सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

१६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२]
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
परमार्थतो विरोधं परिहृत्य युक्त्यापि प्रतिषेधति । ननु सर्वविशेषधर्माणा-
मस्थूलादिवाक्यैर्निषेधात् कथमविरोधः प्रत्येय इति चेत् । तत्राह । प्रकृतैता-
वत्त्वं हि प्रतिषेधति । प्रकृते यदेतावत् परिदृश्यमाना यावन्तः पदार्था लौकिकाः,
भाष्यप्रकाशः ।
क्रमस्य बलीयस्त्वमुपगम्य विरोधस्य परिहर्तुं शक्यत्वेपि काठके तथा वक्तुमशक्यत्वात् ।
उलूखलबन्धने स्वल्पस्य यत्तावस्तु दामत्वमानं तस्य स्वरूपधर्मत्वे, मतान्तरेण शरीरधर्मत्वे वा
तदाधारस्य विरुद्धधर्माश्रयतायाः प्रत्यक्षसिद्धतया स्मृतिसिद्धतया चापहोतुमशक्यत्वेन अभिन्ननि-
मित्तोपादानत्वोपगमेन च विरुद्धधर्माश्रयत्वस्य प्रामाणिकत्वाच्छ्रुत्यादिभिस्तथात्वेन ब्रह्मप्रतीतेर्न
विरोध इति प्रकृतानां सर्वकामत्वादीनामप्यौपचारिकत्वकल्पनं नैमित्तिकत्वेनानित्यत्वोद्भावनं
चाप्रयोजकमित्यर्थः । एवमेताभ्यां सूत्राभ्यां 'अत एव चोपमे'तिमूत्रोक्तं सर्वं प्रत्युक्तं ज्ञेयम् ॥२१॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ सूत्रमवतारयन्ति
परमार्थत इत्यादि । परमार्थत इति । वस्तुविचारात् । एवं सर्वैः प्रकारैः परिहृतेपि विरोधे
पुनर्मुत्तया परिहारस्य किं प्रयोजनमित्याकाङ्क्षायां वस्तुनस्तादृक्स्वभावत्वममन्वानं प्रति युक्तिरवश्यं
वक्तव्येत्यतः सूत्रांशमवतारयन्ति नन्वित्यादि । तथाच पूर्वसूत्रोक्तदर्शनस्य अवतीर्णं स्वेच्छया
रश्मिः ।
सौत्रदर्शनस्य मुख्यत्वं श्रुतिस्मृत्योर्व्यवच्छेदेनोक्तं तयोरन्वयमत्र भाष्य उक्तं तत्स्पष्टयन्तिस्म वैश्वानर
इति । प्रादेशमात्रेभिविमाने औपाधिकेऽभिविमानत्वासंभवादार्थक्रमेणाभिविमाने इति वक्तव्ये अर्थक्रमस्य
बलीयस्त्वमुपगम्येत्यर्थः । काठक इति । 'आश्चर्यो वक्ता कुशलोऽस्य लब्धा, आश्चर्योस्य ज्ञाता
कुशलोऽनुशिष्ट' इत्यत्राश्चर्ये वक्तव्ये औपाधिकोप्यभिविमान इत्यर्थक्रमेण तथा नामविरोधपरिहारस्य
वक्तुमशक्यत्वात् । तस्येति । अमानस्य । मतान्तरेणेति । पुराणमतेन मायारूपशरीरधर्मत्वे वा ।
स्मृतेर्मुख्ये दर्शने उपष्टम्भकतयान्वयमाहुः स्मृतिसिद्धेति । प्रत्यक्षमुपष्टब्धमिति सप्रमाणम्, न तु
शुक्तिरजतप्रत्यक्षवदप्रमाणमित्युक्तम् । अभिन्नेति । समन्वयाधिकरणेप्युपगमः । अत्र श्रुतेरन्वय-
माहुः श्रुत्यादिभिरिति । श्रुतिस्मृतिप्रत्यक्षैः । तथात्वेन विरुद्धधर्माधारत्वेन । ब्रह्मप्रतीतेरिति ।
ब्रह्मदर्शनात् । अत्र श्रुत्यादिभिरित्यन्तेन श्रुतिस्मृतिप्रत्यक्षैरितिचकारार्थभाष्यर्थ उक्तः । तथात्वेने-
त्यनेनानुवृत्तोभयसामञ्जस्यं पञ्चम्यन्तं तस्यार्थः सर्वविरुद्धधर्माश्रयत्वेनेति शक्यतावच्छेदक उक्तः ।
ब्रह्मप्रतीतेरित्यनेनावृत्तब्रह्मपदार्थः सौत्रदर्शनादितिपदार्थ उक्तः । न विरोध इत्यनेनावृत्तैवंशब्दार्थ
उक्तः । नैमित्तिकत्वेनेति । जानातीच्छति यतत इति प्रवादात् निमित्तं ज्ञानं तत्सम्बन्धिविशेषत्वे
च । अत एव चोपमेति । 'तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य' इति भाष्येण
संगृहीतम् । प्रत्युक्तमिति । सर्वकामत्वादीनामौपचारिकत्वकल्पनस्यानित्यत्वोद्भावनस्य चाप्रयोजक-
त्वोक्त्या प्रत्युक्तमित्यर्थः ॥ २१ ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ निश्चिते इति ।
स्वाभाविकानां निषेधायोगात् । कथमिति । कथमविरोधः प्रत्येय इत्यर्थः । भाष्ये । प्रतीतस्यै-
१. तथा च सर्वविशेषनिषेधेन तादृक्स्वभावाभावे निश्चिते कथं तथेत्यर्थः इति मूले पाठः ।
1670

तेषामेव धर्मान् निषेधति । प्रतीतस्यैव हि निषेधात् । अतो जगद्वैलक्षण्यमेवा-
स्थूलादिवाक्यैः प्रतिपाद्यते, न तु वेदोक्ता ब्रह्मधर्मा निषेद्धुं शक्यन्ते । कुत एत-
दवगम्यते । तत्राह । ततो ब्रवीति च भूयः । यत्रैव वाक्ये पूर्वं निषेधति,
तस्मिन्नेव वाक्ये पुनस्तमेव विधत्ते । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह,
आनन्दं ब्रह्मणो विद्वा'निति । तथा अस्थूलवाक्येपि 'एतस्यैव प्रशासने' 'एतद्वि-
दित्वा' 'आकाश ओतश्च प्रोतश्चे'ति । चकारादेकवाक्योपाख्यानभेदौ संगृ-
भाष्यप्रकाशः ।
व्यवहार्यं प्रपञ्चसलक्षण एव प्रतीयमानैकविशेषविरुद्धविशेषान्तरविषयत्वान्न तेन प्रपञ्चविलक्षणे
सर्वविशेषशून्ये ज्ञानाकारे तद्विरुद्धविशेषवत्त्वसिद्धिरिति तत्र धर्मविधिनिषेधयोरविरोधः कथं
प्रत्येतव्य इत्याकाङ्क्षायामविरोधप्रत्ययप्रकारमाहेत्यर्थ

११५ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२.
हीति । सर्वत्र लौकिकं प्रतिषेधति, अलौकिकं विधत्ते इति युक्त्या निर्णयः ।
तस्मात् युक्त्याप्यविरोधः ॥ २२ ॥
इति तृतीयाध्याये द्वितीयपादे षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥
भाष्यप्रकाशः ।
व्यक्तिभेदेन षोडशिग्रहणाग्रहणवन्नित्य एकस्मिन् ब्रह्मणि ज्ञेयत्वाज्ञेयत्वप्रशासितृत्वप्रशासितृत्वादीनां
विकल्पस्याशक्यवचनतया वाक्यस्याबोधकतायां तन्निवृत्त्यर्थं लौकिकं निषेधति, अलौकिकं तं धर्मं
विधत्ते इति व्यवस्था मन्तव्या। स्थूलत्वादीनां लौकिकानामेव निषेधदर्शनात् । ईदृशप्रशासितृत्वादी-
नामलौकिकानामेव विधानदर्शनात् । अतो ये वस्तुस्वभावतो विरुद्धधर्माश्रयत्वं न मन्वते, तान्
प्रत्येवं लौकिकालौकिकविभागरूपया युक्त्या निर्णयः । तेन श्रुत्या बोध्यमाना ये सर्वकामत्वाद-
यः, तेऽप्यलौकिका एव। मन्दधियामविचारकाणां परं नामतौल्येन भ्रमः। नचानाप्तकामत्वापत्तिः।
अमिश्रारूपत्वेन, स्वयमेव तत्पूर्तिकरणेन चादोषात् । एतेन जीवतुल्यतापत्तिरपि परिहृता बोध्या ।
तस्माच्छ्रुत्यक्षराण्याननुसन्दधानानां बोधार्थं युक्त्याप्यविरोध आचार्येणोक्त इत्यर्थः । एतेनैव
यावद्धर्मशून्यत्वं ब्रह्मणो वदन्तोपि प्रत्युक्ता वेदितव्याः ।
अन्ये त्वस्मिन् सूत्रे 'द्वे वा व ब्रह्मण' इति वाक्यं विषयत्वेनाहुः । तदर्थं विद्वन्मण्डने
एतद्वाक्यार्थोपि विचारितः । तथाहि । 'नेति नेती'त्यत्र इतिशब्दः प्रकारवाची । तथाच
पूर्वं मूर्त्तामूर्त्तब्रह्मणो विभूतिरूपं 'य एवं वेदे'त्यन्तेन निरूप्य यत्सैतद्रूपद्वयं पूर्वमेव षष्ठ्यन्तेन
पदेन निरूपितमेदस्य तन्निभिरूप्यमाणेष्वपि सर्वतःपाणिपादान्तत्वादिक्ष्वेवं लौकिकत्वेन वेदनं मा
भूदिति भिन्नप्रक्रमेणैतत्प्रकारकं वेदनं ब्रह्मणो निषेधति 'अथात' इत्यादिना । अयमर्थः ।
ब्रह्मण्यपि मूर्त्तामूर्त्तरूपे सर्वतःपाणिपादान्तेत्यादिश्रुत्युक्ते वेदितव्ये । परन्त्वित्यनेन प्रकारेण न
वेदितव्ये ब्रह्मग एते रूपे इति, किन्तु ब्रह्मैवेति वेदितव्ये इत्यर्थः । अत्र विनिगमकमाह सूत्रकारः
'ततो ब्रवीति च भूय' इति । शेषं स्फुटम् ।
यत्तु प्रकृतशब्देन 'द्वे वा व ब्रह्मण' इत्यादिनोक्तं मूर्तामूर्तलक्षणं रूपद्वयं परामृश्यत इति
मतम्, तत्र प्रकृतत्वं प्रतिषेधतीत्येतावत्तैव चारितार्थ्ये सत्येतावत्पदं व्यर्थम् । नच प्रकृतस्य ब्रह्मणः
प्रकृते वा ब्रह्मणि एतावत्त्वं प्रतिषेधतीति व्याख्यानान्न दोष इति वाच्यम् । तथा सति 'ततो
ब्रवीति च भूय' इत्यस्य वैयर्थ्यापातात् । प्रकृतपदेनैव ब्रह्मप्रमितौ तदभावशङ्कानुदयेन तत्सत्चायां
मानाकाङ्क्षार्थं तत्कथनप्रयोजनाभावात् । तस्मादसदुक्त एवार्थ इति ॥ २२ ॥ इति षष्ठमम्बुवद-
ग्रहणादित्यधिकरणम् ॥ ६ ॥
रश्मिः ।
देनेकैकेन। अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातीति षोडशिग्रहणाग्रहणयोर्विकल्पस्येव ।
षष्ठ्यान्ताद्वतिः । अशक्येति । व्यक्तिभेदाभावादितिभावः । अबोधकेति । दृष्टान्ताभावान्नथा ।
एवेति । प्रक्षालनपङ्कन्यायेनैवकारः । विद्वन्मण्डनेयं विषयः स्पष्टः । सर्वत्रेतिभाष्यं विवृण्वन्ति स्म
लौकिकं निषेधती। एवेति । नित्यानां निषेधायोगात् । एवेति । 'लौकिकं नैव मनुत' इत्याचार्यव-
चसः। नित्यानित्यसंयोगापत्तेश्च । अलौकिका एवेति। एवकारार्थ उक्तः। नामेति। स्थूलसर्वकामादि-
नाम्नां तौल्येनालौकिकानामवति लौकिकानामवत्त्वेन ज्ञानमितिभ्रमः । तस्मादितिभाष्यं विवृण्वन्तिस्म
तस्मादिति । अनन्विति । युक्तीर्विनाननुसन्दधानानाम् । युक्त्यापीति । अपिशब्देन परमार्थतः ।
आचार्येण व्यासेन ॥ २२ ॥ इति षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥
1672

