भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ११५ ) इत्यमरः। मुखं स्वाननं कवोष्णः कोष्णः 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति' इत्यमरः। बाडतो निश्वासस्तेन विधूसरो मलिनोऽधर अपरोष्ठो यस्मिन् सत् कि किमर्थं करोषि विदधासि। अहमभीष्टमीप्सितं यद्वस्तु पुत्रप्राप्तिरूपं तत्प्रतिबध्नन्ति प्रतिरुद्धन्ति तेषां कर्मणामिहजन्मनि पूर्वजन्मनि वा कृतानां दुष्कर्मणां निग्रहार्थं समूलमुन्मूलनाय कृत आग्रह अभिनिवेशो येन स बद्धपरिकरोऽस्मि । भाषा अब दुख दूर करो। अपने मुख को गरम श्वास से सूखे अधरोष्ठ वाला क्यों बनाती हो। में पुत्र रूपी अभीष्ट सिद्धि के प्रतिबन्धक सम्पूर्ण इस जन्म के या पूर्व जन्म के कर्मों को नष्ट करने के लिये कटिवद्ध हो गयो हूँ। अधीतवेदोऽस्मि कृतः१ श्रुतागमः श्रमोऽस्ति भूयानितिहासवर्त्मसु । गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥३६॥ अन्वयः (अहं) श्रुतागमः (सन्) अधीतवेदः अस्मि। इतिहासवर्त्मसु भूयान् परिश्रमः कृतः। मनः गुरुषु सदा अवज्ञाविमुखम् अस्ति। धत् मया अत्र अभ्युपायः न दुर्लभः। व्याख्या अहं श्रुता गुरुमुखादाकर्णिता आगमाः शास्त्राणि येन एवम्भूतस्सन् अधीताः सम्यगभ्यस्ता वेदा ऋग्यजुस्सामाथर्ववेदा येन सोऽस्मि। इतिहासाना रामायण- महाभारतादीनां वर्त्मसु तत्प्रतिपादितमार्गेष्वपि भूयान्महान्परिश्रमः कृतः। मम मनः गुरुषु पूज्येषु सदा सर्वदैवावज्ञाया अपमानात्पराङ्मुखं विमुखमस्ति । तत्तस्मात्कारणादत्र पुत्रवस्तुनि मयाऽभ्युपायो न दुर्लभः किन्तु सुलभस्सु- साध्यश्चेति भावः। भाषा मैने गुरुमुख से सब शास्त्रो का श्रवण कर वेदो को पढा है। रामायण- महाभारतादि इतिहास प्रतिपादित मार्गों का परिश्रम से पालन किया है। १ कृतश्रुतागम—इत्यपि पाठ ।

( ११६ ) मेरा मन सदैव बड़ों का अपमान करने से विरत रहा है। ऐसी परिस्थिति में मेरे लिये पुत्ररूपी वस्तु प्राप्त करने का उपाय दुर्लभ नहीं हो सकता। किमस्ति दुष्प्रापमसौ निषेव्यते कुलप्रभुर्बालमृगाङ्कशेखरः । करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्विनः ॥४०॥ अन्वयः असौ कुलप्रभुः बालमृगाङ्कशेखरः (यदि) निषेव्यते (तर्हि) किं दुष्प्रापम् अस्ति। हे चकोरनयने आलस्यहताः तपस्विनः करस्थितस्य अपि पात्रं न । व्याख्या असौ प्रसिद्धः कुलस्य वंशस्य प्रभुरिष्टदेवता बालोऽर्द्धो मृगाङ्कश्चन्द्रः शेखरं शिरोभूषणं यस्य स शिवो यदि निषेव्यते सेवया प्रसन्नक्रियते तर्हि किं वस्तु दुष्प्रापं दुर्लभमस्ति, न किमपीत्यर्थः । हे चकोरवच्चपले नेत्रे नयने यस्यास्त- त्सम्बुद्धौ हे चकोरनयने चकोरचपलनयने आलस्येनाकर्मणा हता आलस्यवशी- भूतास्तपस्विनो वराका करे करतले स्थितस्य विद्यमानस्याऽपि वस्तुन पात्रं भाजनं न भवन्ति । कर्मशीलानामुद्योगिनां पुरुषाणां किमपि दुस्साध्यं नेत्यर्थः । अत्राऽर्थापत्यलङ्कारः । भाषा अपने वंश के इष्टदेव चन्द्रशेखर शंकर की यदि उपासना की जाय तो कोई वस्तु दुर्लभ नहीं है। हे चकोर के समान चञ्चल नेत्र वाली ! आलस से भरे अकर्मण्य लोगों को, पास की वस्तु भी प्राप्त नहीं हो सकती है। तदेष तावत्तपसे सह त्वया प्रभूतभावः प्रयते यतेन्द्रियः । विभावरीवल्लभखण्डमण्डनःस यावदायाति दयां जगद्गुरुः॥४१॥ अन्वयः यत् प्रभूतभावः एषः (अहं) यतेन्द्रियः सन् त्वया सह तावत् तपसे प्रयते यावत् विभावरीवल्लभखण्डमण्डनः जगद्गुरुः सः दयां आयाति ।

( ११७ ) व्याख्या ततस्तमात्कारणात्प्रभूतो बहलो भावो भक्तिभावो यस्य स एष अहं जितानि वशीकृतानीन्द्रियाणीन्द्रियसभूहो येन स वशीकृतेन्द्रियसमोहस्सन्न त्वया सह भवत्या सह तावत्कालपर्यन्तं तपसे तपश्चरणाय प्रयते महोयोगं करिष्ये यावत्कालं विभाार्या रजन्याः 'विभावरीतमस्विन्यौ रजनो यामिनी तमी' इत्यमर । वल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलैव मण्डनं भूषणं यस्य स जगतां भुवनानां 'विष्टपं भुवनं जगत्' इत्यमरः। गुरु श्रेष्ठ सः शंकरो दयां कृपामार्याति प्राप्नोति । करुणाईमानसस्तनमभीष्टवरप्रदानं करोतीत्यर्थ । भाषा इसलिये दृढ भक्ति से युक्त, में तुम्हारे साथ इन्द्रियो को वश में करके अर्थात् सयम से तब तक तप करने में प्रयत्नशील रहूँगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आ जाए । विधाय शान्त्यै कलुषस्य कर्मणस्तदेष सर्वेन्द्रियतापनं तपः । नयामि भक्त्या झटिति प्रसन्नतामखण्डया खण्डशशाङ्कशेखरम् ॥४२॥ अन्वयः तत् एषः (अहं) कलुषस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्डया भक्त्या खण्डशशाङ्कशेखरं झटिति प्रसन्नतां नयामि । व्याख्या ततस्तमात्कारणादेषोऽहं कलुषस्य दुष्कृतस्य 'कलुषं वृजिनैनोध्वमंहो दुरित- दुष्कृतम्' इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्यै विनाशाय सर्वेन्द्रियाणां नेत्रादीनां तापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यां विधाय कृत्वाऽखण्डयाऽविच्छिन्न- सन्तानया भक्त्या दृढभक्त्येत्यर्थः । खण्डश्चरसो शशाङ्कश्चन्द्रश्च सः शेखरं शिरोभूषणं यस्य तं शिवं झटिति द्राक् 'द्राक् झटित्यंजसान्ह्वाय द्राङ् मंखु सपदि द्रुते' इत्यमर । प्रसन्नतां प्रसादं नयामि प्रापयामि । अत्रानुप्रासोऽलङ्कारः । भाषा इसलिये में पुत्रप्राप्ति के बाधक पापकर्मों का नाश कर डालने के लिये समग्र इन्द्रियो को कष्टप्रद, घोर तपस्या कर, अविच्छिन्न दृढभक्ति से चन्द्रशेखर भगवान् शङ्कर को शीघ्र ही प्रसन्न करूंगा ।

