किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
दशमः सर्गः १९५
प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलैन । नव इव विभभौ सचिचजन्म गतधृतिराकुलितश्च जीवलोकः ॥२१॥ मल्लि०—प्रतिदिशमिति । दिशि दिशि प्रतिदिशम् । यथार्थेऽव्ययीभावः । शरत्प्रभृतित्वात् समासान्तनिपातः । अभिगच्छता संद्वाता ककुभानि अर्जुनकुसुमानि । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ । तेषां विकासेन सुगन्धिना मनोज्ञगन्धेन गन्धस्येखे तदेकान्तग्रहणं प्रायिकम् । अनिसेनाभिमृष्टः संस्पृष्टोऽत एव सचित्तजन्मा । कामाक्रान्त इत्यर्थः । अत एव गतधृतिर्गतधैर्य आकुलितः क्षोभितश्च । रति प्रतीति भावः । एवंभूतो जीवलोको नव इव अवस्थान्तरप्राप्त्या अपूर्व इव विभभौ माति स्मेत्युत्प्रेक्षा ॥ २१ ॥ हिन्दी—अर्जुन वृक्षके फूलोंके विकाससे सुगन्धवाली प्रतिदिशामें बहती हुई हवासे स्पर्श किया गया अतएव कामावेशसे आक्रान्त, धैर्यरहित और क्षुब्ध किया गया जीवलोक अपूर्व-सा होकर शोभित हो गया ॥ २१ ॥
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥ २२ ॥ मल्लि०—व्यथितमिति । व्यथितं दुःखितमपि मनो भृशं हरन्ती । किमुत सुखितमिति भावः । जम्ब्वाः फलं जम्बु । ‘बृहंतं च फले जम्ब्वा जम्बुः स्त्री जम्बु जाम्बूवम्’ इत्यमरः । ‘जम्ब्वा वा’ इत्यणभावपक्षेऽपि ‘फले लुक्’ इति लुक् । ‘लुक्तद्धितलुकि’ इति स्त्रीप्रत्ययनिवृत्तिः । जम्बु च तत्फलं चेति सामान्यविशेषयोः सहनिर्देशः । यद्वा—जम्ब्वाः फलमिति विग्रहः । ‘इको ह्रस्वोऽङ्यो गालवस्य’ इति ह्रस्वः । तस्य परिणतस्योपभोगेन हृष्टा । अत एव परभृतयुवतिः कोकिलाङ्गना नवनवं नवप्रकारं यथा तथा योजितेन संपादितेन कण्ठरागेण कण्ठमाधुर्येण रम्यम् । सौम्यमित्यर्थः । स्वनं स्वरं वितेने । वर्षास्वपि मधुराः स्वराः कोकिलाया इति प्रसिद्धिः ॥ २२ ॥ हिन्दी—दुःखित चित्तको भी बार-बार हरण करती हुई पके हुए जम्बूफलके उपभोगसे प्रसन्न कोयलने नये ढंगसे सम्पादित कण्ठकी मधुरतासे मनोहर स्वरका विस्तार किया ॥ २२ ॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥२३॥
११६ किरातार्जुनीयम्
मल्लि०—अभिभवतीति। कदम्बवायौ कदम्बसंबन्धिनि मारुते मदमधुरे शिखण्डिनां निनादे च मनोऽभिभवति अभिहरति सति, जिष्णुर्जयनशीलोऽर्जुनो नतः पृथग्जन इव धृतेर्धैर्यान्न चचाल। वर्षा अपि तदुद्दीपनाव न शेकुरित्यर्थः। हि यस्मात्, महतां समाधिभङ्गो न सुकरः। न केनापि कर्तुं शक्यत इत्यर्थः ॥ २३ ॥
हिन्दी--कदम्ब वृक्षकी हवाके और मदसे मधुर मयूरोंकी आवाजके भी मनको हरण करनेपर जयशील अर्जुन साधारण पुरुषकी तरह धैर्यसे विचलित नहीं हुए, क्योंकि महापुरुषोंको समाधिका भङ्ग होना आसान नहीं है ॥ २३ ॥
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २४ ॥
मल्लि०—धृतेति। बिसानि वलयानीव तेषामावलिर्धृता यया सा। कुमुदवनमेकं मुख्यं दुकूलमिव तद्वहन्ती। आत्ता गृहीता बाणा नीलझिण्टी यया सा आत्तबाणा, धृतशरा च 'गृह्णीयात्क्षत्रिया शरम्' इति स्मरणात्। 'बाणोक्ता नीलझिण्टी च' इति वैजयन्ती। शरदधूर्जायेव घनसमयेन वर्षर्तुना। वरेणेति शेषः। अमलतले निर्मलतले सरोजं पाणिरिव तस्मिन्। आललम्बे जगृहे। कर्मणि लिट्। वधूवरसमागभवदृतुसंधिशोभतेत्यर्थः। अत्र 'आत्तबाणा' इति झिण्टीशरयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिरुपमाङ्गमित्यनयोः संकरः ॥ २४ ॥
हिन्दी--कङ्कणोंके समान मृणालदण्डोंको धारण करनेवाली, कुमुदवनको ही एक मुख्य दुकूलको धारण करती हुई नील झिण्टीको पहनती हुई शरत्को वधूकी तरह वर्षाऋतुरूप वरने निर्मल तलवाले हाथके समान कमलमें ग्रहण कर लिया ॥ २४ ॥
अथ ऋतुसन्धिं वर्णयति—
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या।
श्रियमतिशायिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥ २५ ॥
मल्लि०—समेतेति। समदशिखिरुतानि मत्तमयूरकूजितानि हंसनादैः समेत्य तथा कुमुदवनानि कदम्बपुष्पवृष्ट्या कदम्बपुष्पसंपदा समेत्य। अतिशयिनीमतिशायवतीं श्रियं जग्मुः। तथा हि—गुणमहतां गुणाधिकानां योगः परस्परसमागमो महते गुणायोत्कर्षाय भवतीति शेषः। अत्र त्रिपादां समालंकारः—'सा समानं'
दशमः सर्गः ११७
कृतियोग्यवस्तुनोरुभयोरपि' इति लक्षणात् । सोऽपि चतुर्थेनार्थान्तरन्यासेन स्व-समर्थकेनाङ्गाङ्गिभावेन संकीर्यते ॥ २५ ॥
हिन्दी — मदवाले मयूरोंके शब्द हंसोंके शब्दोंके साथ और कुमुदवन कदम्ब पुष्पोंकी सम्पत्तिके साथ उत्कर्षवाली शोभाको प्राप्त हो गये, क्योंकि ज्यादा गुणवालोंका परस्पर समागम महान् उत्कर्षके लिए होता है ॥ २५ ॥
सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनोलबन्धनानि ॥२६॥
मल्लि० — सरजसमिति । प्रियमधुरिष्टमकरन्दा । नात्र कप्समासान्तः । 'पुंलिङ्गोत्तरपदो बहुव्रीहिः' इति केचित् नपुंसकलिङ्गस्यैव 'मधु' शब्दस्योरःप्रभृतिषु पाठात् मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥ इत्यभिधानात् । षट्पदावली । उपान्तिके यानि नीपानि कदम्बकुसुमानि तेषां रेणुभिः परागैः कीर्णं व्याप्तम् । किंच, स्वतोऽपि सह रजसा सरजसम् । न त्वरजस्कमिति भावः । साकल्येऽव्ययीभावः । 'अवत्तुरे-'त्यादिना निपातः । केतकीनां प्रसवं पुष्पम् । अपहाय । विनोलबन्धनानि मलिनवृन्तानि । असनानि प्रियकपुष्पाणि । मकरन्दभरितानीति भावः । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । मलिनयति स्म । यथा वृन्तादन्यत्रापि मालिन्यं स्यात्तथा मधुलोभाच्छादयामासेत्यर्थः । न हि मध्वासक्तो मधुलाभेऽसति विभूतिष्वासजतीति भावः ॥२६॥
