ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
अध्या० ३ ख० ८ (२०)] ऐतरेयारण्यकम् । १६३
प्रथमाविभक्त्यन्तो योऽयमकारः सोऽयं प्राणोपाधिकस्य ब्रह्मणो वाचकनामत्वेन निर्दिश्यते । यथा हिरण्यगर्भः सर्वप्राणिष्वनुगतः “सर्वाहीमानी हिरण्यगर्भः” [नृसिं० उत्त० ९] इति श्रुतेः । तथैवायमकारः सर्वेषु ककारादिष्वनुगतत्वेन हिरण्यगर्भद्वक्तुं योग्यस्तस्मादकारेण प्राणोपाधिकं ब्रह्मानुसंधाय तत्र तस्मिन्ब्रह्मण्यहमित्येतदुपासकस्वरूपवाचकं पदमागतं प्राप्तं यथा भवति तथा प्राणेरेवं व्यवहरेत् । अत एवाहमुक्यमस्मीति विद्यादिति विधिः पूर्वमुदाहृतः ।
उपास्यस्वरूपं संक्षिप्य दर्शयित्वा तत्फलं संक्षिप्य दर्शयति—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य
बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां
सहस्राणि भवन्ति तावन्ति पुरुषायुषोऽह्नां
सहस्राणि भवन्ति जीवाक्षरेणैव जीवाहरा-
प्नोति जीवाह्ना जीवाक्षरमिति , इति ।
तद्वा इदमित्यारभ्याह्नां सहस्राणि भवन्तीत्यन्तं पूर्वमेव [ऐ० आ० २ अ० २ ख० ४] व्याख्यातम् । तच्च वक्ष्यमाणस्याक्षरस्य प्रशंसार्थं पुनरनूद्यते । बृहतीसहस्रगतानामक्षराणां मध्येऽनुगतं यदेतदकाराख्यमक्षरं तदेतज्जीवरूपम् । सति ह्यकारे तद्युक्ततया ककारादीनि सर्वाण्यपि विस्पष्टमुच्चारयितुं शक्यन्ते । तथा गवामयनगतानां सर्वेषामह्नां मध्ये महाव्रताख्यमहर्जीवरूपम् । अयनसंपूर्तिहेतुत्वात् । एवं सत्यकाररूपेणैव जीवाक्षरेणैव महाव्रतारूयं जीवाहः प्राप्नोति । महाव्रताङ्गभूतबृहतीसहस्ररूपप्राणस्याकाररूपत्वेनोपासितत्वात् । तेन च जीवाह्ना महाव्रताहर्गताबृहतीसहस्ररूपप्राणोपासनेन जीवाक्षरं सर्वप्राणिजीवनहेतुभूतमविनश्वरं प्राणेतत्त्वं प्राप्नोति । इतिशब्दः फलवचनसमाप्त्यर्थः ।
यथोक्तफलसाधनं प्राणविज्ञानं रथरूपकल्पनया प्रशंसति—
अनकाममारोऽथ देवरथस्तस्य वाग्बुद्धिः श्रोत्रे पक्षसी
चक्षुषी युक्ते मनः संग्रहीता तदयं प्राणोऽधितिष्ठति, इति ।
अथ यथोक्तोपासनफलकथनानन्तरं तत्फलप्राप्तये कश्चिद्देवरथः संपाद्यते । देवस्य प्राणस्य हिरण्यगर्भस्य रथो देवरथः । स च कीदृशोऽनकामपारो हिरण्यगर्भपदादर्वाचीनानिन्र्द्रलोकचन्द्रलोकभूलोकादिगतान्कामान्मारयतीति काममारो न काममारोऽकाममारः कामसंपादक इत्यर्थः । तद्विपरीतोऽनकाममारः सर्वथा नाशयत्येव कामा-
१ घ. ङ. ॰गर्भं वक्तुं । २ घ. ङ. ॰र्वेमेवोक्तः । उ॰ । ३ घ. ङ. ॰पासकस्व्र॰ । ४ ग. ॰रभ्योऽह्नां ।
५ क. ख. ॰णेरुषत्वं प्रा॰ । ६ ग. क. ॰धतप्रा॰ । ७ ग, फलविज्ञानं । ८ ख. ग. संपद्यते ।
२०
१५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
नित्यर्थः । न खलु हिरण्यगर्भं प्राप्तः कश्चिदप्यर्वाचीनं लोकं कामयते । तस्य तादृशस्य देवरथस्यावयवाः संपाद्यन्ते । येयमुपासकस्य वाक्सैवै रथस्योद्धिः । ऊर्ध्वं धीयते स्थाप्यते युगमत्रेति रथस्य मुखभीषयोरग्रमुद्धिरित्युच्यते । पुरुषस्य श्रोत्रे रथस्य पक्षसी पार्श्वद्वयवर्तिनी चक्रे । पुरुषस्य चक्षुषी रथस्य युक्ते युगपार्श्वद्वये बद्धयोरश्वयोः स्वरूपे । पुरुषस्य यन्मनः सोऽयं रथस्य संग्रहीता सारथिः । तदेतद्रथस्वरूपं प्राणाख्यो देवोऽधितिष्ठति, उपर्द्यारोहति । एतादृशेन प्राणोपासनरूपेण रथेन हिरण्यगर्भं प्राप्नोतीत्यर्थः ।
अथ रथप्रशंसार्थं मन्त्रद्वयमुदाहरति—
तदुक्तमृषिणा, इति ।
मन्त्रद्वयेनेत्यर्थः । प्रथममन्त्रः संहितायामेवमाम्नातः—“आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ” [ ऋ० सं० म० १० सू० ३९ ऋ० १२ ] इति । अश्विना हेऽश्विनौ देवौ वां युवयोर्यं रथमृभवो देवरूपास्तक्षाणश्चकुर्निर्मितवन्तः । लोकेऽत्यन्तवेगवत्त्वेन प्रसिद्धं यन्मनस्तस्मान्मनसोऽपि जवीयसाऽतिशयेन वेगवता तेन रथेनाऽऽयातमस्मदनुग्रहार्थमागच्छतम् । यस्य रथस्य योगेऽश्वयोजने संपन्ने सति दिवो दुहिता द्युलोकदेवतायाः पुत्री काचिदुषा जायते । प्राच्यां दिशि सूर्यरथसंयोगे संपन्ने सत्युषःकालो भवतीति प्रसिद्धम् । सूर्यसहभावित्वमभिप्रेत्याश्विरथेऽपि तदुपचर्यते । उषःकालसंपत्तौ सत्यां विवस्वतः सूर्यस्य संबन्धिनो ये अहनी ते उभे सुदिने प्रजानां सुखचेष्टांस्थापनहेतू भवतः । तत्र रात्रेरेप्यहःशब्दार्थत्वमभिप्रेत्य द्विवचनमुक्तम् । उभयोरप्यहःशब्दार्थत्वं मन्त्रान्तरेऽपि दृश्यते—“अहश्च कृष्णमहरर्जुनं च” [ऋ० सं० म० ६ सू० ९ ऋ० १ इति । अन्धकारोपेता रात्रिः कृष्णमहः । अर्जुनं श्वेतं प्रकाशोपेतमहः प्रसिद्धमेव । द्वितीयमन्त्रः संहितायामेवमाम्नातः—“निमिषश्चिज्जवीयसा रथेनाऽऽयातमश्विना । अन्ति षद्भूतु वामवः ” इति । [ ऋ० सं० म० ८ सू० ७३ ऋ० २ ] अश्विना हेऽश्विनौ देवौ निमिषश्चिन्निमेष इव यथा निमेषो विलम्बं न करोति तथा जवीयसाऽत्यन्तवेगयुक्तेन रथेनाऽऽयातमागच्छतम् । वां युवयोरवो रक्षणमन्ति अस्माकमन्तिके सत्सर्वदा वर्तमानं भूतु भवतु ।
१ घ. ङ. ᵒतः कोऽप्यᵒ । २ ग. संपद्यन्ते । ३ घ. ङ. ᵒव देवरᵒ । ४ क. युगं यत्रेᵒ । ५ ख. ग. ᵒश्वैबᵒ । ६ घ. ङ. ᵒद्वयोरᵒ । ७ घ. ङ. पुत्रिका । ८ घ. ङ. ᵒयंसंᵒ । ९ ग. ᵒथस्य योᵒ । १० ग. ᵒष्टास्वपᵒ ।
अध्या० १ख०८(२०)] ऐतरेयारण्यकम् । १६५
एतयोर्मन्त्रयोः प्रदर्शनार्थं प्रथमपादावुदाहरति—
आ तेन यातं मनसो जवीयसा निमि-
षश्चिज्जवीयसेति जवीयसेति, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्यायेऽ-
ष्टमः खण्डः ॥ ८ ॥ (२०)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
तृतीयोऽध्यायः ॥ ३ ॥
