भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ
अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
२२१चैत्रशुक्लप्रतिपदादौ ब्रह्मादिदेवानां सहेतुफलं पूजनम्३९६र्जन्मादिनियमपुरस्सरमाचारगतिकथनम्४०१
२२२रोचेषु मासोपवासफलानिरूपणम्३९७"२३४महापातकोपपातकादिनिर्देशपूर्वकं प्रायश्चित्तवर्णनम्४०३
२२३तत्तन्नक्षत्रेषु तत्तद्देवादिपूजनवर्णनम्३९८"२३५रहस्यप्रायश्चित्तनिर्देशः४१०"
२२४अष्टावक्रादिक्संवादे तया स्त्रीस्वभावादिवर्णनं भार्गवेण मुनिनिष्ठावक्त्राय स्वसुताया दिशो दानञ्च३९९२३६पापप्रशमनाश्राद्धजपादिच्छिद्रच्छद्मवर्णनम्""
२२५पुरुषसूक्तविधानेन संवत्सरपर्यन्तं हंसस्वरूपजनार्दनपूजनव्रतम्४००"२३७दानतपोवृद्धगवादिकर्मदानं भोगिनस्त्वग्ज्यामालादिकल्पकथनम्४११
२२६ऋतुतुगस्यान्ते दाम्पत्यव्यवहारप्रवृत्तैर्लोभदंभादिदोषमाकुले लोके हंस-रूपिनारायणेन मुन्यनुरोधेन ज्ञानोपदेशकथनमभिहितमासीत्""२३८निधनसूचकाङ्गारिष्टयोगवर्णनम्४१२
अथ हंसगीता।२३९अज्ञानेनापाज्ञानफलानि४१३
२२७वर्णाश्रमधर्मवर्णनम्"२४०पापफलदुःखवर्णनम्"
२२८ब्रह्मचर्यपालनपुरःसरं वेदस्वीकरणादन्यमावण्याद्गुरुकुले वासो गृहाश्रमस्वीकृतिर्वा""२४१कामासक्तिनिन्दाथार्थ्यपूर्वकं कामसेवनेन सुखम्""
२२९गृहस्थधर्मवर्णनम्४०१२४२चञ्चलं लक्ष्मीरस्वभावं निश्चित्य तन्नाशे न हृष्येत्४१४"
२३०भिक्षाभक्ष्यवर्णनम्""२४३मानदोषवर्णनम्""
२३१द्रव्यशुद्धिनिरूपणप्रसङ्गे मलमूत्रादीनां परिगणनम्"२४४मददोषवर्णनम्""
२३२अशौचविधिवर्णनम्""२४५लोभदोषवर्णनम्""
२३३हस्ते देवादि‍तर्पणानि जपादिकोले मनःप्रणिधानमक्रोधकार्याद्यावन्त-२४६क्रोधदोषवर्णनम्""
२४७नास्तिक्यस्य गुरुतरपापवर्णनम्""
२४८अहङ्कारस्य सर्वनाशकत्वम्४१५
२४९शौचवर्णनम्""

वि० ध० ॥ १८ ॥ अनु० ॥ ३८ ॥

अध्यायःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायःविषयाःपत्राङ्काःपृष्ठाङ्काः
२५०अशौचदोषाः४१५२६७शूरशौर्यवर्णनम्४२०
२५१अनृतदोषवर्णनम्,,२६८अहिंसागुणहिंसादोषवर्णने४२१
२५२हिंसादोषकथनम्४१६२६९क्षमागुणवर्णनम्,,,,
२५३कायवाङ्मनोजनितपापफलनिर्देशवर्णनम्,,२७०कृतज्ञता (आनृशंस्य) गुणवर्णनम्४२२
२५४ज्ञानमहत्त्ववर्णनम्४१७२७१आचारगुणवर्णनम्,,,,
२५५धर्मप्रशंसावर्णनम्,,,,२७२शौचप्रशंसा,,
२५६गृहस्थाश्रममाहात्म्यम्४१८२७३तीर्थानुसरणप्रशंसनम्,,,,
२५७स्वाध्यायप्रशंसा,,,,२७४उपवासप्रशंसावर्णनम्४२३
२५८ब्रह्मचर्यप्रशंसावर्णनम्,,२७५मनःशौचिनिरूपणम्,,
२५९सन्तानप्रशंसा,,,,२७६श्रद्धावर्णनम्,,,,
२६०कीर्तिप्रशंसावर्णनम्,,,,२७७ज्ञानमाहात्म्यवर्णनम्,,,,
२६१यशःप्रशंसावर्णनम्,,,,२७८जपप्रशंसावर्णनम्४२४
२६२यज्ञप्रशंसावर्णनम्४१९२७९जलान्तर्जपमाहात्म्यवर्णनम्,,
२६३शीलप्रशंसावर्णनम्,,,,२८०प्राणायाममाहात्म्यवर्णनम्,,,,
२६४दम (जितेन्द्रियत्व) प्रशंसनम्,,,,२८१प्रत्याहारवर्णनम्,,,,
२६५सत्यप्रशंसावर्णनम्,,२८२धारणातिरूपणम्४२५
२६६तपःप्रशंसावर्णनम्,,,,२८३ध्यानवर्णनम्,,,,
अध्यायाःविषयाःपत्रांकाःपृष्ठांकाः
२८४समाधिनिरूपणं सफलम्४२६
२८५व्यवसायाववर्णनम्४२६
२८६संकल्पवर्णनम्,,,,
२८७होमविधिवर्णनम्,,,,
२८८देवपितृपूजाफलवर्णनम्,,
२८९आतिथ्यपूजामहत्त्वकथनम्४२७
२९०ब्राह्मणमहत्त्ववर्णनपुरस्सरं तच्छुश्रूषाफलम्४२८
२९१गोमहत्त्वप्रदर्शनपुरस्सरं तच्छुश्रूषणम्,,
२९२दयामहत्त्ववर्णनम्४२९
२९३दाक्षिण्यनिरूपणम्,,
२९४प्रियंवदप्रशंसा,,,,
२९५आलस्यदोषप्रकटनपुरस्सरं यत्नस्य कार्यसाधकतावर्णनम्,,,,
२९६उदकमहत्त्वप्रदर्शनपुरस्सरं तडागादिनिर्माणफलम्,,,,
२९७वृक्षारोपणपुण्यफलारामदिनिर्माणकर्तृणां तत्तल्लोके सुखनिवास-निरूपणम्४३०
२९८प्रपानिर्माणतज्जलाभ्यां पथिकतृषितजनितानि प्रपाकर्तृपञ्चारकयोः फलानि४३१
२९९तामसादिविभेदेन पुण्यफलोपदेशः, शुक्लकृष्णशबलव्याप्तिभेदेन धर्मादि-चाराश्च४३१
३००दानकालसम्पद्दानफलादिकथनम्४३२
३०१प्रतिग्राह्यपदार्थमितमहत्त्वमयतद्देवतादिवर्णनम्,,,,
३०२अभयप्रदानप्रशंसावर्णनम्,,
३०३वेदापवेदाङ्गधर्मशास्त्रार्थव्याख्यानस्य दुस्सङ्गिनिवारणस्य च फलम्४३४
३०४कन्यादानफलम्,,
३०५आरामजलाशयदेवताया विधिविशिष्टोप्रकारकर्मोविविधान्नमलाक्तसु-वस्त्र दाने फलानि४३५
३०६गोप्रदानशक्तपरमाह्लादिकफलानिरूपणम्,,
३०७घृतधेनुकल्पवर्णनम्४३७
३०८तिलधेनुविविधदानवर्णनम्,,
३०९जलधेनुविविधदानवर्णनम्४३८
३१०सुवर्णतिलादिविधाननिरूपणम्,,,,
३११आसनशय्यावितानच्छत्रोपानत्तथादिदानफलवर्णनम्,,
३१२नृवाहशिविकादासदास्यादिदानमाहात्म्यम्४३९
३१३रूपलावण्यधनसौभाग्यादिमदशमकापरसेविकादिदानवर्णनम्,,

वि० ध० | अनु०


[भाग १]