( ११८ ) तथेति देव्या कृतसम्मतिस्ततः समस्तचिन्तां विनिवेश्य मन्त्रिषु । अभूदनुष्ठानविशेषतत्परः स पार्थिवः प्रार्थितवस्तुसिद्धये ॥४३॥ अन्वयः ततः देव्या इति तथा कृतसम्मतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् । व्याख्या ततस्तदनन्तरं देव्या पत्न्या 'एतद् भवदुक्तं पुत्रोत्पत्तिरूपं कार्यं तपस्साधनेन स्या- दिति हेतोस्तथैवास्तु, इति कृता सम्मतिर्येन स कृतनिश्चयस्स पार्थिवो राजा समस्तां संपूर्णां चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य प्रार्थितस्याभीष्टस्य वस्तुनः पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने तत्पर आसक्तोऽभूत् । 'तत्परे प्रसितासक्तौ' इत्यमरः । भाषा इसके अनन्तर, अपनी रानी की सम्मति मिलने पर, उस राजाने राजकाज का बोझ मन्त्रियों को सौंपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट अनुष्ठान करना प्रारम्भ कर दिया । तपः स्वहस्ताहृतपुष्पपूजित-त्रिलोचनः स्थण्डिलवासधूसरः । तथा स राजर्षिरमाधयद्यथा महर्षयोऽस्मादपकर्षमाययुः ॥४४॥ अन्वयः सः राजर्षिः स्वहस्ताहृतपुष्पपूजितत्रिलोचनः स्थण्डिलवासधूसरः (सन्) तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः । व्याख्या स राजर्षि ऋषिव्रतगृहीतो नृपः स्वहस्ताभ्यां स्वकराभ्यामाहृतानि समानीतानि च तानि पुष्पाणि कुसुमानि तैः पूजितोऽभ्यर्चितस्त्रिलोचनः शंकरो येन सः स्थण्डिले भूमिविशेषे वासेन शयनादिना 'यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ' इत्यमरः । धूसरः सरजस्कस्तन् तपोग्रं तपस्तपश्चरणमसाधयत् कृतवान्

( ११३ ) यथा येन कारणेनाऽस्माद्वाष्पान्महर्षयोऽपि महर्षयोऽप्यपकर्यं निम्नकोटिमायु- प्राप्ताः । स्थण्डिल चत्वर, यागार्थं परिष्कृता भूमिस्तत्र शयनादिकं महद्द्भुतम् । भाषा अपन हाथो से तोडे हुए फूलो से शकर की पूजा करने वाले उस राजर्षि ने स्थण्डिल पर ही निवास करने से धूली से - धूसरित होकर ऐसी उग्र तपस्या की जिससे महर्षि लोग भी तपस्या में इससे नीचे हो गये । स सौकुमार्यैकधनोऽपि सोढवाँस्तपोधनैर्दुष्प्रसहं परिश्रमम् । रराज तीव्रे तपसि स्थितो नृपः शशीव चण्डद्युतिमण्डलातिथिः ॥४५॥ अन्वयः सौकुमार्यैकधनः अपि सः तपोधनैः दुष्प्रसहं परिश्रमं सोढवान् । तीव्रे तपसि स्थितः नृपः चण्डद्युतिमण्डलातिथिः शशी इव रराज । व्याख्या सुकुमारस्य भावस्सौकुमार्यं तदेव धनं द्रव्यं यस्य स परमकोमलाङ्गोऽपि तप एव धनं येषां तैस्तपस्विभिर्दुःखेन यथाकथञ्चित्प्रकर्षेण सोढुं शक्यं सहनायोग्य- मित्यर्थं परिश्रमं क्लेशं सोढवान्सहृत । तीव्रेऽत्युग्रे तपसि तपस्यायां स्थितो वर्तमानो नृपो भूपतिश्चण्डद्युतिस्सूर्यस्तस्य मण्डलस्य चक्रवालस्य 'चक्रवालं तु मण्डलम्' इत्यमरः । अतिथिसमीपस्थ शशी चन्द्र इव रराज शुशुभे । यथा सूर्यमण्डल- गतश्चन्द्रः कान्तिहीनो भवति तथैव परिश्रमाधिक्येन स नृपो म्लानस्सञ्जात इति भावः । अत्रोपमालङ्कारः । भाषा स्वभाव से ही अत्यन्त सुकुमार होने पर भी उसने तपस्वियों से भी अत्यन्त कठिनता से सहने योग्य क्लेश सहन किया । घोर तपस्या में लगा हुआ वह राजा सूर्यमण्डल के निकट आए हुए चन्द्रमा के समान म्लान दिखाई पड़ने लगा । नृपं कठोरव्रतचर्यया कृशं समाहिता सा नरनाथसुन्दरी । निशातशाणोल्लिखितं समन्वगात् प्रभेव माणिक्यमतीव निर्मला ॥४६॥