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७
तदव्यक्तमाह हि ॥ २३ ॥ ( ३-२-७. )
शाब्दबलविचारेण विरोधं परिहृत्यार्थबलविचारेणाविरोधप्रतिपादनायाधिक-
रणमारभते । सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्त्यन्ते । 'न चक्षुषा गृह्यते' 'कश्चि-
द्धीरः प्रत्यगात्मानमैक्षत्,' 'नापि वाचा' 'सर्वे वेदा यत् पदमामनन्ति' 'अप्राप्य
मनसा सह' 'मनसैवैतदाप्तव्यम्,' 'अस्पर्शमगन्धमरसम्' 'सर्वरूपः सर्वगन्धः
सर्वरसः', 'अपाणिपाद' इत्यादि 'विश्वतश्चक्षु'रित्यादि, 'निर्गुणञ्च' 'यः सर्वज्ञः
सर्वशक्ति'रित्यादिविरुद्धवाक्यानि । न हि वस्तु द्विरूपं सम्भवति । वाक्यद्वय-
मपि प्रमाणम् । तथा सति प्रमाणान्तरानुरोधेनैकस्य स्वार्थे प्रामाण्यम्, अन्यस्यो-
पचरितार्थत्वमिति युक्तम् । तत्र प्रत्यक्षानुरोधेन निर्णयो विचार्यते ।
तत्र पूर्वपक्षमाह । तदव्यक्तम् । तत् ब्रह्म अव्यक्तमेव भवितुमर्हति ।
भाष्यप्रकाशः।
तदव्यक्तमाह हि ॥ २३ ॥ अधिकरणप्रयोजनमाहुः शाब्दबलेत्यादि । तथाच यद्यपि
स्वविचारे तस्यानावश्यकत्वम्, तथाप्यन्यैः ऋषिभिरर्थबलेन विचारस्याङ्गीकृतत्वात् तेनाविचारे
तेषां निर्विशेषपक्षपातात् सविशेषश्रुतिः पीड्येत, विचारिते त्वर्थसामर्थ्ये वस्तुस्वभावादेवोभय-
सम्भवाच्च श्रुतिपीड्येतस्तन्निवारणार्थं तदारभत इत्यर्थः । ननु विरुद्धवाक्येषु चिन्तितेषु
किमवशिष्टं येनार्थबलाद्विरोधोत्थानमित्यत आहुः सर्वाणीत्यादि । सर्वाणीति । प्रमाणाग्राह्य-
त्वतद्ग्राह्यत्वयोर्धर्मराहित्यतद्वत्त्वयोराकारराहित्यतद्वत्त्वयोर्गुणराहित्यतद्वत्त्वयोर्बोधकानि । 'सर्वरूप'
इत्यनेन 'यथामाहारजनं वास' इत्यादिश्रुतिस्तद्विरुद्धा 'अरूपमव्यय'मिति श्रुतिश्च स्मार्यत इति
बोध्यम् । सन्देहमाहुः न हीत्यादि । तथाच लौकिकालौकिकभेदेन व्यवस्थायां कृतायां मास्तु
शब्दे संशयः, तथाप्यर्थे संशयो दुर्वार इत्यर्थः । सन्देहबीजमाहुः वाक्येत्यादि । तत्रं पूर्वपक्षमुत्थाप-
यितुमापाततो निर्णयप्रकारं वदन्ति तथा सतीत्यादि, विचार्यत इत्यन्तम् ।
पूर्वपक्षमाहुः तत्रेत्यादि । यद्यपि पूर्वं सर्वप्रमाणापेक्षया शब्दस्यैव प्राबल्यं निर्णीतम्,
तथापि शब्दस्यार्थसापेक्षत्वादर्थबलेनैव विचारो मुख्य इति श्रुत्यर्थनिश्चयानायार्थबले विचार्ये
रश्मिः।
तदव्यक्तमाह हि ॥ २३ ॥ तस्येति । अर्थबलविचारस्यास्मिन्भगवद्व्याससते शब्दबलसिद्धे-
नावश्यकत्वम् । अन्यैरिति । अत्रैव बादरिप्रभृतिभिः । यथेति । आमाहारेण जनं जननम् । वर्णलोपः ।
वासः शरीरे इत्यनव्ययम् । संशय इति । चक्षुर्ग्राह्यो ग्राह्यो वेत्यादिः । सन्देहबीजमिति । प्रमाणं
विकल्पोत्पादकं बीजमित्यर्थः । 'श्रुतोर्विरोधे विकल्प' इति मनुस्मरणात् । आपातत इति । अविचार
आपातस्तस्मात् । एकदेशिनिर्णयप्रकारम् । पूर्वमिति । प्रथमाध्यायद्वितीयचरणे वैश्वानराधिकरणे । शाब्द-
स्यैवेति । एवकारस्तु 'केवलं शब्दबलविचारका आचार्या' इति 'साक्षादप्यविरोधं जैमिनि' रितिसूत्र-
भाष्यात् । शब्दस्यार्थेति । घटं दृष्ट्वा घटशब्द इति तथा । यद्यप्यर्थस्य शब्दसापेक्षत्वं 'शब्द इति चे'-
दितिसूत्रात्, तथापि पूर्वपक्षग्रन्थस्यानुक्तम् । एवेति । 'अर्थबलविचारको बादरि'रिति तथा । 'केवलार्थवि-
१. तत्रापाततो निर्णयप्रकारं बदन्तः पूर्वपक्षमुत्थापयन्तीति पाठः मूले।
ब्र० सू० २० १८
1673

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ७ सू० २४.
कुतः । आह हि । श्रुतिप्रत्यक्षाभ्याम् । 'नेति नेत्यात्मा अग्राह्यो न हि गृह्यत' इति ।
'न हि गृह्यत' इत्यनुभवसाक्षिकं प्रमाणं श्रुतिराह । न हि केनचिदपि चक्षुषा मनसा
वा ब्रह्म दृष्टमस्ति । सर्वरूपत्वे तु सर्वैरेव द्रष्टुं शक्येत । तस्मात् सर्वधर्मवत्त्वेन
प्रतिपादकान्युपचरितार्थान्येव । अनुभवविरोधादित्येवं प्राप्तम् ॥ २३ ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
अपीति पूर्वपक्षगर्हायाम् । सर्वथा मूर्खः पूर्वपक्षवादी । यतः संराधने
सम्यक् सेवायां भगवत्तोषे जाते दृश्यते । 'श्रद्धाभक्तिज्ञानयोगादवैहि' 'यमे-
भाष्यप्रकाशः ।
पूर्वपक्षमाहेत्यर्थः । हेतुं व्याकुर्वन्ति आह हीति । हि श्रुतिप्रत्यक्षाभ्यां हेतुभ्यां श्रुतिराह ।
अतस्तदव्यक्तमिति योजना । श्रुतिप्रत्यक्षाभ्यामिति यदुक्तम्, तत्र का श्रुतिः, किं प्रत्यक्ष-
मित्याकाङ्क्षायां तदेव विभजन्ते नेतीत्यादि । अस्यां श्रुतौ कथं प्रत्यक्षप्राप्तिरित्यत आहुः नही-
त्यादि । तदेव विवृण्वन्ति न हि केनचिदित्यादि ॥ २३ ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ सूत्रं व्याकुर्वन्ति अपीत्यादि । अत्र दर्श-
नसूत्रोक्तो दृशिर्व्यवहितोऽप्यर्थबलात् परामृश्यते । तथाच केवलस्य प्रत्यक्षादेः प्रमाणस्य लौकिकत्वेन
नैर्बल्येपि साधनबलसिद्धस्य तस्यालौकिकत्वेन प्रबलत्वात् केवलानुभवविरोधोऽप्रयोजक इति
साधनसिद्धेन प्रत्यक्षेण निर्णय इत्यर्थः । हेतुं व्याकर्तुं श्रुतिस्मृती उपन्यस्यन्ति श्रद्धेत्यादि । इयं
रश्मिः ।
चारको बादरि'रिति उक्तसूत्रभाष्यात् । नहि केनचिदित्यादीति । सर्वैरेवेति । योग्यत्वादेवकारः ।
उपचरितेति । उपचारो व्याख्यातः । एवकारः सर्वेषां दर्शनाभावात् ॥ २३ ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ केवलस्येति । श्रुतिरहितस्य । पूर्वं
'श्रुतिप्रत्यक्षाभ्या'मित्युक्तत्वात् । प्रत्यक्षादेरित्यत्रादिशब्देनानुमानादि । भाष्ये प्रत्यक्षस्योपलक्षकत्वात् ।
तथा च 'सर्वैरेव द्रष्टुं शक्येते'तिभाष्याद्वह्निरूपत्वे धूमरूपेणानुमातुं शक्येत । गवरूपत्वे उपमातुं शक्येत ।
घटादिरूपत्वे शब्दितुं शक्येतेति बोध्यम् । केवलानुभवेति । केवलस्य धर्मशून्यस्य नीरूपत्वादनुभवो
विरुद्धयते, तद्विषयको न भवतीत्यर्थः । नीरूपत्वसमानाधिकरणो न भवति । तथाच 'मूर्खो देहाद्यहं-
बुद्धि'रिति वाक्यात् अग्राह्यत्वेन प्रकारेण प्रत्यक्षशून्यो देहाद्यहंवादी । अग्राह्यत्वस्योपचरितत्वात् ।
'कश्चिद्धीरः प्रत्यगात्मानमैक्ष'दित्युक्तप्रकारेण प्रत्यक्षशून्यो देहाद्यहंबुद्धिः । ताम्बूलमदशक्तिवदप्यद-
र्शनम् । व्यापकत्वेनाप्यदर्शनम् । किञ्च । आत्मोपनिषदूक्तरीत्यात्मत्वेन देहप्रत्यक्षशून्यः आत्मत्वेनान्त-
रात्मप्रत्यक्षशून्यः । इति भाष्ये सर्वथाशब्दः । एवं देहाध्यासे 'अहं स्थूल' इत्यादौ ह्यस्मच्छब्दः
प्रत्यगात्मवाचको व्याख्यातः । अहङ्कारेऽस्मच्छन्दप्रयोगं कृत्वा भाष्यं यत इत्यादि । देहगेहादि-
ष्वहममेत्यभिमानवता भगवान्न दृश्यते । अभिमानस्य तामसत्वेनाज्ञानकार्यत्वादज्ञानस्य च दर्शनावर-
कत्वात् । यतो यथाकथञ्चिदप्यमूर्खत्वमवलम्ब्य सम्यक्संराधने । करणल्युडन्तं पदम् । सम्यक्संसि-
द्धिर्येन पुष्टिसैवनेन मोक्षावान्तरकालनिर्गमाय तत्संराधनं त्वस्मिन्संराधने तदाहुः, सम्यक्सेवाया-
मिति । ननु सिद्धिजनकोऽन्योपि पदार्थोऽस्तीत्यत आहुः भगवत्तोष इति । 'यद्भक्त्या तुष्यते हरि'-
रिति वाक्यान्नान्यपदार्थो भगवत्तोषजनक इति सिद्धमुपस्थापिका सेवैवात्र व्यासाशयीयेति भावः ।
नन्वधोक्षजत्वात्सेवायामप्यदर्शनमस्त्विति चेत्, तत्राहुः दृश्यत इति । स्वेच्छया दृश्यो भवति । अथवा
1674

