अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६१
बहुकालस्थितौ हि तद्रूपता । कारणवशाद्देवानां मनुष्यभाववत् । भिन्नपक्षे न कोपि दोषः । ऐक्यपक्षेपि ज्ञानवतो गृहस्थस्य दुर्लभत्वादेवं वचनम् । तस्मात् वृष्टेरन्नं भवतीति सिद्धम् ॥ २३ ॥ इति तृतीयाध्याये प्रथमपादे पञ्चमं तृतीयशब्दावरोधाधिकरणम् ॥ ५ ॥ अन्याधिष्ठितेऽपूर्ववदभिलापात् ॥ २४ ॥ (३.१.६) चतुर्थी आहुतिर्विचार्यते । ननु 'संसर्गजैः कर्मदोषैर्याति स्थावरतां नर' इति कथमस्यान्नत्वम्, अपूर्वाङ्गत्वेपि कण्डनपाकादिषु क्लेशेन जीवस्यापगमात् कथं भाष्यप्रकाशः। को विशेषो धूममार्गादित्याशङ्कायामाहुः भिन्नपक्ष इत्यादि । धूममार्गाद्भिन्नः पञ्चाग्निमार्ग इति पक्षे, न कोपि धूममार्गोक्तक्लेशसंसर्गदोषः । क्लेशस्य धूममार्ग एवोक्तत्वात् । तयोरैक्यपक्षे ज्ञान- वतो गृहस्थस्य दुर्लभत्वादज्ञानिनं लक्ष्यीकृत्यैतत् क्लेशवचनम्, न तु साधारण्येनेति न पञ्चाग्निमार्गे दोष इत्यर्थः ॥ २३ ॥ इति पञ्चमं तृतीयशब्दावरोधाधिकरणम् ॥ ५ ॥ अन्याधिष्ठितेऽपूर्ववदभिलापात्॥२४॥अधिकरणप्रयोजनमाहुः चतुर्थीत्यादि। 'अन्ना- द्वेतो भवती'ति चतुर्थ्याः सफलाया आहुतेरत्र विचारः प्रयोजनमित्यर्थः । 'पुरुषाग्नावन्नं जुह्वति'ति श्रुतावन्नस्य होम्यत्वमुक्तम् । स्मृतौ तु पापजन्यत्वमन्नस्योच्यते इति तदुपपद्यते, न वेति, अन्नस्य च रेतोभाव उपपद्यते, न वेति, जीवसाम्याभावे क्लेशो भवति, न वेति च सन्देहाद्विचारं बोधयितुं सूत्रमवतारयन्ति नन्वित्यादि । इति कथमस्यान्नत्वमिति । असाद्वाक्यादन्नभावस्य पापजन्यत्वे निश्चिते अस्य उक्ताहुतिप्रकारेण शुद्धस्य जीवस्य कथमन्नत्वम् । अपूर्वाङ्गत्व इति । प्रोक्षणादिनेव रश्मिः। बहुकालं न । तद्रूपता तु नातिचिरेणेत्युक्तम् । भाष्ये । तद्रूपतेति । दृष्टान्तमाहुः कारणेनेति । 'यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य दत्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्याद्धर्मे हरिर्यद्भजतां शं तनोती'ति वाक्योक्तकारणवशात् । बहुकालस्थितिः कारणे । किञ्च, कारणवशात् स्पृहावशात् । 'एतदेव हि देवा गायन्ति' 'अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि न' इति वाक्यात् । बहुकालस्थिति- भावे । प्रकृते । धूममार्गोक्तेति । पञ्चाग्निविद्यायां बोध्यः । एवेति । अवरोहस्यातथात्वादेवकारः । ऐक्येति भाष्यं विवृण्वन्ति स्म तयोरैक्येति । गृहस्थस्येति । ननु गृहस्थस्येति कुतो लब्धमिति चेत् । न । 'तं प्रेतं दिष्टमितोऽग्नय एव हरन्ती'त्यग्निहोत्रलिङ्गात् गृहस्थलाभः । छान्दोग्यसमाप्तावपि गृहिणोप- संहाराद्गृहस्थलाभः । अज्ञानिनमिति । दुर्निष्प्रपतरत्वात्पञ्चाग्निविद्यासाधितदेहस्यापि । एतदिति । 'वायुर्भूत्वा धूमो भवती'ति वचनम् । दोष इति । क्लेशदोषः ॥ २३ ॥ इति पञ्चमं तृतीयश- ब्दावरोधाधिकरणम् ॥ ५ ॥ अन्याधिष्ठितेऽपूर्ववदभिलापात् ॥ २४ ॥ अग्रेति । अधिकरणे । स्मृताविति । भाष्योक्तायां स्मृतौ । तेन कर्मदोषाः पापानि । स्थावरतामन्नताम् । मुख्ये कार्यसंप्रत्ययात् । तदुप- पद्यत इति । ज्ञानिदेहार्थं पापजन्यान्नभक्षण'मन्नं जुह्वती'त्यत्रोपपद्यते । जीवस्येति । वृष्टिसहित- जीवस्य । कथमस्यान्नत्वमिति । ज्ञानोपयोगिदेहार्थं कथमिति प्रश्नः । अपूर्वाङ्गत्व इति । अदृष्टजन- कत्वेन पूर्वाङ्गत्वभावः । भाष्ये । एवेति । दृष्टत्वादेवकारः । मर्यादेति । घटस्य पटलापत्या 1597
६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ६ सू० २४. रेतोभावः, चर्वणौदर्यपाकस्त्वनावश्यक एव, नच जीवस्य जडभावः, मर्यादाभङ्ग- प्रसङ्गात्, तस्मात् कथमन्नस्य रेतोभाव इत्याशङ्क्य परिहरति । अन्याधिष्ठिते वृष्टेरन्नभावसमय एव अन्यैर्जीवैरधिष्ठितो व्रीह्यादिस्तस्मिन् न पूर्ववत् तद्भावापत्तिः । अतिथिवत् । पूर्ववैलक्षण्येन वा । कुतः । अभिलापात् । 'व्रीहियवा ओषधिवनस्पतयस्तिलमाषा' इति पूर्ववत् तत्तद्भावमात्रं न वदति, किन्तु जगति स्थितव्रीह्यादिभाव एवाभिलप्यते । तथा सति यथान्येषु व्रीह्यादिषु तदधिष्ठातृदेवतया नियुक्ता जीवास्तानात्मत्वेनाभिमन्यन्ते, एवमत्रापीति न भाष्यप्रकाशः। आहुतिभिः संस्कारस्य जातत्वादपूर्वाभवत्वे । परिहारं व्याकुर्वन्ति अन्याधिष्ठित
कोपि दोषः । अधिष्ठाने हि वेदना । मरणानन्तरं कृमिभावस्य दृष्टत्वात् । तस्मा- दृशस्य रेतोभावो युक्तः ॥ २४ ॥ अशुद्धमितिचेन्न शब्दात् ॥ २५ ॥ किञ्चिदाशङ्क्य परिहरति । ननु अन्याधिष्ठानेङ्गीक्रियमाणे यातनाजीवाना- मशुद्धत्वादशुद्धमन्नं स्यात्, तथाच कथं योग्यदेह इति चेत् । न । शब्दात् । 'देवा अन्नं जुह्वति, तस्या आहुते रेतः सम्भवती'ति देवैराहुतिरूपेण होमवचना- च्छुद्धत्वम् । अन्यस्य हि संस्कारेणैव शुद्धिः । अन्यथा यावज्जीवं का गतिः स्यात् । तस्मात् संस्कारशब्दाच्छुद्धमेवान्नम् ॥ २५ ॥ इति तृतीयाध्याये प्रथमपादे षष्ठमन्याधिष्ठित इत्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । पापाभिसंसर्गजन्यो वा, कण्डनादिजन्यक्लेशात्मको वा दोषो होम्ये जीवे न । तथाच क्लेशाभावा- देव कण्डनचर्वणादिदशायामपि नापगमः।
९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ७ सू० २६ रेतःसिग्योगोऽथ ॥ २६ ॥ (३.१.७.) पञ्चमाहुतिं विचारयति । ननु कथं पुरुषेऽन्नहोमाद्रेतोभावः, बाल्यकौ- मारवार्धकेषु व्यभिचारात्, तारुण्येपि न हि सर्वमन्नं रेतो भवति, जानमपि न नियमेन योनौ सिच्यते, नापि देवापेक्षा, पुरुषप्रयत्नस्य विद्यमानत्वादित्याशङ्कय, परिहरति । रेतःसिग्योगः । पुरुषशब्देन पौरुषधर्मवानुच्यते । पौरुषं च देशका- लसंविधानेन मन्त्रावद्रेतःसेकसामर्थ्यम् । न ह्येतत् सर्वजनीनं सार्वत्रिकं वा । भाष्यप्रकाशः। रेतःसिग्योगोऽथ ॥ २६ ॥ अधिकरणप्रयोजनमाहुः पञ्चमेत्यादि । विचारयतीति । फलं पृथक्कृत्य केवलां विचारयति । कोत्र विचारांश इत्याकाङ्क्षायामाहुः नन्वित्यादि । चतुर्थ्या- मन्नाहुतौ पुरुषस्य यदि पुरुषत्वेनाश्रित्वम्, तदा बाल्यादौ तद्धोमस्य नैष्फल्यम्, यदि तारुण्य- विशिष्टत्वेनाश्रित्वम्, तदपि न सर्वस्य होमस्य साफल्यम्, अथ यज्जातं रेतस्तेनैव पञ्चम्याहुतिः, तदापि होमानियमः, अथ नियमः, तदापि न देवापेक्षेत्यतो विचार इत्यर्थः । परिहारं व्याकुर्वन्ति पुरुषेत्यादि । सूत्रे रेतःसिकपदोक्त्या पुरुषपदव्याख्यानात् 'पुरुषो वा व गौतमाग्नि'रित्यनेन पुरुषशब्देन पौरुषधर्मवानुच्यत इत्यर्थः । तावता कथं पूर्वोक्तदोष- रश्मिः। सा मर्यादायाम्, न तु ब्रह्मभावे 'सर्वं ब्रह्मात्मकं तस्य विद्याद्यात्ममनीषये'ति । मर्यादायां तु वर्तत एव, संस्कारवैयर्थ्येन तद्बोधकवेदानर्थक्यप्रसङ्गात् । यावज्जीवमिति । संस्कारानङ्गीकारे एकदिनेनाग्नि- होत्रफलसिद्धेः 'यावज्जीवमग्निहोत्रं जुहुया'दित्यत्र मध्ये पापे तच्छोधकसंस्कारस्य यावज्जीवं पापशोधना- तिरिक्ता का गतिः स्यादिति प्रश्नः । सौत्रं हेतुं विवृण्वन्ति स्म तस्मादिति । एवेति । प्रसिद्धेरेवकारः । एवमन्नशुद्धिरुक्ता । अधिकरणरचना त्वेवम् । चतुर्थ्याहुतिर्विषयः । पापजन्यत्वमन्नस्योपपद्यते न वेति संदेहे, ज्ञानोप(योग)योगिदेहानुपयोगात्रोपपद्यत इति पूर्वपक्षः । सिद्धान्तस्तु संस्कारशब्दात्संस्कारार्थं पापजन्य- त्वमन्नस्योपपद्यत इति शुद्धमन्नमिति ॥ २५ ॥ इति षष्ठमन्याधिष्ठित इत्यधिकरणम् ॥ ६ ॥ रेतःसिग्योगोऽथ ॥ २६ ॥ फलमिति । 'तस्या आहुतेर्गर्भः संभवती'ति गर्भः फलम् । तत्पृथक्कृत्याग्रिमे विचारयितुं केवलां विचारयन्तीत्यर्थः । सूत्रान्तरे फलविचारस्तु षष्ठाहुतिग्रहणाय । तेन गर्भानुक्तौ कथं पञ्चमाहुतिविचार इति कुचोद्यं निरस्तं वेदितव्यम् । नच गर्भानुक्तौ न्यूनतानिग्रहस्था- नमिति वाच्यम् । बृहदारण्यकषष्ठाग्निसंग्रहार्थमेतावदुक्तौ न निग्रहस्थानमिति । तत्र गर्भशब्दाभावात् । 'देवाः पुरुषं जुह्वति तस्या आहुतेः पुरुषो भास्वरवर्णः संभवती'ति श्रुतेः । पुरुषेऽन्नहोमाद्रेतस्तु कारण- त्वादुभयत्रेति षष्ठ्या आहुतेरविचारेपि न निग्रहस्थानमिति । दृष्टान्तानुसारेण व्याख्यान्ति स्म चतुर्थ्यामि- त्यादिना । तद्धोमस्येति । रेतोहोमस्येत्यर्थः । तारुण्य इति भाष्यं विवृण्वन्ति स्म यदीति । पुरीषा- दिभावात् न सर्वमन्नं रेतो भवति । जातमितिभाष्यं विवृण्वन्ति स्म अथेति । होमेति । धौतवाससि सेकाद्धोमानियमः । नापीतिभाष्यं विवृण्वन्ति स्म अथेति । पूर्वोक्तेति । रेतस्त्वेन अन्नत्वेन कार्य- कारणभाव उक्तः श्रुतौ । तत्र 'योषाग्नौ देवा रेतो जुह्वती'ति रेतोहोमनियमश्च उभयत्र 'पुरीषत्वेनान्नत्वे- नापि कार्यकारणभावात्पूर्वत्र पूर्वोक्त आशङ्कोक्तो दोषः । कार्यकारणभावग्राहकान्वयव्यतिरेकव्यभिचार- रूपः । द्वितीये तु धौतवाससि सेकात्तत्तदिन्द्रियदेवहोमकृतान्नियमे पूर्वदोष इति । तन्निरास इत्यर्थः । 1600
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५ तदर्थं देवापेक्षा । तथा सति न कोपि व्यभिचारः । कथं पुरुषशब्दमात्रेण च ज्ञायते, तत्राह । अथ आनन्तर्यात् । शरीरार्थमेव देवैस्तत्र तत्र होमः कृतः । भाष्यप्रकाशः । निरास इत्याकाङ्क्षायां तदुपपादयन्ति पौरुषमित्यादि । तथाच पुरुषपदेनैतादृशो रेतःसिगभिग्रेयते, तादृशे योऽन्नहोमः, स प्राणाग्निहोत्रोपनिषदाद्युक्तप्रकारेणेति तत्र देवापेक्षा । न हीन्द्रियाधिष्ठातृ- देवप्रसादं विना तथा भोक्तुं शक्यते । ईश्वरेच्छया भवनेपि तेषामेव द्वारत्वात् । अत एव रश्मिः । पौरुषमित्यादीति । अत्र 'ऋतौ भार्यामुपेया'दिति श्रुत्या भार्या देशः ऋतुः कालः संश्रैतं विधानं तेन संविधानेन मन्त्रवत् । पुत्रमन्थब्राह्मणोक्त 'बहु वा इद ँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति । तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीदधौषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादा- यान्तरेण स्तनौ वा भ्रुवौ वा निमृज्या'दित्यत्रोक्तमन्त्रयुक्तं रेतः तस्य सेकसामर्थ्यम् । विहितत्वार्थे तृती- यान्तं कारणत्वार्थम् । मन्त्रवदिति रेतोविशेषणम् । नन्वेवमित्येतच्छब्देन पूर्वभाष्यसङ्गतिः । एतत्पौरुष- मित्यर्थात् । तदर्थं होमार्थम् । देवापेक्षा इन्द्रियदेवापेक्षा । तथा सतीति । इन्द्रियदेवापेक्षया शरीरकारणत्वे सति । न कोपि । ज्ञानोपयोगिशरीरत्वेन इन्द्रियदेवत्वेन कार्यकारणभावः । अत्र 'तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे'ति श्रुत्युक्तविद्याकर्मपूर्वप्रज्ञारूपकारणव्यभिचारो न । साधारण- देहत्वेन विद्याकर्मपूर्वप्रज्ञात्वेन कार्यकारणभावात् । तृणारणिमणिन्यायोऽत्र । भाष्यसिद्धार्थमाहुः तथा चेति । एतादृश इति । देशकालसन्निधानेन मन्त्रवद्रेतः सेकसामर्थ्यवान् रेतःसिगभिग्रेयते । सूत्रेण 'पुरुषो वावे'ति श्रुतौ पुरुषो रेतःसिगिति प्रयोगार्हतःसिक्तवेन रूपेण पुरुषोपस्थितिः । घटः पृथिवीत्यत्र पृथिवीत्वेन घटोपस्थितिवत् । एतेन मन्त्रवद्रेतःसेक सामर्थ्यमित्यन्तं भाष्यसिद्धार्थ उक्तः । ततस्सङ्गत्यर्थं तादृश इत्यादिग्रन्थः भाष्यीयैतत्तदर्थः इत्यन्तः । सुगमान्वयस्तूक्तः एतच्छब्दार्थः पौरुषमिति पूर्वम् । प्राणाग्नीति । 'यदन्नमद्मि बहुधाति राजन् रुद्रैः प्रजग्धं यदि वा पिशाचैः । सर्वत ईशानो अभयं नः कृणोतु शिवमीशानाय स्वाहे'ति । अग्रे 'प्राणाय (प्रदानाय) स्वाहा अपानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहे'ति कनिष्ठिकायाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोती, अनामिकयाऽपाने, मध्यमया व्याने, प्रदेशिन्या समाने, सर्वाभिरुदाने, तूष्णीमेका एक ऋषौ जुहोति । अत्र पुष्टिमार्गे शिवः प्रथमः 'मद्भक्तपूजाम्यधिके'ति वाक्यात् । तदग्रे पञ्च प्राणाः । तदग्रे प्रकारः । तत्र अत्यभीत्यतिशब्दा- न्वयः । राजन् वरुण । 'यन्मे भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः । तन्नो वरुणो राजा पाणिना ह्यवमर्शत्वि'ति श्रुतेः । प्रजग्धं प्रभक्षितम् । नोऽस्माकम् । कृणोतु विकरणव्यत्ययः । उं भावित्वा श्रुः । स्वाहा देवतोद्देशेन त्यक्तमन्नम् । कनिष्ठकाया इत्यत्र ककारेऽज्विकारः कनिष्ठकया । जुहोतीति दीर्घपाठे ई । एका इत्यत्रामो ऽः । एक इति सप्तम्यन्तम् । सर्वनामसंज्ञाया वेदे विकल्पान्न- स्मिन् । ऋषौ ब्रह्मणि । प्राणाग्निहोत्रोपनिषदादीत्यत्रादिना तैत्तिरीये 'अन्नं न निन्द्यात्तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठित' इत्यादि । पुत्रमन्थ- ब्राह्मणं च अग्रे स्फुटम् । तत्र देवापेक्षेति । तदर्थं देवापेक्षेति भाष्यार्थः । तत्रेत्यस्य होम इत्यर्थः । देवापेक्षायां युक्तिमाहुः नहीति । इन्द्रियं मनस्तदाद्यधिष्ठातृदेव ईशानादिस्तस्य प्रसादस्तं विना । तथेति । प्राणाग्निहोत्राद्युक्तप्रकारेण । तेषामिति । देवानाम् । एवकारस्तु श्रुत्यादौ दर्शनात् अन्यव्यवच्छेदकः । अत एवेति । तथा सतीति भाष्यसिद्धार्थः । इन्द्रियदेवापेक्षया ज्ञानोपयोगिदेहकारणत्वादेव । ब्र० सू० २० १ 1601