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
३१४सूर्य्याश्वदर्शकलैकादिमापकरफंशालियुगपञ्चकलामादिधान्यदानवर्णनम् ....४४०
३१५प्राणानामन्नमयत्वात्सर्वेषामपि जीवाना मन्नाधिकारित्वदाविर्विशेषेणान्नदानस्य माहात्म्यं तत्रापि भोजने ब्राह्मणानांगुणबाहुल्यम् ....
३१६पात्रविशेषेण दानविशेषफलवर्णनम् ....
३१७कालविशेषे दानविशेषफलवर्णनम् ....४४१
३१८तद्दानफलं नक्षत्रव्रतवर्णनम् ....४४२
३१९चैत्रादिपूर्णिमासु द्वादशीषु च व्रतोपवासदानादिफलवर्णनम् ....
३२०चैत्रपञ्चदश्यामुपवासादिचित्रवस्त्रादिपुरस्सरं नक्तैकभक्तादिनियमपालनपूर्वकं मासव्रतविधानम् ....४४३
३२१गृहीतविष्णुपञ्जरश्रवणादिना यमकुवेरादित्याद्यष्टकेषु प्रतिद्यत्सुखादिप्राप्तितत्तल्लोकान्त्यानुभावविवर्णनम् ....४४४
३२२पातिव्रत्यादिकर्म्मयनिरूपणम् ....४४५
३२३वर्णानां स्वेस्वे धर्मे स्थापनान्निरोग्यधर्मनिरूपणम् ....
३२४कुलश्रवणाद्याधिकृतगणानिर्याणपुरस्सरं वृद्धब्राह्मणैः सह गतो व्यवहारदर्शनवर्णनम् ....४४६
३२५विशुद्धागमपूर्वकस्य भूम्यादिभागस्य प्रामाण्यवचनम् ....४४७

[भाग २]

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
३२६व्यवहारेषु पौरुषद्दिव्ययोर्निर्णयोधौर्लिखितसाक्षिभेदेन द्विविधपौरुषेऽपि राजसाक्षिकससाक्षिकस्वहस्तलिखितभेदेर्कोविध्यं तत्र स्थावराणां लेख्येनैव सिद्धिरलेख्यस्य सोपध्ये दिव्यधैर्व्यव्यवस्था ....
३२७कृताकृतभेदेन साक्षिणामेकादशविधता, पूर्वपक्षीणां साक्षिषु पूर्वं प्रक्षा, साक्षिभेदवृत्तसाक्षिणोनिर्णयः, नृपतिशिल्पिश्रोत्रियादीनां साक्ष्यनिषेधः, आसानां सर्वेषांच साक्षित्वम् देवद्विजातिसन्निधावुदङ्मुखेन पूर्व्वाहे सशौचं साक्षिग्रहणम्, साक्ष्यारम्भे ब्राह्मणादीनां सत्यादिना शपनम् ....४४८
३२८कोशाद्यादिभेदेन दिव्यानामष्टविधता, तत्र कोशस्याशिरस्कता, विप्रवर्ज्यं वर्णानां कोशादानम्, देशकालाबधुभयं दिव्यदानम्, गजाश्वदेशकाण्टककानां निस्सारणं कर्त्तव्यम्, दिव्याहिर्डनऋनयम्, तुलायोग्यशुस्तलक्षणनिर्माणिप्रकारातद्वेक्षणशान्तिपुरस्सरं तदुपविष्टस्य शुद्धिज्ञानम्, वह्निसाध्यादिव्यद्यानां विधानप्रकारः ....
३२९ब्राह्मणादिवर्णानामष्टौ विवाहाः, कन्यादायोपच्छ्लोकांगपक्कोपदण्डा, ज्ञातिबलाद्विक्रयमंत्रिणोणिग्याः कटीरमाणदण्डः, भार्याया व्यभिचारे दण्डः, एकवगाय कन्यां दत्त्वाऽन्यस्मै क्षात्रे विनवृत्तयोंशाद्दण्डो राजा देयः। ऋतौ भार्यामगच्छतो भतृर्मातातथा अगच्छन्त्या भा-

॥११॥
॥१२॥

अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःदिनयाःपत्राङ्काःपृष्ठाङ्काः
योग्याश्च दण्डः। ऋतुसत्या भर्त्रऽप्रतिपादिताया वर्षत्रयात्सत्यं विवाहाधिकारः।.... .... ....४५०३३७सीमाविवादे सामन्तस्थविरागोपकृषकादिद्वारा तन्निर्णयः, सस्यक्षेत्रेषु सस्यनाशकमाहिषादीनां स्वामिषु दण्डकल्पना .......
३३०औरसादिद्वादशविधपुत्राणां पित्ररिक्थाधिकारः, प्रतिलोमजातानां जडादीनाञ्च भरणमात्रं, पतितानामनधिकारः, क्रमागतभूम्यादौ पितापुत्रयोस्तुल्याधिकारः, पित्यूर्ध्वं विभागे मातापि समांशभागिनी, ब्राह्मणादीनां क्षत्रियादिपुत्राणामंशविभागः, अपुत्रधनभाजां निर्देशः, स्त्रीधनन्तदधिकारिनिरूपणञ्च .... ....४५१३३८धर्माद्यर्थकमूलं हि धनं नृणां बहिश्चराः प्राणास्तद्धर्तॄन्प्रजा वातयेत, ब्राह्मणांस्तु स्वराष्ट्राद्दिवासयेत्, महापातकात्साहसिकादीनामवश्यं दण्डयत् .... .... ......,,
३३१ऋणादानप्रसङ्गे चोत्तमर्णोधमर्णान्न धनं संवृद्ध्यावृद्धिं वा यथानियमं देयं, देवराजदोषादहृते चाधिभोक्ता सवृद्धिकरादिदेयः, एकस्याविभक्तस्मै दातुः प्राणदण्डः, पश्चाद्विचैत्तनां वा नष्टेऽपि धतिनोऽक्षतिः, द्विरूप्यपक्षादिषु वृद्धिनियमः, त्रिपुरुषपर्यन्तमृणदानम्, प्रातिभाव्ये ऋणदानव्यवस्था, अशक्तौ कर्मकरणम्, ....४५२३३९आत्मनो वलीपलितमपश्यस्य चापत्यं वीक्ष्य गृहं वानप्रस्थमाश्रयेत, तत्र च सभायां निर्लोभो वः नियम्रनीतुपाचन्वयेन च कन्दमूलादिना वर्त्तन्देवपित्रातिथीनभ्यज्ययथावलम्पञ्चाश्रितपक्षशणादिनाकालं नयेत्प्रमाशाद्दष्टा प्रासानानायोषावलाभेन विशेद्धिहाभे च न हृष्येद्दिस्वादिवानामश्यमंयोग दुग्कन्तपः कुर्यात् .......४६० २
३३२निक्षेपरक्षावर्णनेन याचित्तान्वाहितादीनामपि गतार्थता ...४५३३४०आयुषश्चतुर्थस्त्ये भागे यातिधममाश्रयेत. तत्र चेद्विप्रगुरूसरप्रशोगात्मनि समारोप्य ब्रह्मास्रमो भवेत् । ग्सारस्वादल्पमटो न स्यात. कर्मवाङ्मनोदण्डवान्भवेत्, 'दृष्टिपूतं न्यस्तपादं वस्त्रपूतं जलं पिवेत, सत्य पूतां वदेद्वाणीं मनः पूतसमाचरेत !, शङ्गाभिन्नादिषु समानभावं कुर्यात् .... .... ......,, ,,
३३३सम्भूयसमुत्थाने क्षयव्ययवृद्ध्यनुसारमंशकल्पना ...,,,,
३३४कायदेशकर्मार्थाधिककर्मकरादिदत्तनादिनियमः ...,,,,
३३५क्रयविक्रयनियमनिर्णयः ... ...४५५३४१विष्णुमाश्रित्य कृतानां धर्माणां फलवत्त्वम्, तत्स्मरणकीर्तनादिभिस्तिर्योन्गम्य सवार्थलाभकत्वम्, दुर्वालबत्रिमाय तद्दत्तपरमाणुसंख्या-
३३६पाषण्डनैगमादिविभागवर्णनम् ... ...,,,,
वि० धं०अनु०
॥२०॥॥२०॥
अध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काःअध्यायाःविषयाःपत्राङ्काःपृष्ठाङ्काः
वृक्षस्वरूपान्नं स्वर्गलोके पूज्यते देवालयेकृत । काष्ठामललोहताम्र-रौप्यरलनिर्मितप्रसादे विष्णुप्रतिमापूजनेऽनन्तपुण्यम् । देवप्रासादे सुधासंस्कार-चित्रकरण-गीतवाद्यनृत्यकरण-प्रक्षीणमद्यदानाभ्यर्थनामृक्षण-सम्मार्जनानुलेपन-पुष्पोपचय-जीर्णोद्धार-कीर्त्तन-सहस्रनामोच्चारणपूर्वकस्तवन-चतुर्वेदैस्तत्प्रकारामिभ्रुस्तवन-भक्तिभावूर्ध्वस्वरचित्तस्तवतवन-तन्माहात्म्यप्रतिपादकपुस्तकविवरण-तद्देहीभ्यस्तन्माहात्म्याश्रवण-तदालये शंखघण्टाकिंकिणीपताकादिप्रदान-विचित्रपुष्पसमलंकृतवाटिकानुकारिण्यादिनिर्माणरसङ्ख्यापुण्यफलभाक्त्वम् । एवंविधमहापूजया सकामस्यान्तकालपरिमितसुखभोगाभावापि न तादृग्भावतोपो यादृङ् निष्कामस्येति ...४५६सुखस्यापात् । स्वामरात्भयदर्शानि हगे रुष्टेऽधोलितं च गरुत्मति हरिणाङ्गिके तत्पृष्ठेऽध्यापयतःद्वारक्रान्तस्य तादृशस्य पक्षशान्तं बलहानिश्च समजर्नि, हरिश्चार्यमेव महिमा कोऽहं वराक इति गतगर्वाय खगेश्वराय भगवता प्रसादपुरस्सरमपमितबलप्रदायि...
३४४कश्यपकृतविष्णुस्तवः४६४
३४५भूविवरस्थराज्ञो ( उपरिचरवसोः ) रक्षणवर्णनम्
३४६वैष्णव्यपराजिताविद्यावर्णनपुरस्सरं वसुकृतगरुडस्तोत्रम्४६५
३४७वसुकृतं वासुदेवस्तोत्रम्४६६
३४८विष्णुना वसवे सत्यपालनपुरस्सरं ब्राह्मणापमानवर्जनेोपदेशकथनम्
३४९विश्वरूपदर्शनार्थं नारदस्य श्वेतद्वीपगमनम्४६७
३४२श्रीविष्णुतत्त्वान्ते मुनिदृष्टहंस ( विष्णु ) विश्वरूपदर्शनम्४६३३५०विश्वरूपदिदृक्षया श्वेतद्वीपं नारदकृतं स्तोत्रम्४६८
॥ इति हंसगीता ॥३५१श्वेतद्वीपे नारदस्य विश्वरूपदर्शनं तत्रत्यमहान्तर्यामीपीडिताप्तिश्च....
३४३गुणकथासात्स्यशक्त्या वरमार्थणाय नारदसहायं मातली निर्गते मुहुर्वाक्यं तावपश्यताम्, तत्रैव शक्रदर्शनानन्तरं तौ तांस्तान्स्वसाम्यमयाचताम्. अमिति शक्रोक्तावपि विष्णुमर्चय्य मातलिर्वेततयाऽभयं३५२सरःसन्निहिताश्वत्थविधन्धन्यान्मस्वा हृदये प्रदर्य हसन्तमष्टमण्डलं निम्माय मध्योऽष्टपत्रपद्मं लिखेत. तत्कर्णिकामध्ये श्वेतकानपत्रकर्णिकापद्मकमण्डलं, तदुपरि चन्द्रमण्डलं. तदुपरिभीमण्डलं पद्मपुष्पमण्डलंगं विष्ण्यमंतृ. कमलपुर्वोद्दिष्टश्वश्वकारिषु वासुदेवसंकर्षणादीन्न्यनेन. प्रपूर्वोद्दिष्टेषु वेनतयादींश्च न्यनिस्या बाह्यमूर्ध्वा पद्मावादींश्चमोंकारा-
संख्याःविषयाःपत्राङ्काःपृष्ठाङ्काःसंख्याःविषयाःपत्राङ्काःपृष्ठाङ्काः
कारादिक्रान्तिक्षामिनष्टेति वरुणकुवेरनेत्राभ्यां न्यसेत, यथाक्तारूपं ध्यायेत् । "ॐनमो भगवते वासुदेवायत्यनेन" ॐनमो नागयणेत्यनेन वा संविधि पूजयंत .... ....४६१३०७नागमंत्रानपुरस्सरं नारगादिविषूचपमानशान्तये क्कते निदेशः ....१७०
३०८लिङ्गमोटननृसिंहवर्णनम् .... .... ....
३५५श्रीमन्नृसिंहस्तोत्रवर्णनम् .... ....१७१

