऽभिलिख्यते । व्यक्ताव्यक्ते प्रमाणोऽयं स वै रूपं तु कृत्स्नशः ॥ १०२ अव्यक्तान्तर्गृहीतं च क्षेत्रज्ञाधिष्ठितं च यत् । एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते ॥ १०३ नष्टं चैव यथा तत्त्वं तत्त्वानां दत्त्वदर्शनम् । यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते ॥ १०४ भिद्यते करणं चापि अव्यक्ताज्ञानिनस्तथा । मुक्तो गुणशरीरेण प्राणाद्येन तु सर्वशः ॥ १०५ नान्यच्छरीरमादत्ते दग्धे बीजे यथाऽङ्कुरः । जीविकः सर्वसंसाराद्बीजशरीरमानसः ॥ १०६ ज्ञानाच्चतुर्दशाच्छुद्धः प्रकृतिं सोऽनुवर्तते । प्रकृतिं सत्यमित्याहुर्विकारोऽनृतमुच्यते ॥ १०७ तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते । अनामरूपक्षेत्रज्ञानामरूपं प्रचक्षते ॥ १०८ अस्मात्क्षेत्रं विजानानि तस्मात्क्षेत्रज्ञ उच्यते । क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥ १०९ क्षेत्रज्ञः स्मर्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाव्यते । क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ॥ ११० क्षयणात्करणाच्चैव क्षतत्राणान्तथैव च । भाज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥ १११ महदाद्यं विशेषान्तं सर्वरूप्यं विलक्षणम् । विकारलक्षणं तद्वै साक्षरक्षरमेव च ॥ ११२ तमेव च विकारं तु यस्माद्वै क्षरते पुनः । तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ॥ ११३ *संसारनरकेभ्यश्च त्रायते पुरुषं च यत् । दुःखत्राणात्पुनश्चापि क्षेत्रमित्यभिधीयते ॥ ११४ सुखदुःखमोहाभावाद्द्रोज्यमित्यभिधीयते । अचेतत्वाद्धि विषयस्तद्धि धर्मविभुः स्मृतः ॥ ११५ न क्षीयते न क्षरति विकारप्रसूतं तु तत् ॥ अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ॥ ११६ यस्मात्पुर्यनुशेते च तस्मात्पुरुष उच्यते । पुरप्रत्ययिको यस्मात्पुरुषे+त्यभिधीयते ॥ ११७
* अयं श्लोको न विद्यते क घ पुस्तकयोः । + अत्र संधिरार्षः ।
५३
४१८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०२श्लो०११८-१३४।२] ( प्रतिसर्गवर्णनम )
पुरुषं कथयस्वाथ कथं तज्ज्ञैर्विभाष्यते । शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ॥ ११८ अस्ति नास्तीति सोऽन्यो वा बद्धो मुक्तो गतः स्थितः । नैर्हेतिकान्तानिर्देश्यसूक्तस्तस्मिन्न विद्यते ॥ शुद्धत्वान्न तु देश्यो वै दृष्टत्वात्समदर्शनः । आत्मप्रत्ययकारी सारनूनं (?) चापि हेतुकम् ॥ भावग्राह्यमनुमान्यं चिन्तयन्न प्रमुह्यते ॥ १२० यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम् । दृश्यादृश्येषु निर्देश्यं तदा तदुद्धरं वरम् ॥ १२१ एवं ज्ञात्वा स विज्ञाता ततः शान्ति नियच्छति । कार्यं च करणे चैव बुद्ध्यादौ भौतिके तदा ॥ संप्रयुक्तो वियुक्तो वा जीवतो वा मृतस्य च । विज्ञाता न च दृश्येत पृथक्त्वेनेह सर्वशः ॥ १२३ स्वेनाऽऽत्मानं तमात्मानं कारणात्मा नियच्छति । प्रकृतौ कारणे चैव स्वात्मन्येवापतिष्ठति ॥ १२४ अस्ति नास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः । एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषेति (?) वा ॥ आत्मवान्स निरात्मा वा चेतनाऽचेतनोऽपि वा । कर्ता वा साऽप्यकर्ता वा भोक्ता वा भोज्यमेव वा ॥ यज्ज्ञात्वा न निवर्तन्ते क्षेत्रज्ञे तु निरञ्जने । अवाच्यं तदनाख्यानादग्राह्यत्वादहेतुनि ॥ १२६ अप्रतर्क्यमचिन्त्यत्वादवाप्यत्वाच्च सर्वशः । नाभिलिम्पति तत्तत्त्वं संप्राप्य मनसा सह ॥ १२७ क्षेत्रज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने । व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते ॥ १२८ निरात्मके पुनस्तस्मिन्वाच्यावाच्यो न विद्यते । एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥ १२९ सृजते ग्रसते चैव ग्रसतः पर्यवतिष्ठते । क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्वं प्रवर्तते ॥ १३० अधिष्ठानप्रवृत्तेन तस्य ते बुद्धिपूर्वकम् । साधर्म्यवैधर्म्यकृतः संयोगो विधितस्तयोः ॥ अनादिमान्स संयोगा महापुरुषजः स्मृतः ॥ १३१ यावच्च सर्गप्रतिसर्गकालस्तावच्च तिष्ठति सुसंनिरुध्य । पूर्वं हितव्ये (?) तद्बुद्धिपूर्वं प्रवर्तते तत्पुरुषार्थमेव ॥ १३२ एषा निसर्गप्रतिसर्गपूर्वं प्र (प्रा) धानिकी चेश्वरकारिता च ॥ अनाद्यनन्ता ह्यभिमानपूर्वकं विनासयन्ती जगदभ्युपैति ॥ १३३ इत्येष प्राकृतः सर्गस्तृतीयो हेतुक्षणः । उक्तो ह्यस्मिंस्तदाऽत्यन्तं करयस्तत्प्रमुच्यते (?) १३४ इत्येष प्रतिसर्गो वस्त्रिविधः कीर्तिता मया । विस्तरेणाऽनुपूर्व्या च भूयः किं वर्तयाम्यहम् ॥
इति श्रीमहापुराणे वायुप्रोक्ते प्रतिसर्गवर्णनं नाम द्व्यधिकशततमोऽध्यायः ॥ १०२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१०२५०
अथ त्र्यधिकशततमोऽध्यायः ॥ अथ सृष्टिवर्णनम् ।
ऋषय ऊचुः- सूत सुमहदाख्यानं भवता परिकीर्तितम् । प्रजानां मनुभिः सार्धं देवानामुषिभिः सह ॥ १ पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् । दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ २
[अ० १०२-१०३ श्लो० ३-२९] । वायुपुराणम् । ४१९
(सृष्टिवर्णनम्)
अत्यद्भुतानि कर्माणि विधिमान्धर्मनिश्चयः । विचित्राश्च कथायोगा जन्म चाग्नेयमनुत्तमम् ॥ ३ तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा । मनःकर्णसुखं सौते प्रीणात्याभूतसंभवम् ॥ ४ एवमाराध्य ते सूतं सत्कृत्य च महर्षयः । पप्रच्छुः सत्रिणः सर्वे पुनः सर्गप्रवर्तनम् ॥ ५ [* कथं सूत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते । बन्धेषु संप्लीनेषु गुणसाम्ये तमोमये ॥ ६ विकारेष्वविसृष्टेषु अव्यक्ते चाऽऽत्मनि स्थिते । + अप्रवृत्ते ब्राह्मणानु महासायो(यु)ज्यगैस्तदा ॥ कथं प्रपस्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ॥ ७ एवमुक्तस्ततः सूतस्तदाऽसौ लोमहर्षणः । व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्तनम् ] ॥ ८ अहं वो वर्तयिष्यामि यथा सर्गः प्रपत्स्यते । पूर्ववत्स तु विज्ञेयः समासात्तं निबोधत ॥ ९ दृष्टं चैवानुमेयं च तर्कं वक्ष्यामि युक्तितः । तस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १० अव्यक्तवत्परोक्षत्वादग्रहणं तद्दुरासदम् । विकारैः प्रतिसंहृष्टे गुणसाम्ये निवर्तते ॥ ११ प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति । धर्माधर्मौ प्रलीयेते अव्यक्तौ प्राणिनां सदा ॥ १२ सत्त्वमात्रात्मको धर्मो गुणसत्त्वे प्रतिष्ठितः । तमोमात्रात्मकोऽधर्मो गुणे तमसि तिष्ठति ॥ १३ अविभागवन्तावेतौ गुणसाम्यस्थितावुभौ । सर्वकार्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ॥ १४ अबुद्धिपूर्वं क्षेत्रज्ञो ह्यधितिष्ठास्यति तान्गुणान् । एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ॥ १५ यदा प्रवर्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः । भोज्यभोक्तृत्वसंबन्धं प्रपत्स्येते युतावुभौ ॥ १६ तस्माच्छरीणमव्यक्तं साम्ये स्थित्वा गुणात्मकान् । क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ॥ १७ ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः । क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ॥ १८ महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् । क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ॥ १९ ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः । ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ॥ २० ईश्वरः सर्वभूतानां ब्रह्मा ब्रह्ममयो महान् । आदिदेवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ॥ २१ अनाद्यौ वरमुत्पादावुभौ सूक्ष्मो तु तौ स्मृतौ । अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ॥ २२ अबुद्धिपूर्वकं युक्तौ मशकौ तु वरो तदा । अप्रत्ययमानाद्यं च स्थितावुदकमत्स्यशः (?) ॥ २३ प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते । अज्ञा गुणैः प्रवर्तन्ते रजःसत्त्वतमात्मकम् ॥ २४ प्रवृत्तिकाले रजसाऽभिषन्नमहत्त्वभूतादिविशेष्यतां च । विशेषतां चेन्द्रियतां च यान्ति गुणावसाने पतिभिर्मनुष्याः ॥ २५ सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् । रजःसत्त्वतमा व्यक्ता विधर्माणः परस्परम् ॥ २६ आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः । संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ २७ सर्वे सत्त्वाः प्रपद्यन्ते अव्यक्तात्पूर्वमेव च । प्रसूते या च सुवहाः साधिकाश्चाप्यसाधिका ॥ २८ संसरन्तस्तु ते सर्वे स्थानप्रकरणैः सह । कार्याणि प्रतिपत्स्यन्त उत्पद्यन्ते पुनः पुनः ॥ २९
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + नास्त्यर्थमिदं घ. पुस्तके ।
४२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० ३ श्लो० ३०-५०] (सृष्टिवर्णनम)
गुणमात्रामकाश्चैव धर्माधर्मौ परस्परम् । आरप्सन्ती(भन्ते)ह चान्योन्यं वरेणानुग्रहेण च ॥ ३० सर्वे तुल्याः प्रवृत्त्यर्थं सर्गादौ यान्ति विक्रियाम् । गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ॥ ३१ गुणास्ते यानि सर्वाणि यादृष्टेः प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३२ हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३३ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विप्रयोगाश्च भूतानां गुणेभ्यः संप्रवर्तते ॥ ३४ इत्येष वो मया ख्यातः पुनः सर्गः समासतः *। समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३५ अव्यक्तात्कारणात्तस्मान्नित्यसत्सदसदात्मकात् । प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३६ स पुत्रः संभवपिता जायते ब्रह्मसंज्ञितः । सृजते स पुनर्लोकानाभिमानगुणात्मकान् ॥ ३७ अहंकारस्तु महतस्तस्माद्भूतानि चाऽऽत्मनः । युगपत्संप्रवर्तन्ते भूतान्येवेन्द्रियाणि च ॥ भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्तते ॥ ३८ विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् । कीर्तितं वो यथा पूर्वं तथैवाभ्युपधार्यताम् ॥ ३९ एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययं च ॥ तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ४० यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ॥ त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याल्लोकान्प्राप्य यथेष्टं चारिष्यथ ॥ ४१ एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा । जगमुश्चावभृतस्नाताः स्वर्गं सर्वे तु सत्रिरणः ॥ ४२ विपास्तथा यूयमापे दृष्ट्वा बहुविधैर्यखैः । आयुषोन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ४३ प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः । अनुषङ्ग उपोद्घात उपसंहार एव च ॥ ४४ एवमेतच्चतुष्पादं पुराणं लोकसंमतम् । उवाच भगवान्साक्षाद्वायुलौकहिते रतः ॥ ४५ नैमिषे सत्रमासाद्य मुनिमध्ये मुनिसत्तमाः । तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयान्वितम् ॥ ४६ प्राधानिकामियां सृष्टिं तथैवेश्वरकारिताम् । सम्यग्विादित्वा मेधावी न मोहमधिगच्छति ॥ ४७ इमं यो ब्राह्मणो विद्वानितिहासं पुरातनम् । शृणुयाच्छ्रावयेद्वाऽपि तथाऽऽध्यापपयेतऽपि च ॥ ४८ स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः । ब्रह्मसायो(यु)ज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ॥ तेषां कीर्तिमंतां कीर्तिं प्रजेशानां महात्मनान्x । प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ५० +
* इत उत्तरमयं श्लोकः ख. पुस्तके स यथा-धारणाश्रुतबुद्धीनां योगानां चैव धार्यताम् । यतेन्द्रियाः सुसंबन्धाधारणायोगनिश्चयाः । इति । x इतं परमेते श्लोका अधिका उपलभ्यन्ते ख पुस्तके ते च यथा--इदं यः श्रावयेद्विद्वांस्तस्य चैवोत्तमा गतिः । धनधान्यसुखैश्वर्यं प्राप्यते नात्र संशयः । ब्राह्मणो लभते विद्यां ब्रह्मसायोज्य- मामुयात् । क्षत्रियो जयमामोति सुरलोकोत्तमा गतिम् । वैश्यस्तु धनलाभांव्या धनधान्यलभेत च शूद्रः सुखमवामोति पुत्रपौत्रादिसंयुतः । श्लोकं श्लोकार्धपादं वा योऽधीते शृणुयाद्यतः । अन्ते विष्णुपुरं याति यत्र गत्वा न शोचति । इति । + ब्रह्मभूयाय गच्छतीत्युत्तरमेते श्लोका अधिकाः ख पुस्तके उपलभ्यन्ते ते च यथा-- येनेदं भारतं पुण्यं शृणुयाद्वाऽप्यभीक्ष्णशः । स चापि लभते स्वर्गं वायुमोक्ते प्रसादतः ॥
[अ० १०३ श्लो० ५१-७१] वायुपुराणम् । ४२१ ( सृष्टिवर्णनम )
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमतम् । कृष्णद्वैपायनेनोक्तं पुराणं छलवादिनः ॥ ५१
मन्वन्तरेश्वराणां च यः कीर्ति प्रथयेदिमाम् । देवतानामृषीणां च भूरिद्रविणतेजसाम् ॥
स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ॥ ५२
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि । धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ॥ ५३