( १२० ) अन्वयः कठोरव्रतचर्यया कृशं नृपं सा समाहिता नरनाथसुन्दरी निशातशाणो- ल्लिखितं माणिक्यम् अतीव निर्मला प्रभा इव समन्वगात् । व्याख्या कठोरं कठिनञ्चतद्व्रतञ्च तपस्यारूपं कठोरव्रतं तस्य चर्याऽऽचरणं तया कृशं कृशतनुं नृपं राजानं सा प्रसिद्धा समाहिता समाधौ स्थिता, निश्चलचित्तेन तपः- परायणा नरनाथस्य राज्ञः सुन्दरी पत्नी निशातस्तीक्ष्णः शाणः कषोपलं 'शाणस्तु निकषः कषः" इत्यमरः । तेनोल्लिखितं घर्षितमत एव कृशं माणिक्यं मणिम- र्तीवात्यन्तं निर्मला स्वच्छा प्रभेव कान्तिरिब समन्वगादनुसृतवती । यथा माणिक्यस्य कषे घर्षणेन कृशता प्रभा चानुसरति तथैव कठोरव्रतेन कृशं नृपं तस्य राज्ञी समनुसृतवतीति भावः । अत्रोपमालङ्कारः । भाषा जिस प्रकार तेज सान पर चढ़ाए हुए माणिक्य में कृशता के साथ अत्यन्त उज्ज्वल चमक भी आजाती है उसी प्रकार कठोर तपस्या से कृश उस राजा का, तपस्या में लगी रानी बराबर निश्चल चित्त से साथ देती रही । मृगाङ्कचूडस्य किरीटनिम्नगा-तरङ्गवातैरिव वारितश्रमा । उपाचरत्सम्यगसौ नराधिपं स्वहस्तलिप्तेश्वरमन्दिराजिरा ॥४७॥ अन्वयः स्वहस्तलिप्तेश्वरमन्दिराजिरा मृगाङ्कचूडस्य किरीटनिम्नगातरङ्गवातैः वारितश्रमा इव असौ नराधिपं सम्यक् उपाचरत् । व्याख्या स्वहस्तेन निजकरेण लिप्तं गोमयादिनोपलिप्तमीश्वरस्य शिवस्य मन्दिरस्या- जिरमङ्गणं यया सा मृगाङ्कश्चन्द्रश्चूडे ललाटे यस्य तस्य शिवस्य किरीटरूपा मुकुटरूपा 'मुकुटं किरीटं पुंनपुंसकम्' इत्यमरः । या निम्नगा गङ्गानदी तस्यास्तरङ्गवातैर्वीचिपवनैर्वारितोऽपनीतः श्रमः क्लेशो यस्याः सा वारितश्रमे- तादृशी नृपपत्नी राजमहिषी नराधिपं राजानं सम्यक् प्रकारेण सिषेवे सेवितवती । अत्रोत्प्रेक्षालङ्कारः ।

( १२१ ) भाषा अपने हाथो से शङ्कर के मन्दिर के आँगन को लीपपोत कर सफा करने वाली रानी, शङ्कर का मुकुट स्वरूप गङ्गानदी की लहरो के वायु से मानो अपना श्रम दूर करती हुई, राजा की अच्छी तरह सेवा करती थी । तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य चेतसः । तदद्रिकन्यादयितस्य पूजने जितेन्द्रियः कल्पयति स्म पार्थिवः ॥४५॥ अन्वयः जितेन्द्रियः पार्थिवः तथाविधायाः उन्नतेः यत् सदृशं, औदार्यधनस्य यत् मतं तत् अद्रिकन्यादयितस्य पूजने कल्पयति स्म । व्याख्या जितानि वशीकृतानीन्द्रियाणि येन स यतेन्द्रियः पार्थिवो राजा 'राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षित.' इत्यमरः । तथाविधायास्तादृश्या पुत्रप्राप्ति- रूपाया उन्नतेरभ्युदयस्य यत् सदृशं योग्यं कार्यमौदार्यमेव धनं यस्य तस्य चेतस- श्चित्तस्य यन्मतमिष्टमुदारचित्तेन च यत्सम्पादनीयं स्यात्तत्सर्वं सेवाकार्यं तत्सामग्री च 'वित्तसाहचर्याद्वर्जित' इति स्मरणात् । अद्रिकन्यायाः पार्वत्या दयितस्य पत्युः शिवस्य पूजने पूजार्थं कल्पयति स्म रचयति स्म । यक्षानुकूलो वलिरिति न्यायाद्याकार्यं सर्वमकरूपयदिर्ति भावः । भाषा जितेन्द्रिय राजा, वैसी पुत्र प्राप्ति के सदृश उच्च कामना के अनुरूप और उदारचित्त की प्रेरणा के अनुसार शङ्कर के पूजन में सब उत्तम वस्तुओ का प्रयोग करता था । इति क्षितीन्द्रश्चिरमिन्दुशेखर-प्रसादनाय व्रतमुग्रमाश्रितः । कदाचिदाकर्णयति स्म भारतीं प्रभातपूजासमये नभश्चरीम् ॥४६॥ अन्वयः इति इन्दुशेखरप्रसादनाय चिरम् उग्रं व्रतम् आश्रितः क्षितीन्द्रः कदाचित् प्रभातपूजासमये नभश्चरीं भारतीम् आकर्णयति स्म ।

( १२२ ) व्याख्या इति पूर्वोक्तरीत्येन्दुशेखरस्य शिवस्य प्रसादाय प्रसन्नतासम्पादनार्थं चिरं चिरकालमुग्रं कठिनं व्रतं नियमं ‘नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्’ इत्यमरः । आश्रितसमाधिनः क्षितीन्द्रो राजा कदाचिदिरस्मिंश्चित्समये प्रभाते प्रातःकाले या पूजाऽर्चनं तस्या अवसरे नभसि गगने चरतीति नभश्चरी तामाकाशगामिनीं भारतीं वाणीं ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती’ इत्यमरः । आकाशवाणीमित्यर्थः । आकर्णयति स्म श्रुतवान् । भाषा इस प्रकार शंकर भगवान् को प्रसन्न करने में चिरकाल तक कठोर व्रत पालन करने वाले राजा ने किसी दिन सबेरे की पूजा के काल में आकाशवाणी सुनी । अलं चुलुक्यक्षितिपालमण्डन-श्रमेण विश्राम्यतु कर्कशं तपः । कमप्यपूर्वं त्वयि पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥५०॥ अन्वयः हे चुलुक्यक्षितिपालमण्डन श्रमेण अलं, कर्कशं तपः विश्राम्यतु, भक्तवत्सलः पार्वतीपतिः त्वयि कम् अपि अपूर्वं प्रसादम् आरोहति । व्याख्या हे चुलुक्यस्य चुलुक्यवंशस्य क्षितिपाला नृपास्तेषां मण्डनमाभूषणं तत्सम्बुद्धौ हे चुलुक्यवंशक्षितिपालमण्डन ! राजन् ! श्रमेणालमतः परं वनादिषु परिश्रमो न कर्तव्यः । कर्कशं कठिनं तपो नियमो विश्राम्यतु विश्रान्तिमेतु भक्तानां प्रपन्नानां वत्सल स्निग्धः 'स्निग्धस्तु वत्सल.' इत्यमरः । पार्वत्याः पतिः शिवस्त्वयि त्वद्विषये कमप्यपूर्वं कमप्यनिर्वचनीयं प्रसादं प्रसन्नतां कृपामारोहति करोति । भाषा हे चालुक्य वंशीय राजाओं के भूषण ! अब परिश्रम मत करो । कठोर तप बन्द करो। भक्तवत्सल शंकर ने तुम्हारे ऊपर एक अवर्णनीय कृपा की है। इयं त्वदीया दयिता भविष्यति क्षितीन्द्र पुत्रत्रितयस्य भाजनम् । चुलुक्यवंशः शुचितां यदूर्जितैर्यशोभिरायास्यति मौक्तिकैरिव ॥५१॥

