अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
१३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २०. नुसारेण। महानवकाशोऽल्पोऽवकाशः, 'यथावकाशं दश चमसा'निति लौकिकवै- दिकव्यवहारो वस्तुधर्मविरुद्धो दृश्यते। व्यापकत्वं वृद्धिह्रासौ च आकाशस्यैव। तत्र यथा करके प्रविष्ट आकाशस्तथा व्यपदिश्यते, तथा सत्युभयसामञ्जस्यं भवति, अन्यथा एकतरबाधो भवति, एवं तत्तदनुप्रवेशात् ब्रह्माप्येवम्। नचौ- पाधिकत्वम्। जपाकुसुमलौहित्यवदन्यधर्मत्वाभावात्। अन्यानुविधायित्वेपि भाष्यप्रकाशः। ब्रह्माप्येवमित्यन्तम् । 'यथावकाशं दश चमसा'नित्यासादनविषये श्रुतिः । एवं चयनेपि 'एतैरग्निं चिन्वीते'ति 'चितिः स्रु'गित्यादिमन्त्रैश्चयनं विधाय, प्रकारप्रदर्शनावसरे चतुर्षु दिक्षु तत्तद्देवमन्त्रैश्चयनं दर्शयित्वा, 'यथावकाशं ग्रहान् यथाव
स्वधर्मा एव ते । कारणत्वादिवत् । नचागन्तुकत्वात् तद्धर्मा एव न भवन्तीति वाच्यम् । अन्यधर्मत्वे प्रमाणाभावात् । तद्गतत्वप्रतीतेश्च । दृष्टत्वाच्चाविरोधः । अविरोधप्रकारोऽयम् । यथोभयसामञ्जस्यं भवति, प्रकारोपि तस्यैव तथा भाष्यप्रकाशः। जपाकुसुमलोहित्यवदन्यधर्मत्वेन प्रत्यायिताः स्युः, तदा तेषामौपाधिकत्वं स्यात् । प्रत्यायिता- स्त्वात्मविशेषणेष्वात्मधर्मत्वेन, अतो न तथात्वमित्यर्थः । ननु यद्यप्येते आत्मविशेषणत्वेनोक्ताः, तथापि मनोमयत्वादिकं पूर्वमुक्त्वा पश्चादुक्ताः, तेन ब्रह्मणो मनआद्यनुविधायित्वमेव स्फुटीकृतम्, तथा सति तेषां तद्धर्मत्वमेव, न ब्रह्मधर्मत्वम्, अन्यानुविधायित्वस्यैव स्फुटीभावादित्यत आहुः अन्येत्यादि । तदभिध्यानसूत्रे आकाशादिलिङ्गतया तत्तदनुविधायित्वस्य सिद्धत्वान्न मनआ- द्यन्यानुविधायित्वेपि सर्वकामादयो ब्रह्मधर्मा एव । यथा तन्त्रत्यं कारणत्वम् । आदिपदेन 'विशि- ष्टशक्तिर्बहुधैव भाती'ति स्मृत्युक्तं शक्तिविश्लेषादिकमपि संगृहीतं ज्ञेयम् । तेन स्वल्पकार्यकरणेपि नौपाधिकत्वमित्यर्थः । नन्वेवमन्यानुविधायित्वे तेषामागन्तुकत्वं तु सिद्धम्, तथा सति नैसर्गि- कत्वाभावादन्यधर्मा एव भवन्ति, न तु भगवद्धर्मा इत्यत आहुः नचागन्तुकेत्यादि । 'कामः सङ्कल्प' इति श्रुतौ 'अशुद्धं कामसङ्कल्प'मिति श्रुतौ च कामसङ्कल्पयोः केवलयोरेव मनोधर्मत्वं श्रूयते, न तु सर्वत्वसत्यत्वविशिष्टयोस्तयोः, अतोऽन्यधर्मत्वे श्रुत्यभावः। लिङ्गवाक्यप्रकरणाभावस्तु स्फुटः । स्थानं त्वन्यानुविधानेनैव व्याख्यातम्, अतः प्रमाणाभावात् तथेत्यर्थः । समाख्या तु बहुव्रीहिणा ब्रह्मधर्मत्वमेव स्फुटीकरोतीत्याहुः तद्गतेत्यादि । ननु यद्यप्येवम्, तथापि युक्ति- मिरनुचिन्तनस्य मननत्वात् तच्छेषत्वेनैतत्पाठोप्यासनाशेषत्वमेव, न तु स्वतन्त्रब्रह्मधर्मत्वमेषाम्, यथा अस्थूलत्वादीनाम्, अतस्तदपेक्षया निर्बलत्वात् कथमविरोध इत्यत आहुः दृष्टत्वाच्चा- विरोध इति । 'सोऽकामयत बहु स्यां'मित्यत्र सर्वविषयककामस्य ब्रह्मधर्मत्वेन दृष्टत्वादेतेषां स्वाभाविकब्रह्मधर्मत्वेन नैर्बल्याभावादविरोध इत्यर्थः । नन्वेवं सति धर्मविधिनिषेधयोरेकविषय- त्वाद्विरोध एवायातीति कथमविरोध इत्यत आहुः अविरोधेत्यादि । अयमस्मदुक्तरीतिकः । रश्मिः। पाधिकत्वमित्यादीति । जपेति । विलक्षणलौहित्यबोधनाय जपाकुसुमोपादानम् । वैलक्षण्यं त्वन्य- धर्मत्वम् । 'तत्स्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेः सर्वकामत्वादीनामन्यस्योपाधेर्धर्मत्वाभावात् । अन्येति । उपाध्यनुविधायित्वेपि धर्माणां ते धर्माः स्वस्य ब्रह्मण एव, नतूपाधेः, श्रुतावुपाधिसमत्वोक्त्या तथाव- सायात् । समत्वं धर्मैरिति । ननु समत्वेपि विभुत्वविरुद्धा अन्य धर्मा इति चेत्, तत्राहुः एवेति । 'यदेकमव्यक्तमनन्तरूप'मिति श्रुत्या निर्धारणादित्यर्थः । एवेत्यस्मात्पञ्चम्या लुक् । ननु स दोषस्तदवस्थ इति चेत्, तत्र दृष्टान्तमाहुः कारणत्वेत्यादि । नहि कारणत्वमुपाधिगतमुपाधेयेस्ति । 'कर्ता शास्त्रार्थ- वत्त्वा'दित्यधिकरणविरोधात् । आदिना सत्यत्वादयः । तद्वदिति न स दोषस्तदवस्थ इति भावः । ननु कारणत्वादयो नागन्तुका इति दृष्टान्तवैषम्यमिति प्रतिवादिनं पर्यनुयुञ्जतेस्म नचागन्तुकेति । जानाति इच्छति यतत इति प्रवादात् सर्वकामादीनां ज्ञानाधीनत्वेनागन्तुकत्वात्ते तद्धर्माः ब्रह्मधर्मा एव न । एवकारो 'नहि जन्या भगवद्धर्मा भवन्ती'ति तयोर्व्यवच्छेदकः । श्रुत्यादीति । आदिना १. न चौपाधिकत्वमित्यादि प्रमाणाभावादिति, युक्तादिरूपमात्रार्थेलिङ्गाभावात् । तद्गतत्वेत्यादिना तेषां वाक्यव- त्त्वानङ्गीकारे प्रत्यक्षविरोधोपीति बोधितम् । तस्यैवेति, विचार्य वस्तुन एव । शिष्टमाहुः तथेत्यादि । एवं ब्रह्मण्यपीति । तत्तदुपाध्यन्तर्भूतं तथा तथा भवति, तथा च पूर्वमर्ककार्यसूत्रे व्योमवच्चेत्यनेन यदुक्तम्, तदेवात्र स्मारितम् । अत्र ब्रह्मधर्मविचारप्रसङ्गेन जीवधर्मोपि विचारित इत्याशयेनाहुः दृष्टत्वात्पदेनेति मूलपाठः रश्मौ व्याख्यातः ।
१३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २१. वक्तव्यः । तस्मात् यथा आकाशस्य वृद्धिह्रासभाक्त्वं करकादिष्वन्तर्भावात् तथै- वोभयसामञ्जस्यात् , एवं ब्रह्मापि । वृद्धिह्रासपदेन शरीरे आकाशजीवयोरेकमुदा- हरणं बोधयति ॥ २० ॥ दर्शनाच्च ॥ २१ ॥ हेत्वन्तरमाह । भगवति सर्वे विरुद्धधर्मा दृश्यन्ते । 'न हि दृष्टेऽनुपपन्नं नाम ।' व्याघातात् । तादृशमेव तद्रूपमिति त्वध्यवसायः प्रामाणिकः । चकारादुत्तम्भक- भाष्यप्रकाशः । यथोभयसामञ्जसे श्रुतिद्वयस्य मुख्यार्थप्रतिपादकता भवति । एकदेशिना दृष्टान्तेनैवाविरोधसाध- नात् । प्रकारोऽपि दृष्टान्तस्यैव श्रुत्यनुसारेण वक्तव्यः, अन्यथैकदेशी न मन्येत, अतस्तथेत्यर्थः। उक्तं निगमयन्ति तस्मादित्यादि । तथाच यदा भगवान् सत्त्वादिष्ववतर
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ बन्धनादिषु प्रत्यक्षमेवोभयसाधकं दृष्टमिति । 'अथो अमुष्यैव ममार्मकस्ये'ति च । तस्माच्छ्रुतिस्मृतिप्रत्यक्षैः सर्वविरुद्धधर्माश्रयत्वेन ब्रह्मप्रतीतेर्न विरोधः ॥ २१ ॥ भाष्यप्रकाशः । केवलब्रह्मबोधकश्रुतिषु तत्तद्धर्मदर्शनात् प्रत्यक्षेणापि भानात् स्मृतावपि सिद्धत्वात् ब्रह्म एवम्, यथा प्रतीयते तादृशम् । तत्र हेतुरुभयसामञ्जस्यमेव । तदेतत् हृदिकृत्य सूत्रोक्तं दर्शनं विवृण्वन्ति भगवतीत्यादि । तथाच वैश्वानरविद्यायां प्रादेशमात्रत्वाभिविमानत्वं द्युमूर्धत्वादिकं पुरुषत्वं पुरुषविधत्वं पुरुषेऽन्तःप्रतिष्ठितत्वम् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दित्येकस्याव्यक्तस्यानन्तरूपत्वम् । एवं श्रुत्यन्तरेऽपि 'आसीनो दूरं व्रजती'त्यादीनि दृश्यन्ते । एवं मिथिलागमने श्रुतदेवजनकयोर्गृहे एककालावच्छेदेन प्रवेशादिकं स्मृतिसिद्धं दृश्यते । अवतारदशायां गोवर्धनोद्धरणादिकमवस्थासाधनविरुद्धं कार्यं च दृश्यते । तत्र प्रत्यक्ष- श्रुतिसिद्धे सर्वजनीनदर्शनसिद्धे तादृक्स्मृतिसिद्धे च ब्रह्मणो विरुद्धधर्माश्रयत्वेऽनुपपत्तेर्वक्तुम- शक्यत्वाद्वस्तुस्वभावमेवादाय दर्शनेच्छानुग्रहादिहेतुकत्वं चादाय तादृशनिश्चयस्य प्रामाणिकत्व- मवगन्तव्यमित्यर्थः । उभयसाधकमिति । स्वल्पत्वमहत्त्वयोः साधकम् । तत्र बहूनां दाम्नां सन्धानेपि न स्वरूपवेष्टकत्वम्, स्वरूपस्य च न प्रथमपरिमाणादाधिक्यम्, अन्यथा विस्मया- नापत्तेः । मृल्लाभक्षणव्यादानस्थले च स्पष्टमेव तथात्वम् । 