यैष वृणुते तेन लभ्यः' 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं
च तत्त्वेन प्रवेष्टुं च परन्तपे'ति । द्विविधमपि रूपं दृश्यते । 'ततस्तु तं पश्यते
निष्कलं ध्यायमानः' 'अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूप'मिति
संराधकस्य स्वानुभवः, ध्रुवादीनामनुमापकत्वं च । तस्मात् प्रत्यक्षानुमानाभ्यां
भाष्यप्रकाशः।
कैवल्योपनिषत्स्या । परमेष्ठिना आश्वलायनं प्रत्येतेन साधनेन जानीहीत्यत्रोपदिष्टम् । ज्ञानविषयं
च ब्रह्म सर्वदेवतादिमयं शिवाकारं निराकारं चोपदिष्टम् । द्वितीया काठके मुण्डके च । तत्राद्ये,
'आसीनो दूरं व्रजती'त्याद्युक्त्वोक्ता । तत्राप्यासीनत्त्वादिना साकारताया 'अशरीर'मित्यनेनाना-
कारतायाश्च लाभः । द्वितीयेपि द्वितीयमुण्डके विरुद्धधर्माश्रयं परमात्मानं प्रस्तुत्योक्ता । अत्र 'तनुं
स्वा'मिति कथनात् साकारलाभ इति तत्राप्येवम् । गीतावाक्यं तु विश्वरूपं दर्शयित्वा ततः स्वरूपं
चतुर्भुजाकारं प्रदर्शयोक्तं भगवता । द्विविधमिति । साकारं निराकारं च । तथाच श्रुतिस्मृत्यु-
क्तसंराधकप्रत्यक्षानुरोधेनार्थबले विचारितेपि निराकारं साकार

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown प्रारूप में) दिया गया है:

१४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ८ सू० २५
श्रुतिस्मृतिभ्यां वा ब्रह्म साकारमनन्तगुणपरिपूर्णं चेति नाव्यक्तमेवेति निश्चयः ।
अतो लौकिकालौकिकप्रत्यक्षविषयत्वादुभयवाक्यार्थरूपमपि ब्रह्म ॥ २४ ॥
इति तृतीयाध्याये द्वितीयपादे सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ (३. २. ८.)
पुनः प्रकारान्तरेण पूर्वोक्तमेव स्थिरीकर्तुमधिकरणान्तरमारभते ।
तत्र सूत्रद्वयेन पूर्वपक्षद्वयमाह ।
ननु प्रत्यक्षानुरोधेनोभयविधवाक्यसमाधानं नोपपद्यते, वस्तुशक्त्यैव
निर्णय उचितः, न तु श्रुतिप्रत्यक्षाभ्याम्, यथा प्रकाशाजलसुवर्णादीनामने-
कविधत्वं नाङ्गीक्रियते, सूर्यचन्द्रमणिप्रकाशादिषूष्णशीतानुभवरूपस्पर्शाः प्रती-
यन्ते, न हि तेजसि तावन्तः स्पर्शा अङ्गीक्रियन्ते, जले च हिमतप्तकुण्डा-
दिषु, तथा सुवर्णे वर्णभेदाः, न हि सर्वे स्वाभाविकाः, तेजस्त्वादिखभावहानि-
प्रसङ्गात्, तथा ब्रह्मणोऽप्यवैशेष्यमङ्गीकर्तव्यम्, निर्विशेषं हि ब्रह्मेति सर्वप्र-
सिद्धिः । यकारादेवं साधकाः 'अग्राह्यो न हि गृह्यत' इत्येवमादयः ।
भाष्यप्रकाशः ।
साधनं दर्शनसूत्रादत्राधिकम् । तेन प्रकाशवत्सूत्रोक्तमेव दृढीकृतं ज्ञेयम् ॥ २४ ॥ इति सप्तमं
तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५॥ अधिकरणप्रयोजनमाहुः
पुनरित्यादि । ब्रह्मणः श्रुत्येकसमधिगम्यत्वाच्छ्रुत्यवगतस्वरूपस्यैव बलेनोभयरूपत्वं दृढीकर्तुम-
धिकरणान्तरमुपोद्घातसङ्गत्यारभते । अत्र ब्रह्मस्वभावः संराधकप्रत्यक्षेणावधारयितुं शक्यः, न वेति
संशयः । साधनस्य ज्ञानार्थत्वम्, अग्राह्यश्रुत्या ब्रह्मणो दुर्ज्ञेयत्वं च सन्देहबीजम् । पूर्वपक्षौ तु तत्र
द्वाविति तावाहुः तत्रेत्यादि । पूर्वपक्षद्वयमिति । भक्तप्रत्यक्षेण न निर्णय इत्येकः । श्रुत्यापि
नेत्यपरः । स च द्वितीयसूत्रे फलितकथनेन स्फुटो भवतीति तथेत्यर्थः । कुतो वस्तुशक्त्यैवेत्यतो
दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । एतस्यैव विवरणं सूर्यचन्द्रेत्यादि । एवं साधका इति ।
रश्मिः ।
प्रामाणिकमेव प्रमेयबलाभावादिति तथा । भाष्ये । ध्रुवादीनामिति । 'स्वरूपं द्विविधं चैव सगुणं
निर्गुणं तथे'ति गोपालतापनीयादुभयाविरोधपश्यकानाम् । द्वितीयस्कन्धपञ्चमाध्यायोक्तब्रह्मादिशब्देन ।
गोपालतापनीयोक्तब्रह्मणश्च तादृशोभयधर्मवत्त्वानुमापकत्वम् । ब्रह्म तादृशोभयधर्मवत् । ध्रुवादीनां चक्षु-
र्विषयत्वात् । घटादिवत् । चक्षुर्विषयत्वादूषघटलोभयधर्मवत्त्वम् । अव्यक्तमेवेति । व्यक्तयोगव्यवच्छे-
दक एवकारः । उभयेति । सर्वधर्मप्रतिपादकवाक्यानां धर्मनिषेधकवाक्यानां चार्थरूपम् ॥ २४ ॥
इति सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ पूर्वोक्तमित्यादि-
भाष्यविवरणं उभयरूपत्वं दृढीकर्तुमिति । अत्र भाष्य एवकारोऽग्रिमसूत्रीयोभयव्यपदेशयोग्य-
व्यवच्छेदकः । उपोद्घातेति । प्रकृतं 'न स्थानतोपि परस्योभयलिङ्ग'मिति सूत्रादारभ्य यदुभयरूपत्वं
तत्सिद्ध्यर्था चिन्ता पूर्वपक्षद्वयचिन्ता । सङ्गता । ताविति । पूर्वपक्षौ । वस्तुशक्त्यैवेति । वस्तु-
शक्त्या निर्दोषत्वरूपया । एवकारस्तु भक्तप्रत्यक्षं चक्षुस्तस्य सदोषत्वायो गस्य व्यवच्छेदकः । भाष्ये ।
अङ्गीति । अस्माभिरङ्गीक्रियन्ते । जले चेति । विचार्यमाणे । हिमकुण्डः प्रसिद्धः । तप्तकुण्डः
१ केवलं तद्वलेनेति मूके पाठः ।
1676

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४१
ननूक्तं तस्य तथा साक्षात्कारात् तादृशश्रुतेश्च नैकविधत्वमङ्गीकर्तुं शक्यत
इति । नैष दोषः । प्रकाशश्च कर्मणि । तपःप्रणिधानादिकर्मणि भगवतः प्र-
काशः । तत्र यथा तेषां कामः, तथा प्रकटीभवति । चकारादप्रकाशोऽन्यथाप्र-
काशो । तत्र हेतुः । अभ्यासादावृत्तेः । यद्येकवारं प्रकटः स्यात्, तदा तद्रूपत्व-
मङ्गीक्रियेतापि । प्रतिभक्तं प्रतिकर्म चाविर्भावः । अतः प्रकाशोपि कृत्रिम एव ।
दीपप्रकाशवत् । अन्यथा सर्वदा स्यात् । तस्मान्न भक्तप्रत्यक्षेण निर्णयः ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
फलितमाह । अतः अभ्यासात् । अनन्तेन अनन्तरूपेण आविर्भावः । न
ह्येकं वस्तु प्रतिक्षणमन्यादृशं भवति निमित्तभेदव्यतिरेकेण । क्वचित् भक्तका-
म