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणाना्पाद मन्ततः । अक्षयं सार्वकामीयं पितॄंस्तच्चोपतिष्ठति ॥ ५४
तस्मात्पुरा ह्यनन्तीदं पुराणं तेन चोच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ ५५
तथैव त्रिषु वर्णेषु ये मनुष्याः प्रधानतः । इतिहासासिममं श्रुत्वा धर्माय विदधे (दधते) मतिम् ॥ ५६
यावन्त्यस्य शरीरिषु रोमकूपाणि सर्वशः । तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ॥
ब्रह्मसायो (यु) ज्यगो भूत्वा दैवतैः सह मोदते ॥ ५७
सैवपापहरं पुण्यं पवित्रं च । यशस्वि च । ब्रह्मा वदौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ५८
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः । बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ५९
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः । इन्द्रश्चापि वशिष्ठाय सोऽपि सारस्वताय च ॥ ६०
सारस्वतस्त्रिधाम्ने च त्रिधामा च शरद्वते । शरद्वत्सिविष्टाय सोऽन्तरिक्षाय दत्तवान् ॥ ६१
वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च । त्रय्यारुणो धनंजये स च प्रादात्कृतंजये ॥ ६२
कृतंजयत्तृणंजयो भरद्वाजाय सोऽप्यथ । गौतमाय भरद्वाजः सोऽपि निर्यन्तरे पुनः ॥ ६३
निर्यन्तरस्तु प्रोवाच तथा वाजश्रवाय च । स ददौ सोमशुष्माय स ददौ तृणबिन्दवे ॥ ६४
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये । शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ६५
पराशराज्जातुकर्णस्तस्माद्वैपायनः प्रभुः । द्वैपायनात्पुनश्चापि मया प्रोक्तं द्विजोत्तमाः ॥ ६६
शांशपायन उवाच—
मया वै तत्पुनः प्रोक्तं पुत्रायामितबुद्धये । इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ॥ ६७
नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः । धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ६८
पापघ्नं नियमेनदं श्रोतव्यं ब्राह्मणैः सदा । नाशूद्रौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ६९
नाश्रद्दधानाविदुषे नापुत्राय कथंचन । नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ७०
अव्यक्ते वै यस्य बोनि वदन्ति व्यक्तं देहं कालमन्तर्गतं च ।
वह्निं वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुम् * ॥ ७१
इदं वायुपुराणं च श्रद्धया वाऽपि यः पठेत् । तस्य गृहे स्थिता लक्ष्मीर्दीर्घमायुरवाप्नुयात् ॥
लिखित्वा लेखयित्वा च पूजयित्वा यथाविधि । नाग्निश्चौरभयं तत्र ग्रहरोगार्किकं भयम् ॥
ते सर्वे नाशमायान्ति यावच्चन्द्रद्युतारकाः । सर्वपापविनिर्मुक्तो अ (ह्य) न्ते विष्णुपुरं व्रजेत् ॥
न च मारीभयं किंचित्सर्वत्र सुखमामयात् । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसंपदः ॥
भवन्ति सततं तस्य नात्र कार्या विचारणा । इदं वः क्षत्रियोऽधीते तस्य फलमनन्तकम् ॥
इहलोके परा कीर्ति विजयस्तस्य जायते । पुत्रपौत्रसुखं तस्य मृतः स्वर्गपुरं वसेत् ॥
इदं चाधीयतेऽशूद्रःश्रावयेद्वाऽप्यभीक्ष्णशः। तस्य गृहे स्थिरा लक्ष्मीः सत्यं सत्यं हि नान्यथा इति॥
* इत उत्तरग्रन्थस्त्रुटितो ङ पुस्तके ।
| ४२२ | श्रीमद्वैपायनमुनिप्रणीतम्-[अ०१०३-१०४ श्लो०७२-७३][१-१८] |
|---|---|
| (व्याससंशयापनोदनम्) |
वाचो वेदांश्चान्तरिक्षं शरीरं क्षितिं पादौ तारका रोमकूपान् ।
सर्वाणि चाङ्गानि तथैव तानि विद्याश्च अङ्गानि च यस्य पुच्छम् ॥ ७२
तं देवदेवं जननं जनाना सर्वेषु लोकेषु प्रतिष्ठितं च ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ७३
इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१०३२३
अथ चतुरधिकशततमोऽध्यायः ।
व्याससंशयापनोदनम् ।
÷ शौनकादिऋषय ऊचुः-
सूत सूत महाभाग त्वया भगवता सता । व्यासप्रसादाधिगतशास्त्रसंबोधनेन च ॥ १
अष्टादश पुराणानि सेतिहासानि चानघ । उपक्रमोपसंहारविधिनोक्तानि कृत्स्नशः ॥ २
चतुर्दशसहस्रं च मात्स्यं प्रोक्तमतिस्फुटम् । तत्संख्याकं भविष्यं च प्रोक्तं पञ्चशताधिकम् ॥ ३
मार्कण्डेयं महारम्यं प्रोक्तं नवसहस्रकम् । कथितं ब्रह्मवैवर्तमष्टादशसहस्रकम् ॥ ४
शतोत्तरं च ब्रह्माण्डं सूर्यसंख्यासहस्रकम् । अथ भागवतं दिव्यमष्टादशसहस्रकम् ॥ ५
सहस्राणि दशैवोक्तं पुराणं ब्रह्मनामकम् । अयुतश्लोकघटितं पुराणं वामनाभिधम् ॥ ६
तथैवायुतसंख्यातं षट्शताधिकमादिकम् । त्रयोविंशतिसाहस्रमनिलं तद्वतं शुभम् ॥ ७
त्रयोविंशतिसाहस्रं नारदीयमुदाहृतम् । एकोनविंशसाहस्रं वैनतेयमुदाहृतम् ॥ ८
सहस्रपञ्चपञ्चाशत्प्रोक्तं पाद्मं सुविस्तरम् । सप्तदशसहस्रं तु कूर्मं प्रोक्तं मनोहरम् ॥ ९
चतुर्विंशतिसाहस्रं शौकरं परमाद्भुतम् । एकाशीतिसहस्राणि स्काान्दमुक्तं सुविस्तृतम् ॥ १०
एवमष्टादशोक्तानि पुराणानि बृहन्ति च । पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ॥ ११
रागिणां च विरागाणां यतीना ब्रह्मचारिणाम् । गृहस्थानां वनस्थानां स्त्रीशूद्राणां विशेषतः ॥
ब्राह्मणक्षत्रियविशां ये च संकरजातयः । गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ॥ १३
अनेकविधदानानि यमाश्च नियमैः सह । योगधर्मा बहुविधाः सांख्या भागवतास्तथा ॥ १४
भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजः । उपासनविधिश्चोक्तः कर्मसंसुद्धिचेतसाम् ॥ १५
ब्राह्मं शैवं वैष्णवं च सौरंव शाक्तं तथाऽऽर्हतम् । षड्दर्शनानि चोक्तानि स्वभावानियतानि च ॥
एतदन्तच्च विविधं पुराणेषु निरूपितम् । अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ॥ १७
न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् । अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ॥
÷ अयमध्यायः कव्यतिरिक्तपुस्तकेषु न विद्यते ।
[अ०१०४ श्लो० १९-४७] वायुपुराणम्। ४२३ (व्याससंशयापनोदनम्)