॥ इत्यनुक्रमणिका समाप्ता ॥


केके ह्यपूर्वविषयाः प्रतिपादिता न धर्मांतरेऽत्र महितै किल विष्णुपूर्व्वे ॥
तस्यातिसूक्ष्मविषयप्रतिपादकंच वोऽनुक्रमोऽकृत मया तनुबुद्धिभाजा ॥ १ ॥
सर्व्वांतरस्थितमहामहिमप्रतीतः सर्व्वेश्वरः सकलवाञ्छितसिद्धिदाता ॥
लक्ष्मीसहाय उरुगाययशाः प्रसीदेदित्यं प्रयाचति हृदा हरिदत्तशर्म्मा ॥ २ ॥

॥ इति श्रीविष्णुधर्मोत्तरमहापुराणविषयानुक्रमणिका समाप्ता ॥

॥ अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ॥

The provided image is completely blank and contains no text to transcribe.

श्रीगणेशाय नमः ॥ ॐ श्रीनारायणाय नमः ॥ अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ कृतवर्मा तथा भोजः श्वेतो माहिष्मतीपतिः ॥ कुलिन्दः सर्वदमनो मालवेन्द्रस्त्वधूर्द्धनः ॥ २ ॥ वत्सनामश्च बाणश्च नन्दीशो दरसत्पतिः ॥ प्रतिसारश्वित्रधनुस्सवौं वायुरथस्तथा ॥ ३ ॥ द्रविडः कुसुमापीड ओड्रश्च समरप्रियः ॥ शम्भुः किरातराजश्च ओरसो नन्दिवर्द्धनः ॥ ४ ॥ वटुमुलश्च तूनेशः शाल्वश्च जनमेजयः ॥ सुभ्राजो दीर्घकर्णो बाह्रीको दमनस्तथा ॥ ५ ॥ हिरण्यनामः कौसल्यो दशार्हो विजयस्तथा ॥ एते चान्ये च राजानः शतशो बहुदक्षिणाः ॥ ६ ॥ सम्पूर्र्णचन्द्रवदना गजराजकरोरवः ॥ उपासांचक्रिरे वज्रं सिंहासनगता नृपाः ॥ ७ ॥ बहुभिर्भूमिपालैश्च तथा वज्रेण धीमतां ॥ युधिष्ठिरण च सदा शोभिता शुशुभे सभा ॥ ८ ॥ राजानस्ते ततो दृष्ट्वा ऋषीन्दुंल्लभदर्शनान्॥ ब्रह्मलोकस्थमात्मानममन्यन्त यशोभृतः ॥ ९ ॥ ऊचुस्ते प्रणयाद्वाक्यं वज्रं भूरिसहस्रदम् ॥ यथा त्रेतायुगे राजन् द्वापरे च यथा नृपाः ॥ १० ॥ ब्राह्मणा ब्रह्मकल्पाश्च तथैव सुसमागताः ॥ १० ॥ अस्मिंस्तिष्ये च संप्रति तव राजन् प्रसादतः ॥ राजन् कृष्णसगोत्रोऽसि तेनेयन्ते सभा नृप ! ॥ ११ ॥ उपास्यते महाभागैर्ब्रह्मकल्पैस्तपोधनैः ॥......................न तथा वीर्यनिर्जिता ॥ १२॥ भक्त्या यथा तु तत्त्वेन कृष्णस्यामिततेजसः ॥ तेन कृष्णेन ये चक्रुर्व्यतीताः पूर्वपार्थिवाः ॥ १३ ॥ वर्त्तता तेन कृष्णेन ते राजन् मोक्षमाप्नुयुः ॥ अथ तिष्ययुगः प्राप्तो घोरः परमदारुणः ॥ १४॥ दुर्लभं दर्शनं यत्र नृपसवै महात्मनाम् ॥ १५ ॥ तत्सारवं राजशार्दूल प्रष्टुमहौ द्विजोत्तमान् ॥ वैष्णवान्विविधान्धर्मान्सरहस्यान्ससंग्रहान् ॥ १६॥ इत्येवमुक्तो वज्रस्तैस्त्यक्त्वा सिंहासनं तदा ॥ वज्र तु प्राञ्जलिं दृष्ट्वा सर्व एव नराधिपाः ॥ १७ ॥ वरासनान्युत्थायोशु तस्थुः प्राञ्जलयस्तदा ॥ वज्र उवाच ॥ भवद्भिर्नृपशार्दूलाः प्रार्थिता ये द्विजाः स्थिताः ॥ १८ ॥ अनुग्रहार्थं भूपानां जगतो हितकाम्यया ॥ भवन्तो वक्तुमर्हन्ति विष्णुधर्मान्सना तनान् ॥ १९ ॥ तस्मात्तिष्ययुगे नास्ति भवतो दर्शनं नृपैः ॥ ऋषय ऊचुः ॥ उत्तिष्ठ त्वं महीपाल अलङ्कुरु स्वमांसनम् ॥ २० ॥ श्रवणेपि वयं तस्य विशेषेणार्थिता नृप ॥ वज्र ते संशयान्सर्व्वाञ्छेत्स्यत्येष महामुनिः ॥ २१ ॥ इत्येवमुक्ता वज्रं ते ऋषयस्तपसि स्थिताः ॥ मार्कण्डेयमथोचुस्ते ब्रूहि धर्मान्महीपते ॥ २२ ॥ वैष्णवान्विविधान्धर्मान्मोक्षोकानांमघहारिणः ॥ तथा पार्थिवसंशस्य संशयान् मनसि स्थितान् ॥ २३ ॥ मार्कण्डेय उवाच ॥ ब्रह्मण्यः सत्यवान् धन्यः सर्वयज्ञनिबर्हणः ॥ यद्गत्पृच्छसि मां वज्र तत्तद्वक्ष्याम्यसंशयम् ॥ २४ ॥ सिंहासनस्थो भव भूमिपाल