' ? No:
ता (1) त्प (2) र्ये (3) नो (4) च्छे (5) दा (6) प (7) त्तेः (8)
Wait, let's look at the characters:
ता (1)
त्प (2)
र्यो (3) - wait, is it र्यो?
No, it has: ता-त्-प-र्यो-च्छे-दा-प-त्-तेः - wait, let's count:
ता त्प र्ये नो?
Wait, there is a letter with 'े' and then 'नो'?
No, look at: "तात्पर्येणोच्छेदापत्तेः"?
Wait! 'णो'? 'नो'? It has a loop on the left: 'नो'.
Wait, why not just read what is visible?
"तात्पर्येनोच्छेदापत्तेः"
धर्माश्रयत्वे तात्पर्यवृत्तेर्ज्ञापनाथमित्यर्थः । श्रौतपदस्वारसिकार्थो व्यर्थः सन् किञ्चिज्ज्ञापयति तात्पर्यवृत्ति-
रस्तीति । श्रुतित्वादेवकारः । श्रुतिज्ञापितं सर्वथादरणीयमिति । तच्चेति । विरुद्धधर्माश्रयत्वम् । निर्णी-
तमिति । शास्त्रे योनिः शास्त्रयोनिः शास्त्रोक्ताभिन्ननिमित्तोपा

यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। १४३
तत् कथं स्वरूपशक्त्या निर्णयः। ब्रह्म तूभयरूपम् । उभयव्यपदेशात् । उभय-
रूपेण निर्गुणत्वेनानन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यपदेशात् । तर्हि कथ-
मेकं वस्त्वनेकधा भासते । तन्नाह । अहिकुण्डलवत् । यथा सर्प ऋजुरनेकाकारः
भाष्यप्रकाशः।
निर्णय इत्यर्थः । एवं तुशब्दं व्याख्याय शेषं व्याकुर्वन्ति ब्रह्मेत्यादि । न केवलं स्वरूपशक्त्या
निर्णीयते, किन्तु श्रुत्युपष्टम्भ्येत्यतो हेतुं विवृण्वन्ति उभयेत्यादि । उभयोर्विरुद्धधर्मयोर्व्यपदेश
उभयव्यपदेशस्तस्मात् । यत्रैवास्थूलादिवाक्ये निर्गुणत्वेन व्यपदिश्यते, तत्रैव 'आकाश ओतश्च
प्रोतश्चे'ति कथनात् कार्यगुणजनकत्वानन्तगुणवत्तापि बोध्यते । तथा, यत्र शारीरब्राह्मणे 'स एष
नेति नेत्यात्मा, अगृह्यो न हि गृह्यत' इत्युच्यते, तत्रापि 'स वा अयमात्मा सर्वस्य वशी सर्वस्ये-
शान' इत्यादिकं पूर्वमुच्यते । 'स वा एष महानज आत्मा अन्नादो वसुदान' इति चानन्तरम् ।
एवं श्वेताश्वतरेपि 'साक्षी चेता केवलो निर्गुणश्चे'त्युक्त्वा, 'एको वशी निष्क्रियाणां बहूनामेकं
बीजं बहुधा यः करोती'त्यादि । तथा तत्रैव 'ततो यदुत्तरतरं तदरूपमनामय'मित्येतदग्रे, 'सर्वा-
ननशिरोग्रीवः सर्वभूतगुहाशय' इति । एवं तैत्तिरीयेपि 'यदेकमव्यक्तमनन्तरूप'मिति, तथा 'विश्व-
तश्चक्षुरुत विश्वतोमुख' इत्यादि चोक्तम् । 'कृत्स्नः प्रज्ञानघन एवे'त्यस्यार्थस्तु प्रागेवोक्तः । तथा
'अथात आदेश' इत्यस्यापि । एतेष्वेवंविधेष्वन्येष्वपि उभयरूपेण व्यपदेशात् । तथाचास्थूलादिवा-
क्यस्य धर्मनिषेधमुखेनेव 'विश्वतश्चक्षु'रित्यादेर्धर्मविधिमुखेनापि ब्रह्मस्वरूपस्यैव निरूप्यतया धर्म-
विधिद्वारा तन्निषेधद्वारा च निरूपकाणां मध्ये एकस्योपजीव्यत्वमन्तरङ्गत्वम्, अन्यस्योपजीवकत्वं
बहिरङ्गत्वमिति निर्णेतुमशक्यत्वेनोभयवाक्ययोस्तुल्यबलत्वादुभयरूपमेव ब्रह्मेत्यर्थः । दृष्टान्तमव-
तारयन्ति तर्हीत्यादि । यद्युभयलिङ्गं ब्रह्म, तदा संराधनसिद्धानां सर्वेषां तथैव प्रकाशेत, न तु
कञ्चित् प्रति कथञ्चित्, अन्यं प्रत्यन्यथा, अत एकं वस्तु कथमनेकधा भासते, तत्र हेतुर्वक्तव्यः,
रश्मिः।
चेत् । न । तात्पर्यवृत्तिविषयस्य विरुद्धधर्माधारत्वस्य तेन प्रकारेणाज्ञानेऽज्ञानरूपत्वादन्यथाज्ञानरूपत्वा-
चाज्ञानान्यथाज्ञानयोरन्तर्भावात् । तत्कथमिति भाष्यं विवृण्वन्ति स्म अत इति । तच्छक्तेरिति ।
वेदपदशक्तेः । इत्यर्थ इति । निर्णयशब्दान्तभाष्यर्थः । स्वरूपेति । प्रमेयबलेन । उभयव्यपदेशश्रु-
त्युपष्टम्भेन । हेतुमिति । स्वरूपं न यथाश्रुतिप्रतिपाद्यं संज्ञतेः मूर्तामूर्तब्राह्मणवत् । स्वरूपं यथाश्रुति-
प्रतिपाद्यं उभयव्यपदेशात् अहिकुण्डलवदित्यत्र सप्रतिपक्षत्वसाधके हेतुम् । यत्रैवेत्येवकारो विरुद्धधर्मा-
धारत्वेन प्रतिपादनसूचक इत्युक्तम्। यत्रान्यत्र धर्मनिरूपणमन्यत्र निषेधस्तत्रारोपापवादसङ्गतिसन्देहोपी-
त्युक्तम्। कार्येति । 'आकाशशरीरं ब्रह्म'तिश्रुतेः 'आकाशो वै नामरूपयोर्निर्वहिते'ति तथा। बोध्यत इति ।
व्यञ्जनया बोध्यते । पूर्वमिति । स्पष्टम्। अनन्तरमिति । 'स एष नेति नेत्यात्मे' त्यस्या अनन्तरम् । प्रागे-
वेति । 'आह च तन्मात्र'मितिसूत्रभाष्यप्रकाशे 'दर्शयति' चेतिसूत्रभाष्यप्रकाशे च । एवकारश्च पश्चाद्योगव्यव-
च्छेदकः । एवंविधेष्विति । 'अपाणिपादो जवनो ग्रहीते'त्यादिषु । धर्मविधिमुखेनेति । धर्मवि-
धानं तत्कथनं तेनोपादेयेन । एवेति । 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतेरेवकारः । एवेति । अवधारणं
यथा भवति तथा । एकरूपत्वयोग्यव्यवच्छेदको वा। तथैवेति । सर्वरूपवत्वेन, नत्वेकेन तत्तत्संराधकं
१. आरोपापवादरूपायाः।
1679

१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ८ सू० २७.
कुण्डलञ्च भवति, तथा ब्रह्मस्वरूपं सर्वप्रकारं भक्तेच्छया तथा स्फुरति । कल्प-
नाशास्त्रे हीदं बाधकम् । अनेककल्पनागौरवं चेति । न तु केवलं श्रुत्येकसमधिगम्ये ।
न च शास्त्रवैफल्यम् । एवं साधनार्थत्वात् । अत्रैव हि सूरिव्यामोहादन्यशास्त्रो-
त्पत्तिः । अतः सर्वविरुद्धधर्माणामाश्रयो भगवान् । न हि प्रमाणश्रुतदृष्टे अनुप-
पत्तिरस्ति, यदर्थं युक्त्यपेक्षा । लोकेपि शरीरान्तःकरणादीनि परस्परविरुद्ध-
भाष्यप्रकाशः।
नो चेद्दर्शनस्याप्रामाण्यं वक्तव्यम्, ततश्च सर्वमेव शिथिलमिति शङ्कायां दृष्टान्तेन समाधिमाहेत्यर्थः ।
दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । भवतीति । तथा सामर्थ्यस्य विद्यमानत्वात् स्वरूपतस्तथास्ति ।
इदमिति । एकस्यानेकधा भानम् । यद्यपि सर्पः कालभेदेन स्वेच्छया तथा तथा भवति, ब्रह्म
[

