भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८. भाष्यप्रकाशः। न सम्भवेत् । तेषां सत्यत्वादिविशिष्टवाचकत्वात् , सत्यत्वादीनां च धर्मत्वात् । नच सत्यादिपदानां लक्षकत्वमेव । असत्यजडसान्तदुःखव्यावृत्तमेकरूपमेव ब्रह्म लक्ष्यत इति न तेषां सामानाधिकर- ण्यभङ्ग इति वाच्यम् । लक्षणायां तु सुतरां धर्मापेक्षा । निर्धर्मकस्य क्वापि लक्ष्यत्वादर्शनात् । लक्षणायाः शक्यसम्बन्धरूपत्वेन ब्रह्मणि सत्यादिपदशक्यसम्बन्धलक्ष्यत्वयोर्धर्मयोरापाताच्च । किञ्च । लक्ष्यत्वे यत्किञ्चिच्छब्दवाच्यत्वमप्यर्थादेवायातम् । लक्ष्यत्वस्य वाच्यत्वव्याप्यत्वात् । यत्तु लक्ष्यत्वे सधर्मकत्वस्योपाधित्वान्न व्याप्तिरिति कश्चित् । तन्न । लक्ष्यत्वेनैव धर्मेण ब्रह्मणः सधर्मकत्वे सिद्धे सधर्मकत्वस्य साधनव्यापकतयोपा- धितानिवृत्तौ व्याप्तेः सुस्थिरत्वात् । नच वाङ्निवृत्तिश्रुत्या अवाच्यत्वे ब्रह्मणः सिद्धे सधर्मकत्वस्य नोपाधितानिवृत्तिरिति वाच्यम् । तस्याः सामस्त्येन वदनासामर्थ्यपरत्वात् । अप्राप्येति प्रपञ्चेन तथावसायात् । अप्राप्येत्युक्त्यापि तन्निवृत्तिसिद्धेः लक्षण्या वाचः प्राप्त्यापि निवृत्त्यसिद्धेश्च । रश्मिः । विशिष्टेति । द्वितीयस्कन्धसुबोधिन्याम् । विशिष्टवाचकत्वम् । प्रस्थानरत्नाकरे तु व्यक्तिमात्रवाचकत्व- मुक्तम् । भावार्थपादभाष्येण जातिमात्रवाचकत्वमुक्तप्रायम् । आकृतौ शक्तेः पूर्वमीमांसायामिति । शास्त्रद्वयभेदेन पक्षद्वयम् । व्यक्तिमात्रवाचकत्वपक्षस्तु सूक्ष्मग्रन्थाभिप्रायेण । 'नाहं वेदैर्न तपसा' 'भक्त्या त्वनन्यया' 'आचार्यवान्पुरुषो वेदे'ति 'महतामन्तःकरणं प्रमाण'मिति च । लक्षणायामिति भाष्यं विवरीतुमाहुः नचेति । एवेति । सविशेषत्वापत्त्या एवकारो वाच्यत्वयोग्यव्यवच्छेदकः । कुत इत्यत आहुः असत्येति । सत्यत्वमसत्यत्वाभावरूपमधिकरणात्मकं सदसत्त्वव्यावृत्तम् । एवं ज्ञानत्वमज्ञानत्वा- भावरूपमधिकरणात्मकं सत् जडव्यावृत्तम् । एवमनन्तत्वं अनन्तत्वाभावाभावरूपमधिकरणात्मकं सत् सान्त- व्यावृत्तम् । एवं आनन्दत्वमानन्दत्वाभावाभावरूपमधिकरणात्मकं सत् दुःखव्यावृत्तम् । प्रतिकूलवेदनीयं दुःखम्, अनुकूलवेदनीयं सुखम् । आनन्दः सुखम् । एवेति । अस्थूलादिश्रुतेरेवकारः । लक्ष्यत इति । सत्यादीनां सत्यत्वाभावाभावे लक्षणा । स्वाभावप्रतियोगित्वसम्बन्धः । तेन सम्बन्धेन सम्बद्धं क्रियते ज्ञानविषयीक्रियते । भाष्यं विवृण्वन्ति स्म लक्षणायामिति । लक्ष्यत्वेति । लक्ष्यार्थत्वादर्शनात् । सत्या- दीति । सधर्मकत्वापत्त्या सत्यादिपदशक्यः सत्यत्वादिविशिष्टः सत्यादिः तस्य सम्बन्धः स्वरूपात्मकः । लक्ष्यत्वं च उक्तसम्बन्धरूपलक्षणायोग्यं लक्ष्यं तस्य भावो लक्ष्यत्वम् । लक्षयितुं योग्यं