सूत उवाच— शृणु शौनक वक्ष्यामि प्रश्नमेनं सुदुर्लभम्। अतिगोप्यतरं दिव्यमनाख्यंयं प्रचक्षते ॥ १९ पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम्। सर्ववेदार्थघटितां चिन्तयामास चेतसि ॥ २० वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः। मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ॥ २१ जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये। निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ॥ २२ अक्षरं परमं ब्रह्म परमात्मा परं पदम्। यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ॥ २३ आचरन्ति महाप्राज्ञा धारणां च पृथग्विधाम्। आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ॥ २४ ध्यानं समाधिरेतानि यमैश्च नियमैः सह। अष्टाङ्गानि यदर्थं च चरन्ति मुनिपुङ्गवाः ॥ २५ यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः। परार्पणधिया सम्यग्निष्कामाः कलिलोज्झिताः ॥ २६ मज्ज्ञानेये निराकर्तुं पापाचरणमात्मनः। गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ॥ २७ तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्। नित्यं सर्वगतं स्थाणु कूटस्थं कूटवर्जितम् ॥ २८ सर्वेन्द्रियचराभासं प्राकृतोन्द्रियवर्जितम्। दिक्कालायनवाच्छिन्नं नित्यं चिन्मात्रमव्ययम् ॥ २९ अध्यास्तं सर्ववद्यत्र विश्वमेतत्प्रकाशते। विश्वस्मिन्नपि चान्वेति निर्विकारं च रज्जुवत् ॥ ३० सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्। तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ॥ ३१ सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः। यस्माद्भवन्ति ब्रह्माण्डकोटयो न भवन्ति च ॥ ३२ यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ। भवेतां या परा शक्तिर्यदाधारतया स्थिता ॥ ३३ यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्। यदज्ञानाज्जगद्भाति यस्मिन्ज्ञाते जगन्न हि ॥ ३४ असत्यं यज्जडं दुःखं अवास्त्विति निरूपितम्। विपरीतमतो यद्वै सच्चिदानन्दमूर्तिकम् ॥ ३५ जीवे जाग्रति विध्याख्यं स्वप्ने यत्तैजसं स्मृतम्। सुषुप्तौ प्राज्ञसंज्ञं यत्सर्वावस्थासु संस्मृतम् ॥ ३६ यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमप्यति। त्वक्त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ॥ ३७ बुद्धिज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्। यन्नेशिरे समभ्येतुं ज्ञातुं च परमार्थतः ॥ ३८ रज्जावहिर्मरौ वारि नीलिमा गगने यथा। असिद्धिमथेदं भाति यस्मिन्नज्ञानकल्पितम् ॥ ३९ घटावाच्छिन्न एवायं महाकाशो विभिद्यते। कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञकम् ॥ ४० मायया चित्रकारिण्या विचित्रगुणशालिया। ब्रह्माण्डं चित्रमतुलं यस्मिन्भित्ताविवार्पितम् ॥ ४१ धावतोऽन्यानतिक्रान्तं वदतो वाग्गोचरम्। वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ॥ ४२ अक्षरान्न परं किंचित्सा काष्ठा सा परा गतिः। इत्येवं श्रूयते वेदे बहुधाऽपि विचारिते ॥ ४३ अक्षरस्याऽऽत्मनश्चापि स्वात्मरूपतया स्थितम्। परमानन्दसंदोहरूपमानन्दविग्रहम् ॥ ४४ लीलाविडासरासिकं बलपीयूथ मध्यगम्। शिखिपिच्छाकिरीटेन भास्वद्रत्नचितेन च ॥ ४५ उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम्। कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ॥ ४६ कुञ्जकुञ्जप्रियावृन्दाविलासरातिलम्पटम्। पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ॥ ४७
४२४ श्रीमहैपायनमुनिप्रणीतम्- [अ० १०४ श्लो० ४८-७५] (व्याससंशयापनोदनम)
अधरामृतसंसिक्तवेणुनादेन बल्लवीः । मोहयन्तं चिदानन्दमनङ्गमदभञ्जनम् ॥ ४८ कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम् । विरेकण्ठविलसद्रत्नगुञ्जामृगाकुलम् ॥ ४९ यमुनापुलिने तुङ्गे तमालवनकानने । कदम्बचम्पकाशोकपारिजातमनोहरे ॥ ५० शिखिपारावतशुकपिककोलाहलाकुले । निरोधार्थं गवामेव धावमानमितस्ततः ॥ ५१ राधामिलासरसिकं कृष्णाख्यं पुरुषं परम् । श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ॥ ५२ एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते । गोलोकसंज्ञके कृष्णो दीव्यतीति श्रुतं मया ॥ ५३ नातः परतरं किंचिन्निगमागमयोरपि । तथाऽपि निगमो वक्ति सक्षरात्परतः परः ॥ ५४ गोलोकवासी भगवानक्षरात्पर उच्यते । तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ॥ ५५ उद्दिष्टो वेदवचनैर्विशेषो ज्ञायते कथम् । श्रुतेर्वाऽर्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ॥ ५६ श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः । विचारयामास चिरं न पपेदे यथातथम् ॥ ५७
सूत उवाच--
विचारयन्नपि मुनिनींऽऽप वेदार्थनिश्चयम् । वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ॥ ५८ तदाऽपि महतार्तिं सतां हृदयतापिनीम् । पुनर्विचारयामास कं व्रजामि करोमि किम् ॥ ५९ पृच्छामि न जगत्त्यस्मिन्सर्वज्ञं सर्वदर्शनम् । अज्ञात्वाऽन्यतमं लोके संदेहाविनिवर्तकम् ॥ ६० मेरोः कुहरिणीं गत्वा चचार परमं तपः । यत्र कार्तस्वरस्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ॥ ६१ सदा प्रबाधते विश्वक्तमःस्तोमं दृशंतुदम् । चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ॥ ६२ नानाद्रुमलताकुञ्जकूजत्पक्षिनिनादितम् । क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ॥ ६३ जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः । जातरूपशिलानद्धतटसंचारपक्षिभिः ॥ ६४ युक्तमम्भोजपवनैः सेव्यमानं समन्ततः । शिवैरध्यासितं भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ॥ ६५ निर्जनं दिव्यलतिकाप्रियखण्डविराजितम् । शुकैः पारावतैर्हंसैरून्मदन्मत्तकोकिलम् ॥ ६६ उत्पतत्पद्मरजसां पटलामोददिङ्मुखम् । तत्रापि काञ्चनी दिव्या गुहा परमशोभना ॥ ६७ तां प्रविश्य जिताहारो जितचित्तो जितासनः । सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ॥ ६८ त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि । प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ॥ ६९ स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः । कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ॥ ७० स्वरैः षोडशभिः क्लृप्तवदनाः प्रणवान्तराः । कचवर्गाोद्भवैर्वर्णैः पञ्चावयवपाणयः ॥ ७१ पवर्गदक्षचरणा वामपादस्तवर्गंतः । आच(त)रन्त्यन्तवर्णांश्च येषां कुक्षिद्वयात्मकौ ॥ ७२ नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः । अभिदक्षांशरुचिरा धराग्रीवा भृतांसकाः ॥ ७३ अन्तस्थसंस्थाना वैखरीवाग्विजूम्भिताः । अपश्यन्मधुरामोषां हृदयाम्भोजकल्पिताम् ॥ ७४ हरेर्भगवतः साक्षादाविर्भावस्थली हि सा । कारीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ॥ ७५
[अ० १०४ श्लो० ७६-१०३] वायुपुराणम् । ४२५
( व्याससंशयापनोदनम् )
लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले । कण्ठस्थां द्वारकामेशां प्रयागं प्राणगं तथा ॥ ७६