इतिशब्दोऽयं मन्त्रद्वयप्रतीकोदाहरणार्थः । द्विरभ्यासोऽध्यायसमाप्त्यर्थः । “उक्थ-मुक्थम्” [ऐ० आ० २ अ० १ ख० २] इत्यारभ्य “जवीयसा” इत्यन्तेन ग्रन्थेन प्रतिपाद्यमेकमेव प्राणोपासनम्, मूर्तिभेदप्रतिपादकयोः पृथगुपक्रमोपसंहारयोरभावाद्यानि तत्र तत्र पृथक्फलश्रवणानि तानि सर्वाणि गुणफलानि द्रष्टव्यानि । यत्र त्वेकमेव फलं पुनः श्रूयते तत्र गुणान्तरे रुच्युत्पादनाय फलानुवादो द्रष्टव्यः । ननु च्छान्दोग्यबृहदारण्यकादिष्वपि प्राणविद्या समाम्नाता । अतस्तत्रत्या गुणा अत्रोपसंहर्तव्याः । शाखाभेदेऽपि पञ्चाग्निविद्यादौ विद्यैक्यस्य गुणोपसंहारस्य च मीमांसायां निर्णीतत्वात् । मैवम् । असाधारणगुणप्रत्यभिज्ञाराहित्येन विद्यैक्याभावे सति गुणोपसंहारासंभवात् । अत्र कर्माङ्गमुक्थं प्राणदृष्ट्योपासनीयम् । तत्र तु प्राण एवोपासनीय इति चोद्यभेदाद्विद्याभेदः । एतच्च च्छान्दोग्यबृहदारण्यकयोर्देवासुराख्यायिकायामुदाहृत्य भिन्नैवोद्गीथविद्येति निर्णीतं तद्दृष्टान्तेन विद्यानानात्वमवगम्यते । न च प्राणस्य देवस्यैकत्वेन विद्यैक्यं शङ्कनीयम् । तथा सति ब्रह्मण एकत्वेन सर्वेषां ब्रह्मोपासनानामेकत्वप्रसङ्गात् । तदेकत्वं च “नानाशब्दादिभेदात्” [ब्र० सू० अ० ३ पा० ३ सू० ५८] इत्याधिकरणे निराकृतम् । यद्यप्येतत्प्रतीकोपासनं तथाऽपि वाचनिकस्याहंग्रहस्य विद्यमानत्वादितरब्रह्मोपासनवत्साक्षात्कारपर्यन्तमुपासितव्यम् । ततो जातस्य साक्षात्कारस्य रक्षणार्थं मरणपर्यन्तमावर्तनीयम् । अन्यथा चित्तविक्षेपेण साक्षात्कारे नष्टे च सति देवो भूत्वा देवानप्येतीत्येतादृशं फलं नोपपद्यते । श्रूयते चात्र तादृशं फलम् “प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद” [ऐ० आ०
आ तेन यातं०-ऋ० सं० म० १० सू० ३९ ऋ० १२ । निमिषश्चिज्जवीयसा०-ऋ० सं० म० ८ सू० ७३ ऋ० २ ।
१ क. ‘नि तानि स’। २ घ. ङ. ‘लं श्रू’। ३ ख. ग. शाखभे’। ४ घ. ङ. विद्यैक्य’।
५ घ. ङ. विद्यैक्या’। ६ क. ख. ग. ‘ति चेदभे’। ७ क. ‘यादृष्टं’। ८ घ. ङ. ‘मन्त्र ग’।
१५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
२ अ० २ ख० ४] इति । यद्यप्यन्यत्र कर्माङ्गावबद्धमुपासनं कर्मकाल एवानुष्ठेयं तथाऽपि यावज्जीवमावर्तनीयत्वात्कर्मानुष्ठानरहितेऽपि काले मनसैव बृहतीसहस्ररूपमुक्थं संपाद्योपासनीयम् । अत एव कर्मपारतन्त्र्याभावादितरब्रह्मोपासनेष्विव नास्त्यासननियमः । दिग्देशकालनियमस्तु चित्तैकाग्र्यं प्रत्यनुपयुक्तत्वान्नास्तीति निर्णीतम् । एवमामरणमुपासीनस्येतरप्राणिवन्मार्गोपक्रमपर्यन्तमुत्क्रान्तिः समाना द्रष्टव्या । तत्राऽऽदौ वागादीन्द्रियाणां वृत्तिर्मनसि विलीयते । मनोवृत्तिश्च प्राणे लीयते । प्राणश्च जीववृत्त्यां लीनो भवति । जीवोऽपि प्राणसहितस्तेजःप्रधानेषु पञ्चभूतेषु लीयते । तथा भूतपञ्चकं परमात्मनि बीजावशेषं प्रलीयते । तावता पूर्वस्य जन्मनः समाप्तिः । अथ परमात्मनि सावशेषत्वेन लीनं तल्लिङ्गशरीरं हृदयपुण्डरीके पुनरुद्भूय मूर्धन्यया नाड्या निर्गत्य रात्रावहनि वा सूर्यरश्मिं प्राप्योत्तरायणेन दक्षिणायनेन वाऽर्चिरादिमार्गेणैव गच्छति । अर्चिरादयः सर्वेऽप्यातिवाहिका देवास्तैस्तत्र तत्र नीतः क्रमेण कार्यब्रह्मलोकं प्राप्य तत्र स्वसंकल्पादेव भोग्यजातं सृजति । स्थूलशरीरं तु स्वेच्छया सृष्ट्वा तेन च शरीरेण जागरणवद्भोगान्भुङ्क्ते । यद्वा स्थूलदेहसृष्टिमन्तरेण स्वप्नवन्मनसैव सर्वान्भोगान्भुङ्क्ते । यदा स्वेच्छया बहून्देहान्सृजति तदा तेषु सर्वेषु देहेषु पृथक्पृथगन्तःकरणापाधिकाञ्जीवान्सृष्ट्वा तद्रूपेण यथेच्छं विहरति । तदेवं जगत्सृष्टिव्यतिरिक्तं सर्वमैश्वर्यमस्य योगिनः परमेश्वरेण समानम् । ततस्तत्रोत्पन्नज्ञानः सन्ब्रह्मलोकावसाने तेन च ब्रह्मणा सह मुच्यते । तदेतत्सर्वं मीमांसायां तृतीयचतुर्थयोरध्याययोर्द्रष्टव्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके तृतीयाध्यायेऽष्टमः खण्डः ॥ ८ ॥ (२०)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकभाष्ये द्वितीयारण्यके तृतीयोऽध्यायः ॥ ३ ॥
अथ द्वितीयारण्यके चतुर्थोऽध्यायः ।
तत्र प्रथमः खण्डः । ( एकविंशः )
इत्थमध्यायत्रयेण प्राणविद्या प्रपञ्चिता । तावता ब्रह्मविद्यायां पुरुषस्य मुख्याधिकारः संपन्नः । कर्मकाण्डोक्तैः कर्मभिर्विविदिषाया उत्पन्नत्वादुपासनया चित्तैकाग्र्यस्य संपन्नत्वाच्च । तत्संपत्तौ शमादयो गुणा अर्थसिद्धाः । ते चाऽऽत्मविद्यायामन्त-
१ घ. ङ. ᵒर्माङ्गवद्धद्धं । २ क. ख. ᵒर्मफलमेवा° । ग. ᵒर्मफल । ३ ग. ᵒपासन° । घ. ङ. ᵒपासकस्ये° । ४ ख. ग. ᵒवृत्त्या ली° । ५ घ. ङ. तयद्भूत° । ६ घ. ङ. ᵒशेषं ली° । ७ ग. ᵒबत्वाच्च ली° । ८ घ. ङ. ᵒच्छतः । अ० । ९ घ. ङ. ᵒन शं° । १० ग. ᵒषु दे° । ११ ग. यथेष्टं । १२ घ. ङ. ᵒने ब्र° । १३ क. युज्यते । १४ घ. ङ. शमदमा° ।
अध्या० ४ ख० १(२१)] ऐतरेयारण्यकम् । १६७
रङ्गभूताः, "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति" [ बृह० ४ । ४ । २ ] इति श्रुतेः। अतो मुख्याधिकारिणमुपलभ्य श्रुतिरध्यायत्रयेण ब्रह्मतत्त्वं<sup>१</sup> विस्पष्टमुपदेष्टुमादौ<sup>२</sup> तत्त्वं संग्रहेण सूत्रयति—
आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्, इति ।
आत्मशब्दस्यार्थो<sup>४</sup> महर्षिभिरेवं स्मर्यते—
"यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति गीयते" । [ लिङ्गपु० अ० ७० श्लो० ९६ ] इति ।
द्विविधो ह्यात्मा व्यवहारविशिष्टः केवलश्चेति<sup>६</sup> । व्यवहारोऽपि त्रिविधः । जागरणं स्वप्नः सुषुप्तिश्चेति । तत्र सुषुप्तावयं जीवः स्वोपाधिविलये<sup>७</sup> सति परमानन्दरूपं ब्रह्म प्राप्नोति । तथा च कैवल्योपनिषदि श्रूयते—"सुषुप्तिकाले सकले विलीने तमोऽभि- भूतः सुखरूपमेति" [ कैव० १३ ] इति । तस्मादाप्नोतीत्यात्मेति स्मर्यमाणं प्रथमं निर्वचनं द्रष्टव्यम् । स्वप्नावस्थायामयं जीवो जागरेणस्थपदार्थवासनाः<sup>८</sup> सर्वा आदत्ते । तथा च वाजसनेयिनः पठन्ति<sup>९</sup>—"स यत्रैत्र<sup>१०</sup> प्रस्वपित्यस्य सर्ववतो मात्रामपादाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति"<sup>११</sup> [ बृह० ४ । ३ । ९ ] इति<sup>१२</sup> । अस्यायमर्थः—यदाऽयं जीवो वाक्चक्षुरादिदशविधबाह्यकरणोपरतिरूपं<sup>१३</sup> स्वाप- माप्नोति तदानीं सर्ववतो गिरिनदीं<sup>१४</sup>समुद्रमनुष्यपश्वादिसर्वपदार्थोपेतस्य लोकस्येन्द्रि- यैरवलोक्यमानस्यास्य जगतो मात्रां लेशरूपां वासनामुपादाय तत्तत्पदार्थेभ्योऽपच्छिद्य<sup>१५</sup> <sup>१६</sup> स्वयं स्वीकृत्य ततो जागरणाभिमानं स्वयमेव विनाश्य स्वैप्रं<sup>१७</sup> <sup>१८</sup> <sup>१९</sup> जगद्रूपं च स्वयमेव निर्माय जगदाकारेण परिणतेन स्वेन भासा स्वकीयेनान्तःकरणेन तथा स्वेन ज्योतिषा स्वरूपचैतन्येन कल्पितपदार्थावभासकेन युक्तः सन्प्रस्वपितीति । तस्माद्वासनानां स्वीकारादादत्त इत्यात्मेति द्वितीयं<sup>२०</sup> निर्वचनं द्रष्टव्यम् । जागरणावस्थायां चक्षुरादिबा- ह्येन्द्रियैर्बाह्यरूप्यादिविषयानत्ति भुङ्क्ते । तथा चाऽऽथर्वणिकैराम्नायते—"स्त्र्यन्नपाना- दिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति" [ कैव० १२ ] इति । ततो बाह्यविषय-