'एवं विदिततत्त्वाया' इति तत्र कथनात् । मायामोहस्य तदुत्तरं कथनाच्चेति । तेन सिद्धमाहुः तस्मादित्यादि । वैश्वानरेऽर्थ- रश्मिः । इत्यर्थः । च दर्शनादिति सूत्रयोजनामाहुः तथा चेति । तत्तद्धर्मेति । सत्यत्वज्ञानत्वादिकधर्म- दर्शनात् । स्मृताविति । 'अथो अमुष्यैव ममार्मकस्य यः कश्चनौत्पत्तिक आत्मयोग' इतिस्मृतौ । तेन चकारात्सप्तम्या लुक् । एवं चकारार्थेषु मध्ये श्रुतिषु दर्शनादिति सूत्रं व्याख्यातं पञ्चम्यन्तेन । प्रत्यक्षे- णेति । उलूखलबन्धनादिषु प्रत्यक्षेण । बुद्धिस्थद्वितीयचकारार्थेन समं सूत्रार्थः । बुद्धिस्थतृतीयचकारार्थेन समं सूत्रार्थमाहुः स्मृतावपीति । भानेन सिद्धत्वात् भानात् । एवं सूत्रार्थमुक्त्वाऽनुवृत्तपदाना मर्थमाहुः ब्रह्म एवमिति । एवंशब्दार्थः यथेत्यादिः । न विरोधः । उभयेति । पञ्चम्यन्तमितिविशेषणं बोध्यम् । एवेति । अयं दर्शनादितिहेतुयोगव्यवच्छेदकः । तस्यानुवृत्तपदेन्वयो न सकलसूत्रेऽहेतुत्वात् । नापि पूर्वहेतुसमुच्चयेन हेतुत्वम् । अन्यचकारार्थोक्तेः । वैश्वानरेति । इयं प्रथमाध्याये 'वैश्वानरः साधारण- शब्दविशेषा'दित्यत्र समर्थिता । प्रवेशादिकमिति । आदिशब्देन स्थित्यादिकम् । दशमस्कन्धे स्पष्टम् । अवस्थेति । सप्तवार्षिकी । साधनं गोवर्धनोद्धरणम् । तदुभयविरुद्धं कार्यं गोष्ठरक्षणम् । एतावता दृश्यन्त इति भाष्यार्थ उक्तः । नहीत्यादिभाष्यार्थमाहुः तन्न प्रत्यक्षेति । प्रत्यक्षा श्रुतिः प्रत्यक्षश्रुतिः । तत्सिद्धे विषये सति सार्वजनीनप्रत्यक्षसिद्धे विषये सति । तादृगित्याद्यावप्येवम् । अनुपपत्तेर्विरुद्धधर्म- रूपानुपपन्नपदार्थनिष्ठाया वक्तुमशक्यत्वाद्दृष्टे दर्शनविषये सति हि निश्चयेन नानुपपन्नं विरुद्धधर्मादि नाम । व्याघातात् । चक्षुरादौ प्रामाण्यहिंसनात् । स स्वभाव इव दृश्यते इति तादृशं ब्रह्मरूपनिश्चय- रूपवस्तुस्वभावम् । एवेत्यन्ययोगव्यवच्छेदकः । तादृशेति । 'इति त्वव्यवसायः प्रामाणिक' इति भाष्यार्थः । भाष्ये । चकारादिति । बुद्धिस्थसमुच्चायकात् । भाष्यप्रकाशोक्तार्थकात् । आदिशब्देन मृत्स्नाभक्षणविश्वरूपदर्शने । प्रत्यक्षमेवेति । सूत्रोक्तत्वात्प्रत्यक्षम् । एवकारेण श्रुतिस्मृतिरूपान्य- योगव्यवच्छेदकेनोभयसाधकम् । प्रकृते । स्पष्टमेवेति । अस्पष्टत्वयोग्यव्यवच्छेदक एवेति । विरुद्ध- धर्माश्रयत्वं तथात्वमित्यर्थः । विरुद्धधर्माश्रयत्वं तत्त्वमिति वाक्येनाहुः एवं विदितेति । तत्र प्रमाणमाहुरित्यप्याभासः । कथनादिति । 'वैष्णवी व्यतनोन्माया'मित्येवम् । प्रत्यक्षमेवेति भाष्येण 1669
१६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२] प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ परमार्थतो विरोधं परिहृत्य युक्त्यापि प्रतिषेधति । ननु सर्वविशेषधर्माणा- मस्थूलादिवाक्यैर्निषेधात् कथमविरोधः प्रत्येय इति चेत् । तत्राह । प्रकृतैता- वत्त्वं हि प्रतिषेधति । प्रकृते यदेतावत् परिदृश्यमाना यावन्तः पदार्था लौकिकाः, भाष्यप्रकाशः । क्रमस्य बलीयस्त्वमुपगम्य विरोधस्य परिहर्तुं शक्यत्वेपि काठके तथा वक्तुमशक्यत्वात् । उलूखलबन्धने स्वल्पस्य यत्तावस्तु दामत्वमानं तस्य स्वरूपधर्मत्वे, मतान्तरेण शरीरधर्मत्वे वा तदाधारस्य विरुद्धधर्माश्रयतायाः प्रत्यक्षसिद्धतया स्मृतिसिद्धतया चापहोतुमशक्यत्वेन अभिन्ननि- मित्तोपादानत्वोपगमेन च विरुद्धधर्माश्रयत्वस्य प्रामाणिकत्वाच्छ्रुत्यादिभिस्तथात्वेन ब्रह्मप्रतीतेर्न विरोध इति प्रकृतानां सर्वकामत्वादीनामप्यौपचारिकत्वकल्पनं नैमित्तिकत्वेनानित्यत्वोद्भावनं चाप्रयोजकमित्यर्थः । एवमेताभ्यां सूत्राभ्यां 'अत एव चोपमे'तिमूत्रोक्तं सर्वं प्रत्युक्तं ज्ञेयम् ॥२१॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ सूत्रमवतारयन्ति परमार्थत इत्यादि । परमार्थत इति । वस्तुविचारात् । एवं सर्वैः प्रकारैः परिहृतेपि विरोधे पुनर्मुत्तया परिहारस्य किं प्रयोजनमित्याकाङ्क्षायां वस्तुनस्तादृक्स्वभावत्वममन्वानं प्रति युक्तिरवश्यं वक्तव्येत्यतः सूत्रांशमवतारयन्ति नन्वित्यादि । तथाच पूर्वसूत्रोक्तदर्शनस्य अवतीर्णं स्वेच्छया रश्मिः । सौत्रदर्शनस्य मुख्यत्वं श्रुतिस्मृत्योर्व्यवच्छेदेनोक्तं तयोरन्वयमत्र भाष्य उक्तं तत्स्पष्टयन्तिस्म वैश्वानर इति । प्रादेशमात्रेभिविमाने औपाधिकेऽभिविमानत्वासंभवादार्थक्रमेणाभिविमाने इति वक्तव्ये अर्थक्रमस्य बलीयस्त्वमुपगम्येत्यर्थः । काठक इति । 'आश्चर्यो वक्ता कुशलोऽस्य लब्धा, आश्चर्योस्य ज्ञाता कुशलोऽनुशिष्ट' इत्यत्राश्चर्ये वक्तव्ये औपाधिकोप्यभिविमान इत्यर्थक्रमेण तथा नामविरोधपरिहारस्य वक्तुमशक्यत्वात् । तस्येति । अमानस्य । मतान्तरेणेति । पुराणमतेन मायारूपशरीरधर्मत्वे वा । स्मृतेर्मुख्ये दर्शने उपष्टम्भकतयान्वयमाहुः स्मृतिसिद्धेति । प्रत्यक्षमुपष्टब्धमिति सप्रमाणम्, न तु शुक्तिरजतप्रत्यक्षवदप्रमाणमित्युक्तम् । अभिन्नेति । समन्वयाधिकरणेप्युपगमः । अत्र श्रुतेरन्वय- माहुः श्रुत्यादिभिरिति । श्रुतिस्मृतिप्रत्यक्षैः । तथात्वेन विरुद्धधर्माधारत्वेन । ब्रह्मप्रतीतेरिति । ब्रह्मदर्शनात् । अत्र श्रुत्यादिभिरित्यन्तेन श्रुतिस्मृतिप्रत्यक्षैरितिचकारार्थभाष्यर्थ उक्तः । तथात्वेने- त्यनेनानुवृत्तोभयसामञ्जस्यं पञ्चम्यन्तं तस्यार्थः सर्वविरुद्धधर्माश्रयत्वेनेति शक्यतावच्छेदक उक्तः । ब्रह्मप्रतीतेरित्यनेनावृत्तब्रह्मपदार्थः सौत्रदर्शनादितिपदार्थ उक्तः । न विरोध इत्यनेनावृत्तैवंशब्दार्थ उक्तः । नैमित्तिकत्वेनेति । जानातीच्छति यतत इति प्रवादात् निमित्तं ज्ञानं तत्सम्बन्धिविशेषत्वे च । अत एव चोपमेति । 'तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य' इति भाष्येण संगृहीतम् । प्रत्युक्तमिति । सर्वकामत्वादीनामौपचारिकत्वकल्पनस्यानित्यत्वोद्भावनस्य चाप्रयोजक- त्वोक्त्या प्रत्युक्तमित्यर्थः ॥ २१ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ निश्चिते इति । स्वाभाविकानां निषेधायोगात् । कथमिति । कथमविरोधः प्रत्येय इत्यर्थः । भाष्ये । प्रतीतस्यै- १. तथा च सर्वविशेषनिषेधेन तादृक्स्वभावाभावे निश्चिते कथं तथेत्यर्थः इति मूले पाठः । 1670
