अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४.
र्माणां विधिनिषेधयोः । जडजीवयोर्हि जडजीवधर्मा भवन्ति । अन्यत्र तूपदिश्य-
माना उपासनार्था भवन्ति । ननूक्तो भेदाभावः । सत्यम् । तथापि कार्यकारणां-
शाभावकृतस्य भगवद्विहारार्थं जातस्य भेदस्य निषेद्धुमशक्यत्वात् । तस्मात्
ब्रह्मणि जडजीवधर्माणां निषेधो युक्तः । उपचारात्तु सर्वकर्मादयः ।
विपरीतं किं न स्यात्, अत आह । अरूपवदेव । रूप्यते निरूप्यते व्यव-
ह्रियत इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवत् विश्वम् । ब्रह्म तु
भाष्यप्रकाशः।
सन्देहः, उत ब्रह्मणि जडजीवधर्माणां विधिनिषेधयोर्विरोधनिर्धारात् । विरोधश्च किमुभयलिङ्ग-
श्रवणात्, उतोभयलिङ्गवतोर्भेदनिश्चयादिति । तत्र सन्देहे द्वितीयं हेतुं निरस्यति जडजीवयो-
रित्यादि । तथाच द्वितीयस्य हेतोरभावात् ततः सन्देहो न युक्त इत्यर्थः । सन्देहे द्वितीयं हेतुं
निरस्य स्वमतं साधयितुं विरोधद्वितीयहेतुमुज्जीवयति नन्वित्यादि । तथापीति । उक्तत्वेपि ।
तथाच तादृशस्यापि निषेधे 'बहु स्या'मित्यादेः 'स वै नैव रेम' इत्यादेश्च पीडया सृष्टिदशायां
भेदाभावस्यैवाशक्यवचनत्वात् द्वितीय एव हेतुरवश्यमभ्युपेय इति तादृग्वाक्यश्रवणादापातत एव
सन्देहः, उभयलिङ्गवतोर्भेदनिश्चयादेव च विरोध इत्यर्थः । तेन सिद्धं स्वसिद्धान्तमाह तस्मादित्यादि ।
एवमेकदेशिसिद्धान्तेन समाधानं सङ्क्षेपतो निरूप्य, तदेव विशेषतो वक्तुं सूत्रमवतारयन्ति
विपरीतमित्यादि । ब्रह्मण उपादानकारणत्वं पूर्वं सिद्धम् । अतः कारणधर्मा एव सर्वकर्मादयः
कार्ये प्रतीयन्ते, सुवर्णरूपादय इव कटकादिषु, अतस्ते युक्त्या श्रुत्या च तत्र सिद्धा इत्यनेकप्रमाण-
सिद्धत्वाद् विधिपक्षोपि युक्त इति स एव कुतो न स्यात्, विरोधपक्ष एव वा कुतो न स्यादित्याश-
रश्मिः।
सेत्यर्थः । अग्रेत्यस्य व्याख्यानमुभयेति । जीवब्रह्मलिङ्गवाक्यश्रवणे । आपाततो निर्धारं विना ।
जीवधर्मा ब्रह्मधर्मा वेति सन्देहः । एवं पूर्वाधिकरणसन्देहमुक्त्वा विरोधमाहुः सिद्धान्तरूपम् ।
विरोधश्चेति । उभयलिङ्गवतोर्ब्रह्मजीवयोः । 'न भेदा'दिति सूत्रे भेदस्य निश्चयादाशङ्कांशे । तथाच
भाष्यार्थ एवम् । विरोधो वा जडजीवधर्मसम्बन्धिनोः सर्वकर्मादिवाक्यस्थूलादिवाक्यगतविधिनिषे-
धयोः श्रवणादिति । निरस्यतीति । एकदेशी । तत इति । हेत्वभावात्सन्देहो न युक्तः । एतेन पूर्वाधि-
करणसन्देह आक्षिप्त इत्याक्षेपसङ्गतिरुक्ता । उज्जीवयतीति । शङ्कामुखेन प्रतिपादयति ।
उक्तत्वेपीति । 'प्रत्येकमदूषणा'दिति हेतुनोक्तत्वेपि । तादृशस्येति । क्रीडोपयोगिभेदस्येत्यर्थः ।
तेनैकदेशी जैमिनिः शिष्य इत्युक्तम् । पूर्वतन्त्रे भेदस्य द्वितीयाध्याय्यार्थत्वात् । तादृशस्येति । एवेति ।
भेदव्यवच्छेदकः । द्वितीय एवेति । उभयलिङ्गवतोर्भेदरूपः । एवकारः प्रथमहेतुव्यवच्छेदकः ।
आपातत एवेति । एवकारो ब्रह्मणि जडजीवधर्माणां विरोधनिर्धाररूपद्वितीयहेतुव्यवच्छेदकः । एवेति ।
उभयलिङ्गश्रवणरूपहेतुव्यवच्छेदकः । विरोध इति । सिद्धान्तः । तस्मादित्यादीति । भाष्ये ।
निषेध इति । अस्थूलादिश्रुतिषु निषेधः । उपचारादंशांशिभावसम्बन्धरूपात्तु सर्वकर्मसर्वकामादयो
ब्रह्मणि जीवधर्मा इत्यर्थः । प्रकृते । तदेवेति । अन्ययोगव्यवच्छेदक एवकारः । पूर्वमिति । द्वितीयाध्याये
समन्वयाधिकरणोक्तं उपादानकारणत्वं मतान्तरनिरासेन सिद्धम् । एवेति । कार्यधर्मयोगव्यवच्छेदक
एवकारः । तत्रेति । ब्रह्मणि सिद्धाः । अतो नोपचार इति भावः । विरोधेति । पूर्वाधिकरणसि-
1650
[Header: भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५]
तद्विलक्षणम् । कार्यकारणांशांशिनोर्वैलक्षण्यस्य युक्तत्वात् । नन्ववैलक्षण्यमपि
युक्तम्, कारणत्वात्, अत आह । तत्प्रधानत्वात् । तस्य ब्रह्मणः प्रधानत्वा-
न्मुख्यत्वात् । यत्र हि यत् प्रतिपाद्यते, तत्र तस्य मुख्यत्वम् । ब्रह्मप्रतिपादने
ब्रह्मधर्माणांमेव मुख्यत्वम्, नान्यधर्मांणाम् । यथा प्रशासनस्य मुख्यत्वम्, तथा
'सर्वकर्मे'ति लौकिककर्मानुवादेन भगवत्सम्बन्धे स्पष्टमेवामुख्यत्वम् । विशि-
[Section: भाष्यप्रकाशः ।]
ज्ञायामेकदेशिमतेन समाधिं वक्तुं ब्रह्मणः प्रपञ्चवैलक्षण्यं तत्समवायित्वादिकं चाहेत्यर्थः ।
तेन सर्वकर्मत्वादयो धर्माः पाणिपादादयश्च ब्रह्मणि सन्ति न वेति सन्देहः । उभयविधवाक्य-
श्रवणं सन्देहबीजम् । सन्तीति पूर्वः पक्षः । न सन्तीति तन्मते समाधानमिति बोधितम् ।
समाधानव्युत्पादनाय सूत्रं व्याकुर्वन्ति रूप्यत इत्यादि । हेतुं व्युत्पादयन्ति यथेत्यादि । तथेति ।
वैधर्म्ये दृष्टान्तः । भगवत्सम्बन्ध इति । विधीयमान इति शेषः । तथाच तत्र 'होतद्वै तदक्षर'-
मिति ब्रह्मैवोपक्रम्य प्रशासनसोक्तत्वात् तस्य मुख्यत्वम्, अत्र तु 'मनोमयः प्राणशरीर' इति
शरीरविशिष्टमुपक्रम्य पठितत्वात् तथेत्यर्थः । नन्वत्र नै केवलोनुवादः, किन्तु लौकिकधर्मतुल्य-
[Section: रश्मिः ।]
द्धान्तपक्षः । एवकार एकदेशिमतयोगव्यवच्छेदकः । उभयेति । सर्वकर्मास्थूलादिरूपविधिनिषेध(द्वि)-
विधवाक्यश्रवणम् । समाधीति । पूर्वपक्षस्तु सर्वकर्मत्वादयो धर्मा ब्रह्मणि सन्तीति सिद्धान्तेन
सेत्स्यति । भाष्ये । युक्तमिति । घटकपालद्वयोर्मृत्त्वेनावैलक्षण्यमपि युक्तम् । तस्येति । घट
इत्युक्ते घटस्य मुख्यत्वं यथा । ब्रह्मणोऽधोक्षजत्वाद्ब्रह्मत्यनुक्त्वा धर्मपर्यन्तानुधावनम् । ब्रह्मधर्मा
अस्थूलादयस्तेषाम् । अन्यधर्मा जीवधर्मत्वेन प्रतीताः सर्वकर्मादयस्तेषाम् । एवकारव्यवच्छेद्यमाहुः-
नान्येति । एवकारेण न ब्रह्म व्यवच्छेद्यमधोक्षजत्वात् । प्रकृते । व्युत्पादयन्तीति । दृष्टान्तेन
स्पष्टयन्ति । यथेत्यादीति । प्रशासनस्येत्यादि । मधुब्राह्मणान्त उक्तस्य । 'तदेतद्ब्रह्मापूर्वमनपर-
मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतिः । यद्वा । प्रशासनं 'अथ ह
वाचक्नव्युवाचे'त्यारम्भकेऽक्षरब्राह्मणोक्तं प्रशासनं तस्येत्यर्थः । 'एतस्य वा अक्षरस्य प्रशासने गार्गि
द्यावापृथिवी विधृते तिष्ठत' इति श्रुतिः । भाष्ये । लौकिकेति । जीवधर्मत्वेन प्रतीतकर्मणामनुवादेन
सिद्धकथनेन । स्पष्टमेवेति । एवकार आरोपापवादसङ्गतेरपि । अमुख्यत्वमौपचारिकत्वम् । जीवधर्मत्वेन
प्रतीतधर्मविरोधपरिहारोत्र निरूप्यत इति सर्वत्वविशिष्टकर्मणामजीवधर्मत्वेन निरूपणविरोधामाशङ्क्य
समादधुः विशिष्टेति । सर्वत्वविशिष्टकर्मबोधनेपि । प्रसिद्धसिद्धकथकत्वात् । प्रसिद्धातिरिक्तकर्म-
कल्पनायाम् । प्रमाणेति । 'सर्वे ब्राह्मणा भोजयितव्या' इति दृष्टान्तसहितशब्दप्रमाणवद्विलक्षणप्र-
माणाभावात् । ननु सर्वकर्मणां सर्वकामानां प्रारब्धसञ्चितादिरूपत्वात्पशुपुत्रादिविषयत्वाच्च कथमविरोध
ईश्वरपरत्वेनेत्यत आरोपेणेत्याह यथाकथञ्चिदिति । उपासनायां बोध्यम् । एतेन पादायों जीवस्य
मुक्तियोग्यता सापि स्मारिता । एवकारो 'वाचं धेनुमुपासीते'त्यादौ तथा दर्शनात् । एवेति । ननु
सर्वकर्मत्वादीन् छान्दसाननूद्य । निषेधार्थं सर्वकर्मत्वादिवैशिष्ट्यबोधनमुचितम् । प्रक्षालनपङ्कन्यायेन
प्रतिपादनवैयर्थ्यापातात् । तथेति । वैधर्म्य इति । दृष्टान्ते मुख्यत्वपदम्, दार्ष्टान्तिकेऽमुख्यत्वपदमिति
साधर्म्ये दृष्टान्तवैषम्यमाशङ्क्योक्तम् । उक्तार्थसिद्धमाहुः तथाचेति । 'अथ ह वाचक्नव्युवाचे'त्यारम्भकेऽ-
[Footer: १. समाधि । २. नानुवाद इति मूले पाठः । 1651]
११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४.