सव्यापसव्ययोस्तेषां गङ्गाऽपि यमुना नदी । मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथाऽऽनने ॥ ७७
हन्वोर्वामध्यगतं प्रभासक्षेत्रमुत्तमम् । बदर्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ॥ ७८
पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे । पीठं पूर्णगिरिं नाम ललाटे समदृश्यत ॥ ७९
कण्ठे च मथुरापीठं काञ्चीपीठं कटिस्थितम् । जालंधरं तथा पीठं स्तनदेशेष्वदृश्यत ॥ ८०
भृगुपीठं कर्णदेशे अयोध्यां नासिकापुटे । ब्रह्मरन्ध्रं स्थितं ब्राह्मचं शैवं सीमन्तसीमानि ॥ ८१
शाक्तं जिह्वाग्राधिषणं वैष्णवं हृदयाम्बुजे । सौरं चक्षुष्प्रदेशस्थं बौद्धच्छायासुसंगदम् ॥ ८२
सौत्रामाणीं कण्ठदेशे पशुबन्धमथोरासि । वाजपेयं कटितटे अग्निहोत्रं तथाऽऽनने ॥ ८३
अश्वमेधं कटितटे नरमेधमथोदरे । राजसूयं शिरोदेश आवसथ्यं तथाऽधरे ॥ ८४
ऊर्ध्वोष्ठे दक्षिणाग्निं च गार्हपत्यं मुखान्तरे । हव्यं श्रुतौ मन्त्रभेदास्तथा रोमस्ववस्थितान् ॥
भृत्यैरिव महाराजं पुराणैर्न्यायिमिश्रितैः ॥ ८५
संहिताभिश्च तन्त्रैश्च पृथक्पृथगुपासितान् । कर्मज्ञानोपासनाभिर्नानानुग्रहकारकान् ॥ ८६
दृष्ट्वा सुविस्मितमना मुनिः कृष्णो बभूव तान् । ब्रह्मेतजोमयान्दिव्यांस्तपतोऽर्कानिव च्युतान् ॥
ज्वलतोऽग्नीनिवोदर्कान्कोटिन्दुसमदर्शनान् ॥ ८७
ववन्दे सहसोत्थाय दण्डवत्पतितो मुनिः । कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहमितीरयन् ॥ ८८
अद्य मे सफलं जन्म अद्य मे सफलं मनः । अद्य मे सफलं चाऽऽयुर्यूद्भवन्तोऽक्षिगोचराः ॥ ८९
अलौकिकं लौकिकं च यत्किंचिदपि विद्यते । न तद्गोष्ठविदितं वेद्यं भूतं भव्यं भवच्च यत् ॥ ९०
न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा । यदृक्षाकरसंकोचविधानायहे रागिणाम् ॥ ९१
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा विचीतरौ । न मृषारागविषयौ तत्संकोचविधिक्षयौ ॥ ९२
अतो लोकहितैर्नूनं परभार्थनिरूपणे । स्वोक्ताः स्वर्गादिविषया नश्वरा इति निन्दिताः ॥ ९३
अधिकारिविभेदेन कर्मज्ञानोपदेशतः । त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्तिभिः ॥ ९४
अतोऽहं प्रष्टुमिच्छामि भवन्तश्चैत्कृपालवः । कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ॥ ९५
ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः । चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ॥ ९६
मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत् । सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ॥ ९७
यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम् । निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ॥ ९८
विकारेषु विनश्यत्सु निर्विकारं न नश्यति । यथान्धतमसा व्याप्तलोकस्य र [वि] रोजसा ॥ ९९
लोहस्येव मणिरतद्व्रह्मणिायाश्वेतयितृ यत् (?) । यदाभासेन सा सत्तां प्रतिपद्य विजृम्भते ॥ १००
जीवेश्वरादिरूपेण विश्वाकारेण चाप्यहो । तस्यामपि मलीनायां कूटस्थं च यदेकलम् ॥ १०१
भवद्भिरेवं निर्णीतं तत्तथैव न संशयः । तथाऽपि मम जिज्ञासा वर्तते केवलं हृदि ॥ १०२
अत्तोऽपि परं किंचिद्वर्तते किल वा न वा । तद्वदन्तु महाभागा भवन्तस्तत्त्वदर्शनाः ॥ १०३
५४
( गयामाहात्म्यम् )
४२६ श्रीमद्वैपायनमुनिप्रणीतम्—[अ० १०४-१०५ श्लो० १०४-११०-१-६]
( गयामाहात्म्यम् )
यच्छ्रवःफलमेवेह जनुषो मे कृतार्थता । एवं ब्रुवन्तममघं व्यासं सत्यवतीसुतम् ॥
साधु साध्विति संकीर्त्य प्रत्यूचुर्निगमा वचः ॥ १०४
वेदा ऊचुः—
साधु साधु महाप्राज्ञ विष्णुरात्मा शरीरिणाम् । अजोऽपि जन्म संपद्य लोकानुग्रहमीहसे ॥ १०५
अन्यथा ते न घटते संसारकर्म बन्धनम् । अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ॥ १०६
बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे । अस्मत्संमत एवार्थो भवता संप्रदर्शितः ॥ १०७
पुराणेष्वितिहासेषु सूत्रेष्वपि च नैकधा । अक्षरं ब्रह्म परमं सर्वकारणकारणम् ॥ १०८
तस्याऽऽत्मनोऽप्यात्मभावतया पुष्पस्य गन्धवत् । रसवद्वा स्थितं रूपमवेहि परमं हि तत् ॥ १०९
अनुभूतं तदस्माभिर्जिते प्राकृतिके लये । अक्षरात्परतस्तस्माद्यत्परं केवलो रसः ॥
न च तत्र वयं शक्ताः शब्दातीते तदात्मकाः ॥ ११०
इति श्रीमहापुराणे वायुप्रोक्ते व्याससंशयापनोदनं नाम चतुरधिकशततमोऽध्यायः ॥ १०४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१०४३३
अथ पञ्चाधिकशततमोऽध्यायः ।
* गयामाहात्म्यम् ।
[ +वायुरुवाच—
अत ऊर्ध्वं प्रवक्ष्यामि गयामाहात्म्यमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ] १
सूत उवाच—
सनकाद्यैर्महाभागैर्देवर्षिः स च नारदः । सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्वकम् ÷ ॥ २
नारद उवाच—
सनत्कुमार मे ब्रूहि तीर्थं तीर्थोत्तमोत्तमम् । तारकं सर्वभूतानां पठतां [ × शृण्वतां तथा ॥ ३
सनत्कुमार उवाच—
वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्वतावकम्(?) गयातीर्थं सर्वदेशे तीर्थेभ्योऽप्यधिकं शृणु ] ॥ ४
गयासुरस्तपस्तेपे ब्रह्मणा कृतेऽशर्थितः । प्राप्तस्य तस्य शिरसि शिलां धर्मो ह्यधारयत् ॥ ५
तत्र ब्रह्माऽकरोद्यागं स्थितश्चापि गदाधरः । फल्गुतीर्थादिरूपेण निश्चलार्थमहर्निशम् ॥
गयासुरस्य विप्रेन्द्र बलाद्यैर्दैवतैः सह ॥ ६
* इदं गयामाहात्म्यं ग. घ. ङ. पुस्तकेषु न विद्यते । + धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । ÷ इत उत्तरं मुद्रितपुस्तकेऽयं ग्रन्थ उपलभ्यते सोऽयम्—
गयायात्रां प्रवक्ष्यामि शृणु नारद मुक्तिदाम् । निष्कृतिस्तिस्त्वह कर्तृणां ब्रह्मणा गीयते पुरा ॥ १॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा । वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥ २॥
ब्रह्मज्ञानेनं किं कार्यं गोगृहे मरणेन किम् । किं कुरुक्षेत्रवासेन यदि पुत्रो गयां व्रजेत् ॥ ३॥
गयायां पिण्डदानेन यत्फलं लभते नरः । न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ ४॥
इति श्रुत्वा तदा वाक्यं नारदो मुनिसत्तमः । सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्वकम् ॥ ५॥ इति ।
× धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ० १०५ श्लो० ७-३१] वायुपुराणम्। ४२७
( गयामाहात्म्यम् )
कृतज्ञयो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम्। श्वेतकल्पे तु वाराहे गयो यागमकारयत्॥ ७
