भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

देवीपुराणोक्तेन्द्रध्वजोच्छ्रायविधिः । ४२५

राष्ट्रं तोरणपातेन ध्वज अन्नक्षयो भवेत् ॥ पतिते शक्रदण्डे च नृपमन्यं समादिशेत् । कृमिजालसमुत्थाने शलभात्तस्कराद्भयम् ॥ सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य च । तिष्ठत्येवोच्छ्रितो यावत्तावद्युगसमाः समाः । निरता यजने केतो रञ्जीरन्निन्द्रकन्यकाः ॥ पतिते तु तथा कार्या पूजोत्थाने तु यादृशी । रात्रौ शुभं कृत्यतमं नादृष्टं काकपोतकैः ॥ नृपतिः सह राष्ट्रीयैर्यश्चैवं कारयेत्क्रतुम् । नगरे वा पुरे खेटे यद्येवं कुरुते नृपः ॥ पौरन्दरं नगरद्वारे वृषसिंहसमुच्छ्रितम् । केतुं समस्तघोराणां नाशनं जयदं मतम् ॥ एनं पूर्वं हरिः केतुं प्राप्तवान् वृषवाहनात् । ततो ब्रह्माथ तेनैव ब्रह्मणा शक्रमागतः ॥ तेन सोमस्य तद्दत्तं ततो दक्षे समागतः । तदाप्रभृति कुर्वन्ति नृपा अद्यापि चोच्छ्रयम् ॥ एवं यः कारयेद्राजा केतुं विजयकारकम् । तस्य पृथ्वी धनोपेता सद्दीपा वशगा भवेत् ॥ इति । इति देवीपुराणोक्त इन्द्रध्वजोच्छ्रायविधिः । विष्णुधर्मोत्तरेऽपि स विशेषत उक्तः । राम उवाच । शक्रसम्पूजनं कार्यं कथं राज्ञा सुरोत्तम । सम्यक् भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः ॥ पुष्कर उवाच । असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम । ५४

४२६ वीरमित्रोदयस्य राजनीतिप्रकाशे ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम् ॥ ते तमूचुः सुराः सर्वे निर्जिता दानवैर्वयम् । तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ॥ गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति । एवमुक्ताः सुराः सर्वे क्षीरोदे केशवं ययुः ॥ ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् । अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ तुष्टुवुश्च महाभागं त्रिदशास्तं पुनः पुनः । सर्वेषामीश्वरं देवं भुवनस्यैककारकम् ॥ देवा ऊचुः । नमस्ते पुण्डरीकाक्ष शरणागतवत्सल । देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥ चामीकराभवसन तार्क्ष्यप्रवरकेतन । शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥ सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज । उन्निद्रचारुकमलविराजितकराम्बुज ॥ सदैव देव भग्नानामस्माकमसुरैर्भवान् । गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम् ॥ प्रसीद देवदेवेश जहि तानसुराधमान् । येऽस्माकं देवदेवेश पीडयन्ति सदैव तु ॥ श्रीभगवानुवाच । ध्वजमेतं प्रदास्यामि भवतामरिनाशनम् । दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥ पुष्कर उवाच । एतदुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम् ।

विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२७ सौवर्णमुत्थितं दिव्यं शक्रध्वजमितिश्रुतम् ॥ तमादाय सुराः सर्वे प्रययुर्दानवालयम् । देवानुपगतान् श्रुत्वा दानवा निर्ययुस्ततः ॥ सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्ततः ॥ दृष्ट्वा ते च बलं तेषां शक्रकेतुं विराजितम् ॥ तत्तेजसा महाभाग मूढीभूताः क्षणेन तु । मूढीभूतास्ततो दैत्यास्त्रिदिशैर्विनिपातिताः ॥ केचिद्भग्ना दिशो जग्मुः समुद्रं विविशुस्ततः । ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥ पूजयित्वा नृपतये वसवे प्रददौ तदा । गर्गोक्तेन विधानेन तं च पूजितवान् वसुः ॥ तेनास्य तुष्टो भगवानिदं वचनमब्रवीत् । इन्द्र उवाच । येऽप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् । अद्यप्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥ तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज । दुर्भिक्षं मरणं व्याधिः परचक्रभयं तथा ॥ सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे । पुष्कर उवाच । ततः प्रभृति राजानो राम शक्रमहोत्सवम् । कुर्वन्ति गर्गकथितं सर्वामयविनाशनम् ॥ धन्यं यशस्यं रिपुनाशनं च कीर्तिप्रदं धर्मफलप्रदं च । कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥ पुष्कर उवाच । शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे ।

