किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
| ६६ | किरातार्जुनीयम् | [ तृतीयः |
|---|
कोषः—'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृद' इत्यमरः। 'पुरः स्यात्पुरतोऽग्रत' इत्यमरः। 'पुरोधास्तु पुरोहित' इत्यमरः। 'गात्रं वपुः संहननं शरीरं वर्ष्म विग्रह' इत्यमरः। 'हिंसाकर्माभिचारः स्याद्' इत्यमरः। 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः ॥ ५६ ॥
**सारार्थः—**द्रौपदीवाक्यश्रवणोत्तेजितस्तथा, यथाऽग्रे विद्यमाना एव वैरिणो वर्त्तन्ते। तेन हेतुना धौम्येन तत्समीपं समन्त्रप्रयोगपूर्वकाणि शस्त्राणि निवेश्य गतम्। तदानीं प्रकृत्या रमणीयोऽप्यर्जुनो दर्शकानां भयङ्करो जातः। यथा मरणादिक्रियायां प्रयुक्तो मन्त्रो भाति; तद्वदिति ॥ ५६ ॥
**भाषार्थः—**बाद उसके आगे (सामने) शत्रुओं के देखते हुए के ऐसे और पुरोहित से रख दिया गया है हथियारों का समूह जिसके आगे, अर्जुन सुन्दर रहने पर भी उस समय जैसे मारण आदि कर्मों का मन्त्र हो, वैसे भयङ्कर वेष को धारण किये ॥ ५६ ॥
उक्तमायुधारोपणं विवृण्वन्प्रस्थानमाह त्रिभिः—
अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् ।
अगतावरिष्टष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ ५७ ॥
अविलङ्घ्येति। परैः शत्रुभिरविलङ्घ्यमनतिक्रमणीयं विकर्षणं यस्य तत्। अमोघामर्षंमित्यर्थः। किञ्च प्रथितो ज्यारवो गुणध्वनिः कर्म बाणमोक्षणादिकं च यस्य तत्कार्मुकं चोद्वहन्नित्यन्वयः। तथाऽरीणां दृष्टिगोचरं दृष्टिपथमगतौ आहवेष्वनिवर्त्तित्वादस्येति भावः। निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः। डप्रत्यये सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यानात्समासान्तः। तेन शितेन तीक्ष्णेन युक्त इति शितनिस्त्रिंशयुजौ। 'सत्सूद्विष—' इत्यादिना क्विप्। महेषुधी महानिषङ्गौ। इषवो धीयन्तेऽनयोरिति विग्रहः। 'कर्मण्यधिकरणे च' इति किप्प्रत्ययः। 'तूणोः पासङ्गतूणीरनिषङ्गो इषुधिर्द्वयोः। तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिदिष्टयः'। इत्यमरः ॥ ५७ ॥
**अन्वयः—**परैः, अविलङ्घ्यविकर्षणं, प्रथितज्यारवकर्म, कार्मुकम्, अरिदृष्टिगोचरम्, अगतौ, शितनिस्त्रिंशयुजौ, महेषुधी, (उद्वहन्, तपोभृतां हृदयानि समाविवेश, इति ५९ तमश्लोकेन सम्बन्धः) ॥ ५७ ॥
**व्याख्या—**परैः = अन्यैः, शत्रुभिश्, अविलङ्घ्यविकर्षणम् = अनतिक्रमणीयाकर्षणम्, प्रथितज्यारवकर्म = सुविदितमौर्वीशब्दविक्रमम्, एवम्भूतं कार्मुकं = धनुः, गाण्डीवसंज्ञमिति यावत्। तथा च, अरिदृष्टिगोचरं = शत्रुनयनपथम्, अगतौ = अप्राप्तौ, शितनिस्त्रिंशयुजौ = तीक्ष्णखड्गयुक्तौ, महेषुधी = महातूणीरौ, उद्वहंस्तपोभृतां हृदयानि समाविवेश—इति शेषः ॥ ५७ ॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६७
समासः— न विलङ्घ्यम् अविलङ्घ्यं विकर्षणं यस्य तत् अविलङ्घ्यविकर्षणं, रवश्च कर्म च रवकर्मणी, ज्याया रवकर्मणी, ज्यारवकर्मणी प्रथिते ज्यारवकर्मणी यस्य तत् प्रथितज्यारवकर्म । अरीणां दृष्टयोऽरिदृष्टयस्तासां गोचर इत्यरिदृष्टिगोचरस्तन्नरिदृष्टिगोचरम् । शितश्च निस्त्रिंशः शितनिस्त्रिंशः, तेन युक्ताविति शितनिस्त्रिंशयुजौ । इषवो बाणा धीयन्ते ययोस्तौ इषुधी महान्ताविवुषी महेषुधी ॥ ५७ ॥
व्याकरणम्— कार्मुकं = कर्मन् + उकञ् । अगतौ = नञ् + गम् + क्तः ॥ ५७ ॥
वाच्यान्तरम्— यथावदेव ॥ ५७ ॥
कोषः— ‘मौर्वी-ज्या-शिञ्जिनी-गुण’ इत्यमरः । ‘शब्दे निनाद-निनद-ध्वनि-ध्वान-रव स्वना’ इत्यमरः । ‘धनुष्प्रपौ धन्वशरासनकोदण्डकार्मुकम्’ इत्यमरः । रिपौ वैरिसपलारिद्विषद्वेषणदुहृर्द’ इत्यमरः । ‘दृग्दृगौ लोचनं नेत्रमीक्षणं चक्षुरक्षिणी’ इत्यमरः । खड्गे तु निस्त्रिंशश्चन्द्रहासासिरिष्टय’ इत्यमरः । तूणोपासङ्ग-तूणीरनिषङ्गा इषुधिद्वयोः’ इत्यमरः ॥ ५७ ॥
सारार्थः— यस्याकर्षणं न कदाऽपि शत्रुभिस्तिरस्कृतमर्याद्यस्मिन्नाकृष्टे शत्रवः शमनभवनातिथयः सम्पन्ना एवं गाण्डीवसंज्ञं धनुः । तथा च तीक्ष्णकरवालयुक्तौ तूणीरौ च वहन्नर्जुनो ‘वने आः कोऽयं वीरोऽत्र किमर्थमासः, अहह ! किमस्य कष्टमापतितं येन प्रायस्तपोभूमौ सुकुमारकलेवरोऽपि तपः कर्तुमागतः’ एवं साश्रुनयनं मिथो वदतां मनः प्रवेशं कृतवान् ॥ ५७ ॥
भाषार्थः— शत्रुओं से नहीं आक्रमण किया हुआ है चढ़ाना जिसका, और जगद्विदित है ताँत का शब्द और काम जिसका, ऐसे गाण्डीव नाम के धनुष को और बैरियों की आँख के सामने नहीं पड़ा है जो, ऐसे तेज (नोकीले) बाण से युक्त तर्कश को धारण किये अर्जुन उस बन में कुछ देरतक योगियों के दिल में पैठे ॥
यशसेव तिरोदधन्मुहुर्महसा गोत्रभिदायुधक्षतीः ।
कवचं च सरत्नमुद्वहञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ ५८ ॥
यशसेति । किञ्च । गोत्रभिद इन्द्रस्यायुधक्षतीर्वज्रप्रहाररन्ध्राणि । खाण्डवदाहसम्भवादिति भावः । महसा स्वकान्त्या यशसेव मूर्तया कीर्त्येव मुहुस्तिरोदधदाच्छादयन् । सरत्नं रत्नसहितमत एव ज्वलितज्योतिर्दीप्तितारकम् । ‘ज्योतिस्ताराऽग्निभाज्वालादृक्पुत्रार्थधरात्मसु च’ इति वैजयन्ती । दिवोऽन्तरं नभोमध्यमिवावस्थितम् । ‘अन्तरं परिधानीये बाह्य स्वीयेऽन्तरात्मनि । क्लीबे मध्ये प्रकाशे च’ इति वैजयन्ती । कवचं चोद्वहन् ॥ ५८ ॥
अन्वयः— गोत्रभिदायुधक्षतीः यशसा, इव, महसा, तिरोदधद् सरत्नं, ज्वलितज्योतिः, दिवः, अन्तरम्, इव कवचं, च, उद्वहन् ॥ ५८ ॥
६८ | किरातार्जुनीयम् | [ तृतीयः