दृष्टबोधनेऽपि सर्वशब्दस्य प्रसिद्धानुवादकत्वादतिरिक्तकल्पनायां गौरवात् प्रमाणा-
भावाच्च यथाकथञ्चित्तद्धर्मवत्त्वेन ज्ञानस्यैवोपयोगाल्लोकधर्मानैवानूद्य विशिष्टबो-
धनमुचितम् । अरूपमिति वक्तव्ये अरूपवदिति वचनम्, भिन्नधर्माणामेवैवं
निर्णयः, न तु प्रशासनवद्भगवद्धर्माणाम् । तस्मात् कार्यवत् तद्धर्माणामपि
कार्यत्वात् भगवत्त्वम्, न भगवद्धर्मत्वमिति सिद्धम् ॥ १४ ॥
भाष्यप्रकाशः।
धर्मवत्तया ब्रह्मणो बोध्यत इत्यवयुत्यानुवादाच्चैतेषामप्यमुख्यत्वम्, अत आहुः विशिष्टेत्यादि । मास्तु
सर्वकर्मादिशब्दानामनुवादकत्वम्, तथापि के सर्व इत्याकाङ्क्षायां ये लोकप्रसिद्धास्तानेव सर्वपदेना-
नूद्य, 'कुन्त्या हि सदृशौ पादौ दृष्ट्वा कर्णस्य धीमत' इतिवत् सर्वेषामिव कर्माणि यस्येति तत्तुल्या-
नामतिरिक्तानां विधानं समासेऽङ्गीकार्यम्, तथा सति गौरवात्, सर्वकर्मादिश्रुतेर्वादकवलितत्वाद्
तदतिरिक्तस्यैतद्धर्मविधायकप्रमाणस्याभावाच्चातिरिक्तकल्पनामकृत्या यथाकथञ्चित् तद्धर्मवत्त्वेन
ज्ञानस्यैवोपासनायामुपयोगाल्लोकधर्मानैवानूद्योपचारेण शरीरधर्मविशिष्टबोधनं युक्तमित्यर्थः। ननु
यदि सर्वकर्माद्यभावेन सर्वव्यवहारातीततया जगद्वैलक्षण्यं सूत्रकृतोऽभिप्रेतं स्यात्, तदा अरूपमि-
त्येव वदेत्, नत्वरूपवदिति, वदति त्वेवम्, अतोऽतिरिक्तधर्मकल्पनैव युक्तेत्यत आहुः अरूप-
मित्यादि । एवं निर्णय इति । औपचारिकत्वनिर्णयः । तथाच लोकवैलक्षण्येन लौकिक-
व्यवहारातीतत्वमेवाभिप्रेतम्, न तु यावद्व्यवहारातीतत्वम्, अस्थूलादिवाक्य एव प्रशासन-
श्रावणेन तथा निश्चयादिति बोधनाय तथा कथनम्, अतो नानेनातिरिक्तधर्मकल्पनसिद्धिारि-
रश्मिः।
क्षत्रब्राह्मणे श्रुतिरियम् । मुख्यत्वमिति । ब्रह्मरूपत्वान्निन्दितस्यापि मुख्यत्वं प्रकाशाश्रयन्यायेन ।
अत्र त्विति । छान्दोग्यीयपञ्चमप्रपाठके तु । पठितत्वादिति । 'सर्वकर्मा सर्वकाम' इत्यादेः
पठितत्वात् । तथेति । अमुख्यत्वमौपचारिकत्वम् । अनुवाद इति । जीवधर्माणां सिद्धानां कथनम्।
अवयुत्येति । लौकिकधर्मान् तुल्यत्वेन रूपेणालौकिकधर्मेषु मिश्रीकृत्य । एतेषामिति । सर्वकर्मत्वा-
दीनाम् । अमुख्यत्वमिति । औपचारिकत्वम् । ननु शक्यस्य तौल्यसम्बन्धरूपा लक्षणा कुतो
नेति चेत् । न । तथा सति लौकिकधर्मपदप्रयोगः स्यात्, अलौकिकधर्मेषु, तीरे गङ्गापदप्रयोगवत् ।
अतो नौपचारिकत्वमिति । अनुवादकत्वमिति । जीवे सिद्धानां कथकत्वमीश्वरे । मास्त्विति ।
पूर्वोक्तावयुत्यानुवादकत्वमस्तु । यथाकथञ्चिदिति भाष्यं विवृण्वन्ति स्म यथाकथञ्चिदिति ।
उपचारेणेति । तेषामुपचारेणालौकिकान् हित्वा लौकिकानेवारोप्यापवादार्थं तैर्धर्मैः शरीरविशिष्टबोधन-
मित्यर्थः । अतिरिक्तेति । आरोप्यातिरिक्त नित्यधर्मकल्पना । एवकार आरोप्यधर्मयोगं व्यवच्छिनत्ति ।
अरूपमित्यादीति । रूपं सर्वव्यवहारविषयत्वम्, अरूपं सर्वलौकिकव्यवहारातीतत्वम् । इति वक्तव्ये
रूपवद्विश्ववैलक्षण्यायारूपवदितिवचनम्, भिन्नधर्माणां विश्वगतानामेव, नतु भगवद्गतानामिति वक्ष्यन्ति ।
एवं आरोप्यत्वेन निर्णयः । एवकारव्यवच्छेद्यमाहुः नत्विति । तद्धर्माणामिति । कार्यधर्माणाम् ।
नेति । नञा भेदोक्तेर्नेति । भेद एव विलक्षणशब्देनोच्यते, ब्रह्म तु तद्विलक्षणमिति भाष्ये । तदेतदाहुः
तथाचेति । पूर्वोक्तविश्ववैलक्षण्येन । एवेति । अरूपवदित्यत्र नञा भेदप्रत्ययानाद्विलक्षणं न
भेदातिरिक्तमिति भेदातिरिक्तविलक्षणयोगव्यवच्छेदकैवकारः । अन्यमप्येवकारव्यावर्त्यमाहुः नत्विति ।
एको वाच्यः, एकस्तात्पर्यविषयः । अत्र हेतुमाहुः अस्थूलादीति । तथेति । लौकिकव्यवहारातीतत्वम्,
नतु सर्वव्यवहारातीतत्वमिति निश्चयात् । तथेति । मतुबन्तरूपवत्पदकथनम् । अनेनेति । अरू-
१. धर्मवत्त्वेन । २. वैशिष्ट्यबोधनम् ।
1652
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
ननु सर्वव्यवहारातीते शास्त्रवैफल्यम्, 'मनसैवेदमाप्तव्य'मिति विरोधश्च न
परिहृतः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' 'यतो वाचो निवर्तन्त' इति चेत्यत
आह । प्रकाशवत् । यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च, न हि स्वतः
सम्पादयितुं शक्यते, स्थापयितुं वा, आगते तु सूर्ये मेघाद्यभावे च सान्निध्यमा-
त्रेण व्यवहारः कर्तुं शक्यते, तथा लौकिकवाङ्मनोभिर्न शक्यते व्यवहर्तुम्,
ईश्वरसन्निधाने तु शक्यत इति द्वयमाह श्रुतिः । कुत एतदवगम्यते । तत्राह ।
अवैयर्थ्यात् । अन्यथा शास्त्रं व्यर्थ स्यात् । चकाराद्धर्माणं तथात्वविरोधः परि-
हृतः । 'आसीनो दूरं व्रजति' 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणो-
भाष्यप्रकाशः।
त्यर्थः । तेन सिद्धमाह तस्मादित्यादि । कार्यवदिति । प्रपञ्चवत् । न भगवद्धर्मत्वमिति । न
नित्यभगवद्धर्मत्वम् ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५॥ सूत्रमवतारयन्ति नन्वित्यादि । सर्वकर्मत्वादीनामौपचारि-
कत्वात् प्रशासितृत्वादीनां चालौकिकत्वेन सम्यग्बुद्धावनारोहात् सर्वव्यवहारातीते ब्रह्मप्यङ्गीकारे
कृते ज्ञेयत्वेनापि व्यवहारस्यासम्भवाज्ज्ञानार्थस्य विचारशास्त्रस्य वैफल्यम् । 'मनसैवैतदाप्तव्य'मिति
विरोध इति । सर्वव्यवहारातीतस्य मनोविषयत्वाभावेन, तथा एतस्याः श्रुतेः 'अप्राप्य मनसा
सहे'त्यनेन च सह विरोधो न परिहृत इत्यर्थः । अस्मिन् सूत्रे प्रकाशवदिति न मतुप्, किन्तु
तृतीयान्ताद्वतिः । पूर्वसूत्रादेकदेशभूतमपि तत्पदमनुवर्तते । तत् ब्रह्म प्रकाशेन तुल्यम् । तत्र कथं
तुल्यमित्याकाङ्क्षायां सूत्रं व्याकुर्वन्ति यथेत्यादि । व्यवहार्यत्वाव्यवहार्यत्वे व्युत्पादयति-
नहीत्यादि । स्थापयितुमिति । आयातो यथा नापयाति तथा निरोद्धुम् । सन्निधाने तु
शक्यत इति । उपासनादिसाधनेनेश्वरसन्निधाने प्रतिबन्धकाभावाच्छक्यते । द्वयमिति । मनसा
वाचा चावाप्यमनाप्यं चेति द्वयम् । शास्त्रमिति । मनसैवैतत्, तापनीयरूपम्, ज्ञानफलबोधकं