१ ‘वरगो वत्सनामश्च’ इति बहुपुस्तके। २ ‘बालक्ष’ इति क०। ३—‘मूब्जा’ इति ख०। ४ ‘ऋषिंस्तेव महोद्धतान्’ इति ख०। ५ ‘तदासनम्’ इति ख०।

वि० ध० ॥ २ ॥ प्र० खं० अ० २

भवन्तु सर्वेऽपि तथा महीपाः ॥ सुखोपविष्टोऽसि महीपालैः स्वसंशयान् ब्रूहि यथाप्रकामम् ॥ २५ ॥ इत्येवमुक्तः स यदुप्रधाने भृगुप्रवरेण महर्षिमुख्ये ॥ प्रणम्य विप्रांस्तु जगाम राजा सिंहासनं रत्नसहस्रचित्रम् ॥ २६ ॥ सिंहासनस्थे नृपवर्यमुख्ये सिंहासनस्थाः क्षितिपा प्रधानाः ॥ सर्वे बभूवुः प्रणतास्तथा च शुश्रूषवो ब्राह्मणमुख्यवाक्यम् ॥ २७ ॥ वज्र उवाच ॥ आचक्ष्व मह्यं भृगुवंशचन्द्र समुद्भवं त्वं जगतो यथावत् ॥ शृण्वंति मे ब्राह्मणसंघमुख्या नरेंद्रमुख्याश्च वचस्त्वदीयम् ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कथाप्रस्तावने नाम प्रथमोऽध्यायः ॥ १ ॥

॥ मार्कण्डेय उवाच ॥

॥ नारायणं नमस्कृत्य सर्वभूतपरायणम् ॥ लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ॥ १ ॥ जगतोऽस्य समुत्पत्तिस्थितिनाशनैककारणम् ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ॥ २ ॥ वक्ष्यामि जगतां राजन् समुत्पत्तिं निबोध ताम् ॥ सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ॥ ३ ॥ नारायणोऽस्य जगतः सृष्टिंसंहारपालनम् ॥ करोति जगतांपाल यस्य सर्वमिदं महत् ॥ ४ ॥ वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ॥ अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥ ५ ॥ यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ॥ निमेषस्तु तथा रात्रिरितस्य कल्पं प्रकीर्तितम् ॥ ६ ॥ पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ॥ न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ॥ ७ ॥ न तस्य परिमाणं वा नचादिर्निधनं कुतः ॥ सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ ८ ॥ सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ९ ॥ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ तं च प्राप्य भवन्तीह युक्ताः पुरुषोत्तमाः ॥ १० ॥ सुरातिर्यङ्नृसिद्धानां तत्सात्म्यस्य सम्भवः ॥ तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ॥ ११ ॥ तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥ तस्मात्तेजस्ततश्चापस्तेभ्योऽण्डमभवत्किल ॥ १२ ॥ अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ॥ अङ्गग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥ १३ ॥ ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ॥ शरीरग्रहणं कृत्वा सृजतीदं चराचरम् ॥ १४ ॥ अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥ सप्तलोकान् सप्तपातालान् सप्तद्वीपार्णवां महीम् ॥ १५ ॥ सृष्टिं कृत्वा स भगवान् सात्त्विकीमाश्रितस्तनुम् ॥ अङ्गेऽङ्गे कृशता भूत्वा शेषभोगमयः प्रभुः ॥ १६ ॥ लक्ष्मीसहायो लोकांस्तु सदा पालयते सदा ॥ योगनिद्रां समास्थाय सर्वमन्वन्तराणि सः ॥ १७ ॥ शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ॥ अन्तकाले हरो भूत्वा जगत्संहरते पुनः ॥ १८ ॥ तामसीं तनुमास्थाय लीलयैव महायशाः ॥ रात्रिकाले तु जलमध्यगतां महीम् ॥ १९ ॥ दृष्ट्वोद्धरति यज्ञात्मा वाराहीमाश्रितां तनुम् ॥ ब्राह्मस्य मानं परिपाल्यं च विष्णोर्महात्मनो भवतीह नित्यम् ॥

॥ २ ॥


१ 'यतः' इति क० ख० ।

संहारकाले च हरत्येति त्रैधं विभ्रते स त्रिकालयोगात् ॥ २० ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्ति कथनो नाम द्वितीयोऽध्यायः ॥ २ ॥ मार्कण्डेय उवाच ॥ ब्रह्मरात्र्यां व्यतीतायां विबुद्धे पद्मसंभवे ॥ विष्णुः सिसृक्षुर्भूतानां ज्ञात्वा भूमिं जला- न्तगाम् ॥ १ ॥ जलक्रीडारुचिं शुभं कल्पादिषु यथा पुरा ॥ वाराहमस्थतो रूपमुज्जहार वसुन्धराम् ॥ २ ॥ वेदपाद्यूपदंष्ट्रश्च चतुर्वक्त्रश्चतुर्मुखः ॥ अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ ३ ॥ अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥ आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ ॥ ४॥ धर्मः सत्यमहाः श्रीमान्कर्मविक्रमसत्कृतः ॥ प्रायश्चित्तमयो धीरः प्रांशुजानुर्महाशयः ॥ उद्गात्रंत्रो होमलिङ्गः फलबीजमहौषधिः ॥ ५ ॥ वाय्वन्तरात्मा मन्त्रास्थिर्विकृतः सोमशोणितः ॥ वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ॥ ६ ॥ प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥ दक्षिणाहृदयो योगी महाक्रतुमयो महान् ॥ ७ ॥ उपाकर्मरुचिरः प्रवर्ग्यावर्त्तभूषणः॥ नानापत्निसहायो वै महाशृङ्ग इवोदितम् ॥८॥ महीं सागर- पर्यन्तां सशैलवनकाननाम् ॥ एकाणर्वजलभ्रष्टामेकापर्णकवार्णवतः प्रभुः ॥ ९ ॥ दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ॥ आदिदेवो महायोगी चकार जगतीं पुनः ॥ १० ॥ एवं ज्ञात्वा वराहेण भूत्वा भूतहितार्थिना ॥ उद्धृता पृथिवी देवी जलमध्यगता पुरा ॥ ११ ॥ उद्धृत्य भूमिं सविभुर्म- हात्मा वाराहरूपेण जलान्तरस्थाम् ॥ चक्रे विभागं जगतस्तदानीं यथातथा तच्छृणु राजनृसिंह ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वराहप्रादुर्भावो नाम तृतीयोऽध्यायः ॥ ३ ॥ मार्कण्डेय उवाच ॥ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ॥ प्रथमं तत्प्र- माणानां त्रसरेणुं प्रचक्षते ॥ १ ॥ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥ ता राजसर्षपास्तिस्रस्तावत्यो गौरसर्षपाः ॥ २ ॥ सर्षपाः पञ्च वो मध्ये अङ्गुलं च तदष्टकम् ॥ द्वादशाङ्गुलिकः शङ्कुस्तद्वयं हस्त उच्यते ॥३॥ तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ॥ क्रोशद्वयं च गव्युतिः योजनं तच्चतुष्टयम् ॥ ४ ॥ योजनानां प्रमाणेन वायुतानां शतत्रयम् ॥ अयुतानां च पञ्चाशच्छ्रेष्ठस्थानं मनोहरम् ॥ ५ ॥ स एव लोके वाराहः कथितश्च स्वयं प्रभुः ॥ वाराहरूपी भगवाञ्छत्रहस्त्यधरस्तथा ॥६॥ तत्रास्ते भगवान्विष्णुर्ऋषिभिः सह महात्मभिः ॥ लोकोऽयमुण्डसंलग्नश्छत्राकारः प्रकीर्तितः ॥ ७ ॥ स्वयं प्रसुर्विताजाः सर्वदुःखविवर्जितः ॥ एकान्तभावोपगतास्तं प्रयान्ति हरिं जनाः ॥ ८ ॥ सर्वावस्थादयं लोकः कथितस्ते मनोहरः ॥ तत्योपरिष्टादपरस्तावदेव प्रभाणतः ॥ ९ ॥ कालानिश्रृङ्गोलोकस्तु कथ्यतेऽग्निसमन्वितः ॥ एक एव स तत्रास्ते स्वप्रभाभास्वरा