तेषामेव धर्मान् निषेधति । प्रतीतस्यैव हि निषेधात् । अतो जगद्वैलक्षण्यमेवा- स्थूलादिवाक्यैः प्रतिपाद्यते, न तु वेदोक्ता ब्रह्मधर्मा निषेद्धुं शक्यन्ते । कुत एत- दवगम्यते । तत्राह । ततो ब्रवीति च भूयः । यत्रैव वाक्ये पूर्वं निषेधति, तस्मिन्नेव वाक्ये पुनस्तमेव विधत्ते । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वा'निति । तथा अस्थूलवाक्येपि 'एतस्यैव प्रशासने' 'एतद्वि- दित्वा' 'आकाश ओतश्च प्रोतश्चे'ति । चकारादेकवाक्योपाख्यानभेदौ संगृ- भाष्यप्रकाशः । व्यवहार्यं प्रपञ्चसलक्षण एव प्रतीयमानैकविशेषविरुद्धविशेषान्तरविषयत्वान्न तेन प्रपञ्चविलक्षणे सर्वविशेषशून्ये ज्ञानाकारे तद्विरुद्धविशेषवत्त्वसिद्धिरिति तत्र धर्मविधिनिषेधयोरविरोधः कथं प्रत्येतव्य इत्याकाङ्क्षायामविरोधप्रत्ययप्रकारमाहेत्यर्थ
११५ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२. हीति । सर्वत्र लौकिकं प्रतिषेधति, अलौकिकं विधत्ते इति युक्त्या निर्णयः । तस्मात् युक्त्याप्यविरोधः ॥ २२ ॥ इति तृतीयाध्याये द्वितीयपादे षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । व्यक्तिभेदेन षोडशिग्रहणाग्रहणवन्नित्य एकस्मिन् ब्रह्मणि ज्ञेयत्वाज्ञेयत्वप्रशासितृत्वप्रशासितृत्वादीनां विकल्पस्याशक्यवचनतया वाक्यस्याबोधकतायां तन्निवृत्त्यर्थं लौकिकं निषेधति, अलौकिकं तं धर्मं विधत्ते इति व्यवस्था मन्तव्या। स्थूलत्वादीनां लौकिकानामेव निषेधदर्शनात् । ईदृशप्रशासितृत्वादी- नामलौकिकानामेव विधानदर्शनात् । अतो ये वस्तुस्वभावतो विरुद्धधर्माश्रयत्वं न मन्वते, तान् प्रत्येवं लौकिकालौकिकविभागरूपया युक्त्या निर्णयः । तेन श्रुत्या बोध्यमाना ये सर्वकामत्वाद- यः, तेऽप्यलौकिका एव। मन्दधियामविचारकाणां परं नामतौल्येन भ्रमः। नचानाप्तकामत्वापत्तिः। अमिश्रारूपत्वेन, स्वयमेव तत्पूर्तिकरणेन चादोषात् । एतेन जीवतुल्यतापत्तिरपि परिहृता बोध्या । तस्माच्छ्रुत्यक्षराण्याननुसन्दधानानां बोधार्थं युक्त्याप्यविरोध आचार्येणोक्त इत्यर्थः । एतेनैव यावद्धर्मशून्यत्वं ब्रह्मणो वदन्तोपि प्रत्युक्ता वेदितव्याः । अन्ये त्वस्मिन् सूत्रे 'द्वे वा व ब्रह्मण' इति वाक्यं विषयत्वेनाहुः । तदर्थं विद्वन्मण्डने एतद्वाक्यार्थोपि विचारितः । तथाहि । 'नेति नेती'त्यत्र इतिशब्दः प्रकारवाची । तथाच पूर्वं मूर्त्तामूर्त्तब्रह्मणो विभूतिरूपं 'य एवं वेदे'त्यन्तेन निरूप्य यत्सैतद्रूपद्वयं पूर्वमेव षष्ठ्यन्तेन पदेन निरूपितमेदस्य तन्निभिरूप्यमाणेष्वपि सर्वतःपाणिपादान्तत्वादिक्ष्वेवं लौकिकत्वेन वेदनं मा भूदिति भिन्नप्रक्रमेणैतत्प्रकारकं वेदनं ब्रह्मणो निषेधति 'अथात' इत्यादिना । अयमर्थः । ब्रह्मण्यपि मूर्त्तामूर्त्तरूपे सर्वतःपाणिपादान्तेत्यादिश्रुत्युक्ते वेदितव्ये । परन्त्वित्यनेन प्रकारेण न वेदितव्ये ब्रह्मग एते रूपे इति, किन्तु ब्रह्मैवेति वेदितव्ये इत्यर्थः । अत्र विनिगमकमाह सूत्रकारः 'ततो ब्रवीति च भूय' इति । शेषं स्फुटम् । यत्तु प्रकृतशब्देन 'द्वे वा व ब्रह्मण' इत्यादिनोक्तं मूर्तामूर्तलक्षणं रूपद्वयं परामृश्यत इति मतम्, तत्र प्रकृतत्वं प्रतिषेधतीत्येतावत्तैव चारितार्थ्ये सत्येतावत्पदं व्यर्थम् । नच प्रकृतस्य ब्रह्मणः प्रकृते वा ब्रह्मणि एतावत्त्वं प्रतिषेधतीति व्याख्यानान्न दोष इति वाच्यम् । तथा सति 'ततो ब्रवीति च भूय' इत्यस्य वैयर्थ्यापातात् । प्रकृतपदेनैव ब्रह्मप्रमितौ तदभावशङ्कानुदयेन तत्सत्चायां मानाकाङ्क्षार्थं तत्कथनप्रयोजनाभावात् । तस्मादसदुक्त एवार्थ इति ॥ २२ ॥ इति षष्ठमम्बुवद- ग्रहणादित्यधिकरणम् ॥ ६ ॥ रश्मिः । देनेकैकेन। अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातीति षोडशिग्रहणाग्रहणयोर्विकल्पस्येव । षष्ठ्यान्ताद्वतिः । अशक्येति । व्यक्तिभेदाभावादितिभावः । अबोधकेति । दृष्टान्ताभावान्नथा । एवेति । प्रक्षालनपङ्कन्यायेनैवकारः । विद्वन्मण्डनेयं विषयः स्पष्टः । सर्वत्रेतिभाष्यं विवृण्वन्ति स्म लौकिकं निषेधती। एवेति । नित्यानां निषेधायोगात् । एवेति । 'लौकिकं नैव मनुत' इत्याचार्यव- चसः। नित्यानित्यसंयोगापत्तेश्च । अलौकिका एवेति। एवकारार्थ उक्तः। नामेति। स्थूलसर्वकामादि- नाम्नां तौल्येनालौकिकानामवति लौकिकानामवत्त्वेन ज्ञानमितिभ्रमः । तस्मादितिभाष्यं विवृण्वन्तिस्म तस्मादिति । अनन्विति । युक्तीर्विनाननुसन्दधानानाम् । युक्त्यापीति । अपिशब्देन परमार्थतः । आचार्येण व्यासेन ॥ २२ ॥ इति षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥ 1672
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ तदव्यक्तमाह हि ॥ २३ ॥ ( ३-२-७. ) शाब्दबलविचारेण विरोधं परिहृत्यार्थबलविचारेणाविरोधप्रतिपादनायाधिक- रणमारभते । सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्त्यन्ते । 'न चक्षुषा गृह्यते' 'कश्चि- द्धीरः प्रत्यगात्मानमैक्षत्,' 'नापि वाचा' 'सर्वे वेदा यत् पदमामनन्ति' 'अप्राप्य मनसा सह' 'मनसैवैतदाप्तव्यम्,' 'अस्पर्शमगन्धमरसम्' 'सर्वरूपः सर्वगन्धः सर्वरसः', 'अपाणिपाद' इत्यादि 'विश्वतश्चक्षु'रित्यादि, 'निर्गुणञ्च' 'यः सर्वज्ञः सर्वशक्ति'रित्यादिविरुद्धवाक्यानि । न हि वस्तु द्विरूपं सम्भवति । वाक्यद्वय- मपि प्रमाणम् । तथा सति प्रमाणान्तरानुरोधेनैकस्य स्वार्थे प्रामाण्यम्, अन्यस्यो- पचरितार्थत्वमिति युक्तम् । तत्र प्रत्यक्षानुरोधेन निर्णयो विचार्यते । तत्र पूर्वपक्षमाह । तदव्यक्तम् । तत् ब्रह्म अव्यक्तमेव भवितुमर्हति । भाष्यप्रकाशः। तदव्यक्तमाह हि ॥ २३ ॥ अधिकरणप्रयोजनमाहुः शाब्दबलेत्यादि । तथाच यद्यपि स्वविचारे तस्यानावश्यकत्वम्, तथाप्यन्यैः ऋषिभिरर्थबलेन विचारस्याङ्गीकृतत्वात् तेनाविचारे तेषां निर्विशेषपक्षपातात् सविशेषश्रुतिः पीड्येत, विचारिते त्वर्थसामर्थ्ये वस्तुस्वभावादेवोभय- सम्भवाच्च श्रुतिपीड्येतस्तन्निवारणार्थं तदारभत इत्यर्थः । ननु विरुद्धवाक्येषु चिन्तितेषु किमवशिष्टं येनार्थबलाद्विरोधोत्थानमित्यत आहुः सर्वाणीत्यादि । सर्वाणीति । प्रमाणाग्राह्य- त्वतद्ग्राह्यत्वयोर्धर्मराहित्यतद्वत्त्वयोराकारराहित्यतद्वत्त्वयोर्गुणराहित्यतद्वत्त्वयोर्बोधकानि । 'सर्वरूप' इत्यनेन 'यथामाहारजनं वास' इत्यादिश्रुतिस्तद्विरुद्धा 'अरूपमव्यय'मिति श्रुतिश्च स्मार्यत इति बोध्यम् । सन्देहमाहुः न हीत्यादि । तथाच लौकिकालौकिकभेदेन व्यवस्थायां कृतायां मास्तु शब्दे संशयः, तथाप्यर्थे संशयो दुर्वार इत्यर्थः । सन्देहबीजमाहुः वाक्येत्यादि । तत्रं पूर्वपक्षमुत्थाप- यितुमापाततो निर्णयप्रकारं वदन्ति तथा सतीत्यादि, विचार्यत इत्यन्तम् । पूर्वपक्षमाहुः तत्रेत्यादि । यद्यपि पूर्वं सर्वप्रमाणापेक्षया शब्दस्यैव प्राबल्यं निर्णीतम्, तथापि शब्दस्यार्थसापेक्षत्वादर्थबलेनैव विचारो मुख्य इति श्रुत्यर्थनिश्चयानायार्थबले विचार्ये रश्मिः। तदव्यक्तमाह हि ॥ २३ ॥ तस्येति । अर्थबलविचारस्यास्मिन्भगवद्व्याससते शब्दबलसिद्धे- नावश्यकत्वम् । अन्यैरिति । अत्रैव बादरिप्रभृतिभिः । यथेति । आमाहारेण जनं जननम् । वर्णलोपः । वासः शरीरे इत्यनव्ययम् । संशय इति । चक्षुर्ग्राह्यो ग्राह्यो वेत्यादिः । सन्देहबीजमिति । प्रमाणं विकल्पोत्पादकं बीजमित्यर्थः । 'श्रुतोर्विरोधे विकल्प' इति मनुस्मरणात् । आपातत इति । अविचार आपातस्तस्मात् । एकदेशिनिर्णयप्रकारम् । पूर्वमिति । प्रथमाध्यायद्वितीयचरणे वैश्वानराधिकरणे । शाब्द- स्यैवेति । एवकारस्तु 'केवलं शब्दबलविचारका आचार्या' इति 'साक्षादप्यविरोधं जैमिनि' रितिसूत्र- भाष्यात् । शब्दस्यार्थेति । घटं दृष्ट्वा घटशब्द इति तथा । यद्यप्यर्थस्य शब्दसापेक्षत्वं 'शब्द इति चे'- दितिसूत्रात्, तथापि पूर्वपक्षग्रन्थस्यानुक्तम् । एवेति । 'अर्थबलविचारको बादरि'रिति तथा । 'केवलार्थवि- १. तत्रापाततो निर्णयप्रकारं बदन्तः पूर्वपक्षमुत्थापयन्तीति पाठः मूले। ब्र० सू० २० १८ 1673
