विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ३२४ ) कठोरशब्देन निर्भरमिव व्याप्तमिव व्यराजताऽजायत । दुन्दुभिध्वनिधैरावत- डिण्डिमध्वनित्वस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा दिग्गजों के कानों को बहिरा कर देने वाले इस चोल राजा की तुरहियों के भयंकर शब्दों से मानो ऐरावत के नगाड़े की ध्वनि से या नगाड़े के समान शब्द से आकाश गूंज उठा हो, ऐसा प्रतीत होने लगा । सर्वतः श्रवणभैरवस्फुरद्—दुन्दुभिप्रतिरवापदेशतः । सस्वनं द्विरदवृन्दघट्टनादस्फुटन्निव दिगन्तभित्तयः ॥६४॥ अन्वयः सर्वतः श्रवणभैरवस्फुरद्दुन्दुभिप्रतिरवापदेशतः द्विरदवृन्दघट्टनात् दिगन्तभित्तयः सस्वनम् अस्फुटन् इव । व्याख्या सर्वत सकलेषु प्रदेशेषु श्रवणेभ्य कर्णेभ्यो भैरवा भयानका ये स्फुरन्त प्रकटीभवन्तो दुन्दुभीना भेरीणा प्रतिरवा प्रतिध्वनयस्तेषामपदेशतो व्याजाद् द्विरदाना गजाना वृन्द्वानि समूहास्तेषा घट्टनात्सपर्पणाच्च दिशामन्ता दिगन्तास्तेषा दिगन्तप्रदेशाना भित्तय कुड्यानि 'भित्ति' स्त्री कुड्यम्' इत्यमर । सस्वन सशब्दमस्फुटन्निवाऽपतन्निव विदारिता इव जाता इति भाव । अत्रोत्प्रेक्षालङ्कार । भाषा चारो ओर जोर २ से बजने वाली भेरियो के वर्णकटु प्रतिध्वनियो के भिय से और हाथियों के समूहों के परस्पर धक्कों से मानो दिगन्तप्रदेशों की दीवारें शब्द करती हुई फट रही थी । कर्णतालपवनोर्मिशीतलैः सिञ्चति स्म करशीकराम्बुभिः । दिग्गजानिव भयेन मूर्च्छितांस्तस्य वारणपरम्परा पुरः ॥६५॥ अन्वयः तस्य वारणपरम्परा कर्णतालपवनोर्मिशीतलैः करशीकराम्बुभिः पुरः भयेन मूर्च्छितान् दिग्गजान् सिञ्चति स्म इव ।
( १२५ ) व्याख्या तस्य चोलदेशाधिपस्य वारणानां गजानां परम्परा श्रेणिर्गजयूथा इत्यर्थः । कर्णास्ताला इवेति कर्णतालास्तालपत्रसदृशश्रोत्राणि तेषां पवना वायवस्तेषामूर्म्मि- भिस्तरङ्गैःशीतलानि तैस्तालपत्राकारविशालश्रोत्रस्फुरणजनितवायुतरङ्गशीतैः कराणां शुण्डानां शीकराम्बूनि जलकणजलानि 'शीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तैर्हस्तिशुण्डानिःसरज्जलबिन्दुधाराभिः पुरोऽग्रे भयेन महाशब्द- जनितभीत्या मूर्च्छितान् चेतनारहितान् दिग्गजान् दिङ्नागान् सिञ्चति स्मेव पुनरपि चेतनाप्राप्त्यर्थं शीतजलोपचारेण सेवत इव । अत्रोत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा के हाथियों का झुण्ड, अपने कान रूपी ताड़ के पत्तों या पंखों से उत्पन्न वायु की लहरों से ठण्डे भए हुए सूँड से छूटने वाले फुवारों के जल से, मानो सामने दिखाई देने वाले भय से मूर्छित दिग्गजों को फिर से होश में लाने के लिये, शीतोपचार कर रहा था । तच्चमूरजसि दूरमुद्गते यन्न दिग्भ्रममघत्त भास्करः । हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥६६॥ अन्वयः तच्चमूरजसि दूरम् उद्गते (सति) भास्करः यत् दिग्भ्रमं न अधत्त अत्र कुञ्जरध्वजपटान्तवीजनैः रजसां निवारणं हेतुः । व्याख्या तस्य चोलराजस्य चमूःसेना 'ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः' इत्यमरः । तस्या रजो धूलिस्तस्मिन् तत्सेनाधूलौ दूरमत्यूर्ध्वमुद्गते उत्पतिते सति भास्करः सूर्यो यद्दिशां भ्रमं दिग्भ्रान्तिं नाधत्त न बभाराऽत्राऽस्मिन्नर्थे कुञ्जराणां हस्तिनां ध्वजपटान्तानां पताकापटप्रान्तभागानां वीजनैःसंचलनैर्गजो- परिस्थितपताकावस्त्राञ्चलसंचलनसमुद्भूतपवनैरित्यर्थः । रजसां धूलीनां निवारणं समुत्सारणमेव हेतुः कारणम् । काव्यलिङ्गमलङ्कारः । भाषा उसकी सेना के चलने से उडी धूलि के बहुत ऊँचाई तक छा जाने पर,
( ३२६ ) सूर्य को जो रास्ते का भ्रम न हुआ अर्थात् भुलावा न पड़ा, इसका कारण, हाथियों पर के झण्डो की झण्डियों के हिलते रहने से, उसकी हवा से धूलि का हट जाना ही है । अर्थात् झण्डियों के, खूब ऊपर फड़फड़ाते रहने से उसकी हवा से धूलि के हट जाने से सूर्य को साफ २ मार्ग दिखाई देता था । क्षोणिरेणुमिपतः सदाध्वगः स्यन्दने रचयति स्म भास्करः । पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थमिव संग्रहं मृदः ॥६७॥ अन्वयः सदाध्वगः भास्करः क्षोणिरेणुमिषतः पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थम् इव स्यन्दने मृदः संग्रहं रचयति स्म । व्याख्या सदा निरन्तरमध्वनि मार्गे गच्छतीति सदाध्वगः सदैव गमनशीलः पान्थ इत्यर्थः । 