यामारकत्वादीनि विषयभेदेनेकस्मिन्नपि क्षणे प्रतीयन्ते । तस्मात् सकलविरुद्धधर्मा
भगवत्येव वर्तन्त इति न कापि श्रुतिरुपचरितार्थेति सिद्धम् ॥ २७ ॥
इति तृतीयाध्याये द्वितीयपादेऽष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ (३. २. ९.)
धर्मस्वरूपविचारेण पूर्वोक्तपक्षद्वयं स्थापयितुमधिकरणारम्भः ।
ननु धर्मा नाम के, ब्रह्मणो भिन्नास्तत्कार्यरूपाः, आहोस्वित् ब्रह्मैवेति संशयः ।
तत्र लोके कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् समवेतत्वात् तन्नित्यतायां प्रमा-
भाष्यप्रकाशः।
तथात्वम् । एतेन 'तत्तद्वपुः प्रणयस' इत्यत्र प्रणयनं तत्तद्धर्मनोविषये प्रापणमेव, न तु करणमिति
बोधितम्। एतच्च 'श्रुतेस्तु शब्दमूलत्वात्' 'सर्वोपेता च तद्दर्शनात्' 'लोकवत्तु लीलाकैवल्य'मित्या-
दिषु यदुक्तम्, तस्यैवेह निगमनमिति न कोपि शङ्कालेशः । सिद्धमाहुः तस्मादित्यादि । एवञ्च
शब्दबलविचारेण विरुद्धसर्वधर्माश्रयो ब्रह्मेति निर्णयः । श्रुत्युक्तयुक्त्या विचारे तु लौकिकध-
र्मशून्यमलौकिकसर्वधर्मयुक्तमिति निर्णयः । अर्थबलविचारे तु विरुद्धसर्वरूपमिति निर्णय इति
बोधनार्थमत्र त्रेधा विचारितम् ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ अधिकरणप्रयोजनमाहुः धर्मेत्यादि । पूर्वोक्त-
पक्षद्वयमिति । पूर्वाधिकरणे निर्गुणमनन्तगुणपूर्णं च ब्रह्म सिद्धम् । तत्र ये गुणा धर्मास्तेषां स्वरूप-
विचारेण पूर्वोक्तपक्षद्वयम् । शब्दबलविचारसिद्धः 'प्रपञ्चविलक्षणविरुद्धसर्वधर्माधारं ब्रह्मे'त्येकः ।
अर्थबलविचारसिद्धः 'सर्वरूपं ब्रह्म तत्तत्फलदित्सया तत्तत्कार्यार्थं वा तं तं प्रति तथाविर्भवती'त्यपर
इत्येतत्पक्षद्वयं स्थापयितुं तथेत्यर्थः । विषयसंशयावाहुः नन्वित्यादि । धर्मवत्त्वश्रवणमद्वितीय-
श्रुतिश्च सन्देहबीजम् । पूर्वपक्षमाहुः तत्रेत्यादि । ब्रह्मधर्माणां स्वरूपे विचारणीये लौकिकमेव
प्रमाणमनुसर्तव्यम् । श्रुतौ तन्नित्यत्वस्यानुक्तत्वात् । तत्राप्यनुमानमेवाप्रत्यक्षत्वादार्तव्यम् ।
रश्मिः।
स्पष्टम् । 'यन्मनसा ध्यायति तद्वाचा वदति यद्वदति तत्करोती'ति श्रुतेः । तथात्वमिति । एकस्मिन्क्षणे
प्रतीतिविषयत्वम् । प्रतीतिकर्तृत्वं वा । प्रणयनमिति । यत्तद्वपुर्धर्मनोविषये स्थूलदेहे सृष्टे सूक्ष्मप्रापणं गोवि-
न्दावेश इत्यर्थः । एवेति । 'तत्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेरेवकारः । पुनरुक्तिं वारयन्ति स्म एतच्चेति ।
यदुक्तमिति । द्वितीयाध्याये यदुक्तम् । तस्यैवेहेति । एवकारोऽन्ययोगव्यवच्छेदकः । इहास्मिन्सूत्रे
निगमनं उभयव्यपदेशादिति हेतुघटितत्वात् । तस्माच्चेति निगमनवत् । तस्मादित्यादीति । उपच-
रितार्थेति । गौणार्था ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ सर्वकल्पनेति । पूर्वपक्षिमतम् । एवकारो
विरुद्धधर्मरूपान्ययोगव्यवच्छेदकः । विरुद्धेति । सिद्धान्तिमतम् । एवकारः सर्वकल्पनाराहित्यरूपा-
न्ययोगव्यवच्छेदकः । नन्वित्यादीति । ब्रह्मैवेत्येवकारो भिन्नरूपान्ययोगव्यवच्छेदकः । लौकि-
कमेवेति । एवकारेण श्रुतिप्रमाणयोगव्यवच्छेदः । अविनाशीतिश्रुतेरन्योर्थ इति । कार्यस्यैवेति ।
१. सर्वकल्पनारहितमेव ब्रह्म पञ्चाद्धर्मयुक्तं भवतीत्येकः । विरुद्धधर्माधारमेव ब्रह्मोक्तं तत्तत्फलदित्सया तत्तत्कार्यार्थं वा
तं तं प्रति तथा तथाविर्भवतीत्यपर इत्येतत्पक्षद्वयम्-इति मूले पाठः ।
ब्र० सू० २० १९
1681

१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
णाभावात् स्वाभाविकत्वमात्रेण नित्यत्वकल्पनायां गौरवापत्तेः 'एकमेवाद्वितीय'-
मिति श्रुतिविरोधाच्च धर्माः प्रपञ्चवत् कार्याः, तथा सति ब्रह्म सर्वकल्पनारहित-
मेव सेत्स्यतीत्येवं प्राप्ते, इवमुच्यते। प्रकाशाश्रयवद्वा । वाशब्दः पक्षं व्यावर्त-
यति । यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः । पृथक्स्थित्यभावात् ।
समवेतत्वाच्च । मूलाविच्छेदरूपेण तदाधारतया स्थितत्वाच्च । नापि सूर्य एव ।
भाष्यप्रकाशः ।
लोके च कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् तत्समवेतत्वाच्च धर्मत्वलिङ्गके दृष्टान्ताभावेन, नित्यव-
स्तुसमवेतत्वलिङ्गके चानुमाने आकाशत्वस्य दृष्टान्तस्य सत्त्वेपि शब्दादिदृष्टान्तेन हेतोः
साधारणतया तन्नित्यतायां प्रमाणाभावात् । स्वाभाविकत्वं हेतूकृत्याकाशत्वं दृष्टान्तीकृत्य तन्मात्रेण
साधने यद्यपि तत् सिध्यति, तथापि तत्कल्पनायां नित्यवस्त्वन्तरसिद्ध्या गौरवापत्तेरद्वितीयश्रु-
तिविरोधाच्च गौरवस्थाप्रामाणिकत्वात् तथेति । 'तद्व्यक्तमाह ही'त्यनेनोक्त एव पक्ष आदरणीय
इत्यर्थः । समाधिं व्याकुर्वते इदमित्यादि । प्रकाशाश्रयवदिति । प्रकाशस्याश्रयाः प्रकाशा-
श्रयास्तैस्तुल्यम् । प्रथमार्थे वतिः । सूत्रं व्याकुर्वन्ति वाशब्द इत्यादि । पूर्वाधिकरणेऽहि-
कुण्डलदृष्टान्तेनैकस्य ब्रह्मणः सधर्मकत्वनिर्धर्मकत्वसिद्ध्या धर्मानामपि ब्रह्मरूपत्वमेव सिद्धम्, अत्र
तु धर्मधर्मिणोर्भेदाभेदः साध्यते । अन्यथाैतत्सूत्रवैयर्थ्यमेव स्यात् । भिन्नाभिन्नत्वं कार्यकारण-
भावेन पटतद्रूपयोर्धर्मधर्मिभावेन जातिव्यक्त्योर्दृष्टम् । तत्र वाशब्दः प्रथमं पक्षं व्यावर्तयति ।
ब्रह्मतद्धर्मो कार्यकारणभावेनैक्यरूपौ न भवतः, किन्तु यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन
सह न भिन्नाः, न विनाभूताः, नित्यसहचारिण इति यावत् । तत्र हेतुः । पृथक्स्थित्यभावात् ।
एवं प्रकाशोपि न सूर्यादिविनाभूत इत्यर्थबलाज्ज्ञातव्यम् । तदेतत् 'समवेतत्वाच्चे'ति चकारेण
समुच्चिन्वन्ति । तत्र हेतुः । समवेतत्वादिति । अयुतसिद्धत्वात् । तज्जन्यधर्मेष्वप्यस्तीति तथा-
त्ववारणाय हेत्वन्तरमाहुः मूलाविच्छेदेति । सर्वेपि भगवद्धर्मा भगवद्विनाभूता भगवदविभक्ता
इत्यर्थः । अत्र यद्यपि पृथक्स्थित्यभावादित्यनेनैव तथात्वसिद्धावपि यद्धेतुद्वयमुक्तम्, तेन प्रपञ्च-
स्याक्षरस्य च भिन्नाभिन्नत्वं निबन्धोक्तं स्मारितम् । एवमभेदे मानमुक्त्वा भेदे मानमाहुः नापी-
त्यादि । प्रकाश इति शेषः । चकार आधाराधेयभावस्य 'परास्य शक्ति'रित्यादिषष्ठीनिर्देशस्य च
रश्मिः ।
एवकारः कारणान्ययोगव्यवच्छेदकः । तद्धर्मत्वादिति । तन्तुमृदादिधर्मत्वात् । तावत्तन्तुकपालादि-
समवेतत्वात् । यद्वा । धर्मी नित्यः धर्मत्वादित्यनुमाने दृष्टान्ताभावेन । धर्मी नित्यः नित्यवस्तुसमवेतत्वात्
आकाशत्ववदित्यत्र । शब्दादीति । एकदेशिमतेन शब्दादि द्रष्टव्यम् । पक्षभिन्ननिश्चितसाध्यवत्त्वं
दृष्टान्तत्वम् । तेन शब्दादिषु पक्षभिन्नेषु निश्चितसाध्यवत्सु । नित्यवस्तुसमवेतत्वरूपहेत्वभावः साध्य-
व्यापकत्वसाधकः । तेनादिशब्दार्थवशे साध्याभाववति नित्यवस्तुसमवेतत्वरूपहेत्वभावात्साधारण्यं साध्या-
भाववद्वृत्तित्वरूपम् । ननु नाकाशदृष्टान्तः निश्चितसाध्यवत्त्वाभावादिति चेन्न । न शब्दादिदृष्टान्ते हेतोः
साधारणता, किन्तु शब्दशब्दस्मारिताकाशहेतोः साधारणता प्रसङ्गः पुरुष इति तथेत्यर्थात् । स्वाभा-
विकत्वेति भाष्यं विवृण्वन्ति स्म स्वाभाविकत्वमिति । धर्मा नित्याः स्वाभाविकत्वात् आकाश-
त्ववत् । नित्यवस्त्विति । जातिसिद्धा । एतादृशत्वम् । भेदे इति सतिसप्तम्यन्तम् ।
भेदसामानाधिकरण्य एतादृशत्वं भिन्ननिष्ठम् । तथेत्यग्रेतनभाष्योक्तम् । अत्रैवकारः विरुद्धधर्माधारत्वकल्प-
1682