हिन्दी — पुष्परसको पसन्द करनेवाली भ्रमरपङ्क्ति निकट स्थित कदम्ब-पुष्पोंके परागोंसे व्याप्त और स्वतः परागसे युक्त केतकीके पुष्पको छोड़कर मलिन वृन्तवाले प्रियक पुष्पोंको मलिन कर देती थी (पुष्परसके लोभसे आच्छादित कर देती थी) ॥ २६ ॥
मुकुलितमतिशय्य बन्धुजीवं धूतजलबिन्दुपु शाद्वलस्थलेषु ।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २७ ॥
मल्लि० — मुकुलितमिति । धूता जलबिन्दवो यासु तासु शाद्वलस्थलीषु शाद-हरितप्रदेशेषु । अविरलवपुषः स्थूलमूर्तयः सुरेन्द्रगोपाः कीटविशेषा मुकुलीकृतं बन्धुजीवम् । बन्धुजीवकमुकुलमित्यर्थः । 'बन्धूको बन्धुजीवकः' इत्यमरः । अतिशय्यातिक्रम्य विकचपलाशचयो विकसितकिंशुकराशिः । 'पलाशे किंशुकः पर्णः' इत्यमरः । तस्य श्रियम् । तत्सदृशीं श्रियमित्यर्थः । अत एव निदर्शनालङ्कारः । समीयुः प्रापुः ॥ २७ ॥
१९८ | किरातार्जुनीयम्
**हिन्दी—**जल बिन्दुओंको धारण करनेवाली हरे तृणों (घासों) से व्याप्त भूमिमें मोटे शरीरवाले इन्द्रगोप (वीरबहूटी नामके) कीड़े बन्धूक (दपहरिया) पुष्पके मुकुलकी शोभाका अतिक्रमण (मात) करके विकसित पलाशपुष्पोंके समान शोभाको प्राप्त हो गये ॥ २७ ॥
अथ हेमन्तवर्णनमाह—
अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ॥ २८ ॥
मल्लि०—अविरलेति । अविरलानि घनानि फलिनीवनानां प्रियङ्गुवनानां प्रसूनानि यस्मिन् सः । 'प्रियङ्गुः फलिनी फली' इत्यमरः । कुसुमितैः कुन्दैर्मध्य-कुसुमैः सुगन्धिर्गन्धवाहो यस्मिन् सः । 'माघ्यं कुन्दम्' इत्यमरः । शैशिराणामपि कुन्दानां हेमन्ते प्रादुर्भावादविरोधः । विरलतुषारकण इति प्रारम्भोक्तिः । तुषारकालो हेमन्तः । चिरायासमयजमकालसंभवं गुणमुत्कर्षं लेभे ॥ २८ ॥
**हिन्दी—**प्रियङ्गु वनके घने फूलोंसे युक्त, खिले हुए कुन्दपुष्पोंसे सुगन्धित वायुवाला, प्रारम्भके कारण विरल हिमकणसे युक्त हेमन्त ऋतुने बहुत कालतक असमयमें उत्पन्न उत्कर्षको पा लिया ॥ २८ ॥
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् ।
विकृतिममुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥२९॥
मल्लि०—निचयिनीति । निचयिनि उपचयवति लवलीलतानां विकासे पुष्पविजृम्भणे तथा लोध्रसमीरणे हर्षं चोत्कण्ठां जनयति सति पाण्डुसूनुर्विकृतिं नोपययौ । कुतः । हि यस्मात्, जिगीषतां जेतुमिच्छतां चेतो नयान्नीतेर्न चलति । न हि क्रोधाक्रान्ते चेतसि शृङ्गाररसस्य विकासः । तद्विरुद्धत्वात्क्रोधस्येति भावः । ॥ २९ ॥
**हिन्दी—**लवली लताओंके समृद्धि युक्त विकासमें तथा लोध्रपुष्पकी हवाके हर्ष उत्पन्न करनेपर भी अर्जुनको विकार नहीं हुआ, क्योंकि जयका अभिलाष करनेवालोंका मन नीतिसे विचलित नहीं होता है ॥ २९ ॥
कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्धुवारः ।
सुरभिमुखहिमागमन्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ ३०॥
दशमः सर्गः १९९
मल्लि०—कतिपयेति । कतिपयैरेव सहकारपुष्पैश्चूतकुसुमै रम्यः न तु वसन्त- वत्समग्रैः, नापि हेमन्तवत्तद्रहितैरिति भावः । तनुतुहिनोऽल्पहिमः । न तु हेमन्त- वद्बहुतुहिनः, नापि वसन्तवद्विरलतुहिन इति भावः । अल्पानि कतिपयानि विनि- द्राणि सिन्दुवाराणि विकसितनिर्गुण्डीकुसुमानि यस्मिन् सः । अत्रापि सहकारवद- भिप्रायो द्रष्टव्यः । 'सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' । इत्यमरः । इत्थं सुरभिमुखं वसन्तप्रारम्भं हिमागमान्तं हेमन्तावसानं शंसति सूचयतीति स तथोक्तः स्मरस्यैकबन्धुः सहकारी । उभयर्तुधर्मसंपत्तेरिति भावः शिशिरः समुपययौ ॥ ३० ॥
**हिन्दी—**कतिपय ही सहकार ( आम्रविशेष ) के फूलोंसे रमणीय, अल्प हिमवाला, विकसित थोड़े-से निर्गुण्डीके फूलोंसे युक्त इस प्रकार वसन्तका प्रारम्भ और हेमन्तकी समाप्तिकी सूचना करनेवाला, कामदेवका एकमात्र बन्धु (सहकारी) शिशिर ऋतु प्रादुर्भूत हो गया ॥ ३० ॥
अथ वसन्तप्रारम्भमाह— कुसुमनगवनान्युपैतुकामा किसलयिनोमवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ ३१ ॥
मल्लि०—कुसुमेति । कुसुमप्रधानानां नगानां वृक्षाणां, कुसुमानां नगा वृक्षा वा तेषां वनानि । उपैतुमारोढुं कामो यस्याः सा । 'शैलवृक्षौ नगावगौ' इत्यमरः । 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि' । इति मकारलोपः । वसन्तलक्ष्मीः किसल- यिनीं पल्लविनीं चूतयष्टिम् । चूतशाखामिवेति भावः । अवलम्ब्यावष्टभ्य । अन्य- थारोढुमशक्यत्वादिति भावः । क्वणत् शिञ्जानं शब्दायमानमलिकुलं नूपुरमिव यस्याः सा तथोक्ता सती । 'क्वणदलिकुलनूपुरम्' इत्यपि पाठः । अन्यत्र—अलि- कुलवन्नूपुरम् । नलिनवनेषु पदं निरासे निदधे । तेषु प्रथमं प्रादुरासीदित्यर्थः । 'उपसर्गादस्यत्यूह्योर्वा' इति वचनादात्मनेपदम् । अत्र प्रक्रान्तवसन्तलक्ष्मीविशेषण- सामर्थ्यादप्रस्तुतनायिकाकाव्यवहारसमारोपात्समासोक्तिरलंकारः ॥ ३१ ॥
**हिन्दी—**पुष्पप्रधान वृक्षोंके वनमें पहुँचनेका अभिलाष करनेवाली वसन्त- लक्ष्मीने पल्लवोंसे युक्त आम्रकी शाखाका अवलम्बन कर शब्द करते हुए नूपुरके समान भ्रमरसमूहवाली होकर ( भ्रमरसमूहके तुल्य नूपुरवाली होकर ) कमलबनों- में पदार्पण किया ॥ ३१ ॥
२०० किरातार्जुनीयम्