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ७ सू० २४. कुतः । आह हि । श्रुतिप्रत्यक्षाभ्याम् । 'नेति नेत्यात्मा अग्राह्यो न हि गृह्यत' इति । 'न हि गृह्यत' इत्यनुभवसाक्षिकं प्रमाणं श्रुतिराह । न हि केनचिदपि चक्षुषा मनसा वा ब्रह्म दृष्टमस्ति । सर्वरूपत्वे तु सर्वैरेव द्रष्टुं शक्येत । तस्मात् सर्वधर्मवत्त्वेन प्रतिपादकान्युपचरितार्थान्येव । अनुभवविरोधादित्येवं प्राप्तम् ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपीति पूर्वपक्षगर्हायाम् । सर्वथा मूर्खः पूर्वपक्षवादी । यतः संराधने सम्यक् सेवायां भगवत्तोषे जाते दृश्यते । 'श्रद्धाभक्तिज्ञानयोगादवैहि' 'यमे- भाष्यप्रकाशः । पूर्वपक्षमाहेत्यर्थः । हेतुं व्याकुर्वन्ति आह हीति । हि श्रुतिप्रत्यक्षाभ्यां हेतुभ्यां श्रुतिराह । अतस्तदव्यक्तमिति योजना । श्रुतिप्रत्यक्षाभ्यामिति यदुक्तम्, तत्र का श्रुतिः, किं प्रत्यक्ष- मित्याकाङ्क्षायां तदेव विभजन्ते नेतीत्यादि । अस्यां श्रुतौ कथं प्रत्यक्षप्राप्तिरित्यत आहुः नही- त्यादि । तदेव विवृण्वन्ति न हि केनचिदित्यादि ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ सूत्रं व्याकुर्वन्ति अपीत्यादि । अत्र दर्श- नसूत्रोक्तो दृशिर्व्यवहितोऽप्यर्थबलात् परामृश्यते । तथाच केवलस्य प्रत्यक्षादेः प्रमाणस्य लौकिकत्वेन नैर्बल्येपि साधनबलसिद्धस्य तस्यालौकिकत्वेन प्रबलत्वात् केवलानुभवविरोधोऽप्रयोजक इति साधनसिद्धेन प्रत्यक्षेण निर्णय इत्यर्थः । हेतुं व्याकर्तुं श्रुतिस्मृती उपन्यस्यन्ति श्रद्धेत्यादि । इयं रश्मिः । चारको बादरि'रिति उक्तसूत्रभाष्यात् । नहि केनचिदित्यादीति । सर्वैरेवेति । योग्यत्वादेवकारः । उपचरितेति । उपचारो व्याख्यातः । एवकारः सर्वेषां दर्शनाभावात् ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ केवलस्येति । श्रुतिरहितस्य । पूर्वं 'श्रुतिप्रत्यक्षाभ्या'मित्युक्तत्वात् । प्रत्यक्षादेरित्यत्रादिशब्देनानुमानादि । भाष्ये प्रत्यक्षस्योपलक्षकत्वात् । तथा च 'सर्वैरेव द्रष्टुं शक्येते'तिभाष्याद्वह्निरूपत्वे धूमरूपेणानुमातुं शक्येत । गवरूपत्वे उपमातुं शक्येत । घटादिरूपत्वे शब्दितुं शक्येतेति बोध्यम् । केवलानुभवेति । केवलस्य धर्मशून्यस्य नीरूपत्वादनुभवो विरुद्धयते, तद्विषयको न भवतीत्यर्थः । नीरूपत्वसमानाधिकरणो न भवति । तथाच 'मूर्खो देहाद्यहं- बुद्धि'रिति वाक्यात् अग्राह्यत्वेन प्रकारेण प्रत्यक्षशून्यो देहाद्यहंवादी । अग्राह्यत्वस्योपचरितत्वात् । 'कश्चिद्धीरः प्रत्यगात्मानमैक्ष'दित्युक्तप्रकारेण प्रत्यक्षशून्यो देहाद्यहंबुद्धिः । ताम्बूलमदशक्तिवदप्यद- र्शनम् । व्यापकत्वेनाप्यदर्शनम् । किञ्च । आत्मोपनिषदूक्तरीत्यात्मत्वेन देहप्रत्यक्षशून्यः आत्मत्वेनान्त- रात्मप्रत्यक्षशून्यः । इति भाष्ये सर्वथाशब्दः । एवं देहाध्यासे 'अहं स्थूल' इत्यादौ ह्यस्मच्छब्दः प्रत्यगात्मवाचको व्याख्यातः । अहङ्कारेऽस्मच्छन्दप्रयोगं कृत्वा भाष्यं यत इत्यादि । देहगेहादि- ष्वहममेत्यभिमानवता भगवान्न दृश्यते । अभिमानस्य तामसत्वेनाज्ञानकार्यत्वादज्ञानस्य च दर्शनावर- कत्वात् । यतो यथाकथञ्चिदप्यमूर्खत्वमवलम्ब्य सम्यक्संराधने । करणल्युडन्तं पदम् । सम्यक्संसि- द्धिर्येन पुष्टिसैवनेन मोक्षावान्तरकालनिर्गमाय तत्संराधनं त्वस्मिन्संराधने तदाहुः, सम्यक्सेवाया- मिति । ननु सिद्धिजनकोऽन्योपि पदार्थोऽस्तीत्यत आहुः भगवत्तोष इति । 'यद्भक्त्या तुष्यते हरि'- रिति वाक्यान्नान्यपदार्थो भगवत्तोषजनक इति सिद्धमुपस्थापिका सेवैवात्र व्यासाशयीयेति भावः । नन्वधोक्षजत्वात्सेवायामप्यदर्शनमस्त्विति चेत्, तत्राहुः दृश्यत इति । स्वेच्छया दृश्यो भवति । अथवा 1674
यैष वृणुते तेन लभ्यः' 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे'ति । द्विविधमपि रूपं दृश्यते । 'ततस्तु तं पश्यते निष्कलं ध्यायमानः' 'अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूप'मिति संराधकस्य स्वानुभवः, ध्रुवादीनामनुमापकत्वं च । तस्मात् प्रत्यक्षानुमानाभ्यां भाष्यप्रकाशः। कैवल्योपनिषत्स्या । परमेष्ठिना आश्वलायनं प्रत्येतेन साधनेन जानीहीत्यत्रोपदिष्टम् । ज्ञानविषयं च ब्रह्म सर्वदेवतादिमयं शिवाकारं निराकारं चोपदिष्टम् । द्वितीया काठके मुण्डके च । तत्राद्ये, 'आसीनो दूरं व्रजती'त्याद्युक्त्वोक्ता । तत्राप्यासीनत्त्वादिना साकारताया 'अशरीर'मित्यनेनाना- कारतायाश्च लाभः । द्वितीयेपि द्वितीयमुण्डके विरुद्धधर्माश्रयं परमात्मानं प्रस्तुत्योक्ता । अत्र 'तनुं स्वा'मिति कथनात् साकारलाभ इति तत्राप्येवम् । गीतावाक्यं तु विश्वरूपं दर्शयित्वा ततः स्वरूपं चतुर्भुजाकारं प्रदर्शयोक्तं भगवता । द्विविधमिति । साकारं निराकारं च । तथाच श्रुतिस्मृत्यु- क्तसंराधकप्रत्यक्षानुरोधेनार्थबले विचारितेपि निराकारं साकार
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown प्रारूप में) दिया गया है:
१४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ८ सू० २५ श्रुतिस्मृतिभ्यां वा ब्रह्म साकारमनन्तगुणपरिपूर्णं चेति नाव्यक्तमेवेति निश्चयः । अतो लौकिकालौकिकप्रत्यक्षविषयत्वादुभयवाक्यार्थरूपमपि ब्रह्म ॥ २४ ॥ इति तृतीयाध्याये द्वितीयपादे सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ (३. २. ८.) पुनः प्रकारान्तरेण पूर्वोक्तमेव स्थिरीकर्तुमधिकरणान्तरमारभते । तत्र सूत्रद्वयेन पूर्वपक्षद्वयमाह । ननु प्रत्यक्षानुरोधेनोभयविधवाक्यसमाधानं नोपपद्यते, वस्तुशक्त्यैव निर्णय उचितः, न तु श्रुतिप्रत्यक्षाभ्याम्, यथा प्रकाशाजलसुवर्णादीनामने- कविधत्वं नाङ्गीक्रियते, सूर्यचन्द्रमणिप्रकाशादिषूष्णशीतानुभवरूपस्पर्शाः प्रती- यन्ते, न हि तेजसि तावन्तः स्पर्शा अङ्गीक्रियन्ते, जले च हिमतप्तकुण्डा- दिषु, तथा सुवर्णे वर्णभेदाः, न हि सर्वे स्वाभाविकाः, तेजस्त्वादिखभावहानि- प्रसङ्गात्, तथा ब्रह्मणोऽप्यवैशेष्यमङ्गीकर्तव्यम्, निर्विशेषं हि ब्रह्मेति सर्वप्र- सिद्धिः । यकारादेवं साधकाः 'अग्राह्यो न हि गृह्यत' इत्येवमादयः । भाष्यप्रकाशः । साधनं दर्शनसूत्रादत्राधिकम् । तेन प्रकाशवत्सूत्रोक्तमेव दृढीकृतं ज्ञेयम् ॥ २४ ॥ इति सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५॥ अधिकरणप्रयोजनमाहुः पुनरित्यादि । ब्रह्मणः श्रुत्येकसमधिगम्यत्वाच्छ्रुत्यवगतस्वरूपस्यैव बलेनोभयरूपत्वं दृढीकर्तुम- धिकरणान्तरमुपोद्घातसङ्गत्यारभते । अत्र ब्रह्मस्वभावः संराधकप्रत्यक्षेणावधारयितुं शक्यः, न वेति संशयः । साधनस्य ज्ञानार्थत्वम्, अग्राह्यश्रुत्या ब्रह्मणो दुर्ज्ञेयत्वं च सन्देहबीजम् । पूर्वपक्षौ तु तत्र द्वाविति तावाहुः तत्रेत्यादि । पूर्वपक्षद्वयमिति । भक्तप्रत्यक्षेण न निर्णय इत्येकः । श्रुत्यापि नेत्यपरः । स च द्वितीयसूत्रे फलितकथनेन स्फुटो भवतीति तथेत्यर्थः । कुतो वस्तुशक्त्यैवेत्यतो दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । एतस्यैव विवरणं सूर्यचन्द्रेत्यादि । एवं साधका इति । रश्मिः । प्रामाणिकमेव प्रमेयबलाभावादिति तथा । भाष्ये । ध्रुवादीनामिति । 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयादुभयाविरोधपश्यकानाम् । द्वितीयस्कन्धपञ्चमाध्यायोक्तब्रह्मादिशब्देन । गोपालतापनीयोक्तब्रह्मणश्च तादृशोभयधर्मवत्त्वानुमापकत्वम् । ब्रह्म तादृशोभयधर्मवत् । ध्रुवादीनां चक्षु- र्विषयत्वात् । घटादिवत् । चक्षुर्विषयत्वादूषघटलोभयधर्मवत्त्वम् । अव्यक्तमेवेति । व्यक्तयोगव्यवच्छे- दक एवकारः । उभयेति । सर्वधर्मप्रतिपादकवाक्यानां धर्मनिषेधकवाक्यानां चार्थरूपम् ॥ २४ ॥ इति सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ पूर्वोक्तमित्यादि- भाष्यविवरणं उभयरूपत्वं दृढीकर्तुमिति । अत्र भाष्य एवकारोऽग्रिमसूत्रीयोभयव्यपदेशयोग्य- व्यवच्छेदकः । उपोद्घातेति । प्रकृतं 'न स्थानतोपि परस्योभयलिङ्ग'मिति सूत्रादारभ्य यदुभयरूपत्वं तत्सिद्ध्यर्था चिन्ता पूर्वपक्षद्वयचिन्ता । सङ्गता । ताविति । पूर्वपक्षौ । वस्तुशक्त्यैवेति । वस्तु- शक्त्या निर्दोषत्वरूपया । एवकारस्तु भक्तप्रत्यक्षं चक्षुस्तस्य सदोषत्वायो गस्य व्यवच्छेदकः । भाष्ये । अङ्गीति । अस्माभिरङ्गीक्रियन्ते । जले चेति । विचार्यमाणे । हिमकुण्डः प्रसिद्धः । तप्तकुण्डः १ केवलं तद्वलेनेति मूके पाठः । 1676
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४१ ननूक्तं तस्य तथा साक्षात्कारात् तादृशश्रुतेश्च नैकविधत्वमङ्गीकर्तुं शक्यत इति । नैष दोषः । प्रकाशश्च कर्मणि । तपःप्रणिधानादिकर्मणि भगवतः प्र- काशः । तत्र यथा तेषां कामः, तथा प्रकटीभवति । चकारादप्रकाशोऽन्यथाप्र- काशो । तत्र हेतुः । अभ्यासादावृत्तेः । यद्येकवारं प्रकटः स्यात्, तदा तद्रूपत्व- मङ्गीक्रियेतापि । प्रतिभक्तं प्रतिकर्म चाविर्भावः । अतः प्रकाशोपि कृत्रिम एव । दीपप्रकाशवत् । अन्यथा सर्वदा स्यात् । तस्मान्न भक्तप्रत्यक्षेण निर्णयः ॥ २५ ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥ फलितमाह । अतः अभ्यासात् । अनन्तेन अनन्तरूपेण आविर्भावः । न ह्येकं वस्तु प्रतिक्षणमन्यादृशं भवति निमित्तभेदव्यतिरेकेण । क्वचित् भक्तका- म
' ? No: ता (1) त्प (2) र्ये (3) नो (4) च्छे (5) दा (6) प (7) त्तेः (8) Wait, let's look at the characters: ता (1) त्प (2) र्यो (3) - wait, is it र्यो? No, it has: ता-त्-प-र्यो-च्छे-दा-प-त्-तेः - wait, let's count: ता त्प र्ये नो? Wait, there is a letter with 'े' and then 'नो'? No, look at: "तात्पर्येणोच्छेदापत्तेः"? Wait! 'णो'? 'नो'? It has a loop on the left: 'नो'. Wait, why not just read what is visible? "तात्पर्येनोच्छेदापत्तेः" धर्माश्रयत्वे तात्पर्यवृत्तेर्ज्ञापनाथमित्यर्थः । श्रौतपदस्वारसिकार्थो व्यर्थः सन् किञ्चिज्ज्ञापयति तात्पर्यवृत्ति- रस्तीति । श्रुतित्वादेवकारः । श्रुतिज्ञापितं सर्वथादरणीयमिति । तच्चेति । विरुद्धधर्माश्रयत्वम् । निर्णी- तमिति । शास्त्रे योनिः शास्त्रयोनिः शास्त्रोक्ताभिन्ननिमित्तोपा
यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:
भाष्यप्रकाश-रश्मि-परिवृंहितम्। १४३ तत् कथं स्वरूपशक्त्या निर्णयः। ब्रह्म तूभयरूपम् । उभयव्यपदेशात् । उभय- रूपेण निर्गुणत्वेनानन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यपदेशात् । तर्हि कथ- मेकं वस्त्वनेकधा भासते । तन्नाह । अहिकुण्डलवत् । यथा सर्प ऋजुरनेकाकारः भाष्यप्रकाशः। निर्णय इत्यर्थः । एवं तुशब्दं व्याख्याय शेषं व्याकुर्वन्ति ब्रह्मेत्यादि । न केवलं स्वरूपशक्त्या निर्णीयते, किन्तु श्रुत्युपष्टम्भ्येत्यतो हेतुं विवृण्वन्ति उभयेत्यादि । उभयोर्विरुद्धधर्मयोर्व्यपदेश उभयव्यपदेशस्तस्मात् । यत्रैवास्थूलादिवाक्ये निर्गुणत्वेन व्यपदिश्यते, तत्रैव 'आकाश ओतश्च प्रोतश्चे'ति कथनात् कार्यगुणजनकत्वानन्तगुणवत्तापि बोध्यते । तथा, यत्र शारीरब्राह्मणे 'स एष नेति नेत्यात्मा, अगृह्यो न हि गृह्यत' इत्युच्यते, तत्रापि 'स वा अयमात्मा सर्वस्य वशी सर्वस्ये- शान' इत्यादिकं पूर्वमुच्यते । 'स वा एष महानज आत्मा अन्नादो वसुदान' इति चानन्तरम् । एवं श्वेताश्वतरेपि 'साक्षी चेता केवलो निर्गुणश्चे'त्युक्त्वा, 'एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोती'त्यादि । तथा तत्रैव 'ततो यदुत्तरतरं तदरूपमनामय'मित्येतदग्रे, 'सर्वा- ननशिरोग्रीवः सर्वभूतगुहाशय' इति । एवं तैत्तिरीयेपि 'यदेकमव्यक्तमनन्तरूप'मिति, तथा 'विश्व- तश्चक्षुरुत विश्वतोमुख' इत्यादि चोक्तम् । 'कृत्स्नः प्रज्ञानघन एवे'त्यस्यार्थस्तु प्रागेवोक्तः । तथा 'अथात आदेश' इत्यस्यापि । एतेष्वेवंविधेष्वन्येष्वपि उभयरूपेण व्यपदेशात् । तथाचास्थूलादिवा- क्यस्य धर्मनिषेधमुखेनेव 'विश्वतश्चक्षु'रित्यादेर्धर्मविधिमुखेनापि ब्रह्मस्वरूपस्यैव निरूप्यतया धर्म- विधिद्वारा तन्निषेधद्वारा च निरूपकाणां मध्ये एकस्योपजीव्यत्वमन्तरङ्गत्वम्, अन्यस्योपजीवकत्वं बहिरङ्गत्वमिति निर्णेतुमशक्यत्वेनोभयवाक्ययोस्तुल्यबलत्वादुभयरूपमेव ब्रह्मेत्यर्थः । दृष्टान्तमव- तारयन्ति तर्हीत्यादि । यद्युभयलिङ्गं ब्रह्म, तदा संराधनसिद्धानां सर्वेषां तथैव प्रकाशेत, न तु कञ्चित् प्रति कथञ्चित्, अन्यं प्रत्यन्यथा, अत एकं वस्तु कथमनेकधा भासते, तत्र हेतुर्वक्तव्यः, रश्मिः। चेत् । न । तात्पर्यवृत्तिविषयस्य विरुद्धधर्माधारत्वस्य तेन प्रकारेणाज्ञानेऽज्ञानरूपत्वादन्यथाज्ञानरूपत्वा- चाज्ञानान्यथाज्ञानयोरन्तर्भावात् । तत्कथमिति भाष्यं विवृण्वन्ति स्म अत इति । तच्छक्तेरिति । वेदपदशक्तेः । इत्यर्थ इति । निर्णयशब्दान्तभाष्यर्थः । स्वरूपेति । प्रमेयबलेन । उभयव्यपदेशश्रु- त्युपष्टम्भेन । हेतुमिति । स्वरूपं न यथाश्रुतिप्रतिपाद्यं संज्ञतेः मूर्तामूर्तब्राह्मणवत् । स्वरूपं यथाश्रुति- प्रतिपाद्यं उभयव्यपदेशात् अहिकुण्डलवदित्यत्र सप्रतिपक्षत्वसाधके हेतुम् । यत्रैवेत्येवकारो विरुद्धधर्मा- धारत्वेन प्रतिपादनसूचक इत्युक्तम्। यत्रान्यत्र धर्मनिरूपणमन्यत्र निषेधस्तत्रारोपापवादसङ्गतिसन्देहोपी- त्युक्तम्। कार्येति । 'आकाशशरीरं ब्रह्म'तिश्रुतेः 'आकाशो वै नामरूपयोर्निर्वहिते'ति तथा। बोध्यत इति । व्यञ्जनया बोध्यते । पूर्वमिति । स्पष्टम्। अनन्तरमिति । 'स एष नेति नेत्यात्मे' त्यस्या अनन्तरम् । प्रागे- वेति । 'आह च तन्मात्र'मितिसूत्रभाष्यप्रकाशे 'दर्शयति' चेतिसूत्रभाष्यप्रकाशे च । एवकारश्च पश्चाद्योगव्यव- च्छेदकः । एवंविधेष्विति । 'अपाणिपादो जवनो ग्रहीते'त्यादिषु । धर्मविधिमुखेनेति । धर्मवि- धानं तत्कथनं तेनोपादेयेन । एवेति । 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतेरेवकारः । एवेति । अवधारणं यथा भवति तथा । एकरूपत्वयोग्यव्यवच्छेदको वा। तथैवेति । सर्वरूपवत्वेन, नत्वेकेन तत्तत्संराधकं १. आरोपापवादरूपायाः। 1679