तत् कथं पञ्चमाहुतावेवान्यथा भवेत्। तस्मादानन्तर्यात् पुरुषाहुतिर्नान्नम्, रेतःसि- ग्योगः। योगशब्देनात्रापि अन्याधिष्ठानेन रेतःसिग्योगाभावः ॥ २६ ॥ इति तृतीयाध्याये प्रथमपादे सप्तमं रेतःसिग्योगाधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः। तस्मान्नस्य रेतोभावो योनौ नियमेन सेकश्च पुत्रमन्थब्राह्मणोक्तरीत्या भवतीति सुखेन पूर्वोक्तदो- षनिरास इत्यर्थः। कथमित्यादि। भवत्वन्यत् सर्वम्, तथापि पुरुषशब्दमात्रेण सर्वस्यान्नस्य रेतस्त्वं कथं प्राप्यत इत्याकाङ्क्षायामाहेत्यर्थः। सिद्धमाहुः तस्मादित्यादि। अन्नपदोत्तरं किन्त्विति शेषोऽध्याहार्यः। तथाच पुरुषाग्नौ आहुतिर्नान्नम्, किन्तु रेतःसिचि योऽन्नयोगः सेत्यर्थः। ननु भवत्वेवमाहुतिसिद्धिः, तथापि पूर्वाधिकरणेनान्नेऽन्याधिष्ठानस्य साधितत्वात् तज्जन्ये रेतस्यपि तत्सम्भव इत्याशङ्क्य तत्र तदभावमाहेत्याहुः योगशब्देनेत्यादि। तथाच तत्रैक रश्मिः। तेन ज्ञानोपयोगिदेहत्वेन इन्द्रियदेवत्वेन कार्यकारणभाव उक्तः। तत्र देवापेक्षेत्युक्तत्वात्तन्नेत्रस्य होम इत्यर्थात् ज्ञानोपयोगिदेहत्वेन इन्द्रियदेवकृतहोमत्वेन कार्यकारणभावो वा। एतेन तथा सतीत्याद्यार्थो जातः। अतः परं न कोपि व्यभिचार इति भाष्यसिद्धार्थः। तस्य देवैर्हुतस्यान्नस्यार्थात् देवकृतहोमस्य रेतोभावः, न पुरीषभावः। पुरीषस्य ज्ञानोपयोगिदेहत्वाभावात्। योनाविति। धौतवाससो ज्ञानो- पयोगिदेहानुपयोगात्। योनौ नियमेन सेकश्चेत्यर्थः। पुत्रमन्थेति। बृहदारण्यके ‘एषां वै भूतानां पृथिवी रस’ इत्यारम्भकं पुत्रमन्थब्राह्मणम्। तदुक्तरीतिः। ‘एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽ- पामोषधयः ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेत’ इति श्रुत्युक्ता तयान्नस्य रेतोभावः पुरुषेऽन्नाहुतिद्वारा। तथा ‘स ह प्रजापतिरीक्षांचक्रे। हन्तास्मै प्रतिष्ठां कल्पयानीति। स स्त्रियꣳससृजे, ताꣳसृष्ट्वाध उपास्ते’ इति श्रुत्युक्ता तया। योनौ नियमेन सेकश्च भवतीति सुखेन, रेतस्त्वेन अन्नत्वेन कार्यकारणभावः, न पुरीषत्वेन अन्नत्वेन, अश्रुतत्वात्। अतएव विहितकर्तॄणां सा- त्त्विकानां नियमेन योनौ सेकः, न (धौतवा)ससि। यथा ‘पुत्रे कृष्णप्रिये रति’रित्याचार्याः। पूर्वोक्तेति। भाष्ये। न कोपि पूर्वोक्तो व्यभिचारः। स व्याख्यातस्तथा सतीत्यादिभाष्यविभागे पूर्वम्। किन्तु रेतःसिचीति। तेन रेतःसिचि योग इति विगृह्य सप्तमीति योगविभागात् ‘सह सुपे’ति वा समासः। तथा च रेतःसिचि योगः रेतः सिञ्चतीति रेतःसिच् कर्तरि क्विप्। किञ्च, रेतःसिच्यन्नयोगः रेतःसिक्पु- रुषेऽन्नहोमात् अन्नयोगः। किञ्च, अन्नस्य विकारोऽन्नमय इति योगः। ‘द्व्यचश्छन्दसी’ति सूत्राद्विकारे मयट्। अन्नमयत्वं ‘स एषोऽन्नरसमय’ इत्यत्र पुरुषे प्रसिद्धम्। सेत्यर्थ इत्यर्थः। किञ्च, भाष्यप्रकाशे पूर्वोक्तः शङ्काग्रन्थोक्तो दोषस्तस्य निरास इत्यर्थः। पुरुषशब्देति। भाष्यीयचकारादन्नशब्देन च। इत्यर्थ इति। अग्रे भाष्ये। अथेत्यानन्तर्य इत्याहुः अथेति। पुरुषशब्दमात्रेणान्नश- ब्देन च तदानन्तर्यात्सर्वस्यान्नस्य रेतस्त्वं ज्ञायते, ज्ञाप्यते यो यदनन्तरं जायते, स तस्य कार्यमिति। एवेति। ‘आपः पुरुषवचसो भवन्ती’ति श्रुतेरेवकारः। तत्कथमिति। तच्छरीरपञ्चमाहुतौ। अन्यथा छान्दोग्ये गर्भत्वेन बृहदारण्यके पुरुषत्वेन च कथं भवेदिति प्रश्नः। पञ्चमाहुतौ ‘देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवती’ति छान्दोग्ये। बृहदारण्यके तु ‘तस्या आहुतेः पुरुषः सम्भवती’ति। एवकारोऽ- न्याहुतिव्यवच्छेदकः। सिद्धमिति। सूत्रार्थं वदन्तः सिद्धमाहुः अन्नेऽन्येति। अन्नेऽन्येषां जीवानां अधि- ष्ठानं स्थितिः तस्य। तत्सम्भव इति। अन्येषां जीवानां स्थितिसम्भवः। तन्न रेतसि। तदभावं अन्यजीवस्थित्यभावम्। तत्रेति। रेतसि। योगशब्देनेत्यादीति। रेतःसिक्शब्देन चारितार्थ्ये सूत्रे
हूयमानं निरूप्य फलं निरूपयति । 'तस्या आहुतेर्गर्भः सम्भवती'त्युच्यते । तत्र सन्देहः । योनावन्तःस्थितमेव फलम्, बहिर्निर्गतं वेति । तत्र गर्भशब्देना- न्तःस्थित एव । शरीरपरत्वे श्रुतिबाधः स्यात् । उपसंहारोप्यग्रे कर्तव्याभावादुप- पद्यते । ततश्च षण्मासानन्तरं गर्भे ज्ञानसम्भवाज्जननानन्तरं न गुरूपसत्त्यादि कर्तव्यमित्याशङ्क्य, परिहरति । योनेर्निर्गतं शरीरं गर्भशब्देनोच्यते । अग्रेरुत्पत्ति- भाष्यप्रकाशः। एव जीवः शुद्धस्तिष्ठति, न त्वन्योपि। अन्यथा बहव एव श्वादिवदुत्पद्येरन्, नत्वेक इत्यर्थः ॥२६॥ इति सप्तमं रेतःसिग्योगाधिकरणम् ॥ ७ ॥ योनेः शरीरम् ॥२७॥ सूत्रप्रयोजनमाहुः हूयमानमित्यादि । उपसंहार इति । 'इति रश्मिः। योगशब्दस्य किं प्रयोजनमित्यत उक्तं योगशब्देनेति । रेतःसिचि योग इति योगशब्देन । अन्ना- पीति । रेतस्यपि । अन्याधिष्ठाने अन्येषां जीवानामधिष्ठाने रेतःसिग्योगाभावो न । अयमर्थः । रेतः- सिक्शब्दो रूढः । 'रूढिर्योगमपहरती'ति प्रसिद्धेर्नैयायिकानाम् । तेन रेतःसिक्शब्दः एकजीवयुक्त- रेतसि रूढः, सोऽन्याधिष्ठाने रेतसि सति पुरुषे न प्रवर्तते । अतोऽनेकजीवयुक्तोजः सिचि प्रवृत्त्यर्थं योग आदर्तव्यः । अवयवशक्तिरूपः । तथाच रेतःसिग्योगाभावो न अनेकजीवयुक्तरेतःसिचि । अतो यमले ज्ञानोपयोगिदेहसत्त्वान्नाहुत्यनुपपत्तिः । ननु 'रूढिर्योगमपहरती'त्युक्तमिति चेत् । न । वेदान्ते योगः, वेदे योगरूढिरिति मीमांसाकारिकायामुक्तत्वेन नात्र तत्प्रवृत्तिरिति । तथा च सूत्रार्थः । रेतःसिग्योगः अथेति द्विपदमिदं सूत्रम् । रेतःसिक्शब्दो यौगिकः, न रूढः, यमले ज्ञानोपयोगिदेहवति पुरुषाभ्याहुत्यप्रवृ- त्तिप्रसङ्गात् । अतो रेतःसिचि योगः रेतःसिग्योगः । अथेत्यानन्तर्ये प्रसिद्धः । रेतःसिग्योगः पुरुषे । आनन्तर्यं रेतसि । पुरुषहुतान्नस्य रेतोभावश्रुतेः । 'पुरुषो वाव गौतमाग्नि'रित्यपक्रम्य 'देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवती'ति श्रुतिः । 'तर्काप्रतिष्ठान'सूत्रेणानुमानस्याभावात् शब्दार्थयोर्वैयधि- करण्यम् । 'केचिदत्र जन्मादिसूत्रमनुमानमिति वर्णयन्ती'ति भाष्ये केचित्पदात् । तथा च अथ पुरुषा- ज्ञानन्तर्यात् रेतसि पुरुषे रेतःसिचि योगः, न रूढिरित्यर्थः । अत्र पञ्चमाहुतिर्विषयः । तत्र गर्भः फलं पुरुषो वेति श्रुतिद्वयबीजे संशये । यद्वा । पुरुषेऽन्नहोमो रेतःसिचि वेति श्रुतिसूत्रबीजे संशये । पूर्व- संशये तु गर्भ एव कारणत्वात्पुरुषोऽपीति पूर्वपक्षे, उभये फले श्रुतत्वादिति सिद्धान्तः । पुरुषेऽन्नहोमः श्रुतत्वान्न तु रेतःसिचि सौत्रत्वादिति पूर्वपक्षे, रेतःसिगिति सिद्धान्तः ॥ २६ ॥ इति सप्तमं रेतः- सिग्योग इत्यधिकरणम् ॥ ७ ॥ योनेः शरीरम् ॥ २७ ॥ हूयमानमित्यादीति । अन्नरूपं रेतोरूपं च । एवेति । दर्शना- दित्येवकारः । श्रुतीति । 'गर्भः संभवती'ति श्रुतिबाधः । पूर्वपक्षसत्त्वाद्बाधशब्दः । पूर्वपक्षिणो हि श्रुत्योर्विरोधे विकल्पस्य मानवस्सास्फूर्तेः । अर्थवादत्वात् । षण्मासेति । तदनन्तरं नवमे मासि । 'अथ नवमे मासि स सर्वलक्षणज्ञानसंपूर्णो भवती'ति श्रुतेः । कुत उच्यत इत्यतो बृहदारण्यकसंग्रहा- दित्याहुः अग्रेरिति । योषारूपात् । एवकारो बृहदारण्यके 'तस्या आहुतेः पुरुषः सम्भवती'ति श्रुतेः गर्भपुरुषपदवाच्यशरीरेतरव्यवच्छेदकः । गर्भपुरुषरूपस्य फलरूपत्वात् । अग्रेरुत्पत्तिरित्यस्यैव फलतारूपत्वे-