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम्। ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥ ३२ ॥
मल्लि०—विकासतेति । विकसितो विश्लिष्टः कुसुममेवाधरो यस्मिन् कर्मणि तद्यथा तथा हसन्तीं स्मयमानां कुरवकराजिरेव वधूस्तां विलोकयन्तम् । कामुकतयेति भावः । अत एव, अशोकपल्लवेषु पल्लवसंस्तरेषु निषण्णम् । स्थितमित्यर्थः । रिरंसयेति शेषः । सशरम् । नित्यविजयित्वादिति भावः । इत्थं शृङ्गारवीरयोरेकाधिकरणभूतम्, अनङ्गं सुराङ्गना ददृशुरिवेत्युत्प्रेक्षा । अशोकावलोकनान्मदनसाक्षात्कारादिव महान्मनःक्षोभस्तासामासीदित्यर्थः । अत्र रूपकोत्प्रेक्षयोः संसृष्टिः ॥ ३२ ॥
हिन्दी—विकसित पुष्परूप अधरको बनाकर हँसती हुई कुरवक पङ्क्तिरूप वधूको देखते हुए अतएव अशोक-पल्लवों पर बैठे हुए बाणयुक्त कामदेवको मानों अप्सराओने देख लिया ॥ ३२ ॥
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलमलकाकृति प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ ३३ ॥
मल्लि०—मुहुरिति । अनुपतताऽनुधावता दक्षिणानिलेन मलयमारुतेन मुहुर्विधूयमानं कम्पितम्, अत एव विरचिता संहतिर्येन । तत्संभूतमित्यर्थः । पङ्कजिन्या यन्नलिनं मुखमिव तस्य अन्तविसर्पि प्रान्तचारि । अलिकुलं कर्तृ अलकाकृतिमलकसादृश्यं प्रपेदे ॥ ३३ ॥
हिन्दी—बहती हुई दक्षिण दिशाकी हवासे बारंबार कम्पित, अतएव समूहकी रचना करनेवाले, कमलिनीके मुखके समान कमलके आस-पास चलनेवाले भ्रमरसमूहने अलकका सादृश्य प्राप्त किया ॥ ३३ ॥
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यामिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूरचुम्बि ॥ ३४ ॥
मल्लि०—श्वसतेति । षट्पदेन अलिना । शाललता सर्जतरुशाखा वधूरिव शाललतावधूः । 'प्रकारप्रहयोः शालः शालः सर्जतरुः स्मृतः' । इति शाश्वतः । श्वसनेन वायुना निःश्वासेन च चलितः पल्लवोऽधरोष्ठ इव पल्लवाधरोष्ठो यत्र तस्मिन् । 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्' । मधुना मकरन्देन मद्येन च सुरभिणि सुगन्धिनि पुष्पे मुख इव नवं यथा तथा निहितेर्ष्या कृतकोपमिवेति
दशमः सर्गः २०१
क्रियाविशेषणम् । तथा, अवधूनयन्ती कम्पयन्ती । 'धूनू प्रीञोनुंवक्तव्यः' इति णिचि नुगागमः । चुचुम्बे चुम्बिता । अत्र 'श्वसन' शब्दार्थ-'मधु'शब्दार्थयोश्च स्वस्वभेदाध्यावसायाच्छ्लेषमूलातिशयोक्तिः । सा चोपमाऽङ्गमित्यनयोः संकरः ॥ ३४ ॥
हिन्दी--भ्रमरने निःश्वाससे जिसके पल्लव अधरोष्ठके समान हिल रहे थे, पुष्परस और मधुसे सुगन्धित, मानों नूतनरूपसे कोप करके काँपती हुई शालवृक्ष-की शाखारूप वधूके पुष्परूप मुखमें चुम्बन कर लिया ॥ ३४ ॥
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा ।
अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ ३५ ॥
मल्लि०—प्रभवतीति । परः शत्रुः । तदा तस्मिन्काले विजेतुं न प्रभवति न शक्नोति । यदा जितेन्द्रियता इन्द्रियजयित्वम् । आत्मरक्षा भवति जायते । तथा हि—अवजितभुवनस्त्रैलोक्यविजयी पुष्पमासो वसन्तः । सिततुरगेऽर्जुने विषये विजयं न लेभे । अतो जितेन्द्रिया दुर्जया इत्यर्थः । विशेषेण सामान्यार्थसमर्थनरूपोऽ-र्थान्तरन्यासोऽलंकारः ॥ ३५ ॥
हिन्दी-शत्रु उस समय जीतनेके लिए समर्थ नहीं होता है जिस समय आत्मरक्षा करनेवाली जितेन्द्रियता रहती है, जैसेकि वसन्त-ऋतु अर्जुनके विषयमें विजयको प्राप्त नहीं कर सका ॥ ३५ ॥
कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितास्य ।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ ३६ ॥
मल्लि०—कथमिति । विरचितमल्लिकाविकासो निदाघकालो ग्रीष्मो ऋतुभि-र्वर्षादिभिः समं मुनिनाऽवधीरितास्य तिरस्कृतस्य तव संमतिर्लोके योग्यत्वेनानुमति-र्मन्यित्व कथमिव भवित्री ? न संभावः कथंचिद्भविष्यतीत्यर्थः । इति इत्थं मधुं वसन्तम् । 'चैत्रे दैत्ये वसन्ते च जीवे कोके मधुः स्मृतः' इति विश्वः । स्मयते स्मेव जहास किमित्युत्प्रेक्षा । 'लट् स्मे' इति भूतार्थे लट् । प्रहासस्य शुभ्रत्वेन कविप्रसि-द्धेर्मल्लिकाविलासे हासत्वाध्यवसायः । अनृतुभिः सममवधीरितास्येत्यत्राभेदाध्य-वसायमूला सहोक्तिरलंकारः । संबन्धभेदमिन्नस्यावधी रणस्याभिन्नतयाध्यवसायात् तदेवावधीरणमसंमतिद्वारा स्मयोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ ३६ ॥
२०२ | किरातार्जुनीयम्
हिन्दी—मल्लिका ( बेली ) पुष्पका विकास करनेवाला ग्रीष्म ( ऋतु ) ऋतु ( वर्षा आदि ) ओंके साथ मुनि ( अर्जुन ) से तिरस्कृत तुम्हारी मान्यता लोकमें कैसे होगी ? इस प्रकार वसन्त-ऋतुका मानों उपहास करता हुआ प्रकट हुआ ॥ ३६ ॥
बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षणमुन्मनीचकार ॥ ३७ ॥
मल्लि०— बलवदिति । बलवदपि प्रबलमपि । प्रकृष्टाङ्गमिवित यावत् । मिथोविरोधि परस्परस्पर्धि बलं सैन्यम् । 'वरूथिनी बलं सैन्यम्' इत्यमरः । विपक्षनिर्जयाय शत्रुविजयाय । 'तुमर्थाच्चे'—त्यादिना चतुर्थी । शत्रुञ्जेतुमित्यर्थः । न प्रभवति न शक्नोत्येव । कुतः । यत् यस्मात् कारणात्, भुवनानां परिभवी जेतापि । 'जिदृक्षी—'त्यादिनेनिप्रत्ययः । ऋतुगणस्तदानीम् । तम् अर्जुनं क्षणमपि नोन्मनीचकारानुन्मनसमुन्मनसं न चकार । 'अरुर्मनश्चक्षु—'रित्यादिनाऽभूततद्भावे ष्विप्रत्ययः सलोपश्च । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३७ ॥