१ घ. ङ. ॰त्त्वं स्प॰। २ ग. ॰देष्टव्यमा॰। ३ क. ख. घ. ङ. सूचयति । ४ घ. ङ. ॰शब्दो म॰। ५ घ. ङ. कीर्तितः । ६ ग. ॰ति । विशिष्टश्च॰ । ७ ग. स्वोपाधि॰। ८ क. ॰स्थायां जी॰ । ९ ग ॰रस्थ॰ । १० घ. ङ. ॰यिन आममन्ति । ११ क. यत्र स्व॰ । घ. ङ. यत्रायं प्रस्वपितीत्य॰ । १२ घ. ङ. ॰ति । य॰ । १३ घ. ङ. ॰पं प्रस्वा॰ । १४ ग. ॰दीम॰ । १५ ग. ॰त्परिमाणपदा॰ । १६ क. ग. ॰र्थेभ्यो व्यवाच्छि॰ । १७ ग. ॰यं विहृत्य स्वी॰ । १८ ग. स्वप्रज॰ । १९ क. ॰प्रे जागर- णरूपं॰ । २० क. ॰तीयनि॰ ।
१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [२द्वितीयारण्यके-
भोगानत्तीत्यात्मेति तृतीयं १ निर्वचनं द्रष्टव्यम् । उपाधिविशिष्टस्यावस्थात्रयमुपजीव्य निर्वचनत्रयमुक्तम् । अथ केवलस्य निर्वचनमुच्यते । यद्यस्मात्कारणादस्याऽऽत्मनो भावः स्वभावविशेषः संततः परिच्छेदरहितः । तथा च “सत्यं ज्ञानमनन्तं ब्रह्म” [तै० आ० प्र० ८ अ० २] इत्यत्र श्रुत्यन्तरे देशपरिच्छेदकालपरिच्छेदराहित्यलक्षणमानन्त्यमभिहितम् । तस्मादतति सातत्येन सर्वत्र गच्छतीत्यात्मेति चतुर्थं ३ निर्वचनं द्रष्टव्यमिति । एवं सत्यत्राऽऽत्मतत्त्वनिर्देशस्य प्रस्तुतत्वादखण्डैकरसत्वेन संततत्वमात्मशब्दप्रवृत्तिनिमित्तम् । यदि धातुप्रत्ययजन्यमवयवार्थमुपेक्ष्य रूढिमाश्रित्य स्वरूपवाचित्वमुच्यते तदाऽप्यध्यस्तस्य निखिलस्य जगतोऽधिष्ठानत्वेन सर्वस्वरूपत्वमस्ति । न ह्यारोपितानां सर्पधारादण्डमालावलीवद्मूत्रितत्वादीनामधिष्ठानभूतां रज्जुमन्तरेण किंचिदन्यद्वास्तवं स्वरूपमस्ति । किं बहुना यद्ययमात्मशब्दो यौगिको यदि वा रूढः सर्वथाऽपि संततोऽखण्डैकरसः सर्वजगदधिष्ठानत्वेन तदीयवास्तवस्वरूपभूतः पदार्थ आत्मशब्देन विवक्षितः । वैशब्दोऽवधारणार्थः । इदमिदानीं ६ सर्वजनीनप्रत्यक्षादिप्रमाणैः सर्वैरपि प्रतीयमानं जगदग्रे सृष्टेः पूर्वमात्मैवाऽऽसीन्न तु कार्यभूतं नामरूपात्मकं जगदासीत् । नाप्यात्मगोचरौ शब्दप्रत्ययावास्ताम् । लोके मृत्कार्यभूतघटशरावाद्युत्पत्तेः पूर्वं मृदेवास्ति न तु घटादिकं तथाऽपि मृद्गोचरौ शब्दप्रत्ययौ विद्येते एव तद्वदत्रापि प्रसक्तौ सत्यां शब्दप्रत्ययावपि वैशब्देन व्याववर्त्येते । देहेन्द्रियादीनामभावेन जिह्वानिष्पाद्यस्य शब्दस्य मनोनिष्पाद्यस्य प्रत्ययस्य चाभावः सुतरामवपद्यते । नन्विद्मात्माऽऽसीदितिसामानाधिकरण्येन जगद्वैशिष्ट्यमात्मनः प्रतीयते । नीलमुत्पलमिति सामानाधिकरण्यश्रवणे सत्युत्पलद्रव्यस्य नीलत्वगुणवैशिष्ट्यस्य प्रतिभासात् । मैवम् । वैशिष्ट्ये सत्यग्रशब्दस्य वैयर्थ्यप्रसङ्गात् । इदानीं जगद्विशिष्ट आत्मा प्रतिभासत इत्यनुपपत्त्या स्थितिकालं परित्यज्य केवलमात्मानं वक्तुमग्रशब्देन सृष्टेः प्राचीनकाल उपादीयते । तदेवमनेन वाक्येनाखण्डैकरसमात्मतत्त्वं सूचितं ८ भवति । एकादिशब्दैरखण्डैकरसत्वमेव स्पष्टी ९ क्रियते । लोके वृक्षादिपदार्थेषु स्वगतः सजातीयो विजातीयश्चेति त्रिविधो भेदोऽस्ति । यथा शाखास्कन्धपत्रादीनां परस्परप्रतियोगिको वृक्षस्य स्वगतो भेदः । वृक्षान्तरप्रतियोगिकः सजातीयः । पाषाणप्रतियोगिको विजातीयः । तद्वदात्मनोऽपि प्रसक्तावेकशब्देन स्वगतभेदो व्याववर्त्यते । वृक्षवन्नानात्मको न भवति किंन्वेकात्मक इत्यर्थः । एवशब्देनाऽऽत्मान्तरव्यावृत्तिः । योऽयमेकः स एव न त्वन्यः कश्चित्तादृश इत्यर्थः । नान्यदित्यादिना विजातीयभेदो
१ ग. °तीयनि॑ । २ क. ख. ग. °र्थं द्रष्टव्यं निर्वचनमि॑ । ३ ख. °ल्यत्र त॑ । ४ घ. ङ. °मुच्येत त॑ । ५ क. न त्पारो॑ । ६ क. ख. घ. ङ. °नीं सार्व॑ । ७ घ. ङ. °त्ययौ पूर्वमास्ता॑ । ८ क. घ. ङ. सूचितं॑ । ९ घ. ङ. स्पष्टं॑ ।
अध्या० ४ ख० १(२१)] ऐतरेयारण्यकम् । १५९
निषिध्यते । अन्यत्प्रकृतादात्मनो विलक्षणं किंचन किंचिदपि वस्तु न मिषत् । धातू- नामनेकार्थत्वान्नासीदित्युक्तं भवति । न च जगदुत्पादनाय मायाख्यायाः शक्तेरङ्गी- कार्यत्वादन्यसद्भावः शङ्कनीयः । आत्मशक्तित्वेनावस्तुत्वेन च मायायाः पृथग्गणनान्- र्हत्वात् । न हि भृत्येभ्यो जीवितं प्रयच्छन्तः स्वामिनस्त्वैतद्धनं त्वदीयेशक्तेश्चैताव- दिति विभज्य गणयन्ति । नाप्यवस्तुभूतं चन्द्रप्रतिबिम्बादिकमभिलक्ष्य द्वौ चन्द्रमसौ वस्तुभूतावित्येवं बुद्धिमन्तो व्यवहरन्ति । तस्मादङ्गीकृतायामपि मायायामात्मनोऽखण्डै- करसात्मतायां न कोऽपि विघ्नोऽस्ति । ईदृशः स यदि तत्रापि जगदनुवर्तेत तदानीं व्यर्थोऽयमग्रशब्दप्रयासः स्यात् । सामानाधिकरण्यं तु बाधायामप्युपपद्यते । यस्त्वदी- यश्चोरः स स्थाणुरित्येवं बाधदर्शनात् । तद्वदत्रापि यज्जगत्त्वेनेदानीं प्रतिभासते तज्ज- गन्न भवति किं त्वात्मैवेत्येवं योजनीयम् । नन्विदानीमपि तत्त्वदृष्ट्या नेदं जगत्किंत्वा- त्मैव । बाढम् । तथाऽपि बुभुत्सोर्मूढस्य जगत्त्वप्रत्ययदाढ्र्यादमुमवविरोधभ्रमो मा भूदिति सृष्टेः प्राचीनकाल उपन्यस्यते । कालस्यापि सृष्ट्यन्तर्भावात्कालवाचकोऽग्रश- ब्दोऽनुपपन्न इति चेन्न । परप्रसिद्धद्यनुसरणार्थत्वात् । परप्रसिद्ध्या परो बोधनीय इति न्यायः । परैस्तु बुभुत्सोः पूर्वसृष्टिर्वर्तमानसृष्ट्यार्मध्ये प्रलयकालप्रसिद्धिरस्त्यतस्तदीय- भाषया बोधयितुमग्र इत्युच्यते । अनेनैव न्यायेनाऽऽत्माऽऽसीदिति शब्दद्वयं परप्रसि- द्ध्या योजनीयम् । अन्यथा पुनरुक्तिपरिहाराय शब्दद्वयस्यार्थभेदेऽङ्गीकृते सति सत्ता- विशिष्ट आत्मेत्येवं प्रतिभासादाखण्डार्थत्वं हीयेत । श्रुतेस्त्वात्मशब्दसच्छब्दौ पर्या- यत्वेनाभिमतौ । अत एव—" आत्मा वा इदमेक एवाग्र आसीत् " इत्यस्य स्थाने छन्दोगाः—" सदेव सौम्येदमग्र आसीत् " [छा० ६ । २ । १ ।] इति पठन्ति । सर्वथा सर्वभेदशून्य आत्माऽत्र विवक्षितो न तु हिरण्यगर्भादिर्लौकिक आत्मा ।
एतच्च तृतीयाध्यायस्य तृतीयपादे चिन्तितम्—
“आत्मा वा इदमित्यत्र विराट्स्यादथवेश्वरः ।
भूतसृष्टेनेश्वरः स्याद्गवायाद्यननाद्विराट् ॥
भूतोपसंहृतेरीशः स्यादद्वैतावधारणात् ।
अर्थवादो गवाद्युक्तिर्ब्रह्मात्मत्वं विवक्षितम् ॥
“ आत्मा वा इदमेक एवाग्र आसीत् ” इत्यत्र विराट्स्यादथवेश्वर इति संदेहे विराडेवाऽऽत्मशब्दवाच्यो नेश्वरः । कुतः । “ स ईक्षत लोकान्नुसृजै ” [ ऐ० आ० २ अ० ४ ख० १ ] इति पञ्चभूतसृष्टिमनुक्त्वा लोकमात्रसृष्टेरभिधानात् । ईश्वरप्र-