६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ८ सू० २७. तस्यैव फलरूपत्वात् । मध्यभावस्याप्रयोजकत्वात् । मातृपरिपाल्यत्वाय गर्भ- वचनम् । कललादिभावे पुरुषवचनत्वाभावादुपसंहारानुपपत्तिश्च । शरीरशब्देन वैराग्यादियुक्तः सूचितः । न तु स्वयं तदभिमानेन जात इति । तस्मात् भाष्यप्रकाशः । तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'त्युपसंहारः । मध्यभावस्याप्रयोजकत्वादित्यनेन गार्भिकज्ञानित्वस्याप्यप्रयोजकत्वं संगृहीतम् । उत्पत्तिसमये वैष्णव्या मायया तस्य ज्ञानस्य तिरो- धानात् । शरीरपरत्वे गर्भश्रुतिबाधं परिहरन्ति मातृरित्यादि । उपसंहारानुपपत्तिं पूर्वपक्षिमते बोधयन्ति कलिलेत्यादि । शारीरशब्देनेति । शीर्यत इति शरीरमिति निरुक्तेन तेनेत्यर्थः । अधिकरणार्थनिगमनेनैतत्पादार्थमपि निगमयन्ति तस्मादित्यादि ॥ अत्रैतद्बोध्यम् । रंहतिसूत्रे 'प्रश्ननिरूपणाभ्या'मित्यनेन पञ्चाग्निविद्यैव विषयत्वेनादृता । पादान्ते च 'योनेः शरीर'मिति सूत्रेण 'पुरुषवचसो भवन्ती'ति पञ्चमाहुतिफलमेव विचारितमिति स्पष्टं प्रतीयते । श्रुतौ च मध्ये यन्मार्गादिकं प्रश्नान्तरोत्तरत्वेनोक्तम्, तत्सर्वं पञ्चाग्निविद्याशेष- त्वेनैव, मुख्या तु पञ्चाग्निविद्यैवेति 'य एतान् पञ्चाग्नीन् वेदे'त्युपसंहारात् तस्य फलसंबन्धाच्चाव- गम्यते । एतस्य पादस्य मुख्यतया ज्ञानोपयोगिदेहप्राप्तिप्रकारविचारार्थता, न तु वैराग्योत्पादन- रश्मिः । दकलात् । गार्भिकज्ञानित्वस्यापीति । अपिना गर्भपुरुषयोर्मध्यभावस्य । गार्भिकज्ञानं तृतीयस्कन्धे प्रसिद्धम् । अप्रयोजकत्वं पञ्चाग्निविद्यायामपि । किञ्च, गार्भिकज्ञानित्वम् । 'ऋतुकाले प्रयोगादेकरात्रोषितं कललं भवती'त्युपक्रम्य 'जातश्वाहं मृतश्चैव जन्म जन्म पुनः पुनः । यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दह्नेऽहं गतास्ते फलभागिनः । यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये महेश्वरम् । अशुभक्षयकारकं परमुक्तिप्रदायकम् । यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये नारायण'मिति गर्भोपनिषच्छ्रु- त्योक्तम् । वैष्णव्येति । 'अथ योनिद्वारं संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृष्टः तदा न स्मरति जन्ममरणानि न कर्म शुभाशुभं विन्दती'ति गर्भोपनिषच्छ्रुतेः । तस्येति । गार्भिकस्य । शरीरेति । बृहदारण्यकोक्तपुरुषरूपफलपरत्वे । गर्भेति । गर्भश्रुतिविकल्पं परिहरन्ति । बाधबाधोऽत्र बाधशब्दार्थः । कललेत्यादीति । 'एकरात्रोषितं कललं भवति सप्तरात्रोषितं बुद्बुदं अर्धमासाभ्यन्तरे पिण्डं मासाभ्यन्तरे कठिनं मासद्वयेन शिर' इत्यादिश्रुतेः । कललं शुक्रशोणित- मिश्रितम् । बुद्बुदं वर्तुलाकारम् । पिण्डं पेशीमांसपिण्डाकारम् । तेनेति । सूत्रेण । भाष्ये । नत्विति । देहशब्दाभावात्सूत्रे । तदभीति । शरीराभिमानोपचयेन । 'दिह उपचये' । पचाद्यच् । प्रकृते । निगमनेनेति । पञ्चम्यन्तघटितत्वेन तथा । तस्मात्पर्वतो वह्निमानिति निगमनवत् । तस्मादित्यादीति । साधनेति । 'अग्नयो हरन्ती'ति श्रुतेरग्निहोत्रादिसाधनं होमश्च साधनं तत्सहित इत्यर्थः । अधिकरणा- र्थोऽयम् । ब्रह्मज्ञानमिति पादार्थः । 'तत्र प्रथमे पादे ब्रह्मज्ञानौपयिकं जन्म विचार्यत' इति भाष्यात् । पञ्चाग्निविद्यैवेति । तन्निष्ठादेवकारोऽन्यव्यवच्छेदकः । । एवेति । पुरुषशरीरयोः पर्याय- त्वादेवकारोऽन्ययोगव्यवच्छेदकः । 'यद्य इत्थं विदु'रित्याद्युक्तार्चिरादिमार्गत्रयं यमगतिमित्येतेषां योज- नामाहुः श्रुतौ चेति । प्रश्नेति । पञ्चाग्निविद्याप्रश्नेतरप्रश्नाः 'वेत्थ यदितोऽधि प्रजाः प्रयन्ती'त्याद- यश्चत्वारः । तदुत्तरत्वेन । एवेति । तन्मध्यपातिनां तच्छेषत्वमिति नियमादेवकारः । एवेत्यीत्युक्तैवका- रसार्थक्यायाहुः य एतानिति । फलेति । 'य एतान् पञ्चाग्नीन्वेद न सह तैरप्याचरन् पाप्मना लिप्यते 1604
मात्रार्थतेति प्रथमसूत्रव्याख्यान एव व्युत्पादितम् । श्रुतावपि 'य इत्थं विदु'रित्यत्र 'य एतानेवं पञ्चाग्नीन् वेदे'त्यत्र च 'शुद्धः पूतः पुण्यलोको भवती'त्यनेन ब्रह्मप्राप्तिरेव फलत्वेन प्रतिपादिता । वैराग्यं तु मध्ये धूममार्गव्युत्पादने 'अतो वै खलु दुर्निष्प्रपतर'मित्यादिना तृतीयस्थानव्युत्पादने च 'तस्माज्जुगुप्सेते'त्यनेनोक्तम् । तथा सति तयोः पथोर्ज्ञानस्यैव फलम् । तदत्र ब्रह्मज्ञानोपकार- कत्वेनोक्तम् । आहुतीनां यथाज्ञानोपयोगः, तदपि प्रागेवोक्तम् । इयं च मर्यादामार्गीया व्यवस्था । पुष्टिमार्गे तु पञ्चाहुतिनियमाभाव इत्यपि 'न तृतीय' इति सूत्रे साधितम्, अतो वैराग्यमात्रार्थत्वं पादस्य यदुच्यते परैः, तदप्रयोजकम् । एवमनुशयाधिकरणे फलानुशयो यत्राङ्गीक्रियते, तदपि तथेत्यपि तत्रैव व्युत्पादितम् । अनिष्टादिकारिणामित्यधिकरणं तु सर्वैर्दशसूत्रमङ्गीक्रियते । तत्र सर्वेषां न चन्द्रगतिरिति सिद्धान्तस्तु समानः । न तृतीय इत्यादिसूत्रचतुष्टयं तु तृतीयस्थानेऽन्यत्र च पञ्चाहुतिनियमाभाव- बोधकम् । तत्र न तृतीये स्थाने आहुतिसंख्यानियम आदर्तव्यः । कुतः । तथोपलब्धेः । आहुति- संख्यानियमं विनैव 'जायस्व म्रियस्वे'त्युक्तप्रकारेण तृतीयस्थानोपलब्धेः । किञ्च । 'पञ्चम्यामाहु- तावापः पुरुषवचसो भवन्ती'ति मनुष्यशरीरहेतुत्वेनाहुतिनियमः सङ्गीर्यते, न कीटपतङ्गादिशरीर- हेतुत्वेन । पुरुषशब्दस्य मनुष्यजातिपरत्वात् । अपि च । पञ्चम्यामाहुतावापां पुरुषवचस्त्वमुपदिश्यते, न त्वपञ्चम्यां तन्निषिध्यते । वाक्यभेदप्रसङ्गात् । अतो येषामारोहावरोहौ संभवतः, तेषां पञ्चम्यां शुद्धः पूतः पुण्यलोको भवति य एवं वेदे'ति श्रुत्युक्तफलसम्बन्धात् । एवेति । अन्यसूत्रव्याख्यान- व्यवच्छेदकः एवेति । पुण्यलोक इति । पुण्यः पुण्यसाध्यो लोकोऽस्येति व्याख्यायाम् । ब्रह्म- प्राप्तिरेवेति । लोको ब्रह्मलोकः । 