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि' इत्यमरः । भास्करः सूर्यः क्षोणेः पृथिव्या रेणुर्धूलिस्तस्य मिषतो व्याजात् पृथ्वीधूलिव्याजात् पश्चिमाद्रिः पश्चिमपर्वतस्तस्य विषमा उन्नतानताः स्थलयो भूमिभागास्तासामस्ताचलस्थि- तगर्तानां पूरणार्थमिव भरणार्थमिव समीकरणार्थमित्यर्थः । स्यन्दने स्वरथे मृदो मृत्तिकायास्संग्रहमेकत्रीकरणं रचयति स्म सम्पादयति स्म । अत्रोत्प्रेक्षालङ्कारः । भाषा सदैव चलते रहने वाला सूर्य, पृथ्वी की धूलि के बहाने से मानो पश्चिमाचल अर्थात् अस्ताचल की ऊंची नीची जमीन को भर कर समथल बनाने के लिये अपने रथ पर मिट्टी एकत्रित कर रहा था । नन्दनद्रुमनिकुञ्जपुञ्जितैः पांसुभिः कुसुमधूलिवासितैः । चौर्यकेलिशयनोपयोगतस्तुष्यति स्म सुरपांसुलाजनः ॥६८॥ अन्वयः सुरपांसुलाजनः कुसुमधूलिवासितैः नन्दनद्रुमनिकुञ्जपुञ्जितैः पांसुभिः चौर्यकेलिशयनोपयोगतः तुष्यति स्म ।
( ३२७ ) व्याख्या सुराणां देवानां पांसुलाजनः स्वैरविहारिणीजनः कुसुमानां पुष्पाणां धूलयः परागः 'परागः सुमनोरजः' इत्यमरः । ताभिर्वासितासुरभीकृतास्तैः पुष्परेणु- भुरभीकृतैर्नन्दनस्येन्द्रवनस्य द्रुमा वृक्षास्तेषां निकुञ्जा लतादिपिहितोदराः 'निकुञ्जकुञ्जौ वा क्लीवे लतापिहितोदरे' इत्यमरः । तेषु पुञ्जिता एकत्री- भूतास्तैर्नन्दनोद्यानवृक्षकुञ्जतत्स्थितैः पांसुभिः क्षितितलोत्थितरेणुभिश्चोपेणऽ- प्रशस्तरूपेण केलिः क्रीडा चौर्यकेलिः परपुरुषैस्समं परनारीणां रतोत्सवरतदर्थं शयनं शय्या तस्मिन् शयनरचनार्थमुपयोगस्तस्मात् चौर्यरतिशय्यानिर्माणार्थोप- योगात् तुष्यति स्म सन्तोषं प्राप्नोति स्म । नन्दनोद्यानपर्यन्तमुत्थितायास्तदा- न्ताया स्थितायाश्च धूलेः कोमलत्वाच्चौर्यरतितत्परसुरापांसुलाजनस्य कोमलशय्या- प्राप्त्या सुमहान् सन्तोषो जात इति भावः । अत्रातिशयोक्तिरलङ्कारः । भाषा स्वच्छन्द विहार करने वाला स्वर्गीय स्त्री समूह, पृथ्वी से उठ कर नन्दन वन के कुञ्जों में फैली हुई और पुष्परज से सुवासित धूलि के कारण (उस भूमि के नरम हो जाने से) छिपकर विष्यादि करने में कोमल शय्या के सदृश उस भूमि का उपयोग होने से, सन्तुष्ट हुआ । वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः । अन्धकारपटलच्छलेन यद् भृङ्गपूरितमिवाभवन्नभः ॥६६॥ अन्वयः पांसुदूषितं पुष्पमधु वीक्ष्य अलिभिः नन्दनं ध्रुवम् अमुच्यत । यत् नभः अन्धकारपटलच्छलेन भृङ्गपूरितम् इव अभवत् । व्याख्या पांसुभिः क्षोणीतलोत्थितरजोभिः 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । दूषितं कलुषीकृतं पुष्पाणां कुसुमानां मधु रसं मकरन्दं वीक्ष्य दृष्ट्वा- ऽलिभिर्भ्रमरैः 'षट्पदभ्रमरादयः' इत्यमरः । नन्दनं सुरेन्द्रोद्यानं ध्रुवं निश्चयेनाऽमुच्यत परित्यक्तम् । यद्यस्मात्कारणान्नभ आकाशमन्धकारस्य धूलिजनितध्वान्तस्य पटलं समूहस्तस्य छलेन व्याजेन भृङ्गैर्भ्रमरैः पूरितं व्याप्तमिवाभवज्जातम् । कृष्णायान्धकारे भृङ्गपटलयोरुत्प्रेक्षणादुत्प्रेक्षा- लङ्कारः ।
( ३२८ ) भाषा पृथ्वी से उठी धूलि से पुष्पो का मकरन्द, गन्दा हुआ देखकर, भ्रमरो ने नन्दन वन को निश्चय ही त्याग दिया था । क्यों कि धूलिजनित अन्धकार के आधिक्य के मिष से आकाश मानो भौरो से छाया हुआ था । अर्थात् धूलि जनित कृष्णवर्ण अन्धकार मानो कृष्णवर्ण के भौरे ही थे । जैत्रवाजिपृतना-खुरक्षत-क्षोणिधूलिपटलीभिरध्वसु । तद्दलस्य सुगमत्वमागमन् पूरितानि विषमस्थलान्यपि ॥७०॥ अन्वयः अध्वसु जैत्रवाजिपृतनाखुरक्षोणिधूलिपटलीभिः पूरितानि विषमस्थलानि अपि तद्दलस्य सुगमत्वम् आगमन् । व्याख्या अध्वसु मार्गेषु जैत्रा जयशीला 'जैत्रस्तु जेता योजयच्छत्यलं विद्विषतः प्रति' इत्यमरः । या वाजिनामश्वाना पृतनाः सेनाः 'पृतनाऽनीकिनी चमूः' इत्यमरः । तासा खुरैः शफैः क्षता विदारिता क्षोणि. पृथ्वी तस्या धूलयो रजांसि तासां पटलीभिस्समूहैर्जयन्शीलाश्वसेनाशफविदारितभूमिसमुत्थितरजस्समूहैः पूरितानि व्याप्तानि समीकृतानीत्यर्थः । विषमस्थलाम्युच्चावचस्थानान्यपि तस्य चोलराजस्य बलं सैन्यं तस्य तद्दलस्य सुगमत्वं सुखपूर्वकगमनाईत्वमागमन् प्रापुः । मार्गेषु तत्सेनाया अनायासेन गमनाय सेनाश्वखुरविदारितपृथ्वीरजोभिर्विषमस्थलानि पूरितानीति भाव । अत्र समाधिर्नामाऽलङ्कार. । "समाधि सुकरे कार्ये दैवाद्वस्त्वन्तरागमात्" इति लक्षणात् । भाषा मार्गों में, विजयी घोडो की सेनाओ के खुरो से खुदी भूमि के धूलि समूहो से भरी गई हुई नीची ऊँची जमीन, समतल होकर, चोल राजा की सेना के सुगमता से चलने के काम में आई । चेतसोऽपि दधतीरलङ्घ्यतां लङ्घयद्भिरवटस्थली भुवः । तस्य वाजिभिरजायत क्षितिर्भ्रान्तवातहरिखेव सर्वतः ॥७१॥