व्याख्या—गोत्रभिदायुधक्षतीः = इन्द्रास्त्राघातचिह्नानि, वज्रप्रहारलक्षणानीत्यर्थः। यशसा = कीर्त्या, इव, महसा = तेजसा, तिरोदधत् = आच्छादयन्, तथा च, सरत्नम् = मणिगणालङ्कृतं, ज्वलितज्योतिः = समुदितनक्षत्रं, दिवः = आकाशस्य, अन्तरम् = मध्यं, प्रकाशवन्नक्षत्रशोभिताकाशमिवेत्यर्थः । कवचं च = वर्म च, लौहनिर्मिताङ्गावरणमित्यर्थः । यत्परिधानेन परबाणादयो नान्तः प्रविशन्ति, तद् उद्वहन्=धारयन्, क्षणं तपोभृतां हृदयानि समाविवेशेति पुरः पद्येन सम्बन्धः ॥५८॥
समासः—गोत्रं पर्वतं भिनत्तीति गोत्रभिद् इन्द्रस्तस्य यदायुधं वज्रं, तद् गोत्रभिदायुधं तस्य याः क्षतयस्ता गोत्रभिदायुधक्षतीः। रत्नैः सहितं सरत्नम्। ज्वलितानि ज्योतींषि यस्मिंस्तद् ज्वलितज्योतिः। तद् ॥ ५७ ॥
व्याकरणम्—तिरोदधत् = तिरस् + धा + लट् + शतृ । उद्वहन् = उद् + वह् + लट् + शतृ ॥ ५८ ॥
वाच्यान्तरम्—गोत्रभिदायुधक्षतीर्यशसेव महसा तिरोदधता, सरत्नं ज्वलितज्योतिर्दिवोऽन्तरमिव कवचमुद्वहताऽर्जुनेन तपोभृतां हृदयानि समाविविशिरे ॥५८॥
कोषः—'सुत्रामा गोत्रभृद्वज्री वासवो वृत्रहा वृषा' इत्यमरः । 'आयुधं तु प्रहरणं शस्त्रमस्त्रम्' इत्यमरः । 'क्षतिः प्रहारे हानौ च' इति विश्वः । 'यशः कीर्त्तिः समज्ञा च' इत्यमरः । 'महस्तूत्सवतेजसोः' इत्यमरः । 'रत्नं मणिन्र्द्वयोरश्मजातौ · मुक्ताऽऽदिकेऽपि च' इत्यमरः । 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्' इत्यमरः । 'ज्योतिस्तारानिभाज्वालादृक्पुन्नाम्न्यधरासु च' इति वैजयन्ती ॥ ५८ ॥
सारार्थः—खाण्डववनदाहावसरे इन्द्रार्जुनयोः समरमभूत् तत्रैवेन्द्रेणार्जुनं प्रति वज्रं प्रक्षिप्तं, तेन तस्य चिह्नं स्वदेहकान्त्याऽऽच्छादयन् (अहो इन्द्रवज्रप्रहारोऽप्यस्मिन् वीरे व्यर्थो जातो धन्योऽयं वीरवर इत्येवम्) अलौकिकयशसेव व्याप्तः । मणिगणखचितकवचं परिदधदर्जुनो मुनिवसतिसमीपवर्तिनि वने गत इति ॥ ५८ ॥
भाषार्थः—इन्द्र के वज्र प्रहार के दागों को यशरूप अपने तेज से ढाँकते हुए, जैसे तारागण भूषित आकाश का बीच हो वैसे रत्नों सहित, कवच को धारण किये अर्जुन तपोवन में पहुँचे ॥ ५८ ॥
अलकाऽधिपभृत्यदर्शितं शिवमूर्वीधरवर्त्म संप्रयान् ।
हृदयानि समाविवेश स क्षणमुद्वाष्पदृशां तपोभृताम् ॥ ५९ ॥
अलकेति । सोऽर्जुनोऽलकाऽधिपभृत्येन यक्षेण दर्शितमतः शिवं निर्बाधमुर्वीधरवर्त्म हिमवन्मार्गं प्रति संप्रयान् गच्छन् । क्षणमुद्वाष्पदृशां वियोगदुःखा-
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६६
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६६
त्साश्रुनेत्राणां तपोभृतां द्वैतवननिवासिनां तपस्विनां हृदयानि समाविवेश, खेदयामासेत्यर्थः ॥ ५९ ॥
अन्वयः—अलकाऽधिपभृत्यदर्शितं, शिवम्, उर्वीधरवर्त्म, सम्प्रयान् सः, उद्बाष्पदृशां, तपोभृतां, हृदयानि, क्षणं समाविवेश ॥ ५९ ॥
व्याख्या—अलकाऽधिपभृत्यदर्शितं = यक्षोपदिष्टम्, अलका नाम पुरी तस्या अधिपः कुवेरस्तस्य भृत्योऽनुचरो यक्ष इति यावद् । शिवम् = मङ्गलम्, उर्वीधरवर्त्म = पर्वतमार्गं, सम्प्रयान् = सङ्गच्छन्, सः = अर्जुनः, उद्बाष्पदृशाम् = उद्गताश्रुनयनानां, तपोभृतां = तपस्विनां, हृदयानि = मनांसि, क्षणं = मुहूर्तं, समाविवेश = प्रविष्टवान्, योगिनां मनांसि खेदान्वितानि चकारेत्यर्थः ॥ ५९ ॥
समासः—अलकाया अधिपोऽलकाऽधिपस्तस्यालकाऽधिपस्य भृत्य इत्यलकाऽधिपभृत्यस्तेनालकाऽधिपभृत्येन दर्शित इत्यलकाऽधिपभृत्यदर्शितस्तमलकाऽधिपभृत्यदर्शितम् । धरनीति धर उर्व्या धर उर्वीधरस्तस्य वर्त्म उर्वीधरवर्त्म । उद्गतानि बाष्पाणि याभ्यस्ता उद्बाष्पास्ताश्च दृशो येषां त उद्बाष्पदृशस्ताषाम् उद्बाष्पदृशाम् । तपांसि बिभ्रति ये ते तपोभृतः तेषां तपोभृताम् ॥ ५९ ॥
वाच्यान्तरम्—सम्प्रयान् + सम् + प्र + या + लट् + शतृ । समाविवेश = सम् + आ + विश् + लिट् ॥ ५९ ॥
वाच्यान्तरम्—अलकाऽधिपभृत्यदर्शितं शिवम्, उर्वीधरवर्त्म सम्प्रयाता तेन ( अर्जुनेन ) तपोभृतां हृदयानि समाविविशिरे ॥ ५९ ॥
कोषः—'कैलासः स्थानमलका पूः' इत्यमरः। 'भृत्ये दासेर-दासेय-दास-गोप्यक-चेटका' इत्यमरः। 'श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः। 'सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः। 'महीध्रे 'शिखरि क्ष्माभृद्दहार्य-धरपर्वता' इत्यमरः। अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः। 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः। 'बाष्पमुष्णाश्रु कथ्यते' इति कोषः ॥ ५९ ॥
सारांशः—अग्रेऽग्रे यक्षेण प्रदर्शिते पर्वतमार्गे गच्छन्तमर्जुनमवलोक्य तपस्विनः सदयहृदयाः करुणासमाकृष्ट बभूवुः ॥ ५९ ॥
भाषार्थः—यक्ष से दिखाये (बतलाये) मङ्गलप्रद, पर्वत के रास्ते में जाते हुए अर्जुन, कुछ देर तक आंसू भरे आंखवाले मुनियों के दिल में पैठे। अर्थात् अर्जुन को देखकर करुणा से मुनियों की आँखों में आँसू भर आया और अर्जुन की तरफ मन खिंच गया ॥ ५९ ॥
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः
सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने ।
| ७० | किरातार्जुनीयम् | [ तृतीयः |
|---|
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं
मुहुरनिभृतवेलावीचिबाहुः पयोधिः॥ ६० ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये तृतीयः सर्गः।
