भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ २०२

[अ० १०१ श्लो० १९९-२२०] वायुपुराणम् । ४०७

( भूर्लोकादिव्यवस्थावर्णनम )

संसेकज्ञानाभावेन सहस्रेणैव संमिताः । औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ॥ १९९ सहस्रेणैव भावेन सत्त्वानां सलिलौकसाम् । विहंगमास्तु विज्ञेधा लौकिकास्ते च सर्वशः ॥ २०० यः सहस्रतमो भामस्तेषां वै पक्षिणां भवेत् । पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ २०१ चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ २०२ यः सहस्रतमो भागो भागे तु द्विपदां पुनः । धार्मिकास्तेन भामेनं विज्ञेयः संमिताः पुनः ॥ २०३ सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः । यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥ संमितास्तेन भामेन मोक्षिणस्तावदेव हि ॥ २०४ स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः । पतिताः पापकम्माणो दुरात्मानो म्रियन्ति ये ॥ रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ २०५ वेदनाकटुकास्तन्धा यातनास्थानमागताः । उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ॥ २०६ ततो घनात्मकश्चापि शीतात्मा सततं तपः । एवं सुदुर्लभाः सन्तः स्वर्गे वा धार्मिका नराः ॥ २०७ एषा संख्या कृता संख्या(?) ईश्वरेण स्वयंभुवा । गणना विनिवृत्तैषा संख्या ब्राह्मी च मानुषी ॥

ऋषय ऊचुः—

महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा । उक्ता ह्येते त्वया लोका लोकानामन्तरेण च ॥ लोकान्तरं च याहग्वै तन्नो ब्रूहि यथातथम् ॥ २०९ तेषां तद्वचनं श्रुत्वा ऋषीणामूर्ध्वरेतसाम् । स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥ २१०

वायुरुवाच—

व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः । प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ॥ २११ ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः । व्यपेतशोका विरजाः सन्तो ब्रह्मैव सत्तमाः ॥ २१२ अक्षयाः प्रीतिसंयुक्ता ब्रह्म निष्ठान्ति योगिनः । ऋषीणां वालखिल्यानां तैर्यथाहतमीश्वरैः ॥ २१३ यथा चैव मया दृष्टं सांनिध्यं तत्र कुर्वता । अतर्ह(कर्य)सत्कृतार्थानामालयं चेश्वरस्य यत् ॥ २१४ ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ २१५ द्रष्टृत्वमात्मसंबंन्धमधिष्ठातृत्वमेव च । अव्ययानि दशैतानि तस्मिंस्तिष्ठन्ति शंकरे ॥ २१६ विभुत्वात्खलु योगाग्निर्भरलणोऽनुग्रहे रतः । स लोकाविग्रहो भूत्वा साहाय्यमुपतिष्ठते ॥ २१७ अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् । तस्येश्वरस्य यन्मात्रं स्थानं मायामयं परम् ॥ २१८ मायया कृतमाचष्ट मायी देवो महेश्वरः । देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते ॥ २१९ विस्तरेणाऽऽनुपूर्व्या च ब्रुवतो मे निबोधत । त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च ॥ भूर्लोकाद्ब्रह्मलोको वै योजनैः संपर्कीर्त्यते ॥ २२०

४०८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०१ श्लो० २२१-२४६] (शिवपुरवर्णनम्)

एकयोजनकोटि तु पञ्चाशन्नियुतानि च। ऊर्ध्वं भागवताण्डं तु ब्रह्मलोकात्परं स्मृतम्॥ २२१ * एषोर्ध्वगः प्रचारस्तु गत्यन्तं च ततः स्मृतम्। (+ नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः॥ सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः। येभ्योऽधिकर्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः)॥ तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्। अनुत्पाद्यं परं धाम परमाणु परेशयम्॥ २२४ अक्षयश्चाप्यनूलश्च अमूर्तिर्मूर्तिमानसौ। प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः॥ २२५ विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः। सतेजा एष तमसो यः पुरस्तात्प्रकांशकः॥ २२६ यदण्डमासीत्सौवर्णं प्रथमं स्वौपसर्गिकम्। बृहंतं सर्वतो वृत्तमेश्वरार्द्धचवजायत॥ २२७ ईश्वराद्वीजनिर्भेदः क्षेत्रज्ञो बीज इष्यते। योनिं प्रकृतिमार्त्त सा च नारायणात्मिका॥ २२८ विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च। सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः॥ २२९ पुरस्ताद्ब्रह्मलोकस्य अण्डादवक्च ब्रह्मणः। × तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम्॥ तद्ग्रहवतः स्थानमीश्वरस्यामितौजसः। शिवं नाम पुरं तत्र शरणं जन्मभीरूणाम्॥ २३१ सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः। अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम्॥ २३२ मध्याह्नार्कप्रकाशेन परतेजोभिमार्दिना। शान्तकौम्भेन महता प्राकारेणार्कवर्चसा॥ २३३ द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः। तपनीयनिभैः शुभ्रैगढिं सुकृतवेष्टनम्॥ २३४ तच्चाऽऽकाशे पुरं रम्यं दिव्यं घण्टानिनादितम्। [÷ न तत्र क्रमते मृत्युर्न तापो न जरा श्रम॥ नदन्यैः पुश्चारं रूपमासांतुमर्हति (?)। सहस्राणां शतं पूर्णं योजनानां दिशो दश॥ २३६ तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति। भावेन मनसो भूमिविन्यस्ता कनकामयी॥ २३७ रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम्। शारदेन्दुप्रकाशानि बालसूर्यनिभानि च॥ २३८ अर्धश्वेतार्धरक्तानि सौवर्णानि तथैव च। रथचक्रप्रमाणानि नालैर्मरकतप्रभैः॥ २३९ सौकुमारेण रूपेण गन्धिनाऽप्रतिमेन च। तत्र दिव्यानि पद्मानि वनेषूपवनेषु च॥ २४० भृङ्गपत्रनिकाशानि तपनीयानि यानि च। अर्धकृष्णार्धरक्तानि सुकुमारान्तराणि च॥ २४१ आतपत्रप्रमाणानि पङ्कजैः संवृतानि च। भूयः सप्त महानद्यास्तासां नामानि बोधत॥ २४२ वरा वरेण्या वरदा वराही वरवर्णिनी। वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे॥ २४३ पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम्। जलं मणिलदलप्रख्यमावहन्ति सरिद्वराः॥ २४४ न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा। न खल्वन्येऽप्रमेयस्य विदुर्रीशस्य तत्पुरम्॥ २४५ तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः। पश्यन्तीह महात्मानः पुरं तद्गोवृषात्मनः॥ २४६


* अत्र संधिस्त्वार्षः। + धनुश्चिन्हान्तग्रन्थो ग. पुस्तकेषु न विद्यते। इतः प्रभृति प्रकृतयः स्मृता इत्यन्तः पाठो व. पुस्तके नास्ति। × एतदर्धं त्रुटितं ग. घ. ङ. पुस्तकेषु। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति।

[अ० १०१-श्लो० २४७-२७१] वायुपुराणम् ४०९

( शिवपुरवर्णनम् )

मध्ये पुरवरेन्द्रस्य तस्यामतितॆजसा । सुमहान्मेरुसंकाशो दिव्यो भद्रश्रिया वृतः ॥ २४७
सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनुपमेयै रत्नैश्र्व सर्वतः स विभूषितः ॥ २४८
स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यैः सोमसंप्रभैः । बालसूर्यप्रभैश्चैव सौवर्णैश्चाभिसंप्रभैः ॥ २४९
राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः । दृढैर्वज्रमयैश्चैव इत्येवं सुसमाहितैः ॥ २५०
जलैश्र्व विविधाकारैर्दीप्यद्भिरधिवासितम् । चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ॥ २५१
रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः । किंनराणामधीवासैः । संध्याभ्राकारराजितैः ॥ २५२
पारिवारसमन्तात्तु हेमपुष्पोदकप्रभैः यथा । हि मेरुशैलेन्द्रो हेमशृङ्गैर्विराजते ॥ २५३
( * चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् । एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ॥ २५४
वसन्तप्रीतमा यत्र त्र्यम्बकस्य निवेशने । लक्ष्मीः श्रीश्च वपुर्माया कीर्तिः शोभा सरस्वती ॥ २५५
देव्या वै सहिता ह्येता रूपगन्धसमन्विताः । नित्या ह्यपरिसंख्याताः परस्परगुणाश्रयाः ) ॥
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ॥ २५६
कोटीशतं महाभाग विभज्याऽऽत्मानमात्मना । भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः ॥ २५७
तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः । रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ॥ २५८
लीलाविलाससंयुक्तैर्भावैरतिमनाहरैः । गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ॥ २५९
कुब्जा वामनिकाश्चैव वरगात्रा ह्याननाः । पुण्ड्राश्च विकटाश्चैव करालास्त्रिपिटाननाः ॥ २६०
लम्बोदरा ह्रस्वभुजा त्रिनेत्रा ह्रस्वपादिकाः । मृगेन्द्रवदनाश्चान्या गजवक्त्रोदरास्तथा ॥ २६१
गजाननास्तथैवान्याः सिंहव्याघ्राननास्तथा । लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥ २६२
ह्रस्वकुञ्चितकेशाश्च सुन्दर्यश्चारुलोचनाः । अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ॥ २६३
अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः । × रराम भगवांस्तत्र दशबाहुर्महेश्वरः ॥ २६४
नन्दिना च गणैः सार्धं विश्वरूपैर्महात्मभिः । तथा रुद्रगणैश्चापि तुल्यौदार्यपराक्रमैः ॥ २६५
पावकात्मजसंकाशैर्दंष्ट्रोत्कटाननैः । वन्द्यमानो विमानस्थ ( स्थैः ) पूज्यमानश्च तत्परैः ॥ २६६
सर्वर्तुकुसुमां मालां जिघ्रमा ÷ णोरसि स्थिताम् । नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥ २६७
ईषत्कराललम्बोष्ठं तीक्ष्णदंष्ट्रागणाञ्चितम् । षडूर्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरं चीरवाससम् ॥ २६८
आहवेष्वपरिक्लिष्टं देवानामरिनाशनम् । बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥ २६९
रराज पट्टिशं तस्य वामाग्रकरगोचरम् । महाभैरवनिर्घोषं बलेनाप्रतिमौजसम् ॥
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ॥ २७०
त्रिशूलं विद्युदाभासममोघं शत्रुनाशनम् । जाज्वल्यमानं वपुषा परमं तच्चिषा युतम् ॥ २७१