( ३२९ ) अन्वयः चेतसः अपि अलङ्घ्यतां दधतीः अवटस्थलीभुवः लङ्घयद्भिः तस्य वाजिभिः क्षितिः सर्वतः भ्रान्तवातहरिणा इव अजायत । व्याख्या चेतसोऽपि चित्तस्याऽपि 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । अलङ्घ्यतामशक्यत्वां पारं गन्तुमशक्यत्तामित्यर्थः । इपतीरीरयतोऽवटा गर्ताः 'गर्तावटो भुवि श्वभ्रे' इत्यमरः । तेषां स्थलीभुवस्ता गर्तबहुला भूमीर्लङ्घयद्भिः पारं गच्छद्भिस्तस्य चोलराजस्य वाजिभिरश्वैः क्षितिः पृथ्वी सर्वतः सर्वत्र भ्रान्ता भयाच्चकिता वातहरिणा वातमृगाः 'वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः' इत्यमरः । यस्यां सैव निजस्थानपरिभ्रष्ट-भयचकितवातमृगयुक्तेवाऽराजत शुशुभे । अत्रोत्प्रेक्षालङ्कारः । भाषा मन से भी लांघने की कल्पना न की जाने योग्य ऊबड़ खाबड़ जमीन को लांघने वाले उस चोलराज के घोड़ों से मानो पृथ्वी चारो ओर घबड़ाए हुए वातमृगों से युक्त शोभित हो रही थी । तेन सैन्यधनुषां शिलीमुख-ज्यालताप्रणयिनां विभूतिभिः । तत्र तत्र विजयश्रियः कृते केलिकाननमिव व्यधीयत ॥७२॥ अन्वयः तेन शिलीमुखज्यालताप्रणयिनां सैन्यधनुषां विभूतिभिः विजयश्रियः कृते तत्र तत्र केलिकाननम् इव व्यधीयत । व्याख्या तेन चोलराजेन शिली शल्यं मुखेऽग्रे येषा ते शिलीमुखा बाणा भ्रमराइव 'अलिबाणौ शिलीमुखौ' इत्यमरः । ज्यालताश्च मौर्वीरूपलताश्च तासां प्रणयिनः स्नेहिनः सम्बन्धिनस्तेषां, सैन्यानां चमूनां धनुषि चापाः प्रियालवृक्षाश्च 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासने' इत्यमरः । तेषां विभूतिभिः समृद्धिभिर्वि- जयश्रियो विजयलक्ष्म्पाः कृतेऽर्थे तत्र तत्र तत्तत्स्थाने केलिकाननं क्रीडोद्यानमिव व्यधीयत रचितम् । चोलराजेन बाणज्यालतासम्बन्धिसैन्यचापप्रतापैस्तत्र तत्र
विजयं प्राप्य विजयलक्ष्म्याः कृते विजयप्राप्तिस्थानेषु शान्तिं प्रस्थाप्य क्रीडोद्यान- मिव रचितम् । पक्षे भ्रमरव्यालपलताप्रणयिप्रियालवृक्षाणां समृद्धिभिस्तेन राजलक्ष्म्याः कृते क्रीडोद्यानमिव रचितमिति भावः । श्लेषानुप्रणितोत्प्रेक्षा- लङ्कारः ।
भाषा चोल देश के राजा ने बाण तथा मौर्वी से सम्बन्ध रखने वाले सेना के धनुषो के प्रभाव से जहाँ तहाँ शान्ति स्थापन कर मानो विजयलक्ष्मी के सैल सपाटे के लिये बाग बना दी थी । पक्ष में भौंरे और लता से प्रेम करने वाले प्रियाल वृक्षो के आधिक्य से मानो विजयलक्ष्मी के लिये जहाँ तहाँ बिहार करने के लिये बाग बना दी थी ।
अप्रयाणरहितैः स पार्थिवः प्राप कैरपि दिनैस्तरङ्गिणीम् । कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥
अन्वयः सः पार्थिवः अप्रयाणरहितैः कैः अपि दिनैः तरङ्गिणीं प्राप । धीमतां कार्यजातम् असमाप्य निद्रया परिचयः अपि कीदृशः ।
व्याख्या सः पार्थिवश्चोलदेशनृपोऽप्रयाणं विश्रामस्तेन रहिता हीनास्तैर्विश्रान्तिरहितैः कैरपि कैश्चिदेव दिनेर्दिवसैस्तरङ्गिणीं तुङ्गभद्रानदीं प्राप संप्राप्तः । धीमतां बुद्धिमतां जनानां कार्यजातं कार्यसमूहमसमाप्य परिपूर्णमकृत्वा निद्रया विश्रामेण परिचयोऽपि सम्बन्धोऽपि कीदृशो भवति । न भवतीत्यर्थः । बुद्धिमन्तो विनैव कार्यसमाप्तिं विश्रामं नाऽऽश्रयन्तीति भावः । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तर- न्यासालंकारः ।
भाषा वह चोलदेश का राजा रास्ते में कहीं बिना विश्राम लिए कुछ ही दिनो में तुङ्गभद्रा नदी के पास पहुँच गया । बुद्धिमान् लोगों को बिना कार्य समाप्त किये निद्रा का परिचय कैसा ? अर्थात् बुद्धिमान् लोग बिना सम्पूर्ण कार्य पूरा किए विश्राम नहीं लेते ।