'मुख्ये कार्यसम्प्रत्ययात्' । अत उक्तं ब्रह्मप्राप्तिरिति । एवकारस्तु 'ब्रह्मज्ञानौपयिकं जन्म विचार्यत' इति भाष्यात् । तृतीयेति । 'जायस्व म्रियस्वे'ति श्रुत्युक्तम् । तथा सतीति । वैराग्यब्रह्मज्ञानयोर्निरूपणीयत्वे सति । तदिति । वैराग्यम् । तयोः धूमतृतीयमार्गयोः । ज्ञानस्यैवेति । 'य एवं वेदे'ति श्रुत्युक्तज्ञानस्य । एवकारेण ब्रह्मज्ञानं न खसाधनवैराग्येण फलं भव- तीत्यर्चिरादिमार्गज्ञानं व्यवच्छिद्यते । तदत्रेति । वैराग्यमत्र पञ्चाग्निविद्यायां साधनचतुष्टयान्तर्गतत्वा- द्ब्रह्मज्ञानेत्यादिः । प्रागेवेति । प्रथमसूत्रे एवकारोऽन्ययोगव्यवच्छेदकः । परैरिति । शङ्कररामानुजप्र- भृतिभिः । तथाच भाष्यम् । 'प्रथमे तावत्पादे पञ्चाग्निमाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः । 'तस्माज्जुगुप्सेते'ति चान्ते श्रवणात् ।' 'उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यं प्राप्य- तृष्णा चेति तत्सिद्ध्यर्थं जीवस्य लोकान्तरेषु संचरतो जाग्रतः स्वपतः सुषुप्तस्य मूर्च्छतश्च दोषाः परस्य च ब्रह्मणस्तद्रहितता कल्याणगुणाकरता च प्रथमद्वितीयपादयोः प्रतिपाद्यत' इति च भाष्यान्तरम् । तथेति । अप्रयोजकम् । तत्रैवेति । एवकारेणेतरयोगो व्यवच्छिद्यते । न चन्द्रगतिरिति । 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतेः सुकृतिविषयत्वात् पापिनां न चन्द्रगतिरिति सिद्धान्तस्तु समान इति । परन्तु सूत्रचतुष्टयार्थासङ्गतिरिति भावः । तामेवाहुः न तृतीयेति । तृतीयं स्थानमुक्तम् । अन्यत्रेति । अर्चिरादिमार्गे धूममार्गे च । इत्युक्तेति । इति छान्दोग्योक्तप्र- कारेण । वाक्यभेदेति । वाक्यस्य द्व्यर्थताप्रसङ्गात् । 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति,' नत्वपञ्चम्यां भवन्तीति वाक्यस्य द्व्यर्थता वाक्यभेदरूपा । आरोहेति । 'ते धूममभिसम्भवन्ति धूमाद्रात्रि'मित्याद्यारोहः । 'तस्मिन्द्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त' इत्यवरोहः । 'अपि
७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ८ सू० २७. भाष्यप्रकाशः। देहोद्भवः । अन्येषां तु विनैव संख्यां भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते । अपि च । द्रोणधृष्टद्यु- म्नसीताद्रौपदीप्रभृतीनां चायोनिजत्वं स्मर्यते । द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे न स्तः । तत्र यथा संख्यानादरः, तथान्यत्रापि ज्ञेयः । बलाकापि रेतःसिचं विनैव गर्भ धत्त इति लोकरूढिः । अपि च । चतुर्विधे भूतग्रामे स्वेदजोद्भिज्जयोरुत्पत्तिर्ग्राम्यधर्मं विनैव दृश्यत इत्येवं सूत्रत्रये व्याख्याय, छान्दोग्ये 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्ज'मिति भूतग्रामत्रैविध्यश्रावणात्, कथं चातुर्विध्यमित्याकाङ्क्षायाम्, 'तृतीयशब्दावरोधः संशोकजस्ये'ति सूत्रं लिखित्वा, 'आण्डजं जीवजमुद्भिज्ज'मित्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोप- संग्रहो ज्ञेयः । स्वेदजोद्भिज्जयोर्भूम्युदकोष्मप्रभवत्वेन तुल्यत्वादिति व्याकुर्वन्ति । तदपि तथा । पञ्चाग्निविद्यायाः पुरुषशरीरभवनं प्रकृत्यैव प्रवृत्ततया तृतीयस्थाने आहुति- शङ्काया एवानुदयेन तत्र समाधेरपेक्षैव नेति सूत्रवैयर्थ्यप्रसङ्गात् । किञ्च, आहुतिनियमस्य बहुषु व्यभिचारेण तासामाहुतीनां कैमर्थ्याकाङ्क्षायां तद्विषयविचारे धूममार्गीयाः सर्वे तु न संभवन्तीति तदाकाङ्क्षापूरणाभावादपि ग्रन्थशैथिल्यम् । संशोकजशब्देन स्वेदजग्रहणमपि न रोचिष्णु । ईदृश- शब्दप्रयोगे प्रयोजनाभावादिति । रश्मिः। स्मर्यत' इति सूत्रार्थमाहुः अपिचेत्यादिना । स्मर्यते इति । यथा '
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७१
भाष्यप्रकाशः। तथा, साभाव्यापत्तिसूत्रे, समानो भावो रूपं येषां ते सभावाः । तेषां भावः साभाव्यं सारूप्यमिति वाचस्पतिव्याख्यानमप्ययुक्तम् । भावशब्दे परे समानपदस्य सादेश इत्यत्र पाणि- नीयानुशासनादर्शनात् । रामानुजाचार्यभास्कराचार्याभ्यां तु स्वाभाव्यापत्तिरित्येवं सूत्रपाठो भेद्यते । मध्वाचार्यैस्तु तद्भावापत्तिरित्येवं भेद्यते । तन्मतं तु न मयानूद्यते । अप्रसिद्धश्रुत्युदाहरणेन मिन्नविधत्वादिति । भिक्षुस्तु, कृतात्ययसूत्रादारभ्य संशोकजस्येत्यन्तं चतुर्दशसूत्रमेकमधिकरणं जीवावरोह- प्रतिपादकमङ्गीकृत्य, कृतात्ययादिसूत्रचतुष्टये कर्मशेषरूपमनुशयम्, अनिष्टादिकारिणामित्यादि- सूत्रचतुष्टये प्रयतां सर्वेषां चन्द्रमण्डलगमनं सूर्यमण्डलस्यदेवैस्तेषां भक्षणम्, न तृतीय इति सूत्रे च, यथोक्तारोहावरोहौ स्वर्गिनारक्यपेक्षया तृतीये यूकादिजीवे न स्तः । कुतः । तथोपलब्धेः । 'अथैतयोः पथोर्न कतरेणचन तानीमान्यसकृदावर्तीनि क्षुद्राणि भूतानि भवन्ति जायस्व म्रियस्वे'त्येतत् तृतीयं स्थानम् । तेनासौ लोको न संपूर्यते । 'तस्माज्जुगुप्सेते'ति छान्दोग्यश्रुतौ आरोहावरोहाभावोपलब्धेरित्येवं व्याख्याय, अग्रिमसूत्रद्वयव्याख्यानेऽन्येषामप्यारोहाभावं साध- यित्वा, श्रुतौ या पञ्चाग्निक्रमेण भूतानामुत्पत्तिः, साप्युत्सर्गाभिप्रायेत्युक्तवान् । संशोकजपदं च सर्वव्याख्यातवान् । रश्मिः। योजनवती सेति । पाणिनीयेति । अयमाशयः । समानस्य सादेशे प्रकारद्वयं संभावितम् । 'समानस्य छन्दस्यमूर्धप्रभृत्युदकेषु' इति सूत्रे समानस्येति योगविभागेन सादेशः । यथा सपक्षः साधर्म्यमित्यादि । अथवा । 'ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुष्वि'ति सूत्रे रूपशब्दस्यार्थपरत्वमङ्गी- कृत्य सादेश इति । तदसङ्गतम् । योगविभागस्य भाष्यानुक्तत्वादिति स्थितं शेखरे । अतएव सपक्षः साधर्म्यमित्यत्र सदृशवचनस्य सहशब्दस्य सादेश इति दीक्षिताः । एवं द्वितीयसूत्रेपि रूपपदस्यार्थपरत्व- मप्यन्यैर्न स्वीकृतमिति । अत उक्तं पाणिनीयानुशासनादर्शनादिति । तत्त्वं त्वेतत् । समानो भावो येषामित्यस्वपदविग्रहं स्वीकृत्य सदृशवाचकस्य सहशब्दस्य 'वोपसर्जनस्ये'ति सूत्रेण सादेशे सत्त्वे ष्यञि च कृते साभाव्यमिति सिध्यतीति व्याख्यानान्तरमेतदिति । को विशेष इति चेदुच्यते । साभाव्यापत्ति- रित्यस्य तन्मते आहुतावाकाशसाम्यापादनमित्यर्थो भवति । आपत्तिशब्देन तस्यैवार्थस्य प्रतीतेः । स चासङ्गतः । सादृश्यापादनस्याविवक्षितत्वात् । यद्यप्यापत्तेः प्रापणमप्यर्थः, तथाप्यवक्तव्यः । असमर्थत्वा- द्विरुद्धमतिकृत्वाच्च । 'तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति संप्रति सादर'- मित्यत्र गमनार्थे हन्तीतिवत् । 'सुधाकरकराकारविशारदविचेष्टितैः । अकार्यमित्रमेकोऽसौ तस्य किं वर्ण- याम्यह'मित्यत्राकार्यमित्रमितिवच्च । अत्र कार्यं विना मित्रं मित्रमिति विवक्षितम् । अकार्येषु मित्रमिति प्रतीतिः । तस्मादस्मदुक्तमेव साधीयः । किञ्च, अस्वपदविग्रहस्वीकारोपि समस्यमानयावत्पदघटितत्वस्य विग्रहेऽभावेन मुख्यलक्षणानाक्रान्तत्वात् यथाकथञ्चित् अस्वपदविग्रहोऽत्र वक्तव्यः । तदपेक्षयाऽसमस्त- त्वेन व्याख्यानमेव ज्याय इति । अत एव न बहुव्रीहेस्तादृशनित्यत्वमिति शब्दरत्नकारः । सूत्रपाठ इति । भिद्यते स ताभ्यां भेद्यते । ण्यन्ताद्यङ् । तद्भावेति । पुस्तकान्तरे तु तत्स्वाभाव्यापत्तिरिति पठ्यते । व्याख्यानं तु तद्गतौ गतिः, तत्स्थितौ स्थितिरित्येव तद्भावापत्तिरिति । अप्रसिद्धेति । पुस्तका- न्तरे तु 'धूमो भूत्वाभ्रं भवती'ति श्रुतिरुदाहृता । प्रयतामिति । प्रयाणं कुर्वताम् । अन्येषामिति । 1607