१ ग. ॰दकमा॰ । २ क. ख. ॰थगभिधाना॰ । ३ क. ख. बाध्यताया॰ । ४ ग. ॰र्भावसद्भावा॰ । ५ घ. ङ. ॰रस्परबु॰ । ६ ग. ॰स्य बु॰ । ७ ग. ॰तैश्चाऽऽत्म॰ । ८ क. ख. ग. ॰न्ति । सर्वभे॰ । ९ ख. ग. ॰राडे॰ ।
१६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
करणेषु तैत्तिरीयच्छन्दोगादिषु भूतसृष्ट्यभिधानदर्शनात् । “ताभ्यो गामानयत्” [ऐ० आ० २ अ० १ ख० १] इति चोक्तं गवाद्यानयनं शरीरिणो विराजो घटते न त्वशरीरस्य परमेश्वरस्येति प्राप्ते ब्रूमः— “एक एवाग्र आसीत्” इत्यद्वैतावधार- णादीश्वरोऽत्राऽऽत्मशब्दार्थः । तथा सति शाखान्तरोक्तेर्भूतसृष्टिरत्रोपसंहर्तुं शक्यते । यत्तु गवाद्यानयनं तदर्थवादरूपम्, तद्भेदस्य स्वातन्त्र्येण पुरुषार्थत्वाभावात् । अथ भूतार्थवादत्वं मन्येथास्तर्हि विराडादिद्वारा परमेश्वर एव गवाद्दिकमानयतु । श्रूयमाणस्य गवाॅनयनादिप्रपञ्चस्य सर्वस्यार्थवादत्वे श्रुतेर्विवक्षितोऽर्थः कोऽपि न सिध्येदिति चेन्न । जीवब्रह्मैक्यस्य विवक्षितत्वात् । “आत्मा वै” इत्युपक्रम्य “स एतमेव पुरुषं ब्रह्म ततममपश्यत्प्रज्ञानं ब्रह्म” [ऐ० आ० २ अ० ४ ख० ३] इत्युपसंहारात् । “तस्मादीश्वर एवाऽऽत्मशब्दवाच्यः” ।
इत्थं संग्रहेणाऽऽत्मतत्त्वं सूत्रितम्, तच्चाध्यारोपापवादाभ्यां प्रपञ्चयते । तत्र “स ईक्षत” इत्यारभ्य “अयमावसथः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेनाऽऽरोपं प्रपञ्चयितुकाम आदावारोपं संगृह्णाति—
स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजत, इति ।
आत्मा वा इदमित्यनेन सूत्रेण सूत्रितः स परमेश्वरः पृथिव्यादींल्लोकान्त्स्रक्ष्यामी- त्येवमीक्षत ईक्षणं विचारं कृतवान् । नुशब्दो वितर्के । इत्थं विचार्य स परमेश्वर इमाँल्लोकानसृजत । यद्यप्यत्राऽऽत्मैवेति केवलं तत्त्वं प्रकृतं तथाऽपि निर्विकारस्य जगद्भावापत्त्यसंभवाच्छाखान्तरोक्ता मायाशक्तिरप्यर्थादुक्तेति द्रष्टव्यम् । “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” [श्वेता० ४ । १०] इति हि श्रुत्यन्तरम् । “इन्द्रो मायाभिः पुरुरूप ईयते” [ऋ० सं० म० ६ सू० ४७ ऋ० १८] इति च । मायासहितस्योपादानस्य विवर्तितत्वाद्विवर्तवाद एवात्राभ्युपेतव्यो न त्वारम्भपरिणाम- वादौ । यद्यपि “लोकान्नु सृजै” इत्येतावन्मात्रविचारेण कुलालवन्निमित्तकारणत्वमेव प्रतीयते तथाऽपि “सोऽकामयत बहु स्यां प्रजायेय” [तै० उ० २।६ । १] इति शाखान्तरगतस्य स्वकीयबहुभावविचारवाक्यस्य गुणोपसंहारन्यायेनात्रोपसंहारादुपा- दानत्वमपि सिध्यति । एतच्च भगवता व्यासेन सूत्रितम्— “प्रकृतिश्च प्रतिज्ञादृष्टा- न्तानुपरोधात्” [ब्र० सू० अ० १ पा० ४ सू० २३] इति । योऽयं परमात्मा नासौ केवलं निमित्तमेव किं तु प्रकृतिरुपादानमपि । कुतः । “येनाश्रुतं श्रुतं भवति” [छान्दो० ६ । १ । ३] इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया
१ ग. घ. ङ. चोक्तम् । २ ग. ˚त्तमूलस्त् । ३ क. ख. ˚दस्त्वरू । ४ घ. ˚वादि । ५ ग. घ. ङ. ˚र आत्म । ६ घ. ङ. सूचितं । ७ ग. ˚क्षणं । ८ घ. ङ. ˚गदुद्भा । ९ क. ˚वादवान्त । १० क. ˚रोक्तमा । ११ ख. ग. ˚ववाक्यविचारस्य । १२ ग. ˚नुपरो ।
अध्या०४ ख०१ (२१)] ऐतरेयारण्यकम् । १६१
उपादानरूपदृष्टान्तस्य चानुपारात् । तदेतत्सूत्रोक्तं स्वपक्षसाधनपरपक्षदूषणमुखेन स्मृतिपादेन तर्कपादेन च प्रपञ्चितम् । स्त्रष्टव्यानां लोकानां भौतिकत्वेन भूतव्यतिरेके- णासंभवाद्भूतसृष्टिरप्यत्रोपसंहरणीया । सा चान्यत्रैवमाम्नायते—" तस्मा द्वा एतस्मा- दात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी " [ तै० आ० प्र० ८ अ० २ ] इति । एतदीयविचारश्च द्वितीयाध्याये तृतीयपादस्य पूर्वभागे प्रतिपादितः । परमेश्वरस्य सत्यसंकल्पत्वाद्वतसृष्टौ लोकसृष्टौ वा संकल्पव्यति- रिक्तं साधनान्तरं नापेक्षितम् । अत एवान्यत्र श्रूयते—" सत्यकामः सत्यसंकल्पः " [ छान्दो० ८ । १ । ५ ] इति । " स तपस्तप्त्वा । इदं सर्वमसृजत " [ तै० उ० २ । ६ । १ ] इत्यन्यत्र श्रवणात्तपोरूपसाधनमपेक्षितमिति चेन्मैवम् । न ह्यत्र कृच्छ्रचान्द्रायणादिकं तपः, किं तु सृष्टव्यसंकल्प एव " यस्य ज्ञानमयं तपः " [ मुण्ड० १ । १ । ९ ] इति श्रुत्यन्तरात् । संकल्पस्य निरङ्कुशत्वान्नास्तीश्वरस्य भूयान्प्रयासः । तस्य च संकल्पस्य सत्यत्वाज्जगतो न मनोराज्यतुल्यत्वम् ।
ये लोकाः परमेश्वरेण सृष्टास्तान्स्वस्वनाम्ना निर्दिशयति—
अम्भो मरीचीर्मरमापः, इति ।
एतेषां शब्दानां लोकवाचित्वप्रसिद्धेरभावात्स्वयमेव श्रुतिर्व्याचष्टे —
अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरी- चयः पृथिवी मरो या अधस्तात्ता आपः, इति ।
दिवं परेण द्युलोकस्योपरि महर्लोकजनोलोकतपोलोकसत्यलोका ये सन्ति या च द्यौः प्रतिष्ठा सर्वेषां देवानामाश्रयभूतो द्युलोकोऽदोऽम्भ एतत्सर्वमम्भःशब्दवाच्यम् । लोकेषु पञ्चभूतानां साधारणत्वेऽपि जलस्यास्मदुपलब्धियोग्यत्वेन प्राधान्यमभिप्रेत्या- दोऽम्भ इत्युक्तम् । उपरितनलोकाद्वृष्टिद्वारेणाऽऽगतमम्भ एवास्माभिः साक्षादुपल- भ्यते, न तु भूतान्तरम् । सूर्यमरीचीनामाधारत्वादन्तरिक्षलोको मरीचय इति शब्देनोच्यते । भूलोकवर्तिनां प्राणिनां सहसा म्रियमाणत्वान्मरशब्देन पृथिव्युप- लक्ष्यते । पृथिव्या अधस्तात्पातालविशेषरूपा भोगभूमयो याः सन्ति ताः सर्वास्त- ल्लोकवासिभिर्नागादिभिर्घाप्यमानत्वादाप इत्युच्यन्ते ।
लोकसृष्टिमुक्त्वा पालकाभावेन लोकानां विनाशो मा भूदिति लोकपालसृष्टिं दर्शयति—
स ईक्षतेमे लोका लोकपालान्नु सृजा इति
१ घ. ङ. ॰नुसरणात् । २ क. घ. ङ. ॰त्रैवाऽऽम्ना॰ । ३ क. ॰दपू॰ । ४ घ. ङ. निर्दिशति । ५ क. ग. घ. ॰जनलो॰ । ६ क. ख. ॰राप्याय्यमा॰ । घ. ङ. ॰राप्यायमा॰ । ७ क. ख. ॰ति पालक॰ । ८ ग. घ. ॰लकम्॰ । २१
१६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [२द्वितीयारण्यके-
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत्, इति ।
स परमेश्वरः पुनरप्येवं विचारितवान् । इमे खलु लोका निष्पन्नास्तेषां भोगस्था- नानामचेतनानां लोकानां रक्षणार्थं चेतनांल्लोकपालान्देवान्सर्वथा स्रक्ष्यामीति । स विचारयुक्त ईश्वरोऽद्भ्य एव जलोपलक्षितपञ्चभूतेभ्य एव पुरुषं पुरुषाकारं विराट्- पिण्डं समुद्धृत्यामूर्छयन्मूर्त्तं कठिनमकरोत् । यथा कुलालस्तडागे जलस्याधस्ता- दार्द्रां मृदानीय शोषयित्वा कठिनं पिण्डं करोति तद्वदेवायं विराट्पुरुषः समष्टिरूपो ब्रह्माण्डरूपस्य लोकस्य पालकः ।