( ३३१ ) रञ्जितः परिजनोऽस्य शीतल-स्वच्छया सपदि तुङ्गभद्रया । आगताः किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्त ते जलम् ॥७४॥ अन्वयः अस्य परिजनः सपदि शीतलस्वच्छया तुङ्गभद्रया रञ्जितः । ये तु किम् अपि पृष्ठतः आगताः ते पङ्कशेषं जलम् अलभन्त । व्याख्या अस्य चोलदेशाधिपस्य परिजनोऽनुचरवर्गस्सपदि तत्क्षणं 'सद्यः सपदि तत्क्षणे' इत्यमरः । शीतला शीता चासौ स्वच्छा निर्मला च तया शीतलनिर्मलाम्बु- युक्तया तुङ्गभद्रया नद्या रञ्जितः प्रसन्नो जातः । ये तु जनाः किमपि पृष्ठतः किञ्चित्कालान्तरमागतास्तुङ्गभद्रा प्राप्तास्ते पङ्क एव शेषो यस्मिंस्तत्पङ्कशेषं कर्दमावशिष्टं जलं सलिलमलभन्त प्राप्तवन्तः । अनेन चोलराजेन सहागतस्य जनसमूहस्याऽऽधिक्यं सूचितम् । भाषा उस चोल राजा के नौकर चाकर शीघ्र ही ठंडे और निर्मल जल वाली तुङ्ग भद्रा नदी से प्रसन्न हो गए । अर्थात् तुङ्गभद्रा नदी के शीतल और निर्मल जल में स्नान आदि कर उस राजा के नौकरों को बहुत आनन्द मिला । परन्तु जो लोग कुछ देर करके आए उनको गदला पानी ही मिला । अर्थात् उस राजा के साथ में अत्यधिक नौकर चाकर आदि आए थे । दक्षिणार्णवतटादुपागतैस्तद्गलैः पिशुनतां गतैरिव । शीघ्रमक्रियत मध्यवर्त्तिभिः सा प्रतीपगतिरब्धिवल्लभा ॥७५॥ अन्वयः सा अब्धिवल्लभा दक्षिणार्णवतटात् उपागतैः मध्यवर्त्तिभिः तद्गलैः पिशुनतां गतैः इव शीघ्रं प्रतीपगतिः अक्रियत । व्याख्या सा प्रसिद्धा अब्धेस्समुद्रस्य वल्लभा प्रिया समुद्रसीमन्तिनी तुङ्गभद्रा नदी दक्षिणोऽर्णवस्समुद्रस्तस्य तटात्तीरादर्वाचीनसमुद्रकूलादुपागतैस्समागतेर्मध्यवर्त्ति-
( ३३२ ) भिर्नदीजलमध्यावस्थितैस्तस्य चोलदेशनृपस्य गजा हस्तिनस्तैः पिशुनतां दुर्जनतां गतैः प्राप्तेरिव शीघ्रं द्रुतं प्रतीपा प्रतिकूला गतिर्गमनं यस्यास्सा प्रतीपगतिः प्रतिकूलगामिन्यक्रियंत सम्पादिता । यथा केचन पिशुना अन्योन्यं भेदमुत्पाद्यो- भयथाऽपि मध्यस्थाः सन्तः सीमन्तिनीं स्वपत्युर्विपरीतमार्गगामिनीं कुर्वन्ति तथैव पिशुनतामिव गतैस्तैर्गजैनंदीमध्यस्थैः प्रवाणावरोधेन तुङ्गभद्रा समुद्राद्विपरीत- देशवाहिनी कृतेति भावः । गजेषु दुर्जनत्वस्योत्प्रेक्षणादुत्प्रेक्षा । गजव्यवहारे दुर्जनव्यवहारारोपात्समासोक्तिश्च । अतस्तयोस्संकरः । भाषा जिस प्रकार स्त्री पुरुष में, दोनो ओर से मध्यस्थ बन कर, परस्पर भेद भाव उत्पन्न करने वाले दुर्जन चतुर लोग शीघ्र ही स्त्री को पति के प्रतिकूल बना देते हैं वैसे ही इस चोल राजा के दक्षिण समुद्रतट से आए हुए हाथियों ने, तुङ्गभद्रा नदी के बीच में खड़े होकर, प्रवाह के विपरीत बहने से मानो दुर्जनता को प्राप्त भए के समान, तुङ्गभद्रा नदी को समुद्र से विपरीत दिशा में बहने वाली बना दिया । सिन्धुतीरनिलयानुरोधतस्तत्तथा बलमवाप दीर्घताम् । अन्तरक्षपितरात्रिभिर्जनैः प्राप्यते स्म नृपमन्दिरं यथा ॥७६॥ अन्वयः तत् बलं सिन्धुतीरनिलयानुरोधतः तथा दीर्घताम् अवाप यथा अन्तर- क्षपितरात्रिभिः जनैः नृपमन्दिरं प्राप्यते स्म । व्याख्या तत् चोलराजस्य बलं सैन्यं सिन्धोस्तुङ्गभद्राया नद्यास्तीरे तटं तस्मिन्निलयो निवासस्तस्याऽनुरोधोऽनुवर्तनं 'अनुरोधोऽनुवर्तनम्' इत्यमरः । तस्मात्तुङ्गभद्रा- नदीतटनिवासानुवर्तनात्तथा तादृशीमपूर्वामितिमहतीं दीर्घतां विशालतामवाप प्राप्तं यथा येन प्रकारेणाऽन्तरे मध्ये 'अन्तरमवकाशावधिपरिधानान्तर्धिभेद सादृश्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । क्षपिता यापिता रात्रिर्निशा यैस्ते सैर्मार्गगमनेनैव व्यतीतराज्यवच्छिन्नकालैर्जनैः प्रजाभि- र्नृपस्य राज्ञो मन्दिरं राजभवनं प्राप्यते स्म गम्यते स्म । तीरभूमेरसंकीर्णत्वा- त्तीरे सेनाया बहुदूरपर्यन्तं श्रेणिबद्धनिवासेन पश्चादागता ये केचन राजमन्दिरं
( १३३ ) जिगमिषयंस्ते नदीतीरमार्गं सम्पूर्णरात्रिसमयं व्यतीत्यैव राजभवनं प्राप्ता इति सेनाया विशालत्वं दूरदेशव्यापित्वञ्च सूचितम् । भाषा चोलराज की उस सेना के तुङ्गभद्रा नदी के किनारे पर ही डेरा रखने के अनुरोध से, (किनारे की संकीर्णता से कतार में बहुत दूर तक टिकी होने से) यह सेना इतनी अधिक विशाल व दूरदेश व्यापी हो गई थी कि राजभवन में जाने वाले सम्पूर्ण रात भर का समय चलने में लगाने पर ही, राज भवन में पहुँच पाते थें । चोलकेलिसलिलावगाहन-प्राप्तभूरिघनसारपाण्डुरा । सा हिमाचलविटङ्कनिर्गता जाह्नवीव तटिनी व्यराजत ॥७७॥ अन्वयः चोलकेलिसलिलावगाहनप्राप्तभूरिघनसारपाण्डुरा सा तटिनी हिमा- चलविटङ्कनिर्गता जाह्नवी इव व्यराजत । व्याख्या चोलस्य चोलदेशनृपतेश्चोलजनस्य च यत्केलिसलिलावगाहनं क्रीडार्थ- जलस्नानं तेन प्राप्तो लब्धो भूरि घनसारः प्रचुरकर्पूरस्तेन पाण्डुरा शुभ्रवर्णा सा प्रसिद्धा तटिनी तुङ्गभद्रानदी 'तरङ्गिणी शैवलिनी तटिनी ह्रदिनी धुनी' इत्यमरः । हिमाचलस्य तुषाराद्रेर्विटङ्कं शिखरं 'कपोतपालिकायान्तु विटङ्क पुंनपुंसकम्' इत्यमर । तस्मान्निर्गता निस्सृता जाह्नवीव गङ्गेव व्यराजत शुशुभे । कर्पूरसंमिश्रणात्तुङ्गभद्रायाः कृष्णं जलं गङ्गेव शुभ्रं जातमिति भावः । विटङ्कः कपोतपालिकावाचकमत्र लक्षणया शिखरवाचकमिति । अत्रोपमा- सङ्करः । भाषा चोलदेशीय राजा और प्रजा के जलक्रीड़ा सहित स्नान करने से, उनके शरीर में पोते हुए कपूर से श्वेतवर्ण को प्राप्त तुङ्गभद्रानदी, हिमालय के शिखरों से निकली गङ्गानदी के समान शोभित हुई । तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुरवलोक्य तद्बलम् । बाहुमाह्वयसहस्रदीधितिं वन्दते स्म परिचुम्बति स्म च ॥७८॥
( ३३४ ) अन्वयः तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुः तद्वलम् अवलोक्य आहवशहस्र- दीक्षितं बाहुं वन्दते स्म परिचुम्बति स्म च । व्याख्या तत्र तस्मिन् दक्षिणतटे तुङ्गभद्राया दक्षिणतीरे कृता सम्पादिता स्थिति- र्निवासो येन सः कुन्तलेन्दुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवस्तस्य चोलराजस्य बलं सैन्यमवलोक्य दृष्ट्वाऽऽहवानां युद्धानां सहस्रं तस्मिन् दीक्षितं संजातदीक्षं युद्धसह- स्रकृतानुभवं बाहुं स्वभुजं वन्दते स्म प्रणमति स्म परिचुम्बति स्म च वदनसंयुक्तं करोति स्म च । स्वबाहोर्महती श्लाघा कृतेति भावः । भाषा तुङ्गभद्रा नदी के दक्षिण किनारे पर निवास करने वाले कुन्तलेन्दु विक्रमाङ्क- देव ने चोल देश के राजा की सेना को देखकर हजारो युद्धो का अनुभव करने वाली अपनी भुजा को प्रणाम किया और चूम लिया । अर्थात् अपनी भुजा का आदर व प्रेम किया । द्राविडोऽपि नृपतिः कुतूहलाद्वीक्ष्य तत्कटकमुकटद्विपम् । राज्यमुद्धृतमनर्थपङ्कतः कन्यकावितरणादमन्वत ॥७६॥ अन्वयः द्राविडः नृपतिः अपि उत्कटद्विपं तत्कटकं कुतूहलात् वीक्ष्य कन्यका- वितरणात् राज्यम् अनर्थपङ्कतः उद्धृतम् अमन्यत । व्याख्या द्राविडो द्रविडदेशीयो नृपतिश्चोलदेशाधिपो चोलराजेन्द्रनामको भूपतिरप्यु- त्कटा मदान्धा द्विपा गजा यस्मिंस्तन्मदमत्तगजप्रचुरं तस्य विक्रमाङ्कदेवस्य कटकं सैन्यं कुतूहलात्कौतुकात् 'कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । वीक्ष्यावलोक्य कन्यकायाः स्वात्मजाया वितरणं दानं तस्मात् स्वसुताप्रदानात् राज्यं स्वचोलराज्यमनयं एवाऽनिष्टमेव पङ्कः कर्दमस्तस्मादनिष्टकर्दमत उद्धृतं बहिर्निस्सारितममन्यत विज्ञातवान् ।
( ३३५ ) भाषा. द्रविडदेश के चोलवंशीय राजा वीरराजेन्द्र ने भी कौतुक से विक्रमाङ्कदेव की मदोन्मत्त हाथियो से युक्त सेना को देखकर कन्या प्रदान से अनिष्ट रूपी कीचड से अपने राज्य का उद्धार हुआ ऐसा माना । प्रेषितैरथ तयोः परस्परं प्रेम्णि योग्यपुरुषैः प्रपञ्चिते । संगमः सकललोकसंमतो जायते स्म गुरुपुष्ययोरिव ॥८०॥ अन्वयः अथ प्रेषितैः योग्यपुरुषैः परस्परं प्रेम्णि प्रपञ्चिते तयोः गुरुपुष्ययोः इव सकललोकसम्मतः संगमः जायते स्म । व्याख्या अथ विक्रमाङ्कदेववीरराजेन्द्रयोस्तुङ्गभद्रातटप्राप्त्यनन्तरं प्रेषितैरुभयपक्षान्प्रा- पितैर्योग्यपुरुषैश्चतुरजनैः परस्पर मिथः प्रेम्णि स्नेहे प्रपञ्चिते सम्बर्धिते सति तयोर्विक्रमाङ्कदेववीरराजेन्द्रयोर्गुरुपुष्ययोर्बृहस्पतिपुष्यनक्षत्रयोरिव सकललोकैस्स- म्पूर्णजनैस्सम्मतस्समीपतः संगमः सम्मेलनं जायते स्म जातम् । १ज्योतिषशास्त्रे गुरुपुष्ययोगः प्रशस्त्येन वर्णितः । सर्वे जना तद्योगस्य शुभफलप्रदत्वच्छाद्ध- भवन्ति । अत्रोपमालङ्कारः भाषा विक्रमाङ्कदेव और वीरराजेन्द्र चोल के तुङ्गभद्रानदी के तटपर आ जाने पर, दोनो ने भेजे हुए कार्यकुशल पुरुषो के परस्पर वार्तालाप से प्रेमवृद्धि होने पर, सब लोगो को अभीष्ट गुरुपुष्ययोग के समान उनदोनो का योग अर्थात् मिलाप हुआ । एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुभेन दर्शितः । इत्युदश्रुनयनः प्रभावतः कुन्तलक्षितिपतेरमंस्त सः ॥८१॥ १ गुरुपुष्ययोग पञ्चप्रस्थस्यावामृतसिद्धियोगेष्वेवत्त्वम । यदि विष्टिर्व्यतीपातो दिन वाप्यशुभ भवेत् । हन्यतेऽमृतयोगेन भास्वरेण तमो यथा ॥ मुहूर्तचिन्तामणिटीकायां पीयूषधाराया दीर्घशावरस्य वचनम् । , ,