*एतच्चिह्नान्तर्गतग्रन्थे पाठव्यत्यासो दृश्यते ख. पुस्तके × अत्र परस्मैपदमार्षम् । ÷अत्र संधिरार्षः ।

५२

चतुर्भुजा महाभागा विजया लोकसंमता ॥ २७४

४१० श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १०१ श्लो० २७२-२९५] ( शिवपुरवर्णनम )

असिञ्चैबौजसां श्रेष्ठः शतिरश्मिः शशी तथा । तेजसा वपुषा कान्त्या देवेशस्य महात्मनः ॥ शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ॥ २७२ स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान् । शुशुभे रुचिरः श्रीमान्त्सोदकः स कमण्डलुः ॥ २७३ असिमावेश्य चाङ्गेषु पाण्डुराम्वरधारिणी । उरश्छेदेन महता मौक्तिकेन विराजिता ॥ चतुर्भुजा महाभागा विजया लोकसंमता ॥ २७४ 'दव्या आद्यप्रतीहारी श्रीरिवाप्रतिमा परा । विभ्राजन्ती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ॥ २७५ तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः। ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शंकरम् ॥ २७६ सर्वलक्षणसम्पन्ना वादित्रैरुपबृंहिताः । उपगायन्ति देवेशं गणा गन्धर्वयोनयः ॥ २७७ अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः । शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ॥ २७८ स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्यवान् । रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ॥ २७९ तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान् । व्यपेतव्यसनाः क्रूराः प्रजानां पालने रताः ॥ २८० तैः सार्धं स महावीर्यः शोभते शिखिवाहनः । व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ॥ २८१ ये नृपा विबुधेन्द्राणां काश्चनैस्य प्रदायिनः । ये च स्वायतना विप्रा गृहस्था ब्रह्मवादिनः ॥ २८२ गूढस्वाध्यातपसस्तथा चैवोञ्छवृत्तयः । एते सभासदस्तस्य देवेशस्य च संमताः ॥ २८३ मन्वन्तराण्यनेकानि व्यवर्तन्त पुनः पुनः । श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ॥ २८४ व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरास्विनः । स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्मिताः ॥ २८५ मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः । विभूतिमप्यसंख्येयां को न खल्वभिधास्यते ॥ २८६ अतः परमिदं भूयो भवेनाद्भुतमुत्तमम् । भूतानामनुकम्पार्थं यत्कृतं तन्निबोधत ॥ २८७ मन्दराद्रिप्रकाशानां बलेनाप्रतिमौजसाम् । हारकुन्देन्दुवर्णानां विद्युद्घननिनादिनाम्* ॥ २८८ चूडामणिधराणां वै मेघसंनिभवाससाम् । श्रवोत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ॥ २८९ एवं दिशानां देवानां रूपेणोत्तमशालिनाम् । तस्य प्रासादमूख्यस्य स्तम्भेषूत्तमशोभिषु ॥ २९० संयताग्निमयीभिस्तु शृङ्खलाभिः पृथक्पृथक् । मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ॥ २९१ स्तम्भेऽप्यपासुताषष्ठं (?) त्र्यम्बकस्य निवेशने । अथ तत्पतिसंपूज्य वायोर्वाक्यं सुविस्मिताः ॥ ऋषयः प्रत्यभाषन्त नैमिषेयास्तपस्विनः ॥ २९२ भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो । के ते सिंहमहाभूताः क ते जाताः किमात्मकाः ॥ २९३ सिंहाः केनापरोधेन भूतानां प्रहविष्णुना । वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ॥ २९४ तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह । यद्दै सहस्रं सिंहानामीश्वरेण महात्मना ॥ व्यपनीय स्वकांहेत्क्रोधास्ते सिंहविग्रहाः ॥ २९५


* इत उत्तरमेकः श्लोकोऽधिको ङ पुस्तके स यथा–सुदीर्घारितकायानामतविकूरचक्षुषाम् । दंष्ट्रोत्कटमहास्थानां महाविक्रमशालिनाम् । इति ।

[अ० १०१ श्लो० २९६–३२१] वायुपुराणम् । ४११

( शिवपुरवर्णनम )

भूतानामभयं दत्त्वा पुरा बद्धाग्निबन्धने । यज्ञभागनिमित्तं च ईश्वरस्याऽऽज्ञया तदा ॥ २९६ तेषां विधानमुक्तेन सिंहैनेकेन लीलया । देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ २९७ निःसृता च महादेव्या महाकाली महेश्वरी । आत्मनः कर्मसाक्षिण्या भूतैः सार्धं तदाऽनुगैः ॥ २९८ स एष भगवान्क्रोधो रुद्रावासकृतकालयः । वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्जनः ॥ २९९ तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै । संनिवेशस्त्वनौपम्यो मया वः परिकीर्तितः ॥ ३०० अतः परं प्रवक्ष्यामि ये तत्र प्रतिवासिनः । ] रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३०१ नानारत्नविचित्रेषु पताकाबहुलेषु च । सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३०२ राजतेषु महान्तेषु शातकौम्भमयेषु च । संध्याभ्रसंनिकाशेषु कैलासप्रतिमेषु च ॥ ३०३ इष्टैः शब्दादिभिर्भागैर्यै भवस्यानुसारिणः । प्रासादवरमुख्येषु तेषु मोदन्ति सुव्रताः ॥ ३०४ ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः । गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ॥ ३०५ संहताश्चैवमतुला नानाश्रयकृतास्तथा । एवमादीनि वर्तन्ते तेषां प्रासादमूर्धनि ॥ ३०६ सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनौपम्यैर्वरै रत्नौः सर्वतः परिभूषितः ॥ ३०७ स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यमणिसंप्रभैः । बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसंनिभैः ॥ ३०८ चुक्रुशुर्ऋषयः श्रुत्वा नैमिषेयास्तपस्विनः । आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३०९

ऋषय ऊचुः— के तु तत्र महात्मानो ये भवस्यानुसारिणः । अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥ ३१० ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ॥

वायुरुवाच— श्रूयतां देवदेवस्य भक्तियैरनुकल्पिता । ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ॥ ३११ (+मध्वाहाराश्च मात्राश्च आत्मारामा जितेन्द्रियाः । जितद्वंद्वा महोत्साहाः सौम्या विगतमत्सराः भावस्थाः सर्वभूतानामव्यापारा अनाकुलाः) । कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३१३ अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ॥ तैर्लब्धं रुद्रमालोक्यं शाश्वतं पदमव्ययम् । भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ॥ ३१४ वैधानरमुखा सर्वे विश्वरूपा कपर्दिनः । नीलकण्ठा सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ॥ ३१५ अर्धचन्द्रकृतोष्णीषा जटामुकुटधारिणः । सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ॥ ३१६ तरुणादित्यसंकाशाः सर्वे ते पीतवाससः । पिनाकपाणयः सर्वे श्वेतगोवृषवाहनाः ॥ ३१७ श्रियाऽन्विता कुण्डलिनो मुक्ताहारविभूषिताः । तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ॥ ३१८ विभज्य बहुधाऽऽत्मानं जरामृत्युविवर्जिताः । क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ॥ ३१९ स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यैर्विबोधिताः । एकादशानां रुद्राणां कोटयोऽनेका महात्मनाम् एभिः सह महात्मानो देवदेवो महेश्वरः । भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ॥ ३२१


  • एतच्चिह्नान्तर्गतग्रन्थो ग. पुस्तके न विद्यते ।

समीरण महाभाग अस्माकं च त्वया विभो । ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसर्गिकम् ॥ ३२५

४१२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १०। श्लो० ३२२-३४५] ( शिवपुरवर्णनम् )