अनुजगुरिति। अथाशा दिशः दिवि भवं दिव्यम्। 'द्युप्रागपागुदक्प्रतीचो यत्'। दुन्दुभिध्वानमनुजगुरनुदध्वनुः। गायतेर्लिट्। व्योम्नि सुरकुसुमनिपातैर्लक्ष्मीर्वितेने। पुष्पवृष्टिश्चाजनिष्टेत्यर्थः। किञ्च। अनिभृताश्चञ्चला वेलायां कूले या वीचयस्ता एव बाहवो यस्य स तथोक्तः। 'वेला कूलविकारयोः' इति शाश्वतः। पयोधिः स्फुरन्तीमुल्लसन्तीं हर्षात्स्पन्दमानां च भुवं प्रियमिष्टं भारावतारणरूपं कथयिष्यन्निव। कथयितुमिवेत्यर्थः। 'लृट् शेषे च' इति चकारात्क्रियाऽर्थायां क्रियायां लृट्। आलिलिङ्ग। सर्वं चेदं शिवं दैवकार्यप्रवृत्तत्वादस्येति भावः। अत्र विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वासमासोक्तिरलङ्कारः। तत्र चाप्रस्तुतयोर्भूमि-समुद्रयोः प्रतिपन्नाभ्यां नायकाभ्यां भेदेऽभेदरूपातिशयोक्तिवशादालिङ्गोक्ति-रिति रहस्यम्। एवमतिशयोक्त्यनुप्राणिता समासोक्तिः। प्रियकथनास्नेहमुज्जी-वयन्ती तदङ्गभावं भजत इत्युभयोरङ्गाङ्गिभावेन सङ्कर इति विवेचनीयम् ॥ ६० ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य-
व्याख्यायां घण्टापथसमाख्यायां तृतीयः सर्गः समाप्तः।
**अन्वयः—**अथ, आशाः, दिव्यं, दुन्दुभिध्वानम्, अनुजगुः, व्योम्नि, सुरकुसुम-निपातैः, लक्ष्मीः वितेने, अनिभृतवेलावीचिबाहुः, पयोधिः, प्रियं, कथयिष्यन्, इव, स्फुरन्तीं, भुवम्, आलिलिङ्ग ॥ ६० ॥
**व्याख्या—**अथ=अर्जुनप्रयाणोत्तरकाले, आशाः=दिशः, दिव्यं = स्वर्ग-सम्बन्धिनं, न तु लौकिकं, दुन्दुभिध्वानम् = भेरीशब्दम्, अनुजगुः = अनुदध्वनुः, दिक्षु भेरीशब्दोऽभूदित्यर्थः। तथा च आशा एव कन्यः, सुरकुसुमनिपातै = देव-पुष्पवर्षणैः, वा, सुरकुसमानि पारिजातपुष्पाणि, तेषां निपातैः, व्योम्नि = गगने, लक्ष्मीः = श्रीः, वितेने = वितस्तरे। अर्थात्तदानीं खात्पुष्पवृष्टिर्जातेति भावः। तथा च, अनिभृतवेलावीचिबाहुः = चञ्चलतटलहरिभुजः, पयोधिः = समुद्रः, प्रियम् = प्रेमपूर्णं वच इति शेषः। कथयिष्यन् = कथयितुमिच्छन्, इव स्फुरन्तीम् = उल्ल-सन्तीम्, भुवम् = महीम, आलिलिङ्ग = परिषस्वजे, आलिङ्गितवानित्यर्थः ॥६०॥
**समासः—**दुन्दुभेर्ध्वानो दुन्दुभिध्वानस्तं दुन्दुभिध्वानम्। कुसुमानां निपाताः कुसुमनिपाताः सुराणां कुसुमनिपाताः सुरकुसुमनिपातास्तैः सुरकुसुमनिपातैः। वेलायां वीचयो वेलावीचयः, अनिभृता या वेलावीचयोऽनिभृतवेलावीचयः, ता एव बाहवो यस्य सोऽनिभृतवेलावीचिबाहुः ॥ ६० ॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ७१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ७१
व्याकरणम्—अनुजगुः = अनु + गै + लिट् । वितेने = वि + तन् + लिट् कर्मणि । कथयिष्यन् = कथ + णिच् + लृट् + शतृ । आलिङ्ग = आ + लिगि + लिट् ॥
वाच्यान्तरम्—आशाभिर्दिन्यो दुन्दुभिध्वानोऽनुजगे । सुरकुसुमनिपाता व्योम्नि लक्ष्मीं वितेनुः । प्रियं कथयिष्यतेवानिभृतवेलावीचिबाहुना पयोधिना स्फुरन्ती भूरालिळिङ्गे ॥ ६० ॥
कोषः—'स्याद्यशःपटहो ढक्का मेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । 'शब्दे निनाद-निनद-ध्वनि-ध्वान-रव-स्वाना' इत्यमरः । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ता' इत्यमरः । 'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुरा' इत्यमरः । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्कर-मम्बरम्' इत्यमरः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि' इत्यमरः । 'भङ्ग-स्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरयोर्मिषु' इत्यमरः । 'भुजबाहु प्रवेष्टो दोः' इत्यमरः । 'पयोधिरुधिः समुद्रः सागरोऽर्णव' ॥ ६० ॥
सारार्थः—अर्जुनस्य तपोधं प्रस्थानसमये देवदुन्दुभयो नेदुः । आकाशाद् पुष्पवृष्टिरभूत् । हर्षेण समुद्रोऽपि चञ्चलो बभूव । इत्थं शुभशकुनान्यभूवन् ॥ ६० ॥
भाषार्थः—दिशाओं में देव-दुन्दुभी बजने लगी, आकाश में देवता लोगों के फूलों की वर्षा से शोभा होने लगी । चञ्चल किनारे की लहर रूप भुजा है, जिसकी ऐसा समुद्र जैसे कुछ मीठी बात या शुभसमाचार कहने की इच्छा करके चमकती हुई पृथिवी का आलिङ्गन करने लगा ॥ ६० ॥
छन्दःपरिचयः—इदं मालिनीनाम् वृत्तम् । तल्लक्षणञ्च—'ननमयययुतेयं मालिनी भोगिलोकैः' । अस्यार्थः—यस्मिञ्श्लोकापादे नगणनगणमगणयगणयगणास्तथा षड्भिः-सप्तभिश्चरैर्विश्रामोऽपि, तन्मालिनीनाम वृत्तम् । यथाऽत्र—
| न | न | म | य | य |
|---|---|---|---|---|
| । । । | । । । | ऽ ऽ ऽ | । ऽ ऽ | । ऽ ऽ |
| “अ नु ज | गु र घ | दि व्यं दु | न्दु भि ध्वा | न मा शाः” |
एवं चतुर्ष्वपि पादेषु सम-वृत्तत्वादूहनीयम् । तत्र समवृत्तलक्षणम् “अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षण-लक्षिताः । तच्छन्दःशास्त्रतत्वज्ञाः समवृत्तं प्रचक्षते ॥” एवमर्धसमवृत्तलक्षणम्— “प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तूर्यवद्वृत्तं तदर्धसममुच्यते॥” अर्थात् पङ्क्तिद्वयेन प्रत्येकपदार्थे-ऊर्ध्वाधक्रमेण लिखिते, प्रथमतृतीययोरेकलक्षण-त्वात् समलक्षणत्वं, द्वितीयचतुर्थयोरेकत्रोर्ध्वाधोवत्तंसमानत्वाद् लक्षणसाम्यं भवतीति युक्तियुक्तमेव । एवं तदुदाहरणीभूतानि पद्यानि द्वितीयसर्गादिगतानि संम्भिवाक्यानि
७२ किरातार्जुनीयम् [ तृतीयः
'विहितां प्रियया मनःप्रियाम्' इत्यादीनिवाक्यानि। अस्मिन्नपि सर्गे 'अविलङ्घ्य-विकर्षणं परैः' इत्यादि त्रीणि पद्यान्यर्थसमान्येव। एवं यस्मिंश्च अपि भिन्नभिन्न-लक्षणास्तद्विषमवृत्तम्। तथा चोक्तं—'यस्य पादे चतुष्केऽपि लक्ष्म भिन्नं परस्परम्। तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः॥' तदुदाहरणमुद्गतादिकमस्यैव काव्यस्य द्वादशे सर्गे—'अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्। क्लान्तिरहितमभिराद्धयितुं विधिवत्तपांसि विदधे धनञ्जयः॥'