हिन्दी— प्रबल ( जबरदस्त ) होकर भी परस्पर स्पर्धा करनेवाली सेना शत्रुको जीतनेके लिए समर्थ नहीं होती है, क्योंकि लोकोंको जीतनेवाला होकर भी ऋतु-समूह उस समय अर्जुनको विषयमें उत्कण्ठित चित्तवाला नहीं कर सका ॥ ३७ ॥
एवं तटस्थस्योद्दीपनसामग्री विफलेत्युक्तम्, संप्रति'विपरीता जातेत्याह—
श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधुषु मनोभवं वितेनुः ॥ ३८ ॥
मल्लि०— श्रुतीति । सहायैस्तासां सहचरैर्गन्धर्वैः । कृतमिति शेषः । 'नलोके-'त्यादिना षष्ठीप्रतिषेधः । कर्तरि तृतीया । श्रुतिसुखं श्रोत्रमधुरम् । उपवीणितं वीणयोपगानम् । 'सत्यापपाशे—'त्यादिना 'वीणा'शब्दाण्णिजन्ताद्भावे क्तः । अविरलैर्भूयोभिर्लाञ्छनैः पूर्वोक्तैः फलकुसुमादिभिश्चिह्नैर्हारिणो मनोहराः काला वसन्तादिक्ष्तवः । अविहिताऽकृता हरिसूनोरर्जुनस्य विक्रिया मनोविकृतिर्येस्तानि तथाभूतानि सन्ति । 'नपुंसकमनपुंसके'—त्यादिना नपुंसकैकशेषः । त्रिदशवधुषु मनोभवं वितेनुर्विस्तारयामासुः । सोऽयं परप्रहारार्थमुद्यतमायुधं स्वात्मानमेव प्रहरतीति न्यायवञ्जआत इति भावः । अत्र मुनिविक्रियार्थं स्त्रीणां विक्रियारूपा-
दशमः सर्गः । २०३
नर्थोत्पत्तिकथनाद्द्वितीयो विषमालंकारः । तथा च सूत्रम्—‘विरूपकार्यानर्थयो- रुत्पत्तिरुपसंघटनाद्विपमलंकारः’ इति ॥ ३८ ॥
हिन्दी—सहायक गन्धर्वोंसे किया गया कानमें मधुर बीनके साथ गाना, प्रचुर फल पुष्प आदि चिह्नोंसे मनोहर समय (वसन्त आदि ऋतुकाल) ये सब भी अर्जुनके मनमें विकार उत्पन्न करनेमें असमर्थ होकर उलटा अप्सराओंपर ही कामावेशका विस्तार करने लगे ॥ ३८ ॥
तटस्थवदालम्बनगणोऽपि विपरीतोऽभूदिति श्लोकद्वयेनाह—
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतिमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ ३९ ॥
मल्लि०—नेत्यादि । आसां लोचनानि हरितनयावयवेषु यथा तथा दलति विकसति उत्पलानां निचयेऽभिरतिं नोपलेभिरे न प्रापुः । तथा च विषमच्छदगुच्छाः सप्तपर्णस्तवका यूथिका मल्लिकाश्च तास्वभिरतिं नोपलेभिरे । ‘सप्तपर्णो विशाल-त्वक्शारदो विषमच्छद’ । इत्यमरः । तथा रमणीयत्वात्तदवयवानामित्यर्थः । इति चक्षुःप्रीतिरुक्ता ॥ ३९ ॥
हिन्दी—अप्सराओं के नेत्रोंने अर्जुनके अङ्गोंको देखकर जिस तरह प्रीतिको प्राप्त किया उस तरह कमलसमूहमें, सप्तपर्णके गुच्छोंमें और यूथिका (जूही) पुष्पोंमें प्रीतिको प्राप्त नहीं किया ॥ ३९ ॥
अथ मनःसङ्गं सूचयति—
मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ ४० ॥
मल्लि०—मुनिमिति । याः स्त्रियः कमनीयता सौन्दर्यं सैव गुणस्तेन । मुनि-मर्जुनम् । अभिमुखतां वश्यतां निनीषवो नेतुमिच्छवः समुपययुः । तासां स्त्रीणां स मुनिरेव मदनमुपदधे जनयामास । तथा हि—प्रयोजनानामुद्देश्यानां गतिः परिणतिर्दुरधिगमा हि दुर्ज्ञेया खलु । अतः ‘क्वचिद्भवति, क्वचिन्न भवतीति भावः ॥ ४० ॥
हिन्दी—जो अप्सराएँ सौन्दर्यरूप गुणसे मुनि (अर्जुन) को वशमें करना चाहती हुई गई थीं, मुनि (अर्जुन) ने उन्हीं अप्सराओंमें कामावेशको उत्पन्न कर दिया' उद्देश्यका परिणाम नहीं जाना जाता है ॥ ४० ॥
प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ ४१ ॥
२०४ किरासार्जुनीयम्
अथासामनुरागमेव कार्यतः प्रपञ्चयति— प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा। प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ ४१ ॥
मल्लि०—प्रकृतमिति। विलासि सविलासं नर्तकीनां संबन्धि। 'शिल्पिनि ष्वुन्' इति ष्वुन्प्रत्ययः—'नृत्तित्वनिरपेक्षस्य एव' इति नियमः। चक्षुः कर्तृ प्रकृतं प्रक्रान्तं अभिनेयमभिनेतव्यं रसभावाद्यभिव्यञ्जकं नानुससार। तददूषणं तदानुगुण्येनैव दृष्टिप्रयोगनियमादिति भावः। तथा प्रविकसदङ्गुलि चञ्चलाङ्गुलि पाणिपल्लवं वा नानुससार। स च दोषः 'यतो हस्तस्ततो दृष्टिः' इति नियमादिति भावः। 'पल्लवोऽस्त्री किसलयम्' इत्यमरः। 'वा स्याद्विकल्पोपमयोरेवार्थेन समुच्चये'। इति विश्वः। किंतु, प्रथमं प्रवेश एव सिततुरगेऽर्जुने उपहितं सन्न चचाल तत्रैव लग्नं तस्थौ। रागार्तेर्न किञ्चित्करणीयमनुसंधेयमिति भावः॥ ४१ ॥
हिन्दी—नाचनेवाली अप्सराओंके नेत्रने आरम्भ किये गये रस भाव आदिका व्यञ्जक अभिनय विषयका अनुसरण नहीं किया वा विकसित होती हुई अंगुलियों- वाले पाणिपल्लवका अनुसरण नहीं किया, किन्तु प्रवेश समयमें ही अर्जुनमें दिया जाता हुआ उनका नेत्र विचलित नहीं हुआ, उन्हीं में लगकर स्थित हुआ ॥४१॥
अभिनयमनसः सुराङ्गनाया विहितमलक्तकवर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धूतनवलोहितपङ्कजाभिशङ्का ॥ ४२ ॥
मल्लि०—अभिनयेति। अभिनयो रसभावाद्यभिव्यञ्जकचेष्टाविशेषः। 'व्यञ्ज- काभिनयो समौ' इत्यमरः। तत्र मनो यस्यास्तस्याः। व्यासङ्गाद् मुङ्गापातभजा- नत्या इत्यर्थः। सुराङ्गनायाः संबन्धि अलक्तकवर्तनेन लाक्षारसरञ्जनेन अभिताम्रं निहितं न्यस्तं चरणं षट्पदाली कर्त्री धूता नवलोहितपङ्कजाभामभिशङ्का प्रत्यग्र- कोकनदभ्रमो यया सा। अभिपपाताभिधावति स्म। अत्र षट्पद्याल्याः स्त्रीचरणे पङ्कजभ्रमाभिधानाद् भ्रान्तिमदलङ्कारः। तेन चोपमा व्यज्यत इत्यलङ्कारेणा- लङ्कारध्वनिः ॥ ४२ ॥
हिन्दी—अभिनयमें मन देनेवाली अप्सराके लाक्षारसके रागसे लाल चरणोंमें भ्रमरपङ्क्ति 'इसमें नया रक्तकमल रखा गया है' ऐसे भ्रमम पड़ गई ॥ ४२ ॥
अविरलमलसेषु नर्तकीनां द्रुतपरिशिक्तमलक्तकं पदेषु। सवपुषमिव चित्तरागमूहूर्नमितशिखानि कदम्बकेसराणि ॥ ४३ ॥
दशमः सर्गः [२०५]