नाहं तेषां रुद्राणां भवस्य च महात्मनः । नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ॥ ३२२ मातरिश्वाऽब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम् । अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः ॥ श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीं ततः ॥ ३२३ भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् । संभावयित्वा चाप्येनां वायुमूचुर्महाबलम् ॥ ३२४ ऋषय ऊचुः— समीरण महाभाग अस्माकं च त्वया विभो । ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसर्गिकम् ॥ ३२५ तस्य स्थानं प्रमाणं च यथावत्परिकीर्तितम् । यो गन्धेन समृद्धं वै परमं परमात्मनः ॥ ३२६ महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि । स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥ ३२७ यस्य भक्तेष्वसंमोहो ह्यनुकम्पार्थमेव च । ब्राह्मी लक्ष्मीः स्वयं जुष्टा या साऽप्रतिमशालिनी ॥ ३२८ व्याप्य ज्योत्स्नेव खं चन्द्रं विन्यस्ता विश्वरूपिणा । विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥ ३२९ महादेवस्य तुल्यानां रुद्राणां तु महात्मनाम् । तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्स्रवम् ॥ ३३० अपीत्वा (?) खलु सर्वस्य भक्त्याऽस्माभिस्तु सुव्रताः । नास्ति किंचिदविज्ञेयमन्यच्चैवानुगामिनः ॥ प्रश्नं देववर प्राण यथावद्वक्तुमर्हसि ॥ ३३१ सूत उवाच— स खलूवाच भगवान्किं भूयो वर्तयाम्यहम् । किं मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥ ३३२ ऋषय ऊचुः— आदित्याः पारिपार्श्वयाः सिंहा वै क्रोधविक्रमाः । वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ॥ ३३३ अभूतसंप्लवे घोरे सर्वपाणभृतां क्षये । किमवस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥ ३३४ * एते ये वै त्वया प्रोक्ताः सिंहव्याघ्रगणैः सह । ये चान्ये सिद्धिसंप्राप्ता मातरिश्वा जगाद ह ॥ इदं च परमं तत्त्वं समाख्यास्यामि शृण्वताम् । विज्ञातेश्वरसद्भावमव्यक्तं प्रभवं तथा ॥ ३३६ तत्र पूर्वगतास्तेषु कुमारा ब्रह्मणः सुताः । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ ३३७ वोढुश्च कपिलस्तेषामासुरिश्च महायशाः । मुनिः पञ्चशिखश्चैव ये चान्येऽप्येवमादयः ॥ ३३८ ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते । महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ॥ ३३९ अनेकरुद्रकोट्यस्तु याः प्रसन्ना महेश्वरी । शब्दादीन्विषयान्भोगान्सत्यस्याष्टविधश्रयात् ॥ ३४० प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा । वैहायपदमव्ययं भूतानामनुकम्पया ॥ ३४१ तत्र यान्ति महात्मानः परमाणुं महेश्वरम् । तरन्ति सुमहावर्ती जन्ममृत्यूदकां नदीम् ॥ ३४२ ततः पश्यन्ति सर्वाणं (?) परं ब्रह्माणमेव च । देव्या वै सहिताः सप्त या देव्यः परिकीर्तिताः ॥ तत्तत्सहस्रं सिंहानामादित्यानां तथैव च । वैश्वानरभूतभव्यव्याघ्राश्चैवानुगामिनः ॥ ३४४ आवेश्याऽऽत्मनि तान्सर्वान्संख्यायोपद्भवांस्तथा । लोकान्सप्त इमान्सर्वान्महाभूतानि पञ्च च ॥ ३४५


* इत आरभ्य शृण्वतामित्यन्तग्रन्थो ग. पुस्तके न विद्यते ।

[अ० १०१-१०२ श्लो० ३४६-३५५।१-८] वायुपुराणम् । ४१३ ( प्रतिसर्गवर्णनम् )

विष्णुना सह संयुक्तः करोति विकरोति च । स रुद्रो यः साममयस्तथैव च यजुर्मयः ॥ ३४६ स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् । एको हि भगवान्नाथो ह्यनादिश्रान्तकृद्विजाः ॥ ३४७ ततस्त ऋषयः सर्वे दिवाकरसमप्रभाः । स्वं स्वमाश्रमसंवासमारोप्याग्निं तथाऽऽत्मनि ॥ ३४८ कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना । अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ॥ ३४९ व्रतोपवासनिरताः सर्वभूतदयापराः । योगमनुपमं दिव्यं प्राप्तं तैश्छिन्नसंशयैः ॥ ३५० प्रपद्य परया भक्त्या ज्ञानयुक्तेन तेजसा । तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३५१ यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम् । * ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा स्वक्रियापरः ॥ लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः । अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ॥ ३५३ आभूतसंप्लवस्थायी अप्रतीघातलक्षणः । गाणपत्यं स लभते स्थानं वा सार्वकामिकम् ॥ ३५४ मद्यपो मद्यपैः सार्धं भूतसंघैश्च मोदते । सोऽर्च्यमानो महीपृष्ठे मर्त्यानां वरदो भवेत् ॥ इति होवाच भगवान्वायुर्वाक्यमिदं वरः ॥ ३५५

इति श्रीमहापुराणे वायुप्रोक्ते शिवपुरवर्णनं नामैकशततमोऽध्यायः ॥ १०१ ॥

आदितः श्लोकानां समष्ट्यङ्काः-१०११५

अथ द्व्यधिकशतमोऽध्यायः ।

प्रतिसर्गवर्णनम् ।

सूत उवाच-- प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयंभुवः । ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥ १ यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः । अव्यक्तान्यसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥ २ परं तदनु कल्पानामपूर्णे कल्पसंक्षये । उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥ ३ अन्ते द्रुमस्य संप्ताप्ते पश्चिमस्य मनोस्तदा । अन्ते कलियुगे तस्मि(×न्क्षीणे संहार उच्यते ॥ ४ संप्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते । प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये ॥ ५ महदादेर्विकारस्य विशोपान्तस्य संक्षये । स्वभावकारिते तस्मि)न्प्रवृत्ते प्रतिसंचरे ॥ ६ आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ॥ ७ आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः । सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ॥ ८


* इत उत्तरमधिकमर्धं ख. पुस्तके तद्यथा-शिवलोके स वसति यावदाभूतसंप्लवम् । इति । × धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।

४१४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०२श्लो० ९-३७] ( प्रतिसर्गवर्णनम् )

अपामस्ति गुणी यस्तु ज्योतिषे लीयते रसः। नश्यन्त्यापस्तदा तच्च रसतन्मात्रसंक्षयात् ॥ ९ तेजसा संहतरसा ज्योतिष्ट्वं मामुवन्त्युत। ग्रस्ते च सलिले तेजः सर्वतोमुखमीक्ष्यते ॥ १० अथाग्निः सर्वतो व्याप्त आदत्ते तज्जले तदा। सर्वमापूर्यतेऽर्चिभिस्तदा जगदिदं शनैः ॥ ११ अर्चिभिः संतते तस्मिंस्तिर्यगूर्ध्वमधस्ततः। ज्योतिषोऽपि गुणं रूपं वायुरत्ति प्रकाशकम् ॥ प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥ १२ प्रनष्टे रूपतन्मात्रे हतरूपो विभावसुः। उपशाम्यति तेजो हि वायुना धूयते महत् ॥ १३ निरालोके तदा लोके वायुभूते च तेजसि। ततस्तु मूलमासाद्य वायुः संभवमात्मनः ॥ १४ ऊर्ध्वं चाधश्च तिर्यक्च दोधवीत दिशो दश। वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥ १५ प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम्। अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ॥ १६ सर्वमापूरयन्नादैः सुमहत्तम्प्रकाशते। परिमण्डलं तच्छूषिरमाकाशं शब्दलक्षणम् ॥ १७ शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति। तं तु शब्दगुणं तस्य भूतादिग्रसते पुनः ॥ १८ भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै। अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥ १९ भूतादि ग्रसते चापि महान्वै बुद्धिलक्षणः। महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ॥ २० बुद्धिमंतश्च लिङ्गञ्च महानक्षर एव च। पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः ॥ २१ संपलीनेषु भूतेषु गुणसाम्ये तमोमये। स्वात्मन्येव स्थिते चैव कारणे लोककारणे ॥ २२ विनिवृत्ते तदा सर्गे प्रकृत्याऽवास्थितेन वै। तदाऽऽद्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्याचित् ॥ २३ अनाख्यानादेवाधत्वादज्ञानेनाज्ञिनाामपि। आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥ २४ भावग्राह्यानुमानाच्च चिन्तयित्वेदमूच्यते। स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मिके ॥ २५ अनिर्देश्या प्रवृत्तिर्वै स्वात्मिका कारणेन तु। एवं सप्तादयोऽभ्यस्तात्क्रमात्प्रकृतयस्तु वै ॥ २६ प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परम्। येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ २७ सप्तद्वीपसमुद्रान्तं ससलोको सपर्वतम्। उदकावरणं यच्च ज्योतिषां लीयते तु तत् ॥ २८ यत्तैजसं चाऽऽवरणमाकाशं ग्रसते तु तत्। यद्वायव्यं चाऽऽवरणमाकाशं ग्रसते तु तत् ॥ २९ आकाशावरणं यच्च भूतादिर्ग्रसते तु तत्। भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः ॥ ३० महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम्। एतौ संहारविस्तारौ ब्रह्माऽव्यक्तात्ततः पुनः ॥ ३१ सृजते ग्रसते चैव विकारान्सर्गसंयमे। सांसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥ ३२ गत्वा जवं जवीभावे स्थानेष्वेपु प्रसंयमात्। प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥ ३३ अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते। साधर्म्यवैधर्म्यकृतः संयोगोऽनादिमांस्तयोः ॥ ३४ एवं सर्गेषु विज्ञेयं क्षेत्रज्ञोऽविह ब्राह्मणाः। ब्रह्मविच्चैव विज्ञेपः क्षेत्रज्ञानात्पृथक्पृथक् ॥ ३५ विषयाविषयत्वं च क्षेत्रक्षेत्रज्ञयोः स्मृतम्। ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ॥ ३६ क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते। बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥ ३७