नवजलनिधिकृतितुले ( १८४९ ) शाके तैषीयपूर्णिमामान्दे।
'गङ्गाधरेण' रचिता सार्गत्रयिकी 'सुधा' पूर्णा॥
इति मिथिलादेशान्तर्गत—भागलपुरमण्डलवर्त्ति—'चयनपुर' ग्रामनिवासिना विद्वद्वर'हंसराज'शर्मणस्तनयेन मिश्रोपनामकेन श्रीगङ्गाधरशर्मणा विरचितया सुधाऽभिधया टीकया विभूषितं किरातार्जुनीयकाव्यस्य सर्गत्रयं पूर्णतामगात्।
॥ श्रीः ॥
किरातार्जुनीयम्
'सुधा' संस्कृत-हिन्दीव्याख्योपेतम्
चतुर्थः सर्गः
ततः स कूजत्कलहंसमेखलां, सपाकसस्याहितपाण्डुतागुणम् ।
उपाससादोपजनं जनप्रियः, प्रियामिवासादितयौवनां भुवम् ॥ १ ॥
शरदिन्दुनिभां शुद्धां शुभ्रवस्त्रैरलङ्कृताम् ।
कलहंसकृतावासां, वरदां शारदां भजे ॥
अन्वयः— ततः जनप्रियः सः कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् भुवम् आसादितयौवनां प्रियाम् इव उपजनम् उपाससाद ।
विग्रहः— जनानां प्रियः = जन-प्रियः । कलहंसा मेखला इव, अथवा कलहंसा इव मेखला यस्यास्ताम् = कलहंसमेखलाम्, कूजन्तों कलहंसमेखलामिव = कूजत्कलहंसमेखलाम् । सह पाकेन वर्तन्त इति सपाकानि सस्यानि तैराहितः पाण्डुतागुणो यस्यास्ताम् = सपाकसस्याहितपाण्डुतागुणाम् । आसादितं यौवनं यया ताम् = आसादितयौवनाम् । जनस्य समीपमुपजनम् ।
अर्थः— ततः = प्रस्थानानन्तरम् । जनप्रियः = लोकप्रियः । स = अर्जुनः । कूजत्कलहंसमेखलाम् = कूजद्राजहंसमेखलाम् । सपाकसस्याहितपाण्डुतागुणाम् = पक्वान्नसम्पादितपाण्डुरङ्गयुक्ताम् । भुवम् = भूमिम् । आसादितयौवनाम् = प्राप्तयौवनाम् । प्रियां = प्रेयसीम् । इव । उपजनम् = जनसमीपे, सखीसमक्षं वा । उपाससाद = उपगतवान् । वंशस्थवृत्तम् । अत्रोपमालङ्कारः ।
कोषः— 'कादम्बः कलहंसः स्यात्' इत्यमरः ।
हिन्दी— हिमालय को प्रस्थान के पश्चात् लोकप्रिय अर्जुन कलकूजन करते हुए राजहंस की भाँति ध्वनित मेखलायुक्त, फसलों के परिपाक से गौरवर्ण वाली
२ किरातार्जुनोयम्
भूमि पर पहुँचे, जैसे कि कोई प्रियपुरुष बजती हुई करधनी पहने अपनी प्रेयसी के समक्ष पहुँचा हो ॥ १ ॥
विनम्रशालिप्रसवौघशालिनोरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥ २ ॥
अन्वयः— सः विनम्रशालिप्रसवौघशालिनीः अपेतपङ्काः ससरोरुहाम्भसः उपायनीभूतशरद्गुणश्रियः उपसीम स्थलीः पश्यन् ननन्द ।
विग्रहः— विनम्राणां शालोनां प्रसवः=विनम्रशालिप्रसवस्तेषामोघैस्तैः। शाल्यन्ते ताः=विनम्रशालिप्रसवौघशालिनीः । अपेतानि पङ्कानि याभिस्ताः=अपेतपङ्काः । सरोरुहैः सहितानि ससरोरुहाणि, अम्भांसि यासु ताः=ससरोरुहाम्भसः । शरदं गुणः=शरद् गुणः, तस्य श्रियस्ताः=शरद्गुणश्रियः । सीम्नः समीपम्=उपसीम ।
अर्थः— सः=अर्जुनः । विनम्रशालिप्रसवौघशालिनीः=अवनतशालिफलस्तोमशोभिनीः । अपेतपङ्काः=निष्पङ्काः । ससरोरुहाम्भसः=सकमलजलाः । उपायनीभूतशरद्गुणश्रियः=उपहारीभूतशरद्गुणसम्पत्तोः । उपसीम=सीम्नः समीपे । स्थलीः=भुवः । पश्यन्=अवलोकयन् । ननन्द=जहर्ष । अत्र परिणामारङ्कारः ।
कोषः— 'स्थलं स्थलो' इत्यमरः । 'अम्भोर्णस्तोयपानीयम्' इत्यमरः ।
हिन्दी— अर्जुन झुके हुए धान की बालियों से युक्त, कीचडरहित, कमल तथा जलयुक्त उपहार रूप में प्राप्त, शरत्कालीन शोभावाली, ग्राम-सीमाओं में स्थित भूभागों को देखते हुए बहुत प्रसन्न हुए ॥ २ ॥
निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरोविवृत्तयः ॥ ३ ॥
अन्वयः— विस्मयाकुलैः उन्मीलितपद्मलोचनैः पयोभिः निरीक्ष्यमाणा इव हृतप्रियादृष्टिविलासविभ्रमाः शफरोविवृत्तयः अस्य मनः जह्रुः ।
विग्रहः— विस्मयेनाकुलास्तैः=विस्मयाकुलैः । उन्मीलितानि पद्मानि=उन्मीलितपद्मानि । उन्मीलितपद्मानीव लोचनानि येषां तैः उन्मीलितपद्मलोचनैः । प्रियाणं दृष्टिः=प्रियादृष्टिः । तासां विलासास्तेषां विभ्रमाः, हृताश्चामी प्रियादृष्टिविलासविभ्रमाः=हृतप्रियादृष्टिविलासविभ्रमाः । शफरीणां विवृत्तयः=शफरीविवृत्तयः ।
चतुर्थः सर्गः ३
अर्थः—विस्मयाकुलैः = आश्चर्यचकितैः । उन्मीलितपद्मलोचनैः = उत्फुल्लकमलनयनैः । पयोभिः = जलैः । निरीक्ष्यमाणा इव = अवलोकयन्त्य इव । हृतप्रियादृष्टिविलासविभ्रमाः = अपहृतयुवतीभ्रूविक्षेपादिविभ्रमाः । शफरीविवृत्तयः = मत्स्यीस्फुरितानि । अस्य = अर्जुनस्य । मनः = चित्तम् । जह्रुः = आचकृषुः । अत्रोपमालङ्कारः ।
कोषः—'विभ्रमः संशये भ्रान्तौ शोभायाञ्च' इति वैजयन्ती ।
**हिन्दी—**आश्चर्यचकित तालाब जैसे अर्जुन को विकसित कमलरूपी नेत्रों से देख रहे थे । युवतियों के भ्रूविक्षेपादि विलासों का मानों तालाबों में उछलती हुई छोटी दो मछलियाँ अपहरण कर रही थीं । इस प्रकार इन सब वस्तुओं ने अर्जुन का मन अपनी ओर आकृष्ट कर लिया ॥ ३ ॥
तुतोष पश्यन् कलमस्य सोऽधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मोमनुरूपसङ्गमे ॥ ४ ॥
अन्वयः— सः सवारिजे वारिणि कलमस्य रामणीयकं पश्यन् अधिकं तुतोष । सुदुर्लभे अनुरूपसङ्गमे प्रकर्षलक्ष्मोम् अभिनन्दितुं कः न अर्हति ।
**विग्रहः—**वारिणि जातम् वारिजं = वारिजेन सह तस्मिन् = सवारिजे । रमणीयस्य भावो रामणीयकम् । अनुरूपः सङ्गमः = अनुरूपसङ्गमस्तस्मिन् = अनुरूपसङ्गमे । प्रकर्षस्य लक्ष्मोः = प्रकर्षलक्ष्मोस्ताम् = प्रकर्षलक्ष्मीम् ।
अर्थः—सः = अर्जुनः । सवारिजे = सकमले । वारिणि = जले । कलमस्य = शालिविशेषस्य । रामणीयकम् = सौन्दर्यम् । पश्यन् = अवलोकयन् । अधिकम् = बहु । तुतोष = प्रीतो जातः । सुदुर्लभे = दुष्प्राप्ये । अनुरूपसङ्गमे = अनुकूलसमागमे । प्रकर्षलक्ष्मीम् = उत्कर्षसम्पदम् । अभिनन्दितुम् = स्तोतुम् । कः = कः पुरुषः । न अर्हति = नैव योग्यो भवति । अत्रार्थान्तरन्यासालंकारः ।