लक्ष्यत्वम् । तयो- रित्यर्थः । यत्किञ्चिदिति । लक्ष्यादिशब्दवाच्यत्वम् । एवेति । अवधारणेनागतम् । लक्ष्यत्वस्येति । यथा तीरं वाच्यं लक्ष्यत्वात्, एवं ब्रह्म सत्यादिशब्दवाच्यं लक्ष्यत्वात्, गङ्गातीरवत् । वाच्यत्वेति । वाच्यत्वन्यूनदेशवृत्तित्वात् । लक्ष्यत्व इति । हेतौ । उपाधित्वादिति । यत्र वाच्यत्वम्, तत्र सधर्म- कत्वमिति साध्यव्यापकता । ब्रह्मणोपि यत्किञ्चिच्छब्दवाच्यत्वं लक्ष्यत्वेन सधर्मकत्वम् । यत्र लक्ष्यत्वम्, तत्र सधर्मकत्वमिति नास्ति । ब्रह्मणि लक्ष्यत्वातिरिक्तधर्माभाववति सधर्मकत्वाभावात् । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिस्तत्त्वात् । न व्याप्तिरिति । यत्र यत्र लक्ष्यत्वम्, तत्र तत्र वाच्यत्वमिति व्याप्तिः सा न । एवेति । लक्ष्यत्वेतरधर्मयोग्यव्यवच्छेदकः । साधनेति । यत्र लक्ष्यत्वं तत्र सधर्मकत्वा- भावाभावान्न । नोपाधितेति । वाच्यत्वाभाववति ब्रह्मणि लक्ष्यत्वेन सधर्मकत्वस्य सत्त्वात्साध्य- व्यापकत्वाभावात्तयेत्यर्थः । यद्वा । श्रुतिबलेन लक्ष्यत्वेपि लक्ष्यस्यावाच्यत्वे सधर्मकत्वस्य लक्ष्यत्वरूप- हेतुमति विरहान्नोपाधितानिवृत्तिः । तस्या इति । 'यतो वाच' इति श्रुतेः । ईक्षत्यधिकरणभाष्येण तथा । अप्राप्येति । श्रौतेन । तन्निवृत्तीति । वाङ्निवृत्तिसिद्धेः । वाच इति । ब्रह्म लक्ष्यमिति 1684

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९

सिद्ध इति मन्तव्यम् । तत्र हेतुः । तेजस्त्वात् । तेजःशब्दवाच्यत्वात् । बहुहू- भाषप्रकाशः। सर्वथा अप्राप्तौ 'यतो वाच' इति यच्छब्दस्यापि ब्रह्माप्राप्त्या तदज्ञाने कुतो निवर्तन्ते वाच इति ज्ञानानुदयेन वाक्यस्याबोधकताप्रसक्तेरनिरुक्तश्रुतिविरोधप्रसक्तेश्च । किञ्च । सत्यादिपदानां ब्रह्मणि शक्त्यभावे ब्रह्मातिरिक्तानां चासत्यजडादिरूपत्वात् तेष्वपि तच्छत्त्यभावे तेषां पदानामनर्थकत्वेन शक्यसम्बन्धरूपा लक्षणा नितरां सिध्येदिति स्वरूपलक्षणमप्यबोधकमेव स्यात् । ततश्च विचार- शास्त्रस्य मोक्षस्य च तिलाञ्जलिरेव दीयेत । अथ व्यावहारिकं सत्यज्ञानादिकं तेषां शक्यमिति तत्सम्बन्धस्य ब्रह्मणि भवनान्न कोपि दोष इति विभाव्यते । तदा तु तस्यैव धर्मत्वान्न ब्रह्मणो यावद्धर्मरहितत्वसिद्धिरिति लक्षणायां सुतरां धर्मापेक्षा । अतो धर्माणामावश्यकत्वादस्य शास्त्रस्य वेदानुरोधित्वात् वेदवाक्यानां च ब्रह्मबोधकतया सर्वेषां तुल्यबलत्वेन धर्मविशिष्ट एव पदार्थो ( निर्धर्मको ) विरुद्धधर्माश्रयो वेदसिद्ध इति मन्तव्यमित्यर्थः । धर्मधर्मिणोरभेदबोधकं रूपं वक्तुं हेतुं व्याकुर्वन्ति तेजःशब्दवाच्यत्वादिति । 