( ३३६ ) अन्वयः सः कुन्तलक्षितिपतेः प्रभावतः एषः स्वयं सः श्रियः प्रियतमः मम शुभेन कर्मणा दर्शितः इति उद्वधूनयनः सन् अमंस्त । व्याख्या स वीरराजेन्द्रचोलः कुन्तलक्षितिपतेः कुन्तलदेशाधिपस्याऽऽहवमल्लदेवस्य प्रभावतः प्रतापस्य माहात्म्यादेव विक्रमाङ्कदेवः स्वयं साक्षात् स प्रसिद्धः श्रियो लक्ष्म्याः प्रियतमो विष्णुर्मम शुभेन कर्मणा मम पुण्येन दर्शितः प्रत्यक्षीकृत इति पूर्वोक्तमुद्गतान्त्युत्थितान्यश्रूणि हर्ष्याश्रूणि ययोस्ते उद्वधुनी नयने नेत्रे 'लोचनं नयन नेत्रमीक्षणं चक्षुरक्षिणि' इत्यमरः । यस्य स प्रेमाश्रुपूर्णनयनस्सन्नमंस्त ज्ञातवान् । वैदिकपद्धत्या कन्याप्रदान विष्णुरूपिणे वरायैव क्रियत इति तस्य विष्णुस्वरूपत्वमङ्गीकृतमिति भावः । भाषा वीरराजेन्द्र चोल ने, कुन्तलराज आहवमल्लदेव के प्रभाव के माहात्म्य से यह विक्रमाङ्कदेव साक्षात् लक्ष्मी का पति, मेरे पुण्य से मेरे दृष्टिगोचर कराया गया है ऐसा, आनन्द के आँसुओ को नेत्रो से बहाते हुए, माना । पादयोः प्रणतये कृतोद्यमं तं मुदा द्रविडपार्थिवं ततः । विक्रमाङ्कनृपतिर्न्यवर्तयत् तस्य संभ्रमविशेषतोषितः ॥८२॥ अन्वयः ततः विक्रमाङ्कनृपतिः तस्य संभ्रमविशेषतोषितः (सन्) मुदा पादयोः प्रणतये कृतोद्यमं तं द्रविडपार्थिवं न्यवर्तयत् । व्याख्या ततः साक्षात्कारानन्तरं विक्रमाङ्कनृपतिस्तस्य वीरराजेन्द्रचोलस्य सम्भ्रम- विशेषेण हर्षजनितविशिष्टत्वरया समादरविशेषेण वा तोषितः प्रसादितस्सन् मुदा हर्षेण पादयोर्विक्रमाङ्कदेवचरणयोः प्रणतये प्रणमाय कृतस्सम्पादित उद्यम उद्योगो येन स तं कृतोत्साहं तं प्रसिद्धं द्रविडपार्थिवं द्रविड़नृपं वीरराजेन्द्रं न्यवर्तयत् न्यवारयन्निषेधति स्मेत्यर्थः ।
( ३३७ ) भाषा सामना होने के अनन्तर विक्रमाङ्कदेव ने, वीरराजेन्द्र चोल के हर्ष जनित स्वरा से या आदर से प्रसन्न होकर, आनन्द से अपने पाओं पर पड कर प्रणाम करने का उत्साह दिखाने वाले द्रविड राजा को वैसा करने से रोका । किं करोषि वयसाधिकेन मे क्षिप्यतां शिरसि पादपल्लवः । अद्यजातमपि मूर्ध्नि धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥ अन्वयः अधिकेन वयसा किं करोषि, मे शिरसि पादपल्लवः क्षिप्यताम् । किं वयोवृद्धैः अद्यजातम् अपि अमलं रत्नं मूर्ध्नि न धार्यते । व्याख्या अधिकेन स्वदपेक्षयाऽधिकेन वयसाऽवस्थया वार्धक्यविचारेणेत्यर्थः । किं करोषि कथ निषेधसि । मे मम शिरसि मूर्ध्नि पादश्चरण एव पल्लवः कोमल- पत्रं चरणपल्लवः क्षिप्यताम् निषीद्यताम् । कि कथ वयसाऽवस्थयाऽधिकाः श्रेष्ठास्तैर्वयोवृद्धैरद्यजातमद्योत्पन्नं शाणादिना सज्जीकृत नवीनमित्यर्थ । अप्यमलं निर्मलं रत्न मणिर्मूध्नि शिरसि न धार्यते नोह्यते, अपि तु धार्यत एव । दृष्टान्तालङ्कारः । भाषा मैं अवस्था में बड़ा हूँ ऐसा विचार कर क्यों मुझे चरण पर पड़ने से रोकते हो । मेरे मस्तक पर अपना चरणपल्लव रक्खो अर्थात् मुझे चरण पर पड़कर प्रणाम करने दो । क्या वयोवृद्ध आज ही प्राप्त अर्थात् नवीन निर्मल मणि को अपने मस्तक पर नहीं धारण करते अर्थात् करते ही हैं । • इत्युदीरितवता निरन्तरं तेन हर्षजलपूर्णचक्षुषा । कुन्तलेन्दुरगमन्मुदं परां द्राविडक्षितिपमालिलिङ्ग च ॥८४॥ अन्वयः इति उदीरितवता निरन्तरं हर्षजलपूर्णचक्षुषा तेन कुन्तलेन्दुः परां मुदम् अगमत् द्राविडक्षितिपम् आलिलिङ्ग च । २२
( ३३८ ) व्याख्या इति पूर्वोक्तमुदीरितवतोक्तवता निरन्तरमविच्छिन्नं हर्षजलेन प्रेमाश्रुना पूर्णे व्याप्ते चक्षुषी नेत्रे यस्य तेनाऽऽनन्दाश्रुपरिप्लुतनेनेन तेन द्रविडाधिपेन कुन्तलेन्दुः कुन्तलदेशचन्द्रो विक्रमाङ्कदेवः परामुत्कृष्टां मुदं हर्षमगमत् प्राप्तो द्राविडक्षितिपं द्रविडदेशाधिपं वीरराजेन्द्रमालिङ्ग च आलिष्टवांश्च । प्रेम्णा तस्याऽऽलिङ्गनञ्चकारेत्यर्थः । भाषा पूर्वोक्त बातें कहने वाले और निरन्तर प्रेमाश्रुओं से भरे नेत्र वाले द्रविड देश के राजा से कुन्तलदेश का चन्द्र विक्रमाङ्कदेव बहुत प्रसन्न हुआ और उसको गले लगा लिया । अर्धासनप्रणयपूर्णमनोरथोऽथ श्रीकुन्तलेश्वरमवोचत चोलभूपः । प्रत्यादिशन्दशनचन्द्रिकया किरीट- रत्नातपं सदसि राजपरम्पराणाम् ॥८५॥ अन्वयः अथ अर्धासनप्रणयपूर्णमनोरथः चोलभूपः सदसि दशनचन्द्रिकया राजपरम्पराणां किरीटरत्नातपं प्रत्यादिशन् (सन्) श्रीकुन्तलेश्वरम् अवोचत । व्याख्या अथ परस्परालिङ्गनानन्तरं (सिंहासने) अर्धासनस्य प्रणयेन कृपयाऽर्धा- सनप्रदानरूपयेत्यर्थः । पूर्णस्सफलो मनोरथो वाञ्छितार्थो यस्य स चोलभू- पञ्चोलनृपो वीरराजेन्द्रः सदसि सभायां 'समज्या परिषद्गोष्ठी सभा- समितिसंसदः । आस्थानी क्लीवमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । दशनानां दन्तानां चन्द्रिका प्रकाशस्तया दन्तकान्त्या राजपरम्पराणां नृपश्रेणीनां किरीटे मुकुटे रत्नानि मणयस्तेषामातपं प्रकाशं प्रत्यादिशन् निराकुर्वन् सन् श्री- कुन्तलेश्वरं विक्रमाङ्कदेवं प्रत्यवोचतोवाच । एतेन द्राविडेश्वरस्य स्वात्मनि गौरवातिशयो व्यज्यते । वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तभजाः जगौगः' । इति लक्षणात् ।
( ३३९ ) भाषा परस्पर आलिङ्गन के पश्चात् आधे सिंहासन पर बैठाने की कृपा से पूर्ण मनोरथ चोलराज वीरराजेन्द्र ने सभा में अपने दांतों के प्रकाश से अन्य राजाओ के मुकुटमणियो के प्रकाश को निस्तेज करते हुए, कुन्तलेश्वर विक्रमाङ्कदेव से कहा। अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥६६॥ अन्वयः अङ्गानि चन्दनरसात् अपि शीतलानि (सन्ति) । अयं बाहुः यशोभिः चन्द्रातपं वमति । चालुक्यगोत्रतिलक ! ते दुर्वृत्तभूपपरिताप- गुरुः असौ प्रतापः क्व वसति । व्याख्या अङ्गानि ते शरीरावयवाश्चन्दनस्य श्रीखण्डस्य रसो द्रवस्तस्मादपि शीतलानि शीतानि सन्ति । अयं प्रसिद्धो बाहुर्भुजो यशोभि कीर्तिभिश्चन्द्र- स्येन्दोरातपं ज्योत्स्नां चन्द्रकिरणसमानशीतकान्तिं वमति प्रकटयति । हे चालुक्यगोत्रतिलक ! हे चालुक्यवंशविभूषण ! ते तव दुर्वृत्तानां दुश्चरित्राणां भूपानां राज्ञां परितापस्य संतापस्य गुरुराचार्यों महीयांश्चातिशयसंताप- कारीत्यर्थः । अथवा परितापेन गुरुः प्रबलः प्रतापः । 'स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः । क्व कुत्र वसति । त्वयाऽऽलिङ्गनेन तवाव- यवेषु सर्वत्र शैत्यमेवाऽनुभूतम् । तव शत्रुदाहक तेजस्त्वय शरीरे कुत्र वसतीति तु न ज्ञायते इति भावः । अत्रैकविपरीतत्वाज्ज्ञातादृशप्रतापोभयो विस्मयावह इति विषमालङ्कारः । भाषा हे चालुक्य कुलभूषण ! तुम्हारे शरीर के विभिन्न अवयव, चन्दन के रस से भी शीतल हैं । तुम्हारी भुजा (श्वेत) कीर्तियो के कारण से चांदनी के
( ३४० ) ऐसी ठंडी कान्ति फैलाती है । तुम्हारा दुश्चरित राजाओं को विशेष तपाने वाला वह प्रताप तुम्हारे शरीर में कहाँ रहता है ? धैर्यस्य धाम निधिर्अद्भुतचेष्टितानां दृष्टान्तभूरनवधेः करुणारसस्य । त्वं वेधसा विरचितः सकलादिराज- निर्माणसारपरमाणुसमुच्चयेन ॥८७॥ अन्वयः वेधसा सकलादिराजनिर्माणसारपरमाणुसमुच्चयेन त्वं धैर्यस्य धाम, अद्भुतचेष्टितानां निधिः अनवधेः करुणारसस्य दृष्टान्तभूः विरचितः । व्याख्या वेधसा ब्रह्मणा सकलास्समस्ता आदिराजानो मान्धातृदिलीपप्रभृतय आदि- नृपतयस्तेषां निर्माणस्य रचनायाः सारभूताः श्रेष्ठांशा ये परमाणवस्सूक्ष्मतम- भागास्तेषां समुच्चयेन समूहेन सर्वादिमान्धातृप्रभृतिनृपरचनासारांशरूपसूक्ष्मतम- भागकदम्बेन त्वं भवान् धैर्यस्य गाम्भीर्यस्य धाम कुलगृहमद्भुतान्याश्चर्योत्पा- दकानि चेष्टितानि व्यापारास्तेषां निधिरकरोऽनवधेर्निर्मर्यादस्य करुणारसस्य दयार्द्रभावस्य दृष्टान्तभूदृष्टान्तभूमिस्तदुदाहरणमित्यर्थः । विरचितो निर्मितः । अत्र राज्ञि धामनिध्यादेरभेदारोपान्मालारूपकालङ्कारः । भाषा ब्रह्मा ने समग्र प्राचीन मान्धाता दिलीप आदि राजाओं को बनाने के सारभूत परमाणुओं के सङ्ग्रह से गाम्भीर्य के घर, आश्चर्यजनककार्यों का खजाना और असीम दयार्द्रभाव के उदाहरण स्वरूप, आप की रचना की । कन्या विभूषणमियं भुवनत्रयस्य सिंहासनं विपुलमेतदयं ममात्मा । व्यस्तं समस्तमथवा यदिदं गृहाण पुण्यैर्मम प्रणयमेतु यशःपताका ॥८८॥