१ 'पङ्गुजानुः' इति ख० । २ 'प्राग्वंशवर्त्ती' इति ख० । ३ 'तद्देशो' इति ख० ।

वि० ध० प्र० खं० अ० ४

त्मकः ॥ १० ॥ तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ॥ भस्मसात्कुरुते सर्वं यच्चाङ्गं यच्च नेङ्गते ॥ ११ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ पातालनामा पातालः प्रथमः परिकीर्तितः ॥ १२ ॥ योगमायां समास्थाय द्वितीयामास्थितस्तलम् ॥ सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ॥ ॥ १३ ॥ रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ॥ तस्मिन्त्स भगवानास्ते शेषपर्यङ्कमाश्रितः ॥ १४ ॥ नित्यं तालध्वजो वाग्मी वनमालाविभू- षितः ॥ धारयञ्छिरसा नित्यं रत्नांश्चित्रां फणावलीम् ॥ १५ ॥ लाङ्गली मुसली खङ्गी नीलाम्बरविभूषितः ॥ स्तूयमानः स गन्धर्वैर्नागैश्चापि वरेस्तथा ॥ १६ ॥ तातस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ सुतलसंज्ञः पातालः शिलाभासः समन्ततः ॥ १७ ॥ बलिरुतु भगवांस्तत्र बहिस्तिष्ठति संयतः ॥ रम्यं पुरवरं तस्य विष्णुना निर्मितं स्वयम् ॥ १८ ॥ निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ॥ सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत् ॥ १९ ॥ (फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ॥ तत्रास्ते स महाभागः श्रिया परमया युतः॥२०॥ तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ॥) तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा ॥ २१ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ आभासतल इत्येव पातालो नीलवृत्तिकः ॥ २२ ॥ तृतीयः स तु विख्यातः सुरम्यैश्च तिष्ठति ॥ द्विपञ्चवत्तथा तत्र चतस्रश्च तथा स्थिताः ॥ २३ ॥ सुभद्रा बहिरूपा च विश्वरूपा तथैव च ॥ रोहिणी च महाभागा याभिर्धृतमिदं जगत् ॥ २४ ॥ तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ॥ पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोहरम् ॥ ॥ २५ ॥ यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगास्तथा ॥ अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप ॥ २६ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ पीतभौमश्चतुर्थस्तु गभस्तिमत्तलसंज्ञितः ॥ २७ ॥ तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ॥ शशांकशतसंकाशः शातकौंभविभूषणः ॥ २८ ॥ पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ॥ (प्रह्लादस्यासुरेन्द्रस्य वाष्फलेश्च महात्मनः) ॥ २९ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ महा- तलेति विख्यातो रक्तभौमस्तु पञ्चमः ॥ ३० ॥ सरोवरं तस्य मध्ये योजनानां दशाश्रुतम् ॥ जंगमाजंगमैः सर्वैर्जलजैश्च विवर्जितम् ॥ ३१ ॥ तत्राङ्गेण वसति कूर्मरूपधरो हरिः ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ ३२ ॥ षष्ठश्चैव महाराज नाम्ना भीमबलस्तु सः ॥ तत्रापि सरसी दिव्या योजनानां शतं गता ॥ तस्यां च वसते देवो मत्स्यरूपधरो हरिः ॥ ३३ ॥ सप्तमः कृष्णभौमस्तु नाम्ना भीमबलस्तु सः ॥ तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः ॥ ३४ ॥ तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ॥ तथा दानववीराणां नगराणि पृथक्पृथक् ॥३५ ॥

॥ ३ ॥


१ कोष्ठकान्तर्गतः पाठः ख पुस्तके नास्ति । २ कोष्ठान्तर्गतः पाठो नास्ति ख पुस्तके । ३ 'महातेजेति' इति ख० । ४ 'योजनं दशसंख्यया' इति ख० ।

विरोचनस्य कुम्भस्य निकुम्भस्य हरस्य च ॥ शम्बरस्य करालस्य हयस्य च ॥ ३६ ॥ हयग्रीवस्य सुन्दस्य घस्रस्य प्रथसस्य च ॥ बलेः पुरवरं चात्र योगीशस्त्य तथापरम् ॥ ३७॥ यत्रस्थमेनं दृष्ट्वानं रावणो लोकरावणः ॥ तथा पुरवरं तत्र विष्णोरमिततेजसः ॥३८॥ लक्ष्मीसहाया यत्रास्ते चांग्राम्बरसंवृतः ॥ तिस्रः कोट्यस्तु यत्रास्य भक्तानां सुमहात्मनाम् ॥ ३९ ॥ शङ्खचक्रगदापद्मधारिणां पीतवाससाम् ॥४०॥ नीलोत्पल सवर्णानां विष्णोः सदृशतेजसाम् ॥ विष्णोः सुतानां हृद्यानां सततं भूरिवर्चसाम् ॥ ४१ ॥ तत्रस्थो दृष्टवान् देवो पौलस्त्यो रावणः पुरा ॥ पुरीं भोगवतीं तत्र तथा वासुकिकालिता ॥ ४२ ॥ नागानां च पुराण्यत्र तथैव च पृथक्पृथक् ॥ पद्मस्य धृतराष्ट्रस्य विरक्तस्य कुरोस्तथा ॥ ४३ ॥ तक्षकस्यैलपत्रस्य तथा कर्कोटकस्य च ॥ धनञ्जयस्य शङ्खस्य तथैवाश्वतरस्य च ॥ ४४ ॥ कण्डलस्य मुरालस्य सुमुखस्य गयस्य च ॥ दिशां गजानां च तथा तत्र स्थानं पृथक्पृथक् ॥ ४५ ॥ येषां स्कंधगता भूमिः सशैलवनकानना ॥ विरूपाक्षस्य नागस्य महापद्मस्य चाप्यथ ॥ ४६ ॥ तथा सुमनसश्चात्र रुद्रस्य च महात्मनः ॥ पञ्चायुतपरीमाणा भूमिः सर्वेषु पार्थिव ॥ ४७ ॥ पातालेषु विनिर्दिष्टा पठितान्तरवर्तिनी ॥ अण्डस्यार्द्धमिदं प्रोक्तमधस्तात्तु प्रमाणतः ॥ ४८ ॥ तिस्रः कोट्यस्तु राजेन्द्र नियुतानि तथा दश ॥ पञ्चान्यानि महीपाल भूमि पृष्ट्या महानच ॥ ४९ ॥ पञ्चायुतपरीमाणाः पृथिव्यैः प्रकीर्तिता ॥ भूमेरथोपरिष्टाच्च अण्डस्यार्धमथापरम् ॥ एतावदेव निर्दिष्टा भूमिपाल प्रमाणतः ॥ ५० ॥ चन्द्रार्कभासा रहितं नूवारं स्वयं प्रभेदं कथितं मयैतत् ॥ पातालपूर्वं विविधं सुगम्यं शृणुष्व लोकान् गदतोममान्या न् ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पातालवर्णनो नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ मार्कण्डेय उवाच ॥ भूर्लोकः प्रथमो राजञ्शृणुष्व गदतो मम ॥ पातालेन तु तुल्यमूर्ध्वतः परिकीर्तितः ॥ १ ॥ वायुकक्षा विनिर्दिष्टास्ते तु सप्त महात्मभिः ॥ एकैकं नियुताः पंच योजनानां प्रकीर्तितम् ॥ २ ॥ पशवः पक्षिणः कीटा मनुष्याः किन्नरास्तथा ॥ यक्षराक्षसगन्धर्वाः पिशाचा भूमिगोचराः ॥३॥ सर्वे एते विनिर्दिष्टा अन्नादा भूमिगोचराः ॥ विद्याधराणां प्रथमं वायुमार्गः प्रकीर्तितः ॥ ४ ॥ द्वितीयः सिद्धविद्यानां तृतीयस्तु गरुत्मताम् ॥ चतुर्थो वायुमार्गेस्तु गन्धर्वाणां प्रकीर्तितः ॥ ५ ॥ विनायकाः पञ्चमगा षष्ठे च करिणी गणाः ॥ येषां शिकिरतोयेन चावस्थायः प्रकीर्तितः ॥ ६ ॥ सप्तमे च महाभाग सिद्धास्तिष्ठंति यादव ॥ तस्योपरिष्टादपरस्तावदेव प्रमाणतः॥७॥ भुवर्लोक इति ख्यातो यत्र तिष्ठंति देवताः ॥ मन्वन्तराधिका