'तद्देवा ज्योतिषां ज्योतिः', 'अथ यदतः परो दिवो ज्योतिर्दीप्यते,' 'भारूपः, तस्य भासा सर्वमिदं विभाति,' 'यदादित्यगतं तेज' इत्यादौ ब्रह्मतद्धर्मयोस्तेजोवाचकशब्दवाच्यत्वात् । तथाच प्रकाशकस्वभा- वत्वात् सूर्यतत्प्रकाशयोर्यथा भेदविरुद्धसम्पदभेदः, तथा ब्रह्मतद्धर्मयोरपि प्रकाशकत्वाच्चेत्यर्थः । ननु पूर्वसूत्रेण ब्रह्मण उभयरूपत्वे विरुद्धधर्माश्रयत्वे तं तं प्रति तथा प्रदर्शने च सिद्धे धर्माणां रश्मिः। वाचःप्राप्त्यापि वाङ्निवृत्तिसिद्धेश्च । वाक्यस्येति । अवधिघटितयत इतिवाक्यस्य 'मम माता वन्ध्ये'ति वाक्यवदनर्थकपद्घटितत्वादबोधकताप्रसक्तेः । अनिरुक्तेति । 'एष ह्येवानन्दयाती'त्युक्त्वाग्रे पठ्यते 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवती'ति । न निरुक्ते अनिरुक्ते । अत्र निरुक्तत्वे प्राप्तेऽनिरुक्त इति प्रतिषेधसम्भवात्तथा । यद्यप्यभावज्ञानेन प्रतियोगिज्ञानं सर्वत्र कारणम् । 'अग्निचयनस्य न देवी'ति श्रुत्या दिवि निषेधात्, तथापि विरुद्धधर्मा- श्रयप्रकरणादियमेवमुक्ता । अथेति । भिन्नप्रक्रमेऽनिरुक्ते प्रतिष्ठांरूपभक्तिं विन्दते लभते । अथ स उपासको भिन्नमोक्षविषयं गतो भवतीत्यर्थात् । कस्माद्भिन्नमोक्षविषय इति चेत्, साधनविषयाद्भिन्न- विषयोऽधोक्षजः । पुष्टिमार्गीयम् । साधनविषयफलयोर्भेदादिति । तत्वायामीत्यत्राप्ययं बोध्यः संध्यायाम् । अनर्थकत्वेनेति । तथा शक्यार्थाभावेन शक्यसम्बन्धेत्यादिः । अपीति । अपिना कार्यलक्षणम् । उभयलक्षणयोरबोधकत्वादेवकारो बोधकत्वरूपअन्ययोगव्यवच्छेदकः । विचारेति । उत्तरमीमांसा- शास्त्रस्य । तिलाञ्जलिरेवेति । विचारशास्त्रस्य मोक्षस्य च पदजन्यपदार्थोपस्थितिसाध्यत्वादेवकारः । व्यावहारिकमिति । ध्वंसप्रतियोगि । शक्यमिति । शक्यार्थवस्तु । लक्षणायामित्यादिभाष्यार्था- नुवादपूर्वकमत इत्यादिभाष्यं विवृण्वन्ति स्म तदा त्विति । एवमनूद्य अत इत्यादिभाष्यं विवृण्वन्ति स्म अत इत्यादि । एव पदार्थ इति । धर्मविशिष्टः पदार्थ एवेत्यन्वयः । पदार्थैकदेशेनान्वयानुपपत्तेः । अयमुभयव्यपदेशसूत्रात्निर्धारणेनेत्यर्थक उक्तः । तादृशपदार्थमाहुः निर्धर्मक इति । तथाच श्रुतिः 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयश्रुतेः । अत्र स्वरूपतावच्छेदकं सगुणत्वं निर्गुणत्वं चोक्तम् । तेजोवाचकेति । 'ज्योतिषां ज्योति'रिति, 'दिवो ज्योति'रिति, 'तस्य भासे'ति च प्रत्येकं षष्ठ्यवधिघटिताभ्यां तेजोवाचकशब्दाभ्यां वाच्यत्वात् । तथाच सूत्रे तेजःपदं तेजस्त्वेन शब्दार्थसाधारणमुक्तं तत्तेजोवाचकमतस्तेजःशब्दवाच्यत्वादयमर्थो भवति । उभयसमावेशात् । तं त- १. अन्तिमावृत्तौ लोपितम् ।

1685