१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ८ सू० २७. कुण्डलञ्च भवति, तथा ब्रह्मस्वरूपं सर्वप्रकारं भक्तेच्छया तथा स्फुरति । कल्प- नाशास्त्रे हीदं बाधकम् । अनेककल्पनागौरवं चेति । न तु केवलं श्रुत्येकसमधिगम्ये । न च शास्त्रवैफल्यम् । एवं साधनार्थत्वात् । अत्रैव हि सूरिव्यामोहादन्यशास्त्रो- त्पत्तिः । अतः सर्वविरुद्धधर्माणामाश्रयो भगवान् । न हि प्रमाणश्रुतदृष्टे अनुप- पत्तिरस्ति, यदर्थं युक्त्यपेक्षा । लोकेपि शरीरान्तःकरणादीनि परस्परविरुद्ध- भाष्यप्रकाशः। नो चेद्दर्शनस्याप्रामाण्यं वक्तव्यम्, ततश्च सर्वमेव शिथिलमिति शङ्कायां दृष्टान्तेन समाधिमाहेत्यर्थः । दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । भवतीति । तथा सामर्थ्यस्य विद्यमानत्वात् स्वरूपतस्तथास्ति । इदमिति । एकस्यानेकधा भानम् । यद्यपि सर्पः कालभेदेन स्वेच्छया तथा तथा भवति, ब्रह्म [
यामारकत्वादीनि विषयभेदेनेकस्मिन्नपि क्षणे प्रतीयन्ते । तस्मात् सकलविरुद्धधर्मा भगवत्येव वर्तन्त इति न कापि श्रुतिरुपचरितार्थेति सिद्धम् ॥ २७ ॥ इति तृतीयाध्याये द्वितीयपादेऽष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ (३. २. ९.) धर्मस्वरूपविचारेण पूर्वोक्तपक्षद्वयं स्थापयितुमधिकरणारम्भः । ननु धर्मा नाम के, ब्रह्मणो भिन्नास्तत्कार्यरूपाः, आहोस्वित् ब्रह्मैवेति संशयः । तत्र लोके कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् समवेतत्वात् तन्नित्यतायां प्रमा- भाष्यप्रकाशः। तथात्वम् । एतेन 'तत्तद्वपुः प्रणयस' इत्यत्र प्रणयनं तत्तद्धर्मनोविषये प्रापणमेव, न तु करणमिति बोधितम्। एतच्च 'श्रुतेस्तु शब्दमूलत्वात्' 'सर्वोपेता च तद्दर्शनात्' 'लोकवत्तु लीलाकैवल्य'मित्या- दिषु यदुक्तम्, तस्यैवेह निगमनमिति न कोपि शङ्कालेशः । सिद्धमाहुः तस्मादित्यादि । एवञ्च शब्दबलविचारेण विरुद्धसर्वधर्माश्रयो ब्रह्मेति निर्णयः । श्रुत्युक्तयुक्त्या विचारे तु लौकिकध- र्मशून्यमलौकिकसर्वधर्मयुक्तमिति निर्णयः । अर्थबलविचारे तु विरुद्धसर्वरूपमिति निर्णय इति बोधनार्थमत्र त्रेधा विचारितम् ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ अधिकरणप्रयोजनमाहुः धर्मेत्यादि । पूर्वोक्त- पक्षद्वयमिति । पूर्वाधिकरणे निर्गुणमनन्तगुणपूर्णं च ब्रह्म सिद्धम् । तत्र ये गुणा धर्मास्तेषां स्वरूप- विचारेण पूर्वोक्तपक्षद्वयम् । शब्दबलविचारसिद्धः 'प्रपञ्चविलक्षणविरुद्धसर्वधर्माधारं ब्रह्मे'त्येकः । अर्थबलविचारसिद्धः 'सर्वरूपं ब्रह्म तत्तत्फलदित्सया तत्तत्कार्यार्थं वा तं तं प्रति तथाविर्भवती'त्यपर इत्येतत्पक्षद्वयं स्थापयितुं तथेत्यर्थः । विषयसंशयावाहुः नन्वित्यादि । धर्मवत्त्वश्रवणमद्वितीय- श्रुतिश्च सन्देहबीजम् । पूर्वपक्षमाहुः तत्रेत्यादि । ब्रह्मधर्माणां स्वरूपे विचारणीये लौकिकमेव प्रमाणमनुसर्तव्यम् । श्रुतौ तन्नित्यत्वस्यानुक्तत्वात् । तत्राप्यनुमानमेवाप्रत्यक्षत्वादार्तव्यम् । रश्मिः। स्पष्टम् । 'यन्मनसा ध्यायति तद्वाचा वदति यद्वदति तत्करोती'ति श्रुतेः । तथात्वमिति । एकस्मिन्क्षणे प्रतीतिविषयत्वम् । प्रतीतिकर्तृत्वं वा । प्रणयनमिति । यत्तद्वपुर्धर्मनोविषये स्थूलदेहे सृष्टे सूक्ष्मप्रापणं गोवि- न्दावेश इत्यर्थः । एवेति । 'तत्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेरेवकारः । पुनरुक्तिं वारयन्ति स्म एतच्चेति । यदुक्तमिति । द्वितीयाध्याये यदुक्तम् । तस्यैवेहेति । एवकारोऽन्ययोगव्यवच्छेदकः । इहास्मिन्सूत्रे निगमनं उभयव्यपदेशादिति हेतुघटितत्वात् । तस्माच्चेति निगमनवत् । तस्मादित्यादीति । उपच- रितार्थेति । गौणार्था ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ सर्वकल्पनेति । पूर्वपक्षिमतम् । एवकारो विरुद्धधर्मरूपान्ययोगव्यवच्छेदकः । विरुद्धेति । सिद्धान्तिमतम् । एवकारः सर्वकल्पनाराहित्यरूपा- न्ययोगव्यवच्छेदकः । नन्वित्यादीति । ब्रह्मैवेत्येवकारो भिन्नरूपान्ययोगव्यवच्छेदकः । लौकि- कमेवेति । एवकारेण श्रुतिप्रमाणयोगव्यवच्छेदः । अविनाशीतिश्रुतेरन्योर्थ इति । कार्यस्यैवेति । १. सर्वकल्पनारहितमेव ब्रह्म पञ्चाद्धर्मयुक्तं भवतीत्येकः । विरुद्धधर्माधारमेव ब्रह्मोक्तं तत्तत्फलदित्सया तत्तत्कार्यार्थं वा तं तं प्रति तथा तथाविर्भवतीत्यपर इत्येतत्पक्षद्वयम्-इति मूले पाठः । ब्र० सू० २० १९ 1681
१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८. णाभावात् स्वाभाविकत्वमात्रेण नित्यत्वकल्पनायां गौरवापत्तेः 'एकमेवाद्वितीय'- मिति श्रुतिविरोधाच्च धर्माः प्रपञ्चवत् कार्याः, तथा सति ब्रह्म सर्वकल्पनारहित- मेव सेत्स्यतीत्येवं प्राप्ते, इवमुच्यते। प्रकाशाश्रयवद्वा । वाशब्दः पक्षं व्यावर्त- यति । यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः । पृथक्स्थित्यभावात् । समवेतत्वाच्च । मूलाविच्छेदरूपेण तदाधारतया स्थितत्वाच्च । नापि सूर्य एव । भाष्यप्रकाशः । लोके च कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् तत्समवेतत्वाच्च धर्मत्वलिङ्गके दृष्टान्ताभावेन, नित्यव- स्तुसमवेतत्वलिङ्गके चानुमाने आकाशत्वस्य दृष्टान्तस्य सत्त्वेपि शब्दादिदृष्टान्तेन हेतोः साधारणतया तन्नित्यतायां प्रमाणाभावात् । स्वाभाविकत्वं हेतूकृत्याकाशत्वं दृष्टान्तीकृत्य तन्मात्रेण साधने यद्यपि तत् सिध्यति, तथापि तत्कल्पनायां नित्यवस्त्वन्तरसिद्ध्या गौरवापत्तेरद्वितीयश्रु- तिविरोधाच्च गौरवस्थाप्रामाणिकत्वात् तथेति । 