अथ तदवान्तरलोकपालानां चेतनानामग्न्यादिदेवतानां सृष्टिं दर्शयति—
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्च- क्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मन- सश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( २१ )
तं विराट्पुरुषदेहमभ्यतपदभितस्तत्तच्छिद्रतद्गतेन्द्रियतदभिमानिदेवतासृष्ट्यर्थं स परमेश्वरः पर्यालोचितवान् । पर्यालोचनमेव तप इति पूर्वमुक्तम् । अभितः पर्यालोचि- तस्य विराट्पिण्डस्य मुखं छिद्रं निरभिद्यत मुखच्छिद्रं विदारितमभूत् । यथा पक्षिसर्पादीनां पक्कमण्डं भिन्नं भवति तद्वत् । तस्मान्मुखच्छिद्राद्वागिन्द्रियं निष्पन्नम् । तस्माच्चेन्द्रियादग्निर्देवता निष्पन्ना । एवमुत्तरपर्यायेष्वपि छिद्रेन्द्रियदेवता व्याख्येयाः । प्राणो घ्राणेन्द्रियम् । लोमशब्देन तदाधारभूतत्वङ्निष्ठं स्पर्शनेन्द्रियमुच्यते । हृदय- मष्टदलं कमलम् । अपानोऽधःसंचारी वायुः । रेतो गुह्येन्द्रियम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( २१ )
१ क. ख. ग. ॰पालकान्दे॰ । २ घ. ङ. ॰राजं विराट्॰ । ३ ग. ॰स्तटाके ज॰ । ४ ग. ॰हृदयं । ५ क. ख. ॰ग्निदेव॰ ।
अध्या ० ४ ख ० २ (१२)] ऐतरेयारण्यकम् । १६३
अथ द्वितीयः खण्डः । ( द्वाविंशः )
इन्द्रियाणामभिमानिदेवतानां च सृष्टिरुक्ता । अथ तासां देवतानां भोगयोग्याल्प¹- शरीरसृष्टिं विवक्षुस्तदुपोद्धातत्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति—
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे
प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत् , इति ।
या इन्द्रियतदभिमानिदेवतास्ता एताः सृष्टाः सत्योऽस्मिन्पूर्वोक्ते महत्यर्णवे समु-
द्रवदत्यन्तविस्तृते विराड्देहे प्रापतन्प्रकर्षेण पतिता अभवन् । तं सर्वेन्द्रियतद्देवताधि-
ष्ठानभूतं विराड्देहं क्षुत्पिपासाभ्यामन्ववार्जदनुगमितवान्संयोजितवानित्यर्थः ।
अथाल्पदेहसृष्टिमाह—
ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्न-
मदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्यः पुरु-
षमानयत्ता अब्रुवन्त्सुकृतं बतेति पुरुषो वाव सुकृतम् , इति ।
ता विराड्देहे पतिता इन्द्रियाभिमानिन्यो देवताः स्रष्टारं परमेश्वरं प्रत्येवमब्रुवन् । भोः परमेश्वरायं विराड्देहोऽस्माकं भोगक्षमो न भवति । अतिप्रौढं तं विराड्देहमा- पूर्य तत्र प्रतिष्ठां प्राप्तुं वयमसमर्थाः । अन्नं चैतद्देह²पर्याप्तं संपादयितुं वयमसमर्थाः । अतो यस्मिन्नल्पशरीरे प्रतिष्ठिताः सत्यो वयं तद्देहपर्याप्तमन्नमत्तुं शक्ता भवामस्ता- दृशमायतनं³ शरीरं नोऽस्मदर्थं प्रजानीहि, अवधार्य संपाद्येत्यर्थः । ततः परमेश्वर- स्ताभ्यो देवताभ्यो भोगाय गोदेहमानयत् । ताश्च देवता⁴ अब्रुवन्नोऽस्माकमयं देहो नैवालमुपरितनानां दन्तानामभावेन दूर्वादिमूलस्योत्खातुमशक्यत्वात् । अतोऽयमपि गोदेहस्तिष्ठतु⁵, इतोऽन्यमप्युभयतोदन्तं देहं सृजेत्येवमब्रुवन् । ततः परमेश्वरस्तदर्थ- मश्वमानयत् । ताश्च देवता विवेकज्ञानाभावाद्यमश्वदेहोऽपि न पर्याप्त इत्युक्तवत्यः । ततः परमेश्वरस्तदर्थं विवेकसंपन्नं पुरुषदेहमानयत् । ताश्च देवतास्तावता परितुष्टा आश्चर्यवाचकेन च बतशब्देन स्वकीयं परितोषं सूचयन्त्यः सुष्ठु कृतं परमेश्वरेणेत्य- ब्रुवन् । यस्मान्मनुष्यदेह एव विवेकज्ञानसंपन्नः । तथा च पूर्वमुदाहृतम्— “पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः” [ऐ० आ० २ अ० ३ ख० २] इति । तस्मान्मनुष्यदेह एव सुकृतमित्यनेन शब्देन परितोषद्योतकेन वक्तुं योग्यः ।
१ क. ‘गभोग्या’। २ ग. ‘देहे प’ । ३ क. ख. घ. ङ. ‘नं नोऽ’ । ४ क. ख. ‘वमब्रु’ । ५ ग. ‘तु, अतोऽ’ ।
१६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
ईश्वरसृष्टेषु भोगक्षमशरीरेषु देवतानां प्रवेशायेश्वरप्रेरणं दर्शयति— ता अब्रवीद्यथायतनं प्रविशतेति, इति । यस्मिन्नायतने छिद्रे यदिन्द्रियमुत्पन्नं या चाभिमानिनी देवतोत्पन्ना तदायतनमनतिक्रम्य हे देवताः प्रविशत । देवतानामित्थमनुज्ञातानां प्रवेशं दर्शयति— अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्, इति । योऽयमग्निर्वागिन्द्रियाभिमानी देवः सोऽयं वाग्भूत्वा वागिन्द्रिय एवान्तर्भूय मुखच्छिद्रं प्राविशत् । एवमुत्तरत्रापि योज्यम् । न खलु वागादिष्विन्द्रियेष्वग्न्यादिदेवताः प्रत्यक्षमुपलभ्यन्ते । नापि देवताभिरनभिप्रेरितानामिन्द्रियाणां स्वस्वविषयग्रहणसामर्थ्यमस्ति । एतच्च भगवता व्यासेन सूत्रितम्— "ज्योतिराद्यधिष्ठानं तु तदामननात्" [ब्र० सू० अ० २ पा० ४ सू० १४] इति ज्योतिरादिभिरग्न्यादिदैवतैरधिष्ठानं वागादीन्द्रियाणां प्रेरणमभ्युपगन्तव्यम् । कुतः । तदामननात्तस्य देवताप्रेरणस्य "अग्निर्वाग्भूत्वा" इत्यादिना श्रूयमाणत्वात् । यथाऽयं विचारो द्वितीयाध्यायस्य चतुर्थपादे सूत्रितः, एवमन्येऽपीन्द्रियविषया विचारास्तस्मिन्पादे द्रष्टव्याः ।
क्षुत्पिपासयोर्विराड्देहे नियतस्य स्थानविशेषस्य पूर्वमश्रवणात्कृत्स्नशरीरे प्रवेशं दर्शयति— तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २२ )
ये क्षुत्पिपासे परमेश्वरेण विराड्देहे संयोजिते ते उभे परमेश्वरं प्रति स्वार्थं स्थानविशेषमनुगृहाणेत्यब्रूताम् । ईश्वरस्तु स्थानविशेषमदृष्ट्वा वामुभे अप्येतास्वेवाग्न्या-
१ ग. ॰सृष्टिषु । २ क. ख. ग. देवानां । ३ ग. ॰रणां द॰। ४ ग. ॰लक्ष्यन्ते । ५ ग. ॰प्रेताना॰। ६ ग. स्ववि॰ । ७ क. दर्शितम् । ८ ग. ॰दिदेवैर॰ । ९ घ. ङ. चिन्तितः । १० घ. ङ. ॰षयवि॰ ।
अध्या० ४ ख० ३(२३) ] ऐतरेयारण्यकम् । १६५
दिदेवतास्वाभजामि, ततस्तास्वेव भागिन्यौ विषयविभागयुक्ते करोमीत्यब्रवीत् । यस्मादेवमीश्वरेणोक्तं तस्माल्लोके यस्यै कस्या अप्यग्न्यादिदेवतायै हविर्गृह्यते भोग्यं वस्तु समर्प्यतेऽस्यामग्न्यादिदेवतायामेते क्षुत्पिपासे भागयुक्ते एव भवतः । अग्निवाय्वा- दिदेवतानां शरीरेष्वप्याहारस्वीकारे क्षुत्पिपासयोरेव तृप्तिर्भवति । तथा मनुष्यशरी- रेऽपि चक्षुरादिदेवतायै हविःस्वीकारे क्षुत्पिपासे तृप्यतः । यदा पात्रे पतितं समीचीन- मन्नं भोक्तुकाम आदरेण पश्यति तदानीं भोग्यस्य प्रत्यासन्नेत्वात्परितोषेण मनसि तृष्णा शान्तेव भवति न तु यथापूर्वं बाधते । एवमत्यन्तप्रियान्नवार्ताश्रवणस्पर्शनादौ यथोचितं तृप्तिलेशो द्रष्टव्यः । तदेतत्सर्वं देवतासु क्षुत्पिपासयोर्भागोपेतत्वम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २२ )