'तमेवे'त्यादिरूपं चेत्यादिकं उभयबोधकं शास्त्रम् । प्रकाशतुल्यत्वसङ्ग्राहकचकारसूचितं धर्माणं
लौकिकत्वादिविरोधपरिहारं व्याकुर्वन्ति आसीन इत्यादि । अलौकिका इति । लोकविरुद्धाः ।
रश्मिः।
षवत्पदेन । अतिरिक्ताः धर्मा वैदिकाः तेषां कल्पनस्य सिद्धिरारोपार्थम् । नित्येति । साक्षात् ।
साक्षाद्धर्मा नित्यभगवद्धर्माः ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ बुद्धाविति । यथा बालस्य शृङ्गममितोयादिभ्यो
वारितस्य बुद्धौ वारणादेरनाहरूढत् । मनसेति भाष्यं विवृण्वन्ति स्म मनसैवेति । इति चेति
भाष्यीयचकारार्थमाहुः एतस्या इति । सन्निधाने तु शक्यत इति । ईश्वरसन्निधानं हृदि 'प्रविष्टः
कर्णरन्ध्रेणे'तिवाक्यात् । फलप्रकरणे प्रसिद्धम् । व्रजभक्तेषु ईश्वरसन्निधानं भगवद्वाक्यपूर्वपक्षीकरणसमये ।
प्रतिबन्धकेति । अलौकिके तु लौकिकत्वरूपप्रतिबन्धकाभावात् । तापनीयेति । 'तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' । एवंरूपं शास्त्रम् । अत्र मनश्चक्षुषोः करणत्ववि-
रोधः । तमेवेति । 'तमेव विदित्वातिमृत्युमेती'ति । किञ्चादिना 'यतो वाच' इत्यपि । अत आहुः
उभयेति । मनश्चक्षूरूपकरणबोधकम् । मनसा वाचा चावाप्यमनाप्यं चेति बोधकम् । धर्माणाम-
1653
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १६.
त्यकर्ण' इत्यादावलौकिका भगवद्धर्मा उच्यन्ते । अकारणककार्यवचनात् तद्ध-
र्माणां चाकार्यत्वं बोधयति । तस्मादव्यवहार्येऽपि न शास्त्रवैफल्यम् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
किञ्चिदाशङ्क परिहरति । नन्वलौकिकानीन्द्रियाणि विरोधाभावाय कथं न
कल्प्यन्ते, अन्यथा अकारणककार्यत्वम्, तस्य च नित्यत्वमलौकिकत्वम्, ततश्च
'पश्यत्यचक्षु'रिति विरोध इत्याशङ्क परिहरति । आह च श्रुतिः स्वयमेव
तन्मात्रं प्रज्ञानघनमात्रम् । 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन
एवं वा अरे अयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवे'ति स्वरूपातिरिक्ताना-
मिन्द्रियाणामभावात् । नच क्रियाभावोऽपि । वेदविरोधेन तथा कल्पयितुम
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार प्रतिलेखन (transcription) दिया गया है:
भाष्यप्रकाश-रश्मि-परिबृंहितम् । १११
ल्पना, किन्तु सर्वाकारस्वरूपं वस्त्वेव तादृशमिति मन्तव्यम् । कृत्स्नवचनात् ।
चकारात् 'सर्वेन्द्रियविवर्जित'मिति स्मृतिरपि । तस्मात्सेन्द्रियकल्पनया
अविरोधः ॥ १६ ॥
दर्शयति चाथोपि स्मर्यते ॥ १७ ॥
पुनः प्रकारान्तरेण विरोधमाशङ्क्य परिहरति । ननु ब्रह्म जगत्कारणमिति
सिद्धम्, तच्च समवायि निमित्तं चेति च, कारणधर्मा एव हि कार्ये भवन्ति, अस-
म्भावनायां त्वन्यथा कल्पनम्, कामादयो धर्माश्च श्रुतौ विहिताः, ते ब्रह्मण एव
भवितुं युक्ताः, निषेधिकार्पि श्रुतिः, न हि वेदवादिनामणुमात्रमप्यन्यथा कल्पन-
मुचितमित्याशङ्क्य परिहरति ।
भाष्यप्रकाशः ।
मेव प्राणो भवती'त्यादेः समुच्चायकः । विषयवाक्यसिद्धमर्थं निगमयन्ति अत इत्यादि । अकृ-
त्स्नत्वबुद्ध्युत्पादकप्रकारसत्त्व एव तन्निवारकस्य कृत्स्नपदस्य सार्थक्यसिद्धेस्तद्वचनात् तथेत्यर्थः ।
सिद्धमाहुः तस्मादित्यादि । क्रियाणाम् केवलज्ञानात्मकैन स्वरूपेणैव सिद्धत्वान्न तदनुरोधेनापि
तथेत्यर्थः ॥ १६ ॥
दर्शयति चाथोपि स्मर्यते ॥१७॥ पुनरित्यादिना सूत्रमवतार्य तद्विभजन्ति नन्वित्यादि
। असम्भावनायां त्वन्यथा कल्पनमिति । कार्यासाधारणधर्माणां कार्यत्ववत् कारणे
असम्भावनायां तु विवर्तवादस्य वा असतः सत्ताया वा आश्रयणेन श्रुतिविरुद्धं कल्पनम् ।
इत्याशङ्केति । एवं प्रकारेण विरोधमाशङ्क्य ।
रश्मिः ।
विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्य' इत्यनया श्रावणेन । पूर्वश्रुतौ श्वासो-
च्छ्वासः वेदशब्दजन्यजगतः स्थापनम् । 'कार्यवत्तद्धर्माणा'मित्युक्तभाष्ये कार्यप्रसङ्गे तद्धर्माणांमुक्तेर्जगत्स्था-
पनमुक्तम् । द्वितीयायां भूतसमुत्थानादिकं स्पष्टम् । छान्दोग्यीयात्मोपदेशानुसारेण सर्वभूतसमुत्थानम्,
नतु ताम्बूलपूगीफलादिजन्यमदशक्तिवदित्याहुः उक्तत्वादिति । तथाच निलीनप्राणादेराविर्भावः, नतु
तत्रासत्त्वाया मदशक्तेरित्यर्थः । 'नासतो विद्यते भाव' इति वाक्यात् । विषयेति । विषयवाक्यं 'स यथा
सैन्धवे'त्युक्तम् । तत्सिद्धमर्थम् । अत इति शब्देन पञ्चम्यन्तेन घटितं भाष्यमिति निगमयन्तीत्युक्तम् ।
तस्मात्पर्वतो वह्निमानितिवत् । सर्वाकारत्वसमर्थनायाहुः अकृत्स्नत्वेति । तादृशप्रकारः प्रज्ञानस्य गुण-
त्वप्रकारः । तद्वचनेति । कृत्स्नपदवचनात् । तथा प्रज्ञानघनत्वेन गुणगुणिसर्वाकारस्वरूपं वस्त्वेव,
न तु मिश्रम् । तादृशमित्यर्थः । क्रियाणामिति । 'प्राणन्नेवे'त्यादौ प्राणेन्द्रियानुकूलक्रियाणाम् । स्वरूपेण
स्वसत्ता रूपेण । एवकारोऽसतः सत्ताव्यवच्छेदकः । तदन्विति । अलौकिकेन्द्रियकल्पनानुरोधेनापि
तथा अविरोध इत्यर्थः ॥ १६ ॥
दर्शयति चाथोपि स्मर्यते ॥ १७॥ नन्वित्यादीति । विरोधमिति । कामाकामपोषकश्रुति-
विरोधम् । कार्येति । कार्यासाधारणधर्माः अनित्ये जननदाससाधनकर्तृत्वापहतपाप्मत्वानि तेषाम् । कार्य-
त्वेति । षष्ठ्यन्तादितिः । श्रुतीति । 'यतो वा इमानी'ति श्रुतिविरुद्धम् । भाष्ये । कामादय इति । शारी-
रकब्राह्मणे 'काममय एवायं पुरुषः यथाक्रतुर्भवति, तत्कर्म कुरुत' इति श्रुतौ तत्कर्म । 'तदभिसम्पद्यत' इति
श्रुतौ तत्कर्मसम्पन्नः । एवं विहिताः । अत्र भवतीति लेडन्तं पदमिति । एवेति । न तु जीवस्येत्यर्थः । युक्ता
इति । नैयायिका अपि कारणधर्माः कार्यधर्मानारभन्त इत्याहुः निषेधिकेति । 'अथा कामयमानो योऽकामो
निष्काम आत्मकाम आप्तकामो भवती'ति । ज्योतिर्ब्राह्मणेपि 'अथ सुप्तो यत्र न कंचन कामं कामयते न
1655
१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७.
