विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ३ ) अशुद्धम् शुद्धम् पृष्ठे पंक्ति. मङ्गलध्वनि भङ्गलध्वनि २८१ १ शब्दशान्यत्वस्य शब्दशून्यत्वस्य २८२ १४ चमचक्षुषा चर्मचक्षुषा २८४ ११ सङ्कुट्टेप्यापत्ता सङ्कटेऽप्यापत्ता २८५ १ लब्धतोरतरु लब्धतीरतरु २९० १९ तुष्यतिस्म तुष्यति स्म ३२७ ९ वस्तुओ का वस्तुओ को ३४१ १९ सम्मेलनन्तर सम्मेलनानन्तर ३४३ ११ गलदश्वजलश्चिर गलदश्रुजलश्चिर ३४७ २२ पुरोऽत्रे पुरोऽग्रे ३५० ७ चोलसूना चोलसूनो ३६० १३ नृपयाऽऽहवमल्लदेवस्य नृपत्याऽऽहवमल्लदेवस्य ३६१ १८ गिरिपडोऽसंख्याका गिरिपडेऽसंख्याका ३७३ २२ समुद्र कोरण समुद्ररूपी रण को ३७३ २७ चलन के समान चलने के समान ३७४ २२ मयिता ये मथिता ये ३७५ २१ अधिता व्यथिता ३७५ २४ हुका हुआ ३७८ ११ प्रासयष्टि प्रासपंक्ति ३७८ १९ तदबल तद्बल ३७९ १२ यस्मात्तत यस्मात्तत् ३७९ ८ भातृयुद्ध भ्रातृयुद्ध ३८१ ८ प्रमोदमडहिष्यन्तीति प्रमोदमूद्वहिष्यन्तीति ३८३ १० त्रिदिशत त्रिदिशगत ३८४ २६ बीरो के वीरो के ३८९ २ प्रफ्ट करन प्रकट करने ३८९ २ द्रुततरमाक्रमभाषाभ्या द्रुततरमाक्रममाणाभ्या ३८९ १५ कवचश्चवार कवचश्चचार ३९५ ५ कमालशुक्तिमध्ये कपालशुक्तिमध्ये ३९९ २१ आतनात् आतनोत् ३९९ २५
( ४ ) अशुद्धम् शुद्धम् पृष्ठे पंक्ति बहुत बहूत ४०३ ५ महमोय महनीय ४०३ २३ सर्वं सर्व ४०५ ४ हप हर्षं ४०७ ५ गजितेन गर्जितेन ४०७ २३ तुरगात्तमाना तुरगोत्तमाना ४१४ १९ चन्दानाद्रे चन्दनाद्रे ४१९ १८ चन्द्रनान्द्रे चन्दनाद्रे ४१९ २३ दोलाल्लिास' दोलाविलास ४२० २० नपुण्यमापु नैपुण्यमापु ४२९ १९ सुहृद्बायु सुहृद्वायु ४४१ ७ कामाभिभूतस्ताम् कामाभिभूतस्सन् ४४३ १४ संगहीतो सगृहीतो ४५३ ८ पुसान् पुमान् ४५७ १९ सम्प्रत्यघना सम्प्रत्यधुना ४५७ २८ दुमना दुर्मना ४५८ १५ अभिनवपयवतिन अविनवपयवतिन परिशिष्ट (क) ४ १७
॥ श्रीः ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् ─❧❦☙─ प्रथमः सर्गः । भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति ॥१॥ अन्वयः यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनं व्यनक्ति इव, सः ऊर्ध्वगामी भुजप्रभादण्डः इव कंसरिपोः कृपाणः वः पातु । व्याख्या नृत्यन्ती मुखकमले सुकवीनां रसतरङ्गमग्नानाम् । वाणी हंसीव सरो रमणीयं दर्शयति विश्वम् ॥ प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तये शिष्टाचारपरिप्राप्त "आशीर्नम- स्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इति मङ्गलाचरणं कर्तव्यमिति श्री विल्हण-कविरादौ स्वेष्टदेवतां स्मरन्नाशीर्वादात्मकं मङ्गलमाचरति भुजप्रभादण्ड इति । यः पाञ्चजन्यस्य विष्णो शङ्खस्य 'शङ्खो लक्ष्मीपतेः पाञ्च-जन्यश्चक्र सुदर्शनम्' इत्यमरः । प्रतिबिम्बस्य प्रतिच्छायाया भङ्ग्या व्याजेन धारायाः कृपाणधाराया अम्भसो जलस्य फेनं डिण्डिरं "डिण्डिरोऽब्धिकफः फेनः" इत्यमरः । व्यनक्तीति प्रकटयतीव सः प्रसिद्ध ऊर्ध्वगाम्युपरिष्टात्प्रसरणशीलो भुजप्रभादण्ड इव दण्डायमानबाहुकान्तिकलाप इव कंसरिपोः कृष्णस्य कृपाणः करवालो वो युष्मान् पातु रक्षतु । श्री कृष्ण सम्बन्धिन् कृपाणस्योर्ध्वप्रसरणशीलत्वरूप समानधर्मसम्बन्धनिमित्तक भुजकान्तिदण्डत्वेनाऽहार्यसम्भावनमुत्प्रेक्षेव-पदवाच्या ।
( २ )
पृष्ठगतस्योर्ध्वंकृपाणप्रतिबिम्बितपाञ्चजन्ये शुभ्रत्वात्फेनोत्प्रेक्षा, सा च विषयस्य भङ्गिरूपेनाऽपह्नवादपहुतविषया । अत्र भगवतः साक्षाद्वर्णनं विहाय भगवत्स- म्बन्धिकृपाणस्य वर्णनात्तस्यापि लोकोत्तरत्वमभिव्यज्यत इति वस्तुध्वनिरपि । प्रतिनायकार्थालम्बनक-श्रीकृष्णनिष्ठोत्साहप्रतीतेस्तस्य च कविनिष्ठकृष्ण- विषयरतावेऽङ्गत्वारप्रेयोऽलङ्कारः । वीररसस्याऽङ्गत्वार्द्रसालङ्कारश्च । काव्ये- ऽस्मिन्वीररसोऽङ्गीति मङ्गलेनैव सूच्यते । सर्गेऽस्मिन्नुपजातिवृत्तम् । पूर्वार्द्धे उपेन्द्रवज्राछन्द उत्तरार्द्धे चेन्द्रवज्रा-छन्दः । 'उपेन्द्रवज्रा जतजास्ततो गौ' 'स्यादिन्द्रवज्रा यदि तौ ज गौ गः' । 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया वुपजातयस्ताः' । भाषा पुण्य भूमि भारतवर्ष में ग्रन्थ की निर्विघ्न समाप्ति के ध्येय से ग्रन्थ के आदि म मङ्गलाचरण करने की प्रथा बहुत प्राचीन काल से चली आ रही है । इसको ध्यान में रखते हुए महाकवि श्री विल्हण अपने ग्रन्थ के प्रारम्भ में मङ्गलाचरण करते हैं । जंग में शत्रु श्री कृष्ण के भुजा की, दण्डे के ऐसी सीधी ऊपर उठने वाली कान्ति के समान शोभायमान उनकी तलवार आप लोगो का सरक्षण करे, जो धार के पानी में प्रतिबिम्बित पाञ्चजन्य शंख की श्वेत परछाही के मिस से मानो जल के फेन को प्रकट करती है । मङ्गलाचरण में वीररस की झलक होने से यह काव्य वीर-रस वाला है ऐसा सूचित होता है । श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमातनोति । नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥२॥ अन्वयः यः श्रीधाम्नि दुग्धोदधिपुण्डरीके चञ्चरीकद्युतिम् आतनोति सः नीलोत्पलश्यामलदेहकान्तिः भगवान् मुकुन्दः वः भूत्यै अस्तु । व्याख्या यः श्रियो लक्ष्म्या धाम्नि निवासस्थाने 'धामतेजो गृहेभगो' इत्यमरः । दुग्धोदधिरेव क्षीरसागर एव पुण्डरीक' सिताम्भोजं 'पुण्डरीकं सिताम्भोजम्'
( ४ ) भाषा संसार को उत्पन्न करने वाले गरुडवाहन विष्णु भगवान् का वक्षःस्थल अनेक लोकों की रक्षा करे । जिसपर लक्ष्मी के शरीर की सोने के समान कान्ति की छाया पड़ने से, जो सौभाग्य रूपी सोना कसने की कसौटी के समान अवगत हो रहा है । एक स्तनस्तुङ्गतराः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम् । यस्याः प्रियार्द्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥४॥ अन्वयः प्रियार्द्धस्थितिम् उद्वहन्त्याः यस्याः एकः तुङ्गतरा स्तनः परस्य वार्तां प्रष्टुम् इव मुखाग्रम् अगात्, सा पर्वतराजपुत्री वः पातु । व्याख्या प्रियस्य शिवस्यार्द्धस्थितिम् स्वदक्षिणाङ्गे स्थितिमुद्वहन्त्या धारयन्त्या यस्याः पार्वत्या एकस्तुङ्गतरोऽत्युच्चस्तनः कुचः परस्य द्वितीयार्द्ध-देहरूपप्रिय-सम्बन्धि- नोर्द्धदेहस्थस्तनस्य वार्तां जीवनवृत्तान्त स्नेहात्प्रष्टुमिव पार्वत्या मुखाग्रमाननसा- मीप्यमगात्प्राप्तः, सा प्रसिद्धा पर्वतराजस्य हिमाचलस्य पुत्री कन्या पार्वती वो युष्मान् पातु रक्षतु । वृत्तान्तप्रश्नस्य परस्तनकर्तृक-पार्वतीमुखाग्रकर्मकगमन सम्बन्धि-फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा । अत्रार्द्धनारीश्वरो व्यज्यते । उद्वहन्त्या इति पदसामर्थ्यात्पर्वतराजपुत्रीत्यत्र परिकरालङ्कारात्यार्वत्या उद्वहनक्षमत्वं गम्यते । तन्त्रशास्त्रदृष्ट्या पार्वत्या आद्य शक्तिस्त्वेन ग्रहण कविसम्मतं प्रतिभाति । भाषा अपने प्रिय के आधे अङ्ग को अपने दक्षिण अङ्ग में धारण करने वाली हिमालय पर्वत की लडकी पार्वती तुमलोगों का रक्षण करे । जिसका ऊपर १ अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्धं पुभास इति दर्शयितु भवत्या । स्त्रीपुसलक्षणमिदं वपुराहृत यत्तेनार्द्धसि देवि विदिता त्रिजयच्छरीरा ॥ श्री नीलकण्ठदीक्षितविरचिते 'आनन्द सागरस्तवे' श्लो० १०० । "कान्तार्द्धविग्रहे"त्यस्य व्याख्याऽपि भास्करराय-प्रणीते ललिता-सहस्रनाम- सौभाग्य-भास्करारूपभाष्ये द्रष्टव्या ।
( ५ ) उठा हुआ वामाङ्ग में का एक स्तन जाति के सौहार्द से मानो दक्षिणाङ्ग-स्थित (दबे हुए) दूसरे स्तन की जीवन सबन्धि दुःख सुख की घटना पूछने के लिए पार्वती के मुख के पास पहुँचा है । सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः । कुर्वन्नजस्रं यमुनाप्रवाह—सलीलराधा—स्मरणं मुरारेः ॥५॥ अन्वयः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः नन्दकः मुरारेः यमुनाप्रवाहसलीलराधा- स्मरणम् अजस्रं कुर्वन् वः सान्द्रां मुदं यच्छतु । व्याख्या उल्लासेन सहिताया हर्षोत्फुल्लाया लक्ष्म्याः प्रतिबिम्बं प्रतिच्छाया गर्भेऽभ्यन्तरे यस्यैवम्भूतो नन्दको नन्दकनामा विष्णोः खड्गः 'शंखो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् । कौमोदकी गदा खड्गो नन्दकः कौस्तुभोमणिः' इत्यमरः । मुरारेः कृष्णस्य यमुनाप्रवाहे सलीलाया विहरन्त्या राधायाः स्मरणं स्मृतिमजस्रं सततं कुर्वन् मुरारिकर्तृकं यमुनाप्रवाहान्तर्गतविहरमाणराधाकर्मकस्मरणं निरन्तरं हेतुत्वे- नोत्पादयन् कारयन्नित्यर्थः । अन्तर्भावितण्यर्थो ऽयं कृ धातुः । सान्द्रां घनीभूतां मुदमानन्दं वो युष्मान् युष्मभ्यं वा यच्छतु ददातु । नन्दकस्य यमुनाप्रवाहेण लक्ष्म्याश्च राधया साम्यमिति श्री कृष्णस्य स्मृतिस्संगच्छते । प्रतिबिम्बित- लक्ष्मीके नन्दके दृष्टे सति भगवतः सादृश्यायमुनाप्रवाहान्तर्गत-लीलासक्तराधि- कायाः स्मरणात्स्मरणालङ्कारः । सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः । भाषा प्रसन्नचित्त लक्ष्मी की परछाई से युक्त नन्दक नाम का विष्णु का खड्ग तुम लोगों को अधिक आनन्द दे। जो यमुना नदी में लीला करने वाली राधिका का भगवान् को निरन्तर स्मरण कराने वाला है। अर्थात् जो विष्णु को काले रंग के खड्गरूपी यमुना नदी मे प्रसन्न लक्ष्मीरूपी कृष्णावतार में अनुभूत राधिका का सतत स्मरण करा रहा है । पार्श्वस्थपृथ्वीधरराजकन्या-भ्रकोपविस्फूर्जितकातरस्य । नमोऽस्तुते मातरिति प्रणामाः शिवस्य सन्ध्याविषया जयन्ति ॥६॥