( १२३ ) अन्वयः हे क्षितीन्द्र इयं त्वदीया दयिता पुत्रत्रितयस्य भाजनं भविष्यति । मौक्तिकैः इव यदर्जितैः यशोभिः चुलुक्यवंशः शुचिताम् आयास्यति । व्याख्या हे क्षितीन्द्र हे राजन् ! इयं त्वदीया तव दयिता महिषी पुत्राणां सुतानां त्रितयस्य त्रयस्य त्रिसंख्याकसुतानां वा भाजनं पात्रं भविष्यति । मौक्तिकैरिव मुक्तामणिभिरिवातिस्वच्छैः शुक्लवर्णैर्यैस्तवपुत्रैरर्जितानि निष्पादितानि यशोभिः कीर्तिभिः 'यशः कीर्तिः समज्ञा च' इत्यमरः । चुलुक्यवंशस्तुलुक्यनृपाणां कुलं शुचि- तामुज्ज्वलतां पवित्रतां वाऽप्यास्यति गमिष्यति । 'शृङ्गारः शुचिरुज्वलः' इत्यमरः । ते त्रयः पुत्राः कुलभूषणा भविष्यन्तीति भावः । अत्रोपमालङ्कारः । भाषा. हे राजा तुम्हारी इस धर्मपत्नी से तुम्हे तीन पुत्र होंगे । उनके द्वारा उपार्जित मोतियों की ऐसी स्वच्छ और शुक्ल कीर्ति से यह चालुक्यवंश उज्ज्वल या पवित्र हो जाएगा । निधिः प्रतापस्य पदं जयश्रियः कलालयस्ते तनयस्तु मध्यमः । दिलीपमान्धातृमुखादिपार्थिव-प्रथामतिक्रम्य विशेषमेष्यति ॥५२॥ अन्वयः ते मध्यमः तनयः तु प्रतापस्य निधिः जयश्रियः पदं कलालयः (सन्) दिलीपमान्धातृमुखादिपार्थिवप्रथाम् अतिक्रम्य विशेषम् एष्यति । व्याख्या ते तव मध्यमो द्वितीयस्तनयः पुत्रस्तु 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । प्रतापस्य प्रभावस्य 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । निधिर्निधानं जयश्रियो जयलक्ष्म्याः पदं स्थानं कलानाञ्चतुःषष्ठि- कलानामालयो गृहं सन् दिलीपश्चमान्धाता च दिलीपमान्धातारौ सूर्यवंशसमुद्भवौ प्रताधिनौ राजानौ मुखं आदौ येषां ते दिलीपमान्धातृमुखा आदिपार्थिवा प्राचीननृपास्तेषां प्रथां ख्यातिमतिक्रम्य समुल्लङ्घ्य विशेषं विशेषतामधिकोत्कृष्टता- मेष्यति प्राप्स्यति ।

भाषा तुम्हारा मझला लडका बडा प्रतापी, विजय लक्ष्मी का पात्र तथा चौंसठों कलाओ का ज्ञाता होकर सूर्यवंशी दिलीप मान्धाता आदि प्राचीन राजाओ की ख्याति से भी अधिक प्रतिष्ठा प्राप्त करेगा । सुतद्वयं ते निजकर्मसम्भवं मम प्रसादात्तनयस्तु मध्यमः। पयोनिधेः पारगतामपि श्रियं स दोर्बलाद्राम इवाहरिष्यति ॥५३॥ अन्वयः सुतद्वयं ते निजकर्मसम्भवं, मध्यमः तनयः तु मम प्रसादात्, सः रामः इव दोर्बलात् पयोनिधेः पारगताम् अपि श्रियम् आहरिष्यति । व्याख्या सुतद्वयं द्वौ पुत्रौ ते तव निजेन स्वकीयेन कर्मणा तपसा सुकृतेन वा सम्भव उत्पत्तिर्ययोस्तत् । द्वौ पुत्रौ तव कठिनव्रतफलरूपाविति भावः । मध्यमो द्विती- यस्तनयः पुत्रस्तु मम शिवस्य प्रसादादनुग्रहविशेषाद्भवष्यिति । स राम इव दाशरथिरिव दोष्णोर्भुजयोर्बलं शक्तिस्तस्मात् 'भुजबाहू प्रवेष्टो दो.' इत्यमरः । पयोनिधेः समुद्रस्य पारगतां पारे गतां श्रियं राज्यलक्ष्मीं रामपक्षे सीतामाहरिष्यति समानेष्यति । अत्रोपमालङ्कारः । भाषा दो पुत्र तुम्हारे किये हुये कठिन अनुष्ठानादि कर्मों से प्राप्त होंगे । किन्तु तुम्हारा मध्यम पुत्र तो मेरी विशेष कृपा से तुम्हें प्राप्त होगा । वह रामचन्द्र के समान समुद्र के पार गई हुई सीता रूपी लक्ष्मी को अपने भुजबल से ले आएगा । गिरं निपीय श्रुतिशुक्तिमागतां सुधामिव व्योमपयोनिधेरिति । उदञ्चिरोमाञ्चतया समन्ततः स शैत्यसम्पर्कमिव न्यवेदयत् ॥५४॥ अन्वयः सः व्योमपयोनिधेः श्रुतिशुक्तिम् आगतां सुधाम् इव इति गिरं निपीय समन्ततः उदञ्चिरोमाञ्चतया शैत्यसम्पर्कम् इव न्यवेदयत् ।