मल्लि० – अविरलमिति । नमितशिखानि नर्तकीपादपीडनान्नमिताग्राणि कदम्बकेसराणि । रङ्गपूजादत्तानीति शेषः । अविरलं सान्द्रं यथा तथा द्रुतः रागोष्मणा विगलितोऽत एव परिसिक्तः प्रसृतस्तं द्रुतपरिसिक्तं नर्तकीनामलसेषु पदेषु पादन्यासेषु । अलक्तकं लाक्षारागं सवपुषं मूर्तिमन्तं चित्तरागमुत्कटतया कायाद्बहिर्निस्सृतं मुनिविषयकं रागमित्युत्प्रेक्षा । ऊहुर्वहन्ति स्म ॥ ४३ ॥
हिन्दी — नर्तकियोंके पैर पड़नेमे झुके हुए कदम्बपुष्पके केसर, गाढरूपसे विगलित अतएव परिसिक्त नर्तकियोंके पादन्यासोंमें रहे हुए लाक्षारागको मूर्तिमान् चित्तरागके समान धारण करते थे ॥ ४३ ॥
अथासां शृङ्गारचेष्टां कथयति—
नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।
स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥ ४४ ॥
मल्लि० – नृपेति । नृपसुतमर्जुनम् । अभितः संमुखं परिजनस्य सखीजनस्य गात्रेण तिरोहिता लज्जया स्वाकारगोपनायान्तर्हिताऽङ्गयष्टिर्यस्याः सा तस्याः समन्मथाया वध्वाः अभिलषितं मुनिं प्रत्यनुरागः स्फुटो बभूव । न च संव्रियमाणस्याभिव्यक्तिविरुद्धेति वाच्यमित्याह—यतः संवृतिः सम्यग्गोपनमेव कामितानि अनुरागान् । कामयतेर्भावे क्तः । वदति हि । प्रकटयतीत्यर्थः । अयमनुरागस्य स्वभाव उक्तः । यया चेष्टया रागः संव्रियते सैवास्य प्रकाशिका जातेति भावः ॥ ४४ ॥
हिन्दी — अर्जुनके सम्मुख सखीके शरीरसे तिरोहित अङ्गयष्टिवाली कामावेशसे युक्त अप्सराका अर्जुनके प्रति अनुराग स्पष्ट हो गया, क्योंकि गोपन (छिपाना) ही अनुरागोंको प्रकट करता है ॥ ४४ ॥
अभिमुनि सहसा हृते परस्याः घनमरुता जघनांशुकैकदेशे ।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ ४५ ॥
मल्लि०—अभिमुनीति । अभिमुनि मुनिसमक्षं घनेन मरुता जघनांशुकस्यैकदेशे सहसा हृते सति सत्रपायाः सलज्जायाः परस्याः संबन्धि अवसनो निरावरणो ऊरुर्यस्मिंस्तत् । चकितं भयसंभ्रमः प्रतियुवतीरपि सपत्नीरपि विस्मयं निनाय । किमुतान्यजनमित्यपिशब्दार्थः । न तु मुनिमित्याशयः ॥ ४५ ॥
हिन्दी — मुनि (अर्जुन)के सम्मुख वायुके वेगसे जघनवस्त्रके एकभागके
| २०६ | किरातार्जुनीयम् |
|---|
सहसा उड़ाये जाने पर लज्जावती दूसरी अप्सराके वस्त्रहीन करवाने भयके संभ्रम ( घबराहट ) ने सपत्नी जनोंको भी आश्चर्यित कर दिया ॥ ४५ ॥
धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् ।
नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥ ४६ ॥
मल्लि०---धृतेति । अपरा स्त्री स्मराभितापाद् हेतोः । धृतानि बिसान्येव वलयानि येन तस्मिन् पाणावधिरूषिते चन्दनादिचर्चिते पाण्डू गण्डलेखे गण्डस्थले यस्य तत् । मुखं निधायारोप्य । अमधुमदे मधुमदरहिते तथापि अलसे लोचने यस्मिन्कर्मणि तद्यथा तथा तं नृपसुतं निदध्यौ पश्यति स्म । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥ ४६ ॥
हिन्दी— अन्य अप्सरा कामसन्तापके कारण कमलदण्डरूप कङ्कणको धारण किये हुए हाथमें चन्दन आदिसे लिप्त सफेद गण्डस्थलवाला मुख रख कर मदिराके मदसे रहित होकर भी नेत्रोंको आलस्यपूर्ण बनाकर अर्जुनमें रखती थीं ( देखती थी ) ॥ ४६ ॥
अथ पञ्चभिर्मुनिं प्रति दूतीवाक्यमाह—
सखि ! दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणामितप्ता ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठनुपागतं विवेद ॥ ४७ ॥
मल्लि०—सखीति । कुसुमेषुणा कामेनाभितप्ता पीडिता सा नायिका । हे सखि ! दयितं मुनिम् । इहानयेति मां प्रहितवती मत्सन्तिकं प्रेषितवती । किन्त्व-विमृश्यकारिणीियमित्याह—हृदयमिति । अहृदयाऽमनस्का । तस्यास्त्वद्गतत्वादिति भावः । अत एव सा पूर्वं प्रागेव भवदुपकण्ठं त्वत्समीपम् । उपागतं हृदयं मनो न विवेद । नाम संभावनायाम् । अतो मत्प्रेषणं व्यर्थं तस्यान्तरङ्गत्वाद्बहिरङ्गस्य दुर्बलत्वादिति भावः । एतेन मनःसङ्गः उक्तः । चक्षुःप्रीतिस्तु प्रागेव सर्वासामुक्तेति न पृथगुच्यते ॥ ४७ ॥
हिन्दी— कामदेवसे सन्तप्त नायिकाने हे सखि ! 'प्रिय ( मुनि ) को यहाँ ले आओ' ऐसा कह कर मुझे यहाँ भेजा है, जिसको आपके पास भेजनेसे सम्प्रति चित्तरहित उसने पहले ही आपके पास पहुँचे हुए उसको नहीं जाना ॥ ४७ ॥
'दृङ्मनःसङ्गसंकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्च्छाऽन्ता इत्यनङ्गदशा दश ॥' इति । तत्राद्यमवस्थाद्वयमप्यन्वायि । संप्रति काचित् क्रमवैरपेक्ष्येण सूचयति—
दशमः सर्गः । २०७
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण ! गमितानि मत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ ४८ ॥
मल्लि०—चिरमिति । चिरं कलितान्यपि संदेशार्थं बुद्ध्या योजितान्यपि । वचनानीति शेषः । परिशुष्यता मुखेनेति जागरोक्तिः । परिगदितुमपारयन्त्याऽशक्नुवत्या तया । हे गतघृण ! अद्यापि तां नानुकम्पस इति भावः । मत्सखीनां मनांसि नयनयुगैः सममार्द्रतां गमितानि । उपचयं गमितानित्यर्थः । शोकबाष्पैरिति भावः । अत्र सखीशोकोक्त्या मूर्च्छावस्था सूच्यते । अत्र शोकबाष्पद्वयकारणभेदात् प्रतियोगिभेदाच्चार्द्रत्वभेदेऽप्यभेदाध्यवसायः । तन्मूला चेयं 'नयनयुगैः सम'मिति सहोक्तिरलंकारः ॥ ४८ ॥
हिन्दी — बहुत दिनोंसे सोचे हुए वचनोंको सूखे हुए मुखसे कहनेके लिए असमर्थ हो रही 'हे निर्दय ! (अभी भी उसपर दया नहीं करते हो ?) मेरी सखियोंके मन दोनों आँखोंके साथ आर्द्र बनाये गये हैं ॥ ४८ ॥
अचकमत सपल्लवां धरित्रीं मृदुसुरभि विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ ४९ ॥