( ७ )
वचांसि ज्ञानप्रदविशिष्टवाक्यानि लब्धुमिव बृहस्पतितोऽप्यधिकं ज्ञानं प्राप्तुमिव यस्याः सरस्वत्या मुक्ताक्षसूत्रत्वं मौक्तिकजपमालात्वमुपैति प्राप्नोति, मुक्ताक्ष- सूत्रव्याजेन सरस्वतीमुपसेवते । सा सरस्वती शारदा वाग्देवता वो युष्मभ्यं सम्प्रसादा प्रसन्ना अस्तु । बृहस्पतिमात्सर्यहेतुकवचस्सारप्राप्तीच्छाया ग्रहमण्डल्यां मुक्ताक्षसूत्रत्वारोपे फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षेयं-पदवाच्या ।
भाषा वृहस्पति के अतिरिक्त अन्य ग्रहगण, वृहस्पति ग्रह होते हुए भी वाणी का पति और देवगुरु है, इस ईर्ष्या से, वृहस्पति से भी अधिक ज्ञान की विशिष्ट बातें जानने की इच्छा से, जिस सरस्वती की मोतियों की जपमाला में मानो मोती बन कर उसकी सेवा करते हैं, ऐसी सरस्वती तुम लोगों पर प्रसन्न हो ।
अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिङ्मुखेषु । विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥८॥
अन्वयः इभाननस्य अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानाम् इव करशीकराणां दिङ्मुखेषु विक्षेपलीला वः प्रीतिं करोतु ।
व्याख्या इभस्य गजस्याऽऽननं मुखमिवाऽऽननं मुखं यस्य तस्य गणेशस्याऽशेषाश्चते विघ्नाः प्रत्यूहाः 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । तेषां प्रतिषेधे निवारणे दक्षाणां समर्थानां मन्त्राक्षतानामिवान्भिमन्त्रिताक्षतानामिव, करशीकराणां कर- पूता शुण्डोक्षिप्ताम्बुकणानां 'शीकरोऽम्बुकणाः स्मृताः' । वमथुः करशीकरः । इत्यमरः । दिङ्मुखेषु सर्वदिक्षु विक्षेपलीला गजानां स्वाभाविकीयं जलक्रीडा वो युष्मान् प्रीतिमानन्दं करोतु वितरतु । करशीकरेषु मन्त्राक्षतत्वस्योत्प्रेक्षणाद्- स्तूत्प्रेक्षा ।
भाषा हाथी के ऐसे मुखवाले श्री गणेश जी के सम्पूर्ण विघ्नों को दूर करने में समर्थ अभिमन्त्रित अक्षतों के समान, समग्र दिशाओं में अर्थात् चारों ओर सूँड से छोड़े हुए जल कण तुम लोगों को आनन्द दें ।
( ८ ) अथ प्रस्तावनामवतारयति कविः - अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्म-भूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥६॥ अन्वयः श्रवणामृतस्य अनभ्रवृष्टिः सरस्वतीविभ्रमजन्मभूमिः पदानां सौभाग्य- लाभप्रतिभूः वैदर्भरीतिः कृतिनाम् उदेति । व्याख्या श्रवणस्य कर्णस्य यदमृतमानन्ददायिवस्तु तस्य श्रवणामृतस्य कर्ण-पीयूष- स्याऽभ्राणां मेघानां 'अभ्रं मेघो वारिवाहस्तनयित्नुर्बलाहक' इत्यमरः । वृष्टि- र्वर्षणमभ्रवृष्टिर्नभ्रवृष्टिरनभ्रवृष्टिर्मेघमन्तरेव वर्षणरूपा सरस्वत्या वाग्देवताया विभ्रमस्य विलासस्य जन्मभूमिरुत्पत्तिस्थानं 'स्त्रीणां विलास विब्बोकविभ्रमाल- लितं तथा' इत्यमरः । पदानां शब्दानां सौभाग्यलाभस्य सौन्दर्यप्राप्ते प्रतिभूः प्रतिलग्निका वैदर्भरीति गौडोपाञ्चालीवैदर्भीति रीतिन्नय एकतमा 'माधुर्य व्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्भीरीतिरिष्यते' । कृतिनां विशिष्टकाव्यरचनाकुशलानां पुण्यवतां कवीनामुदेति प्रादुर्भवति । केवलं भाग्यवन्त कुशलाश्च तथाविधालौकिक-गुणविशिष्ट-वैदर्भरीतो काव्य रचयितु प्रभवन्तीति भाव । वैदर्भरीती श्रवणामृतानभ्रवृष्टेर्वाणिविलासजन्मभूमे सौभाग्यलाभप्रतिभूत्वस्य चाऽऽरोपाद्रूपकालङ्कारः । 'तद्रूपकमभेदो य उपमानो- पमेययोः । भाषा वैदर्भीरीति का आविर्भाव उत्कृष्ट और अच्छे काव्य की रचना करने में कुशल पुण्यात्मा कवियों में ही होता है। अर्थात् वैदर्भीरीति में रचना हर एक कवि नहीं कर सकता । यह वैदर्भीरीति श्रवणेन्द्रिय को आनन्द देनेवाले अमृत की बिना मेघ की वर्षा है, वाणी के विलास का जन्म स्थान है और पदों को यथोचित स्थान प्राप्त होकर उनके सौन्दर्यवृद्धि की जामिन है । जयन्ति ते पञ्चमनाद-मित्र-चित्रोक्तिसन्दर्भविभूषणेषु । सरस्वती यद्वदनेषु नित्यमाभाति वीणामिव वादयन्ती ॥१०॥