कोषः—'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः ।
**हिन्दी—**अर्जुन कमलयुक्त जल में कलम नामक शालिविशेष के पौधों की सुन्दरता देखते हुए बहुत प्रसन्न हुए । दुष्प्राप्य एवं अनुकूल समागम होने पर कौन पुरुष उत्कृष्ट सम्पत्ति का अभिनन्दन नहीं करता है ? ॥ ४ ॥
नुनोद तस्य स्थलपद्मिनोगतं वितर्कमाविष्कृतफेनसन्तति । अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृतपाठोनप राहतं पयः ॥ ५ ॥
| ४ | किरातार्जुनीयम् |
|---|
अन्वयः— आविष्कृतफेनसन्तति अवाप्तकिञ्जल्कविभेदम् उच्चकैः विवृत्तपाठी- नपराहतम् पयः तस्य स्थलपद्मिनीगतं वितर्कं नुनोद ।
विग्रहः— फेनानां सन्ततिः = फेनसन्ततिः । आविष्कृता फेनसन्ततिर्यस्य तत् आविष्कृतफेनसन्तति । किञ्जल्कस्य विभेदः किञ्जल्कविभेदः । अवाप्तः किञ्जल्क- विभेदः येन तत् = अवाप्तकिञ्जल्कविभेदम् । विवृत्तेन पाठीनेन पराहतं तत् = विवृत्तपाठीनपराहतम् । स्थलस्य पद्मिनी = स्थलपद्मिनी, तस्यां गतं तत् = स्थल- पद्मिनीगतम् ।
अर्थः— आविष्कृतसन्तति = प्रकटीकृतडिण्डीरसमूहम् । अवाप्तकिञ्जल्क- विभेदम् = प्राप्तकेसरोपगमम् । उच्चकैः = उच्चैः । विवृत्तपाठीनपराहतम् = लुण्ठितमत्स्यविशेषताडितम् । पयः = जलम् । तस्य = अर्जुनस्य । स्थलपद्मिनी- गतम् = गुलाबाख्यपुष्पगतम् । वितर्कम् = संशयम् । नुनोद = विच्छेद । अत्र सन्देहालङ्कारः ।
कोषः— 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः ।
हिन्दी— सकमल सरोवरों में उठी हुई फेन, कमल-पराग के भेद तथा जोर से उछलते हुए पाठीन नामक मत्स्य-विशेषों से ताडित जल ने अर्जुन का 'कमलों में गुलाब' होने का संशय दूर कर दिया ॥ ५ ॥
कृतोमिरेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ ६ ॥
अन्वयः— सः शिथिलत्वम् आयता शनैः शनैः शान्तरयेण वारिणा कृतोमि- रेखं तरङ्गितक्षौमविपाण्डु समुद्रयोषितां सैकतं निरीक्ष्य रेमे ।
विग्रहः— कृता ऊर्मय एव रेखाः यस्य तस्य तत् = कृतोमिरेखम् । तरङ्गा अस्य सञ्जातास्तरङ्गितम् । तरङ्गितं तत् क्षौमम्, तद्वद् विपाण्डु = तरङ्गितक्षौम- विपाण्डु । समुद्राणां योषितस्तासाम् = समुद्रयोषिताम् । सिकता अस्यास्तीति ।
अर्थः— सः = अर्जुनः । शिथिलत्वम् = शैथिल्यम् । आयता = गच्छता । शनैः शनैः = मन्दं मन्दम् । शान्तरयेण = शान्तजवेन । वारिणा = जलेन कृतोर्मि- रेखम् = कृततरङ्गराजि । तरङ्गितक्षौमविपाण्डु = भङ्गितदुकूलवच्छुभ्रम् । समुद्र- योषिताम् = नदीनाम् । सैकतम् = पुलिनम् । निरीक्ष्य = अवलोक्य । रेमे = तुतोष ।
चतुर्थः सर्गः
कोषः—'तोयोत्थितं तत्पुलिनं संकतं सिकतामयम्' इत्यमरः।
**हिन्दी—**अर्जुन प्रति-दिन क्षीण होने से धीमे बहाववाली, लहरों से रेखा बनानेवाली, नदियों के भङ्गिमायुक्त क्षौमवस्त्र के समान उज्ज्वल रेतीले तट को देखकर अतीव प्रसन्न हुए ॥ ६ ॥
मनोरमं प्रापितमन्तरं भ्रुवोरलङ्कृतं केसररेणुनाऽणुना।
अलक्तताम्राधरपल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥ ७ ॥
**अन्वयः—**अणुना केसररेणुना अलङ्कृतं मनोरमं भ्रुवोः अन्तरं प्रापितं बन्धुजीवकम् अलक्तताम्राधरपल्लवश्रिया समानयन्तीम् इव।
**विग्रहः—**केसरस्य रेणुः केसररेणुस्तेन = केसररेणुना। अलक्तवत् ताम्रस्य अधरपल्लवस्य या श्रीस्तया = अलक्तताम्राधरपल्लवश्रिया।
**अर्थः—**अणुना = सूक्ष्मेण। केसररेणुना = किञ्जल्कपरागेण। अलङ्कृतम् = शोभितम्। मनोरमम् = सुन्दरम्। भ्रुवोः अन्तरम् = भ्रूमध्यम्। प्रापितम् = निवेशितम्। बन्धुजीवकम् = बन्धूकपुष्पम्। अलक्तताम्राधरपल्लवश्रिया = लाक्षारस-रक्ताधरपल्लवकान्त्या समानयन्तीम् = समोकुर्वतीम्। इव = समम्। 'अत्रोत्प्रेक्षा-लंकारः।
कोषः—'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः।
**हिन्दी—**धान के खेत रखाती हुई स्त्रियों ने सूक्ष्म केसररेणु से अलङ्कृत मनोरम जवाकुसुम को भौहों के मध्य में लगा रखा था। इस प्रकार पुष्पयुक्त भौहें महावर की लालिमा से रञ्जित अधर पल्लवों की मानों बराबरी कर रही थी ॥ ७ ॥
नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ।
चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ ८ ॥
**अन्वयः—**महानिवेशौ पयोधरौ परितः मुहुः आहितम् नवातपालोहितम् अरविन्दजं रजः सर्पता परिश्रमाम्भःपुलकेन चकासयन्तीम्।
**विग्रहः—**महान् निवेशो ययोस्तौ = महानिवेशौ। पयसां धरौ तौ = पयोधरौ। नवेन आतपेन आलोहितं तत् = नवातपालोहितम्। अरविन्दाज्जातम् सत् = अरविन्दजम्। परिश्रमाज्जातमम्भः = परिश्रमाम्भः, तस्य पुलकस्तेन = परिश्रमाम्भःपुलकेन।
| ६ | किरातार्जुनीयम् |
|---|
अर्थः— महानिवेशो = पीवरौ । पयोधरौ = स्तनौ । परितः = बहिः, मुहुः = वारं वारम् । आहितं = प्राप्तम् । नवातपलोहितम् = बालातपरक्तम्, अरविन्दजं = कमलजम् । रजः = परागम् । सर्पता = प्रसरता । परिश्रमजायमान-पुलकेन = श्रमस्वेदोद्भेदेन । चकासयन्तीम् = शोभयन्तीम् । (निरीक्ष्य कृतार्थतां मेने) ।
कोषः— 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः ।
हिन्दी— धान के खेतों को रक्षाती हुई स्त्रियों ने अपने उन्नत उरोजों पर प्रातःकालीन धूप के समान रक्ताभ कमल-पराग लगाया था, वे स्त्रियाँ उस पराग रज को परिश्रम के कारण उत्पन्न हुए स्वेद-बिन्दुओं से शोभित कर रही थीं ॥ ८ ॥
कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ ९ ॥