४२८ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागुदक्प्रवणे कुर्याच्छक्रार्थं भवनं शुभम् ॥ वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च । ततः शक्रध्वजस्थानं मध्ये सम्प्राप्य यत्नतः ॥ मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे । वामभागे पटे कुर्याच्छचीं देवीं तथैव च ॥ प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात् । तयोस्तु पूजा कर्त्तव्या सततं वसुधाधिपैः ॥ वनप्रवेशविधिना शक्रयष्टिं ततो नृपः । आनयेद्धोरथेनाथ वाऽऽनयेत्पुरुषैरयम् ॥ अर्जुनस्याजकर्णस्य प्रियकस्य धवस्य च । सुरदारुतरेश्चैव तथैवोदुम्बरस्य च ॥ चन्दनस्याथ वा राम पद्मकस्याथ वा यदि । अलाभे सर्व्ववृक्षाणां यष्टिं कुर्वीत वैणवीम् ॥ सुवर्णनद्धां सर्वज्ञ तां च सम्यक्प्रवेशयेत् । प्रोष्ठपादासिते पक्षे अष्टम्यां रिपुसूदन ॥ क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप । चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा ॥ अष्टाङ्गुलं तथा मूले छित्त्वा तोयेऽथ तां क्षिपेत् यायादुद्धृत्य नगरं सम्यगेव प्रवर्त्तते । तस्याः प्रवेशे नगरं पताकाध्वजमालि च ॥ सिक्तराजपथं कुर्यात्तथालङ्कृतनागरम् । नटनर्त्तकसङ्कीर्णं तथा पूजितदैवतम् ॥ सम्पूजितगृहं राम तथा पूजितवानयम् । पौरैरनुगतो राजा सुवेशैः फलपाणिभिः ॥ अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ।

विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२९ प्राक्शिरस्कां ततः कुर्याद्वस्त्रैः सञ्छादितां शुभैः ॥ पूजितां पूजयेत्तां तु यावत्स्याद्द्वादशीदिनम् । एकादश्यां सोपवासो नृपः कुर्यात्सनागरम् ॥ सांवत्सरेण सहितो मन्त्रिणा च पुरोधसा । रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥ स्थाने स्थाने महाभाग देया प्रेक्ष्या तथा मधु । पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ॥ द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः । यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥ सुयन्त्रितं तु तं कुर्याद्गृहस्तम्भचतुष्टयम् । पूजयेत्तन्महाभागं गन्धमाल्यान्नसम्पदा ॥ नित्यं च पटयोः पूजां यष्टिपूजां च कारयेत् । बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥ नित्यं च जुहुयान्मन्त्रैः पुरोधाः शाक्रवैष्णवैः । नित्यं गीतेन नृत्येन तथा शक्रं च पूजयेत् ॥ द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः । विशेषेण च धर्मज्ञ सांवत्सरपुरोहितौ ॥ उत्थाने च प्रवेशे च शक्रं स्तूयान्नराधिपः । वक्ष्यमाणेन मन्त्रेण कुशलश्च पुरोहितः ॥ पूजयेदुच्छ्रितं केतुं भूषणैर्विविधैरपि । छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ॥ एवं सम्पूजयेद्राम तथा दिनचतुष्टयम् । पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत् ॥ पूजयित्वा महाभाग बलेन चतुरङ्गिणा । नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ॥