( ९ ) अन्वयः सरस्वती पञ्चमनादमित्रचित्रोक्तिसन्दर्भविभूषणेषु यद्वदनेषु नित्यं वीणां वादयन्ती इव आभाति ते जयन्ति । व्याख्या सरस्वती शब्दधिष्ठातृदेवता पञ्चमनादस्य पञ्चमस्वरस्य पिकस्य वा 'पिका गायन्ति पञ्चमम्' मित्राणि समानानि चित्राणां रसालङ्कारादिना चमत्कारिणी- नामुक्तीनां काव्यानां सन्दर्भाः समूहाः सम्यग्गिरचनानि वा विभूषणान्यलङ्कर- णानि येषां तेषु येषां कवीनां वदनेषु मुखेषु नित्यं निरन्तरं वीणां कच्छपीं वादयन्तीव सारयन्तीवाऽऽभाति चकास्ति ते कवीश्वराः जयन्ति सर्वोत्कर्षेण वर्तन्ते । कविवदने सरस्वत्या वीणावादनस्योत्प्रेक्षणात्क्रियास्वरूपधर्मोत्प्रेक्षा । अभेदासम्बन्धातिरिक्तसम्बन्धेन वीणावादनस्य कविवदने सम्भाव्यमानत्वात् । भाषा वे कवीश्वर धन्य हैं, जिनके कोयल के शब्द के समान कर्णेन्द्रिय को सुख देने वाली, रस अलङ्कार आदि से युक्त, चमत्कार पैदा करने वाली उक्तियों से अथवा कविता समूहों से विभूषित मुखों में, सरस्वती अपनी कच्छपी बीन बजाती सी सदैव शोभित होती हैं । साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥११॥ अन्वयः हे कवीन्द्राः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत । यत् अस्य लुण्ठनाय काव्यार्थचौराः दैत्याः इव प्रगुणीभवन्ति । व्याख्या हे कवीन्द्राः कविश्रेष्ठाः साहित्यमेव साहित्यशास्त्रमेव पाथसामुदकानां 'कबन्धमुदकं पाथ' इत्यमरः । निधिः समुद्रस्तस्य मन्थनं चिराभ्यासस्तरङ्गा- वृत्तित्वेनेति साहित्यपाथोनिधिमन्थनोत्थं साहित्यशास्त्ररूपसमुद्रालोडनोत्पन्नं कर्णयोः श्रोत्रयोरमृतं पीयूषं रक्षत विनाशात्परेषामपहाराद्वा गोपायत । यद्यस्मा- त्कारणादस्यानुमृतस्य लुण्ठनायाऽपहरणाय काव्यार्थस्य काव्यरूपद्रव्यस्य चौरास्त-
( १० ) स्करा दैत्या इव समुद्रमन्थनाविर्भूतामृतापहरणादृता दैत्या इव प्रगुणीभवन्ति बहुलीभवन्ति सर्वतो वर्धन्ते सीया लोलुपाश्च सन्तीत्यर्थः । काव्यार्थचौरेषु दैत्यसादृश्यादुपमा । 'साधर्म्यमुपमाभेदे' इतिलक्षणात् । भाषा हे कवियो में श्रेष्ठ कविगण, साहित्यरूपीसमुद्र के मथन करने से अर्थात् चिरकाल तक अभ्यास करने से उत्पन्न और कान को सुख देनेवाले काव्यरूपी अमृत की सदैव रक्षा करते रहिए । क्योकि इस काव्यरूपी अमृत की चोरी करने के लिए, समुद्रमन्थन के समय अमृत की चोरी करने में लालायित दैत्यो के समान बहुत से काव्य रूपी धन के चोर एकत्रित हो गए है । गृह्णन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥१२॥ अन्वयः यदि वा सर्वे यथेष्टं गृह्णन्तु । कवीश्वराणां का अपि क्षतिः न अस्ति । अमर्त्यैः बहुषु रत्नेषु लुप्तेषु अद्य अपि सिन्धुः रत्नाकरः एव । व्याख्या यदि वा अथवा पक्षान्तरे सर्वे काव्यार्थचोरा यथेच्छमिष्टमनतिक्रम्य यथास्या- तथा यथेष्टं यथेच्छं गृह्णन्तु काव्यरूपं कर्णामृतं स्वोपयोगे समानयन्तु । तथापि कवीश्वराणां कवीन्द्राणां काऽपि काचिदपि क्षतिर्हानिर्नास्ति न सम्भवति । अमर्त्यैर्देवैः “अमरा निर्जरा देवाः—आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः’ इत्यमरः । बहुष्वसंख्यातेषु रत्नेषु लुप्तेषु अपहृतेषु सत्स्वप्यद्यापि साम्प्रतमपि सिन्धुः समुद्रः ‘उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः । रत्नानां मणीनामाकरो निधिरथ प्रसिद्धः । देवैः प्रचुररत्नानि गृहीतानि तथापि समुद्रस्य रत्नाकरत्वप्रयुक्तं माहात्म्यं पूर्ववदेव । अत्र दृष्टान्तालङ्कारः ‘दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्' । भाषा अथवा काव्यार्थ चोर काव्य रूपी द्रव्य की चोरी यथेच्छ करते रहें, इसमें श्रेष्ठ कवियों की कोई क्षति नहीं है । देवताओ ने समुद्र में से बहुत से रत्न निकाल लिए तो भी समुद्र अभी भी रत्नाकर ही कहा जाता है ।
( ११ ) सहस्रशः सन्तु विशारदानां वैदर्भलीलानिधयः प्रबन्धाः। तथापि वैचित्र्यरहस्यलुब्धाः श्रद्धां विधास्यन्ति सचेतसोऽत्र ॥१३॥ अन्वयः (यद्यपि) विशारदानां वैदर्भलीलानिधयः प्रबन्धाः सहस्रशः सन्तु। तथापि वैचित्र्यरहस्यलुब्धाः सचेतसः अत्र श्रद्धां विधास्यन्ति । व्याख्या यद्यपि विशारदानां काव्यनिर्माणकलाप्रवीणानां महाकवीनां वैदर्भी लीलेति वैदर्भलीला विदर्भदेशप्रसिद्धो दाक्षिणात्यानां कविताविलासस्तस्य निधय आकर- भूताः प्रबन्धाः कृतयस्सहस्रशोऽगणितास्सन्तु नाम 'कामेति सम्भावनायाम्' । तथापि वैचित्र्यं चमत्कारो ध्वन्यलङ्कारसन्निवेशजन्यस्तस्य रहस्ये मर्मणि लुब्धा लोलुपास्सचेतस काव्यानुभवानुकूलचेतसा सह वर्तमाना इति सचेतस सहृदया विद्वास अत्र विक्रमाङ्कदेवचरितनाम्नि काव्ये श्रद्धां सधा 'सधा प्रतिष्ठा