[अ० १०२ श्लो० ३८-६१] वायुपुराणम्। ४१५

(प्रतिसर्गवर्णनम्)
अव्यूहासंकाराच्चैव ज्योतिर्वच्च व्यवस्थितः। यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धता ॥ ३८
तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ॥ ३९
यदा प्रवर्तते चैषां भेदानां चैव संयमः। स्वभावकारिताः सर्वे कालेन महता तदा ॥ ४०
निवर्तते तदा तस्य स्थितिरोगः स्वयंभुवः । सहसा योज्यकैः सर्वैर्ब्रह्मलोकनिवासिभिः ॥ ४१
विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम् । तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ॥ ४२
उत्पद्यन्तेऽथ वैराग्यमात्मवादप्रणाशनम् । भोज्यभोक्तृत्वनानात्वे तेषां तद्भावदर्शिनाम् ॥ ४३
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः। प्रकृतौ करणातीताः सर्वे नानाप्रदर्शिनामः ॥ ४४
स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः । शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ॥ ४५
तत्रैव परिनिर्वाणाः स्मृता नाऽऽगामिनस्तु ते । निर्गुणत्वान्निरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ॥ ४६
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयंभुवः । भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ॥ ४७
इत्येष संयमश्चैव तत्त्वानां करणैः सह । तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्तको द्विजाः ॥ ४८

सूत उवाच-
धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा। ऊर्ध्वभावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ॥ ४८
सर्वमेतन्मयातस्य गुणमात्रात्मकं स्मृतम् । निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ॥ ४९
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति । योन्यवस्था स्वभावे च देहिनां तु निषिच्यते । ५०
जन्तूनां पापपुण्यं तु प्रकृतौ यत्प्रतिष्ठितम् । अव्यक्तस्थानि तान्येव पुण्यपापानि जन्तवः ॥ ५१
योजयन्ति पुनर्देहे देहान्तरत्वे तथैव च ॥ ५२
धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ । करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥ ५३
सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः । सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः ॥ ५४
संयुज्यन्ते वियुज्यन्ते करणैः संचरन्ति च ॥ ५५
राजसी तामसी चैव सात्त्विकी चैव वृत्तयः । गुणमात्राः प्रवर्तन्ते पुरुषाधिष्ठितास्त्रिध' ॥ ५६
ऊर्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः । तयोः प्रवर्तकं मध्य इहैवाऽऽवर्तकं रजः ॥ ५७
इत्येवं परिवर्तन्ते त्रयः श्रोतृगुणात्मकाः । लोकेषु सर्वभूतानां तन्न कार्यं विजानता ॥ ५८
अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः । एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ॥ ५९
तमसाऽभिभवाज्जन्तुर्याथातथ्यं न विन्दति । अतत्त्वदर्शनात्सोऽथ त्रिविधं बध्यते ततः ॥ ६०
प्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्तते ॥ ६१
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः । अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ॥ ६२
* अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः । येषामेते मनोदोषा ज्ञानदोषा विपर्ययात् ॥ ६३


* नास्त्ययं श्लोकः ख. पुस्तके।

४१६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०२श्लो०६२-८८] ( प्रतिसर्गवर्णनम् )

रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम् । अज्ञानं तमसो मूलं कर्मद्वयफलं रजः ॥ कर्मजस्तु पुनर्देहो महादुःखं प्रवर्तते ॥ ६२ श्रोत्रजा नेत्रजा चैव त्वग्जिह्वघ्राणतस्तथा । पुनर्भवकरी दुःखा कर्मणां जायते तु सा ॥ ६३ सतृष्णोऽभिहितो बालः स्वकृतैः कर्मणः फलैः । तैलपालीकवज्जीवस्तत्रैव परिवर्तते ॥ ६४ तस्मात्स्थूलमनर्थानामज्ञानमुपादिश्यते । तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत् ॥ ६५ ज्ञानाद्धि त्यज्यते सर्वं त्यागाद्बुद्धिर्विरज्यते । वैराग्याच्छुध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥ ६६ अत ऊर्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् । अभिष्वङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ६७ अनिष्टमभिषङ्गं हि प्रीतितापविषादनम् । दुःखलाभेन तापश्च सुखानुस्मरणं तथा ॥ ६८ इत्येष वैषयो रागः संभूत्याः कारणं स्मृतम् । ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके ॥ अज्ञानपूर्वकं तस्मादज्ञानं तु विवर्जयेत् ॥ ६९ यस्व चार्षं न प्रमाणं शिष्टाचारं तथैव च । वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ॥ ७० एष मार्गो हि निरधितिर्यग्योनौ च कारणम् । निरयंग्योनिगतं चैव कारणं स निरुच्यते ॥ ७१ विविधा यातना स्थाने निरयंग्योनौ च पङ्ग्विधे । कारणे विषये चैव प्रतिघातस्तु सर्वशः ॥ ७२ अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम् । इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ॥ ७३ सत्त्वस्थमात्रकं चित्तं यथा सत्त्वपदर्शनात् । तत्त्वानां च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ॥ ७४ सत्त्वक्षेत्रज्ञानात्वामेतज्ज्ञानार्थदर्शनम् । नानात्वदर्शनं ज्ञानं ज्ञानाद्वैयोगमुच्यते ॥ ७५ तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च । संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ॥ ७६ निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते । स्वात्मन्यवस्थितश्चापि विरूपारूप्येन लिख्यते ॥ ७७ इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयोः । स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ॥ ७८ पूर्वं वियोगो ज्ञानेन द्वितीयो रागसंक्षयात् । लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम् । ७९ निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते । तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ॥ ८० निमित्तमप्रतीघात इष्टशब्दादिलक्षणे । अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ८१ क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु । अत ऊर्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥ ८२ दिव्ये च मानुषे चैव विषये पञ्चलक्षणे । अप्रद्वेषोऽनभिष्वङ्गः कर्तव्यो दोषदर्शनात् ॥ ८३ तापप्रीतिविषादानां कार्यं तु परिवर्जनम् । एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥ ८४ आनित्यमशिवं दुःखामिति बुद्ध्वाऽनुचिन्त्य च । विशुद्धं कार्यकरणं सत्वाभ्येति चरान्तुय(?) ॥ ८५ परिपक्वकषायो हि कृत्स्नान्दोषान्मपश्यति । ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥ ८६ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥ ८७ प्राणस्थानानि भिन्दन्हि च्छिन्दन्मर्माण्यतीत्य च । शैत्यात्प्रकुपितो वायूरूर्ध्वं तु क्रमते ततः ॥ ८८

[ अ० १०२ श्लो० ८९-११७ ] वायुपुराणम् ४१७

( प्रतिसर्गवर्णनम् )

स चायं सर्वभूतानां प्राणस्थानैष्ववस्थितः । समासात्संवृते ज्ञाने संवृतेषु च कर्मसु ॥ ८९ स जीतोऽनभ्यधिष्ठानः कर्मभिः स्वैः पुराकृतैः । अष्टाङ्गप्राणवृत्तीर्वे स विचयावयते पुनः ॥ ९० शरीरं प्रजहं(हत्)सो वै निरुच्छ्वासस्ततो भवेत् । एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥ ९१ यथेह लोके खद्योतं नीयमानमितस्ततः । रञ्जनं तद्दधे यत्तु नेता नेता न विद्यते ॥ ९२ तृष्णाक्षयस्तृतीयास्तु व्याख्यातं मोक्षलक्षणम् । शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ॥ ९३ अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् । वैराग्यकारणं ह्येतत्प्रकृतीनाः लयस्य च ॥ ९४ अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम् । अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ॥ ९५ वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्रविरोधिनः । वर्णाश्रमाणां धर्मोऽयं देवस्थानेषु कारणम् ॥ ९६ ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवताः । ऐश्वर्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥ ९७ निमित्तमप्रतीघात इष्टे शब्दादिलक्षणे । अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ९८ क्षेत्रज्ञेष्वनुषज्यन्ते गुणमात्रात्मकानि तु । प्रावृट्काले पृथक्त्वेन पश्यन्तीह न चक्षुषा ॥ ९९ पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा । धाविति थानपानश्च (?) योनीः प्राविशतस्तथा ॥ १०० तिर्यगूर्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम् । जीवमाणास्तथा लिङ्गं कारणं च चतुष्टयम् ॥ १०१ पर्यायवाचकैः शब्दैरेकार्थैः सोऽभिलिख्यते । व्यक्ताव्यक्ते प्रमाणोऽयं स वै रूपं तु कृत्स्नशः ॥ १०२ अव्यक्तान्तर्गृहीतं च क्षेत्रज्ञाधिष्ठितं च यत् । एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते ॥ १०३ नष्टं चैव यथा तत्त्वं तत्त्वानां दत्त्वदर्शनम् । यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते ॥ १०४ भिद्यते करणं चापि अव्यक्ताज्ञानिनस्तथा । मुक्तो गुणशरीरेण प्राणाद्येन तु सर्वशः ॥ १०५ नान्यच्छरीरमादत्ते दग्धे बीजे यथाऽङ्कुरः । जीविकः सर्वसंसाराद्बीजशरीरमानसः ॥ १०६ ज्ञानाच्चतुर्दशाच्छुद्धः प्रकृतिं सोऽनुवर्तते । प्रकृतिं सत्यमित्याहुर्विकारोऽनृतमुच्यते ॥ १०७ तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते । अनामरूपक्षेत्रज्ञानामरूपं प्रचक्षते ॥ १०८ अस्मात्क्षेत्रं विजानानि तस्मात्क्षेत्रज्ञ उच्यते । क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥ १०९ क्षेत्रज्ञः स्मर्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाव्यते । क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ॥ ११० क्षयणात्करणाच्चैव क्षतत्राणान्तथैव च । भाज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥ १११ महदाद्यं विशेषान्तं सर्वरूप्यं विलक्षणम् । विकारलक्षणं तद्वै साक्षरक्षरमेव च ॥ ११२ तमेव च विकारं तु यस्माद्वै क्षरते पुनः । तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ॥ ११३ *संसारनरकेभ्यश्च त्रायते पुरुषं च यत् । दुःखत्राणात्पुनश्चापि क्षेत्रमित्यभिधीयते ॥ ११४ सुखदुःखमोहाभावाद्द्रोज्यमित्यभिधीयते । अचेतत्वाद्धि विषयस्तद्धि धर्मविभुः स्मृतः ॥ ११५ न क्षीयते न क्षरति विकारप्रसूतं तु तत् ॥ अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ॥ ११६ यस्मात्पुर्यनुशेते च तस्मात्पुरुष उच्यते । पुरप्रत्ययिको यस्मात्पुरुषे+त्यभिधीयते ॥ ११७