१--'स्तोत्रं' इति ख० ।

वि० भू० ॥ ४ ॥ प्र० सं० अ० ५

रेषु ये भविष्या महीपते ॥ ८ ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ स्वर्लोके वसतिस्तत्र प्रायशः पुण्यकर्मणाम् ॥ ९ ॥ सोमपानां च देवानां
शक्रादीनां महीपते ॥ महर्लोकस्थितिस्त्वियं देवतानां महात्मनाम् ॥ १० ॥ विनिवृत्ताधिकाराणां सिद्धानां नृपसत्तम ॥ तस्योपरिधिरप्यस्तावदेव
प्रमाणतः ॥ ११ ॥ जनलोकः स्थितिश्चियं गवां पार्थिवसत्तम ॥ तिष्ठन्ति ब्रह्मणो रात्र्यां यत्र जीवाः समन्ततः ॥ १२ ॥ तस्योपरिधिरप्यस्तावदेव
प्रमाणतः ॥ तपोलोकः स्थितिश्चियं प्राणेशानां महात्मनाम् ॥ १३ ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ सत्यलोकः स्थितिरियं ब्रह्मणः
परमेष्ठिनः ॥ १४ ॥ इत्येते कथिताः सप्त तव लोका महात्मनाम् ॥ एतावानेव सवितुर्विवरन्ति मरीचयः ॥ १५ ॥ एतेषु लोकसंज्ञाक्ता
तस्मादेव मनीषिभिः ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ १६ ॥ स्थानं रुद्रस्य कथितं रुद्रतेजोविराजितम् ॥ ब्रह्मलोकोपरिह्याशु
रुद्रलोको महत्तमः ॥ १७ ॥ योजनानां सहस्राणि पञ्चभिश्चिनिर्बिडं मतम् ॥ आदित्यमन्दिरं प्रोक्तं यदेतद्दिवि दृश्यते ॥ १८ ॥ यदेतद्दृश्यते नीलं
तमस्तत्पृथिवीपते ॥ तमसस्तु परं पारे रुद्रलोकः स्वयं प्रभो ॥ १९ ॥ रुद्रत्वं समनुप्राप्तस्तत्र भक्तैर्महानहम् ॥ क्रीडन्नास्ते महादेवः सपत्नीको
वृषध्वजः ॥ २० ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ अगम्यस्सर्वदेवानां विष्णुलोकः प्रकीर्त्तितः ॥ २१ ॥ तस्योपरिगदाह्लाण्डः
काञ्चनो दीप्तिसंयुतः ॥ भुवर्लोके तु वसतिर्वामनस्य महात्मनः ॥ २२ ॥ स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ॥ नृवराहस्य वसतिर्मह
र्लोके प्रकीर्त्तिता ॥ २३ ॥ नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ॥ त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्त्तिता ॥ २४ ॥ लोकाः सन्तानका
नाम सत्यलोके प्रकीर्त्तिताः ॥ एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥ २५ ॥ तपसा महता राजन भक्ताश्च मततं प्रभुम् ॥ रुद्रस्थानोपारिह्याद्यु
विष्णोः स्थानं मयोदितम् ॥ २६ ॥ न कश्चिद्देवं शक्नोति द्रष्टुं देववरं हरिम् ॥ न तत्र सूर्यस्तपति चन्द्रमा न विराजते ॥ २७ ॥ तेजसा तस्य
देवस्य स तु देशो विराजते ॥ तस्योपरिह्याण्डामध्य यावदन्तं महीपते ॥ २८ ॥ प्रोक्तं वाङ्मनसान्यत्य तत्र मानं निबोध मे ॥ योजनानां च
षट्कोट्यास्त्रिंशच्च नियुतान्यथ ॥ २९ ॥ एतावच्चैवं भूतानां वसतिः परिकीर्त्तिता ॥ एतावदेव चन्द्रम्य तलमुक्तं ममंत्रतः ॥ ३० ॥ एतुषु देवं
पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥ तपसा महता राजन भक्ताश्च मततं प्रभुम् ॥ ३१ ॥ बाह्येतोऽण्डं दशगुणं त्विद्भिन्नु परिवाग्निम् ॥ आपो
दशगुणेनैव बाह्यतस्तेजसा वृताः ॥ ३२ ॥ तेजोगुणेनैव वायुतः पवेनंतं च ॥ वायुर्दशगुणेनैव गगनंत तथायुतः ॥ ३३ ॥ आकाशं च दशग्रनं


१- 'एतावदेव' इति ख० ।

॥ ४ ॥

मनसा बाह्यतो वृत्तम् ॥ मनश्च बुद्ध्या सकलं वृत्तं राजन् दशैश्चया ॥ ३४ ॥ आत्मना चावृता बुद्धिर्दशभिश्च समन्ततः ॥ अन्यैस्तेन तथैवात्मा दशभैरेव चावृतः ॥ ३५॥ अव्यक्तः पुरुषेणायं त्वनन्तेनावृतोऽनघः॥ एवं विधाना मण्डानामानन्त्यं कः पुरुषोत्तमः ॥ ३६॥ तिर्यगूर्ध्वमधः संख्या वक्तुं राजन्न शक्यते ॥ अनन्तत्वात्प्रधानस्य पुरुषस्य महात्मनः ॥३७॥ एकरूपास्तथैवाण्डाः सर्वे एव नराधिप ॥ तुल्यदेशविभागाश्चं तुल्यजन्तव एव च ॥३८॥ देशेदेशे समाना ये अण्डेषु नृपसत्तम ॥ सुखदुःख समा तेषां जीवितं मरणं तथा ॥३९॥ सर्वाण्डानां समा ज्ञेया कालसंख्या नराधिप ॥ पौरुषस्य दिनस्यान्ते सर्वे ह्यण्डनिवासिनः ॥ ४० ॥ एकोऽप्यनन्तो राजेन्द्र नान्तरेव प्रकीर्तितः ॥ अयं मयोक्तो नृप सन्निवेशः संक्षेपमात्रेण चराचरस्य ॥ व्यासेन चैवं परिकीर्त्यमानः समाप्यते नैव कदाचिदेव ॥ ४१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे लोकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

॥ वज्र उवाच ॥ भूमण्डलस्य कृत्स्नस्य संस्थानेन च भार्गव ॥ वद प्रमाणं कृत्स्नं तत्तत्र मे संशयो महान् ॥ १॥