मर्यादा श्रद्धा संप्रत्यय स्पृहा' इत्यमरः । विशेषप्रीतिमित्यर्थः । विधास्यन्ति करिष्यन्ति । भाषा यद्यपि काव्यनिर्माणकला में प्रवीण महाकवियों के विदर्भ देशीय दाक्षिणात्यों की वैदर्भीरीति के असंख्य काव्य भले ही विद्यमान हों तो भी ध्वनि, अलङ्कार आदि के सन्निवेश से उत्पन्न होनेवाली विचित्रता के मर्म को समझकर मोहित होनेवाले सहृदय विद्वद्गण, इस विक्रमाङ्कदेवचरित नामक काव्यपर विशेष प्रेम करेंगे । कुण्ठत्वमायाति गुणाः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥ अन्वयः कवीनां गुणाः साहित्यविद्याश्रमवर्जितेषु अनाद्रेषु कुण्ठत्वम् आयाति । अङ्गनानाम् अनाद्रेषु केशेषु कृष्णागरुधूपवासः किं कुर्यात् ।
( १२ ) व्याख्या कवीनां काव्यरचयितॄणां गुणः प्रकर्षः साहित्यविद्यायां साहित्यविद्योपार्जने तदनुशीलने च यः श्रमो निरन्तराभ्यासस्तेन वर्जितेषु रहितेष्वनाद्रेष्वरसिकेषु प्राणिषु कुण्ठत्वं स्वप्रभावरहित्यमावाति प्राप्नोति हृदयङ्गमो न भवतीत्यर्थः । सहृदयाः पण्डिताः साहित्यविद्यायां कृतभूरिश्रमा एव काव्यस्य यथार्थमाहात्म्यं जानन्ति न तु मतिहीना अविद्वांस इति भावः । अङ्गनानां कामिनीनामनाद्रेषु तैलादि- स्निग्धपदार्थाननुलिप्तेषु केशेषु कचेषु कृष्णागरोश्चन्दनकाष्ठविशेषस्य कस्तूरी मिश्रितसुगन्धद्रव्यस्य वा धूपवासः सुगन्धः (अग्नौ सुगन्धद्रव्यं प्रक्षिप्य तद्धूमोपर्या- र्द्रकेशानामनाद्रीकरणं लोके प्रसिद्धम् ।) किं कुर्याद्विडम्बनायैवेत्यर्थः । न तस्य किञ्चिदुपयुक्तं फलम् । अत्र दृष्टान्तालङ्कारः । भाषा कवियों का गुण (वैशिष्ट्य) साहित्यविद्या का अभ्यास करने में परिश्रम न करने वाले तथा नीरस मनुष्यो पर अपना प्रभाव नहीं डाल सकता । स्त्रियो के स्निग्धता रहित सूखे हुए केशो में चन्दनविशेष या कस्तूरीमिश्रित सुगन्धित द्रव्यो का धूप क्या कर सकता है । अर्थात् सूखे हुए केशो को सुगन्धित धूप देने से उनमें सुगन्ध नहीं आ सकती । प्रौढिप्रकर्षेण पुराणरीति-व्यतिक्रमः श्लाघ्यतमः पदानाम् । अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि ॥१९॥ अन्वयः पदानां प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः । अत्युन्नति- स्फोटितकञ्चुकानि कान्ताकुचमण्डलानि वन्द्यानि । १ "अत्र 'प्रौढि' पद प्राचीनालङ्कारिकस्वीकृतगुणविशेषमात्रपरमितिव्याख्या- तु नोचितम् । तादृशार्थकरणे सहदुचितार्थप्रत्यायकत्वेन कवेरभिप्रायः स्फुटो न स्यात् । अत्र तु 'प्रौढि' शब्देन कविप्रतिभाविशेषस्तन्मूलको ध्वन्यलङ्कारादि- सन्निवेशश्च विवक्षित इति ।" २ भावोऽयमत्रापि प्रदर्शित । अस्यप्रतिसमाधेय रतमद्वन्द्वस्य दूषणम् । स्फुटता कञ्चुकानां यन्नायातपादकरणीयताम् ॥ (सर्ग-८ श्लोकः ४५)
( १३ ) व्याख्या पदानां शब्दानां रसगुणालङ्कारादिप्रत्यायकत्वेन चमत्कारित्वं प्रौढिस्तस्याः प्रकर्षेणोत्कटत्वेन पुराणी प्राचीना या रीतिरथवा पुराणानां कवीनां या रीतिः परिपाटी तस्या व्यतिक्रमः परित्यागः श्लाघ्यतमः प्रशस्यतमो भवति । अत्युच्चतया स्फोटितानि दार्ढ्यातिशयात्त्रोटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणा- शुकानि यैस्तानि कान्तानां प्रेयसीनां कुचमण्डलानि स्तनमण्डलानि वन्द्यानि स्तुत्यानि भवन्ति । अत्र दृष्टान्तालङ्कारः । भाषा प्रौढि प्रकर्ष से अर्थात् रस गुण अलङ्कार आदि की विशिष्ट चमत्कृति के प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियों द्वारा प्रयुक्त पद- विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता तथा काठिन्य से चोली को फाड़ देने वाले रमणियों के स्तनमण्डल सराहना करने योग्य होते हैं । व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥ अन्वयः आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते । मौक्तिकच्छिद्रकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते । व्याख्या आवर्जिता आकृष्टाः कोविदाः पण्डिताः 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः' । इत्यमरः । यया साऽऽवर्जितकोविदाऽपि पण्डितानामाकर्षिकाऽपि विशिष्टेत्यर्थः । व्युत्पत्तिर्नू- तनकल्पना लौकिकरचनाकौशलं जडानां मूर्खाणां रञ्जनाय प्रसादायै न क्रमते न समर्था भवति । मौक्तिकेषु मुक्तासु छिद्रं रन्ध्रं 'छिद्रं निर्व्यथनं रोधं रन्ध्रं श्वभ्रं वपा सुषिः' इत्यमरः । करोतीति रन्ध्रकरी शलाका सूची टङ्किकायाः पाषाण- दारणलोहकीलस्य 'टङ्कः पाषाणदारणः' इत्यमरः । कर्मणि कठिनपाषाणविदारणं कर्तुं न प्रगल्भते न समर्था भवति । अत्र दृष्टान्तालङ्कारः ।