अन्वयः— कपोलसंश्लेषि अवतंसकोत्पलं विलोचनत्विषा विभूषयन्तीं कलमस्य गोपिकां निरीक्ष्य पाण्डोः सुतेन शरदः कृतार्थता मेने ।
विग्रहः— कपोलं संश्लेषयति तत् = कपोलसंश्लेषि । अवतंसकञ्चोत्पलं तत् = अवतंसकोत्पलम् । विलोचनयोः त्विट् = विलोचनत्विट् तया = विलोचनत्विषा । गाः पातीति गोपः, गोपस्य स्त्री गोपिका तां = गोपिकाम् । कृतार्थस्य भावः = कृतार्थता ।
अर्थः— कपोलसंश्लेषि = कपोलचुम्बि । अवतंसकोत्पलम् = कर्णोत्पलम् । विलोचनत्विषा = नेत्रकान्त्या । विभूषयन्तीम् = अलंकुर्वतीम् । कलमस्य = शालिविशेषस्य । गोपिकां = गोप्त्रीम् । निरीक्ष्य = दृष्ट्वा । पाण्डोः = एतन्नामकस्य राज्ञः । सुतेन = पुत्रेण अर्जुनेनेत्यर्थः । शरदः = शरदृतोः । कृतार्थता = साफल्यम् । मेने = अमानि ।
कोषः— 'गण्डौ कपोलौ' इत्यमरः ।
हिन्दी— शालिगोपित्रियों के कपोलों को छूते हुए कर्णफूल आभूषण लटक रहे थे । नेत्रों की कान्ति से अलंकृत इन धान की रखवाली करनेवाली स्त्रियों को देखकर अर्जुन ने शरद्ऋतु की सफलता को माना ॥ ९ ॥
उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् ।
समुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्रुतपीवरोधसः ॥ १० ॥
चतुर्थः सर्गः
चतुर्थः सर्गः ७
अन्वयः— पश्चिमरात्रीगोचरात् उपारताः जवेन गाम् पतितुम् अपारयन्तः प्रस्नुतपीवरोधसः उत्सुकाः गवां गणाः तम् अवेक्षणोत्सुकं चक्रुः ।
विग्रहः— पश्चिमा रात्रिः = पश्चिमरात्रीस्तस्यां यो गोचरस्तस्मात् = पश्चिम-रात्रीगोचरात् । प्रस्नुतानि पीवराणि ऊधांसि येषां ते = प्रस्नुतपीवरोधसः । अवेक्ष-णाय उत्सुकस्तम् = अवेक्षणोत्सुकम् ।
अर्थः— पश्चिमरात्रीगोचरात् = अपररात्रौ गोचरणभूमेः । उपारताः = सन्निवृत्ताः, जवेन = वेगेन । गाम् = भुवम् । पतितुम् = धावितुम् । अपारयन्तः = अशक्नुवन्तः । प्रस्नुतपीवरोधसः = स्रवतीनापीनाः । उत्सुकाः = उत्कण्ठिताः । गवां गणाः = धेनूना समूहाः । तम् = अर्जुनम् । अवेक्षणोत्सुकम् = दर्शनोत्सुकम् । चक्रुः = कृतवन्तः ।
कोषः— 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । 'स्वर्गेषु पशुवाग्वज्रदिङ्नेत्रघृणि-भूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्युभयत्राप्यमरः ।
हिन्दी— सन्ध्याकाल में गोचर से लौटती हुई गायें थकी हुई होने के कारण जोर से भागने में असमर्थ थीं । उनके स्तनों से दूध टपक रहा था ऐसी उन गायों के झुण्डों ने अर्जुन को देखने की उत्सुकता पैदा कर दी ॥ १० ॥
परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् ।
ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ ११ ॥
अन्वयः— सः उक्षावजये जयश्रिया परितम् उच्चैः नदन्तं क्षतसिन्धुरोधसम् शारदीं पुष्टिं दधतं गवाम् अधिपं सविग्रहं दर्पम् इव ददर्श ।
विग्रहः— उक्षावजयस्तस्मिन् = उक्षावजये । जयस्य श्रीः जयश्रीस्तया = जयश्रिया । सिन्धोः रोधः = सिन्धुरोधः, क्षतं सिन्धुरोधो येन तम् = क्षतसिन्धु-रोधसम् । शरदि भवां शारदीम् । विग्रहेण सहितस्तं = सविग्रहम् ।
अर्थः— सः = अर्जुनः । उक्षावजये = उक्षान्तरभङ्गे सति । जयश्रिया = विजयश्रिया, परीतं = वेष्टितम् । उच्चैः = उन्नतस्वरेण । नदन्तम् = गर्जन्तम् । क्षत-सिन्धुरोधसम् = विक्षतसरित्तटम् । शारदीम् = शरदि भवाम् । पुष्टिम् = अवयवो-पचयम् । दधतम् = धारयन्तम् । गवामधिपम् = वृषभम् ( अनड्वाहम् ) । सविग्रहम् = मूर्तिमन्तम् । दर्पम् = गर्वम् । इव । ददर्श = अपश्यत् । अत्रोत्प्रेक्षा-लंकारः ।
६
किरातार्जुनीयम्
कोषः— 'शरीरं वर्ष्म विग्रहः । कायो देहः क्लीबपुंसोः' इत्यमरः ।
हिन्दी— अर्जुन ने एक साँड़ से लड़कर एवं उसे पराजित कर, दूसरे साँड़ को विजयदर्प से नदीतट को गिराते हुए देखा। हृष्ट-पुष्ट होने के कारण वह साँड़ घमण्ड को साक्षात् मूर्ति सा दिखलाई पड़ता था ॥ ११ ॥
विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ १२ ॥
अन्वयः— हिमानीविशदैः गवां कदम्बकैः मन्थरं विमुच्यमानैः अपि शरन्नदीनां पुलिनैः गलद्दुकूलैः जघनैः इव तस्य कुतूहलम् आदधे ।
विग्रहः— शरद नद्यः शरन्नद्यस्तासां = शरन्नदीनाम् । गलन्ति दुकूलानि = गलद्दुकूलानि तैः = गलद्दुकूलैः । हिमानीवद्विशदानि, तैः = हिमानीविशदैः ।
अर्थः— हिमानीविशदैः = हिमसंघातशुभ्रैः । गवाम् = धेनूनाम् । कदम्बकैः = समूहैः । मन्थरं = मन्दम् । विमुच्यमानैः = मुच्यमानैः । अपि । शरन्नदीनाम् = शरत्सरिताम् । पुलिनैः = तटैः । गलद्दुकूलैः = वस्त्ररहितैः । जघनैः = जघनस्थलैः । इव । तस्य = अर्जुनस्य । कुतूहलम् = आश्चर्यम् । आदधे = आदितम् ।
कोषः— 'हिमानी हिमसंहतिः' इत्यमरः । 'कदम्बकं समूहे श्रीफले पुष्पविशेषके' इत्यमरः ।
हिन्दी— बर्फ की चट्टानों के समान श्वेत गायों के झुण्ड धीरे-धीरे शरत्कालीन नदियों के रेतीले तटों को छोड़ते हुए चले जा रहे थे जिन्हें देखकर अर्जुन उसी भाँति आश्चर्यचकित हुए जैसे कि कोई कामुक पुरुष रमणी के जघनस्थल से सरकती हुई सारी को देखकर होता है ॥ १२ ॥
गतान्पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।
ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ॥ १३ ॥
अन्वयः— पाण्डवः पशूनां सहजन्मबन्धुतां गतान् गृहाश्रयं प्रेम वनेषु बिभ्रतः आर्जवे गोभिः कृतानुकारान् इव गोपान् उपधेनु ददर्श ।