गयानाम्ना गया ख्याता क्षेत्रं ब्रह्माभिकाङ्क्षितम्। काङ्क्षन्ति पितरः पुत्रान्नरकाद्भयभीरवः॥ ८
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति। गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्॥
पद्भ्यामपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति॥ ९
*एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां ब्रजेत्। यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत्॥ १०
गयां गत्वाऽन्नदाता यः पितरस्तेन पुत्रिणः। पक्षत्रयनिवासी च पुनात्यासप्तमं कुलम्॥
+नो चेत्पञ्चदशाहं वा सप्तरात्रिं त्रिरात्रिकम्॥ ११
महाकल्पकृतं पापं गयां प्राप्य विनश्यति। पिण्डं दद्याच्च पित्रादेरात्मनोऽपि तिलैर्विना॥ १२
×ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। पापं तत्सङ्गजं सर्वं गयाश्राद्धाद्विनश्यति॥ १३
आत्मजोऽप्यन्यजो वाऽपि गयाभूमौ यदा तदा। यन्नाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम्॥ १४
= नामगोत्रे समुच्चार्य पिण्डपातनमिष्यते। येन केनापि कस्मैचित्स याति परमां गतिम्॥ १५
⬭ ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा। वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा॥ १६
ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किम्। वासेन किं कुरुक्षेत्रे यदि पुत्रो गयां ब्रजेत्॥ १७
गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः। अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः॥ १८
न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पतौ। ÷ चन्द्रसूर्यग्रहे चैव मृतानां पिण्डकर्मसु॥ १९
महातीर्थे तु संप्राप्ते क्षतदोषो न विद्यते। तथा दैवप्रमादेन सुमहत्सु व्रणेषु च॥
पुनः कर्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक्॥ २०
सकृद्गयाभिगमनं सकृत्पिण्डस्य पातनम्। दुर्लभं किं पुनर्निंत्यमास्मिन्नेव व्यवस्थितिः॥ २१
प्रमादान्नियते क्षेत्रे बलाद्देर्मुक्तिदायके। ब्रह्मज्ञानाद्यथा मुक्तिर्लभ्यते नात्र संशयः॥ २२
कीकटादिमृतानां च पितॄणां तारणाय च। तस्मात्सर्वप्रयत्नेन कर्तव्यं सुविचक्षणैः॥ २३
ब्रह्मकल्पितान्विप्रान्हव्यकव्यादिनाऽर्चयेत्। तैस्तुष्टैस्तोषिताः सर्वा पितृभिः सह देवताः॥ २४
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम्॥ २५
दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः। दण्डं न्यस्य विष्णुपदे पितृभिः सह मुच्यते॥ २६
न दण्डी किल्बिषं धत्ते पुण्यं वा परमार्थतः। अतः सर्वां क्रियां त्यक्त्वा विष्णुं ध्यायति भावुकः
संन्यसेत्सर्वकर्माणि वेदमेकं न संन्यसेत्। मुण्डं कुर्याच्च पूर्वेऽस्मिन्पश्चिमे दक्षिणोत्तरे॥ २८
सार्धक्रोशद्वयं मानं गयेति ब्रह्मणोदितम्। पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः॥ २९
तन्मध्ये सर्वतीर्थानि त्रैलोक्ये यानि सन्ति वै। आद्वच्छद्यो गयाक्षेत्रे पितॄणामनृणो हि सः॥ ३०
शिरसि श्राद्धकृद्यस्तु कुलानां शतमुद्धरेत्। गृहाच्चलितमात्रेण गयायां गमनं प्रति॥
स्वर्गारोहणसोपानं पितॄणां च पदे पदे॥ ३१
* न विद्यतेऽयं श्लोकः क. पुस्तके। + इदमर्धं नास्ति ख. पुस्तके। × अयं श्लोको नास्ति ख. पुस्तके। = न विद्यतेऽयं श्लोकः क पुस्तके। ⬭ अयं श्लोकः ख. पुस्तके न विद्यते। ÷अयं श्लोको न क. पुस्तके।
४२८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०५-१०६श्लो०३२-४९।१] ( गयामाहात्म्यम् )
पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गयाम् । तत्फलं च भवेन्नूनं समग्रं नात्र संशयः ॥ ३२ पायसेनापि चरुणा सक्तुना पिष्टकेन वा । तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ॥ ३३ तिलकल्केन खण्डेन गुडेन सघृतेन वा । केवलेनैव दध्ना वा ऊर्जेन मधुनाऽथ वा ॥ ३४ पिण्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत । इज्यते वाऽऽसर्वं भोज्यं हविष्यान्नं मुनीरित्रम् ॥ ३५ एकतः सर्ववस्तूनि रसवन्ति मधूनि हि । स्मृत्वा गदाधराङ्कस्थञ्चं फल्गुतीर्थाम्बु चैकतः ॥ ३६ *पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम् । दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः ॥ ३७ नाऽऽवाहनं न दिग्वन्धो न दोषो दृष्टिसंभवः । सकारुण्येन कर्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ ३८ अन्यत्राऽऽवाहिताः काले पितरो यान्त्यमुं पति । तीर्थे सदा वसन्त्येन तस्मादावाहनं न हि ॥ ३९ तीर्थश्राद्धं प्रयच्छाद्भिः पुरुषैः फलकाङ्क्षिभिः । कामं क्रोधं तथा लोभं त्यक्त्वा कार्या क्रियाऽनिशम् ब्रह्मचर्य्येकभोजी च भूशायी सत्यवाक्शुचिः । सर्वभूतहिते रक्तः स तीर्थफलमश्नुते ॥ ४१ तीर्थान्यनुसरन्धीरः पाषण्डं पूर्वतस्त्यजेत् ) पाषण्डः स च विज्ञेयो यो भवेत्कामकारकः ॥ ४२ तीर्थेषु ये नराः धीराः कर्म कुर्वन्ति तद्गताः । यथा ब्रह्मविदो वेद्यं वस्तु चानन्यचेतसः ॥ प्रविशन्ति परेशाख्यं ब्रह्म बलपरायणाः ॥ ४३ [ + याऽऽस्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता ( साऽवतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै ॥ स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ॥ ४४ तथाऽक्षयवटं गत्वा विप्रान्संतोषयिष्यति । ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्चयेत् ॥ तैस्तुष्टैस्तोपिताः सर्वाः पितृभिः सह देवताः ॥ ४५ × गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते । सांनिध्यं सर्वतीर्थानां गयातीर्थं ततो वरम् ॥४६ मीने मेषे स्थिते सूर्ये कन्यायां कार्मुके घटे । = गयायां दुर्लभं लोके वदन्ति ऋषयः सदा ॥ दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ ४७ मकरे वर्तमाने च ग्रहणे चन्द्रसूर्ययोः । दुर्लभं त्रिषु लोकेषु गयाश्राद्धं सुदुर्लभम् ॥ ४८ गयायां पिण्डदानेन यत्फलं लभते नरः । न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ ४९ इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१०४८२
अथ षडधिकशततमोऽध्यायः । गयामाहात्म्यम् ।
नारद उवाच-- मयासुरः कथं जातः किंप्रभावः किमात्मकः । तपस्तप्तं कथं तेन कथं देहपवित्रता ॥ १
*इत आरभ्य विचक्षणैरित्यन्तं ग्रन्थव्यत्यासः ख.पुस्तके । +धनुश्चिह्नान्तर्गतग्रन्थः ख.पुस्तके नास्ति । × इतः प्रभृति सुदुर्लभमित्यन्तं ग्रन्थव्यत्यासः ख. पुस्तके वर्तते । = इदमर्धं नास्ति क. पुस्तके ।