अथ तृतीयः खण्डः । ( त्रयोविंशः )
यानि भोगाद्यधिष्ठानानि गवाश्वपुरुषादिशरीराणि यानि च भोगकरणानि वह्नयादि- देवताधिष्ठितानि वाक्चक्षुरादीनि गवादिदेहेषु प्रविष्टानि तानि सर्वाण्यभिधाय भोग्यसृ- ष्टिमभिविधत्ते—
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नेमेभ्यः सृजा इति सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्ति- रजायत या वै सा मूर्तिरजायतान्नं वै तत्, इति ।
स परमेश्वरः पुनरप्येवं विचारितवान् । ये पृथिव्यादिलोका ये च लोकपालाः सेन्द्रियशरीरदेवतारूपास्ते सर्वेऽपीमे सृष्टाः खल्वतः परमेश्वरस्तेषामन्नमन्तरेण जीव- नासम्भवादेतदर्थमन्नं स्रक्ष्यामि, इति विचार्यान्ननिष्पादनार्थं तत्कारणभूतानि जलप्रधा- नानि पञ्च भूतान्यभ्यतपत्सर्वतः पर्यालोचनमकरोत् । ईदृशाज्जलसहितात्क्षेत्राद्व्रीह्यादयो जायन्तामीदृशानि मूषकादिशरीराणि मार्जारादीनामन्नभूतानि जायन्तामित्येवं संकल्पं कृतवान् । ताभ्योऽद्भ्यो जलोपलक्षितभूतेभ्यो व्रीह्यावादिरूपा मूषकादिरूपा च मूर्ति- रजायत । तत्र व्रीह्यावादिमूर्तिर्मनुष्याणामन्नं तैरद्यमानत्वात् । तथा मूषकादिमूर्तिर्मा- र्जारादिभिरद्यमानत्वात्तेषामन्नम् ।
अन्नसृष्टिमुक्त्वाऽन्वयव्यतिरेकाभ्यां तत्स्वीकारसाधनं निश्चिनोति—
तदेनत्सृष्टं पराङ्त्यजिघांसत्तद्वाचाऽजिघृक्षत्तन्ना-
१ ग. 'ग्यप्र' । २ ग. 'न्नत्वपरि' । ३ ख. ग. शान्तैव । ४ घ. ङ. 'योर्भागो' । ५ ग. घ. 'तादिरू' ।
१६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
शक्नोद्वाचा ग्रहीतुं स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्न- मत्रप्स्यत्तत्प्राणेनाजिघृक्षत्तन्नाशक्नोत्प्राणेन ग्रहीतुं स यद्धै- नत्प्राणेनाग्रहैष्यदभिप्राय हैवान्नमत्रप्स्यत्तच्चक्षुषाऽजिघृक्ष- त्नान्नाशक्नोच्चक्षुषा ग्रहीतुं स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा- हैवान्नमत्रप्स्यत्तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्तत्त्वचाऽजिघृक्ष- त्नान्नाशक्नोत्त्वचा ग्रहीतुं स यद्धैनस्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवा- न्नमत्रप्स्यत्तन्मनसाऽजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुं स यद्धै- नन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत्तच्छिश्नेनाजिघृक्ष- त्नान्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्य- द्विसृज्य हैवान्नमत्रप्स्यत्तदपानेनाजिघृक्षत्तदावयत् , इति ।
यत्सृष्टमन्नं व्रीहियवादिकं मूषकादिकं च तत्र व्रीह्याद्यन्नस्य स्वकीयवधविषयविवे- काज्ञानाभावाद्धन्तुमसमर्थत्वाच्च नास्ति जनात्पलायनम् । यत्तु मूषकादिरूपं तदन्नं तदेत- न्मार्जार आदीनां भोक्तृणां स्ववधहेतुत्वं निश्चित्य तेभ्यः पराङ्मुखं सदत्यजिघांसदतिश- येन हन्तुं गन्तुमैच्छत्पलायितुं प्रारभतेत्यर्थः । पलायितुमुद्युक्तं तन्मूषकादिरूपमन्नं दृष्ट्वा भोक्तृवर्गो मार्जारादिर्वागिन्द्रियेण ग्रहीतुमैच्छत् । ततः सर्वप्रयत्नेन वागिन्द्रियं प्रयुञ्जानोऽपि तेन तदन्नं ग्रहीतुं नाशक्नोत् । इदानींतनोदाहरणेन सृष्टिकालीना तदशक्तिः स्पष्टी क्रियते—स भोक्तृवर्ग आदिसृष्टिकाले यद्येतन्मूषकादिरूपमन्नं वाचा गृह्णीयात्तदानीमपि भोक्ता तदन्नवाचकैः शब्दैरीदृशमित्युक्तिमात्रेण तृप्तो भवेत् । न हि वागिन्द्रियस्याभिधानव्यतिरेकेणाऽऽकर्षणसामर्थ्यं किंचिदस्ति । न चैव- मन्नवाचकशब्दोच्चारणमात्रेण तृप्तिर्दृश्यते, तस्मात्सृष्टिकालेऽपि वाचोऽन्नस्वीकारसामर्थ्यं नास्तीत्यनुमेयम् । प्राणेन घ्राणेन्द्रियेण, एतदारभ्य शिश्नान्तेषु षट्सु पर्यायेषु पूर्वव- द्व्याख्येयम् । अभिघ्राण्याऽऽघ्रायेत्यर्थः । अत्रापानशब्देनान्नस्य मुखबिलादन्तःप्रवे- शैरूपं निगरणं कुर्वन्नन्तर्मुखो यो वायुः सोऽभिधीयते । तेनापानेन तदन्नं ग्रहीतुमै- च्छत्तत्तस्तदन्नमावयज्जग्राहारिशतवान् ।
अन्वयव्यतिरेकाभ्यां वायोरेवान्नग्रहणसाधनत्वं निश्चित्य दार्ढ्यार्थं वायुं प्रशंसति-
सैषोऽन्नस्य ग्रहो यद्वायूरन्नायुर्वा एष यद्वायुः , इति ।
मुखबिलादन्तःसंचारी वायुरिति यदस्ति स एषोऽन्नस्य ग्रहो ग्राहकः । अय-
१ ग. °स्ति पला° । २ ग. °देव मार्जां° । ३ क. हन्तुमैच्छद्वन्तुं पला° । ४ ग. °दन्नशं । ५ ग. घ. °शनरू° ।
अध्या० ४ ख ३(२३)] ऐतरेयारण्यकम् । १६७
मर्थोऽस्मदनुभवसिद्ध इत्यर्थः । किंचायं वायुरन्नायुर्वे, अन्नद्वारेणाऽऽयुष्यहेतुरेव । अन्नरसेन हि प्राणो देहे बध्यते । अत एव वाजसनेयिनः शिशुब्राह्मणे प्राणवर्णनप्र- स्तावे—“अन्नं दाम” [ बृह० २ । २ । १ ] इति वाक्येनान्नस्य प्राणबन्धनरज्जु- त्वमामनन्ति । तथाऽन्नबन्धनशैथिल्ये सति जीवस्य देहपरित्यागं सदृष्टान्तमामनन्ति, तद्यथा—“ आम्रं वोदुम्बरं वा पिप्पलं बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽ- ङ्गेभ्यः संप्रमुच्यते ” [ बृह० ४ । ३ । ३६ ] इति । अन्नबन्धनप्रयुक्तस्य प्राणा- वस्थानस्याऽऽयुर्हेतुत्वं लोके प्रसिद्धं कौषीतकिनः समामनन्ति—“ यावद्ध्यस्मिञ्छ- रीरे प्राणो वसति तावदायुः ” [ कौषी० ३ । २ ] इति । तदेतत्सर्वमभिप्रेत्यान्नायुर्वा एष इत्युच्यते ।
भोगाधिष्ठानभोगसाधनभोग्यभोगानां सृष्टिमभिधाय भोगस्वामिनं दर्शयितुमीश्वरस्य विचारमाह—
स ईक्षत कथं न्विदं महते स्यादिति, इति ।
यदिदं देहेन्द्रियतदभिमानिदेवैस्तदीयात्तत्स्वीकाररूपं व्यवहारजातमस्ति तदिदं सर्वं महते भोगस्वामिनं जीवरूपं मां विना कथं नु नाम स्यान्न कथं चिदुपपद्यते । न हि नगरस्वामिनं राजानं विहाय पुरस्य वा पौरजनानां वा रचना शोभते । तस्मा- द्भोगस्वामिना मया जीवरूपधारिणा देहे प्रवेष्टव्यमित्यर्थः ।
प्रवेशद्वारविचारं दर्शयति—
स ईक्षत कतरेण प्रपद्या इति, इति ।
द्वावत्र प्रवेशमार्गौ पादाग्रं मूर्ध्नि ब्रह्मरन्ध्रं च। तयोर्मध्ये कतरेण केन मार्गेण प्रपद्यै प्रविशानि ।
“ कथं नु ” इदमिति वाक्येन जीवप्रवेशस्य देहेन्द्रियव्यवहारपालनस्वरूपं प्रयोजनं विचारितम् । इदानीमात्मबोधरूपस्य प्रयोजनान्तरस्य विचारं दर्शयति—