* अयं श्लोको न विद्यते क घ पुस्तकयोः । + अत्र संधिरार्षः ।

५३

४१८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०२श्लो०११८-१३४।२] ( प्रतिसर्गवर्णनम )

पुरुषं कथयस्वाथ कथं तज्ज्ञैर्विभाष्यते । शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ॥ ११८ अस्ति नास्तीति सोऽन्यो वा बद्धो मुक्तो गतः स्थितः । नैर्हेतिकान्तानिर्देश्यसूक्तस्तस्मिन्न विद्यते ॥ शुद्धत्वान्न तु देश्यो वै दृष्टत्वात्समदर्शनः । आत्मप्रत्ययकारी सारनूनं (?) चापि हेतुकम् ॥ भावग्राह्यमनुमान्यं चिन्तयन्न प्रमुह्यते ॥ १२० यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम् । दृश्यादृश्येषु निर्देश्यं तदा तदुद्धरं वरम् ॥ १२१ एवं ज्ञात्वा स विज्ञाता ततः शान्ति नियच्छति । कार्यं च करणे चैव बुद्ध्यादौ भौतिके तदा ॥ संप्रयुक्तो वियुक्तो वा जीवतो वा मृतस्य च । विज्ञाता न च दृश्येत पृथक्त्वेनेह सर्वशः ॥ १२३ स्वेनाऽऽत्मानं तमात्मानं कारणात्मा नियच्छति । प्रकृतौ कारणे चैव स्वात्मन्येवापतिष्ठति ॥ १२४ अस्ति नास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः । एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषेति (?) वा ॥ आत्मवान्स निरात्मा वा चेतनाऽचेतनोऽपि वा । कर्ता वा साऽप्यकर्ता वा भोक्ता वा भोज्यमेव वा ॥ यज्ज्ञात्वा न निवर्तन्ते क्षेत्रज्ञे तु निरञ्जने । अवाच्यं तदनाख्यानादग्राह्यत्वादहेतुनि ॥ १२६ अप्रतर्क्यमचिन्त्यत्वादवाप्यत्वाच्च सर्वशः । नाभिलिम्पति तत्तत्त्वं संप्राप्य मनसा सह ॥ १२७ क्षेत्रज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने । व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते ॥ १२८ निरात्मके पुनस्तस्मिन्वाच्यावाच्यो न विद्यते । एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥ १२९ सृजते ग्रसते चैव ग्रसतः पर्यवतिष्ठते । क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्वं प्रवर्तते ॥ १३० अधिष्ठानप्रवृत्तेन तस्य ते बुद्धिपूर्वकम् । साधर्म्यवैधर्म्यकृतः संयोगो विधितस्तयोः ॥ अनादिमान्स संयोगा महापुरुषजः स्मृतः ॥ १३१ यावच्च सर्गप्रतिसर्गकालस्तावच्च तिष्ठति सुसंनिरुध्य । पूर्वं हितव्ये (?) तद्बुद्धिपूर्वं प्रवर्तते तत्पुरुषार्थमेव ॥ १३२ एषा निसर्गप्रतिसर्गपूर्वं प्र (प्रा) धानिकी चेश्वरकारिता च ॥ अनाद्यनन्ता ह्यभिमानपूर्वकं विनासयन्ती जगदभ्युपैति ॥ १३३ इत्येष प्राकृतः सर्गस्तृतीयो हेतुक्षणः । उक्तो ह्यस्मिंस्तदाऽत्यन्तं करयस्तत्प्रमुच्यते (?) १३४ इत्येष प्रतिसर्गो वस्त्रिविधः कीर्तिता मया । विस्तरेणाऽनुपूर्व्या च भूयः किं वर्तयाम्यहम् ॥

इति श्रीमहापुराणे वायुप्रोक्ते प्रतिसर्गवर्णनं नाम द्व्यधिकशततमोऽध्यायः ॥ १०२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१०२५०

अथ त्र्यधिकशततमोऽध्यायः ॥ अथ सृष्टिवर्णनम् ।

ऋषय ऊचुः- सूत सुमहदाख्यानं भवता परिकीर्तितम् । प्रजानां मनुभिः सार्धं देवानामुषिभिः सह ॥ १ पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् । दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ २

[अ० १०२-१०३ श्लो० ३-२९] । वायुपुराणम् । ४१९

(सृष्टिवर्णनम्)

अत्यद्भुतानि कर्माणि विधिमान्धर्मनिश्चयः । विचित्राश्च कथायोगा जन्म चाग्नेयमनुत्तमम् ॥ ३ तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा । मनःकर्णसुखं सौते प्रीणात्याभूतसंभवम् ॥ ४ एवमाराध्य ते सूतं सत्कृत्य च महर्षयः । पप्रच्छुः सत्रिणः सर्वे पुनः सर्गप्रवर्तनम् ॥ ५ [* कथं सूत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते । बन्धेषु संप्लीनेषु गुणसाम्ये तमोमये ॥ ६ विकारेष्वविसृष्टेषु अव्यक्ते चाऽऽत्मनि स्थिते । + अप्रवृत्ते ब्राह्मणानु महासायो(यु)ज्यगैस्तदा ॥ कथं प्रपस्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ॥ ७ एवमुक्तस्ततः सूतस्तदाऽसौ लोमहर्षणः । व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्तनम् ] ॥ ८ अहं वो वर्तयिष्यामि यथा सर्गः प्रपत्स्यते । पूर्ववत्स तु विज्ञेयः समासात्तं निबोधत ॥ ९ दृष्टं चैवानुमेयं च तर्कं वक्ष्यामि युक्तितः । तस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १० अव्यक्तवत्परोक्षत्वादग्रहणं तद्दुरासदम् । विकारैः प्रतिसंहृष्टे गुणसाम्ये निवर्तते ॥ ११ प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति । धर्माधर्मौ प्रलीयेते अव्यक्तौ प्राणिनां सदा ॥ १२ सत्त्वमात्रात्मको धर्मो गुणसत्त्वे प्रतिष्ठितः । तमोमात्रात्मकोऽधर्मो गुणे तमसि तिष्ठति ॥ १३ अविभागवन्तावेतौ गुणसाम्यस्थितावुभौ । सर्वकार्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ॥ १४ अबुद्धिपूर्वं क्षेत्रज्ञो ह्यधितिष्ठास्यति तान्गुणान् । एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ॥ १५ यदा प्रवर्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः । भोज्यभोक्तृत्वसंबन्धं प्रपत्स्येते युतावुभौ ॥ १६ तस्माच्छरीणमव्यक्तं साम्ये स्थित्वा गुणात्मकान् । क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ॥ १७ ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः । क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ॥ १८ महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् । क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ॥ १९ ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः । ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ॥ २० ईश्वरः सर्वभूतानां ब्रह्मा ब्रह्ममयो महान् । आदिदेवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ॥ २१ अनाद्यौ वरमुत्पादावुभौ सूक्ष्मो तु तौ स्मृतौ । अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ॥ २२ अबुद्धिपूर्वकं युक्तौ मशकौ तु वरो तदा । अप्रत्ययमानाद्यं च स्थितावुदकमत्स्यशः (?) ॥ २३ प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते । अज्ञा गुणैः प्रवर्तन्ते रजःसत्त्वतमात्मकम् ॥ २४ प्रवृत्तिकाले रजसाऽभिषन्नमहत्त्वभूतादिविशेष्यतां च । विशेषतां चेन्द्रियतां च यान्ति गुणावसाने पतिभिर्मनुष्याः ॥ २५ सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् । रजःसत्त्वतमा व्यक्ता विधर्माणः परस्परम् ॥ २६ आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः । संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ २७ सर्वे सत्त्वाः प्रपद्यन्ते अव्यक्तात्पूर्वमेव च । प्रसूते या च सुवहाः साधिकाश्चाप्यसाधिका ॥ २८ संसरन्तस्तु ते सर्वे स्थानप्रकरणैः सह । कार्याणि प्रतिपत्स्यन्त उत्पद्यन्ते पुनः पुनः ॥ २९