[अ० १०६ श्लो० २-२६] वायुपुराणम् । ४२९
( गयामाहात्म्यम् ) सनत्कुमार उवाच-- विष्णोर्नाभ्यम्बुजाज्जातो ब्रह्मा लोकपितामहः । प्रजाः ससर्ज संप्रोक्तः पूर्वं देवेन विष्णुना ॥ २ आसुरेणैव भावेन असुरान्सृजत्पुरा । सौमनसस्थेन भावेन देवान्सुमनसोऽसृजत् ॥ ३ गयासुरोऽसुराणां च महाबलपराक्रमः । योजनानां सपादं च शतं तस्योच्छ्रयः स्मृतः ॥ ४ स्थूलः षष्टियोजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः । कोलाहले गिरिवरे तपस्तेपे सुदारुणम् ॥ ५ बहुवर्षसहस्राणि निरुच्छ्वासं स्थिरोऽभवत् । तत्तपस्तापिता देवाः संक्षोभं परमं गताः ॥ ६ ब्रह्मलोकं गता देवाः प्रोचुस्तेऽथ पितामहम् । गयासुराद्रक्ष देव ब्रह्मा देवांस्ततोऽब्रवीत् ॥ ७ व्रजामः शंकरं देवा ब्रह्माद्याश्च गताः शिवम् । कैलासे चाब्रुवन्नत्वा रक्ष देव महासुरात् ॥ ८ ब्रह्माद्यानब्रवीच्छंभुर्वजामः शरणं हरिम् । क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति ॥ ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ॥ ९
देवा ऊचुः-- ॐ नमो विष्णवे भर्त्रे सर्वेषां प्रभविष्णवे । रोचिष्णवं जिष्णवे च राक्षसादिग्रसिष्णवे ॥ १० धरिष्णवेऽखिलस्यास्य योगिनां परायिष्णवे । वर्धिष्णवे ह्यनन्ताय नमो भ्राजिष्णवे नमः ॥ ११
सनत्कुमार उवाच-- एवं स्तुतो वासुदेवः सुराणां दर्शनं ददौ । किमर्थमागता देवा विष्णुनोकास्तमब्रुव ॥ १२ गयासुरभयाद्देव रक्षाम्मानब्रवीद्धरिम् । ब्रह्माद्या यान्तु तं दैत्यमागमिष्याम्यहं ततः ॥ १३ केशवा गरुडारूढो वरं दातुं गयासुरे । सर्वे स्वं स्वं समस्थाय ययुर्वाहनमुत्तमम् ॥ १४ ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया । संतुष्टाः स्वागताः सर्वे वरं ब्रूहि गयासुर ॥ १५
गयासुर उवाच-- यदि तुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः । सर्वदेवाद्द्विजातिभ्यो यज्ञतीर्थंशिलोच्चयात् ॥ १६ * देवेभ्योऽतिपवित्रोऽहमृषिभ्योऽपि शिवाव्ययात् । मन्त्रेभ्यो देवदेवीभ्यो योगिभ्यश्चापि सर्वशः ॥ १७ न्यासिभ्यश्चापि कर्मिभ्यो धार्मीभिश्च तथा पुनः । ज्ञ (य) तिपवित्रेभ्यः पवित्रः स्यां सदा सुराः ॥ १८ पवित्रमस्तु तं देवा दैत्यमुक्त्वा ययुर्दिवम् । दैत्यं दृष्ट्वा च स्पृष्ट्वा च सर्वे हरिपुरं ययुः ॥ १९ शून्यं लोकत्रयं जातं शून्या यमपुरी सभूत् । यम इंद्रादिभिः सार्थं ब्रह्मलोकं ततोऽगमत् ॥ २० ब्रह्माणमूचिरे देवा गयासुरविलोपिताः । त्वया दत्तोऽधिकारो वै गृहाज त्वं पितामह ॥ २१ ब्रह्माऽब्रवीत्ततो देवान्व्रजामो विष्णुमव्ययम् । ब्रह्मादयोऽब्रुवन्विष्णुं त्वया दत्तवरेऽसुरे ॥ २२ तद्दर्शनाद्ययुः स्वर्गं शून्यं लोकत्रयं सभूत् । देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ॥ २३ गत्वाऽसुरं प्रार्थयस्व यज्ञार्थं देहि देहकम् । विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ॥ २४ गयासुरोऽब्रवीद्दृष्ट्वा ब्रह्माणं त्रिदशैः सह । संपूज्योत्थाय विधिवत्प्रणतः श्रद्धयाऽन्वितः ॥ २५
गयासुर उवाच- अद्य मे सफलं जन्म अद्य मे सफलं तपः । यदागतोऽतिथिर्ब्रह्मा सर्वं प्राप्तं मयाऽद्य वै ॥ २६
* एतदर्धस्थाने वेदेभ्योऽतिपवित्रोऽहं पवित्रे भव भोः सदेति ख पुस्तके ।
४३० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०६श्लो०२७-५०] ( गयामाहात्म्यम् )
योगिन्योगाङ्गवित्सर्वलोकस्वामिन्पितर्गुरो । यदर्थमागतो ब्रह्मंस्तत्कार्यं करवाण्यहम् ॥ २७ ब्रह्मोवाच— पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया । यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ॥ २८ त्वया देहे पवित्रत्वं प्राप्तं विष्णुपसादातः । अतः पवित्रं देहं त्वं यज्ञार्थं देहि मेऽसुर ॥ २९ गयासुर उवाच— धन्योऽहं देवदेवेश यद्देहं प्रार्थ्यते त्वया । पितृवंशः कृतार्थो मे देहे यागं करोषि चेत् ॥ ३० त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः । सर्वेषामुपकाराय यागोऽवश्यं भवत्विति ॥ ३१ इत्युक्त्वा सोऽपतद्भूभौ श्वेतकल्पे गयासुरः । नैर्ऋतीं दिशमाश्रित्य तदा कोलाहले गिरौ ॥ ३२ शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा सु दक्षिणे । ब्रह्मा संभृतसंभारो मानसानृत्विजोऽसृजत् ॥ ३३ अग्निशर्माणममृतं शौनकं जाञ्जलिं मृदुम् । कुमार्यं वेदकौण्डिल्यं हारीतं काश्यपं कृपम् ॥ ३४ गर्गं कौशिकवासिष्ठौ मुनिं भार्गवमव्ययम् । वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् ॥ ३५ श्वेतं सुमालं दमनं सुहोत्रं कङ्कमेव च । लौकाक्षिं च महाबाहुं जैगीषव्यं तथैव च ॥ ३६ दधिपञ्चमुखं विप्रमृषभं कर्कमेव च । कात्यायनं गोभिलं च मुनिमुग्रमहाव्रतम् ॥ ३७ * सुपालकं गौतमं च तथा वेदशिरोब्रतम् । जटामालिनमव्ययं चाटुहासं च दारुणम् ॥ ३८ + आत्रेयं चाप्यङ्गिरसमौपमन्युं महाव्रतम् । गोकर्णं च गुहावासं शिखण्डिनमुमाव्रतम् ॥ ३९ एतानन्यांश्च विप्रेन्द्रान्वेधा लोकपितामहः । परिकल्प्याकरोद्यागं गयासुरशरीरके ॥ ४० अग्निशर्माऽपि पश्चाग्नीन्मुखादेतानथासृजत् । दक्षिणाग्निं गार्हपत्याहवनीयौ तपोव्ययः ॥ ४१ सभ्यावसथ्यौ देवर्षे तेषु यज्ञाः प्रतिष्ठिताः । यज्ञस्य च प्रतिष्ठार्थं विप्रेभ्यो दक्षिणां ददौ ॥ ४२ हुत्वा पूर्णाहूतिं ब्रह्मा स्नात्वा चावभृथेन तु । यज्ञयूपं सुरैः सार्धं समानीय व्यरोपयत् ॥ ४३ ब्रह्मणः सरसः श्रेष्ठे सरस्येवाऽऽश्रितं शुभम् । चलितश्चकितो ब्रह्मा धर्मराजमभाषत ॥ ४४ जाता गृहे तव शिला समानीयाविचारयन् । दैत्यस्य शीघ्रं शिरसि तां धारय ममाऽऽज्ञया ॥ ४५ निश्चलार्थं यमः श्रुत्वाऽधारयन्मस्तके शिलाम् । शिलायां धारितायां तु सशिलश्चासुरोऽचलत् ॥ ४६ देवानूचेऽथ रुद्रादीञ्शिलायां निश्चलाः किल । तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ॥ देवाः पादैर्लक्षयित्वा तथाऽपि चलितोऽसुरः । ब्रह्माऽथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम् तुष्टाव प्रणतो भूत्वा नत्वा चाऽऽदृत्यतं प्रभुम् ॥ ४८ ब्रह्मोवाच— ब्रह्माण्डस्य पते नाथ नमामि जगतां पतिम् । गतिं कीर्तिमंतां तृणां भुक्तिमुक्तिप्रदायकम् ॥ ४९ विष्वक्सेनोऽब्रवीद्विष्णुं देव त्वां स्तौति पद्मजः । हरिराहाऽऽनय स्वं तं विष्णूक्तः स तमानयत् ॥ अजमूर्चे हरिः कस्मादागतोऽसि वदस्व तत् ॥ ५०
* इदमर्धं नास्ति ख. पुस्तके। + अयं श्लोको न विद्यते ख. पुस्तके ।