दर्शयति श्रुतिरेव जडजीवधर्माणां भगवत्यभाव इति । 'द्वे वा व
ब्रह्मणो रूपे' इत्युपक्रम्य, द्वेधा पञ्चभूतान्युक्त्वा, 'अथात आदेशो नेति
नेती'त्याह । इतिशब्दः प्रकारवाची । ब्रह्म पञ्चमहाभूतानि भवति, न
त्वेवं प्रकारकम् । तत् साधयति । न । न भवत्येव ब्रह्म तादृशम् । हि युक्तोऽयमर्थः ।
'एतस्माज्जात'मिति । न हि कार्यकारणयोरेकः प्रकारो भवति । अतो 'नेती'ति
प्रकारनिषेधोपसंहारः, न तु समवायित्वमात्रत्वम्, किन्तु 'अन्यत् परमस्ति' इति
भाष्यप्रकाशः।
परिहारं वदन्तो दर्शयतिपदसूचितं विषयवाक्यमुपन्यस्य व्याकुर्वन्ति द्वे इत्यादि ।
इदं बृहदारण्यके मूर्तामूर्तब्राह्मणे । तत्र 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रम्य अधिदैवता-
ध्यात्मभेदेन द्व
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१
रूपं निरूप्य, नाम निरूपयति । 'सत्यस्य सत्य'मिति । तेन प्रपञ्चातिरिक्तब्रह्मणो
भाष्यप्रकाशः।
किन्त्वन्यत् परमस्तीति । तथाच द्वितीयेन नेतीत्यनेन एतावन्मात्रनिषेधोपसंहारः । तथाचात्र न
सर्वन्निषेधः, नापि रूपद्वयनिषेधः, नापि भूतवासनाराश्योर्निषेधः, न वा तत्स्थापनमात्रम्, निषेध-
पक्षेषु व्युत्पादनपूर्वकप्रतिपादनवैयर्थ्यापातात्, स्थापनमात्रपक्षे निषेधस्य प्रक्रमान्तरस्य च वैयर्थ्य-
प्रसङ्गात्, अतः प्रकारैतावत्त्वयोरेव निषेध इत्यर्थः ।
एतदेव निगमयितुमाहुः इतीत्यादि । इत्येवं अरूपत्ववारणाय रूपं निरूप्यानामत्ववार-
णाय नाम निरूपयति 'सत्यस्य सत्य'मिति । तत्र व्याख्येयवाक्य इव व्याख्यानवाक्येपि एवं
शङ्का स्यात् । हि निश्चयेन । न एतस्मात् किन्त्वाविद्यकमिति हेतोर्नेति इति, इदं ब्रह्म न भवती-
त्युच्यते, किन्त्वन्यत् परं ब्रह्मास्तीति । यद्वा । हि यस्माद्धेतोर्नेति नेतीति वीप्सया मूर्तामूर्ते तद्वा-
सनात्मिकामविद्यां तत्कार्यादि च सर्वं निषिध्य सर्वन्निषेधावधित्वेन तत्साक्षित्वेन च ब्रह्मैव
निर्दिष्टं इति, कृत्वा, नेति नेतीत्येतस्मात् परं उत्कृष्टं ब्रह्मणो निर्देशनं अन्यन्नास्तीति । अथवा ।
न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीति नेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्श-
यति, अन्यत् परमनिषिद्धं ब्रह्मास्तीति त्रिधापि अक्षरयोजना सम्भाव्यते । अतः को वा व्याख्यान-
वाक्यार्थ इति, तत्सन्देहं निराकर्तुं नाम निर्वक्ति । 'प्राणा वै सत्यं तेषामेष सत्य'मिति । प्राण-
न्तीति प्राणाः पूर्वोक्ता अपरब्रह्मरूपाः तत्कार्यत्वात् । सत्यम् । नाविद्यकाः ब्रह्मविवर्तभूताः । तत्र
रश्मिः।
वरणेनैव विवृण्वन्तोऽन्यमाहुः भिन्नेति । एतावत्तेति । पञ्चमहाभूतमात्रतानिषेधोपसंहारः । तथाच
इति नाम पञ्चमहाभूतप्रकारेण ब्रह्म नेति द्वितीयेनेतीत्यस्यार्थः, किन्त्वन्यत्तत्समवायि परमस्ति तत इति
भावः । नचेति । नन्द्वयेन मूर्तामूर्तस्थापनमात्रम् । व्युत्पादनेति । निषेधस्य व्युत्पादनेत्यादिः ।
व्युत्पादनं व्युत्पत्तिः । सा च नश्यतीति नञ् । नच भावे वा डभू डौ । प्रतिपादनं 'किं द्वौ नञा'-
वित्यादिनोक्तपक्षाणाम् । मूर्तामूर्ते नेति न, किन्तु इति उक्तप्रकारेण । नैयायिकानां प्रसिद्धमिति ।
निषेधवीप्सया निषेधादरात्सर्वं निषिद्धम् । नो चेदुपसंहारे न भवेत् । किंवा रूपद्वयनिषेधद्वयमिति
यथासंख्यमन्वयः । व्याकरणात् । पूर्वप्रतिषेधो भूतराशिं आध्यात्मिकं निषेधति । द्वितीयो वासनाराशिं
आधिदैवतम् । स्वयमेवेति । एवकारः स्मृत्यादियोगव्यवच्छेदकः । एवेति । प्रतिपादनादन्ययो-
गव्यवच्छेदकैवकारः । इत्येवमिति । इतिहैतावित्यनुक्त्वेत्येवमिति यदुक्तम्, तेन निगमनमेवं प्रकारेणेत्येवं
तृतीयान्तोक्तहेतुघटितमिति बोध्यम् । तत्रेति । रूपनिरूपणे । एतस्मादित्यस्मादित्यत्र भाष्यानुरोधात् ।
आबिद्यकमिति । मूर्तामूर्तरूपं इति हेतोः नेति । इमौ शब्दौ व्याकुर्वन्ति स्म इतीति । इत्येवं प्रकारं
इदं मूर्तामूर्तरूपं ब्रह्म न भवत्याविद्यकत्वात् इत्युच्यते । प्रथमं द्वयोः स्थापनमात्रं क्रियत इत्युक्त्वा
द्वितीय आहुः यद्वेति । तत्कार्यादीत्यादिनाकार्यकार्यग्रहणम् । सर्वन्निषेधेति । यथा नेदं
रजतमिति निषेधे निषेधावधित्वेन शुक्तिस्तद्वत् । ब्रह्मैवेति । एवकारेण मूर्तामूर्तयोगव्यवच्छेदः
क्रियते । नेतीत्येतस्मादत्यन्तेन ह्यस्मादिति नेतीलन्तं व्याख्यानं व्याकृतम् । परमित्यारभ्यान्य-
त्परमस्तीति व्याकृतम् । नहीति नञोत्रास्तिनान्वयः कृतः । उत रूपद्वयमिति तृतीयपक्ष आहुः
अथवेति । अत इति । व्याख्यानवाक्यस्यार्थः । पूर्वोक्ता इति । 'प्राणन्नेव प्राणो भवती'ति
श्रुत्युपन्यासेन पूर्वसूत्रकारोक्ताः । यद्वा 'अथामूर्तम् । प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतमेतद्य-
देतस्य'मिति मूर्तामूर्तब्राह्मणस्थाः प्राणाः । तत्कार्यत्वादिति । ब्रह्मकार्यत्वात् । सत्यमिति । प्राणाः
१६ ब्र० सू० २०
1657
१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७.