भिन्नप्रतीतेर्विद्यमानत्वाच्च । तादृशमेव तद्वस्तूत्पत्तिसिद्धमिति मन्तव्यम् ।
कल्पनायामपि यथा सूर्यप्रकाशयोः कल्पना, एवं ब्रह्मधर्मयोरपि । न ह्यन्यथा
वेदप्रवृत्तिर्निषेधशेषता सत्यज्ञानानन्तानन्दपदानां सामानाधिकरण्यं वा सम्भ-
वति । लक्षणायां तु सुतरामेव धर्मापेक्षा । अतो विशिष्टपदार्थ एव तादृशो वेद-
समुच्चयकः । तेन सिद्धमाहुः तादृशमित्यादि । प्रकाशरूपं वस्तु मूलाद्भिन्नमप्यभिन्नमेवोत्पत्ति-
सिद्धमिति मन्तव्यम् । युक्तिभिरनुचिन्तनीयम् । यथा अमित्रो न मित्रम्, न मित्राभावः, किन्तु
मित्रविरुद्धसम्पत् । यथा चाविद्या न विद्या, न विद्याभावः, किन्तु विद्याविरुद्धं भावरूपमज्ञानम्,
एवं प्रकाशतदाश्रययोरभेदोपि न भेदः, न भेदाभावः, किन्तु भेदविरुद्धसम्पदेव भावरूप इति
विभावनीयम् । सा च सम्पत्, भावरूपत्वे सति स्वाश्रयाविनाभूतत्वं तद्विहायावर्तमानत्वमिति
यावत् । न चेतादृक्त्वमन्योन्याभावरूपे भेदेस्तीति । तथाच कल्पनायामपि यथा सूर्यप्रकाश-
योस्तादात्म्यरूपस्य भेदविरुद्धसम्पदोऽभेदस्य कल्पना, एवं ब्रह्मधर्मयोरपि परबोधनाय कार्ये-
त्यर्थः । नन्वत्र का वा उपपत्तिर्येन धर्माणां सदा सत्तामङ्गीकृत्य तादृशोऽभेदः कल्प्यत इत्यत
आहुः न हीत्यादि । यदि हि स्वाभाविकधर्मसत्तानभ्युपगम्य सर्वविशेषशून्यमेव ब्रह्माङ्गीक्रियते,
तदा केवलचिन्मात्रत्वेन प्रतिपिपादयिषितस्य ब्रह्मणः सकाशात् 'अस्य महतो भूतस्य निःश्वसि-
तमेतद्यदृग्वेद' इत्यादिना श्राविता चेतनधर्मरूपा वेदप्रवृत्तिर्न सम्भवेत् । 'अथात आदेश'
इत्यत्र पराभिमता निषेधशेषतापि न सम्भवेत् । तस्या अपि विशेषत्वात् । 'सत्यं ज्ञानमनन्तं
ब्रह्मे'ति स्वरूपलक्षणश्रुतौ 'विज्ञानमानन्दं ब्रह्म'तिश्रुतौ चोक्तं सत्यादिपदानामेकवस्तुवाचकत्वमपि
नायोगव्यवच्छेदकः । अभिन्नमेवेति । एवेत्यत्र तृतीयालुक् । अवधारणेनेत्यर्थः । नन्वभिन्नमेव
भिन्नमिति कुतो न कल्प्यत इत्यत आहुः नहीति । अभेदे सिद्धं ब्रह्म विरुद्धधर्माश्रयमितिग्रहणात्पृथिवि-
वीवदित्यनुमानेन एतादृशत्वे खण्डब्रह्मवादापत्याखण्डब्रह्मवादो हीयेत । एतां पृथिवीमिव तं पश्यन्ति
भक्ता जनाः । एवमेवान्यस्तु पश्यति इति विवृद्धिकार्ये तादृशं तत्त्वम् । 'त्यदादिषु दृशोऽनालोचने कञ्चे'-
तिसूत्रम् । पूर्वविग्रहास्तु सूत्रस्य सर्वतोमुखत्वाद्यथाकथञ्चिज्ज्ञेयाः । अनालोचनेऽविचारे इत्यर्थमादाय ।
नच वृत्तिविरोधः । श्यालखशोरित्यत्र 'पुमान् स्त्रिये'त्यस्य वृत्त्यनङ्गीकारात् । तथा मनोरमायां तादृशादयस्तु
रूढिशब्दत्वादसत्तार्थावयवार्थेन व्युत्पाद्यन्ते । अतएवाज्ञानार्था दृशेरिति सङ्गच्छत इति । न हि स्वमते
केवलरूढिरस्ति । महाभाष्योक्तयोगेन रूढिशब्दत्वादिति मनोरमाविरोधः । नन्वस्तु विरोध इति चेत् ।
न । 'लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम्, न विचारस्तत्र कार्य' इति निषेधात् । तर्हि रूढौ यः
कोपि योगो न भवेदिति चेत् । न । 'लोकसिद्धं प्रस्तुत्य वैदिको बोध्यते यथा,' वैदिकबोधार्थं रूढौ
यथाकथञ्चित् योगोप्यस्तु । आचार्यरोक्तत्वात् । मा भून्महाभाष्योक्तयोग इति रूढ्यभावात् । नच
माध्वानां भेदे एतादृशत्वमस्तीति वाच्यम् । उभयव्यपदेशाधिकरणे चतुःसूत्रे आनन्दादिरूपोपि श्रुतिबला-
दानन्दगुणकोपीति सर्वत्र माहात्म्यमेवोच्यते मत्वर्थमित्यर्थात् । कल्पनायामिति भाष्यं विवृण्वन्ति
स्म तथाचेति । वस्तुनस्तादृशत्वे विरुद्धधर्माश्रयत्वे उत्पत्तिसिद्धे सति । तादृश इति । तादात्म्यरूपः ।
एवेति । विरुद्धधर्माश्रयत्वरूपान्ययोगव्यवच्छेदकः । निषेधेति । मूर्त्तामूर्त्तस्य विवर्त्तत्वेन तथा । तस्या
इति । निषेधशेषतायाः । विशेषत्वं विवर्तत्वं तस्मात् । सत्येत्यादिभाष्यं विवृण्वन्ति स्म सत्यमित्या-
दिना । एकेति । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यम् । भाष्ये तस्यार्थः ।

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
भाष्यप्रकाशः।
न सम्भवेत् । तेषां सत्यत्वादिविशिष्टवाचकत्वात् , सत्यत्वादीनां च धर्मत्वात् । नच सत्यादिपदानां
लक्षकत्वमेव । असत्यजडसान्तदुःखव्यावृत्तमेकरूपमेव ब्रह्म लक्ष्यत इति न तेषां सामानाधिकर-
ण्यभङ्ग इति वाच्यम् । लक्षणायां तु सुतरां धर्मापेक्षा । निर्धर्मकस्य क्वापि लक्ष्यत्वादर्शनात् ।
लक्षणायाः शक्यसम्बन्धरूपत्वेन ब्रह्मणि सत्यादिपदशक्यसम्बन्धलक्ष्यत्वयोर्धर्मयोरापाताच्च ।
किञ्च । लक्ष्यत्वे यत्किञ्चिच्छब्दवाच्यत्वमप्यर्थादेवायातम् । लक्ष्यत्वस्य वाच्यत्वव्याप्यत्वात् ।
यत्तु लक्ष्यत्वे सधर्मकत्वस्योपाधित्वान्न व्याप्तिरिति कश्चित् ।
तन्न । लक्ष्यत्वेनैव धर्मेण ब्रह्मणः सधर्मकत्वे सिद्धे सधर्मकत्वस्य साधनव्यापकतयोपा-
धितानिवृत्तौ व्याप्तेः सुस्थिरत्वात् । नच वाङ्निवृत्तिश्रुत्या अवाच्यत्वे ब्रह्मणः सिद्धे सधर्मकत्वस्य
नोपाधितानिवृत्तिरिति वाच्यम् । तस्याः सामस्त्येन वदनासामर्थ्यपरत्वात् । अप्राप्येति प्रपञ्चेन
तथावसायात् । अप्राप्येत्युक्त्यापि तन्निवृत्तिसिद्धेः लक्षण्या वाचः प्राप्त्यापि निवृत्त्यसिद्धेश्च ।
रश्मिः ।
विशिष्टेति । द्वितीयस्कन्धसुबोधिन्याम् । विशिष्टवाचकत्वम् । प्रस्थानरत्नाकरे तु व्यक्तिमात्रवाचकत्व-
मुक्तम् । भावार्थपादभाष्येण जातिमात्रवाचकत्वमुक्तप्रायम् । आकृतौ शक्तेः पूर्वमीमांसायामिति ।
शास्त्रद्वयभेदेन पक्षद्वयम् । व्यक्तिमात्रवाचकत्वपक्षस्तु सूक्ष्मग्रन्थाभिप्रायेण । 'नाहं वेदैर्न तपसा'
'भक्त्या त्वनन्यया' 'आचार्यवान्पुरुषो वेदे'ति 'महतामन्तःकरणं प्रमाण'मिति च । लक्षणायामिति भाष्यं
विवरीतुमाहुः नचेति । एवेति । सविशेषत्वापत्त्या एवकारो वाच्यत्वयोग्यव्यवच्छेदकः । कुत इत्यत
आहुः असत्येति । सत्यत्वमसत्यत्वाभावरूपमधिकरणात्मकं सदसत्त्वव्यावृत्तम् । एवं ज्ञानत्वमज्ञानत्वा-
भावरूपमधिकरणात्मकं सत् जडव्यावृत्तम् । एवमनन्तत्वं अनन्तत्वाभावाभावरूपमधिकरणात्मकं सत् सान्त-
व्यावृत्तम् । एवं आनन्दत्वमानन्दत्वाभावाभावरूपमधिकरणात्मकं सत् दुःखव्यावृत्तम् । प्रतिकूलवेदनीयं
दुःखम्, अनुकूलवेदनीयं सुखम् । आनन्दः सुखम् । एवेति । अस्थूलादिश्रुतेरेवकारः । लक्ष्यत इति ।
सत्यादीनां सत्यत्वाभावाभावे लक्षणा । स्वाभावप्रतियोगित्वसम्बन्धः । तेन सम्बन्धेन सम्बद्धं क्रियते
ज्ञानविषयीक्रियते । भाष्यं विवृण्वन्ति स्म लक्षणायामिति । लक्ष्यत्वेति । लक्ष्यार्थत्वादर्शनात् । सत्या-
दीति । सधर्मकत्वापत्त्या सत्यादिपदशक्यः सत्यत्वादिविशिष्टः सत्यादिः तस्य सम्बन्धः स्वरूपात्मकः ।
लक्ष्यत्वं च उक्तसम्बन्धरूपलक्षणायोग्यं लक्ष्यं तस्य भावो लक्ष्यत्वम् । लक्षयितुं योग्यं लक्ष्यत्वम् । तयो-
रित्यर्थः । यत्किञ्चिदिति । लक्ष्यादिशब्दवाच्यत्वम् । एवेति । अवधारणेनागतम् । लक्ष्यत्वस्येति ।
यथा तीरं वाच्यं लक्ष्यत्वात्, एवं ब्रह्म सत्यादिशब्दवाच्यं लक्ष्यत्वात्, गङ्गातीरवत् । वाच्यत्वेति ।
वाच्यत्वन्यूनदेशवृत्तित्वात् । लक्ष्यत्व इति । हेतौ । उपाधित्वादिति । यत्र वाच्यत्वम्, तत्र सधर्म-
कत्वमिति साध्यव्यापकता । ब्रह्मणोपि यत्किञ्चिच्छब्दवाच्यत्वं लक्ष्यत्वेन सधर्मकत्वम् । यत्र लक्ष्यत्वम्,
तत्र सधर्मकत्वमिति नास्ति । ब्रह्मणि लक्ष्यत्वातिरिक्तधर्माभाववति सधर्मकत्वाभावात् । साध्यव्यापकत्वे
सति साधनाव्यापक उपाधिस्तत्त्वात् । न व्याप्तिरिति । यत्र यत्र लक्ष्यत्वम्, तत्र तत्र वाच्यत्वमिति
व्याप्तिः सा न । एवेति । लक्ष्यत्वेतरधर्मयोग्यव्यवच्छेदकः । साधनेति । यत्र लक्ष्यत्वं तत्र सधर्मकत्वा-
भावाभावान्न । नोपाधितेति । वाच्यत्वाभाववति ब्रह्मणि लक्ष्यत्वेन सधर्मकत्वस्य सत्त्वात्साध्य-
व्यापकत्वाभावात्तयेत्यर्थः । यद्वा । श्रुतिबलेन लक्ष्यत्वेपि लक्ष्यस्यावाच्यत्वे सधर्मकत्वस्य लक्ष्यत्वरूप-
हेतुमति विरहान्नोपाधितानिवृत्तिः । तस्या इति । 'यतो वाच' इति श्रुतेः । ईक्षत्यधिकरणभाष्येण
तथा । अप्राप्येति । श्रौतेन । तन्निवृत्तीति । वाङ्निवृत्तिसिद्धेः । वाच इति । ब्रह्म लक्ष्यमिति
1684