मल्लि०—अचकमतेति । किं वाच्यं चेत्याह—सा स्त्री मृद्वी सुरभिश्च या तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीम् । अचकमत ऐच्छत् । तस्यास्ततोऽपि शीतलत्वादिति भावः । कमेणिङन्ताल्लुङ् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' इति द्विर्भाव इति केचित् । तन्न । अचोकमतेति प्रसङ्गात् । अतो णिङभावपक्षे 'कमेर्हलेश्चङ् वक्तव्यः' इति वक्तव्याच्चङि रूपमेतत् । अस्या नायिकायाः । तत्र धरित्र्यामपि भृशमरतिं दुःखम् । अवाप्य । सुखयतीति सुखः शीतः शीतलश्च तं सुखशीतं तवाङ्कमुत्सङ्गम् । उपैतुमिच्छा । वर्तत इति शेषः । अस्यात्रौत्सुक्यं कथितम् । अत्रारतिजागरौ सुव्यक्तावित्यस्या नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसंबन्धकथनात् प्रथमः पर्यायालंकारः । तदुक्तम्—'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नर्थवानेकं पर्यायालंकृतिर्द्विधा ॥' इति लक्षणात् ॥ ४९ ॥
हिन्दी — वह वियोगिनी कोमल और सुगन्धित फूलोंकी सेज छोड़कर पल्लव-वाली धरतीको चाहती है । उस धरतीमें भी प्रीति न पाकर सुखजनक ठण्डी आपकी गोदको पानेकी इसकी इच्छा है ॥ ४९ ॥
तदनघ ! तनुरस्तु सा सकामा व्रजसि पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ ५० ॥
| २०८ | किराताजुंनीयम् |
|---|
मल्लि०—तदिति । तत् तस्मात्कारणात् तस्या दुरवस्थत्वाद्धेतोः । हे अनघ ! निष्पाप ! तनुः कृशेति कार्श्यावस्थाकथनम् । सा नायिका सकामा सफलमनोरथा अस्तु । हि यस्मात्, त्वमेवार्थः प्रयोजनं वा तस्मिन् त्वदर्थे निमित्ते, सतीति शेषः । त्वामुद्दिश्येत्यर्थः । परासुतां निष्प्राणत्वं पुरा व्रजति व्रजिष्यति । मरिष्यतीत्यर्थः । तथा च तेऽनिमित्तहत्यायाज्नघत्वव्याघातः स्यादिति भावः । 'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इदं च दशमावस्थाप्रदर्शनम् । न च तपोनिष्ठत्वाद् भेतव्यमित्याह—पुनरिति । पुनरपि पश्चादपि । 'पुनरप्रथमे भेदे' इति विश्वः । तपः सुलभम् । अनुरागी अनुरुपो योग्यश्च युवतिजनस्तु नाप्यते न लभ्यते खलु ॥५०॥
हिन्दी—इस कारणसे हे निष्पाप ! उस दुर्बल नायिकाका अभिलाष सफल हो जाय, क्योंकि वह आपके कारण प्राणहीन हो जायगी । तपस्या फिर भी सुलभ है परन्तु अनुराग और योग्य युवती प्राप्त नहीं होती है ॥ ५० ॥
एवं प्रलोभितस्यापि मुनेर्मनो न भग्नमित्याह—
जहिहि कठिनतां, प्रयच्छ वाचं, ननु करुणामृदु मानसं मुनीनाम् ।
उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥ ५१ ॥
मल्लि०—जहिहीति । कठिनतां निःस्पृहतां जहिहि । त्यजेत्यर्थः । जहातेः 'आ च हौ' इतीकारः । वाचं प्रयच्छ । संधत्स्वेत्यर्थः । मुनीनां मानसं मनः करुणामृदु ननु दयार्द्रं खलु । 'स्वान्तं हृन्मानसं मनः' इत्यमरः । किञ्च, अभव्या निर्माद्या उपगतं प्राप्तम् । विषयमिति शेषः । अवधीरयन्ति अवमन्यन्ते । एवमुक्तप्रकारेण सोऽर्जुनः कयाचिदेत्य समीपमागत्य निपुणं चतुरं यथा स्यातथा ऊचे उक्तः । नायिकया दूतीं प्रति वचनमुक्तम्, तया दूत्या च मुनि प्रति कथितमित्यर्थः । अत्र पञ्चश्लोक्यां विप्रलम्भशृङ्गारस्योत्सुक्यनाम्नो व्यभिचारिभावस्य चापुनरुक्तिः । अनौचित्येन नायिकायाः प्रवृत्तेराभासत्वमनुसंधेयम् । तदुक्तम्—'एकत्र चेशानुरागास्तिर्यङ्ग्म्लेच्छगतोऽपि वा । योषितां बहुसंसक्तिश्चेद्रासाभासस्त्रिधा मतः ।।' इति । तन्निबन्धनादूर्जस्वमलंकारः । तथा च सूत्रम्—'रसभेदतदाभासतत्प्रकाशमानां निबन्धने रसवरप्रेयोर्जस्विसमाहितानि' इति । [ समाहितातिरसबन्धे रसवदलंकारः । भावनिबन्धने प्रेयोऽलंकारः । रसभावनिबन्धने तूर्जस्वलालंकारः । संतप्रशमनिबन्धे समाहितालंकार इति । सूत्रार्थः ] ॥ ५१ ॥
हिन्दी—'कठोरता छोड़ दीजिए, वचन दें । मुनियोंका चित्त कोमल होता
दशमः सर्गः | २०९
है। भाग्यहीन पुरुष पाये हुए पदार्थोंका तिरस्कार करते हैं।' इस प्रकार किसी दूतीने अर्जुनको कहा ॥ ५१ ॥
सल्ललितचलितत्रिकाभिरामा शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ ५२ ॥
मल्लि०— सल्ललितेति । सल्ललितं सविलासं यथा तथा चलितेन विवर्त्तितेन त्रिकेण कटिभागेन । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । अभिरामा । शिरसि जाताः शिरसिजाः । 'सप्तम्यां जनेर्डः' । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इत्यलुक् । 'उपपदमतिङ्' इति समासः । एतेन मनसिजो व्याख्यातः । तेषां संयमने बन्धन आकुलो व्यग्र एकः पाणियस्याः सा । अपरा स्त्री सुरपतितनयेऽर्जुने । जेतुं जैत्रः । जेतृ-शब्दात्सञ्ज्ञातात् 'प्रज्ञादिभ्यश्च' इत्यण्प्रत्ययः । मनसिजस्य जैत्रः शरस्तं तथाभूतम् । विलोचनस्यार्द्धमेकदेशम् । कटाक्षमित्यर्थः । निरासे विससर्ज ॥ ५२ ॥
**हिन्दी—**विलासके साथ चले हुए कटिभागके कारण केशके बन्धनमें व्यग्र एक हाथवाली अन्य अप्सराने अर्जुनपर कामदेवके जयशील बाणरूप नेत्रका आधा भाग (कटाक्ष) छोड़ा ॥ ५२ ॥
कुसुमितमवलम्ब्य चूतमच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखमनङ्गचापयष्टिविसृतगुणेव समुन्ननाम काचित् ॥ ५३ ॥
मल्लि०— कुसुमितमिति । इभकुम्भवत् पृथुभ्यां स्तनाभ्यामानतमङ्गं यस्याः सा । 'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप् । काचित् तन्वङ्गी । 'वोतो गुणवचनात्' इति विकल्पात्र ङीष् । कुसुमितमुच्चैरून्नतं चूतमवलम्ब्य । अत एव चूतलतायोगाद्विसृतो विस्रस्तो गुणो ज्या यस्या सा । 'विसृतं विस्तृतं ततम्' इति, 'मोर्वी ज्या शिञ्जिनी गुणः' इति चामरः । अनङ्गचापयष्टिरिव । आकृष्टमुक्तेति भावः । तदभिमुखं समुन्ननाम समुज्जजृम्भे । अङ्गभङ्गं चकारेत्यर्थः ॥ ५३ ॥