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + नास्त्यर्थमिदं घ. पुस्तके ।

४२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० ३ श्लो० ३०-५०] (सृष्टिवर्णनम)

गुणमात्रामकाश्चैव धर्माधर्मौ परस्परम् । आरप्सन्ती(भन्ते)ह चान्योन्यं वरेणानुग्रहेण च ॥ ३० सर्वे तुल्याः प्रवृत्त्यर्थं सर्गादौ यान्ति विक्रियाम् । गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ॥ ३१ गुणास्ते यानि सर्वाणि यादृष्टेः प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३२ हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३३ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विप्रयोगाश्च भूतानां गुणेभ्यः संप्रवर्तते ॥ ३४ इत्येष वो मया ख्यातः पुनः सर्गः समासतः *। समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३५ अव्यक्तात्कारणात्तस्मान्नित्यसत्सदसदात्मकात् । प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३६ स पुत्रः संभवपिता जायते ब्रह्मसंज्ञितः । सृजते स पुनर्लोकानाभिमानगुणात्मकान् ॥ ३७ अहंकारस्तु महतस्तस्माद्भूतानि चाऽऽत्मनः । युगपत्संप्रवर्तन्ते भूतान्येवेन्द्रियाणि च ॥ भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्तते ॥ ३८ विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् । कीर्तितं वो यथा पूर्वं तथैवाभ्युपधार्यताम् ॥ ३९ एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययं च ॥ तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ४० यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ॥ त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याल्लोकान्प्राप्य यथेष्टं चारिष्यथ ॥ ४१ एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा । जगमुश्चावभृतस्नाताः स्वर्गं सर्वे तु सत्रिरणः ॥ ४२ विपास्तथा यूयमापे दृष्ट्वा बहुविधैर्यखैः । आयुषोन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ४३ प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः । अनुषङ्ग उपोद्घात उपसंहार एव च ॥ ४४ एवमेतच्चतुष्पादं पुराणं लोकसंमतम् । उवाच भगवान्साक्षाद्वायुलौकहिते रतः ॥ ४५ नैमिषे सत्रमासाद्य मुनिमध्ये मुनिसत्तमाः । तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयान्वितम् ॥ ४६ प्राधानिकामियां सृष्टिं तथैवेश्वरकारिताम् । सम्यग्विादित्वा मेधावी न मोहमधिगच्छति ॥ ४७ इमं यो ब्राह्मणो विद्वानितिहासं पुरातनम् । शृणुयाच्छ्रावयेद्वाऽपि तथाऽऽध्यापपयेतऽपि च ॥ ४८ स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः । ब्रह्मसायो(यु)ज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ॥ तेषां कीर्तिमंतां कीर्तिं प्रजेशानां महात्मनान्x । प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ५० +


* इत उत्तरमयं श्लोकः ख. पुस्तके स यथा-धारणाश्रुतबुद्धीनां योगानां चैव धार्यताम् । यतेन्द्रियाः सुसंबन्धाधारणायोगनिश्चयाः । इति । x इतं परमेते श्लोका अधिका उपलभ्यन्ते ख पुस्तके ते च यथा--इदं यः श्रावयेद्विद्वांस्तस्य चैवोत्तमा गतिः । धनधान्यसुखैश्वर्यं प्राप्यते नात्र संशयः । ब्राह्मणो लभते विद्यां ब्रह्मसायोज्य- मामुयात् । क्षत्रियो जयमामोति सुरलोकोत्तमा गतिम् । वैश्यस्तु धनलाभांव्या धनधान्यलभेत च शूद्रः सुखमवामोति पुत्रपौत्रादिसंयुतः । श्लोकं श्लोकार्धपादं वा योऽधीते शृणुयाद्यतः । अन्ते विष्णुपुरं याति यत्र गत्वा न शोचति । इति । + ब्रह्मभूयाय गच्छतीत्युत्तरमेते श्लोका अधिकाः ख पुस्तके उपलभ्यन्ते ते च यथा-- येनेदं भारतं पुण्यं शृणुयाद्वाऽप्यभीक्ष्णशः । स चापि लभते स्वर्गं वायुमोक्ते प्रसादतः ॥

[अ० १०३ श्लो० ५१-७१] वायुपुराणम् । ४२१ ( सृष्टिवर्णनम )

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमतम् । कृष्णद्वैपायनेनोक्तं पुराणं छलवादिनः ॥ ५१
मन्वन्तरेश्वराणां च यः कीर्ति प्रथयेदिमाम् । देवतानामृषीणां च भूरिद्रविणतेजसाम् ॥
स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ॥ ५२
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि । धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ॥ ५३
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणाना्पाद मन्ततः । अक्षयं सार्वकामीयं पितॄंस्तच्चोपतिष्ठति ॥ ५४
तस्मात्पुरा ह्यनन्तीदं पुराणं तेन चोच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ ५५
तथैव त्रिषु वर्णेषु ये मनुष्याः प्रधानतः । इतिहासासिममं श्रुत्वा धर्माय विदधे (दधते) मतिम् ॥ ५६
यावन्त्यस्य शरीरिषु रोमकूपाणि सर्वशः । तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ॥
ब्रह्मसायो (यु) ज्यगो भूत्वा दैवतैः सह मोदते ॥ ५७
सैवपापहरं पुण्यं पवित्रं च । यशस्वि च । ब्रह्मा वदौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ५८
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः । बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ५९
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः । इन्द्रश्चापि वशिष्ठाय सोऽपि सारस्वताय च ॥ ६०
सारस्वतस्त्रिधाम्ने च त्रिधामा च शरद्वते । शरद्वत्सिविष्टाय सोऽन्तरिक्षाय दत्तवान् ॥ ६१
वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च । त्रय्यारुणो धनंजये स च प्रादात्कृतंजये ॥ ६२
कृतंजयत्तृणंजयो भरद्वाजाय सोऽप्यथ । गौतमाय भरद्वाजः सोऽपि निर्यन्तरे पुनः ॥ ६३
निर्यन्तरस्तु प्रोवाच तथा वाजश्रवाय च । स ददौ सोमशुष्माय स ददौ तृणबिन्दवे ॥ ६४
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये । शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ६५
पराशराज्जातुकर्णस्तस्माद्वैपायनः प्रभुः । द्वैपायनात्पुनश्चापि मया प्रोक्तं द्विजोत्तमाः ॥ ६६

शांशपायन उवाच—

मया वै तत्पुनः प्रोक्तं पुत्रायामितबुद्धये । इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ॥ ६७
नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः । धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ६८
पापघ्नं नियमेनदं श्रोतव्यं ब्राह्मणैः सदा । नाशूद्रौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ६९
नाश्रद्दधानाविदुषे नापुत्राय कथंचन । नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ७०
अव्यक्ते वै यस्य बोनि वदन्ति व्यक्तं देहं कालमन्तर्गतं च ।
वह्निं वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुम् * ॥ ७१

इदं वायुपुराणं च श्रद्धया वाऽपि यः पठेत् । तस्य गृहे स्थिता लक्ष्मीर्दीर्घमायुरवाप्नुयात् ॥
लिखित्वा लेखयित्वा च पूजयित्वा यथाविधि । नाग्निश्चौरभयं तत्र ग्रहरोगार्किकं भयम् ॥
ते सर्वे नाशमायान्ति यावच्चन्द्रद्युतारकाः । सर्वपापविनिर्मुक्तो अ (ह्य) न्ते विष्णुपुरं व्रजेत् ॥
न च मारीभयं किंचित्सर्वत्र सुखमामयात् । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसंपदः ॥
भवन्ति सततं तस्य नात्र कार्या विचारणा । इदं वः क्षत्रियोऽधीते तस्य फलमनन्तकम् ॥
इहलोके परा कीर्ति विजयस्तस्य जायते । पुत्रपौत्रसुखं तस्य मृतः स्वर्गपुरं वसेत् ॥
इदं चाधीयतेऽशूद्रःश्रावयेद्वाऽप्यभीक्ष्णशः। तस्य गृहे स्थिरा लक्ष्मीः सत्यं सत्यं हि नान्यथा इति॥

* इत उत्तरग्रन्थस्त्रुटितो ङ पुस्तके ।

४२२श्रीमद्वैपायनमुनिप्रणीतम्-[अ०१०३-१०४ श्लो०७२-७३][१-१८]
(व्याससंशयापनोदनम्)

वाचो वेदांश्चान्तरिक्षं शरीरं क्षितिं पादौ तारका रोमकूपान् ।
सर्वाणि चाङ्गानि तथैव तानि विद्याश्च अङ्गानि च यस्य पुच्छम् ॥ ७२
तं देवदेवं जननं जनाना सर्वेषु लोकेषु प्रतिष्ठितं च ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ७३
इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१०३२३