विग्रहः— सह जन्म येषां ते सहजन्मानः । सहजन्मान एव बान्धवास्तेषां भावः ताम् = सहजन्मबन्धुताम् । गृहमाश्रयो यस्य तत् = गृहाश्रयम् । अनुकुर्वन्तीत्यनुकाराः । कृता अनुकाराः यैस्तान् = कृतानुकारान् । गाः पान्तीति गोपास्तान् = गोपान् । धेनोः समीप उपधेनु ।
चतुर्थः सर्गः ९
अर्थः—पाण्डवः = अर्जुनः । पशूनां = गवाम् । सहजन्मबन्धुताम् = सोदर-बन्धुत्वम्, गतान् = प्राप्तान् । गृहाश्रयम् = गृहविषयम् । प्रेम = प्रीतिम् । वनेषु = काननेषु । बिभ्रतः = धारयतः । आर्जवे = विधेयत्वे । गोभिः = पशुभिः । कृतानुकारान् = अनुकृतान् । इव । गोगान् = गोपालान् । उपधेनु = धेनोः समीपे । ददर्श = सवलोकयामास । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—'गहनं काननं वनमि'त्यमरः ।
हिन्दी—अर्जुन ने पशुओं के साथ रहने के कारण पशुओं के कुटुम्बो से बधे हुए गोपों.को देखा । उन ग्वालों को घर को अपेक्षा वन अधिक प्रिय था और सरलता तो मानो वे पशुओं से सीख रहे थे ॥ १३ ॥
परिभ्रमन्मूर्धजषट्पदाकुले स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥ १४ ॥
अन्वयः—परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः चलत्कुण्डलरश्मिरञ्जितैः नवातपामृष्टसरोजचारुभिः मुखैः ।
विग्रहः—मूर्धजाः षट्पदा इव तैः = मूर्धजषट्पदैः । परिभ्रमद्भिः मूर्धजषट्पदैः आकुलानि तैः = परिभ्रमन्मूर्धजषट्पदाकुलैः । दन्ताः केसरा इव दन्तकेसराः । स्मितोदयेनादर्शिताः दन्तकेसरा येषां तैः = स्मितोदयादर्शितदन्तकेसरैः । चलन्ति कुण्डलानि = चलत्कुण्डलानि । तेषां रश्मिभिः रञ्जितानि, तैः = चलत्कुण्डलरश्मिरञ्जितैः । नवेनातपेनामृष्टम् = नवातपामृष्टम् । नवातपामृष्टं सरोजं तद्वच्चारूणि तैः = नवातपामृष्टसरोजचारुभिः ।
अर्थः—परिभ्रमन्मूर्धजषट्पदाकुलैः = चलच्छिरोरुहभ्रमराकुलैः । स्मितोदयादर्शितदन्तकेसरैः = ईषद्धसितदन्तकेसरैः । चलत्कुण्डलरश्मिरञ्जितैः = चलत्कर्णाभूषणप्रभाभासितैः । नवातपामृष्टसरोजचारुभिः = बालातपस्पृष्टकमलवत्सुन्दरैः । मुखैः = आननैः । उपलक्षिताः ।
कोषः—'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
हिन्दी—अर्जुन ने नाचती हुई गोपबालाओं को देखा, जिनके मुख पर लटकते हुए बाल भौरों के समान प्रतीत होते थे । मंदहास से प्रकटित दांत पुष्पपराग के समान लग रहे थे । गालों पर लटकते हुए कुण्डलों की दीप्ति से रंजित मुख प्रातःकालीन सूर्य की किरणों से विकसित कमल की भाँति शोभित थे ॥ १४ ॥
| १० | किरातार्जुनीयम् |
|---|
निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः।
व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः॥ १५॥
अन्वयः—निबद्धनिश्वासविकम्पिताधराः प्रस्फुरितैकपल्लवाः लता इव व्यपोढपार्श्वैः पाणिविहारहारिभिः विकर्षणैः अपवर्तितत्रिकाः।
विग्रहः—निबद्धाः निश्वासाः = निबद्धनिःश्वासाः, तैः विकम्पिताः अधराः यासां ताः = निबद्धनिःश्वासविकम्पिताधराः। प्रस्फुरितमेकं पल्लवं यासां ताः = प्रस्फुरितैकपल्लवाः। व्यपोढानि पार्श्वानि येषु तैः व्यपोढपार्श्वैः। विहारं हरन्तीति तैः = विहारहारिभिः, पाणीनां विहारहारिभिरिति पाणिविहारहारिभिः। अपवर्त्तितानि त्रिकाणि यासां ताः = अपवर्त्तितत्रिकाः।
अर्थः—निबद्धनिःश्वासविकम्पिताधराः = अनुरुद्धप्रश्वासकम्पितोष्ठाः। प्रस्फुरितैकपल्लवाः = प्रचालितैकदलाः। लता इव = वल्ल्य इव स्थिताः। व्यपोढपार्श्वैः = विपरीतपार्श्वैः। पाणिविहारहारिभिः = हस्तविशेषमनोहरैः। विकर्षणैः = मन्थगुणकर्षणैः। अपवर्तितत्रिकाः = सञ्चालितनितम्बाः।
कोषः—'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः। 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः।
हिन्दी—दही मथती हुई गोपस्त्रियों के ओष्ठ श्वास रुक जाने के कारण काँप रहे थे, इससे वे ऐसी लता के समान दिखलाई पड़तीं जिनका एकमात्र पत्ता ही हिल रहा हो। दधि मन्थन में हाथों के सुन्दर चालन से उनका पार्श्व भाग खुल जाता था। उनके नितम्ब भाग भी हिल रहे थे॥ १५॥
व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः।
मुहुः प्रणुन्नेषु मथां विवर्त्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम्॥ १६॥
अन्वयः—व्रजाजिरेषु अम्बुदनादशङ्किनीः शिखण्डिनां योषितः उन्मदयत्सु मथां विवर्त्तनैः मुहुः प्रणुन्नेषु कुम्भेषु मृदङ्गमन्थरं नदत्सु।
विग्रहः—व्रानामजिराणि तेषु = व्रजाजिरेषु। अम्बुदानां नादोऽम्बुदनादः अम्बुदनादस्य शङ्का यासु ताः = अम्बुदनादशङ्किनीः, मृदङ्गवद् मन्थरं मृदङ्गमन्थरम्।
अर्थः—व्रजाजिरेषु = गोष्ठप्राङ्गणेषु। अम्बुदनादशङ्किनीः = घनगर्जितभ्रमवतीः। शिखण्डिनाम् = मयूराणाम्। योषितः = मयूरीः। उन्मदयत्सु = उन्मदाः कुर्वत्सु। मथां = मन्थनदण्डानाम्। विवर्त्तनैः = परिभ्रमणैः। मुहुः = बारं बारम्। प्रणु-
चतुर्थः सर्गः १५
क्षेपेषु = प्रकम्पितेषु । कुम्भेषु = कलशेषु । मृदङ्गमन्थरम् = मृदङ्गवन्मन्दम् । नदत्सु सत्सु, इति । अत्र भ्रान्तिमदलङ्कारः ।
कोषः—'व्रजो गोष्ठाध्ववृन्देषु' इति विश्वः । 'वैशाखमन्यमन्थानमन्थ्यानी मन्थदण्डके' इत्यमरः ।
हिन्दी—ग्वालों के आंगनों में दधिमन्थन करते हुए दधिभाण्डों से मृदङ्ग के समान मन्द शब्द होने पर मयूरियों को बादल गर्जने का भ्रम हो रहा था । यह मेघगर्जन की भ्रान्ति उन मयूरियों को मतवाली बना रही थी ॥ १६ ॥
स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः ।
निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥ १७ ॥
अन्वयः—मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः अभिप्रनृत्ता वारयोषित इव सः निरीक्षितुं न उपरराम ।