विद्यमानत्वात् प्रपञ्चधर्मवचनं तस्मिन्नौपचारिकमेव युक्तम् । श्रुत्यैव तथा प्रति-
पादनात् । चकारः पूर्वयुक्त्यनुसन्धानार्थः । अथो इति प्रक्रमभेदोपि । ‘अथात
आदेश' इति भिन्नप्रक्रमेणाह । श्रुतेरन्यार्थतानिरकरणायाह । अपि स्मर्यते ।
‘अनादि मत्परं ब्रह्म न सत् तन्नासदुच्यते' इति । सदसतोः क्षेत्रत्वात् । ज्ञेयनि-
रूपणे निषेधः । प्रपञ्चधर्मा भगवति उच्यन्ते वेदादौ, न तु तद्धर्मा भवन्तीति
ज्ञापयति । तस्माच्छ्रुतिस्मृतिभ्यामेव तथा निर्णयः ॥ १७ ॥
भाष्यप्रकाशः।
हेतुः । तेषां प्राणानां एष परमात्मैव सत्यं स्वरूपभूत इति । यद्वा । सद्द्रूपत्वात् त्यद्रूपत्वाच्च सत्यं
प्राणास्तेषामेष स्वरूपभूत इति । तथाच व्याख्यानवाक्यमपि न निषेधस्य प्रपञ्चे पर्यवसानं गम-
यति, न वा ब्रह्मणः सर्वविशेषशून्यत्वे, किन्तु ब्रह्मणः प्रपञ्चप्रकारकत्वे प्रपञ्चसमवायिमात्रत्वे
चेत्येतदर्थं रूपनामवत्त्वार्थं च नामनिर्वचनम् । तदेतदुक्तं इतीत्यादिना । तेन यत् सिद्धं तदाहुः
तेनेत्यादि । नामव्याख्यानपूर्वकं ब्रह्मणोतिरिक्तत्वस्थापनेन ब्रह्मणस्तथात्वात् तथेत्यर्थः । प्रक्रम-
भेदोपीति । प्रकारभेदेनब्रह्मातिरेकयोरुपोद्वलक इत्यर्थः । स्मृतौ ब्रह्मणः सदसत्त्वं निषिध्यते
इति कथं तेन विवक्षितव्यतिरिक्तार्थवारणमित्यतो व्याकुर्वन्ति सदसतोरित्यादि ॥ १७ ॥
रश्मिः।
सत्यमित्यन्वयः । सत्यं नाम नाविद्यकाः, किन्तु ब्रह्मविवर्तभूताः ब्रह्मणो विशेषेण वर्तनभूताः ।
ब्रह्मावैवर्तपुराणमपि भवति । परमात्मैवेति । तदन्याभावादेवकारोऽन्ययोगव्यवच्छेदकः । अन्यत्पर-
मस्तीत्यत्रान्यत्त्वमिति पुस्तकान्तरपाठात्तत्प्रतमर्थमाहुः यद्वेति । प्रपञ्च इति । मूर्त्तामूर्त्तरूपे । किंवा
वीप्सेत्युक्तद्वितीयपक्षे आहुः न वा ब्रह्मण इति । प्रपञ्चेति । पञ्चमहाभूतप्रकारकत्वे । प्रपञ्चेति ।
ब्रह्मणोऽभिन्ननिमित्तोपादानत्वादिति भावः । इतीतीति । इति रूपमित्यादिना । अतिरिक्तत्वेति ।
पञ्चमहाभूतातिरिक्तत्वस्थापनेन । तथेति । प्रपञ्चधर्मस्य पञ्चमहाभूतत्वस्य वचनं तस्मिन् ब्रह्मणि
औपचारिकत्वं लाक्षणिकत्वं स्वसमवायिकारणत्वं सम्बन्धः । एवकार आरोपापवादसङ्गतिसत्त्वात् । श्रुत्यै-
वेति अस्थूलादिश्रुत्यैव । तथेति । औपचारिकत्वम् । स्वमावतो निषेधायोगात् । प्रकारेति । प्रक्रमो
मूर्त्तामूर्त्तयोः । तस्य भेदं सौत्रोथोशब्द आहेति । निषेधो हि विधिरूपप्रकारस्य भेदेन निषेधरूपप्रकारेण
भवति । अतः पूर्वस्मात्प्रकारभेदः । अभावरूपनिषेधे ब्रह्मणोऽतिरेकोऽभावः । नहि खपुष्पे ब्रह्मास्ति ।
प्रतीत्यभावेन तस्यैवाभावात् । खपुष्पं तु ब्रह्मास्ति । ‘यदस्ति यन्नास्ति स एव विष्णु'रिति विष्णुपुरा-
णात् । तयोः सतोः । उपोद्वेति । नहि घटो नास्तीत्यादिस्थले प्रक्रमभेदेनाभावनिरूपणमस्ति सत्यपि
प्रक्रमभेदे । अथो इति शब्दप्रमाणेन तु सतोऽपोद्बलनात्पृथग्रूपनिरूपणमस्ति । ‘अथातो ब्रह्मजिज्ञासा'
‘अथातो धर्मजिज्ञासे'ति ब्रह्मधर्मयोः ब्रह्मकर्मणोर्वैक्यात् । 'कर्मके तत्र दर्शना'दिति जैमिनिसूत्रे धर्मस्थले
कर्मोक्तिः । भाष्ये । अथो इति विषयवाक्यघटकथशब्दपर्याय इत्याहुः अथात इति । यतोतः
सूत्रेपि भिन्नप्रक्रम इति भावः । मत्परमिति । अहं परो यस्येति मत्परम् । कथं तेनेत्यादि । सदसन्निषेधेन
कथं विवक्षितोर्थः अस्थूलादिरूपः तद्व्यतिरिक्तो जडजीवधर्मो औपचारिका ब्रह्मणीति तद्व्यतिरिक्तार्थः
वैदिकधर्मवद्ब्रह्म तस्य वारणमित्यर्थः । सदसतोरित्यादीति । निरूपण इति । गीतायाम् । निषेधः
ज्ञापयतीत्यन्वयः । किं ज्ञापयतीत्यत आहुः प्रपञ्चेति । उच्यन्त इति । उपचारेणोच्यन्ते, न तु
1658
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९३
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
प्रपञ्चधर्मा भगवत्युपचारादुच्यन्त इत्यत्र निदर्शनान्तरमाह । अतएव इममेव
निर्णयमाश्रित्य, 'समः पुषिणा समो नागेन समो मशकेन सम एभिस्त्रिभि-
र्लोकैः समोऽनेन सर्वेणे'ति निरुपमस्य भगवतो यदुपमानं तत् तद्धर्मसम्बन्धात् ।
न चात्र स्वतस्तादृशधर्मवत्त्वं ब्रह्मणो वक्तुं युक्तम् । नन्विदमपि विरुद्धमित्या-
शङ्क्य दृष्टान्तमाह । सूर्यकादिवत् । सूर्येण सहितं जलं सूर्यकम् । 'यथा ह्ययं
ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैकोऽनुगच्छन्', 'एकधा बहुधा चैव
दृश्यते जलचन्द्रव'दिति । यथेतरसंश्लिष्टस्योपमानत्वम्, एवं 'समः पुषिणे'त्यपि ।
भाष्यप्रकाशः।
अत एव चोपमा सूर्यकादिवत् ॥१८॥ सूत्रमवतारयन्ति प्रपञ्चेत्यादि । व्याकुर्वन्ति अत
एवेत्यादि । निरुपमस्येति । 'न तत्सम' इति श्रुत्या तथा प्रतिपादितस्य । तद्धर्मसम्बन्धा-
दित्यादि । यदि प्रपञ्चधर्मवत्त्वं ब्रह्मणः स्यात्, तदा 'पुषिर्नाग' इत्यादि प्रथमान्तमेव निर्दिशेत्,
समपदं च न निर्दिशेत्, अतस्तथा निर्देशाभावात् प्रपञ्चधर्मसम्बन्धादेव तद्धर्मवत्त्वम्, न स्वतस्तथा-
त्वमित्यर्थः । दृष्टान्तोक्तिप्रयोजनमाहुः नन्वित्यादि । इदं निदर्शनमपि समत्वासमत्वयोरुभयोरपि
भावितत्वेन विरुद्धम्, अथवा तद्धर्मसम्बन्धेन तद्धर्मवत्त्वे ब्रह्मणोऽङ्गीक्रियमाणे दृष्टसम्बन्धे दृष्टत्व-
मपि स्यात्, अतोपि विरुद्धम्, अतो निर्णायकत्वाभावमाशङ्क्य श्रौतं दृष्टान्तमाहेत्यर्थः । सिद्धमाहुः
यथेत्यादि । यथा किरणद्वारा जलादिसंश्लिष्टस्य सूर्यादेर्ब्रह्मोपमानत्वम्, 'यथा ह्ययं ज्योतिरात्मा
विवस्वानपो भिन्ना बहुधैकोनुगच्छन्, उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मे'-
त्यादिवाक्येषूच्यते, एवं 'समः पुषिणे'तिवाक्येपि प्लुष्यादिसंश्लिष्टस्य तदुपमेयत्वमप्युच्यत
रश्मिः ।
प्रपञ्चधर्मा भगवति भवन्तीति । एव तथेति । प्रसिद्धप्रमाणान्तरव्यवच्छेदकैवकारः । अस्थूलत्वादि-
प्रकारेणेति तथेत्यस्यार्थः ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ प्रपञ्चेत्यादि । निदर्शनेति । 'दर्शयति चे'ति
निदर्शनमुक्तम्, अन्यन्निदर्शनं 'समः पुषिणे'त्यादि, तदाह । निदर्शनं दृष्टान्तः यथा ब्रह्मास्थूलत्वादिश्रुतौ
तथात्रारूपवत् यथा सम इत्यादिश्रुतौ तथात्रारूपवत् । प्लुष्यादिविशेषविलक्षणम् । अतएवेत्या-
द्रीति । अतः ल्यब्लोपे पञ्चमी । इमं निर्णयमाश्रित्यैवेत्यन्वयः । उपमानमिति । एतेन भाष्येण
सूत्रे उपमाशब्द उपमीयतेऽनेनेत्युपमा । करणे घञन्त इत्युक्तम् । उपमेयधर्मलुप्तम् । उपमानं
पुष्यादि । समपदं वाचकं श्रुतावस्ति । उपमेयं लुप्तम्, धर्मो लुप्तः । 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गा-
मवगाहत' इत्यत्र चतुष्टयमस्ति । तद्धर्मेति । प्रपञ्चधर्मीणां उपचारेण सम्बन्धात् । स्वतश्चेति ।
यथा पञ्चमहाभूतत्वं पञ्चमहाभूते स्वातन्त्र्येण घट इत्युक्ते घटवत्त्ववदुच्यते । युक्तमिति । ब्रह्मत्वेन
ब्रह्मस्वतन्त्रधर्मेण तिरस्कारात् । ब्रह्म पञ्चमहाभूतानीत्येवं सदा पञ्चमहाभूतपदसन्निध्यभावात् । अतो न
युक्तमित्यर्थः । दृष्टान्तेति । सौत्रदृष्टान्तेत्यादिः । इदमिति । समत्वनिदर्शनम् । असमत्वं 'न तत्सम-
श्चाभ्यधिकश्च दृश्यत' इति श्रुत्युक्तम् । निर्णायकेति । निदर्शनान्तरस्य तथा । सिद्धमाहुरिति ।