४३० वीरमित्रोदयस्य राजनीतिप्रकाशे वाद्यघोषेण महता सङ्गीतिस्तत्र कीर्त्तिता । पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि ॥ उत्सवं च तदा कार्य जलतीरगतैर्महत् । एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् । नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथात् ॥ इति। शक्रध्वजोच्छ्रायकाले राज्ञा शक्रस्याशीर्वादरूपाः केचिन्म- न्त्रा विष्णुधर्मोत्तरोक्ताः पठनीयाः। ते च— पुष्कर उवाच । शृणु मन्त्रानिमान् सम्यक् सर्वकल्मषनाशनान् । प्राप्ते शक्रध्वजोच्छ्राये यान् पठेत्प्रयतो नृपः ॥ वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन । देवदेव महाभाग त्वं हि वर्द्धिष्णुतां गतः ॥ त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः । अनन्ततेजा विरजा यशोविजयवर्द्धनः ॥ अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित । ब्रह्मा स्वयम्भूभगवान् सर्वलोकपितामहः ॥ रुद्रः पिनाकभृदृप्तः शतभृद्देवसंस्तुतः । योगस्य नेता कर्त्ता च तथा विष्णुरुरुक्रमः ॥ तेजस्ते वर्द्धयन्त्वेते नित्यमेव महाबलाः । अनादिनिधनो देवो ब्रह्मगोपः सनातनः ॥ अग्नेस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः । कार्त्तिकेयः शक्तिधरः षड्वक्त्रोऽसिगदाधरः ॥ स ते वरेण्यो वरदस्तेजो वर्द्धयतां विभो । देवसेनापतिः स्कन्दः सुरप्रवरपूजितः ॥ आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ।

इन्द्रध्वजोच्छ्रायविधाविन्द्रप्रार्थनामन्त्राः । ४३१ मरुद्गणा लोकपालाश्चन्द्रः सूर्योऽनिलोऽनलः ॥ देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः । समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥ तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्त्तिरेव च । प्रवर्द्धयन्तु ते तेजो जय शक्र शचीपते ॥ इति । इत्याशीर्वादरूपान् मन्त्रान् पठित्वा इन्द्रप्रार्थनां कुर्यात् । प्रार्थनारूपाश्च मन्त्रास्तत्रैव पठिताः । तव चापि जयान्नित्यमिह सम्पद्यते शुभम् । प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् । शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशम् ॥ नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ सर्वेषामेव लोकानां त्वमेकः परमा गतिः । त्वमेव परमं त्राणं सर्वस्यासि जगत्पते ॥ पाशो ह्यसि पथः स्रष्टुं त्वमनल्पान् पुरन्दर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ त्वमेव धनविक्षेप्ता त्वामेवाहुः पुनर्धनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ स्रष्टा त्वमेव लोकानां संहर्त्ता चापराजितः । त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥ त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । १ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः । लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनिलोऽनलः ॥ इति मुद्रितविष्णुधर्मोत्तरे पाठः ।

४३२ वीरमित्रोदयस्य राजनीतिप्रकाशे त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ त्वमेव चामृतं देव त्वं मोक्षः परमार्चितः । त्वं मुहूर्त्तो निमेषस्त्वं लवस्त्वं वै पुनः क्षणः ॥ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ त्वमुत्तमा सगिरिवरा वसुन्धरा सभास्वरं वितिमिरमम्बरं तथा। महोदधिःसातिमितिमिंगिलस्तथा महोर्मिमानुरुमकरो झषाकुलः॥ महायशास्त्वमिह सदा प्रपूज्यसे महर्षिभिर्मुदितमना महाद्युते । महर्षिभिः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ त्वं विप्रैः सततामिहेज्यसे फलार्थं त्वं देवैरतुलबलौघ गीयसे त्वम्। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्याधिगमयन्ति सर्ववेदैः॥ वज्रस्य भर्त्ता भुवनस्य गोप्ता वैश्वानरं वाहनमभ्युपैति । नमः सदाऽस्मै त्रिदशेश्वराय लोकत्रयेशाय पुरन्दराय ॥ अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥ त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीश ॥ कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् । हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ॥ त्रातारमिन्द्रेन्द्रियकारणात्मन् जगत्प्रधानं च हिरण्यगर्भम् । लोकेश्वरं देववरं वरेण्यमानन्दरूपं प्रणतोऽस्मि नित्यम् ॥ इमं स्तवं देववरस्य कीर्त्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः। १ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥ यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति । इति- मुद्रितविष्णुधर्मोत्तरे पाठः ।