विग्रहः—मन्थरम् आवल्गिताः पीवराः स्तनाः यासां ताः = मन्थरावल्गितपीवरस्तनीः । परिश्रमेण क्लान्तानि विलोचनोत्पलानि यासां ताः = परिश्रमक्लान्तविलोचनोत्पलाः ।
अर्थः—मन्थरावल्गितपीवरस्तनीः = मन्दचञ्चलघनस्तनीः । परिश्रमक्लान्तविलोचनोत्पलाः = श्रमक्लान्तोन्मीलितकमललोचनाः । बल्लवीः = गोपीः । अभिप्रनृत्ताः = नृत्यन्तीः । वारयोषितः = वेश्याः इव । सः = अर्जुनः । निरीक्षितुम् = द्रष्टुम् । न उपरराम = न विरमति स्म । अत्र संसृष्ट्यलङ्कारः ।
कोषः—'गोपे गोपालगोसंख्यगोधुगाभीरबल्लवाः' । 'वारस्त्री गणिका वेश्या' इत्यमरः ।
हिन्दी—दधिमन्थन करती हुई गोपस्त्रियों के पीन स्तन मन्द, मन्द हिल रहे थे, परिश्रम से थकी होने के कारण उनके कमल जैसे नेत्र अलसा रहे थे । इस प्रकार नृत्तक्रिया में लीन वेश्याओं के समान उन गोपस्त्रियों को देखने से अर्जुन का मन नहीं हटा ॥ १७ ॥
पपात पूर्वा जहतो विजिह्मातां वृषोपभुक्तान्तिकसस्यसम्पदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमन्प्रसक्तसम्पातपृथक्कृतान्पथः ॥ १८ ॥
अन्वयः—सः पूर्वा विजिह्मातां जहतः वृषोपभुक्तान्तिकसस्यसम्पदः रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः पपात ।
९२ किरातार्जुनीयम्
विग्रहः—सस्यानां सम्पदः सस्यसम्पदः, वृषैः उपभुक्ताः अन्ते भवाः सम्पदः=वृषभोपभुक्तान्तिकसस्यसम्पदः, तास्तथोक्ताः । सीमन्तवन्तः कृताः रथाङ्गैः सीमन्तिताः सान्द्राः कर्दमाः येषु तान् = रथाङ्गसीमन्तितसान्द्रकर्दमान् । प्रसक्त-सन्तापेन पृथक् कृतान् = प्रसक्तसन्तापपृथक्कृतान् ।
अर्थः—सः=अर्जुनः पूर्वाम् = प्रावृषेण्याम् । विजिह्यताम् = वक्रताम् । जहतः = त्यजतः । वृषोपभुक्तान्तिकसस्यसम्पदः = वृषभचर्वितप्रान्तसस्यसमृद्धीन् । रथाङ्गसीमन्तितसान्द्रकदमान् = चक्रसीमन्तितघनपङ्कान् । प्रसक्तसम्पातपृथक्कृतान्=सन्ततसञ्चारपृथक्कृतान् पथः = मार्गान् । पपात = जगाम । अत्र स्वभावोक्त्य-लङ्कारः ।
कोषः—‘सुकृते वृषभे वृषः' इत्यमरः ।
हिन्दी—अर्जुन जिन मार्गों से होकर जा रहे थे, वर्षा से टेढ़े-मेढ़े बने हुए वे मार्ग अब सीधे एवं सरल बन चुके थे । उन मार्गों के दोनों ओर खड़ी हुई फसलों को बैलों (साँड़ों) ने चर लिया था । रथों के पहियों द्वारा उन मार्गों में घनी कीचड़ बन गई थी और लोगों के निरन्तर आवागमन से सब मार्ग स्पष्ट दिखलाई पड़ते थे ॥ १८ ॥
जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणंवृताः।
भृशं ददर्शश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ १९ ॥
अन्वयः—सः उपग्रामम् अनिन्द्यकर्मभिः विविक्तभावेङ्गितभूषणैः जनैः वृताः आश्रममण्डपोपमाः सपुष्पहासाः निवेशवीरुधः भृशं ददर्श ।
विग्रहः—अनिन्द्यानि कर्माणि, तैरनिन्द्यकर्मभिः । विविक्तानि च भावाश्च इङ्गिताश्च भूषणं येषां तैः=विविक्तभावेङ्गितभूषणैः । आश्रमेषु ये मंडपाः=आश्रममण्डपास्ते उपमा यासां ताः = आश्रममण्डपोपमाः । पुष्पाण्येव हासः=पुष्पहासः, पुष्पहासेन सहिताः सपुष्पहासाः । निवेशानां वीरुधः=निवेशवीरुधः, ताः=निवेशवीरुधः ।
अर्थः—सः=अर्जुनः । उपग्रामम् = ग्रामसमीपे । अनिन्द्यकर्मभिः = अनि-न्दितवृत्तिभिः । विविक्तभावेङ्गितभूषणैः=एकाग्रत्वभावेङ्गितालङ्कारैः । जनैः=लोकैः । वृताः=अधिष्ठिताः । आश्रममण्डपोपमाः = मुनिस्थानमण्डपतुल्याः । सपुष्पहासाः =
चतुर्थः सर्गः १३
चतुर्थः सर्गः १३
पुष्पविकाससहिताः । निवेशवीरुधः = गृहगुल्मिनोः । भृशम् = अत्यन्तम् । ददर्श = दवलोकयामास । अत्रोपमालङ्कारः ।
कोषः—'मण्डपोऽस्त्री जनाश्नयः' इत्यमरः । 'वीरूधौ वल्लिगुल्मिन्यौ' इति वैजयन्ती ।
**हिन्दी—**अर्जुन ने मार्ग में पड़नेवाले, विकसित फूलों से युक्त लता-गुल्मों को सादर देखा । उन ग्रामों में रहनेवाले लोग कृष्यादि कर्मों में लगे हुए एवं एकाग्रता, भाव इंगित (चेष्टादि) से युक्त थे । इस प्रकार के ग्रामवासियों से अधिष्ठित उन ग्रामों की शोभा आश्रम-मण्डपों सी प्रतीत होती थी ॥ १९ ॥
ततः स संप्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् ।
उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥२०॥
**अन्वयः—**ततः सः यक्षः शरद्गुणश्रियं संप्रेक्ष्य शरद्गुणालोकनलोलचक्षुषम् तम् अचोदितः अपि गाम् उवाच । हि इंगितज्ञः अवसरे न अवसीदति ।
**विग्रहः—**शरदः गुणः शरद्गुणस्तस्य श्रीस्ताम् = शरद्गुणश्रियम् । शरद्गुणस्य आलोकनं = शरद्गुणालोकनं तस्मिन्, शरद्गुणालोकने लोले चक्षुषी यस्य तम् = शरद्गुणालोकनलोलचक्षुषम् । न चोदितः = अचोदितः । इंगितं जानातीति = इंगितज्ञः ।
**अर्थः—**ततः = तदनन्तरम् । सः = पूर्वोक्तः । यक्षः । शरद्गुणश्रियं = शरच्छोभां संप्रेक्ष्य = दृष्ट्वा ! शरद्गुणालोकनलोलचक्षुषम् = शरच्छोभावलोकने सतृष्णनेत्रम् । तम् = अर्जुनम् । अचोदितः = अपृष्टः । अपि । गाम् = वाचम् । उवाच = प्राह । हि = यतः । 'इंगितज्ञः = भावज्ञः' अवसरे काले । न अवसीदति = नैव वाचं यच्छति । अत्रार्थान्तरन्यासालंकारः ।
कोषः—'लोलश्चलसतृष्णयोः' इत्यमरः । 'इङ्गितं हृद्गतो भावः' इति विश्वः ।
**हिन्दी—**तदनन्तर उस यक्ष ने शरत्कालीन शोभा को देखकर, शारदो-शोभा देखने में उत्सुक बने हुए अर्जुन से बिना पूछे ही कहना आरम्भ किया; क्योंकि अभिप्रायों को जाननेवाला व्यक्ति समय (अवसर) को नहीं चूकता है ॥ २० ॥
इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ ! पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥२१॥