श्रौतदृष्टान्तसिद्धं निदर्शनान्तरेऽविरोधमाहुरित्यर्थः । विवस्वानिति । सूर्यः । भाष्ये । दृष्टान्तप्रसङ्गात्
दार्ष्टान्तिकेन समं दृष्टान्तवाक्यमप्याहुः उपाधिनेति । जलाद्युपाधिना । भेदेन रूप्यते व्यवह्रियत
इति भेदरूपः । क्षेत्रेषु योन्यादिषु । इत्यादीति । आदिना सौत्रादिशब्दार्यैकधाबहुधेति भाष्यीयवाक्यम् ।
1659
चकारस्तु विरोधाभावो वक्तव्यः, अधिकरणं च संपूर्णमेकदेशिन इति सूचयति ।
तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य इति ॥ १८ ॥
इति तृतीयाध्याये द्वितीयपादे पञ्चममरूपवदेव हीत्यधिकरणम् ॥ ५ ॥
भाष्यप्रकाशः ।
इति विरोधाभावादुपमारूपं निदर्शनमपि निर्णायकमित्यर्थः । सिद्धमाहुः तस्मादिति । ब्रह्मणः
प्रपञ्चविलक्षणत्वेन कार्यासाधारणधर्माणां कारणे ब्रह्मण्यभावेन ब्रह्मणस्तत्स्वरूपधर्माणां च
लौकिकमनोवागगोचरत्वेन ‘कृत्स्नः प्रज्ञानघन’ इति श्रुत्या आकारस्य ज्ञानात्मकत्वेन तच्चे-
ष्टियादीनां धर्माणां च नैसर्गिकत्वेन तेषां च भगवत्प्राकट्ये एव दर्शनादिव्यवहारविषयत्वेन
लौकिकवाङ्मनोभिः प्रतीयमानानां स्थानधर्मत्वात् तथेत्येकदेशिमतेन सिद्धमित्यर्थः । तेन ब्रह्मणः
स्थानतो जडजीवधर्मवत्त्वम्, स्वतस्तु तद्रहितत्वमित्येकदेशिमतेन सिद्धम् । एतेनास्याधिकरणस्य
प्रासङ्गिकत्वं वक्ष्यमाणोपद्घातत्वं वेति सूचितम् ।
विद्वन्मण्डने तु मायावादिमतेन अरूपवत्सूत्रप्रकृतैतावत्सूत्रद्वयाभ्यां निर्विशेषस्यैव मुख्य-
तया निरूपणं दृश्यते इत्याशङ्कायां 'न स्थानतोऽपी'त्यादिसूत्रत्रयम्, 'अरूपव'दित्यादिसूत्रचतुष्टयं
चोपादेयांशमादायेवं व्याख्यातम् । तथाहि । तत्र जडजीवधर्मा ब्रह्मणि सन्ति न वेति विचार-
यैस्तन्निरूपकनिषेधक श्रुतीनामन्योन्यविरोधपरिहारं च विचारयन्नुभयोरपि श्रुतिवाक्यत्वेनान्यतर-
बाधमप्यशक्यं जानन्नौपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिखरूपं तन्निर्विशेषश्रुतेरिति
मतम्, ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र ही’ति सूत्रेणौपाधिकत्वे तत्स्वभावत्वं ब्रह्मणो न
सम्भवतीति तच्छ्रुतीनामब्रह्म निरूपकत्वापत्तिरिति निरस्य, पुनरुपाहितानुपहितयोर्भेदाङ्गीकारेणो-
भयरूपत्वं ब्रह्मणि भविष्यतीति तन्मतोपपत्तिमाशङ्क्य, 'न भेदादितिचेन्न प्रत्येकमदतद्वचना’दिति
सूत्रेण ‘अपि चैवमेके’ इत्यग्रिमेण चामेदबोधकश्रुतिविरोधनिरूपणेन निरस्य, पुनराकाराणां प्रपञ्च-
मध्यपातित्वात् प्रपञ्चस्य जन्यत्वात् तेषामपि तथात्वात् तेषु ब्रह्माभेदबोधनमौपचारिकम्, अतः
साकारवादिन्यो न ब्रह्म निरूपिका इति प्राप्त आह ‘अरूपवदेव हि तत्प्रधानत्वा’दिति । स्यादेतदेवम्,
यद्याकाराणां प्रापञ्चिकत्वं भवेत्, न त्वेवम् । न हि प्रपञ्चस्थितत्वेनैव प्रापञ्चिकत्वं वक्तुं शक्यम् ।
त्वदभिमतस्यापि तथात्वापत्तेः । अतो निराकारवादिनीष्विव साकारवादिनीष्वपि श्रुतिष्वरूपवदेव
तद् प्रतिपाद्यते । रूप्यते निरूप्यते व्यवह्रियते इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवद्वि-
श्वम्, ब्रह्म तु तद्विलक्षणमित्यर्थः । यथा चैतत् तथा मृत्स्नामक्षणादिप्रसङ्गनिरूपणेन निरूपितम् ।
रश्मिः ।
तद्रूपेति । सूर्याद्युपमेयत्वम् । विरोधाभावादिति । असमस्यैव प्लुष्यादिसमत्वमिति तथा । पृथिवे-
त्यत्युपमोपमानं सूर्यादि तद्रूपं निदर्शनम् । शेषमिति । अवक्तव्यः उक्तप्रायत्वात् । सूचय-
तीति । समुच्चयार्थकत्वात्सूचयति । जडेति । सर्वकर्मसर्वकामत्वादीनां लौकिकानाम् । निषेधोऽस्थूला-
दिश्रुत्या । इति विरोधपरिहारः । एवं शेषं स्फुटमित्यर्थः । स्थानत इति । तत्सूत्रे स्पष्टम् । प्रास-
ङ्गिकत्वमिति । अविरोधप्रतिपादकेनाधिकरणेन स्मृतसैकदेशिमतसाविरोधप्रतिपादकस्योपेक्षानर्हत्वा-
दिति भावः । वक्ष्यमाणेति । मुख्यसिद्धान्तबोधकवक्ष्यमाणाधिकरणस्य किमपेक्षया मुख्यत्वमिति
निरूपकसापेक्षस्य प्रकृतस्य सिद्धयर्थैकदेशिमतस्य मुख्यत्वनिरूपकस्य चिन्तात्र कृतेत्युपोद्घातत्वम् ।
१. मूलपुस्तके ब्रह्मण इत्यारभ्य इत्यर्थ इत्यन्तं विद्धार्यकथनं नास्ति, किन्तु शेषं स्फुटमित्येव वर्तते, रश्मिकारेण
तदेव विवृतमिति ।
1660
सर्वतोमुखत्वात्"?
"सर्वतोमुखत्वात्" is preceded by "सूत्राणां सर्वतोमुखत्वात्"!
Wait, look at the letters in line 24:
"व द न्त ए वे ति । सू त्रा णां"
Wait! Is that 'सूत्राणां'?
स् + ऊ = सू.
त् + र + आ = त्रा.
ण + आ + ं = णां!
Wait, look closely at line 24:
Does it say "सूत्रार्था" or "सूत्राणां"?
The second akshara is त्रा (trā). The third akshara is णां (ṇāṃ)!
Wait, look: it has a vertical bar, with a hook like 'ण' and anusvara on top! Yes, "सूत्राणां"!
"सूत्राणां सर्वतोमुखत्त्वादन्यार्थ..."
Yes! That is the exact maxim: "सूत्राणां सर्वतोमुखत्वात्"! Beautiful!
Let's check line 25:
सर्वतोमुखत्त्वादन्यार्थवदनयोगव्यवच्छेदकैवकारः । त्रिवृदित्यादि । 'अग्नेराप' इति श्रुतेर्जलसमवायिनि-
Wait, "श्रुतेर्जलसमवायिनि-"?
Wait, at line 26:
What follows "श्रुतेर्जलसमवायिनि-"?
Look at line 26 start:
ानि मनःप्रभृतीनि
Line 15: कार्याणि अस्वच्छानि । मनो हि शुद्धाशुद्धभेदेन द्विविधम् । तत्र शुद्धं कामविवर्जितमिति ।
Line 16: तत्र प्रतिबिम्बिते ब्रह्मणि सर्वकामा एव न भासेरन् । अशुद्धस्य तु कामवत्त्वेपि अस्वच्छत्वादेव
Line 17: प्रतिबिम्बाग्राहकत्वम् । प्राणस्त्वपामयोपि वायुरूपत्वात् प्रतिबिम्बग्रहणायोग्यः । तथा भारूपं
Line 18: तेजः आकाशश्च । तस्माज्जलादिवत् अंशेन संश्लिष्टस्य ब्रह्मणः प्रतिबिम्बं ग्रहीतुं न शक्नुवन्ति ।
Line 19: किञ्च । धर्मत्वात् । समवेतं हि कार्यं कारणस्यावस्थाविशेषरूपत्वात् तद्धर्मभूतं तस्मात् । न हि
Line 20: समवेते कार्ये समवायिनः प्रतिबिम्बः क्वापि दृष्टचरः, नाप्यस्वच्छे कस्यापि । अतः समवायि-
Line 21: व्यतिरिक्तस्य समवायिनश्च ब्रह्मणो ग्रहीतुमशक्यत्वबोधनायाम्बुवदग्रहणादित्युक्तमित्यर्थः । ननु
Line 22: रश्मिः।
Line 23: अस्थूलादिवाक्योक्तनिषेधस्य । जडजीवधर्मयोगादित्युकम् । सच 'पृथ
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२७
तथा धर्मा ग्रहीतुं शक्नुवन्ति । धर्मत्वान्न । सर्वाधारत्वेन तथोच्यमाने वैयर्थ्य-
भाष्यप्रकाशः।
मास्तु धर्माणाद्युपाधिभूतानां प्रतिबिम्बग्राहकत्वम्, तथापि द्युभ्वाद्यधिकरणविषयवाक्ये ब्रह्मणः
सर्वाधारतायाः सिद्धत्वाद् ब्रह्मण्येव मनःप्रभृतीनां तद्धर्माणं च प्रतिबिम्बोस्तु, तथा सति तेषां
धर्माणामौपचारिकत्वमेव सेत्स्यतीत्यत आहुः सर्वेत्यादि । यद्यपि रूपरहितस्य ब्रह्मणो न
प्रतिबिम्बग्राहकत्वम्, आकाशादितुल्यत्वात्, तथापि भारूपत्वमादाय ग्रहिततया तथोच्यमाने
तेषां धर्माणाद्युपाधिधर्मत्वेनैव प्रत्ययः । लोके हि स्थिर आधारे प्रतिबिम्बचञ्चलतायां तद्धर्मे
चलने बिम्बीयत्वेनैव भानस्य दृष्टत्वात् । अतस्तद्धर्मत्वेन उपासनाया असिद्धेस्तदनुवादवैयर्थ्यमिति
पूर्वं अरूपवत्सूत्रव्याख्याने सर्वशब्दस्य प्रसिद्ध
मिति पूर्वमवोचाम । नच भ्रमात् कल्पनं वेदेनोच्यते । अप्रतारकत्वात् । सर्व-