स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभि- प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपा- नितं यदि शिश्नेन विसृष्टमथ कोऽहमिति, इति ।
मां स्वामिनमनपेक्ष्य वागादयोऽभिवदनादिव्यापारेषु स्वतन्त्राः कर्तारः स्युस्तदानी- महं को नाम स्यां न कोऽपि भवेयम् । अस्ति कश्चिदेष देहादिव्यतिरिक्तश्चिदात्मा ।
१ क. ग. 'दि दे° । २ घ. ङ. 'न्द्रियं त° । ३ क. °वत्तान्न° । ख. °वत्तादावन्न° । घ. ङ. °वतयाऽऽदावन्न° । ४ घ. ङ. पदाग्रं ।
१६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
स च परब्रह्मस्वभाव इत्येवं कश्चिदपि न जानीयात् । यदा त्वहमेव सर्वव्यापाराणां कर्ता वागादयस्तु मया प्रेरिताः सन्तोऽभिवदनादिक्रियाः कुर्युस्तदानीं वागादिकरणको व्यापारः सकर्तृको भवितुमर्हति क्रियात्वाल्लोकप्रसिद्धेर्गमनादिक्रियावदिति मम सद्भावोऽनुमातुं शक्यते । सोऽयमनुमानेनाऽऽत्मसद्भाव उषस्तब्राह्मणे समाम्नातः— “ यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ” [ बृह० ३ । ४ । १ ] इति । तस्मादात्मबोधोऽपि जीवरूपप्रवेशस्य प्रयोजनम् । तदेतदभिप्रेत्यान्यत्र श्रूयते— “ रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ” [ ऋ० सं० म० ६ सू० ४७ ऋ० १८ ] इति । [ एवं ] प्रवेशद्वारं देहेन्द्रियादिपालनस्वात्मावबोधरूपे प्रवे- शप्रयोजने च विचारितवान् ।
अथ प्रवेशं दर्शयति—
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत, इति ।
पूर्वं “ तं प्रपदाभ्यां प्रापद्यत ” [ ऐ० आ० २ अ० १ ख० ४ ] इत्यत्र प्राण- रूपक्रियाशक्त्युपाधिकस्य पादाग्रे प्रवेशोऽभिहितः । इदानीं ज्ञानशक्त्युपाधिकस्य मूर्धमध्यस्थितच्छिद्रे प्रवेशोऽभिधीयते । यथोक्तविचारोपेतः स परमेश्वर एतमेव मूर्ध- मध्यभागमेव कपालसंधिरूपं सीमानं स्थानविशेषं विदार्य छिद्रं कृत्वा तच्छिद्ररू- पया द्वारा ज्ञानशक्तिसहितः सन्देहमध्ये प्राविशत् । यस्माज्ज्ञानोपाधिकस्य मूर्धमध्ये प्रवेशस्तस्मान्मूर्धनि ज्ञानेन्द्रियबाहुल्यमुपलभ्यते । क्रियाशक्त्युपाधिकस्य पादाग्रे प्रवे- शात्कण्ठादधोभागे कर्मेन्द्रियबाहुल्यमुपलभ्यते ।
मूर्धगतं प्रवेशद्वारं प्रशंसति—
सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्, इति ।
अक्षिश्रोत्रादिगोलकानां भृत्यादिस्थानीयैश्चक्षुरादीन्द्रियैरधिष्ठितत्वात्स्वामिनः स्वस्य प्रवेशार्थमसाधारणं किंचिद्द्वारमपेक्षितमित्यभिप्रेत्य प्रीतिपूर्वकं विदारितत्वादिकमुत्कर्षं प्रकटयितुं तस्य द्वारस्य विदृतिरिति नाम संपन्नम् । तेन द्वारेण निर्गतस्य ब्रह्मलो- कप्राप्तिद्वारा मुच्यमानत्वादानन्दहेतुत्वेन तदेतद्द्वारं नान्दनमित्युच्यते ।
शरीरे प्रविष्टस्य संचारस्थानानि तेष्ववस्थाविशेषांश्च दर्शयति—
तस्य त्रय आवसथास्त्रयः स्वप्ना अयमा- वसथोऽयमावसथोऽयमावसथ इति, इति ।
१ क. ख. ॰सिद्धिग॰ । २ ग. ॰द्वासना । ३ क. ॰शोऽत्राभि॰। ४ क. ख. ग. ॰श्वरः स ए॰। ५ ग. ॰च्छिद्ररूपद्वा॰ ।
अध्या० ४ ख० २] ऐतरेयारण्यकम् । १६९
यथा महाराजस्य क्रीडार्थमुपय्यधोभावेन वर्तमानाः प्रासादस्य भूमयो निर्मीयन्त एवमस्याऽऽत्मनः शरीरमध्ये क्रीडार्थं त्रय आवसथास्त्रीणि स्थानानि निर्मितानि । त्रिषु स्थानेषु त्रयः स्वप्नास्तेनाऽऽत्मनाऽवलोक्यन्ते । अयमावसथ इत्यादिना नेत्रकण्ठहृदयाख्यानि स्थानानि हस्ताग्रेण प्रदर्श्यन्ते । तेषु हि जागरणाद्यवस्थानां निष्पत्तिः । तथा च ब्रह्मोपनिषद्याम्नायते— “नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समादिशेत् । सुषुप्तं हृदयस्थं तु” [ ब्रह्मो० ३ ] इति । जागरितादीनां महाराजस्य प्रासादश्रैये क्रीडावज्जीवक्रीडारूपत्वं कैवल्योपनिषद्याम्नायते—
“सयन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ।
स्वप्नेषु जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके ॥
सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ।
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम्”
[ कैव० १२ ] इति ।
ननु जागरणसुषुप्तयोः स्वप्नादन्यत्वे त्रयः स्वप्ना इत्युक्तमिति चेन्न । स्वप्नलक्षणोपेतत्वात् । विद्यमानं वस्तुतत्त्वं तिरोधाय समुत्पन्नोऽन्यथाप्रतिभासः स्वप्न इति तल्लक्षणम् । जागरणसुषुप्तयोरपि विद्यमानस्य ब्रह्मतत्त्वस्य तिरोधानेनान्यथाभूतस्य जीवतत्त्वस्य चावभास इत्यस्ति लक्षणम् । तस्माल्लोकप्रसिद्धस्य स्वप्नस्यैकत्वेऽपि लक्षणसिद्धाः स्वप्नास्त्रयः । त्रय आवसथा इत्यनेन पितृशरीरमातृशरीरस्वशरीररूपाणि वा त्रीणि स्थानानि लक्ष्यन्ते । तथाचोपरितनाध्याये प्रपञ्चयिष्यते । संसारो द्विविधः । दैनंदिनव्यवहारो जन्मान्तरस्वीकारश्चेति । तत्र दैनंदिनव्यवहारस्य नेत्रादीनि स्थानानि जन्मान्तरव्यवहारस्य पितृमातृस्वीयशरीराणि स्थानानीति विवेकः । इतिशब्दः संसाररूपस्याध्यारोपप्रकरणस्य समाप्त्यर्थः ।
अथापवादप्रकरणार्थं संक्षिप्य दर्शयति—
स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति
स एतमेव पुरुषं ब्रह्मततमपश्यत् , इति ।
स परमात्मा जातो देहप्रवेशेन जन्ममरणजागरणस्वप्नसुषुप्तिभिः संसारीभूतः सन्कदाचिदीश्वरानुग्रहाद्गुरुशास्त्रप्रसादेन च भूतान्याकाशादीनि प्राणिनश्चाभिव्यैख्य-
१ घ. ङ. 'भागेन । २ क. ख. 'मानप्रा' । ग. 'मानस्य प्रा' । ३ घ. ङ. 'नि हृ' । ४ क. ख. हृदिस्थं विद्यादिति । ५ घ. घ. 'श्रयक्री' । ६ क. जीवो जात' । ७ घ. ङ. विवक्ष्यन्ते । ८ क. ख. 'नि त्रीणि ज' । ९ क. 'री कृतः ।
२२
१७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
त्सर्वतो विवेकेन ज्ञातवान् । दृश्यमानान्यकाशादीनि भूतानि प्राणदेहाश्च कुत उत्प- द्यन्ते केन वा रक्ष्यन्ते कस्मिन्वा प्रलीयन्त इत्येवं शास्त्रं विविच्य सर्वस्य संसारस्य मायाकल्पितत्वाद्व्रह्मैव सर्वस्यापि वस्तुतत्त्वं तस्मादिह जगति किं वा वस्तु ब्रह्मणोऽन्यद्वा- वदिषद्वदिष्यामि न किंचिदपि ब्रह्मव्यतिरिक्ततया वक्तुं शक्नोमीति निश्चित्य स जीव एतमेव शरीरे प्रविष्टं पुरुषं चिद्रूपं साक्षिणं ब्रह्मापश्यत् । ब्रह्मत्वेन निश्चितवान् । कीदृशं ब्रह्म ततमम् । एकस्तकारो लुप्तः । अतिशयेन ततं विस्तृतं तततमम् । दृश्यस्य सर्वस्य जगतो द्रष्टुर्जीवस्य च ब्रह्मैव तत्त्वमित्यपवादप्रकरणस्य सर्वस्य तात्पर्यार्थः ।
यथोक्तं ब्रह्मसाक्षात्कारं नामनिर्वचनेन प्रशंसति—