७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ८ सू० २७ योग्यदेहः साधनसहितो ब्रह्मज्ञानार्थं निरूपितः ॥ २७ ॥ इति तृतीयाध्याये प्रथमपादेऽष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥ भाष्यप्रकाशः । तत्र प्रयतां सर्वेषां चन्द्रगत्योक्ता, सा न युक्ता । प्रयाणस्य मरणरूपत्वेन क्षुद्रजन्तुष्वपि तुल्यतया तेषामप्यारोहाद्यापातात् । तेषामसकृदावृत्तिश्रुत्या निवारणे कौषीतकिश्रुतिस्थसर्वपदस्य सङ्कोचार्हताया आवश्यकत्वे अनिष्टाधिकारिणामपि 'वैवस्वते विविच्यन्ते' इति श्रुत्या वारणादिष्टा- दिकारिपरतया संकोचेपि बाधकाभावात् । पञ्चाग्निक्रमेणोत्पत्तेरौत्सर्गिकत्वोक्तिरपि तथा । बहुषु व्यभिचारे औत्सर्गिकत्वस्य वक्तुमयुक्तत्वात् । संशोकजव्याख्यानमग्रिमाधिकरणस्थसाभाव्यपद- व्याख्यानं च पूर्ववदेवासंगतम् । यत्पुनरवान्तरसृष्टेरपि ब्रह्मकर्तृकत्वप्रतिपादनार्थमयं पाद इत्युक्तम् । तच्चविरुद्धत्वादनुमन्यामहे ॥ २७ ॥ इत्यष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥ इति श्रीवल्लभाचार्यचरणनखचन्द्रकिरणनिवारितहृदयध्वान्तेन पीताम्बरात्मजेन पुरुषोत्तमेन कृते ब्रह्मसूत्रभाष्यप्रकाशे तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥ श्रीः ॥ रश्मिः । क्षुद्रादिजीवानाम् । निवारण इति । चन्द्रगतिनिवारणे । चन्द्रगतावसकृदावृत्त्यभावात् । कौषी- तकीति । 'ये वै के चास्माल्लोकात्प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतिः । वारणादिति । चन्द्रगतिवारणात् । सङ्कोच इति । विपरीतलक्षणया संकोचे । यथा 'बहूपकृतं त्वये'त्यपकारिणि लक्षणया बहूपकृतपदसंकोचः । औत्सर्गिकत्वेति । साप्युत्सर्गाभिप्रायेणेति ग्रन्थेन पूर्वमुक्ता । बहु- ष्विति । 'सदेव सोम्येदमग्र आसीत्' 'तस्माद्वा एतस्मादात्मनः' 'तदात्मानं स्वयमकुरुते'त्यादिषु । शङ्करैः प्रथमाधिकरणे बीजैः सम्परिष्वक्त एव गच्छतीति साधितम् । द्वितीये सानुशया अवरोहन्ति । तृतीये पापिनां स्वर्गे गमनाभावः । चतुर्थे धूमादिभावो धूमादिभिः सम्बन्धः । पञ्चमे व्रीह्यादिभावा- न्निर्गमो दुष्कर इति विलम्बः पूर्वं त्वरेति । षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रमिति । सिद्धान्ते तु प्रथमे सफला प्रथमाहुतिः । द्वितीये द्वितीयाहुतिः सफला । तृतीये पुष्टिमार्गीयाणां मर्यादामार्गीयाणां च सोमभावः, न सर्वेषाम् । चतुर्थे मर्यादायामेव पञ्चमाहुतिः निरोधलक्षणग्रन्थोक्तकर्तॄनुमेया । तस्या नियमः । न पुष्टौ । 'जायस्व म्रियस्वे'ति मार्गस्य यममार्गप्रवेशश्च । पञ्चमे तृतीयाहुतिः सफला । षष्ठे संस्कारेणाङ्गशुद्धिः । सप्तमे रेतसः पुरुषभावः । अष्टमे बहिर्निर्गतस्यैव पुरुषत्वमिति ॥ २७ ॥ इत्यष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥ इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण सम्पूर्णविद्या विट्ठलरायजीदौहित्रीयगोकुलोत्सवजिदात्मजगोपेश्वरजिता कृते भाष्यप्रकाशरश्मौ तृतीयाध्यायस्य रश्मौ प्रथमपादः सम्पूर्णतामगमत् ॥ ३ ॥ १ ॥ इति श्रीकृष्णद्वैपायनप्रणीतब्रह्मसूत्रेषु तृतीये उपनिषदां बोधकताप्रकारनिरूपके साधनाध्याये अधिकारिजन्मनिर्धारो नाम प्रथमः पादः ॥ 1608
श्रीकृष्णाय नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । शुद्धाद्वैतब्रह्मवादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि- श्रीमद्वल्लभाचार्यचरणप्रणीतम् । दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत- भाष्यप्रकाशसंपूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वरजि- चरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् । तृतीयाध्यायस्य द्वितीयः पादः । 'भगवद्धर्मपरायण सद्व्रत श्रेष्ठि गोवर्धनदास सुन्दरदास' इत्यस्य पुष्टिमार्गीयसंस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसंग्रहतो 'भृगुपुरस्थ मूलचन्द्र तुलसीदास तेलीवाला, बी. ए., एल्एल्. बी., वकील, हाइ कोर्ट' इत्यनेन संशोध्य 'निर्णयसागर' मुद्रणालये मुद्रयित्वा प्रकटीकृतम् । श्रीवल्लभाब्दाः ४४८. संवत् १९८२. मूल्यं मुद्रिकाद्वयम् ।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है, जिस पर केवल कुछ अनपेक्षित बिंदु/दाग (scan specks) उपस्थित हैं।
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः ।* श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । तृतीयोऽध्यायः । द्वितीयः पादः । सन्ध्ये सृष्टिराह हि ॥ १ ॥ ( ३-२-१- ) पूर्वपादे अधिकारियोग्यदेहो निरूपितः । द्वितीये जीवस्य मुक्तियोग्यता भाष्यप्रकाशः । सन्ध्ये सृष्टिराह हि ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पादयोः सङ्गतिमाहुः पूर्वे- त्यादि । अधिकारिणो ज्ञानोपदेशयोग्यदेहप्राप्तावपि यदि स्वरूपतो मुक्तियोग्यता न स्यात्, तदा तादृशदेहाप्तिर्वैयर्थ्यम्, अतस्तदर्थं द्वितीयपादे सा निरूप्यते । यदि हि सा न स्यात्, उपदेशो न स्थिरीभवेत्, अतस्तदर्थं तन्निरूपणमित्यर्थः । माध्वास्तु माहात्म्यज्ञानपूर्वकस्नेहस्य भक्तित्वादमुक्ते माहात्म्ये तदज्ञानेऽस्य भक्तेरप्य- सम्भवात् तत्सिद्धये माहात्म्यप्रदर्शनायायं पाद इत्याहुः । तन्न माहात्म्योक्तिस्तु पूर्वमपि निराबाधा । भिक्षुस्तु, पूर्वस्मिन् पादे ब्रह्मणः सकाशादवान्तरसृष्टिरुक्ता । अत्र त्वेकस्मिन् देहेऽपि खमादिसृष्टिस्तत उच्यते । तावता जन्मादिसूत्रस्थं लक्षणं विचारितं भवति । ततः स्वरूपलक्षणं विचार्यते, ततः प्रपञ्चब्रह्मणोर्भेदाभेदावित्याह । तत्रापि विचारस्य कैमर्थ्याकाङ्क्षा न पूर्यते । तस्मादुक्तमेव प्रयोजनम् । ततश्चैककार्यत्वं पादयोः सङ्गतिः । अस्या योग्यताया आन्तरत्वं च पादानन्तर्ये हेतुरिति द्रष्टव्यम् । रश्मिः । सन्ध्ये सृष्टिराह हि ॥ १ ॥ तदर्थमिति । उपदेशस्थिरीकरणार्थम् । तन्निरूपणं स्वरूपतो मुक्तियोग्यतानिरूपणम् । तदज्ञान इति । विषयत्वेन माहात्म्याज्ञाने । कारणाभावेन ज्ञाना- भावात् । अस्य पञ्चाग्निविद्यासाधितदेहकस्य । तत्सिद्धये माहात्म्यज्ञानसिद्धये । पूर्वमिति । पूर्व गतपादे । तेनास्यार्थस्यातिव्याप्तिः । स्वरूपतो मुक्तियोग्यता तु दीक्षितस्य स्वेऽश्वमेधोजनादौ प्राय- श्चित्तस्मरणात्स्वेऽश्वमेधोजनादिदोषनिवृत्त्या तादृशदोषज्ञानार्थमधिकरणारम्भः । अग्रे दोषासंसर्गे विषय- निर्धारार्थं ब्रह्मस्वरूपविचार इति नातिव्याप्तिः । माहात्म्यज्ञानं तु श्रवणाङ्गमीमांसाफलं षोडशपा- दानुस्यूतम् । खमादीति । आदि सुषुप्तिः । तत इति । तदनन्तरं द्वितीयपादे । तत इति । तदनन्तरं तृतीयपादे । तत इति । तदनन्तरं चतुर्थपादे । कैमर्थ्येति । असंदिग्धस्य स्वरूप- लक्षणस्य सूत्रविषयस्य महता प्रबन्धेन विचारः किमर्थ इति कैमर्थ्याकाङ्क्षा । उक्तमिति । खमदो- षज्ञानम् । एवेति । प्रयोजनद्वयनिरासादेवकारः । एककार्यत्वमिति । अविरोधस्य द्वितीयाध्या- १० ब्र० सू० २ ०
निरूप्यते । तत्र प्रथमं स्वप्नं निरूपयति । स्वप्नस्य सत्यत्वे तत्कृतगुणदोषसम्बन्धो जीवस्य भवेत् । ततश्च निरूपिता शुद्धिर्व्यर्था स्यात् । अतः स्वप्नस्य मिथ्यात्वं प्रदर्शयितुमधिकरणारम्भः । तत्र पूर्वपक्षमाह । सन्ध्ये स्वप्ने सृष्टिराह । 'तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थान'मित्युपक्रम्य, 'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत' इत्यादिना सृष्टिराह । सन्ध्ये स्थाने सृष्टिरस्ति । यतः श्रुतिः स्वयमेवाह । युक्तश्चायमर्थः । भाष्यप्रकाशः । पूर्वाधिकरणविषयमाहुः तत्रेत्यादि । तत्रेति । योग्यतायां निरूप्यायाम् । ननु तथा सति प्रथमं स्वप्ननिरूपणस्य किं प्रयोजनम्, अत आहुः स्वप्नस्येत्यादि । जीवस्येति । प्राप्तयोग्य- देहस्यापि जीवस्य । शङ्करभास्कराचार्ययोर्मते तु स्वयंज्योतिष्ट्वसिद्ध्यर्थं स्वप्ननिरूपणम् । तत्तु मुक्तियोग्यतायामेव पर्यवस्यति । रामानुजाचार्यास्तु, पूर्वपादे जीवस्य कर्मगतिं प्रदर्श्य दुःखित्वं स्थापितम्, इदानीमस्य स्वप्नावस्था परीक्ष्यत इत्याहुः । एवं तच्छैरोपि । तन्मते वैराग्यार्थतामात्रमायातीति बोध्यम् । प्रकृते त्वधिकरणप्रयोजनोक्त्यैव स्वप्नसृष्टिः सत्या मिथ्या वेति संशयोप्युक्त इति तम- नुक्त्वा पूर्वपक्षमेवाहुः तत्रेत्यादि । सन्ध्यमिति । एतल्लोकपरलोकयोः सन्धौ भवम् । रश्मिः । यार्थस्य शाब्दज्ञानजननस्वभावस्य पादयोः सङ्गतिरित्यर्थः । पूर्वोक्तशाब्दज्ञानस्य ज्ञानोपयोगिदेहसाधनं कार्यम् । तदनन्तरं किमन्यकार्यजनकत्वमिति जिज्ञासायां स्वरूपतो मुक्तियोग्यतारूपकार्यनिरूपणात् । एकस्य कारणस्य कार्यत्वमित्येककार्यत्वम् । पादयोस्तु प्रसङ्गः । स्वयमिति । 'अत्रात्मा स्वयंज्यो- तिर्भवती'ति श्रुतेः । 'अत्र' स्वप्ने । तत्तु मुक्तीति । शाब्दविषयं स्वयंज्योतिष्ट्वं मुक्तियो- ग्यतायाम् । एवेति । मुक्तेः स्वयंज्योतिष्ट्वम् । ज्योतिश्चरणाधिकरणे च ब्रह्मणः स्वयंज्योतिष्ट्वमित्ये- वकारः । पर्यवस्येति । मुक्तियोग्यता स्वामिकदोषाभावः । तत्र स्वयंज्योतिष्ट्वं स्वयंप्रकाशत्वं स्वामिक- दोषरहितत्वेऽभिन्नात्मत्वं विषयान्तराप्रकाशयत्वं स्वयंज्योतिष्ट्वं 'अत्रात्मे'ति श्रुतेरित्येवं पर्यवस्यतीत्यर्थः । तच्छौर इति । भगवच्छैवाचार्यः । वैराग्येति । जगतः कर्मगत्यधीनत्वे दुःखित्वं विषयवैतृष्ण्य- रूपवैराग्यार्थतामात्रम् । स्वप्नावस्थापरीक्षणेन च वैराग्यमिति तथा । मात्रचा ज्ञानोपयोगिदेह- व्यवच्छेदः । एवेति । जगद्दुःखिः सत्यत्वे बीजम्, निरूपितशुद्धिवैयर्थ्यं मिथ्यात्वे बीजमित्येवकारः । पूर्वपक्षमेवेति । संशयव्यवच्छेदक एवकारः । भाष्ये । सृष्टिराहेति । अत्र सृष्टिमाहेत्यापत्त्या तन्निवृत्तये सूत्रमेव विवृण्वन्ति स्म सन्ध्य- इत्यादि । सूत्रे 'सन्ध्य' इत्यस्य 'स्थान' इति विशेष्यं 'सृष्टि'रित्याग्रे 'ऽस्ती'त्यस्यानुसन्धानं विभक्तिप्र- योजकम्, तदाह सृष्टिरस्तीति । आहेत्यस्यार्थमाह पूर्वपक्षी यत इति । आहेत्यत्र श्रुतिः कर्त्री । एवकारः श्रुत्यन्ययोगव्यवच्छेदकः । सौत्रीहीत्यस्यार्थमाहुः युक्त इति । 1610
यथा श्रुतिर्वदति, तथैव स्वप्ने दृश्यते । देवादिकवाक्यानां प्रबोधेपि बाधाभावात् । नचेयमेव सृष्टिस्तत्र दृश्यते । 'न तत्र रथा' इत्यादिना निषेधात् । श्रुतिवादिनां भाष्यप्रकाशः। स्वप्न इयमेव सृष्टिः सूर्यत इति नैयायिकादयो मन्यन्ते । तदयुक्तम् । स्वप्ने दर्शनाद्यभिमानस्य क्वचित् पश्यामीत्याद्यनुव्यवसायस्य जागरणोत्तरं चेदं मया दृष्टमिदं भुक्तमित्यादिज्ञानस्य च बाधापत्तेः । नचेयमेव दृश्यत इत्यपि युक्तम् । स्थूलानां गजतुरगादीनां शरीरान्तर्मातुमशक्यत्वात् । नच मिद्धामनःसंयोगे स्मृत्युपनीतमारोपितं भासत इत्यपि युक्तम् । आरोपनियामकस्य तत्तद्वस्तुसादृश्यस्यात्मनि मिद्धायां चासिद्धत्वात् । अप्रामाणि- कस्य तस्य कल्पने गौरवाच्च । क्षणे क्षणेऽन्यान्यदर्शनेऽन्यस्यान्यथात्वेपि नियामकाभावाच्च । नच क्षणानामेव नियामकत्वम् । साधनान्तर
७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० २. श्रुतिरेव प्रमाणम् । किं पुनरनुभवसंवादिनी । तस्मात् स्वप्ने सृष्टिरस्ति ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ काठके चतुर्थवल्ल्यां श्रूयते । 'य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मि- माणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यत' इति निर्मातारमेके वदन्ति । यद्यपि 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र 'न तत्र रथा' इत्यपि ब्रह्मप्रकरणम्, तथापि नियतधर्मपक्षे जीव एव कर्तेति प्रतिभाति । तदर्थं निःसन्दिग्धं वचनमुदाहरन्ति । भगवन्निर्मितत्वात् स्वप्नस्यस्यापि सत्यत्वम् । न हि कर्तुः स्वापोऽस्ति, येन भ्रमः भाष्यप्रकाशः। युक्तिविरुद्धः श्रुतिविरुद्धश्चेत्याहुः नचेत्यादि । अन्यत् स्पष्टम् ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ ननु पूर्वसूत्रविषयवाक्येनैव सृष्टौ सिद्धायां पुनरेतत्सूत्र- प्रणयनस्य किं प्रयोजनमित्यत आहुः यद्यपीत्यादि । ब्रह्मप्रकरणमिति । इति सिद्धमिति शेषः । नियतधर्मपक्ष इत्यादि । 