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९

सिद्ध इति मन्तव्यम् । तत्र हेतुः । तेजस्त्वात् । तेजःशब्दवाच्यत्वात् । बहुहू-
भाषप्रकाशः।
सर्वथा अप्राप्तौ 'यतो वाच' इति यच्छब्दस्यापि ब्रह्माप्राप्त्या तदज्ञाने कुतो निवर्तन्ते वाच इति
ज्ञानानुदयेन वाक्यस्याबोधकताप्रसक्तेरनिरुक्तश्रुतिविरोधप्रसक्तेश्च । किञ्च । सत्यादिपदानां ब्रह्मणि
शक्त्यभावे ब्रह्मातिरिक्तानां चासत्यजडादिरूपत्वात् तेष्वपि तच्छत्त्यभावे तेषां पदानामनर्थकत्वेन
शक्यसम्बन्धरूपा लक्षणा नितरां सिध्येदिति स्वरूपलक्षणमप्यबोधकमेव स्यात् । ततश्च विचार-
शास्त्रस्य मोक्षस्य च तिलाञ्जलिरेव दीयेत । अथ व्यावहारिकं सत्यज्ञानादिकं तेषां शक्यमिति
तत्सम्बन्धस्य ब्रह्मणि भवनान्न कोपि दोष इति विभाव्यते । तदा तु तस्यैव धर्मत्वान्न ब्रह्मणो
यावद्धर्मरहितत्वसिद्धिरिति लक्षणायां सुतरां धर्मापेक्षा । अतो धर्माणामावश्यकत्वादस्य शास्त्रस्य
वेदानुरोधित्वात् वेदवाक्यानां च ब्रह्मबोधकतया सर्वेषां तुल्यबलत्वेन धर्मविशिष्ट एव पदार्थो
( निर्धर्मको ) विरुद्धधर्माश्रयो वेदसिद्ध इति मन्तव्यमित्यर्थः ।
धर्मधर्मिणोरभेदबोधकं रूपं वक्तुं हेतुं व्याकुर्वन्ति तेजःशब्दवाच्यत्वादिति । 'तद्देवा
ज्योतिषां ज्योतिः', 'अथ यदतः परो दिवो ज्योतिर्दीप्यते,' 'भारूपः, तस्य भासा सर्वमिदं विभाति,'
'यदादित्यगतं तेज' इत्यादौ ब्रह्मतद्धर्मयोस्तेजोवाचकशब्दवाच्यत्वात् । तथाच प्रकाशकस्वभा-
वत्वात् सूर्यतत्प्रकाशयोर्यथा भेदविरुद्धसम्पदभेदः, तथा ब्रह्मतद्धर्मयोरपि प्रकाशकत्वाच्चेत्यर्थः ।
ननु पूर्वसूत्रेण ब्रह्मण उभयरूपत्वे विरुद्धधर्माश्रयत्वे तं तं प्रति तथा प्रदर्शने च सिद्धे धर्माणां
रश्मिः।
वाचःप्राप्त्यापि वाङ्निवृत्तिसिद्धेश्च । वाक्यस्येति । अवधिघटितयत इतिवाक्यस्य 'मम माता वन्ध्ये'ति
वाक्यवदनर्थकपद्घटितत्वादबोधकताप्रसक्तेः । अनिरुक्तेति । 'एष ह्येवानन्दयाती'त्युक्त्वाग्रे पठ्यते
'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवती'ति ।
न निरुक्ते अनिरुक्ते । अत्र निरुक्तत्वे प्राप्तेऽनिरुक्त इति प्रतिषेधसम्भवात्तथा । यद्यप्यभावज्ञानेन
प्रतियोगिज्ञानं सर्वत्र कारणम् । 'अग्निचयनस्य न देवी'ति श्रुत्या दिवि निषेधात्, तथापि विरुद्धधर्मा-
श्रयप्रकरणादियमेवमुक्ता । अथेति । भिन्नप्रक्रमेऽनिरुक्ते प्रतिष्ठांरूपभक्तिं विन्दते लभते । अथ स
उपासको भिन्नमोक्षविषयं गतो भवतीत्यर्थात् । कस्माद्भिन्नमोक्षविषय इति चेत्, साधनविषयाद्भिन्न-
विषयोऽधोक्षजः । पुष्टिमार्गीयम् । साधनविषयफलयोर्भेदादिति । तत्वायामीत्यत्राप्ययं बोध्यः संध्यायाम् ।
अनर्थकत्वेनेति । तथा शक्यार्थाभावेन शक्यसम्बन्धेत्यादिः । अपीति । अपिना कार्यलक्षणम् ।
उभयलक्षणयोरबोधकत्वादेवकारो बोधकत्वरूपअन्ययोगव्यवच्छेदकः । विचारेति । उत्तरमीमांसा-
शास्त्रस्य । तिलाञ्जलिरेवेति । विचारशास्त्रस्य मोक्षस्य च पदजन्यपदार्थोपस्थितिसाध्यत्वादेवकारः ।
व्यावहारिकमिति । ध्वंसप्रतियोगि । शक्यमिति । शक्यार्थवस्तु । लक्षणायामित्यादिभाष्यार्था-
नुवादपूर्वकमत इत्यादिभाष्यं विवृण्वन्ति स्म तदा त्विति । एवमनूद्य अत इत्यादिभाष्यं विवृण्वन्ति
स्म अत इत्यादि । एव पदार्थ इति । धर्मविशिष्टः पदार्थ एवेत्यन्वयः । पदार्थैकदेशेनान्वयानुपपत्तेः ।
अयमुभयव्यपदेशसूत्रात्निर्धारणेनेत्यर्थक उक्तः । तादृशपदार्थमाहुः निर्धर्मक इति । तथाच श्रुतिः
'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयश्रुतेः । अत्र स्वरूपतावच्छेदकं सगुणत्वं
निर्गुणत्वं चोक्तम् । तेजोवाचकेति । 'ज्योतिषां ज्योति'रिति, 'दिवो ज्योति'रिति, 'तस्य भासे'ति
च प्रत्येकं षष्ठ्यवधिघटिताभ्यां तेजोवाचकशब्दाभ्यां वाच्यत्वात् । तथाच सूत्रे तेजःपदं तेजस्त्वेन
शब्दार्थसाधारणमुक्तं तत्तेजोवाचकमतस्तेजःशब्दवाच्यत्वादयमर्थो भवति । उभयसमावेशात् । तं त-
१. अन्तिमावृत्तौ लोपितम् ।

1685

१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
व्याप्यावर्यमेव हेतुरुक्तः । आतपादैर्धर्मत्वेन धर्मित्वेन च प्रतीतेः । अपूर्ववदेव
दृष्टत्वाच्छुतत्वाच्च न धर्मेष्वपि युक्त्यपेक्षा । तस्मात् सिद्धं यथाश्रुतमेव
ब्रह्मेति ॥ २८ ॥
भाष्यप्रकाशः।
ब्रह्मणा सह भिन्नाभिन्नत्वमात्रं साधनीयम्, तत्तु प्रकृतदृष्टान्तमात्रेणैव सिद्ध्यतीति हेतूक्तेः किं
प्रयोजनमित्याकाङ्क्षायां तत्प्रयोजनमाहुः बहुदूरेत्यादि । अवतारदशायां सृष्टिदशायां च ब्रह्मणो
व्यापकत्वतिरोभावे धर्माणां स्वभावतो बहुदूरव्याप्त्यर्थमेव तद्व्यापकस्तेजःस्वरूपो हेतुरुक्त
इत्यर्थः । तेजसि तथात्वस्य दृष्टत्वादिति । तथाचोक्तं विष्णुपुराणे प्रथमांशसमाप्तौ 'एकदे-
शस्थितस्येन्दोर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथैदमखिलं जगत् । तत्राप्यास-