'तद्व्यक्तमाह ही'त्यनेनोक्त एव पक्ष आदरणीय इत्यर्थः । समाधिं व्याकुर्वते इदमित्यादि । प्रकाशाश्रयवदिति । प्रकाशस्याश्रयाः प्रकाशा- श्रयास्तैस्तुल्यम् । प्रथमार्थे वतिः । सूत्रं व्याकुर्वन्ति वाशब्द इत्यादि । पूर्वाधिकरणेऽहि- कुण्डलदृष्टान्तेनैकस्य ब्रह्मणः सधर्मकत्वनिर्धर्मकत्वसिद्ध्या धर्मानामपि ब्रह्मरूपत्वमेव सिद्धम्, अत्र तु धर्मधर्मिणोर्भेदाभेदः साध्यते । अन्यथाैतत्सूत्रवैयर्थ्यमेव स्यात् । भिन्नाभिन्नत्वं कार्यकारण- भावेन पटतद्रूपयोर्धर्मधर्मिभावेन जातिव्यक्त्योर्दृष्टम् । तत्र वाशब्दः प्रथमं पक्षं व्यावर्तयति । ब्रह्मतद्धर्मो कार्यकारणभावेनैक्यरूपौ न भवतः, किन्तु यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन सह न भिन्नाः, न विनाभूताः, नित्यसहचारिण इति यावत् । तत्र हेतुः । पृथक्स्थित्यभावात् । एवं प्रकाशोपि न सूर्यादिविनाभूत इत्यर्थबलाज्ज्ञातव्यम् । तदेतत् 'समवेतत्वाच्चे'ति चकारेण समुच्चिन्वन्ति । तत्र हेतुः । समवेतत्वादिति । अयुतसिद्धत्वात् । तज्जन्यधर्मेष्वप्यस्तीति तथा- त्ववारणाय हेत्वन्तरमाहुः मूलाविच्छेदेति । सर्वेपि भगवद्धर्मा भगवद्विनाभूता भगवदविभक्ता इत्यर्थः । अत्र यद्यपि पृथक्स्थित्यभावादित्यनेनैव तथात्वसिद्धावपि यद्धेतुद्वयमुक्तम्, तेन प्रपञ्च- स्याक्षरस्य च भिन्नाभिन्नत्वं निबन्धोक्तं स्मारितम् । एवमभेदे मानमुक्त्वा भेदे मानमाहुः नापी- त्यादि । प्रकाश इति शेषः । चकार आधाराधेयभावस्य 'परास्य शक्ति'रित्यादिषष्ठीनिर्देशस्य च रश्मिः । एवकारः कारणान्ययोगव्यवच्छेदकः । तद्धर्मत्वादिति । तन्तुमृदादिधर्मत्वात् । तावत्तन्तुकपालादि- समवेतत्वात् । यद्वा । धर्मी नित्यः धर्मत्वादित्यनुमाने दृष्टान्ताभावेन । धर्मी नित्यः नित्यवस्तुसमवेतत्वात् आकाशत्ववदित्यत्र । शब्दादीति । एकदेशिमतेन शब्दादि द्रष्टव्यम् । पक्षभिन्ननिश्चितसाध्यवत्त्वं दृष्टान्तत्वम् । तेन शब्दादिषु पक्षभिन्नेषु निश्चितसाध्यवत्सु । नित्यवस्तुसमवेतत्वरूपहेत्वभावः साध्य- व्यापकत्वसाधकः । तेनादिशब्दार्थवशे साध्याभाववति नित्यवस्तुसमवेतत्वरूपहेत्वभावात्साधारण्यं साध्या- भाववद्वृत्तित्वरूपम् । ननु नाकाशदृष्टान्तः निश्चितसाध्यवत्त्वाभावादिति चेन्न । न शब्दादिदृष्टान्ते हेतोः साधारणता, किन्तु शब्दशब्दस्मारिताकाशहेतोः साधारणता प्रसङ्गः पुरुष इति तथेत्यर्थात् । स्वाभा- विकत्वेति भाष्यं विवृण्वन्ति स्म स्वाभाविकत्वमिति । धर्मा नित्याः स्वाभाविकत्वात् आकाश- त्ववत् । नित्यवस्त्विति । जातिसिद्धा । एतादृशत्वम् । भेदे इति सतिसप्तम्यन्तम् । भेदसामानाधिकरण्य एतादृशत्वं भिन्ननिष्ठम् । तथेत्यग्रेतनभाष्योक्तम् । अत्रैवकारः विरुद्धधर्माधारत्वकल्प- 1682
भिन्नप्रतीतेर्विद्यमानत्वाच्च । तादृशमेव तद्वस्तूत्पत्तिसिद्धमिति मन्तव्यम् । कल्पनायामपि यथा सूर्यप्रकाशयोः कल्पना, एवं ब्रह्मधर्मयोरपि । न ह्यन्यथा वेदप्रवृत्तिर्निषेधशेषता सत्यज्ञानानन्तानन्दपदानां सामानाधिकरण्यं वा सम्भ- वति । लक्षणायां तु सुतरामेव धर्मापेक्षा । अतो विशिष्टपदार्थ एव तादृशो वेद- समुच्चयकः । तेन सिद्धमाहुः तादृशमित्यादि । प्रकाशरूपं वस्तु मूलाद्भिन्नमप्यभिन्नमेवोत्पत्ति- सिद्धमिति मन्तव्यम् । युक्तिभिरनुचिन्तनीयम् । यथा अमित्रो न मित्रम्, न मित्राभावः, किन्तु मित्रविरुद्धसम्पत् । यथा चाविद्या न विद्या, न विद्याभावः, किन्तु विद्याविरुद्धं भावरूपमज्ञानम्, एवं प्रकाशतदाश्रययोरभेदोपि न भेदः, न भेदाभावः, किन्तु भेदविरुद्धसम्पदेव भावरूप इति विभावनीयम् । सा च सम्पत्, भावरूपत्वे सति स्वाश्रयाविनाभूतत्वं तद्विहायावर्तमानत्वमिति यावत् । न चेतादृक्त्वमन्योन्याभावरूपे भेदेस्तीति । तथाच कल्पनायामपि यथा सूर्यप्रकाश- योस्तादात्म्यरूपस्य भेदविरुद्धसम्पदोऽभेदस्य कल्पना, एवं ब्रह्मधर्मयोरपि परबोधनाय कार्ये- त्यर्थः । नन्वत्र का वा उपपत्तिर्येन धर्माणां सदा सत्तामङ्गीकृत्य तादृशोऽभेदः कल्प्यत इत्यत आहुः न हीत्यादि । यदि हि स्वाभाविकधर्मसत्तानभ्युपगम्य सर्वविशेषशून्यमेव ब्रह्माङ्गीक्रियते, तदा केवलचिन्मात्रत्वेन प्रतिपिपादयिषितस्य ब्रह्मणः सकाशात् 'अस्य महतो भूतस्य निःश्वसि- तमेतद्यदृग्वेद' इत्यादिना श्राविता चेतनधर्मरूपा वेदप्रवृत्तिर्न सम्भवेत् । 'अथात आदेश' इत्यत्र पराभिमता निषेधशेषतापि न सम्भवेत् । तस्या अपि विशेषत्वात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूपलक्षणश्रुतौ 'विज्ञानमानन्दं ब्रह्म'तिश्रुतौ चोक्तं सत्यादिपदानामेकवस्तुवाचकत्वमपि नायोगव्यवच्छेदकः । अभिन्नमेवेति । एवेत्यत्र तृतीयालुक् । अवधारणेनेत्यर्थः । नन्वभिन्नमेव भिन्नमिति कुतो न कल्प्यत इत्यत आहुः नहीति । अभेदे सिद्धं ब्रह्म विरुद्धधर्माश्रयमितिग्रहणात्पृथिवि- वीवदित्यनुमानेन एतादृशत्वे खण्डब्रह्मवादापत्याखण्डब्रह्मवादो हीयेत । एतां पृथिवीमिव तं पश्यन्ति भक्ता जनाः । एवमेवान्यस्तु पश्यति इति विवृद्धिकार्ये तादृशं तत्त्वम् । 'त्यदादिषु दृशोऽनालोचने कञ्चे'- तिसूत्रम् । पूर्वविग्रहास्तु सूत्रस्य सर्वतोमुखत्वाद्यथाकथञ्चिज्ज्ञेयाः । अनालोचनेऽविचारे इत्यर्थमादाय । नच वृत्तिविरोधः । श्यालखशोरित्यत्र 'पुमान् स्त्रिये'त्यस्य वृत्त्यनङ्गीकारात् । तथा मनोरमायां तादृशादयस्तु रूढिशब्दत्वादसत्तार्थावयवार्थेन व्युत्पाद्यन्ते । अतएवाज्ञानार्था दृशेरिति सङ्गच्छत इति । न हि स्वमते केवलरूढिरस्ति । महाभाष्योक्तयोगेन रूढिशब्दत्वादिति मनोरमाविरोधः । नन्वस्तु विरोध इति चेत् । न । 'लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम्, न विचारस्तत्र कार्य' इति निषेधात् । तर्हि रूढौ यः कोपि योगो न भवेदिति चेत् । न । 'लोकसिद्धं प्रस्तुत्य वैदिको बोध्यते यथा,' वैदिकबोधार्थं रूढौ यथाकथञ्चित् योगोप्यस्तु । आचार्यरोक्तत्वात् । मा भून्महाभाष्योक्तयोग इति रूढ्यभावात् । नच माध्वानां भेदे एतादृशत्वमस्तीति वाच्यम् । उभयव्यपदेशाधिकरणे चतुःसूत्रे आनन्दादिरूपोपि श्रुतिबला- दानन्दगुणकोपीति सर्वत्र माहात्म्यमेवोच्यते मत्वर्थमित्यर्थात् । कल्पनायामिति भाष्यं विवृण्वन्ति स्म तथाचेति । वस्तुनस्तादृशत्वे विरुद्धधर्माश्रयत्वे उत्पत्तिसिद्धे सति । तादृश इति । तादात्म्यरूपः । एवेति । विरुद्धधर्माश्रयत्वरूपान्ययोगव्यवच्छेदकः । निषेधेति । मूर्त्तामूर्त्तस्य विवर्त्तत्वेन तथा । तस्या इति । निषेधशेषतायाः । विशेषत्वं विवर्तत्वं तस्मात् । सत्येत्यादिभाष्यं विवृण्वन्ति स्म सत्यमित्या- दिना । एकेति । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यम् । भाष्ये तस्यार्थः ।
१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८. भाष्यप्रकाशः। न सम्भवेत् । तेषां सत्यत्वादिविशिष्टवाचकत्वात् , सत्यत्वादीनां च धर्मत्वात् । नच सत्यादिपदानां लक्षकत्वमेव । असत्यजडसान्तदुःखव्यावृत्तमेकरूपमेव ब्रह्म लक्ष्यत इति न तेषां सामानाधिकर- ण्यभङ्ग इति वाच्यम् । लक्षणायां तु सुतरां धर्मापेक्षा । निर्धर्मकस्य क्वापि लक्ष्यत्वादर्शनात् । लक्षणायाः शक्यसम्बन्धरूपत्वेन ब्रह्मणि सत्यादिपदशक्यसम्बन्धलक्ष्यत्वयोर्धर्मयोरापाताच्च । किञ्च । लक्ष्यत्वे यत्किञ्चिच्छब्दवाच्यत्वमप्यर्थादेवायातम् । लक्ष्यत्वस्य वाच्यत्वव्याप्यत्वात् । यत्तु लक्ष्यत्वे सधर्मकत्वस्योपाधित्वान्न व्याप्तिरिति कश्चित् । तन्न । लक्ष्यत्वेनैव धर्मेण ब्रह्मणः सधर्मकत्वे सिद्धे सधर्मकत्वस्य साधनव्यापकतयोपा- धितानिवृत्तौ व्याप्तेः सुस्थिरत्वात् । नच वाङ्निवृत्तिश्रुत्या अवाच्यत्वे ब्रह्मणः सिद्धे सधर्मकत्वस्य नोपाधितानिवृत्तिरिति वाच्यम् । तस्याः सामस्त्येन वदनासामर्थ्यपरत्वात् । अप्राप्येति प्रपञ्चेन तथावसायात् । अप्राप्येत्युक्त्यापि तन्निवृत्तिसिद्धेः लक्षण्या वाचः प्राप्त्यापि निवृत्त्यसिद्धेश्च । रश्मिः । विशिष्टेति । द्वितीयस्कन्धसुबोधिन्याम् । विशिष्टवाचकत्वम् । प्रस्थानरत्नाकरे तु व्यक्तिमात्रवाचकत्व- मुक्तम् । भावार्थपादभाष्येण जातिमात्रवाचकत्वमुक्तप्रायम् । आकृतौ शक्तेः पूर्वमीमांसायामिति । शास्त्रद्वयभेदेन पक्षद्वयम् । व्यक्तिमात्रवाचकत्वपक्षस्तु सूक्ष्मग्रन्थाभिप्रायेण । 