[अ०१०६श्लो०५१-७४] वायुपुराणम् । ४३१ ( गयामाहात्म्यम् ) ब्रह्मोवाच- देवदेव कृते यागे प्रचचाल गयासुरः । शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ॥ ५१ रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत् । इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ॥ ५२ ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः । मूर्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान्हरिः ॥ ५३ आनीय मूर्तिं ब्रह्माऽपि शिलायां समधारयत् । तथाऽपि चालितं वीक्ष्य पुनर्देवमथाऽऽह्वयत् ॥ ५४ आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत् । जनार्दनाभिधानेन पुण्डरीकेतिनामतः ॥ शिलायां निश्चलार्थं हि स्वयमादिगदाधरः ॥ ५५ निश्चयार्थं पञ्चधाऽऽसीच्छिलायां प्रपितामहः । पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः ॥ ५६ ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः । गयादित्यश्चोत्तरार्को दक्षिणार्कस्त्रिधा रविः ॥ ५७ लक्ष्मीः सीताभिधानेन गौरी च मङ्गलाह्वया । गायत्री चैव सावित्री त्रिसंध्या च सरस्वती ॥ ५८ इन्द्रो बृहस्पतिः पूषा वसवोऽष्टौ महाबलाः । विश्वे देवाश्चाऽश्विनेयौ [ * मारुतो विघ्ननायकः ॥ ५९ सयक्षोरगगन्धर्वास्तस्थुर्देवाः स्वशक्तिभिः ॥ आद्यया गदया चासौ ] यस्माद्दैत्यः स्थिरीकृतः । स्थित इत्येव हरिणा तस्मादादिगदाधरः ॥ ६० ऊचे गयासुरो देवान्किमर्थं वञ्चितो ह्यहम् । यज्ञार्थं ब्रह्मणे दत्तं शरीरमलयं मया ॥ ६१ विष्णोर्वचनमात्रेण किं न स्यां निश्चलो ह्यहम् ॥ ६२ यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा । पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्वदा ॥ ६३ गदादरादयस्तुष्टाः प्रोचुः सार्धं गयासुरम् । वरं ब्रूहि प्रसन्ना स्मो देवानूचे गयासुरः ॥ यावत्पृथिवी पर्वताश्च यावच्चन्द्रार्कतारकाः । तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः ॥ ६४ अन्ये च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ॥ ६५ पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः । तन्मध्ये सर्वतीर्थानि प्रयच्छन्तु हितं नृणाम् ॥ ६६ स्नानादितर्पणं कृत्वा पिण्डदानात्फलाधिकम् । महात्मानि सहस्रं च कुलानां चोद्धरेन्नरः ॥ ६७ व्यक्ताव्यक्तस्वरूपेण येयं तिष्ठत सर्वदा । गदाधरः स्वयं लोकाद्ध्यात्वात्सर्वार्घनाशनात् ॥ ६८ श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते । ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम् ॥ नैमिषं पुष्करं गङ्गा प्रयागश्चाविमुक्तिकम् । एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरिक्षतः ॥ ६९ समायान्तु सदा नृणां प्रयच्छन्तु हितं सुराः ॥
- किं बहुक्त्या सुरमणा युष्मास्वेकाऽपि देवता । चेन्न तिष्ठेदहं चापि सभयः प्रतिपाल्यताम् ॥ गयासुरवचः श्रुत्वा प्रोचुर्विष्ण्वादयः सुराः । त्वया यत्प्रार्थितं सर्वं तद्भविष्यत्यसंशयम् ॥ ७१ अस्मत्पादानर्चयित्वा यास्यन्ति परमां गतिम् । देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ॥ ७२ स्थितेषु चैव देवेषु ब्राह्मणेभ्यो ददावजः । ग्रामांश्च पञ्चपञ्चाशतपञ्चक्रोशीं गयां तथा ॥ ७३ गृहान्कृत्वा ददौ दिव्यान्सर्वोपस्करसंयुतान् ॥ ७४ कामधेनुं कल्पवृक्षं पारिजातादिकांस्तरून । महानदीं क्षीरवहां घृतकुल्यास्तथैव च ॥
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + अयं श्लोकः ख पुस्तके न ॥
४३२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१०६-१०७श्लो०७५-८६।१-११] ( गयामाहात्म्यम् ) मधुस्रवां मधुकुल्यां दिव्याञ्चाढ्यसरांसि च । सुवर्णदीर्घिकां चैव बहुनन्नादिपर्वतान् ॥ ७५ भक्ष्यभोज्यफलादींश्च सर्वं ब्रह्मा सृजन्ददौ । न याचयध्वं विप्रेन्द्रा अन्यानुक्त्वा ददावजः ॥ ७६ दत्त्वा ययौ ब्रह्मलोकं नत्वा स्याद्गिदाधरम् । धर्मारण्ये तत्र धर्मं याजयित्वा ययाचिरे ॥ ७७ धर्मयागे च लोभाद्वै प्रतिगृह्य धनादिकम् । ततो ब्रह्मा समागत्य ब्राह्मणांस्ताञ्शशाप ह ॥ ७८ कृतवन्तो यतो लोभं मदत्तेष्वखिलेष्वपि । तस्मादणाधिका यूयं भविष्यन्ति (थ) सदा द्विजाः॥७९ युष्माकं स्यन्दारिवहा नदी पाषाणपर्वता । नद्यादयो वारिवहा मृन्मयाश्च तथा गृहाः ॥ ८० कामधेनुः कल्पवृक्षो मलोकमुपतिष्ठताम् । एवं शप्ता ब्रह्मणा ते प्रार्थयन्तोऽब्रुवन्नजम् ॥ ८१ त्वया यद्दत्तमखिलं तत्सर्वं शापतो गतम् । जीवनार्थं प्रसादं नो भगवन्कर्तुमर्हसि ॥ ८२ तच्छ्रुत्वा ब्राह्मणान्ब्रह्मा प्रोवाचेदं दयान्वितः । तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ॥ ८३ लोकाः पुण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः । युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥ आक्रान्तं दैत्यजठरं धर्मेण विरजाद्रिणा । नाभिकूपसमीपे तु देवी या विरजा स्थिता ॥ ८५ तत्र पिण्डादिकं कृत्वा त्रिःसप्तकुलमुद्धरेत् । महेन्द्रागिरिणा तस्य कृतौ पादौ सुनिश्चलौ ॥ तत्र पिण्डादिकृत्सप्त कुलान्युद्धरते नरः ॥ ८६ इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम षडधिकशततमोऽध्यायः ॥ १०६॥ आदितः श्लोकानां समष्ट्यङ्काः- १०५६८
अथ सप्ताधिकशततमोऽध्यायः । गयामाहात्म्यम् ।
नारद उवाच-- कथं शिला समुत्पन्ना यथाऽऽक्रान्तो गयासुरः । किं रूपं किं च माहात्म्यं तस्याः किं वद नाम च सनत्कुमार उवाच-- आसीद्धर्मो महातेजाः सर्वविज्ञानपारगः । विश्वरूपा चै तत्पत्नी भर्तृव्रतपरायणा ॥ २ तस्यां धर्मात्समुत्पन्ना कन्या धर्मव्रता सती । रूपयौवनसंपन्ना लक्ष्मीरिव गुणाधिका ॥ ३ तस्यां ये तु गुणा ह्यासंस्ते तिष्ठन्ति जगत्त्रये । धर्मो धर्मव्रतायास्तु त्रिषु लोकेषु मार्गयन् ॥ ४ नानुरूपं वरं लेभे धर्मोऽथ वरसिद्धये । तपः कुरु वरार्थं त्वं तथेत्युक्त्वा वनं ययौ ॥ ५ कन्या सा च तपस्तेपे सर्वेषां दुष्करं च यत् । वायुभक्षा श्वेतकल्पे युगानामयुतं पुरा ॥ ६ ब्रह्मणो मानसः पुत्रो मरीचिर्नाम विश्रुतः । पर्यटन्पृथिवीं सर्वां कन्यारत्नं ददर्श सः ॥ ७ रूपयौवनसंपन्नां परमे तपसि स्थिताम् । पप्रच्छाथ मरीचिस्तां का त्वं कस्यासि तद्वद ॥ ८ रूपेणानेन मां भीरु विमोहयसि सुव्रते । ब्रह्मात्मजोऽहं विख्यातो मरीचिर्वेदपारगः ॥ ९ मरीचेर्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम् । अहं धर्मव्रता नाम धर्मपुत्री 'तपोन्विता ॥ १० पातिव्रतार्थं विप्रेन्द्र चरामि परमं तपः । धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्वकम् ॥ ११