( १२५ ) व्याख्या स आहवमल्लदेवो व्योमंऽऽभ्रमेव 'द्योर्दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः । पयसां जलानां निधिस्समुद्रस्तस्माच्छुतिरेव कर्णे एव शुक्तिर्मुक्ता- स्फोटः 'मुक्तास्फोटः स्त्रियां शुक्ति' इत्यमरः । तां समागतां प्राप्ता सुधामिव पीयूषमिवेतीत्थं पूर्वोक्तां गिरमाकाशवाणीं निपीय श्रुत्वा समन्ततः परित उदञ्ची उद्गतो रोमाञ्च रोमहर्षशं यस्य स उदञ्चिवरोमाञ्चस्तस्य भावस्तत्ता तथा 'रोमाञ्चो रोमहर्षणम्' इत्यमरः । शैत्यस्य शीततायास्सम्पर्कः सम्बन्ध्यस्तमिव न्यवेदयत् प्रकटयाञ्चकार । अत्राऽऽकाशे समुद्रतादात्म्यारोपः श्रुतौ शुक्ति- त्वारोपे वाण्यां सुधात्वारोपे च कारणमिति परम्परितरूपकम् । अत्रोपमोत्प्रे- क्षयोः सङ्करः । भाषा राजा आहवमल्लदेव, आकाशरूपी समुद्र से कर्णरूपी सीप में अमृत रूपी आकाशवाणी पड़ने से हर्ष के कारण रोमाञ्चित होकर अपने को मानो जाड़ा लग रहा हूँ ऐसा प्रकट करने लगा । (जाड़ा लगने से भी रोंगटे खड़े हो जाते हैं ।) उदश्वदानन्दजलप्लुतेक्षणस्ततः प्रमोडालसलोचनोत्पलाम् । स वल्लभामन्यपुरन्ध्रिदुर्लभैर्गुणैरुपैतां गुणवानतोषयत् ॥५५॥ अन्वयः ततः गुणवान् सः उदश्वदानन्दजलप्लुतेक्षणः (सन्) अन्यपुरन्ध्रिदुर्लभैः गुणैः उपेतां प्रमोडालसलोचनोत्पलां वल्लभाम् अतोषयत् । व्याख्या ततस्तदनन्तरं गुणवान्दाक्षिण्यादिगुणोपेत स आहवमल्लदेवनृप उदश्व- दुद्गच्छदानन्दजलमानन्दाश्रुजलं तेन प्लुते व्याप्ते ईक्षणे नेत्रे 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । दस्यैवम्भूतस्तत्प्रत्यासन्नपुरन्ध्रयश्च नार्य्यश्च तासु दुर्लभैरप्राप्यैर्गुणैस्सौजन्यलज्जापातिव्रत्यादिगुणैरुपैतां युक्तां प्रमोदेनानन्दे- नाऽलसे निस्पन्दे लोचन शुक्लोत्पले कमले यस्यास्तां वल्लभां प्रियामतोषयत् समाश्वासितवान् । अत्ररूपकमलङ्कारः ।

( १२६ ) भाषा इसके अनन्तर उस गुणी राजा ने उत्कट आनन्द जनित अश्रुओं से भरी आंखो से धन्य स्त्रियो में अग्राण्य गुणों से युक्त तथा आनन्द से निर्निमेष नेत्र कमल वाली अपनी रानी की सान्त्वना की । शनैर्विधाय व्रतपारणाविधिं धनैः कृतार्थीकृतविप्रमण्डलः । अखण्डसौभाग्यविलासया पुनस्तया समं राज्यसुखेष्वरज्यत ॥५६॥ अन्वयः (सः) शनैः व्रतपारणाविधि विधाय धनैः कृतार्थीकृतविप्रमण्डलः (सन् ) अखण्डसौभाग्यविलासया तया समं पुनः राज्यसुखेषु अरज्यत । व्याख्या स राजा शनै स्वस्थचित्तेन व्रतस्य पूर्वाचरितानुष्ठानस्य पारणाविधि समाप्ति- कृत्य ब्राह्मणभोजनादिपूर्वकं स्वभोजनादिकं विधाय कृत्वा कृतार्थीकृत दान- भोजनादिना सन्तुष्टमनोरथीकृत विप्रमण्डल ब्राह्मणसमुदायो येनैवम्भूतस्सन्नखण्ड निरन्तर पत्सौभाग्य सधवत्व तस्य विलास सौख्य यस्यास्सा तया स्ववल्लभया सह राज्यसुखेषु राजकीयसुखोपभोगेष्वरज्यत सरक्तो बभूव । मन्त्रिविनिविष्ट राज्यकार्यभारमुररीकृत्य पूर्ववत्प्रजापालनतत्परोऽभूदिति भाव । भाषा वह राजा, स्वस्थ चित्त से व्रत का पारण कर और ब्राह्मणो को दान भोजन आदि से सन्तुष्ट करते हुए राज्य कार्य का भार लेकर अखण्ड सौभाग्यवती होने के सौख्य से युक्त अपनी रानी के साथ राज्य सुख के उपभोग करने में प्रवृत्त हुआ । क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसन्निभः । अवाप्य सम्पादितमांसलोत्सवः परामगात्रिर्वृतिमोध्वरः क्षितेः ॥५७॥ अन्वयः पुरुहूतसन्निभः क्षितेः ईश्वरः क्रमेण शुभे मुहूर्ते तस्यां कमनीयम् आत्मजम् अवाप्य सम्पादितमांसलोत्सवः (सन्) परा निर्वृतिम् अगात् ।

( १२७ )

व्याख्या पुरुहूतसन्निभ इन्द्रसदृशः 'वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः' इत्यमरः । क्षितेः पृथिव्या ईश्वरः स्वामी क्रमेण किञ्चित्कालानन्तरं शुभे माङ्गलिके "कल्याणं मङ्गल शुभम्' इत्यमरः । मुहूर्ते काले तस्या स्ववल्लभायां कमनीयं सुन्दरमात्मजं पुत्रं 'आत्मा वै जायते पुत्रः' इति श्रुतेः । अवाप्य लब्ध्वा सम्पादितः कृतो मांसलोऽतिबहुलोऽतिसमृद्धश्चोत्सवो महो येन सः 'मह उद्धव उत्सवः' इत्यमरः । एवम्भूतस्सन् परा समुत्कृष्टां निर्वृतिं सुखमगात् प्राप ।