( ३५१ ) अन्वयः इयं भुवनत्रयस्य विभूषणं कन्या, एतत् विपुलं सिंहासनम्, अयं मम आत्मा । तत् इदं व्यस्तम् अथवा समस्तं गृहाण । मम पुण्यैः यशः- पताका प्रणयम् एतु । व्याख्या इयं पुरतो दृश्यमाना भुवनानां लोकानां त्रयं तस्य त्रिभुवनस्य विभूषण- मलङ्कारः कन्या ममात्मजा, एतदग्रे वर्तमानं विपुलं विशालं सिंहासनं राज्या- धिष्ठातृसमुपवेशनस्थानं, अयं प्रत्यक्षदृश्यो मम मदीय आत्मा शरीरावच्छिन्न आत्मा । तदिदं पूर्वोक्तं वस्तुजातं व्यस्तमेकैकमथवा पक्षान्तरे समस्तं सर्वं मिलितं गृहाण स्ववशमानय । मम पुण्यैश्शुभकर्मजन्यादृष्टराशिभिर्यशःपताका मम कीर्तिवैजयन्ती 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । प्रणयमेतु स्फुरतु । भाषा तीनों लोकों की विभूषणस्वरूप यह मेरी लड़की, यह विशाल राजसिंहासन और यह इस शरीर से आवृत्त मेरी आत्मा, इन सब वस्तुओ या एक एक करके अथवा इन सभी वस्तुओ का इकट्ठा ही आप स्वीकार करें । मेरे पुण्यों से मेरी कीर्तिपताका प्रसन्नता पूर्वक फहराती रहे । अर्थात् मेरे पुण्यो से आपके सम्बन्ध से मेरा यश चिरस्थायी हो । कन्यान्तःपुरधान्नि धैर्यनिधिना माधुर्यधुर्यैः पदै रित्यादि द्रविड़ेश्वरेण निविड़प्रेम्णा मुहुर्व्याहृतः । चोलीनां कुटिलासु कुन्तललतादोलासु लोलां दृशं देवः सोऽथ विनोदयन्मुदमगाच्चालुक्यविद्याधरः ॥८६॥ अन्वयः अथ कन्यान्तःपुरधान्नि धैर्यनिधिना द्रविड़ेश्वरेण माधुर्यधुर्यैः पदैः इत्यादि निविड़प्रेम्णा मुहुः व्याहृतः सः चालुक्यविद्याधरः देवः चोलीनां कुटिलासु कुन्तललतादोलासु लोलां दृशं विनोदयन् मुदम् अगात् ।
( ३४२ ) व्याख्या अथाऽनन्तरं कन्यायाः स्वात्मजाया अन्तःपुरमवरोधनं 'स्त्रीगारं भूभुजामन्तः- पुरं स्यादवरोधनम्' इत्यमरः । एव धाम गृहं तस्मिन् कन्यावरोधगृहे धैर्यस्य गाम्भीर्यस्य निधिराकरस्तेन महार्घपर्वता द्रविड़ेश्वरेण द्रविडाधिपेन वीरराजेन्द्रेण माधुर्याणां मधुरभावानां धुर्या धोरेया अग्रगण्या इत्यर्थः । 'धूर्वहे धुर्य धोरेय धुरीणाः सपुरंधराः' इत्यमरः । तंविशेषमधुरैः पदैश्शब्दैरित्यादि पूर्वोक्तमन्यच्च निविड़प्रेम्णा सान्द्रस्नेहेन मुहुर्वारं वारं व्याहृतः कथितः सः प्रसिद्धः चालुक्यस्य चालुक्यवंशस्य विद्याधरः श्रेष्ठजनो देवो विक्रमाङ्कदेवः 'नामैकदेशग्रहणे नाम- ग्रहणमिति' । चोलीनां चोलाङ्गनानां कुटिलासु वक्रासु कुन्तललतादोलासु केशवल्लीरूपान्दोलिकासु लोलां चञ्चलां दृशं दृष्टिं विनोदयन् व्यापारयन्मुद- मानन्दमगात्प्राप । शार्दूलविक्रीडितश्छन्दः । सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् । रूपकमलङ्कारः । भाषा इसके अनन्तर, कन्या के अन्तः पुर में, अत्यन्त धीर, द्रविड़ देश के राजा, वीरराजेन्द्र द्वारा, विशेष मधुर शब्दो में वार २ घनिष्ट प्रेम से ऐसी २ बातों से सम्बोधित उस चालुक्यवंश में श्रेष्ठ, विक्रमाङ्कदेव ने चोलदेश की अङ्गनाओं के घुंघराले केशलता रूपी झूलों पर अपनी चञ्चल नजर फेरते हुए, आनन्द प्राप्त किया । अर्थात् हवा से हिलने वाले घुंघराले बालवाली अङ्गनाओं को देख कर उसे हर्ष हुआ । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकमट्ट श्री विल्हण विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये पञ्चमः सर्ग । नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात्. भारद्वाजसुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः । चक्रे रामकृष्णपण्डितवरात्संप्राप्तसाहाय्यक- श्लोकायुग्ममिदं स्माफरुणया सर्गे शुभे पञ्चमे ॥ ॐ शान्तिः शान्तिः शान्तिः ।
॥ श्री ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम्
षष्ठः सर्गः । सह विभवभरेण तत्र पुत्रीं गुणनिधये नृपनन्दनाय दत्त्वा । कथमपि परिणेतुरभ्यनुज्ञामथ समवाप्य चचाल चोलराजः ॥१॥ अन्वयः अथ चोलराजः तत्र गुणनिधये नृपनन्दनाय विभवभरेण सह पुत्रीं दत्त्वा कथमपि परिणेतुः अभ्यनुज्ञां समवाप्य चचाल । व्याख्या अथ विक्रमाङ्कदेवचोलराजयोस्संमेलनानन्तरं चोलवंशस्य नृपो राजा वीर- राजेन्द्रस्तत्र तुङ्गभद्रातटे गुणानां शौर्यादिगुणानां निधिराश्रयस्तस्मै गुणाश्रयाय नृपस्य राज्ञ आहवमल्लदेवस्य नन्दनाय पुत्राय विक्रमाङ्कदेवाय विभवस्य सम्पत्ते- र्भरस्समूहस्तेन समृद्धिराशिना सह सार्धं पुत्रीं स्वात्मजां दत्त्वा समर्प्य कथमपि केनाऽपि प्रकारेण परिणेतुर्विवाहकर्तुरभ्यनुज्ञामाज्ञां समवाप्य लब्ध्वा चचाल स्वराजधानीं प्रति प्रतस्थे । पुष्पिताग्रावृत्तम् । "अयुजि नयुगरेफतो यकारो युजि च न जौ जरगाश्च पुष्पिताग्रा" इति लक्षणात् । भाषा विक्रमाङ्कदेव और चोलराज के मिलाप होने के अनन्तर, चोलदेश के राजा ने तुङ्गभद्रा नदी के तट पर उस गुण की खान, राजपुत्र विक्रमाङ्कदेव को बहुत सी सम्पत्ति के साथ कन्या प्रदान कर, बड़ी कठिनता से विवाह करने वाले विक्रमाङ्कदेव की आज्ञा पाकर अपनी राजधानी की ओर प्रस्थान किया ।