अथ चतुरधिकशततमोऽध्यायः ।

व्याससंशयापनोदनम् ।

÷ शौनकादिऋषय ऊचुः-
सूत सूत महाभाग त्वया भगवता सता । व्यासप्रसादाधिगतशास्त्रसंबोधनेन च ॥ १
अष्टादश पुराणानि सेतिहासानि चानघ । उपक्रमोपसंहारविधिनोक्तानि कृत्स्नशः ॥ २
चतुर्दशसहस्रं च मात्स्यं प्रोक्तमतिस्फुटम् । तत्संख्याकं भविष्यं च प्रोक्तं पञ्चशताधिकम् ॥ ३
मार्कण्डेयं महारम्यं प्रोक्तं नवसहस्रकम् । कथितं ब्रह्मवैवर्तमष्टादशसहस्रकम् ॥ ४
शतोत्तरं च ब्रह्माण्डं सूर्यसंख्यासहस्रकम् । अथ भागवतं दिव्यमष्टादशसहस्रकम् ॥ ५
सहस्राणि दशैवोक्तं पुराणं ब्रह्मनामकम् । अयुतश्लोकघटितं पुराणं वामनाभिधम् ॥ ६
तथैवायुतसंख्यातं षट्शताधिकमादिकम् । त्रयोविंशतिसाहस्रमनिलं तद्वतं शुभम् ॥ ७
त्रयोविंशतिसाहस्रं नारदीयमुदाहृतम् । एकोनविंशसाहस्रं वैनतेयमुदाहृतम् ॥ ८
सहस्रपञ्चपञ्चाशत्प्रोक्तं पाद्मं सुविस्तरम् । सप्तदशसहस्रं तु कूर्मं प्रोक्तं मनोहरम् ॥ ९
चतुर्विंशतिसाहस्रं शौकरं परमाद्भुतम् । एकाशीतिसहस्राणि स्काान्दमुक्तं सुविस्तृतम् ॥ १०
एवमष्टादशोक्तानि पुराणानि बृहन्ति च । पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ॥ ११
रागिणां च विरागाणां यतीना ब्रह्मचारिणाम् । गृहस्थानां वनस्थानां स्त्रीशूद्राणां विशेषतः ॥
ब्राह्मणक्षत्रियविशां ये च संकरजातयः । गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ॥ १३
अनेकविधदानानि यमाश्च नियमैः सह । योगधर्मा बहुविधाः सांख्या भागवतास्तथा ॥ १४
भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजः । उपासनविधिश्चोक्तः कर्मसंसुद्धिचेतसाम् ॥ १५
ब्राह्मं शैवं वैष्णवं च सौरंव शाक्तं तथाऽऽर्हतम् । षड्दर्शनानि चोक्तानि स्वभावानियतानि च ॥
एतदन्तच्च विविधं पुराणेषु निरूपितम् । अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ॥ १७
न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् । अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ॥


÷ अयमध्यायः कव्यतिरिक्तपुस्तकेषु न विद्यते ।

[अ०१०४ श्लो० १९-४७] वायुपुराणम्। ४२३ (व्याससंशयापनोदनम्)

सूत उवाच— शृणु शौनक वक्ष्यामि प्रश्नमेनं सुदुर्लभम्। अतिगोप्यतरं दिव्यमनाख्यंयं प्रचक्षते ॥ १९ पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम्। सर्ववेदार्थघटितां चिन्तयामास चेतसि ॥ २० वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः। मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ॥ २१ जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये। निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ॥ २२ अक्षरं परमं ब्रह्म परमात्मा परं पदम्। यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ॥ २३ आचरन्ति महाप्राज्ञा धारणां च पृथग्विधाम्। आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ॥ २४ ध्यानं समाधिरेतानि यमैश्च नियमैः सह। अष्टाङ्गानि यदर्थं च चरन्ति मुनिपुङ्गवाः ॥ २५ यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः। परार्पणधिया सम्यग्निष्कामाः कलिलोज्झिताः ॥ २६ मज्ज्ञानेये निराकर्तुं पापाचरणमात्मनः। गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ॥ २७ तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्। नित्यं सर्वगतं स्थाणु कूटस्थं कूटवर्जितम् ॥ २८ सर्वेन्द्रियचराभासं प्राकृतोन्द्रियवर्जितम्। दिक्कालायनवाच्छिन्नं नित्यं चिन्मात्रमव्ययम् ॥ २९ अध्यास्तं सर्ववद्यत्र विश्वमेतत्प्रकाशते। विश्वस्मिन्नपि चान्वेति निर्विकारं च रज्जुवत् ॥ ३० सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्। तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ॥ ३१ सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः। यस्माद्भवन्ति ब्रह्माण्डकोटयो न भवन्ति च ॥ ३२ यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ। भवेतां या परा शक्तिर्यदाधारतया स्थिता ॥ ३३ यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्। यदज्ञानाज्जगद्भाति यस्मिन्ज्ञाते जगन्न हि ॥ ३४ असत्यं यज्जडं दुःखं अवास्त्विति निरूपितम्। विपरीतमतो यद्वै सच्चिदानन्दमूर्तिकम् ॥ ३५ जीवे जाग्रति विध्याख्यं स्वप्ने यत्तैजसं स्मृतम्। सुषुप्तौ प्राज्ञसंज्ञं यत्सर्वावस्थासु संस्मृतम् ॥ ३६ यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमप्यति। त्वक्त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ॥ ३७ बुद्धिज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्। यन्नेशिरे समभ्येतुं ज्ञातुं च परमार्थतः ॥ ३८ रज्जावहिर्मरौ वारि नीलिमा गगने यथा। असिद्धिमथेदं भाति यस्मिन्नज्ञानकल्पितम् ॥ ३९ घटावाच्छिन्न एवायं महाकाशो विभिद्यते। कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञकम् ॥ ४० मायया चित्रकारिण्या विचित्रगुणशालिया। ब्रह्माण्डं चित्रमतुलं यस्मिन्भित्ताविवार्पितम् ॥ ४१ धावतोऽन्यानतिक्रान्तं वदतो वाग्गोचरम्। वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ॥ ४२ अक्षरान्न परं किंचित्सा काष्ठा सा परा गतिः। इत्येवं श्रूयते वेदे बहुधाऽपि विचारिते ॥ ४३ अक्षरस्याऽऽत्मनश्चापि स्वात्मरूपतया स्थितम्। परमानन्दसंदोहरूपमानन्दविग्रहम् ॥ ४४ लीलाविडासरासिकं बलपीयूथ मध्यगम्। शिखिपिच्छाकिरीटेन भास्वद्रत्नचितेन च ॥ ४५ उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम्। कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ॥ ४६ कुञ्जकुञ्जप्रियावृन्दाविलासरातिलम्पटम्। पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ॥ ४७

४२४ श्रीमहैपायनमुनिप्रणीतम्- [अ० १०४ श्लो० ४८-७५] (व्याससंशयापनोदनम)

अधरामृतसंसिक्तवेणुनादेन बल्लवीः । मोहयन्तं चिदानन्दमनङ्गमदभञ्जनम् ॥ ४८ कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम् । विरेकण्ठविलसद्रत्नगुञ्जामृगाकुलम् ॥ ४९ यमुनापुलिने तुङ्गे तमालवनकानने । कदम्बचम्पकाशोकपारिजातमनोहरे ॥ ५० शिखिपारावतशुकपिककोलाहलाकुले । निरोधार्थं गवामेव धावमानमितस्ततः ॥ ५१ राधामिलासरसिकं कृष्णाख्यं पुरुषं परम् । श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ॥ ५२ एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते । गोलोकसंज्ञके कृष्णो दीव्यतीति श्रुतं मया ॥ ५३ नातः परतरं किंचिन्निगमागमयोरपि । तथाऽपि निगमो वक्ति सक्षरात्परतः परः ॥ ५४ गोलोकवासी भगवानक्षरात्पर उच्यते । तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ॥ ५५ उद्दिष्टो वेदवचनैर्विशेषो ज्ञायते कथम् । श्रुतेर्वाऽर्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ॥ ५६ श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः । विचारयामास चिरं न पपेदे यथातथम् ॥ ५७

सूत उवाच--

विचारयन्नपि मुनिनींऽऽप वेदार्थनिश्चयम् । वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ॥ ५८ तदाऽपि महतार्तिं सतां हृदयतापिनीम् । पुनर्विचारयामास कं व्रजामि करोमि किम् ॥ ५९ पृच्छामि न जगत्त्यस्मिन्सर्वज्ञं सर्वदर्शनम् । अज्ञात्वाऽन्यतमं लोके संदेहाविनिवर्तकम् ॥ ६० मेरोः कुहरिणीं गत्वा चचार परमं तपः । यत्र कार्तस्वरस्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ॥ ६१ सदा प्रबाधते विश्वक्तमःस्तोमं दृशंतुदम् । चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ॥ ६२ नानाद्रुमलताकुञ्जकूजत्पक्षिनिनादितम् । क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ॥ ६३ जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः । जातरूपशिलानद्धतटसंचारपक्षिभिः ॥ ६४ युक्तमम्भोजपवनैः सेव्यमानं समन्ततः । शिवैरध्यासितं भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ॥ ६५ निर्जनं दिव्यलतिकाप्रियखण्डविराजितम् । शुकैः पारावतैर्हंसैरून्मदन्मत्तकोकिलम् ॥ ६६ उत्पतत्पद्मरजसां पटलामोददिङ्मुखम् । तत्रापि काञ्चनी दिव्या गुहा परमशोभना ॥ ६७ तां प्रविश्य जिताहारो जितचित्तो जितासनः । सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ॥ ६८ त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि । प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ॥ ६९ स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः । कुशमुष्टिकराम्भोजा मृगत्वङ्‌मण्डितांसकाः ॥ ७० स्वरैः षोडशभिः क्लृप्तवदनाः प्रणवान्तराः । कचवर्गाोद्भवैर्वर्णैः पञ्चावयवपाणयः ॥ ७१ पवर्गदक्षचरणा वामपादस्तवर्गंतः । आच(त)रन्त्यन्तवर्णांश्च येषां कुक्षिद्वयात्मकौ ॥ ७२ नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः । अभिदक्षांशरुचिरा धराग्रीवा भृतांसकाः ॥ ७३ अन्तस्थसंस्थाना वैखरीवाग्विजूम्भिताः । अपश्यन्मधुरामोषां हृदयाम्भोजकल्पिताम् ॥ ७४ हरेर्भगवतः साक्षादाविर्भावस्थली हि सा । कारीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ॥ ७५