इन्द्रध्वजभङ्गे फलाफलं शान्तिकं च । ४३३ अवाप्य कामान्मनसोऽभिरामान् स्वर्लोकमायाति च देहभेदे ॥ इति प्रार्थनामन्त्राः । इन्द्रध्वजभङ्गे फलाफलं विष्णुधर्मोत्तर एवोक्तम्— पुष्कर उवाच । इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि । भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ॥ यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च । मातृकायास्तथा भङ्गे परचक्रभयं द्विज ॥ दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा । तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम् ॥ निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज । राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ इन्द्रध्वजोपकरणं यत्किञ्चिद्विजसत्तम । विनश्यत्यस्य विज्ञेया पीडा नगरवासिनाम् ॥ इन्द्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् । इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना ॥ राज्यं दत्त्वा च गुरवे धनेन प्रतिमोचयेत् । सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥ शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः । महाभोज्यानि कार्याणि ब्राह्मणानां दिने दिने ॥ गावश्च देया द्विजपुङ्गवेभ्यो हिरण्यवासोरजतैः समेताः । एवंकृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्मनुजाधिपस्य ॥ इन्तीन्द्रध्वजदुर्निमित्तेषु फलाफलं शान्तिकं च । अथ नीराजनशान्तिः । विष्णुधर्मोत्तरे । ५५

४३४ वीरमित्रोदयस्य राजनीतिप्रकाशे राम उवाच । नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम । कथं कार्या नरेन्द्रस्य शान्ती नीराजने प्रभो ॥ पुष्कर उवाच । पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे । विस्तीर्णं कारयेद्राजा सुमनोहरमाश्रमम् ॥ कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम् । तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम् ॥ कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम् । वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम । तोरणाद्दक्षिणे भागे तत्र कार्यमथाश्रमम् ॥ देवता च भवेद्यत्र तथाग्निहवनक्रिया । अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः ॥ कार्यं भवति शुष्काणां कूटं भृगुकुलोद्भव । पञ्चरङ्गकसूत्रेण शतग्रन्थि मनोरमाम् ॥ मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम् । छादयित्वा कुशैस्तां तु मृदा संछादयेत्पुनः ॥ तस्याश्च लङ्घनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः । न लङ्घिता सा यावत्स्यात्प्रथमं राजहस्तिना ॥ चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते । ततः प्रभृति कर्त्तव्या यावत्स्वातौ रविः स्थितः । आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम ॥ देवाः, हरिहरादिप्रतिमाः । तानेव दर्शयति- ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ॥ विनायकः कुमारश्च वरुणो धनदो यमः ।

नीराजनशान्तिः । ४३५ विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च ॥ अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु । कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ॥ सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः । पूजा कार्या ग्रहर्क्षाणां तथैव च पुरोधसा ॥ ततश्च जुहुयाद्वह्रौ पुरोधास्सुसमाहितः । यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकैः ॥ तथा च मन्त्रहीनानां प्रणवेन महाभुज । प्रणवेन, प्रणवाद्येन नाममन्त्रेण ! समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च । घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ॥ हुत्वा च कलशान् कुर्यात् सोदकान् गन्धसंयुतान् । पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान् ॥ पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा । भल्लातशालिसिद्धार्थवचाकुष्ठप्रियङ्गवः ॥ तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः । ततः संस्नापनीयाः स्युर्मन्त्रपूतैर्गजोत्तमाः ॥ तुरगाश्च महाभाग अलङ्कृत्य ततस्तु तान् । ततोऽभिषेकनागस्य तथा तत्तुरगस्य च ॥ अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा । तस्याभिनन्दने राज्ञो विजयः परिकीर्तितः ॥ त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम् । निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान् ॥ तत्रापि प्रथमं राम अभिषिक्तगजोत्तमम् । तस्यादौ शतपार्शीं तु नरः पञ्चनखोऽपि वा ॥