'नाहं वेदैर्न तपसा' 'भक्त्या त्वनन्यया' 'आचार्यवान्पुरुषो वेदे'ति 'महतामन्तःकरणं प्रमाण'मिति च । लक्षणायामिति भाष्यं विवरीतुमाहुः नचेति । एवेति । सविशेषत्वापत्त्या एवकारो वाच्यत्वयोग्यव्यवच्छेदकः । कुत इत्यत आहुः असत्येति । सत्यत्वमसत्यत्वाभावरूपमधिकरणात्मकं सदसत्त्वव्यावृत्तम् । एवं ज्ञानत्वमज्ञानत्वा- भावरूपमधिकरणात्मकं सत् जडव्यावृत्तम् । एवमनन्तत्वं अनन्तत्वाभावाभावरूपमधिकरणात्मकं सत् सान्त- व्यावृत्तम् । एवं आनन्दत्वमानन्दत्वाभावाभावरूपमधिकरणात्मकं सत् दुःखव्यावृत्तम् । प्रतिकूलवेदनीयं दुःखम्, अनुकूलवेदनीयं सुखम् । आनन्दः सुखम् । एवेति । अस्थूलादिश्रुतेरेवकारः । लक्ष्यत इति । सत्यादीनां सत्यत्वाभावाभावे लक्षणा । स्वाभावप्रतियोगित्वसम्बन्धः । तेन सम्बन्धेन सम्बद्धं क्रियते ज्ञानविषयीक्रियते । भाष्यं विवृण्वन्ति स्म लक्षणायामिति । लक्ष्यत्वेति । लक्ष्यार्थत्वादर्शनात् । सत्या- दीति । सधर्मकत्वापत्त्या सत्यादिपदशक्यः सत्यत्वादिविशिष्टः सत्यादिः तस्य सम्बन्धः स्वरूपात्मकः । लक्ष्यत्वं च उक्तसम्बन्धरूपलक्षणायोग्यं लक्ष्यं तस्य भावो लक्ष्यत्वम् । लक्षयितुं योग्यं लक्ष्यत्वम् । तयो- रित्यर्थः । यत्किञ्चिदिति । लक्ष्यादिशब्दवाच्यत्वम् । एवेति । अवधारणेनागतम् । लक्ष्यत्वस्येति । यथा तीरं वाच्यं लक्ष्यत्वात्, एवं ब्रह्म सत्यादिशब्दवाच्यं लक्ष्यत्वात्, गङ्गातीरवत् । वाच्यत्वेति । वाच्यत्वन्यूनदेशवृत्तित्वात् । लक्ष्यत्व इति । हेतौ । उपाधित्वादिति । यत्र वाच्यत्वम्, तत्र सधर्म- कत्वमिति साध्यव्यापकता । ब्रह्मणोपि यत्किञ्चिच्छब्दवाच्यत्वं लक्ष्यत्वेन सधर्मकत्वम् । यत्र लक्ष्यत्वम्, तत्र सधर्मकत्वमिति नास्ति । ब्रह्मणि लक्ष्यत्वातिरिक्तधर्माभाववति सधर्मकत्वाभावात् । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिस्तत्त्वात् । न व्याप्तिरिति । यत्र यत्र लक्ष्यत्वम्, तत्र तत्र वाच्यत्वमिति व्याप्तिः सा न । एवेति । लक्ष्यत्वेतरधर्मयोग्यव्यवच्छेदकः । साधनेति । यत्र लक्ष्यत्वं तत्र सधर्मकत्वा- भावाभावान्न । नोपाधितेति । वाच्यत्वाभाववति ब्रह्मणि लक्ष्यत्वेन सधर्मकत्वस्य सत्त्वात्साध्य- व्यापकत्वाभावात्तयेत्यर्थः । यद्वा । श्रुतिबलेन लक्ष्यत्वेपि लक्ष्यस्यावाच्यत्वे सधर्मकत्वस्य लक्ष्यत्वरूप- हेतुमति विरहान्नोपाधितानिवृत्तिः । तस्या इति । 'यतो वाच' इति श्रुतेः । ईक्षत्यधिकरणभाष्येण तथा । अप्राप्येति । श्रौतेन । तन्निवृत्तीति । वाङ्निवृत्तिसिद्धेः । वाच इति । ब्रह्म लक्ष्यमिति 1684
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९
सिद्ध इति मन्तव्यम् । तत्र हेतुः । तेजस्त्वात् । तेजःशब्दवाच्यत्वात् । बहुहू- भाषप्रकाशः। सर्वथा अप्राप्तौ 'यतो वाच' इति यच्छब्दस्यापि ब्रह्माप्राप्त्या तदज्ञाने कुतो निवर्तन्ते वाच इति ज्ञानानुदयेन वाक्यस्याबोधकताप्रसक्तेरनिरुक्तश्रुतिविरोधप्रसक्तेश्च । किञ्च । सत्यादिपदानां ब्रह्मणि शक्त्यभावे ब्रह्मातिरिक्तानां चासत्यजडादिरूपत्वात् तेष्वपि तच्छत्त्यभावे तेषां पदानामनर्थकत्वेन शक्यसम्बन्धरूपा लक्षणा नितरां सिध्येदिति स्वरूपलक्षणमप्यबोधकमेव स्यात् । ततश्च विचार- शास्त्रस्य मोक्षस्य च तिलाञ्जलिरेव दीयेत । अथ व्यावहारिकं सत्यज्ञानादिकं तेषां शक्यमिति तत्सम्बन्धस्य ब्रह्मणि भवनान्न कोपि दोष इति विभाव्यते । तदा तु तस्यैव धर्मत्वान्न ब्रह्मणो यावद्धर्मरहितत्वसिद्धिरिति लक्षणायां सुतरां धर्मापेक्षा । अतो धर्माणामावश्यकत्वादस्य शास्त्रस्य वेदानुरोधित्वात् वेदवाक्यानां च ब्रह्मबोधकतया सर्वेषां तुल्यबलत्वेन धर्मविशिष्ट एव पदार्थो ( निर्धर्मको ) विरुद्धधर्माश्रयो वेदसिद्ध इति मन्तव्यमित्यर्थः । धर्मधर्मिणोरभेदबोधकं रूपं वक्तुं हेतुं व्याकुर्वन्ति तेजःशब्दवाच्यत्वादिति । 'तद्देवा ज्योतिषां ज्योतिः', 'अथ यदतः परो दिवो ज्योतिर्दीप्यते,' 'भारूपः, तस्य भासा सर्वमिदं विभाति,' 'यदादित्यगतं तेज' इत्यादौ ब्रह्मतद्धर्मयोस्तेजोवाचकशब्दवाच्यत्वात् । तथाच प्रकाशकस्वभा- वत्वात् सूर्यतत्प्रकाशयोर्यथा भेदविरुद्धसम्पदभेदः, तथा ब्रह्मतद्धर्मयोरपि प्रकाशकत्वाच्चेत्यर्थः । ननु पूर्वसूत्रेण ब्रह्मण उभयरूपत्वे विरुद्धधर्माश्रयत्वे तं तं प्रति तथा प्रदर्शने च सिद्धे धर्माणां रश्मिः। वाचःप्राप्त्यापि वाङ्निवृत्तिसिद्धेश्च । वाक्यस्येति । अवधिघटितयत इतिवाक्यस्य 'मम माता वन्ध्ये'ति वाक्यवदनर्थकपद्घटितत्वादबोधकताप्रसक्तेः । अनिरुक्तेति । 'एष ह्येवानन्दयाती'त्युक्त्वाग्रे पठ्यते 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवती'ति । न निरुक्ते अनिरुक्ते । अत्र निरुक्तत्वे प्राप्तेऽनिरुक्त इति प्रतिषेधसम्भवात्तथा । यद्यप्यभावज्ञानेन प्रतियोगिज्ञानं सर्वत्र कारणम् । 'अग्निचयनस्य न देवी'ति श्रुत्या दिवि निषेधात्, तथापि विरुद्धधर्मा- श्रयप्रकरणादियमेवमुक्ता । अथेति । भिन्नप्रक्रमेऽनिरुक्ते प्रतिष्ठांरूपभक्तिं विन्दते लभते । अथ स उपासको भिन्नमोक्षविषयं गतो भवतीत्यर्थात् । कस्माद्भिन्नमोक्षविषय इति चेत्, साधनविषयाद्भिन्न- विषयोऽधोक्षजः । पुष्टिमार्गीयम् । साधनविषयफलयोर्भेदादिति । तत्वायामीत्यत्राप्ययं बोध्यः संध्यायाम् । अनर्थकत्वेनेति । तथा शक्यार्थाभावेन शक्यसम्बन्धेत्यादिः । अपीति । अपिना कार्यलक्षणम् । उभयलक्षणयोरबोधकत्वादेवकारो बोधकत्वरूपअन्ययोगव्यवच्छेदकः । विचारेति । उत्तरमीमांसा- शास्त्रस्य । तिलाञ्जलिरेवेति । विचारशास्त्रस्य मोक्षस्य च पदजन्यपदार्थोपस्थितिसाध्यत्वादेवकारः । व्यावहारिकमिति । ध्वंसप्रतियोगि । शक्यमिति । शक्यार्थवस्तु । लक्षणायामित्यादिभाष्यार्था- नुवादपूर्वकमत इत्यादिभाष्यं विवृण्वन्ति स्म तदा त्विति । एवमनूद्य अत इत्यादिभाष्यं विवृण्वन्ति स्म अत इत्यादि । एव पदार्थ इति । धर्मविशिष्टः पदार्थ एवेत्यन्वयः । पदार्थैकदेशेनान्वयानुपपत्तेः । अयमुभयव्यपदेशसूत्रात्निर्धारणेनेत्यर्थक उक्तः । तादृशपदार्थमाहुः निर्धर्मक इति । तथाच श्रुतिः 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयश्रुतेः । अत्र स्वरूपतावच्छेदकं सगुणत्वं निर्गुणत्वं चोक्तम् । तेजोवाचकेति । 'ज्योतिषां ज्योति'रिति, 'दिवो ज्योति'रिति, 'तस्य भासे'ति च प्रत्येकं षष्ठ्यवधिघटिताभ्यां तेजोवाचकशब्दाभ्यां वाच्यत्वात् । तथाच सूत्रे तेजःपदं तेजस्त्वेन शब्दार्थसाधारणमुक्तं तत्तेजोवाचकमतस्तेजःशब्दवाच्यत्वादयमर्थो भवति । उभयसमावेशात् । तं त- १. अन्तिमावृत्तौ लोपितम् ।
1685