**हिन्दी—**हाथीके मस्तकपिण्डोंके समान विशाल स्तनोंसे झुके हुए शरीरवाली किसी पतली अप्सराने खिली हुई आम्रलताका अवलम्बन कर विस्तृत प्रत्यञ्चावाली कामदेवकी खींचकर छोड़ी गई धनुर्यष्टिका समान अर्जुनके समक्ष अङ्गभङ्ग किया ॥ ५३ ॥
सरभसमवलम्ब्य नीलमन्त्या विगलितनीवि विलोलमन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेन च्युतरशनागुणसंदितावदस्थे ॥ ५४ ॥
मल्लि०— सरभसमिति । अन्याऽपरा विगलितनीवि श्लथबन्धनमत एव
१४ कि०
| २१० | किरातार्जुनीयम् |
|---|
विलोलं स्थानचलितम् । नील्या रक्तं नीलम् । 'नील्या अन्वक्तव्यः' इत्यन्प्रत्ययः । अन्तरीयं परिधानम् । अवलम्ब्य हस्तेन गृहीत्वा । सरभसं सत्वरम् । अभिरन्तुं मनो यस्याः सा तथोक्ता । अपगन्तुमुद्युक्तेत्यर्थः । तथापि ससाध्वसेव । नतु वस्तुतः ससाध्वसा, किंतु च्युतेन गलितेन रशनागुणेन संदिता सती । अवतस्थे स्थिता । 'बद्धे संदानितं मूतमुदितं संदितं सितम्' । इत्यमरः । कर्मणि क्तः । 'द्युतिस्वापिमास्यामि—'तीकारः ॥ ५४ ॥
हिन्दी — अन्य अप्सरा शिथिल रसनावाली अतएव चञ्चल नीली साड़ीको हाथसे पकड़कर शीघ्र जानेका यत्न करके तो भी डरी हुई-सी होकर गिरे हुए रसनागुणसे बँधकर स्थित हुई ॥ ५४ ॥
काचिद्युग्मेनाह —
यदि मनसि शमः किमङ्ग ! चापं शठ ! विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥ ५५ ॥
मल्लि० — यदीत्यादि । तव मनसि शमः शान्तिर्यदि । अस्तीति शेषः । अङ्ग भोः ! चापं किम् । किमर्थमित्यर्थः । कि तु हे शठ हे वञ्चक ! तव विषयाः शब्दादयो वल्लभाः प्रियाः । न तु मुक्तिः । तदेव द्रढयितुमाह — भवतु । को दोष इति शेषः । यद्यहं रागी तर्हि किमिति भवतीर्न गणयामीति शङ्कां निवारयति — दिशतीति । तव हृदये मनसि हृदयेश्वरा काचित्तव प्रेयसी । अन्यकामिनीभ्यः स्त्र्यन्तरेभ्योऽवकाशं न दिशति न प्रयच्छति । स्त्र्यन्तरासक्त्या नास्मान्गणयसि न तु वैराग्यात् । तदर्थमेवायं ते सकलः प्रयासोऽपीत्यर्थः ॥ ५५ ॥
हिन्दी — किसी अप्सराने कहा — 'हे महाशय ! तुम्हारे मनमें शान्ति है तो धनुषको क्यों धारण करते हो ? हे धूर्त ! शब्द आदि विषय ही तुम्हारे प्रिय हैं मुक्ति नहीं । तुम्हारे हृदयमें कोई हृदयेश्वरी रहती है जो अन्य स्त्रियोंको स्थान नहीं देती है' ॥ ५५ ॥
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् ।
अगणितगुरुमानलज्जयाऽसौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ ५६ ॥
मल्लि० — इतीति । इतीत्थम् । असूयया मत्सरेण स्फुरन्नधरोष्ठो यस्मिन्कर्मणि तद्यथा तथाभिधायोक्त्वा विषमितचक्षुषा कुटिलोकषदृष्ट्याऽगणिता गुरव आचार्या-
दशमः सर्गः २११
दशमः सर्गः २११
दयो मानोऽभिमानो लज्जा च यया तया । कयाचित् । असौ मुनिः । उरसि स्वयं स्वहस्तेनैव श्रवणोत्पलेन जघ्ने हतः ॥ ५६ ॥
हिन्दी--इस प्रकार ईर्ष्यासे ओष्ठको स्फुरितकर ऐसा कहकर कुटिल बनाई गई दृष्टिसे आचार्य आदि, अभिमान और लज्जाको परवाह न कर किसो अप्सराने मुनि ( अर्जुन ) को कानमें रखे गये कमलसे ताडन किया ॥ ५६ ॥
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मोः । श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥ ५७ ॥
मल्लि०—सविनयमिति । अपरा सविनयमनौद्धत्येन । साचि तिर्यक् । अभि- सृत्य समीपं गत्वा स्मितेन मन्दहासेन सुभगा एकस्य लसतः कपोलस्य लक्ष्म्यो यस्याः सेति बहुवचनपदोत्तरो बहुव्रीहिः । अन्यथा कप्रत्ययः स्यादित्युकं प्राक् । श्रवणनियमितेन कर्णान्तप्रापितेन श्रोत्ररुद्धप्रसरेण । तावदायतेनेत्यर्थः । असकलेनाऽ- संपूर्णेन, कटाक्षेणेति यावत् । लोचनेन तं मुनिं धनंजयं सकलमिव समग्रप्रायं यथा तथा निदध्यौ पश्यति स्म । कटाक्षेणैव गाढमद्राक्षीदित्यर्थः । एषु श्लोकेषु भावा- भासनिबन्धादूर्जस्वदलंकारः । औत्सुक्यमत्र भावः । आभासत्वं चास्य विरक्त- मुनाव नौचित्यादित्युक्तं प्रागेवेति ॥ ५७ ॥
हिन्दी—अन्य अप्सराने नम्रताके साथ तिरछे भागसे पास जाकर मन्दहास्यसे सुन्दर शोभित कपोलकान्तिसे युक्त होकर कानतक पहुंचाये गये असंपूर्ण नेत्र- ( कटाक्ष ) से मुनि ( अर्जुन ) को पूर्णरूपसे देख लिया ॥ ५७ ॥
अथ तासां मुनिविलोमनमुपसंहरति— करुणमभिहितं, त्रपा निरस्ता, तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारगेष्वनुनेतुं प्रियमियतो ह्यबलाजनस्य भूमिः ॥ ५८ ॥
मल्लि०—करुणमिति । ताभिः स्त्रीभिः । तदभिमुखं मुनिप्रत्यक्षं करुण दीन- मभिहितमुक्तम् । त्रपा निरस्ता लज्जा त्यक्ता । किंबहुना, अश्रु च विमुक्तम् । ततः परं न किंचिदभिधेयमासीदिति भावः । कुतः । हि यस्मात्, अबलाजनस्याभिसारणे समागमविषये प्रकुपितमननुकूलं प्रियमनुनेतुमनुकूलयितुम् । इयतो भूमिरित्येतावतो सीमा । साधनानां परमावधिरिति भावः । अर्थान्तरन्यासोऽलङ्कारः ॥ ५८ ॥
हिन्दी--उन अप्सराओंने अर्जुनके सम्मुख दोनतापूर्वक कहा—लज्जा छोड़
| २१२ | किरातार्जुनीयम् |
|---|
दी, कि बहुना आंसू भी छोड़ दिया, क्योंकि स्त्रीके अभिसारके विषयमें कुपित प्रियको अनुनय करनेके लिए इतनी ही सीमा (हद) है ॥ ५८ ॥
अथासामनुरागदाढर्थं निगमयति—