'कतम आत्मे'ति प्रश्ने, 'योऽयं विज्ञानमयः पुरुषः प्राणेष्वि'- त्युपक्रम्याग्रे 'स्वयं विहत्य स्वयं निर्माये'ति कथनात्, तस्यैवाग्रे 'न तत्र रथा' इत्यादिना विवर- णात्तस्यैवायं धर्म इति पक्षे अदृष्टद्वारा जीव एव कर्तेति प्रतिभाति । तदर्थं तन्निवृत्तये । तथाच निःसन्दिग्धं भगवत्कृतत्वप्रतिपादनायास्य सूत्रस्य प्रणयनमित्यर्थः । एवं निर्बन्धेन प्रतिपादनस्य फलमाह भगवदित्यादि । तथाच पूर्वस्मिन् वाक्ये 'स्वयं निर्माये'त्यनन्तरं 'प्रस्वपिती'ति स्वाप- श्रावणादत्र तद्राहित्यश्रावणाद्भगवानेव कर्तेति लिङ्गबलात् प्रकरणात् 'तदेव शुक्र'मित्यादिवाक्य- रश्मिः। श्रुतीति । 'अत्रात्मे'ति श्रुतिविरुद्धः । स्वप्नविषयकज्ञानाधिकरणमात्मा स्वयंज्योतिरित्यार्थात् । स्वप्न- मिथ्यात्वे निर्विषयकज्ञानाभावान्न ज्ञानाधिकरणत्वमात्मनः स्यात् । अन्यदिति । सृष्टिरिति । पूर्व- पक्ष्युक्ता । एवमन्यत्स्पष्टम् ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ प्राणेष्विति । प्राणा इन्द्रियाणि । सूक्ष्मदेहे । तस्यै- वेति । विहननस्वयंनिर्माणस्याग्रे । एवकारोऽन्ययोगव्यवच्छेदकः । तस्यैवेति । विहृत्य निर्मातुः । विवरणक्रियमाणसम्बन्धादेवकारः । अयमिति । 'न तत्र रथा' इत्युक्तः स्वप्नः । जीव एवेति । स्वयंशब्देनापि जीवपरामर्शात् पूर्वपक्षोक्तपुरुषयोगव्यवच्छेदक एवकारः । तदर्थमितिभाष्यं विवृ- ण्वन्ति स्म तदर्थमिति । व्याख्येयम् । भाष्ये । उदाहरन्तीति । तद्विदः । प्रकृते । पूर्वस्मि- न्निति । पूर्वसूत्रीयपूर्वस्मिन् ज्योतिर्ब्राह्मणे । प्रस्वपितीति । 'स्वेन भासा स्वेन ज्योतिषा प्रस्वपि- ती'ति । अग्रेति । बृहदारण्यकज्योतिर्ब्राह्मणे । तत्रेति । द्वितीयसूत्रीयोत्तरस्मिन् काठके स्वापरा- हित्यात् 'तदेवामृतमुच्यते'इत्यनन्तरं 'तदेव शुक्र'मित्यादिश्रुतेः । ननु राहित्यश्रावणं कुत्रेति चेत् । न । राहित्यस्य श्रावणादिति न विगृह्यसमासः, किन्तु स्वापराहित्येन 'तदेव शुक्र'मित्यादिश्रावणात् । तद्राहित्यपदं तद्राहित्यश्रावणे लाक्षणिकमिति समासः । तदेव 'अव्यक्तं तद्ब्रह्मे'त्याद्यपि पाठः । एवेति । जीवयोगव्यवच्छेदकः । कर्तेति । निर्माणकर्ता निर्माता । इति हेतोः स्वापराहित्यलिङ्गबलात् । प्रकर- णात् । 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र 'न तत्र रथा' इत्यत्र ब्रह्मप्रकरणात् । तदेव शुक्रमिति । बृह- दारण्यके जीवः, काठके 'पुरुषो ब्रह्मे'ति किं ब्राह्मं तत्र । यद्वा । पुरुषः जीवो ब्राह्मः, ब्रह्म वा । तत्र वाक्यशेषः । 'तदेव शुक्र'मित्यादिः । अत्र तद्ब्रह्मेतिपदाद्ब्रह्म ब्राह्ममित्येष वाक्यशेषः तस्मात् । नहि 1612
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७७ स्यात् । 'जागर्त्ती'ति वचनात् । इच्छापूर्वकं च सर्वं सृजति । 'शतायुषः पुत्रपौत्रा'- निति कामविषयाः पुत्रादय उक्ताः । ते च निर्मिताः परलोकसाधका इति लो- कत्रयकल्पना । चकारद्वयेन कारणकार्यगताः सर्वे धर्मा उक्ताः । तस्माच्छ्रुत्यु- पपत्तिभ्यां स्वप्नप्रपञ्चस्य सिद्धत्वात् तत्कृतगुणदोषसम्बन्धे पूर्वोक्तदेहनिर्माणं व्यर्थमित्येवं प्राप्तम् ॥ २ ॥ भाष्यप्रकाशः । शेषाभावसीयते । अतो भ्रमाभावादपि स्वप्नसृष्टेः सत्यत्वम् । किञ्च । 'ये ये कामा दुर्लभा मर्त्य- लोके तांस्तान् कामान् छन्दतः प्रार्थयस्वे'ति पूर्वं कामशब्दस्य कामविषयेषु प्रयुक्तत्वात् 'कामं कामं पुरुषो निर्मिमाण' इत्यत्रापि कामपदेन तद्विषय एव लभ्यते । वीप्सया क्रियाविशेषणत्वेन वेच्छा- पूर्वकतेत्यतोपि भगवत्
७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १ सू० ३. मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ तुशब्दः पक्षं व्यावर्तयति । स्वप्नसृष्टिर्मायामात्रम् । तत्र हेतुः । कार्त्स्न्येना- नभिव्यक्तस्वरूपत्वात् । कृत्स्नत्वेन यस्य यादृशं स्वरूपं देशकालवस्तुसापेक्षं तथाभिव्यक्तिः कार्त्स्न्येनाभिव्यक्तिस्तदभावात् । भाष्यप्रकाशः । मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ सिद्धान्तं व्याकुर्वन्ति तुशब्द इत्यादि । पक्षमिति । सत्यत्वपक्षम् । मायामात्रमिति । वैदिके निघण्टौ प्रज्ञानामसु 'माया, वयुनम्, अभिख्ये'ति पाठादर्थशून्यः प्रत्ययो माया, तदात्मकमिति भास्कराचार्याः । मायाशब्दो ह्याश्चर्यवाची । 'जनकस्य कुले जाता देवमायेव निर्मिते'त्यादिषु तथा दर्शनात् । 'न तत्र रथा' इत्यत्रापि सकलपुरुषानुभाव्यतया न भवन्ति । 'अथ रथान् सृजत' इत्यपि स्वप्नदृ- गनुभाव्यतया तत्कालमात्रावसानात् सृजत इत्याश्चर्यरूपत्वमुपपद्यते । न हीदृशी सृष्टिर्जीवेन कर्तुं शक्या । संसारदशायां जीवस्य कार्त्स्न्येन अनभिव्यक्तस्वरूपत्वात् तादृशसामर्थ्यायोगात् । अतः सा आश्चर्यात्मिकेति रामानुजाचार्याः । सिद्धान्ते तु सामर्थ्यविशेषो माया । अष्टमस्कन्धे 'नटवन्मूढ मायाभिर्मायेशान्नो जिगीष- सी'ति । प्रथमस्कन्धे च 'अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् । यया सम्मो- हितो जीव आत्मानं त्रिगुणात्मकम् । परोपि मनुतेऽनर्थं तत्कृतं चाभिपद्यत' इति कथनात् । अत ईश्वरस्य या व्यामोहिका शक्तिः, सा माया प्रकृते ज्ञेया । तन्मात्रं तदेकोपादानकम् । तेन बाह्योपादानादिव्यावृत्तिः । कृत्स्नत्वेनेति । देशः कालो विषयसन्निधिरिन्द्रियव्यापारो बाधाभावश्चेति कार्त्स्न्यम्, तेन । तथा चैन्द्रजालिकेन नटेन यथा सामाजिकव्यामोहेन कौतुकार्थं मायामात्रसृष्टिः क्रियते, तथेश्वरेण जीवव्यामोहनाद्यर्थं स्वप्नसृष्टिः क्रियत इति न तस्याः सत्यत्वमित्यर्थः । अत्र बहूनि मतानि । तत्र भास्कराचार्याः । पूर्ववासनावासितं शुभाशुभकर्मप्रेरितं नाडीषु परिवर्तमानं मनः स्मृतिज्ञानहेतुर्भवति । स एव स्मर्यमाणोऽर्थः प्रत्ययालम्बनः । 'यान्येव जाग्रत् पश्यति, तानि सुप्त' इति श्रुतेः । इयं च जीवसृष्टिः । सुखदुःखप्रतिभासनात् । नेश्वरस्य । 'य एष स्वप्ने महीय- मानश्चरति एष आत्मो'ति श्रुतेरित्याहुः । तेन तन्मते जीवकर्तृका स्मर्यमाणार्थविषयप्रत्ययमात्रमेव स्वप्नसृष्टिरिति सिध्यति । रश्मिः । मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ अर्थेति । अर्थो विषयः । विषयशून्यं ज्ञानम् । तदात्मकमिति । मात्रचोर्थः । सामाजिकेति । सामाजिकानां व्यामोहो येन नटेन । मोहनादीति । आदिनेष्टानिष्टसूचनम् । पूर्वेति । त्यक्तपूर्वापरानुसन्धानं यदादानं पदार्थस्य सा वासना । स्मृतीति । स्वाप्निकस्मृतिज्ञानयोर्हेतुः । स एवेति । पूर्ववासनावासितः । अन्यथाऽलौकिकं स्मर्यमाणं स्यादित्येवकारः । प्रत्ययेति । ज्ञानस्मृतिविषयः । जाग्रदिति । सप्तम्यालुक् । 1614