४३६ वीरमित्रोदयस्य राजनीतिप्रकाशे जघन्यो लङ्घयेत्तां तु राज्ञो मरणमादिशेत् । जघन्यो नरः, शूद्रचाण्डालादिः । जघन्यः पञ्चनखः,स्वादिः दुर्भिक्षं तत्र विज्ञेयं खरोष्ट्रैश्चैव लङ्घने । लङ्घयेद्वामपादेन यदि तां नृपकुञ्जरः ॥ राज्ञीपुरोहितामात्यराजपुत्राहितं भवेत् । राज्ञस्तु मरणं ब्रूयादाक्रमेत्तां यदाऽपरः ॥ राज्ञोऽपि जयमाचष्टे लङ्घयन् दक्षिणेन ताम् । राजहस्तिनि निष्क्रान्ते सा त्वपास्या तदा भवेत् ॥ निष्क्रामेयुस्ततः सर्वे प्राङ्मुखास्तोरणैर्गजाः । ततोऽश्वाः सुमहाभाग ततस्तु नरसत्तमाः ॥ ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च । आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ॥ पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसराः कृताः । दूष्यांदूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः ॥ सर्वेषां नृपनागानां तुरगाणां च भार्गव । स्वगृहेषु ततो नेयाः कुञ्जरास्तुरगैः सह ॥ स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान् । पूजयेत्सततं राम नाक्रोशैनैव ताडयेत् ॥ राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा । पूजयेद्वरुणं नित्यं यथोक्तद्विधिना द्विज ॥ भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः । आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः ॥ वसेतामाश्रमे नित्यं सांवत्सरपुरोहितौ । १ तथाऽप्सु विधिवद्विज इति मुद्रितविष्णुधर्मोत्तरे पाठः ।

नीराजनशान्तिः । ४३७ अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ॥ दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च । स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते ॥ अलङ्कुर्याद्दिने तस्मिन् वाहनं च विशेषतः । पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ॥ हस्तिनं तुरगं छत्रं खड्गं चापं च दुन्दुभिम् । ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ॥ अभिमन्त्र्य ततः सर्वान् कुर्यात्कुञ्जरधूर्गतान् । कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ॥ अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः । ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम् ॥ निष्क्रम्य तोरणैर्नागमभिमन्त्रितमारुहेत् । तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम् ॥ बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः । रत्नेरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः ॥ उल्मुकानां च निचयमादीपितमनन्तरम् । राजा प्रदक्षिणं कुर्यात् त्रीन्वारान्सुसमाहितः ॥ चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः । क्ष्वेडाकिलकिलाशब्दैः सर्ववादित्रनिस्वनैः ॥ वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम । एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ॥ जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत् । शान्तिर्नीराजनाख्येयं कर्त्तव्या वसुधाधिपैः ॥ क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम् । धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च ।

४३८ वीरमित्रोदयस्य राजनीतिप्रकाशे कार्या नृपै राष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर ॥इति। इति नीराजनशान्तिः । आश्विनशुक्लनवम्यां राज्ञो भद्रकालीपूजाभिहिता । विष्णुधर्मोत्तरे, राम उवाच । विधिना पूजयेत्केन भद्रकालीं नराधिपः । नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम ॥ पुष्कर उवाच । पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे । भद्रकालीगृहं कुर्याच्चित्रवस्त्रैः स्वलङ्कृतम् ॥ भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज । आश्विने शुक्लपक्षस्य नवम्यां प्रयतस्ततः ॥ तत्र खड्गं च वर्म्माद्यं छत्रं केतुं च पूजयेत् । राजलिङ्गानि सर्वाणि तथा शस्त्राणि पूजयेत् ॥ पुष्पैर्गन्धैः फलैर्भक्ष्यैर्भोज्यैश्च सुमनोहरैः । बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च ॥ रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः । एवं हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन । प्राप्नोति सिद्धिं परमां महीशो जनस्तथान्योऽपि हि वित्तशक्त्या॥ इत्याश्विनशुक्लनवम्यां भद्रकालीपूजा । ( १ ) शुक्लपक्षे तु अष्टम्याम् इति मुद्रितविष्णुधर्मोत्तरे पाठः । ( २ ) अत्र-“एवं सम्पूजयेद्देवीं वरदां भक्तवत्सलाम् । का- त्यायनीं कामगमां वररूपां वरप्रदाम् ॥ पूजिता सर्वकामैश्च सा युद्धे वसुधाधिपम् । ” इत्याधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।

देवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४३९ अथ प्रकारान्तरेणाश्विनशुक्लनवम्यां देवीपूजा । देवीपुराणे, ब्रह्मोवाच । हते घोरे महावीरे सुरासुरभयङ्करे । देव्या उपासका देवाः प्रभूता राक्षसास्तथा ॥ आगता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् । ब्रह्मविष्णुयमेशाना इन्द्रचन्द्रयमानिलाः ॥ आदित्या वसवो रुद्रा ग्रहा नागाश्च गुह्यकाः । समेत्य सर्वे देवास्ते देवीं भक्त्या च तुष्टुवुः ॥ वरं च सर्वलोकानां प्रददौ भयनाशिनी । बलिं ददुश्च भूतानां महिषाजामिषेण तु ॥ पुरेषु शङ्खभेर्य्यश्च शतशोऽथ सहस्रशः । कृता दुन्दुभिनादाश्च पटुशब्दाः समर्दलाः ॥ पताकाध्वजयन्त्रादिघण्टाचामरशोभितम् । तद्दिनं कारयाञ्चक्रुर्देवीभक्ताः सुरोत्तमाः ॥ एवं तस्मिन्दिने वत्स भूतप्रेतसमाकुलम् । कृताथ सर्वदेवैश्च महापूजाथ शाश्वती ॥ आश्विने मासि मेधान्ते महिषारिनिबर्हिणीम् । देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीमुखे ॥ घातयन्ति पशून् भक्त्या ते भवन्ति महाबलाः । बलिं च ये प्रयच्छन्ति सर्वभूतविनायकी ॥ तेषां तु तुष्यते देवी यावत्कल्पं तु शाङ्करम् । क्रीडन्ति विविधैर्भोगैर्देवलोके सुदुर्लभे ॥ नाधयो व्याधयस्तेषां न च शत्रुभयं भवेत् । न च देवग्रहा दैत्या न सुरा न च पन्नगाः ॥

४४० वीरमित्रोदयस्य राजनीतिप्रकाशे पीडयन्ति सुराध्यक्ष देवीपादसमाश्रितान् । यावद्भूवायुराकाशं जलं वह्निः शशी ग्रहाः ॥ तावच्च चण्डिका पूज्या भविष्यति सदा भुवि । प्रावृट्काले विशेषेण आश्विने चाष्टमीषु च ॥ महाशब्दो नवम्यां च लोके ख्यातिं गमिष्यति । एतत्तदेव राजेन्द्र स्वर्गवासफलप्रदम् ॥ परापरविभागं तु क्रियायोगेन कीर्त्तितम् ॥ इन्द्र उवाच । आश्विनस्य सिते पक्षे नवम्यां प्रतिवत्सरम् । श्रोतुमिच्छाम्यहं तात उपवासव्रतादिकम् ॥ ब्रह्मोवाच । शृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि । महासिद्धिप्रदं धन्यं सर्वशत्रुनिबर्हणम् ॥ सर्वलोकोपकारार्थं विशेषादपि वृष्टिषु ॥ कर्त्तव्यं ब्राह्मणैश्चैस्तु क्षत्रियैर्लोकपालकैः । गोधनार्थं तथा वैश्यैः शूद्रैः पुत्रसुखार्थिभिः । सौभाग्यार्थं तथा स्त्रीभिरन्यैश्च धनकाङ्क्षिभिः ॥ महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥ कन्यासंस्थे रवौ शक्र शुक्लामार्थय नन्दिकाम् । अपाचिताश्यथैकाशी नक्ताशी त्वथ वाग्बदः ॥ प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यका भोजयेत्सदा ॥ अष्टम्यां नव गेहानि दारुजाति शुभानि च । एकं वा वित्तभावेन कारयेत्सुरसत्तम ॥

देवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४४१ तस्मिन्देवी प्रकर्त्तव्या हैमी वा राजतापि वा । मूर्द्धाक्षिलक्षणोपेता खड्गे शूलेऽथ पूजयेत् ॥ सर्वोपहारसम्पन्नवस्त्ररत्नफलादिभिः । कारयेद्रथदोलादिबलिपूजां च दैविकम् ॥ पुष्पादिद्रोणबिल्वाढ्यजातीपुन्नागचम्पकैः । विचित्रां रचयेत्पूजामष्टम्यां समुपावसेत् ॥ दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः शुभान्वितः । तदर्द्धयामिनीशेषे विजयार्थं नृपः पशुम् ॥ पञ्चाब्दं लक्षणोपेतं गन्धधूपसुगन्धितम् । विधिवत्कालिकालीति जप्त्वा खड्गेन घातयेत् ॥ तदुत्थं रुधिरं मांसं गृहीत्वा पूजनादिषु । नैर्ऋतेभ्यः प्रदातव्यं महाकौशिकिमन्त्रितम् ॥ तस्याग्रतो नृपः स्नायाच्छत्रुं कृत्वाथ पिष्टजम् । खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः ॥ ततो देवीं स्नापयेत्प्राज्ञः क्षीरसपिंर्जलादिभिः । कुङ्कुमागुरुकर्पूरचन्दनैश्चार्च्य धूपयेत् ॥ देयानि पुष्परत्नानि वासांसि त्वहतानि च । नैवेद्यं सुप्रभूतं तु देयं देव्याः सुभावितैः ॥ देवीभक्ताश्च पूज्यन्ते कन्यकाप्रमदादयः । द्विजान् दीनान्यपाखण्डानन्नदानेन तर्पयेत् ॥ नन्दाभक्ता नरा ये तु महाव्रतधराश्च ये । पूजयेत्तान् विशेषेण यस्मात्तद्रूपमम्बिका ॥ मातृणां चैव देवीनां पूजा कार्या तदा निशि । ध्वजच्छत्रपताकादि उच्छ्रयेदम्बिकागृहे ॥ रथयात्राबलिक्षेमं स्फुटवाद्यरवाकुलम् । ५६

कारयेत्तुष्यते येन देवी पशुनिपातनैः ॥ अश्वमेधमवाप्नोति भक्तितः सुरसत्तम । महानवम्यां पूजेयं सर्वकामप्रदायिका ॥ सर्वेषु वत्स वर्णेषु तव भक्त्या प्रकीर्त्तिता । कृत्वाऽऽप्नोति यशो राज्यं पुत्रायुर्धनसम्पदः ॥ इति इति देवीपुराणे महानवम्यां देवीपूजा । अथ चिह्नेषु देवीपूजाविधिः । तत्र देवीपुराणे, ब्रह्मोवाच । क्षीराशी कार्त्तिकारम्भे देव्या भक्तिरतो नरः । शाकयावक एकाशी प्रातःस्नायी शिवारतः ॥ पूजयेत्तिलहोमं तु दधिक्षीरघृतादिभिः । कुर्याद्देव्यास्तु मन्त्रेण शृणु पुण्यफलं हरे ॥ महापातकसंयुक्तो युक्तो वाप्युपपातकैः । मुच्यते नात्र सन्देहो यस्मात्सर्वगता शिवा ॥ अन्यो वा भावनायुक्तस्त्वनेन विधिना शिवाम् । स्वयं वा अन्यतो वापि पूजयेत्पूजयीत वा ॥ न तस्य भवति व्याधिर्न वा शत्रुकृतं भयम् । नोत्पातग्रहदौस्थ्यं वा न च राष्ट्रं विनश्यति ॥ सदा स्वभावसम्पन्ना ऋतवः शुभदा घनाः । निष्पत्तिः सर्वसस्यानां तस्करा न भवन्ति च ॥ प्रभूतपयसो गावो ब्राह्मणाश्च क्रियापराः । स्त्रियः पतिव्रताः सर्वा रूपनिर्वृतिकारिणः ॥ फलपुष्पवती धात्री सस्यानि रसवन्ति च ।