भाष्यप्रकाशः।
'एकधा बहुधा चैव दृश्यत' इति दृष्टान्तप्रयोजनोक्त्यैव तथा निश्चयादिति । नन्वत्र पूर्वं ब्रह्मणः
सर्वत्वेनोपासनायाः 'शान्त उपासीते'त्यन्तेन विधानात् 'स क्रतुं कुर्वीते'त्यस्यापि व्यवहितेनो-
पासीतेत्यनेनैव सम्बन्धान्मनोमयत्वादिधर्मविशिष्टत्वेन ब्रह्मण एवोपासनं विधीयत इति, तत्र
यथा सर्वत्वमारोपितम्, एवमत्र मनोमयत्वादिकमप्यारोपितमेवेत्यम्बुवद्ग्रहणाभावेऽपि सर्वकाम-
त्वादिधर्माणां कल्पितत्वादौपचारिकत्वमेवेत्यत आहुः नचेत्यादि । नात्र मनोमयत्वादिकमा-
रोपितम् । उपासनाया एवात्राभावात् । अथेत्यनेन प्रक्रमभेदे बोधिते प्रकृतच्छेदेन व्यवहितसम्ब-
न्धस्य वक्तुमशक्यत्वात् । किन्तु पूर्वोपासनया शुद्धान्तःकरणस्य सर्ववेदान्तप्रसिद्धब्रह्मण उपदेशो-
ऽयम् । स शान्तोऽन्यत्र रागरहितः, क्रतुं वक्ष्यमाणप्रकारकं निश्चयमध्यवसायात्मकमविचल-
प्रत्ययं तथा मननं वा स्वस्य वक्ष्यमाणभगवत्स्वरूपलाभार्थं कुर्वीतेति । एतेन शब्दान्तरेणापि
तथा निश्चयात् । उपसंहारे च पूर्वोक्तधर्मविशिष्टस्यात्मनो ब्रह्मत्वं 'एतत् ब्रह्म'त्यनेन निगमयित्वा
'एतमितः प्रेत्याभिसम्भावितास्मी'ति, 'यस्य स्यादद्धा न विचिकित्सास्ती'त्यत्रेतिशब्देन पूर्वोक्तं
सर्वं परामृश्य, 'यस्य स्यादद्धे'त्यनेन सर्वस्य
ज्ञत्वाच्च । विप्लववादिन एवैवं वचनम्, न वैदिकस्य । 'पृथिव्यां तिष्ठ'न्नित्यादिविरो-
धश्च । तस्मात् ब्रह्मधर्मा एव सर्वकामादयः, न तूपाधिसम्बन्धादौपचारिका
इति ॥ १९ ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
सिद्धान्तेन विरोधपरिहारमाह । विरोधो हि परिहरणीयो लोकवेदाभ्यां तद-
भाष्यप्रकाशः।
च भ्रमात् कल्पनम् । तत्तु नात्र वेदेनोच्यते । अप्रतारकत्वात् सर्वज्ञत्वाच्च । यदि ह्येवं सत्यत्वं
निगमयन् स्वयं सम्यक् ज्ञात्वा परस्मा आरोप्यान्यथा ब्रूयात्, प्रतारक एव स्यात् । अज्ञात्वा-
रोपितं चेद् ब्रूयात्, सर्वज्ञत्वादेव हीयेत । अतो नात्र तथा वक्तुं शक्यमित्यर्थः । एतेन मध्वादि-
विद्यास्विवात्र कल्पनोपदेश इत्यपि निरस्तम् । तत्रैवमवचनात् । सांख्यवादिं प्रति तद्रीतिबोधने
तत्र तथा कथनाच्च ।
१३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २०.
नुसारेण। महानवकाशोऽल्पोऽवकाशः, 'यथावकाशं दश चमसा'निति लौकिकवै-
दिकव्यवहारो वस्तुधर्मविरुद्धो दृश्यते। व्यापकत्वं वृद्धिह्रासौ च आकाशस्यैव।
तत्र यथा करके प्रविष्ट आकाशस्तथा व्यपदिश्यते, तथा सत्युभयसामञ्जस्यं
भवति, अन्यथा एकतरबाधो भवति, एवं तत्तदनुप्रवेशात् ब्रह्माप्येवम्। नचौ-
पाधिकत्वम्। जपाकुसुमलौहित्यवदन्यधर्मत्वाभावात्। अन्यानुविधायित्वेपि
भाष्यप्रकाशः।
ब्रह्माप्येवमित्यन्तम् । 'यथावकाशं दश चमसा'नित्यासादनविषये श्रुतिः । एवं चयनेपि
'एतैरग्निं चिन्वीते'ति 'चितिः स्रु'गित्यादिमन्त्रैश्चयनं विधाय, प्रकारप्रदर्शनावसरे चतुर्षु दिक्षु
तत्तद्देवमन्त्रैश्चयनं दर्शयित्वा, 'यथावकाशं ग्रहान् यथाव
स्वधर्मा एव ते । कारणत्वादिवत् । नचागन्तुकत्वात् तद्धर्मा एव न भवन्तीति
वाच्यम् । अन्यधर्मत्वे प्रमाणाभावात् । तद्गतत्वप्रतीतेश्च । दृष्टत्वाच्चाविरोधः ।
अविरोधप्रकारोऽयम् । यथोभयसामञ्जस्यं भवति, प्रकारोपि तस्यैव तथा
भाष्यप्रकाशः।
जपाकुसुमलोहित्यवदन्यधर्मत्वेन प्रत्यायिताः स्युः, तदा तेषामौपाधिकत्वं स्यात् । प्रत्यायिता-
स्त्वात्मविशेषणेष्वात्मधर्मत्वेन, अतो न तथात्वमित्यर्थः । ननु यद्यप्येते आत्मविशेषणत्वेनोक्ताः,
तथापि मनोमयत्वादिकं पूर्वमुक्त्वा पश्चादुक्ताः, तेन ब्रह्मणो मनआद्यनुविधायित्वमेव स्फुटीकृतम्,
तथा सति तेषां तद्धर्मत्वमेव, न ब्रह्मधर्मत्वम्, अन्यानुविधायित्वस्यैव स्फुटीभावादित्यत आहुः
अन्येत्यादि । तदभिध्यानसूत्रे आकाशादिलिङ्गतया तत्तदनुविधायित्वस्य सिद्धत्वान्न मनआ-
द्यन्यानुविधायित्वेपि सर्वकामादयो ब्रह्मधर्मा एव । यथा तन्त्रत्यं कारणत्वम् । आदिपदेन 'विशि-
ष्टशक्तिर्बहुधैव भाती'ति स्मृत्युक्तं शक्तिविश्लेषादिकमपि संगृहीतं ज्ञेयम् । तेन स्वल्पकार्यकरणेपि
नौपाधिकत्वमित्यर्थः । नन्वेवमन्यानुविधायित्वे तेषामागन्तुकत्वं तु सिद्धम्, तथा सति नैसर्गि-
कत्वाभावादन्यधर्मा एव भवन्ति, न तु भगवद्धर्मा इत्यत आहुः नचागन्तुकेत्यादि । 'कामः
सङ्कल्प' इति श्रुतौ 'अशुद्धं कामसङ्कल्प'मिति श्रुतौ च कामसङ्कल्पयोः केवलयोरेव मनोधर्मत्वं
श्रूयते, न तु सर्वत्वसत्यत्वविशिष्टयोस्तयोः, अतोऽन्यधर्मत्वे श्रुत्यभावः। लिङ्गवाक्यप्रकरणाभावस्तु
स्फुटः । स्थानं त्वन्यानुविधानेनैव व्याख्यातम्, अतः प्रमाणाभावात् तथेत्यर्थः । समाख्या तु
बहुव्रीहिणा ब्रह्मधर्मत्वमेव स्फुटीकरोतीत्याहुः तद्गतेत्यादि । ननु यद्यप्येवम्, तथापि युक्ति-
मिरनुचिन्तनस्य मननत्वात् तच्छेषत्वेनैतत्पाठोप्यासनाशेषत्वमेव, न तु स्वतन्त्रब्रह्मधर्मत्वमेषाम्,
यथा अस्थूलत्वादीनाम्, अतस्तदपेक्षया निर्बलत्वात् कथमविरोध इत्यत आहुः दृष्टत्वाच्चा-
विरोध इति । 'सोऽकामयत बहु स्यां'मित्यत्र सर्वविषयककामस्य ब्रह्मधर्मत्वेन दृष्टत्वादेतेषां
स्वाभाविकब्रह्मधर्मत्वेन नैर्बल्याभावादविरोध इत्यर्थः । नन्वेवं सति धर्मविधिनिषेधयोरेकविषय-
त्वाद्विरोध एवायातीति कथमविरोध इत्यत आहुः अविरोधेत्यादि । अयमस्मदुक्तरीतिकः ।
रश्मिः।
पाधिकत्वमित्यादीति । जपेति । विलक्षणलौहित्यबोधनाय जपाकुसुमोपादानम् । वैलक्षण्यं त्वन्य-
धर्मत्वम् । 'तत्स्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेः सर्वकामत्वादीनामन्यस्योपाधेर्धर्मत्वाभावात् । अन्येति ।
उपाध्यनुविधायित्वेपि धर्माणां ते धर्माः स्वस्य ब्रह्मण एव, नतूपाधेः, श्रुतावुपाधिसमत्वोक्त्या तथाव-
सायात् । समत्वं धर्मैरिति । ननु समत्वेपि विभुत्वविरुद्धा अन्य धर्मा इति चेत्, तत्राहुः एवेति ।
'यदेकमव्यक्तमनन्तरूप'मिति श्रुत्या निर्धारणादित्यर्थः । एवेत्यस्मात्पञ्चम्या लुक् । ननु स दोषस्तदवस्थ
इति चेत्, तत्र दृष्टान्तमाहुः कारणत्वेत्यादि । नहि कारणत्वमुपाधिगतमुपाधेयेस्ति । 'कर्ता शास्त्रार्थ-
वत्त्वा'दित्यधिकरणविरोधात् । आदिना सत्यत्वादयः । तद्वदिति न स दोषस्तदवस्थ इति भावः । ननु
कारणत्वादयो नागन्तुका इति दृष्टान्तवैषम्यमिति प्रतिवादिनं पर्यनुयुञ्जतेस्म नचागन्तुकेति । जानाति
इच्छति यतत इति प्रवादात् सर्वकामादीनां ज्ञानाधीनत्वेनागन्तुकत्वात्ते तद्धर्माः ब्रह्मधर्मा एव
न । एवकारो 'नहि जन्या भगवद्धर्मा भवन्ती'ति तयोर्व्यवच्छेदकः । श्रुत्यादीति । आदिना
१. न चौपाधिकत्वमित्यादि प्रमाणाभावादिति, युक्तादिरूपमात्रार्थेलिङ्गाभावात् । तद्गतत्वेत्यादिना तेषां वाक्यव-
त्त्वानङ्गीकारे प्रत्यक्षविरोधोपीति बोधितम् । तस्यैवेति, विचार्य वस्तुन एव । शिष्टमाहुः तथेत्यादि । एवं ब्रह्मण्यपीति ।
तत्तदुपाध्यन्तर्भूतं तथा तथा भवति, तथा च पूर्वमर्ककार्यसूत्रे व्योमवच्चेत्यनेन यदुक्तम्, तदेवात्र स्मारितम् । अत्र
ब्रह्मधर्मविचारप्रसङ्गेन जीवधर्मोपि विचारित इत्याशयेनाहुः दृष्टत्वात्पदेनेति मूलपाठः रश्मौ व्याख्यातः ।
१३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २१.