इदमदर्शमिती ३ँ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परो- क्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २३ )
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः ॥ ४ ॥
शरीरे प्रविष्टः स जीवात्मा ब्रह्मात्मत्वं साक्षात्कृत्येदमदर्शमिति वाक्येन स्वकी- यमपरोक्षानुभवं प्रकटयन्परितुतोष । परितोषद्योतनार्था प्लुतिः । यस्मादिदमदर्शीत्यु- क्तवांस्तस्मादिदं दृष्टमित्यनयैव व्युत्पत्त्या सोऽयमिदन्द्र इति नाम प्राप्तवान् । तस्य नाम्नो निर्वचनानुसारेण योग्यत्वप्रसिद्धिं द्योतयितुमिदन्द्रो ह वै नामेत्युक्तम् । न च लोके परमेश्वरमिन्द्र इत्येवं व्यवहरन्ति न त्विदन्द्रमिति शङ्कनीयम् । परमार्थतो यथो- क्तरीत्येदन्द्रमेव सन्तं परोक्षत्वार्थमेकमक्षरं विलोप्येन्द्र इत्येव व्यवहृतत्वात् । नापि परोक्षत्ववैय्यर्थ्यं शङ्कनीयम् । यस्माद्देवाः पूज्याः सर्वे स्वकीयं नाम गूढं कृत्वोपाध्याया आचार्या इत्यादिके परोक्षनामन्येव प्रीतिं कुर्वन्ति । हिशब्देनास्मिन्नर्थे लोकप्रसिद्धि- र्दर्शिता । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २३ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणा- रण्यकभाष्ये द्वितीयारण्यके चतुर्थोऽध्यायः ॥ ४ ॥
१ क. ख. ग. 'नि प्रा' । २ ग. घ. 'ष्टं चि' । ३ ग. 'ह्यैकत' । ४ घ. ङ. 'ष्फनीत्ये' । ५ क. °न्द्रमित्येव ।
अथ द्वितीयारण्यके पञ्चमोऽध्यायः ।
तत्र प्रथमः खण्डः । (चतुर्विंशः)
“अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
शिष्याणां बोधसिद्धयर्थं कृतज्ञैः कल्पितः क्रमः ।”
इति पूर्वाचार्यैः कृत्स्नवेदान्तानां तात्पर्यं संगृहीतम्। तदैवात्र चतुर्थाध्याये विस्पष्टमुदीरितम् “आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्” [ऐ० आ० २ अ० ४ ख० १] इत्येतन्निष्प्रपञ्चब्रह्मैकत्वस्य प्रतिपादकं सूत्रम्। तस्य सूत्रस्यार्थमवबोधयितुं “स ईक्षत लोकान्नू सृजै” [ऐ० आ० २ अ० ४ ख० १] इत्यारभ्य “अयमावसथः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेन कृत्स्नप्रपञ्चस्याध्यारोपः प्रतिपादितः। ब्रह्माण्डस्य मध्ये य एते चतुर्दश लोका यैश्चैताँल्लोकानात्मशरीरत्वेनाभिमन्यमानो विराट्पुरुषो यानि च तद्देहच्छिद्रेषूत्पन्नानि वाक्चक्षुरादीन्द्रियाणि याश्च तैरिन्द्रियाभिमानिन्योऽग्निवाय्वादित्यादिदेवता यानि च तासां देवतानां भोगयोग्यानि गवाश्वमनुष्यादिशरीराणि यच्च तेषु शरीरेषु प्रविष्टानां देवतानामन्नं यश्च वायुनैव तदन्नस्वीकारो यदपि जीवरूपेण तेषु देहेषु प्रविश्य जागरणाद्यवस्थात्रयस्य शरीरान्तरसंचारस्य चानुभवनं सोऽयं सर्वोऽप्यद्वितीये परमात्मन्यध्यारोपितः प्रपञ्चः। स चाऽऽत्मबोधोपयोग्यः। एनेन हि जगदङ्कुरेण तन्मूलमात्मतत्त्वमस्तीत्यवगन्तुं शक्यम्। एतदेवाभिप्रेत्य च्छन्दोगा आमनन्ति—“अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः संप्रतिष्ठाः” [छान्दो० ६। ८। ४] इति। तदेवमध्यारोपेणाद्वितीयस्याऽऽत्मनस्तत्त्वस्यास्तित्वमात्रं सिद्धम्। तस्याध्यारोपस्यापवादेन तत्त्वस्येत्थं भावोऽवगन्तुं शक्यते। तस्मात्—“स जातो भूतानि” [ऐ० आ० २ अ० ४ ख० ३] इत्यारभ्य “परोक्षप्रिया इव हि देवाः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेनाध्यारोपस्यापवादः संगृहीतः। तत्राध्यारोपभागे “तस्य त्रय आवसथाः” [ऐ० आ० २ अ० ४ ख० ३] इति वाक्येन शरीरान्तरसंचारोऽपि संग्रहेण प्रतिपादितः। तदेतत्पितृशरीरं मातृश-
१ घ. ङ तच्चात्र। २ घ. ङ ˚ब्रह्मात्मत˚। ३ ख. ग. यश्च ता˚। ४ घ. ङ. च देहं । ५ घ. ङ. तदभि˚। ६ घ. ङ. ˚ण दे˚। ७ घ. ङ. ˚गराय˚। ८ घ. ङ. ˚स्य स्वश˚। ९ घ. ङ. ˚रस्थानु˚। १० क. ˚तीयप˚। ११ घ. ˚योगः। १२ क. घ. ङ. सौम्य। १३ घ. ङ. सौम्य । १४ घ. ङ. सौम्य। १५ घ. ङ. ˚लाः सौम्ये˚। १६ घ. ङ. ˚यमात्म˚। १७ घ. ङ. ˚तत्त्वमा˚। १८ घ. ङ. ˚वो वक्तुं श˚।
१७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
रीरं स्वशरीरमित्येतदावसथत्रयं पञ्चमेऽध्याये विवरिष्यते । तत्राऽऽदौ पितृशरीररूप- मावसथं दर्शयति—
*पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः, इति ।
योऽयं शरीरं जिघृक्षुर्जीवात्मा सोऽयं पुरुषे पितृशरीरे प्रथमतॊ गर्भो भवति । न चात्र स्त्रीगर्भवदुदरवृद्ध्या सोऽभिव्यज्यते, किंतु यदेतत्पितृशरीरे सप्तमधातुरूपं रेतोऽस्ति तदैव गर्भ इत्युच्यते । तस्मिन्नेतसि जनिष्यमाणस्य जीवस्य प्रविष्टत्वात् । स्वर्गाद्वा नरकाद्वा वृष्टिद्वारा भूमौ समागतो जीवो व्रीहियवाद्यन्नद्वारा पितृशरीरे प्रवि- शति । एतच्च पञ्चाग्निविद्यायां प्रपञ्चेनाऽऽख्यातम् । तस्मिंश्च पुरुषशरीरेऽन्नरसशो- णितमांसादिक्रमेण परिणते रेतस्यवस्थितो भवति सोऽयं पुरुषे गर्भ इत्युच्यते ।
तस्य गर्भस्य जन्मप्रकारं दर्शयति—
तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवाऽऽत्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनञ्जनयति तदस्य प्रथमं जन्म, इति ।
पुरुषे गर्भत्वेन व्यवस्थितं यद्रेतोऽस्ति तदेतत्तस्मिन्पुरुषशरीर आपादमस्तकं सर्वे- भ्योऽवयवेभ्यः सारभूतं सत्संभूतं निर्गतं भवति । तच्च सर्वावयवनिर्गतं रेतोभूतं सार- मात्मानं स्वस्यैव रूपान्तरभूतमात्मन्येव स्वशरीर एवासौ पुरुषो बिभर्ति पोषयति । तत्पोषितं रेतोऽग्निसंपर्केण घृतमिव कामाग्निना विलीनं सद्धृदये समागत्य व्यव- स्थितं भवति । तादृशं रेतो यदृतुकालीनेन गमनेने स्त्रिया योनौ गर्भाशये सिञ्चति, अथ तदानीमयं पुरुष एनञ्जीवान्तराविष्टं रेतोरूपं शरीरं जनयति । तदेतद्रेतोनिः- सरणरूपमस्य रेतस्यवस्थितस्य संसारिणो जीवस्य प्रथमं जन्मेत्युच्यते । “तस्य त्रय आवसथाः” इत्युक्तानां मध्ये प्रथमादावसथात्पितृशरीरूपात्संपन्नमिति कृत्वा प्रथमं जन्म भवति ।
ननु स्त्रीशरीरे प्रविष्टं परकीयं रेतः स्त्रिया उपद्रवकारि स्याच्छरीरलग्नबाणादिवदि- त्याशङ्क्याऽऽह—
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति, इति ।
* मूलपुस्तकेषु, घ. ङ. संज्ञितभाष्यपुस्तकस्थमूले चैतस्मात्प्राक्—“ अपक्रामन्तु गर्भिण्यः” इत्यादिको ग्रन्थो वर्तते ।
१ ख. ग. ॰रं स्वात्मश॰ । २ घ. ङ. ॰ष्ठमेऽध्या॰ । ३ क. ख. ग. रं विजि॰ । ४ घ. ङ. ॰देतद्गर्भं । ५ क. ख. ग. ॰रुणंग॰ । ६ ग. ॰तं सत्सं॰ । ७ घ. ङ. तन्न । ८ घ. ॰तोरूपं सा॰ । ९ घ. ङ. ॰न स्त्रीयो॰ ।