मार्कण्डेय उवाच ॥ भूमण्डलस्य राजेन्द्र मध्ये मेरुर्महागिरिः ॥ योजनानां सहस्राणि तस्य मध्ये समन्ततः ॥२॥ जम्बूद्वीपस्तु पश्चात्तत्प्रमाणेन प्रकीर्तितः ॥ योजनानां तु नियुतं तस्य पारं महीपते ॥ ३ ॥ लवणेन समुद्रेण तेनाऽसौ परिवेष्टितः ॥ लवणाद्द्विगुणेनापि शाकद्वीपेन लावणः ॥४॥ वेष्टितश्च महाराज शाकद्वीपो न संशयः ॥ क्षीरोदेन स्वतुल्येन क्षीरोदोऽपि च वेष्टितः ॥ ५ ॥ क्षीरोदाद्द्विगुणेनापि कुशद्वीपेन योजनैः ॥ आज्योदेन कुशद्वीपः स्वतुल्येन च वेष्टितः ॥ ६॥ क्रौञ्चद्वीपेन चाज्योदो द्विगुणेन च वेष्टितः ॥ क्रौञ्चद्वीपः स्वतुल्येन दधिमण्डोदकेन च ॥ ७॥ द्वीपेन शाल्मलेनाथ द्विगुणेन च वेष्टितः ॥ सुरोदो द्विगुणेनाथ गोमेदेन च वेष्टितः ॥ ८ ॥ पुष्करद्वीपमध्ये तु द्वीपसंस्थानमण्डपः ॥ पर्वतः सुमहालोके विख्यातो मानसोत्तरः ॥ ९ ॥ नियुताधं योजनानां प्रमाणेन प्रकीर्तितः ॥ नानाप्रकारशिखरास्तत्रावेद्य समुच्छ्रितः ॥ १० ॥ मेरोस्तु पूर्वदिग्भागे मानसोत्तरमूर्धनि ॥ पुरी शक्रस्य विख्याता नामतस्त्वमरावती ॥ ११ ॥ पूर्वदक्षिणदिग्भागे तथा वन्हेः प्रभावती ॥ यमस्य दक्षिणे भागे नाम्ना संयमनी पुरी ॥ १२ ॥ विरूपाक्षस्य विक्रान्ता भागे दक्षिणपश्चिमे ॥ पश्चिमे च तथा भागे वरुणस्य सुखप्रभा ॥ १३ ॥ शिवा नाम पुरी वायोर्भागे वै पश्चिमोत्तरे ॥ विभावरी सोमपुरी उत्तरेण प्रकीर्तिता ॥ १४ ॥ शर्मदा च पुरी शैवे भागे पूर्वोत्तरे स्मृता ॥ पुष्करश्च स्वतुल्येन वृतः स्वादूदकेन च ॥ १५ ॥ स्वादूदकात्परं क्षोणी कार्त्तस्वरमयी शुभा ॥ योजनानां प्रमाणेन सहस्राणि तु विंशतिः ॥ १६ ॥


१ 'मन्ततः' इति ख० ।
२ 'तुल्यदेशो विभागाश्च' इति ख० ।

प्र० खं०
अ० ६

वि० ध०
॥५॥

दश चान्यानि राजेन्द्र पञ्च पञ्च प्रकीर्तिताः ॥ समन्ततस्तरत्नशिला देवोद्याने मही शुभा ॥ १७ ॥ स्थितस्ततां परिधाय्यौँ लोकालोको महीधरः ॥
अयुतं योजनानां तु विस्तरेणोच्छ्रयेण च ॥ १८ ॥ लोकालोके महीपाल लोकपालास्त्वमी स्मृताः ॥ प्राच्यादिषु महावीर्याः कल्पस्थायिन
एव ते ॥ १९ ॥ सुदामा शेषपादश्च केतुमान्सुमहाबलः ॥ हिरण्योरोमा च तथा विज्ञेयाश्च दिगीश्वराः ॥ २० ॥ अर्वाक्तस्य महीध्रस्य चन्द्रार्क
ग्रहतारकाः ॥ प्रपतन्ति महाराज न तु पारे कदाचन ॥ २१ ॥ दृषोदकसमुद्रस्तु लोकालोकं समन्ततः ॥ परिवार्थ स्थितो राजन्रन्ध्रकारे महा
र्णवः ॥ २२ ॥ एकषष्टिप्रमाणेन नियुतानि समन्ततः ॥ तस्य पारे ततो राजन्ब्रह्माण्डस्तु समन्ततः ॥ २३ ॥ ऊर्द्धनाधश्च विष्कम्भो यावान
ण्डस्य कीर्तितः ॥ तावदेव प्रमाणेन तिर्यक्षु परिवार्तिः ॥ २४ ॥ मेरुमध्यात्समुद्रस्य पारं गर्भोदकस्य तु ॥ कोटित्रयं योजनानां नियुतानि
तथा दश ॥ २५ ॥ पञ्चान्यानि च राजेन्द्र प्रमाणं परिकीर्तितम् ॥ तस्य राज... ब्रह्माण्डस्तु समन्ततः ॥ २६ ॥......तदधश्च द्वितीयस्य
महीपते ॥ एतदेव तु निर्दिष्टं प्रमाणं तत्त्वचिन्तकैः ॥ २७ ॥ मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः ॥ विष्णोलोको महान्प्रोक्तः सलिलान्तर
संस्थितम्॥२८॥स्वभासयात्र देवस्य सततं नृप राजितम् ॥ तत्र स्वपिति धर्मान्ते देवदेवो जनार्दनः ॥ २९ ॥ लक्ष्म्यासहायः सततं शेषपर्यङ्क
माश्रितः ॥ एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् ॥ ३० ॥ देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥ अभिद्रवन्ति ते गत्वा सततं दिनपञ्च
कम् ॥ ३१॥ उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम् ॥ ततस्तु चतुरो मासान् योगनिद्रासुपासते ॥३२॥ सुतं च तमुपासते ऋषयो ब्रह्मसप्रमताः ॥
सप्तर्षिगण शर्वाणि भक्तास्ते देवमानवाः ॥३३॥ कार्तिकस्य सिते पक्षे तदेव दिनपञ्चकम् ॥ विवोधयन्ति देवशं गत्वा सेन्द्रा दिवौकसः ॥३४॥
देवास्तथैव कुर्वन्ति तदापि च महोत्सवम् ॥मेरोस्तु पूर्वदिग्भागे मध्ये क्षीरार्णवस्य तु ॥३५॥ शृंगारमुख्येण शुभा देवस्यान्या तथा पुरी ॥ लक्ष्मी
सहायस्तत्रास्ते शेषपासनगतः प्रभुः ॥३६॥ तत्रापि चतुरो मासान् सुतस्तिष्ठति वापिकान् ॥ अन्ते च केवलंस्तत्र दृश्यते शाश्वतः प्रभुः ॥ ३७ ॥
तस्मिंस्तथैव दिग्भागे मध्ये क्षीरार्णवस्य तु ॥ योजनानां सहस्राणि मण्डलः पश्चविंशतिः ॥ ३८॥ श्वेतद्वीपंनु विख्यातो द्वीपः परमशोभनः ॥
नराः सूर्य्यप्रभास्तत्र शीतांशसमदर्शनाः ॥३९॥ तेजसा दुर्निरीक्ष्याश्च देवानामापि यादव ॥ पञ्चकालविधानज्ञाः पूजयन्ति जनार्दनम् ॥ ४० ॥
पूजां तेषां शिरसा स तु देवः प्रयच्छति ॥ दृष्ट्वैश्च कृतां पूजां पादक्षै प्रयच्छति ॥४१॥ एकाल्नाभावपगतामन्त्र यान्ति हरिं नगः ॥ तत्र गत्वा ॥ ५ ॥

---
१ 'महद्रस्य' इति क० । २ 'गर्भोदकसमुद्रस्तु' इति ख० । ३ 'नेत्रवार' इति ख० । ४ 'नेयापि च' इति क० ३ 'सर्वेश' इति कः । ६ 'पङ्कज' इति क० ।