भाषा आगे चलकर इन्द्र के समान प्रतापी पृथिवीपति आहवमल्लदेव ने उस रानी से सुमुहूर्त्त में एक सुन्दर पुत्र प्राप्त कर और उस उपलक्ष्य में एक बड़ा उत्सव मना कर बहुत आनन्द प्राप्त किया ।

स सोमवन्नेत्रचकोरपारणां चकार गोत्रस्य यदुज्ज्वलाननः । यथोचितं सोम इति क्षमापतेस्ततः प्रसन्नादभिधानमाप्तवान् ॥५८॥

अन्वयः यत् उज्ज्वलाननः सः गोत्रस्य सोमवत् नेत्रचकोरपारणां चकार ततः प्रसन्नात् क्षमापतेः यथोचितं सोमः इति अभिधानम् आप्तवान् ।

व्याख्या यद्यस्मात्कारणादुज्ज्वलं विशिष्टशोभान्वितमाननं मुखं यस्य स नूतनजात- शिशुर्गोत्रस्य चुलुक्यवंशस्य सोमवच्चन्द्र इव नेत्राणि नयनान्येव चकोराश्चकोरकाः "जीवञ्जीवश्चकोरकः" इत्यमरः । पक्षिविशेषा ये चन्द्रिकया तृप्यन्ति । तेषां पारणां सन्तोषं चकार ततस्तस्मात्कारणात्प्रसन्नादानन्दयुक्तात्क्षमापते राज्ञो यथोचितमुचितमनतिक्रम्य वर्तत इति यथायोग्यं सोम इत्यक्षरद्वयमभिधानं नामाऽऽप्तवान् प्राप्तवान् । अत्रोपमारूपकयोः संकरः ।

भाषा चूंकि सुन्दर मुखवाले उस बालक ने चन्द्रमा के समान चुलुक्यवंशीयों के नेत्र रूपी चकोरों को सन्तुष्ट किया इसलिये प्रसन्न चित्त राजा से उसने सोम यह नाम पाया । अर्थात् उसका नाम सोम रक्खा गया ।

( १२८ ) अनन्यसामान्यतनूजशंसिनीं स्मरन्नजस्रं गिरमुद्गतां दिवः । द्वितीयगर्भार्थमभूत्स निर्भरं समुत्सुको मध्यमलोकनायकः ॥५६॥ अन्वयः मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् । व्याख्या मध्यमश्चासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो भूपालः स राजाऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नान्यः सामान्य- स्तत्समानो यस्य स चासौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजस्रं निरन्तरं ‘नित्यानवरताजस्रम्’ इत्यमरः । स्मरन् द्वितीयगर्भार्थं द्वितीयगर्भकृते निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् । भाषा वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश- वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुआ । स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः । स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥ अन्वयः ततः पृथिवीपतिः स्फटिकामलत्विषः गर्भे स्थितस्य कस्यचित् प्रभया इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श । व्याख्या ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विङिव प्रभेव ‘स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविधुतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य स तस्य स्फटिकमणिसमानशुभ्रकान्तेगर्भे उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य- चिद् गर्भस्य प्रभयेव कान्त्येव विलिप्यमानां रज्यमानामवुलिप्यमानाञ्च बिसदण्ड इव मृणालखण्ड इव ‘मृणालं बिसमब्जादि’ इत्यमरः । पाण्डुरां शुभ्रवर्णां देव्या महिष्याः गण्डपालीं कपोलं ददर्श दृष्टवान् । अत्रोपमोत्प्रेक्षयोः संकरः ।

( १२९ ) भाषा इसके अनन्तर राजा ने स्फटिक की निर्मल कान्ति के समान शुभ्र कान्ति वाले गर्भस्थित किसी (गर्भ) की कान्ति से मानो छाए हुए, कमलनाल के सदृश श्वेत रंग के रानी के कपोलस्थल को देखा । स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च । हरप्रसादोचितसूनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥ अन्वयः सः महतीं हेमवृष्टिं चित्राणि उपयाचितानि च चकार। हरप्रसादो- चितसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार । व्याख्या स राजा महतीं विशालां हेमवृष्टिं सुवर्णवृष्टिं चित्राण्याश्चर्यकराण्युपया- चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायै पूर्वं संकल्पितानुपहारारंश्च चकार । "दीयते यत्तु देवेभ्यो मनोरथस्य सिद्धये । उपयाचितकं दिव्यं दोहवं तद्दि- दुर्वुधाः" । स राजा याचकेभ्यः प्रचुरं सुवर्णं दत्तवान् देवेभ्यश्च स्वाभिलषित- सिद्धये पूर्वसंकल्पितानुपहारान् पूजनादिमियेणार्पितवानिति भावः । हरस्य शिवस्य यः प्रसादः प्रसन्नता 'प्रसादस्तु प्रसन्नता' इत्यमरः । तदुचितात्तदनुकूलो यः सूनुः पुत्रस्तस्मिन् लालसोत्कटकल्पना यस्य स 'कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः' इत्यमरः । नरेन्द्राणां राज्ञां तारकाणामिव मध्ये चन्द्रमाश्चन्द्र इवाह्लादको मनोहरी च स राजा किं किं समुचितं कार्यं न चकार कृतवान् । सर्वमेव तद्योग्यं समुचितं कार्यं कृतवानित्यर्थः । अत्रार्यापत्यलङ्कारस्तेन सम्बदा- मुरव्यैः प्रतीयते । भाषा उस राजा ने सुवर्ण की घोर वृष्टि की अर्थात् याचकों को खूब सुवर्णदान दिया । देवताओं की जो विचित्र मनौतियां की थीं उनको पूरा किया । शंकर के प्रसाद के अनुकूल पुत्र पाने की लालसा रखने वाले उस राजा ने क्या २ नहीं किया अर्थात् तदनुकूल सब कुछ किया । ९