वक्तव्यः । तस्मात् यथा आकाशस्य वृद्धिह्रासभाक्त्वं करकादिष्वन्तर्भावात् तथै-
वोभयसामञ्जस्यात् , एवं ब्रह्मापि । वृद्धिह्रासपदेन शरीरे आकाशजीवयोरेकमुदा-
हरणं बोधयति ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
हेत्वन्तरमाह । भगवति सर्वे विरुद्धधर्मा दृश्यन्ते । 'न हि दृष्टेऽनुपपन्नं नाम ।'
व्याघातात् । तादृशमेव तद्रूपमिति त्वध्यवसायः प्रामाणिकः । चकारादुत्तम्भक-
भाष्यप्रकाशः ।
यथोभयसामञ्जसे श्रुतिद्वयस्य मुख्यार्थप्रतिपादकता भवति । एकदेशिना दृष्टान्तेनैवाविरोधसाध-
नात् । प्रकारोऽपि दृष्टान्तस्यैव श्रुत्यनुसारेण वक्तव्यः, अन्यथैकदेशी न मन्येत, अतस्तथेत्यर्थः। उक्तं
निगमयन्ति तस्मादित्यादि । तथाच यदा भगवान् सत्त्वादिष्ववतर
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३
बन्धनादिषु प्रत्यक्षमेवोभयसाधकं दृष्टमिति । 'अथो अमुष्यैव ममार्मकस्ये'ति च ।
तस्माच्छ्रुतिस्मृतिप्रत्यक्षैः सर्वविरुद्धधर्माश्रयत्वेन ब्रह्मप्रतीतेर्न विरोधः ॥ २१ ॥
भाष्यप्रकाशः ।
केवलब्रह्मबोधकश्रुतिषु तत्तद्धर्मदर्शनात् प्रत्यक्षेणापि भानात् स्मृतावपि सिद्धत्वात् ब्रह्म एवम्, यथा
प्रतीयते तादृशम् । तत्र हेतुरुभयसामञ्जस्यमेव । तदेतत् हृदिकृत्य सूत्रोक्तं दर्शनं विवृण्वन्ति
भगवतीत्यादि । तथाच वैश्वानरविद्यायां प्रादेशमात्रत्वाभिविमानत्वं द्युमूर्धत्वादिकं पुरुषत्वं
पुरुषविधत्वं पुरुषेऽन्तःप्रतिष्ठितत्वम् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः
परस्ता'दित्येकस्याव्यक्तस्यानन्तरूपत्वम् । एवं श्रुत्यन्तरेऽपि 'आसीनो दूरं व्रजती'त्यादीनि
दृश्यन्ते । एवं मिथिलागमने श्रुतदेवजनकयोर्गृहे एककालावच्छेदेन प्रवेशादिकं स्मृतिसिद्धं
दृश्यते । अवतारदशायां गोवर्धनोद्धरणादिकमवस्थासाधनविरुद्धं कार्यं च दृश्यते । तत्र प्रत्यक्ष-
श्रुतिसिद्धे सर्वजनीनदर्शनसिद्धे तादृक्स्मृतिसिद्धे च ब्रह्मणो विरुद्धधर्माश्रयत्वेऽनुपपत्तेर्वक्तुम-
शक्यत्वाद्वस्तुस्वभावमेवादाय दर्शनेच्छानुग्रहादिहेतुकत्वं चादाय तादृशनिश्चयस्य प्रामाणिकत्व-
मवगन्तव्यमित्यर्थः । उभयसाधकमिति । स्वल्पत्वमहत्त्वयोः साधकम् । तत्र बहूनां दाम्नां
सन्धानेपि न स्वरूपवेष्टकत्वम्, स्वरूपस्य च न प्रथमपरिमाणादाधिक्यम्, अन्यथा विस्मया-
नापत्तेः । मृल्लाभक्षणव्यादानस्थले च स्पष्टमेव तथात्वम् । 'एवं विदिततत्त्वाया' इति तत्र
कथनात् । मायामोहस्य तदुत्तरं कथनाच्चेति । तेन सिद्धमाहुः तस्मादित्यादि । वैश्वानरेऽर्थ-
रश्मिः ।
इत्यर्थः । च दर्शनादिति सूत्रयोजनामाहुः तथा चेति । तत्तद्धर्मेति । सत्यत्वज्ञानत्वादिकधर्म-
दर्शनात् । स्मृताविति । 'अथो अमुष्यैव ममार्मकस्य यः कश्चनौत्पत्तिक आत्मयोग' इतिस्मृतौ ।
तेन चकारात्सप्तम्या लुक् । एवं चकारार्थेषु मध्ये श्रुतिषु दर्शनादिति सूत्रं व्याख्यातं पञ्चम्यन्तेन । प्रत्यक्षे-
णेति । उलूखलबन्धनादिषु प्रत्यक्षेण । बुद्धिस्थद्वितीयचकारार्थेन समं सूत्रार्थः । बुद्धिस्थतृतीयचकारार्थेन
समं सूत्रार्थमाहुः स्मृतावपीति । भानेन सिद्धत्वात् भानात् । एवं सूत्रार्थमुक्त्वाऽनुवृत्तपदाना मर्थमाहुः
ब्रह्म एवमिति । एवंशब्दार्थः यथेत्यादिः । न विरोधः । उभयेति । पञ्चम्यन्तमितिविशेषणं बोध्यम् ।
एवेति । अयं दर्शनादितिहेतुयोगव्यवच्छेदकः । तस्यानुवृत्तपदेन्वयो न सकलसूत्रेऽहेतुत्वात् । नापि
पूर्वहेतुसमुच्चयेन हेतुत्वम् । अन्यचकारार्थोक्तेः । वैश्वानरेति । इयं प्रथमाध्याये 'वैश्वानरः साधारण-
शब्दविशेषा'दित्यत्र समर्थिता । प्रवेशादिकमिति । आदिशब्देन स्थित्यादिकम् । दशमस्कन्धे स्पष्टम् ।
अवस्थेति । सप्तवार्षिकी । साधनं गोवर्धनोद्धरणम् । तदुभयविरुद्धं कार्यं गोष्ठरक्षणम् । एतावता
दृश्यन्त इति भाष्यार्थ उक्तः । नहीत्यादिभाष्यार्थमाहुः तन्न प्रत्यक्षेति । प्रत्यक्षा श्रुतिः प्रत्यक्षश्रुतिः ।
तत्सिद्धे विषये सति सार्वजनीनप्रत्यक्षसिद्धे विषये सति । तादृगित्याद्यावप्येवम् । अनुपपत्तेर्विरुद्धधर्म-
रूपानुपपन्नपदार्थनिष्ठाया वक्तुमशक्यत्वाद्दृष्टे दर्शनविषये सति हि निश्चयेन नानुपपन्नं विरुद्धधर्मादि
नाम । व्याघातात् । चक्षुरादौ प्रामाण्यहिंसनात् । स स्वभाव इव दृश्यते इति तादृशं ब्रह्मरूपनिश्चय-
रूपवस्तुस्वभावम् । एवेत्यन्ययोगव्यवच्छेदकः । तादृशेति । 'इति त्वव्यवसायः प्रामाणिक' इति
भाष्यार्थः । भाष्ये । चकारादिति । बुद्धिस्थसमुच्चायकात् । भाष्यप्रकाशोक्तार्थकात् । आदिशब्देन
मृत्स्नाभक्षणविश्वरूपदर्शने । प्रत्यक्षमेवेति । सूत्रोक्तत्वात्प्रत्यक्षम् । एवकारेण श्रुतिस्मृतिरूपान्य-
योगव्यवच्छेदकेनोभयसाधकम् । प्रकृते । स्पष्टमेवेति । अस्पष्टत्वयोग्यव्यवच्छेदक एवेति । विरुद्ध-
धर्माश्रयत्वं तथात्वमित्यर्थः । विरुद्धधर्माश्रयत्वं तत्त्वमिति वाक्येनाहुः एवं विदितेति ।
तत्र प्रमाणमाहुरित्यप्याभासः । कथनादिति । 'वैष्णवी व्यतनोन्माया'मित्येवम् । प्रत्यक्षमेवेति भाष्येण
1669