( १४ ) भाषा पण्डितो को भी आकर्षित करने वाली नवीन कल्पना या काव्यरचना की कुशलता मूर्खों को आनन्दित नही कर सकती । मोती में छेद करने की सुई टांकी का काम नही कर सकती । अर्थात् सूक्ष्म बातो को कुशाग्रबुद्धि ही समझ सकता है । स्थूल बुद्धिवालो को उनसे कोई सुख नही मिलता । कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥१७॥ अन्वयः ये कवीनां कथासु लब्धरसाः ते कथान्तरेषु न अनुरज्यन्ति । ग्रन्थि- पर्णप्रणयाः कस्तूरिकागन्धमृगाः तृणेषु न चरन्ति । व्याख्या ये जनाः कयोना क्रान्तदर्शिनां कवीना कथासु रचनासु लब्धः प्राप्तो रस आनन्दो यैस्ते लब्धरसा अनुभूतलाह्लादास्ते कथान्तरेष्वन्यासु क्षुकविरचनासु नाऽ- नुरज्यन्ति नाऽनुरक्ता भवन्ति । ग्रन्थिपर्णीनाम सुगन्धिक्षुपविशेषः 'ग्रन्थिपर्णं शुकं बर्हपुष्पं स्योणेषुकुकुशुरं' इत्यमरः । 'गठिवन' 'भटोरा' इति भाषायां ख्यातः । तस्मिन् प्रणयः स्नेहो येषां ते, कस्तूरिकाया गन्धो येषु ते मृगा हरिणाः कस्तूरिमृगास्तृणेषु घासेषु 'शष्पं बालतृणं घासः' इत्यमरः । न चरन्ति न भक्षणप्रीतिं जनयन्ति । अत्र दृष्टान्तालङ्कारः । भाषा जो लोग अच्छे कवियों के काव्यो को पढकर आनन्द प्राप्त कर चुके हैं वे अन्य छोटे मोटे कवियों के काव्यों में आनन्द नही प्राप्त कर सकते । गठिवन नाम के सुगन्धित पौधे को खाने के प्रेमी कस्तूरिमृग अन्य घासपात नही चरते । जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः । प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नांकुरज्योतिषि किं करोति ॥१८॥ अन्वयः जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु वराकाः के । प्राप्ता- ग्निनिर्वापणगर्वम् अम्बु रत्नाङ्कुरज्योतिषि कि करोति ।
( १५ ) व्याख्या जडेषु ज्ञानरहितेषु मूर्खेषु जातस्समुत्पन्नः प्रतिभाया बुद्धिप्रागल्भस्याऽभिमा- नोऽहङ्कारो येषु ते सञ्जातर्बुद्धयुत्साहङ्काराः खला नीचाः कवयः कवीन्द्राणां महाकवीनामुषितुषु प्रतिस्पर्द्धिनीषु रचनासु वराकाः के गणनारहिता अकिञ्चि- त्कराइवेत्यर्थः । सभासु प्रवर्तमानासु ते पराजिता एव भवन्तीति भावः । तेषां कवीन्द्राणां यथार्थतत्वं महत्वञ्च ते न जानन्तीति धिक् । प्राप्तो लब्धो- ऽग्निर्वापणस्य वह्निप्रशामकत्वस्य गर्वो दर्पो 'गर्वोऽभिमानोऽहङ्कारो मानश्चित्त- समुन्नतिः । दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः । येन तदम्बु जलं रत्नस्य मणेरङ्कुर इव ज्योतिः प्रकाशस्तस्मिन् किं करोति न किमपीत्यर्थः । जलं वह्निर्वापणे क्षममपि रत्नतेजसो निवारणाय नालमिति । 'बुद्धिस्तात्का- लिकीज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः' । अत्र दृष्टान्तालङ्कारः । 'किं करोति न किमपि कर्तुं शक्नोतीत्यर्थाक्षेपादर्थापत्ति- रलङ्कारश्च । भाषा मूर्खमण्डली में जिन खलों को नई नई उपज वाली बुद्धि से युक्त होने का गर्व हो गया है उन विचारे मूर्ख कवियों की श्रेष्ठकवियों की कविताओं को समझने में या उनसे अपनी कविताओं की तुलना करने में कौन गिनती है । अर्थात् प्रसङ्ग आने पर अच्छे कवियों के सम्मुख उन्हें हार माननी पड़ती है । आग को बुझा देने का अभिमान रखने वाला जल, रत्न के अङ्कुर के समान तेज (किरणों) का क्या बिगाड सकता है । अर्थात् रत्न पर कितना ही पानी पडे तो भी उसकी चमक दूर नहीं हो सकती, वैसे ही मूर्खों की प्रतिभा से श्रेष्ठ कवियों की प्रतिभा दब नहीं सकती । उल्लेखलीला-घटनापटूनां सचेतसां वैकटिकोपमानाम् । विचारशाणोपलपट्टिकासु मत्सूक्तिरत्नान्यतिथीभवन्तु ॥१६॥ अन्वय मत्सूक्तिरत्नानि उल्लेखलीला-घटनापटूनां वैकटिकोपमानां सचेतसां विचारशाणोपलपट्टिकासु अतिथीभवन्तु ।
१. तैलप से सोमेश्वर प्रथम तक चालुक्य वंश