( १३० ) उवाह धौतां क्षितिपालवल्लभा सुधाप्रवाहैरिव देहकन्दलीम् । विषादपङ्कक्षयतः क्ष्मापतेर्निरन्तरं तु प्रससाद मानसम् ॥६२॥ अन्वयः 'क्षितिपालवल्लभा सुधाप्रवाहैः धौताम् इव देहकन्दलीम् उवाह । क्ष्मापतेः मानसं तु विषादपङ्कक्षयतः निरन्तरं प्रससाद । व्याख्या क्षितिपालस्य भूपालस्य वल्लभा प्रिया राज्ञी सुधाया अमृतस्य प्रवाहैः संतानैर्धौतां प्रक्षालितामत एव श्वेतामिव देहकन्दलीं शरीरलतामुवाह धारितवती । क्ष्मापतेः पृथ्वोपतेः 'विपुला गह्वरी धात्री गौरिला कुंभिनी क्ष्मा । भूतधात्री रत्नगर्भा जगती सागराम्बरा।' इत्यमरः । मानसं मनस्तु विषादो दुःखं स एव पङ्कः कर्दमस्तस्य क्षयतो विनाशात् निरन्तरमजस्रं प्रससाद प्रसन्नतां समवाप । मानसं सरः पङ्कराहित्याद्यथा निर्मलजलेन प्रसन्नतां प्राप्नोति तथैव नृपस्य मनो दुःखरहित्याद् गर्भचिन्हैः सुखं प्राप । अत्रोत्प्रेक्षारूपकश्लेषाणां संकरस्तेन शरहृतुवृत्तान्त प्रतीत इति वस्तुध्वनि । भाषा रानी, अमृत से धोई हुई के समान श्वेत शरीर को धारण करने लगी अर्थात् रानी सफेद पड़ने लगी । राजा का मन दुख रूपी कीचड़ का क्षय होने से निरन्तर प्रसन्न होने लगा । जिस प्रकार कीचड़ दूर होकर निर्मल जल रहने से मानस सरोवर प्रसन्न होता है वैसे ही राजा का मन दुख दूर होकर गर्भ के चिन्ह से निरन्तर प्रसन्न हुआ । निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयोः सुधा । यदुत्पलश्यामलमाननं तयोः सलाञ्छनच्छायमिव व्यराजत ॥६३॥ अन्वयः पयसे चन्द्रं निपीड्य सुधा तदीयस्तनकुम्भयोः ध्रुवं निवेशिता । यत् तयोः उत्पलश्यामलम् आननं सलाञ्छनच्छायम् इव व्यराजत ।

( १३१ ) व्याख्या पयसे दुग्धाय 'पयः क्षीर पयोऽम्बु च' इत्यमर । चन्द्र सुधांशु निष्पीड्य निष्पीड्य सुधा चन्द्रगत पीयूष तस्या राज्ञा अय तदीयस्तौ तदीयो स्तनौ एव कुम्भौ तयोर्नृपपत्निकुचकुम्भयोर्ध्रुव निश्चयेन निवेशिता प्रवेशिता । यद्यस्मा- त्कारणात् तयो कुचयोरुत्पलं नीलोत्पलभिव श्यामल कृष्णदर्पमानन चूचुकः 'चूचुको ना कुचाननम्' इति रत्नकोश । लाञ्छनस्य चन्द्रस्यकृष्णचिन्हस्य छाया कान्तिस्तया सहितमिति सलाञ्छनच्छायमिव व्यराजत शुशुभे । चन्द्रस्यसुधा- गमसम्बन्धेन कलङ्ककान्त्या अप्यागमनसम्भवादुत्प्रेक्षालङ्कार । भाषा (उस बालक के दूध पीने के लिये) दूध के स्थान पर चन्द्रमा को निचोड कर अमृत ही रानी के स्तन रूपी घडो में अवश्य भरा गया होगा । क्यो कि उन दोनो स्तनो के नीले कमल के ऐसे काले चूचुक, (ढपनी, स्तन के ऊपर की घुडी) चन्द्रमा के कलङ्क की कान्ति से युक्त दिखाई देते थे अर्थात् काले थे । गर्भिणी के चूचुक काले हो जाते हैं । नरेन्द्रकान्ताकुचहेमकुम्भयोः सुधारसं क्षीरमिषेण बिभ्रतोः । हिमोपचारार्पितमार्द्रचन्दनं श्रियं दधौ गालनशुश्रवाससः ॥६४॥ अन्वयः क्षीरमिषेण सुधारसं बिभ्रतोः नरेन्द्रकान्ताकुचहेमकुम्भयोः हिमोप- चारार्पितम् आर्द्रचन्दनं गालनशुश्रवाससः श्रियं दधौ । व्याख्या क्षीरस्य दुग्धस्य मिषेण व्याजेन सुधारसममृतरस बिभ्रतोर्धारयतो नरेन्द्र- स्याहवमल्लदेवस्य कान्ता वल्लभा तस्या कुचावेव हेमकुम्भो सुवर्णकुम्भौ तयोरुपरि हिमोपचाराय शीतोपचारायार्पित विलिप्तमार्द्रचन्दनं कृतार्द्रचन्दन- लेपो गालनं स्रावण क्षरण वा तस्य शुभ्र शुक्लं वासो वस्त्रं तस्याऽमृतस्रवाय- णार्थदेवतायवस्त्रस्य शोभां कान्ति दधौ बभार । चन्दनस्य शुक्लवर्णत्वात्स्राविनादृ- ध्रवस्त्रत्वारोप । अत्रनिदर्शनालङ्कार । 'संभवन्वस्तुसम्बन्धोऽसंभवन्वाऽपि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ।'

( १३२ ) भाषा दूध के व्याज से अमृत के रस को रखने वाले उस रानी के स्तन रूपी सोने के घटो पर, ठंडक पहुँचाने के लिये लगाया हुआ सफेद चन्दन, अमृत को छानने के लिये घडो के ऊपर रक्खे हुए सफेद छत्रो (छतनों) की शोभा दे रहा था । नरेन्द्रपुत्रस्य कृते सुरक्षितं क्षितीशकान्ताकुचकुम्भयोः पयः । विलासहारोज्ज्वलमौक्तिकच्छलात् समल्लिकावासमिव व्यधीयत ॥६५॥ अन्वयः नरेन्द्रपुत्रस्य कृते क्षितीशकान्ताकुचकुम्भयोः सुरक्षितं पयः विलासहा- रोज्ज्वलमौक्तिकच्छलात् समल्लिकावासम् इव व्यधीयत । व्याख्या नरेन्द्रस्य नृपस्य पुत्र सूनुस्तस्य कृते क्षितीशस्य पृथ्वीपते कान्ताया प्रियायाः कुचावेव स्तनावेव कुम्भो घटौ तयोस्सुरक्षितं सुनिहितं पय दुग्ध विलासाय धारितश्चासौ हारश्च तस्योज्ज्वलाश्शुभ्राश्चते मौक्तिकाश्च तेषाञ्छलम्मिषेण विलासार्थधारितहारप्रोतशुभ्रमुक्ताफलव्याजेन मल्लिकापुष्पाणा 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुम॑दायती भूपदी तृणशून्यकम्' इति वाचस्पति । वासस्तुगन्धस्तेन सहित युक्तमिति समल्लिकावासमिव व्यधीयत कृतम् । शुभ्रत्वान्मौक्तिकोपरि मल्लिकापुष्पत्वारोप । सुगन्धार्थं दुग्धोपरि मल्लिकापुष्पाणा स्थितिरिति भाव । अत्र सापन्हुवोत्प्रेक्षालङ्कारः । भाषा राजपुत्र के लिये रानी के स्तनरूपी घडो में सुरक्षित रक्खा हुवा दूध, शोभा के लिये पहने हुए हार के सफेद मोतियो के मिष से मानो सफेद बेले के फूलो की सुगन्ध से सुगन्धित किया गया था । मृगीदृशः श्यामलचूचुकच्छलात् कुचद्वये भूपसुतोपयोगिनि । प्रभास्रक्रान्तरसायनौषधी-दलद्वयं नीलमिव व्यराजत ॥६६॥ अन्वयः मृगीदृशः भूपसुतोपयोगिनि कुचद्वये श्यामलचूचुकच्छलात् नीलं प्रभाप्रस्रक्रान्तरसायनीषधीदलद्वयम् इव व्यराजत ।