[अ० १०४ श्लो० ७६-१०३] वायुपुराणम् । ४२५

( व्याससंशयापनोदनम् )

लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले । कण्ठस्थां द्वारकामेशां प्रयागं प्राणगं तथा ॥ ७६
सव्यापसव्ययोस्तेषां गङ्गाऽपि यमुना नदी । मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथाऽऽनने ॥ ७७
हन्वोर्वामध्यगतं प्रभासक्षेत्रमुत्तमम् । बदर्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ॥ ७८
पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे । पीठं पूर्णगिरिं नाम ललाटे समदृश्यत ॥ ७९
कण्ठे च मथुरापीठं काञ्चीपीठं कटिस्थितम् । जालंधरं तथा पीठं स्तनदेशेष्वदृश्यत ॥ ८०
भृगुपीठं कर्णदेशे अयोध्यां नासिकापुटे । ब्रह्मरन्ध्रं स्थितं ब्राह्मचं शैवं सीमन्तसीमानि ॥ ८१
शाक्तं जिह्वाग्राधिषणं वैष्णवं हृदयाम्बुजे । सौरं चक्षुष्प्रदेशस्थं बौद्धच्छायासुसंगदम् ॥ ८२
सौत्रामाणीं कण्ठदेशे पशुबन्धमथोरासि । वाजपेयं कटितटे अग्निहोत्रं तथाऽऽनने ॥ ८३
अश्वमेधं कटितटे नरमेधमथोदरे । राजसूयं शिरोदेश आवसथ्यं तथाऽधरे ॥ ८४
ऊर्ध्वोष्ठे दक्षिणाग्निं च गार्हपत्यं मुखान्तरे । हव्यं श्रुतौ मन्त्रभेदास्तथा रोमस्ववस्थितान् ॥
भृत्यैरिव महाराजं पुराणैर्न्यायिमिश्रितैः ॥ ८५
संहिताभिश्च तन्त्रैश्च पृथक्पृथगुपासितान् । कर्मज्ञानोपासनाभिर्नानानुग्रहकारकान् ॥ ८६
दृष्ट्वा सुविस्मितमना मुनिः कृष्णो बभूव तान् । ब्रह्मेतजोमयान्दिव्यांस्तपतोऽर्कानिव च्युतान् ॥
ज्वलतोऽग्नीनिवोदर्कान्कोटिन्दुसमदर्शनान् ॥ ८७
ववन्दे सहसोत्थाय दण्डवत्पतितो मुनिः । कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहमितीरयन् ॥ ८८
अद्य मे सफलं जन्म अद्य मे सफलं मनः । अद्य मे सफलं चाऽऽयुर्यूद्भवन्तोऽक्षिगोचराः ॥ ८९
अलौकिकं लौकिकं च यत्किंचिदपि विद्यते । न तद्गोष्ठविदितं वेद्यं भूतं भव्यं भवच्च यत् ॥ ९०
न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा । यदृक्षाकरसंकोचविधानायहे रागिणाम् ॥ ९१
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा विचीतरौ । न मृषारागविषयौ तत्संकोचविधिक्षयौ ॥ ९२
अतो लोकहितैर्नूनं परभार्थनिरूपणे । स्वोक्ताः स्वर्गादिविषया नश्वरा इति निन्दिताः ॥ ९३
अधिकारिविभेदेन कर्मज्ञानोपदेशतः । त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्तिभिः ॥ ९४
अतोऽहं प्रष्टुमिच्छामि भवन्तश्चैत्कृपालवः । कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ॥ ९५
ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः । चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ॥ ९६
मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत् । सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ॥ ९७
यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम् । निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ॥ ९८
विकारेषु विनश्यत्सु निर्विकारं न नश्यति । यथान्धतमसा व्याप्तलोकस्य र [वि] रोजसा ॥ ९९
लोहस्येव मणिरतद्व्रह्मणिायाश्वेतयितृ यत् (?) । यदाभासेन सा सत्तां प्रतिपद्य विजृम्भते ॥ १००
जीवेश्वरादिरूपेण विश्वाकारेण चाप्यहो । तस्यामपि मलीनायां कूटस्थं च यदेकलम् ॥ १०१
भवद्भिरेवं निर्णीतं तत्तथैव न संशयः । तथाऽपि मम जिज्ञासा वर्तते केवलं हृदि ॥ १०२
अत्तोऽपि परं किंचिद्वर्तते किल वा न वा । तद्वदन्तु महाभागा भवन्तस्तत्त्वदर्शनाः ॥ १०३

५४

( गयामाहात्म्यम् )

४२६ श्रीमद्वैपायनमुनिप्रणीतम्—[अ० १०४-१०५ श्लो० १०४-११०-१-६] ( गयामाहात्म्यम् ) यच्छ्रवःफलमेवेह जनुषो मे कृतार्थता । एवं ब्रुवन्तममघं व्यासं सत्यवतीसुतम् ॥
साधु साध्विति संकीर्त्य प्रत्यूचुर्निगमा वचः ॥ १०४

वेदा ऊचुः—
साधु साधु महाप्राज्ञ विष्णुरात्मा शरीरिणाम् । अजोऽपि जन्म संपद्य लोकानुग्रहमीहसे ॥ १०५
अन्यथा ते न घटते संसारकर्म बन्धनम् । अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ॥ १०६
बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे । अस्मत्संमत एवार्थो भवता संप्रदर्शितः ॥ १०७
पुराणेष्वितिहासेषु सूत्रेष्वपि च नैकधा । अक्षरं ब्रह्म परमं सर्वकारणकारणम् ॥ १०८
तस्याऽऽत्मनोऽप्यात्मभावतया पुष्पस्य गन्धवत् । रसवद्वा स्थितं रूपमवेहि परमं हि तत् ॥ १०९
अनुभूतं तदस्माभिर्जिते प्राकृतिके लये । अक्षरात्परतस्तस्माद्यत्परं केवलो रसः ॥
न च तत्र वयं शक्ताः शब्दातीते तदात्मकाः ॥ ११०

इति श्रीमहापुराणे वायुप्रोक्ते व्याससंशयापनोदनं नाम चतुरधिकशततमोऽध्यायः ॥ १०४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१०४३३

अथ पञ्चाधिकशततमोऽध्यायः ।
* गयामाहात्म्यम् ।

[ +वायुरुवाच—
अत ऊर्ध्वं प्रवक्ष्यामि गयामाहात्म्यमुत्तमम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ] १

सूत उवाच—
सनकाद्यैर्महाभागैर्देवर्षिः स च नारदः । सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्वकम् ÷ ॥ २

नारद उवाच—
सनत्कुमार मे ब्रूहि तीर्थं तीर्थोत्तमोत्तमम् । तारकं सर्वभूतानां पठतां [ × शृण्वतां तथा ॥ ३

सनत्कुमार उवाच—
वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्वतावकम्(?) गयातीर्थं सर्वदेशे तीर्थेभ्योऽप्यधिकं शृणु ] ॥ ४
गयासुरस्तपस्तेपे ब्रह्मणा कृतेऽशर्थितः । प्राप्तस्य तस्य शिरसि शिलां धर्मो ह्यधारयत् ॥ ५
तत्र ब्रह्माऽकरोद्यागं स्थितश्चापि गदाधरः । फल्गुतीर्थादिरूपेण निश्चलार्थमहर्निशम् ॥
गयासुरस्य विप्रेन्द्र बलाद्यैर्दैवतैः सह ॥ ६


* इदं गयामाहात्म्यं ग. घ. ङ. पुस्तकेषु न विद्यते । + धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । ÷ इत उत्तरं मुद्रितपुस्तकेऽयं ग्रन्थ उपलभ्यते सोऽयम्—
गयायात्रां प्रवक्ष्यामि शृणु नारद मुक्तिदाम् । निष्कृतिस्तिस्त्वह कर्तृणां ब्रह्मणा गीयते पुरा ॥ १॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा । वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥ २॥
ब्रह्मज्ञानेनं किं कार्यं गोगृहे मरणेन किम् । किं कुरुक्षेत्रवासेन यदि पुत्रो गयां व्रजेत् ॥ ३॥
गयायां पिण्डदानेन यत्फलं लभते नरः । न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ ४॥
इति श्रुत्वा तदा वाक्यं नारदो मुनिसत्तमः । सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्वकम् ॥ ५॥ इति ।
× धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।