( १८ ) अन्वयः संक्रान्तवक्रोक्तिरहस्यमुद्राः ये रसध्वनेः अध्वनि चरन्ति ते अस्मत्प्र- बन्धान् अवधारयन्तु । शेषाः शुकवाक्यपाठं कुर्वन्तु । व्याख्या संक्रान्ता सङ्गता वक्रोक्तीनां विचित्रोक्तीनां रहस्यस्य तत्वस्य मुद्राऽभिनि- वेशो येषु ते, ये सहृदया रसध्वनेरध्वनि मार्गे चरन्ति विहरन्ति, वक्रोक्ति रहस्यज्ञात्तारो रसध्वनिमार्गगाश्च ये न बहिर्भूता इत्यर्थः । तेऽस्मत्प्रबन्धानस्मद्विर- चितकाव्यान्यवधारयन्तु मदीयकाव्यस्य यथार्थज्ञाने समर्था भवन्तु । अन्ये तदितरे शुकवत्तदर्थज्ञानमन्तरेण वाक्यपाठं शब्दोच्चारणमेव कुर्वन्तु । काव्यार्थभावना- परिपक्वबुद्धिविभवमात्रवेद्यमस्मत्काव्यसत्यमिति भावः । भाषा जो विचित्र उक्तियों के सम्पूर्ण रहस्यो को अच्छी तरह जानने वाले हैं और रसध्वनि के मार्ग का अवलम्बन करने वाले हैं वे विद्वान् कविलोग मेरे काव्य को समझे । इनसे अतिरिक्त अन्य कवि सुग्गे के ऐसे (बिना अर्थ रहस्य समझे) इस काव्य का केवल पाठ किया करें । अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् । ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षमन्ते ॥२३॥ अन्वयः महाकवीनाम् अनन्यसामान्यगुणत्वम् एव अनर्थाय भवति यत् सभासु सुलभाः अल्पप्रतिभाः एषां जल्पं ज्ञातुं न क्षमन्ते । व्याख्या महाकवीनां कविश्रेष्ठानामन्येषु यत्सामान्यं साधारणत्वं सकलजनवृत्तित्वं तदन्यसामान्यं नास्त्यन्यसामान्यमनन्यसामान्य-मनन्यसामान्यञ्चतद्गुणत्वञ्चेत्य- नन्यसामान्यगुणत्वं विशेषगुणवत्त्वमेवानर्थायाऽनिष्टोत्पत्त्यर्थं भवति जायते । इष्टं तु महाकवीनामाशयज्ञानं तत आनन्दानुभूतिः सा तु साधारणबुद्धिमतां न भवतीत्येवाऽनर्थः । यदस्मात्कारणात्सभासु सर्वसभासु सुलभा, सुखेन लभ्याः स्वोद्योगेनेवाऽऽनन्दार्थमेकत्रीभूता इत्यर्थः । विशिष्टजनोपस्थितिः सभास्वनाया-
( १९ ) तेनैव सर्वत्र न भवति मतस्ते मानिनः अनाहूता यत्र तत्र न गच्छन्तीति । अल्पप्रतिभा मन्दमतयो जना एषां महाकवीनां जल्पं सारगर्भं वचो ज्ञातुं वोढुं न क्षमन्ते न समर्था भवन्ति । सकलमन्दजनाज्ञेयत्वं महाकविकृतीनामित्येव तेषां महाकवीनां महान्दोषः । अत्र व्याजस्तुतिरलंकारः 'व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।' भाषा महाकवियों का विशिष्टगुण ही उनके लिए अनिष्टकारक हो जाता है । क्यो कि सभाओं में सुलभता से प्राप्त हो सकने वाले छोटी बुद्धि के कवि, इन महाकवियों की उक्तियो का अर्थ भी समझने में असमर्थ होते हैं । अलौकिकोल्लेखसमर्पणेन विदग्धचेतःकषपट्टिकासु । परीक्षितं काव्यसुवर्णमेत-ल्लोकस्य कण्ठाभरणत्वमेतु ॥२४॥ अन्वयः विदग्धचेतःकषपट्टिकासु अलौकिकोल्लेखसमर्पणेन परीक्षितम् एतत् काव्यसुवर्णं लोकस्य कण्ठाभरणत्वम् एतु । व्याख्या कषाणां निकषोपलानां 'शाणस्तु निकष कषः' इत्यमरः । पट्टिकाः कषपट्टिका विदग्धानां पण्डितानां चेतांस्येव कषपट्टिकास्तासु विदग्धचेतःकषपट्टिकास्वलौ- किका लोकोत्तरा च उल्लेखाश्चमत्कृतकृतयः पक्षे श्रेष्ठतासूचयित्र्यः सुवर्णरेखा स्तेषां समर्पणेन प्रदानेन परीक्षितं निर्धारितमेतत्काव्यरूपसुवर्णं (सुन्दरवर्णयुक्त- काञ्चनं शोभनाक्षरसमेतं काव्यञ्च) लोकस्य सर्वजनस्य कण्ठाभरणत्वं कण्ठ- भूषणत्वमेतु प्राप्नोतु । यथा कषपट्टिकायां सुपरीक्षितं शुद्धमुत्तमं सुवर्णं जनस्य कण्ठस्थं सदलङ्कारत्वं प्राप्नोति तथैव विद्वच्चेतःसु परीक्षित-मिदङ्काव्यं जनस्य कण्ठस्थं सद् भूषणं भवत्विति भावः । काव्ये सुवर्णाभेदारोपस्य विदग्धचेतःसु कषपट्टिकारोपे कारणत्वात्परम्परितरूपकम् । 'यत्र कस्यचिदारोपः परारोपण- कारणम् । तत्परम्परितम् ।' भाषा विद्वानों की चित्त रूपी कसौटी पर (कसे जान पर) असाधारण सद्बुक्ति रूपी अच्छे कस के आने से जाँचा हुआ यह काव्य रूपी सुवर्ण (सोना या
( १६ ) व्याख्या मम सूक्तय कविता एव रत्नानि मत्सूक्तिरत्नान्युल्लेखस्य कवितालेखनस्य वैकटिकपक्षे रत्नोत्कर्षणस्य या लीला वैशिष्ट्य तस्या घटनाया सम्पादने पटूना चतुराणा वैकटिकानामुपमा सादृश्य येषु तेषा रत्नपरीक्षकतुल्याना सचेतसा सहृदयाना महाकवीना विचारा एव शाणोपला रत्नशुद्धिपरिचायकपाषाण विशेषा- “शाणस्तु निकष कष” इत्यमरः । तेषां पट्टिकास्तद्वितिभवन्तु । अतिथ- रूपेणैकत्रीभवन्तु । शाणोपलपट्टिकासूल्लिखनेन रत्नकान्तिपरीक्षणदक्षाणा वैकटिकानामिवोत्तमकाव्यकरणे विचारणे च कुशलाना महाकवीना विचारार्थ- मस्मत्काव्य भवत्विति भावः । वैकटिकेन सहृदयस्य सादृश्यप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपादूपकञ्च । भाषा सान पर चढाकर रत्नो की परीक्षा करने में कुशल जोहरी लोगो के समान, उत्तम काव्य बनाने में कुशल सहृदय काव्यज्ञो की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हो । अर्थात मेरे काव्य को उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है । न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्कराऽपि ॥२०॥ अन्वय दुर्जनानाम् इह कः अपि दोषः न । हि तेषा स्वभावः गुणासहिष्णुः । केषाम् अपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव । व्याख्या दुर्जनानां खलानामिहार्थास्मन्पद्येषा निन्दाकरणे कोऽपि दोषो नाऽस्ति । हि यस्मात्कारणात्तेषा खलाना स्वभाव प्रकृतिरेव गुणानां सद्गुणानामसहिष्णुरसहन- शीलो मात्सर्ययुक्त इत्यर्थ । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड इव कर्पूर- खण्ड इव विपाण्डुरा शुक्ला पुण्ड्रशाखा महदिक्षूचा शर्करा भूरिदिक्षुनिर्मितशर्करा प्रचुरयैव सुमधुराऽपि द्वेष्यैवाऽरुचिशान्तिरेव भवति । 'पित्तेन दूने रसने सिताऽपि तिक्तायते हंसकुलावतस ।' इति श्रीहर्ष । अत्र दृष्टान्तालङ्कारः ।