( १५३ ) व्याख्या मृगीदृश एणनयनाया नृपस्त्रियो भूपसुतस्य राजपुत्रस्योपयोगिन्युपभोगयोग्ये कुचद्वये स्तनद्वये श्यामले कृष्णवर्णे च ते चूचुके कुचाग्रे 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः। तयोश्छलाद्व्याजेन नीलं कृष्णवर्णं प्रभावेणालौकिकशक्त्या संक्रान्तं संगतं रसायनौषध्या आयुर्वर्द्धकजरा निवारकभेषजस्य दलद्वयमिव पत्रयुगलमिव रराज शुशुभे । अत्र सापन्हवोत्प्रेक्षालङ्कारः। भाषा राजपुत्र के उपयोग में आने वाले मृगनयनी रानी के दोनो स्तनों पर काले रंग के चुचुको (ढेपनी, स्तन के ऊपर की घुंडी) के मिष से मानो अलौकिक शक्ति से युक्त आयुष्य वर्धक और जरा निवारक किसी औषधि के काले रंग के दो पत्ते शोभित हो रहे थे । निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्र्यमसौ सहिष्यते । न येन मध्यस्थमपि व्यपक्षत स्थितेन गर्भे नरनाथयोषितः ॥६७॥ अन्वयः असौ अर्थिनां निरन्तरायाससमर्थं दारिद्र्यं कथं नु सहिष्यते । गर्भे स्थितेन येन नरनाथयोषितः मध्यस्थम् अपि (दारिद्र्यं) न व्यपक्षत । व्याख्या असौ सजनिष्यमाणपुत्रोऽर्थिनां याचकानां निरन्तरः सतत आयास क्लेशस्त- स्मिन्ससमर्थं क्लेशकारकमित्यर्थं । दारिद्र्यं धनाभावं कथं केन प्रकारेण सहिष्यते न सहिष्यत इत्यर्थः । यतो गर्भे उदरे स्थितेन येन भाविराजपुत्रेण नरनाथस्य नृपस्य योषितः सीमन्तिन्या 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । मध्यस्थमुदरस्य दारिद्र्यं कृशत्वं न व्यपक्षत न सोढम् । गर्भिण्या उदरं वर्धत एव । अत अनेनोदरस्यकृशत्वरूपदारिद्र्यमपहृतम् । अत्रोत्प्रेक्षा गम्या । भाषा यह गर्भस्थ बालक याचकों को निरन्तर कष्ट देने वाली दरिद्रता को कैसे सहन करेगा। क्योंकि उसने गर्भ में आकर रानी के पेट की कृशता रूपी दरिद्रता न सहन की। अर्थात् गर्भवती स्त्रियों का पेट स्वभावतः ही बड़ा हो जाता है। रानी गर्भवती होने से उसका मध्य भाग बड़ा हो गया था ।

( १३४ ) बलेः समुल्लासमपाचकार यः स कारणादत्र कुतोऽपि वर्तते । इतीव गर्भः क्षितिपालयोषितः शशंस भञ्जन्नुदरे वलिस्थितिम् ॥६८॥ अन्वयः क्षितिपालयोषितः गर्भः उदरे वलिस्थितिं भञ्जन्, यः बलेः समुल्लासम् अपाचकार सः कुतः अपि कारणात् अत्र वर्तते इति शशंस इव । व्याख्या क्षितिपालयोषितो नृपपत्न्या गर्भो गर्भस्थो बाल उदरे वलिस्थितिं त्रिवलिरेखां भञ्जन्नपहरन् यो विष्णुर्वामनरूपो बलेर्बलिनामकदैत्यस्य समुल्लासमौद्धत्यमपाच- कार दूरीकृतवान् स विष्णुः कुतोऽपिकारणात्कस्मादप्यनिर्वचनीयकारणादत्रोदरे वर्तते प्रतिवसतीति शशंसेव प्रकटीचकारेव । बबयोरभेदादुत्प्रेक्षा । नाविष्णुः पृथिवीपतिरिति वचनात्तस्य राजपुत्रस्य विष्णुरूपत्व गम्यते । भाषा रानी के गर्भ में का राजपुत्र, रानी के पेट पर थी त्रिवली दूर करते हुए यह द्योतित करता था मानो यहाँ पेट में किसी कारण से राजा बलि के औद्धत्य का भङ्ग करने वाले विष्णु के अवतार रूप वामन आये हैं । (गर्भिणी के पेट पर की त्रिवली पेट बढ़ने से नही दिखाई पडती ।) कृतावतारः क्षितिभारशान्तये न पीड्यमानां सहते महीमयम् । इतीव सा गर्भभरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥६९॥ अन्वयः गर्भभरालसा मृगायतेक्षणा सा, क्षितिभारशान्तये कृतावतारः अयं पीड्यमानां महीं न सहते इति इव शनैः पदानि चिक्षेप । व्याख्या गर्भभरेण गर्भभारेणालसा मन्थरगतिमृगस्याऽऽयत ईक्षण इवेक्षणे नेत्रे यस्यास्सा नृपस्त्रीः क्षितेः पृथ्व्या भारः कुनृपतिकृतात्यायविशेषस्तस्य शान्तये दूरी- करणाय कृतोऽवतारो येन स गृहीततनुरयं कुमारो मयंथ पीड्यमानां सबाध्यमानां महीं पृथ्वीं कथं सहते सहिष्यत इति हेतोरिव शनैर्मन्दं मन्दं पदानि पादान् भुवि