देवीपुराणोक्ता चिह्नेषु देवीपूजा । ४४३ भवेयुर्नात्र सन्देहाम्बिकाविधिपूजनात् ॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ अनेनैव तु मन्त्रेण जपहोमं तु कारयेत् । प्रातस्तु संस्मृता वत्स महिषघ्नी प्रपूजिता ॥ अघं नाशयेत क्षिप्रं यथा सूर्योदये तमः । सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा ॥ द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् । कपिसंस्था महामाया सर्वशत्रुविनाशिनी ॥ वृषे यथेप्सितं दद्यात्कलभे श्रियमुत्तमाम् । हंसे विद्यार्थकामांस्तु बर्हिणेऽभीष्टपुत्रदा ॥ गरुत्मति महामाया सर्वरोगविनाशिनी । महिषस्था महामारीं शमयेद्ध्वजसंस्थिता ॥ करिगा सर्वकार्येषु नृपैः कार्या त्रिशूलिनी । पद्मस्था चर्चिका रौप्या धर्मकामार्थमोक्षदा ॥ प्रेतस्था सर्वभयहा नित्यं पशुनिपातनैः । पूजिता देवराजेन्द्र नीलोत्पलकरा वरा ॥ भवेत्तु सिद्धिकामस्य चिह्नाग्रे संव्यवस्थिता । चिह्नानि, राज्ञो ध्वजपताकादीनि, तेषामग्रे । गन्धपुष्पार्चितां कृत्वा वस्त्रहेमसुचर्चिताम् ॥ फलशालियवैः शूकवर्द्धमानैर्विभूषिताम् । शोभनामुच्छ्रयेदग्रे पताकां वा मनोरमाम् । चामरं कलशं शङ्खं सातपत्रं वितानकम् ॥ भवेत्तु सिद्धिकामस्य नृपस्य फलदायकम् । नमो विश्वेश्वरि दुर्गे चामुण्डे चण्डहारिणि ।

४४४ वीरमित्रोदयस्य राजनीतिप्रकाशे ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम् ॥ इति । इति चिह्नेषु देवीपूजाविधिः । अथाश्ववृद्धिर्नृपैराश्विनशुक्लप्रतिपदमारभ्य महानवमीया- वदश्वशान्त्यर्थं लोहाभिसारिकं कर्म कार्यम् । यथोक्तम्— देवीपुराणे, आश्वयुक्शुक्लप्रतिपत्स्वात्तियोगे शुभे दिने । पूर्वमुच्चैःश्रवा नाम प्रथमं श्रियमाहरत् ॥ तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा । पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥ शान्तिः स्वस्त्ययनं कार्यं तदा तेषां दिने दिने । धान्यं भल्लातकं कुष्ठं वचासिद्धार्थकांस्तथा ॥ पञ्चवर्णेन सूत्रेण ग्रन्थि तेषां तु बन्धयेत् । वायव्यैर्वारुणैः सौरैः शाक्रैर्मन्त्रैः सवैष्णवैः ॥ वैश्वदेवैस्तथा मन्त्रैर्होमः कार्यो दिने दिने । तुरगा रक्षणीयास्तु पुरुषैः शस्त्रपाणिभिः ॥ नैव ताड्याः क्वचित्तत्र न च वाह्याः कथञ्चन । इति । भविष्योत्तरेऽपि विशेष उक्तः । कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ तस्यां सदा पूजनीया चामुण्डा मुण्डमालिनी । तस्यां ये ह्युपयुज्यन्ते प्राणिनो महिषादयः ॥ सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते । यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते ॥ न तथा बलिदानेन पुष्पधूपविलेपनैः ।