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१
पूर्ववद्वा ॥ २९ ॥
एकदेशिमतेनापि सर्वसमाधानमाह । अथवा । 'अरूपवदेव ही'त्यादिपञ्च-
सूत्र्या यः सिद्धान्तः कथितः, तादृशं वा ब्रह्म प्रतिपत्तव्यम् ।
अयमाशयः । वेदस्थापनार्थं हि प्रवृत्तिः । तत्र यथा अक्षरमात्रस्यापि
बाधो न भवति, तथा वक्तव्यम् । यदर्थमुभयरूपता अङ्गीकृता, तत्र धर्माणां
भाष्यप्रकाशः।
पूर्ववद्वा ॥२९॥ सूत्रमवतारयन्ति व्याकुर्वन्ति च एकेत्यादि । अथेत्यादि च । वाश-
ब्दः पक्षान्तरे । पूर्ववत् । 'अरूपवदेव ही'ति पञ्चसूत्र्या यः सिद्धान्तः कथितः, प्रपञ्चविलक्षणं
तत्समवायित्वेपि न तत्प्रकारकम्, नापि समवायिमात्रम्, किन्तु ततोप्यतिरिक्तं कृत्स्नं चिन्मात्र-
स्वरूपं यदा आविर्भवति, तदा व्यवहार्यं भवति । तत्र जडजीवधर्मा औपचारिक इत्येवंरूपः ।
तादृशं कारणरूपं ब्रह्म प्रतिपत्तव्यमित्यर्थः । एतन्मताभ्युपगमे बीजं व्युत्पादयन्ति अयमित्यादि ।
तथाच यत् पूर्वोपगमे बीजम्, तदेवात्रापीत्यर्थः । बीजमुक्त्वा पञ्चसूत्रीसिद्धस्य प्रकृते यथा
विवक्षितत्वम्, तयोपपादयन्ति तत्र धर्माणामित्यादि । तस्मिन् पक्ष एकदेशिप्रतिपन्नमौप-
चारिकत्वं दूषयित्वा नित्यप्राप्तत्वेन स्थापितानां धर्माणां स्वरूपस्य वृत्तिमत्त्वस्य निर्वाहार्थं सविशे-
षनिर्विशेषभेदेन ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । ततो वैलक्षण्येन भेदे सत्यद्वितीयत्वश्रुतिर्बाध्येत ।
तथाच तदभावायोत्पत्त्या विचारः कर्तव्यः । यो यथा यथा परिणमते, स तत्तद्भावानपि पूर्वमव्यक्तः
घटपटदध्यादिरूपेण परिणममानमृत्तन्तुदुग्धादिवदिति । एवमुत्पत्त्या विचारे कारणभूतं निर्धर्म-
कमेव ब्रह्म सेत्स्यतीति पूर्वं तादृशमेव प्रतिपत्तव्यम् । ततश्च ब्रह्माहिकुण्डलवदुभयरूपम्, तद्धर्माः
प्रकाशाश्रयवद्भिन्नाभिन्ना इत्युपपत्त्या विचारोपि कारणरूपानुरोधेनैव कर्तव्यः । तत्र कथं
कर्तव्य इत्याकाङ्क्षायां कारणविचारे श्रुतावेकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञातत्वाद्धर्माणामपि ब्रह्म-
रूपत्वं वक्तव्यम् । तदैव तदुपपद्यते, न तु धर्माणां नित्यभिन्नत्व आविद्यकत्वे वा । आद्ये भिन्न-
त्वेन, द्वितीये मिथ्यात्वेन च तत्प्रतिबन्धात् । नचाविद्यकत्वेप्यसत्यव्यावृत्तत्वेन सत्यरूपब्रह्मज्ञाने
[L2

१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २९.
स्वरूपनिर्वाहार्थमवश्यं ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । तथा सति 'एकमेवाद्वितीय'-
मिति बाधः प्रसज्येत । तथाचोत्पत्त्या विचारे निर्धर्मकमेव पूर्वं ब्रह्मेति
प्रतिपत्तव्यम् । उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्यः । तत्र धर्मा-
णामपि ब्रह्मत्वे एकविज्ञानेन सर्वविज्ञानमुपपद्यते, नान्यथा । ततश्च प्रथमं
ब्रह्म स्वधर्मरूपेण भवति । तदनु क्रियादिरूपेण प्रपञ्चरूपेण च । तावतैव
सर्ववेदार्थसिद्धेः । नच लौकिकी युक्तिस्तत्रापेक्ष्यते, येन तादृशस्य कथं
सर्वभाव इति पर्यनुयोगो भवेत् । धर्मकल्पनायामपि 'नैषा तर्केण मतिरापनेये'ति
भाष्यप्रकाशः ।
एकविज्ञानेन सर्वविज्ञानं भवत्येवेति शङ्क्यम् । मृत्पिण्डादिदृष्टान्तोपरोधेन जायमानस्य तस्याप्रयो-
जकत्वात् । अतो धर्माणां ब्रह्मत्व एवैकविज्ञानेन सर्वविज्ञानोपपत्तिः, नान्यथा । तस्मात् तत्तथेत्या-
युक्तप्रकारेण धर्माणां ब्रह्मकार्यत्वात् ब्रह्मरूपत्वमङ्गीकर्तव्यम् । तावतैव सर्ववेदार्थाविरोधसिद्धेः ।
नच पूर्वमव्यक्तस्य पश्चात् व्यक्तत्वं लोके हेत्वन्तरसमवधानादेव दृष्टमितीतरासद्भावे निर्धर्मकस्य
कथं धर्मरूपेण भवनमिति शङ्क्यम् । ब्रह्मणो वेदैकसमधि

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३
समानम् । उत्पत्त्या चोपपत्त्या च विचारद्वयम् । उपपत्त्या पूर्वनयनं स्वसिद्धान्तः ।
भाष्यप्रकाशः।
ॠव्याख्योक्तप्रकारिकया उत्पत्त्या, पूर्वसूत्रव्याख्योक्तप्रकारिकया उपपत्त्या च अस्मिन्नधिकरणे
विचारद्वयम् । तयोर्मध्य उपपत्त्या पूर्वनयनम् । मैत्रेयीब्राह्मणे 'स यथा सैन्धवघन' इत्यादिना
चिन्मात्रत्वेन प्रतिपादितस्यैवात्मनः 'अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मे'त्यनेन स्वरूपा-
विनाशधर्मानुच्छित्त्योः कथनेन स्वरूपधर्मयोर्नित्यत्वबोधनात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूप-
लक्षणस्ये सत्यपदेपि 'सत्यस्य सत्य'मिति नामधेयतन्निर्वचनयोरनुरोधेन मूलसद्रूपत्वमूलत्यरूपत्व-
योरपि बोधनात् । नृसिंहोत्तरतापनीये तुरीयनिरूपणे तुरीयस्य प्रपञ्चोपशमत्वमुक्त्वा, 'ईश्वरग्रासः
खराट् स्वयमीश्वर' इति ईश्वरत्वश्रावणात् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः
परस्ता'दिति प्रपञ्चात् परस्य कारणस्य ऐकत्वादिसप्रपञ्चधर्मवत्त्वश्रावणात्, द्वितीयस्कन्धे भगवता
'पश्चादह'मिति, तृतीयस्कन्धे मैत्रेयेण 'यथेदानीं तथाचाग्रे पश्चादप्येतदीदृश'मिति, विष्णुपुराणे
प्रथमेंशे 'तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पव'दिति
रश्मिः।
तौल्यात् । यथा विरुद्धधर्मकल्पनायां 'नैषा तर्केणे'ति श्रुतिः, तथासन्मतेपीति तौल्यात् । एकदेशिमते-
ऽरूपवत उत्पत्तिर्नैयायिकयुक्तिविरुद्धेति 'नैषा तर्केणे'ति श्रुतेर्विरुद्धधर्माश्रयत्व इव प्रवृत्तेः तस्यैकदे-
शिमतस्याप्यादरणम् । श्रुत्यर्थस्तु । बहुभिरन्याचार्यग्रन्थैरपि । आश्चर्य इति । आश्चर्य सति वक्तति
वचनप्रयोजक आश्चर्य एव वक्ता आश्चर्यवसो वा ब्रह्मरूपः तत्र प्रविष्टः । अर्शाआद्यजन्तो वा । अनुशिष्टः
दत्तात्रेयवद्धूर्वनुशिष्टः । अवरः जगद्रूपः न सुविज्ञेयः, किन्तु भगवान् सुविज्ञेयः । जगत्तु तज्जलान्त्वेन ।
अनन्येति । अपृथग्दर्शनेनाचार्येण प्रोक्ते आत्मगतिरन्यत्र परब्रह्मणि नास्ति । यतोऽणीयान् 'अणुः
पन्था विततः पुराणः' इति द्वितीयाध्याये चिन्तितम् । नहि अतर्क्यम् । 'अलौकिको हि वेदार्थो न
युक्त्या प्रतिपद्यते । तपसा वेद्युत्त्या तु प्रसादात्परमात्मनः' इति श्रुतेर्नहि अतर्क्यम् । अणु ब्रह्म प्रमाणं
प्रमाणप्रेरकत्वेन मुख्यत्वात् । अन्येनेति । आगमाभिज्ञेनाचार्येण गतिम् । त्वादिति । त्वत्सदृशः । शं
कल्याणम् । सोः शेः । इतिहेतोः । अध्रुवैः साधनैरिति । अयमिति । विरुद्धधर्माश्रयपक्षः । पश्चात्
एकदेशिमतात्पश्चात् । पूर्वत्रेति । एकदेशिमते । उत्पत्त्येति । विरुद्धधर्मोत्पत्त्या । पूर्वसूत्रे
प्रकाशाश्रयवत्सूत्रे । व्याख्योक्तेति । कल्पनायामपीत्यादिव्याख्योक्तप्रकारिकया । उपपत्येतिभाष्यं
विवृण्वन्ति स्म तयोरिति । पूर्वनयनमिति । पूर्वस्य पक्षस्य नयनम् । एवेति । अन्ययोगव्यवच्छेदकः ।
कथनेनेति । अनुच्छित्तिर्धर्मो यस्येति विग्रहे पुनरुक्तिरतो न उच्छित्तिर्नाशो येषां तेऽनुच्छित्तयः अनु-
च्छित्तयो धर्मा यस्येति विग्रहात्तथा । स्वरूपेति । स्वरूपं च धर्मश्च तयोः । एतदादयो हेतवः । स्वसिद्धान्त
इति भाष्यविवरणस्य व्यासचरणानां सिद्धान्त इति ग्रन्थस्य । सत्यपदेपीति । अपिना मूर्तामूर्तब्राह्मणीय-
'प्राणा वै सत्यं तेषामेष सत्य' मित्युक्तसत्यपदे । 'सत्यस्य सत्य' मिति ब्रह्मस्तुतौ । नामधेयं स्वरूपलक्ष-
णस्थम्, निर्वचनं ब्रह्मस्तुतिरूपम्। यद्यपि नामधेयं त्रैकालिकाबाधविषयम्, तथापि विरुद्धधर्माधारत्वायाहुः
मूलेति । मूलसद्रूपपदत्वं मूलत्यरूपपदत्वं तयोः । सन्मूर्तं त्यममूर्तं मूर्तामूर्तब्राह्मणे स्फुटं । ईश्वरत्वेति ।
श्रुत्यर्थस्तु प्रपञ्चस्योपशमो यत्रेति निर्धर्मकम्। पूर्वोक्तं प्राज्ञं ईश्वरं ग्रसतीतीश्वरग्रासः कर्मण्यण् । ओतत्वे-
नेश्वरग्रासत्वमनुज्ञातृत्वेन स्वराट्त्वमनुज्ञात्वेन स्वयमीश्वरत्वमिति सधर्मकम् । अनन्तरूपमिति । व्यक्तम् ।
श्रुतीरुक्त्वोपबृंहणमाहुः द्वितीयस्कन्ध इति । भगवदिति । आदिनैकरूपत्वालक्ष्यत्वाविर्भावतिरोभा-
१. आदर्शेषु एतत्त्वादिसप्रधर्मेति पाठः, काशीपुस्तके प्रपञ्चधर्मेति पाठः, मूलपुस्तके इदं नास्ति, अतोपेक्षितपाठो
रक्षितः । मूलेऽभावाद्भ्रमो न विस्मृत इति ।
२० ब्र० सू० २०
1689