असकलनेत्रेक्षितानि, लज्जा, गतमलसं, परिपाण्डुता, विषादः ।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ ५९ ॥
मल्लि०— असकलेति। असकलनेत्रेक्षितानि नयनार्धविलोकित्तानि लज्जालसं गतं मन्दगमनं परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्गः। इति एवं प्रकारं विविधं नानाविधेष्टितम् । 'नपुंसकमनपुंसकेने'त्यादिना नपुंसकैकशेषत्वम् । तासु भूषामियायेति भावप्राधान्येन योज्यम् । तथा हि—अनङ्गो मदनो वधूर्म्मण्डयितुं प्रभवति । सर्वास्ववस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥ ५९ ॥
हिन्दी— नेत्रके आधे भागसे देखना, लज्जासे मन्द गति, पीला वर्ण, विषाद (खिन्नता) इस प्रकारसे अनेक प्रकारकी चेष्टाने अप्सराओमें आभूषणके भावको प्राप्त किया ॥ ५९ ॥
इदानीं तासां त्रिभिर्मुर्निविलोभने प्रयासवैकल्यमाह—
अलसपदमनोरमं प्रवृत्त्या जितकलहंसवधूगति प्रयातम् ।
स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्वितेक्षणं वा ॥ ६० ॥
भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनां युगपदुन्नमितभ्रु वीक्षितं च ॥ ६१ ॥
मल्लि०— अलसेति। वधूनां संबन्धि प्रकृत्यालसैः पदैर्मनोरमं मनोज्ञमत एव जिता कलहंसवधूनां गतिर्येन तत् । प्रयातं गमनम् । भावे क्तः । तथा उरुणोऽतिविपुलस्य जघनस्थलस्यातिभारादतिगौरवात् । उदितपरिश्रमेणोद्गतश्रमेण जिह्विते घूर्णिते ईक्षणे यस्मिन्, स्थितं वा स्थितिश्च । सर्वत्र 'वा' शब्द समुच्चये ॥ ६० ॥
मल्लि०— भृशेति। तथा भृशेन गाढेन कुसुमशरस्य कामस्य इषोर्निपातेन यो मोहो मूर्च्छा तस्माद्धेतोः, अनवसितार्थैरस्फुतोच्चारणानवधारिताभिधेयैः पदैः सुप्तिङन्तादिभिः क्षुभितशब्दैराकुलः संकीर्णोऽभिलापो वाक्यप्रयोगश्च । अधिकं वितते विस्तृते लोचने यस्मिंस्तद्युगपत् । पर्ययेण । उन्नमिते भ्रुवौ । यस्मिंस्तत्तथोक्तम् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वः । वीक्षितं वीक्षणं च ॥ ६१ ॥
दशमः सर्गः २१३
हिन्दी — अप्सराओंके स्वभावसे आलस्यपूर्ण चरणन्यासोसे मनोहर अतएव हंसवधुओंकी गतिके जीतनेवाला गमन तथा अति स्थूल जघनस्थलके अधिक भारसे उत्पन्न परिश्रमसे कुटिल दृष्टिवालो स्थिति तथा कामबाणके गाढ प्रहारसे उत्पन्न मूर्च्छाके कारण अस्पष्ट उच्चारणसे अनिश्चितपदोंसे आकुल वाक्यप्रयोग, अधिक विस्तृत नेत्रोंवाले बारीबारीसे ऊँची की गई भौंहोंवाला दर्शन ॥ ६०–६१ ॥
रुचिकरमपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ ६२ ॥
मल्लि०—रुचिकरमिति । पूर्वोक्तं रुचिकरं स्पृह्ाजनकमपि । 'रुचिः कान्त्य-भिक्षोर्भक्ति स्त्रियां शोभास्पृहार्ययोः' इति वैजयन्ती । स्तिमितेन स्थिरेण समाधिना तपोयोगेन शुचौ शुद्धे । निर्विकारचेतसीत्यर्थः । पृथातनूजेऽर्जुनविषये । अर्थवत् सप्रयोजनं न बभूव । तथा हि—महतां धीराणां मनांस्यमर्षे क्रोधे ज्वलयति सति सुखाभिलाषोऽवसरमवकाशं न लभते । रौद्रस्य शृङ्गारविरोधित्वादिति भावः । अत्र विशेषेणार्थान्तरन्यासोऽलङ्कारः ॥ ६२ ॥
हिन्दी—पूर्वोक्त विषय रुचि करनेवाला होकर भी निश्चल समाधिसे शुद्ध (निर्विकार) अर्जुनके विषयमें सफल नहीं हुआ, क्योंकि धीर पुरुषके मनके क्रोधसे प्रज्वलित होनेपर सुखका अभिलाष अवकाश (स्थान) को नहीं पाता है ॥ ६२ ॥
स्वयं संराध्येवं शतमखमखण्डेन तपसा
परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरचयः
सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ ६३ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये दशमः सर्गः ।
●
मल्लि०—स्वयमिति । एवं हरिसुतेऽर्जुने स्वयमखण्डेनाविलुप्तेन तपसा शतमखमिन्द्रं संराध्य प्रीणयित्वा परोच्छित्त्या शत्रुवधेन लभ्यां साध्यां लक्ष्मीं राज्यलक्ष्मीम् । अभिलषति सति सोद्वेगैः कार्यसिद्धयभावाज्जनितैरुद्वेगैर्मनोभिर्वालक्ष्यैः । किञ्च, प्रणयविहृत्या प्रार्थनाभङ्गेन ध्वस्तरुचयो नष्टकान्तयः सगन्धर्वा गन्धर्वसहिता-
२१४ | किरातार्जुनीयम्
त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः । शिखरिणीवृत्तमेतत्—'रसै रुद्रै-श्छिन्ना यमनसभलागः शिखरिणी'ति लक्षणात् ॥ ६३ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां दशमः सर्गः समाप्तः ।
●
हिन्दी—इस प्रकार कठोर तपस्यासे इन्द्रकी आराधना करके शत्रुओंके वधसे प्राप्त होनेको योग्य राजलक्ष्मीका अभिलाष करनेपर उद्वेगयुक्त अर्जुनके मनसे उपलक्षित और प्रार्थनाके भङ्गसे नष्ट कान्तिवाली अप्सराएँ गन्धर्वोंके साथ अपने स्थान (स्वर्ग) को चली गईं ॥ ६३ ॥
इति किरातार्जुनीये महाकाव्ये दशमः सर्गः ।
●
एकादशः सर्गः
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ १ ॥
मल्लि०—अथेति । अथ अप्सरसां प्रतिप्रयाणानन्तरम् । पाको नाम कश्चिद्राक्षसस्तस्य शासन इन्द्रः । नन्द्यादित्वाल्ल्युप्रत्ययः । तयाऽप्सरोम्लाधुकतया अमर्षाद् द्विषद्द्वेषात्निसर्गाच्च या जितेन्द्रियता तयाऽऽगन्तुकानागन्तुकोभयविधहेतुकया प्रतीतो हृष्टः सन् । 'ख्याते हृष्टे प्रतीतः' इत्यमरः । जिष्णोरर्जुनस्य । 'जिष्णुः शक्रे धनंजये' इत्यमरः । आश्रममाजगाम । अत्रामर्षनिसर्गयोजितेंद्रियताहेतुकं काव्यलिङ्गं स्फुटमवगम्यते ॥ १ ॥
हिन्दी—तब गन्धर्व और अप्सराओंके लौटकर आनेके बाद इन्द्रदेव शत्रुओंके प्रति विद्वेषसे और स्वभावसे भी अर्जुन जितेन्द्रिय होनेसे प्रसन्न होकर अर्जुनके आश्रममें आये ॥ १ ॥
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तं किराध्वना ॥ २ ॥