( १७ ) भाषा दुर्जनो में दूसरो की निन्दा करना यह दोष नहीं कहा जा सकता । क्यो कि दूसरो के अच्छे गुणों की निन्दा करना उनका स्वभाव ही होता है। कुछ लोग ऐसे भी हे जिनको कपूर की डली के ऐसी पोडे से बनी सफेद चीनी भी अच्छी नहीं लगती । सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥ अन्वयः कविताविलासाः कुङ्कुमकेसराणां नूनं सहोदराः भवन्ति । यत् मया तेषां प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः । व्याख्या कविताया सत्कविताया विलासा विभ्रमा कुङ्कुमस्याग्निशिखस्य 'अथ कुङ्कुमम् । कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने' इत्यमरः । केसरा किञ्ज- ल्का 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेषां नूनं निश्चयेन सहोदरा एकदेशजन्यत्वाद् भ्रातरो भवन्ति सन्ति । यद्यस्मात्कारणाम्मया कविना बिल्हणेन तेषां कविताविलासानां कुङ्कुमकेसराणाञ्च प्ररोहोऽङ्कुर उद्भव इत्यर्थः । शारदाया सरस्वत्या आदेश प्रसाद पक्षे शारदाया सरस्वत्या देशं कश्मीरमपास्य विहायान्यत्रान्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थः पक्षेऽन्यस्मिन् देशे न दृष्टो नावलोकितः । शारदाप्रसाद विना न कविताविलासोद्गमः । कश्मीरदेशं विहाय नान्यत्र कुङ्कुमकेसरोद्गम इति भावः । भाषा उत्तम कविता के विलास और केसर दोनों निश्चय ही सगे भाई हैं । शारदा के आदेश बिना अर्थात् सरस्वती की कृपा बिना अच्छी कविता की उत्पत्ति और शारदा देश बिना अर्थात् कश्मीर बिना केसर की उत्पत्ति, अन्यत्र होती हुई मैंने नहीं देखी है । रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः । तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥२२॥ २
( २० ) सुन्दराक्षर युक्त भव्य) मनुष्यों के कण्ठ का आभूषण बने । अर्थात् जिस प्रकार जंचे हुए शुद्ध सोने का बना गोफ (गले का आभूषण) गले की शोभा बढाता है वैसे ही विद्वानो द्वारा परीक्षित यह मेरा उत्तम काव्य साधारण लोगो द्वारा कण्ठस्थ किया जाकर उनकी कण्ठ की शोभा को बढ़ाये । किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण । किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् ॥२५॥ अन्वयः चारुचारित्रविलासशून्याः भूपाः कविसंग्रहेण किं कुर्वन्ति । गुञ्जाफल- भूषणानां वनेचराणां सुवर्णकारेण जातु किम् । व्याख्या चारु सुन्दरं सत्काव्यपरिचयेन सहृदयहृदयसंवादि चारित्रं चरितं तस्य विलास उत्कर्षस्तेन शून्या रहिताः काव्यमहत्त्वांसम्बेदिनो दुश्चरिता भूपा राजानः कवीनां संग्रहेणाऽऽश्रयप्रदानेनाऽऽश्रयं प्रदाय स्वराजसभायां स्थापनेनेत्यर्थः किं कुर्वन्ति न किमपीत्यर्थ । दुश्चरितानां राज्ञां कवि संग्रहेण न कोऽपि लाभ । ये कविमहत्त्वमेव न विदन्ति तेषां कृते कवयो निष्प्रयोजनका इति भाव । गुञ्जाफल कृष्णलाफलं 'काकचिंची गुंजे तु कृष्णला' इत्यमरः । एव भूषणमलङ्कारो येषां तेषां वनेचराणांमारण्यकानां सुवर्णकारेण स्वर्णभूषणनिर्माणरेन जातु कदाचिदपि किं, किं प्रयोजनं, न किमपीत्यर्थ । सुवर्णकारा सुवर्णस्य भूषणानि निर्माण्ति तानि तु वनेचरा न समाद्रियन्ते यतस्तेषां कृते गुञ्जैव महद्भूषणमिति सुवर्णकारास्तेषां कृते निष्प्रयोजनकास्तथैव कवय सुचरित्रमेव राजानं भजन्ते न दुश्चरितम् । दुश्चरितानां राज्ञां कृते ते कवयो निष्प्रयोजनका इति भावः । अत्र दृष्टान्तालङ्कार । भाषा जो राजा असच्चरित्र हैं वे अपने दरबार में कवियो का संग्रह कर क्या करेंगे । गुंज के गहनो को पहनने वाले जंगली लोगो को सोने के आभूषणो को बनाने में कुशल सोनारो का क्या काम पड़ सकता है अर्थात् जिस प्रकार गुंज के गहने पहनने वालो के लिये सोनार किसी काम का नही उसी प्रकार कुचरित्र राजा के लिये कवि भी किसी काम का नही । क्योकि कवि सुचरित्र