नशोचन्ति निवर्तन्तेन चाप्यथ॥४२॥ पूजयित्वा चिरं कालं देवदेवं जनार्दनम् ॥ आदित्यमण्डलं भित्त्वा ब्रह्माणं प्रविशन्ति ते ॥४३ ॥ ततो निरुद्धं देवेशं प्रद्युम्नं चाप्यनन्तरम् ॥ ततः संकर्षणं देवं वासुदेवं ततः परम् ॥ ४४ ॥ वासुदेवं च संप्राप्य मुच्यन्ते सर्ववन्धनैः ॥ श्वेतद्वीपगता स्तस्मान्न निवर्तन्ति कर्हिचित् ॥४५ ॥ पूर्वोत्तरे तु दिग्भागे मध्ये क्षीराणवस्य तु ॥ वैजयन्त इति ख्यातः पर्वतः सर्वकाञ्चनः ॥ ४६ ॥ योजनानां सहस्राणि प्रमाणेन दश स्मृतः ॥ आयामाद्विस्तरोच्छ्रायैः प्रमाणं तस्य कीर्तितम् ॥४७॥ योजनानां सहस्राणि पञ्च तस्य गुहा स्मृता ॥ उच्छ्रिता योजनशतं तावदेव च विस्तृता ॥ ४८ ॥ तिमिरेणावृता द्वारि योजनानां तथा शतम् ॥ स्वप्रभाभरणा दिव्या ततः परतरं हि सा ॥ ४९ ॥ नाम्ना च लोके विख्याता ऋषिभिस्तिमिरार्वती ॥ तस्यां देववरो विष्णुः स्वपन्नास्ते जनार्दनः ॥५०॥ तत्रैवानुपतिष्ठन्ति दिव्यस्तिस्रो महीपते ॥ निद्रा च कालरात्रिश्च लक्ष्मीश्च वरवर्णिनी ॥५१॥ उपास्ते च तं देवं भुवाद्या परमर्षयः ॥ शरीरधारिभिश्चास्त्रैस्तथा तत्र च सेव्यते ॥५२॥ तस्य सुप्तस्य वदनान्निश्वासोच्छासतः क्रमात् ॥ प्रजानां पङ्कयो ह्यर्त्तिनिपतन्ति पतन्ति च ॥ ५३ ॥ तस्योच्छासञ्च जन्तूनां सम्भवः कथितो नृप ! ॥ निःश्वासतश्चैव तथा जन्तूनां मरणं स्मृतम् ॥ ५४ ॥ मध्ये वृत्तस्त्वम्बुदस्य मेरोः पश्चिमतस्तथा ॥ योजनानां तु नियुतं द्वीपस्तु परिमण्डलः॥५५॥ तत्र गोवर्धनस्योक्ता वसतिः सुमहात्मनः ॥ दिव्यानां तत्र धेनूनां वसतिश्च तथा स्मृता ॥ ५६ ॥ सततं कामरूपेण भामिः स रमते हरिः ॥ मध्ये दधिसमुद्रस्य द्वीपस्तावत्प्रमाणतः ॥ ५७ ॥ हेमरूपधरो यत्र नित्यं वसति केशवः ॥ तत्रस्थमेनं पश्यन्ति ऋषयो भूरितेजसः ॥ ५८ ॥ सुरासमुद्रमध्ये तु द्वीपः परमावृतस्ततः ॥ तत्र संकर्षणो देवो विभुश्चास्ते सुराऽसुराः ॥ ५९ ॥ उपतिष्ठन्ति तत्रैनं दिव्यस्त्रीस्तत्र मनोरमाः ॥ कान्तिश्च मदिरा चैव तथा देवी करीषिणी ॥६०॥ तत्रस्थमेनं पश्यन्ति प्रजानां पतयः सदा ॥ दृष्यामण्डलं कृत्स्नमिदं तवोक्तं क्ष्मापालवृन्दारकपूरणचन्द्र ॥ समासतो व्यासगिरामशक्यं वक्तुं महेन्द्रोपि न वर्षपूगैः ॥ ६१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वीपविभागवर्णनो नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥वज्र उवाच ॥ जम्बूद्वीपस्य संस्थानं विस्तरेण महामुने ! ॥ त्वत्तोहं श्रोतुमिच्छामि यत्र जातोऽसि भार्गव ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ अवगाढावुभयतस्समुद्रौ पूर्वपश्चिमौ ॥ जम्बूद्वीपे महाराज ! षडिमे कुलपर्वताः ॥ २ ॥ हिमवान्हेमकूटश्च निषधो नील एव च ॥ मेरुश्च शृंगवांश्चैव सर्व रत्नाकशः शुभाः ॥ ३ ॥ मध्ये तु मण्डलः शैलो नीलस्य निषधस्य च ॥ सौवर्णः कथ्यते मेरुः प्रमाणं तस्य मे शृणु ॥ ४ ॥ चतुरशीतिसाहस्रैः कथिताश्चोच्छ्रयेण च ॥ अधस्तात्षोडशैवोधः षोडशैव तु विस्तृतः ॥ ५ ॥ विस्तारो द्विगुणश्चास्य मूलभूमौ

बि० ध० ॥ ६॥

प्र० सं० अ० ७

मण्डलः स्मृतः ॥ वृन्दपुष्पनिभश्चोर्ध्वं द्वात्रिंशच्चैव विस्तृतः ॥ ६ ॥ विस्तारो द्विगुणश्चास्य तत्राप्यधिकविधिः स्मृतः ॥ मेरोस्तु नवतिः प्रोक्तः सहस्रः पूर्वतो गिरिः ॥ ७॥ योजनानां सहस्रं तु माल्यवान् नाम नामतः ॥ आनीलं निषधं यावत्पार्श्वेन तु तावता ॥ ८ ॥ तावत्प्रमाणो निर्दिष्टः पूर्वतो गन्धमादनः ॥ मेरोस्त्ववततः श्वेतः पूर्वतोऽनन्त उच्यते ॥ ९ ॥ दक्षिणे च तथा पीतः कृष्णः पश्चिमस्तः स्मृतः ॥ अन्तेण स्मृतो विप्रः पूर्वतः क्षत्रियः स्मृतः ॥ १० ॥ दक्षिणेन तथा वैश्यः शूद्रः पश्चिमस्तः स्मृतः ॥ तस्माद्दूर्ध्वा विप्राणां प्राची स्यात्क्षत्रजन्मन ।म् ॥ ११ ॥ दक्षिणा वैश्यजातीनां शूद्राणां पश्चिमा स्मृता ॥ प्राच्यां महेन्द्रस्य पुरी मेरुपृष्ठेऽमरावती ॥ १२ ॥ वह्नेः प्रदक्षिणेनोक्ता पुरी नाम्ना प्रभावती ॥ यमस्य दक्षिणेनोक्ता नाम्ना संयमनी पुरी ॥ १३ ॥ प्रोक्ता वै नैर्ऋतौ भागे पुरी पश्चिमदक्षिणे ॥ पश्चिमेन तथा रम्या सुखदा वरुणस्य च ॥ १४ ॥ अनन्तरं शिवा नाम पुरी वायोः प्रकीर्तिता ॥ उत्तरेण पुरी रम्या सोमस्योक्ता विभावरी ॥ १५ ॥ अनन्तरं शिवस्योक्ता नगरी शार्ङ्गी शिवा ॥ मेरुपृष्ठे यथा देवाः संश्रितास्तु यथादिशम् ॥ १६ ॥ विज्ञेयास्ते तु दिक्पालास्तत्संस्थायौ तथा दिशि ॥ देवः स्वर्गे नगरी नित्यं मानसोत्तरमूर्द्ध नि ॥ १७ ॥ मेरुन्तु पश्यति विमुखास्तस्यो मेरुगतां पुरीम् ॥ उदक्‌शुक्लवतोऽधं तु याम्येन कुरुसंज्ञितम् ॥ १८ ॥ वर्षन्तु कथितं दिव्यं गवांपद‌व वर्जितम् ॥ शुक्लवच्छृंगयोर्मध्ये वर्ष ज्ञेयं हिरण्मयम् ॥ १९ ॥ रम्यन्तु वर्ष विझेयं मध्यतः श्वेतनीलयोः ॥ मध्ये निषधनीलायां पश्चाद्वै गन्ध मादनः ॥ २० ॥ केतुमालः स्मृतो वर्षस्त्वतीव सुमनोहरः ॥ मध्ये निषधनीलाभ्यां पूर्वे माल्यवतो गिरेः ॥ २१॥ वर्षे भद्राश्वो नाम नित्यं मुदित मानवः ॥ मेरोश्चतुर्दश नाम्रा वर्षो गजलिलावृतः ॥ २२ ॥ तस्यापि भद्रश्वक्षणे नामतन्तान्निवोध मे ॥ भद्राश्वो जम्बूमालश्च केतुमालुकुव स्तथा ॥ २३ ॥ जम्बूवृक्षस्तु विख्यातो जम्बूमाले तु यादव ! ॥ योजनानां सहस्रं तु तत्पूर्वं तस्य कीर्तितम् ॥ २४ ॥ तत्फलभ्यः प्रभवति रम्या जांबूनदी शुभा ॥ मेरोः प्रदक्षिणं कृत्वा स्वमुखे मा च नश्यति ॥ २५॥ वृक्षोजन तनदं जम्बूद्वीपं प्रचक्षते ॥ इलावृतन्तु प्रभया मेरो र्नित्यं प्रकाशते ॥ २६ ॥ न तत्र भ्राजते सूर्यो न चन्द्रो न च तारकाः ॥ मेरोः शगवसंमध्यान्नित्यमेव तिरोहितः ॥ २७॥ हेमकूटादुत्तरतो हरिवर्षं प्रचक्षते ॥ हेमकूटाद्दक्षिणतस्तथा किंपुरुषं स्मृतम् ॥ २८ ॥ हिमाचलाद्दक्षिणतो वर्षं यादव भारतम् ॥ कर्मभूमिरिहोपाल यत्र वर्तमिहे वयम् ॥ २९॥ भारतोऽस्मिन्युगाख्या क्रमेवन विनिर्मिता ॥ वर्षे तु चाय संस्थाने विज्ञेयं दक्षिणात्तरं ॥ ३० ॥ वर्षत्रयं तु


१ 'पद्ममाल्या' इति क० ।

॥ ६॥