१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८. व्याप्यावर्यमेव हेतुरुक्तः । आतपादैर्धर्मत्वेन धर्मित्वेन च प्रतीतेः । अपूर्ववदेव दृष्टत्वाच्छुतत्वाच्च न धर्मेष्वपि युक्त्यपेक्षा । तस्मात् सिद्धं यथाश्रुतमेव ब्रह्मेति ॥ २८ ॥ भाष्यप्रकाशः। ब्रह्मणा सह भिन्नाभिन्नत्वमात्रं साधनीयम्, तत्तु प्रकृतदृष्टान्तमात्रेणैव सिद्ध्यतीति हेतूक्तेः किं प्रयोजनमित्याकाङ्क्षायां तत्प्रयोजनमाहुः बहुदूरेत्यादि । अवतारदशायां सृष्टिदशायां च ब्रह्मणो व्यापकत्वतिरोभावे धर्माणां स्वभावतो बहुदूरव्याप्त्यर्थमेव तद्व्यापकस्तेजःस्वरूपो हेतुरुक्त इत्यर्थः । तेजसि तथात्वस्य दृष्टत्वादिति । तथाचोक्तं विष्णुपुराणे प्रथमांशसमाप्तौ 'एकदे- शस्थितस्येन्दोर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथैदमखिलं जगत् । तत्राप्यास-

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१ पूर्ववद्वा ॥ २९ ॥ एकदेशिमतेनापि सर्वसमाधानमाह । अथवा । 'अरूपवदेव ही'त्यादिपञ्च- सूत्र्या यः सिद्धान्तः कथितः, तादृशं वा ब्रह्म प्रतिपत्तव्यम् । अयमाशयः । वेदस्थापनार्थं हि प्रवृत्तिः । तत्र यथा अक्षरमात्रस्यापि बाधो न भवति, तथा वक्तव्यम् । यदर्थमुभयरूपता अङ्गीकृता, तत्र धर्माणां भाष्यप्रकाशः। पूर्ववद्वा ॥२९॥ सूत्रमवतारयन्ति व्याकुर्वन्ति च एकेत्यादि । अथेत्यादि च । वाश- ब्दः पक्षान्तरे । पूर्ववत् । 'अरूपवदेव ही'ति पञ्चसूत्र्या यः सिद्धान्तः कथितः, प्रपञ्चविलक्षणं तत्समवायित्वेपि न तत्प्रकारकम्, नापि समवायिमात्रम्, किन्तु ततोप्यतिरिक्तं कृत्स्नं चिन्मात्र- स्वरूपं यदा आविर्भवति, तदा व्यवहार्यं भवति । तत्र जडजीवधर्मा औपचारिक इत्येवंरूपः । तादृशं कारणरूपं ब्रह्म प्रतिपत्तव्यमित्यर्थः । एतन्मताभ्युपगमे बीजं व्युत्पादयन्ति अयमित्यादि । तथाच यत् पूर्वोपगमे बीजम्, तदेवात्रापीत्यर्थः । बीजमुक्त्वा पञ्चसूत्रीसिद्धस्य प्रकृते यथा विवक्षितत्वम्, तयोपपादयन्ति तत्र धर्माणामित्यादि । तस्मिन् पक्ष एकदेशिप्रतिपन्नमौप- चारिकत्वं दूषयित्वा नित्यप्राप्तत्वेन स्थापितानां धर्माणां स्वरूपस्य वृत्तिमत्त्वस्य निर्वाहार्थं सविशे- षनिर्विशेषभेदेन ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । ततो वैलक्षण्येन भेदे सत्यद्वितीयत्वश्रुतिर्बाध्येत । तथाच तदभावायोत्पत्त्या विचारः कर्तव्यः । यो यथा यथा परिणमते, स तत्तद्भावानपि पूर्वमव्यक्तः घटपटदध्यादिरूपेण परिणममानमृत्तन्तुदुग्धादिवदिति । एवमुत्पत्त्या विचारे कारणभूतं निर्धर्म- कमेव ब्रह्म सेत्स्यतीति पूर्वं तादृशमेव प्रतिपत्तव्यम् । ततश्च ब्रह्माहिकुण्डलवदुभयरूपम्, तद्धर्माः प्रकाशाश्रयवद्भिन्नाभिन्ना इत्युपपत्त्या विचारोपि कारणरूपानुरोधेनैव कर्तव्यः । तत्र कथं कर्तव्य इत्याकाङ्क्षायां कारणविचारे श्रुतावेकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञातत्वाद्धर्माणामपि ब्रह्म- रूपत्वं वक्तव्यम् । तदैव तदुपपद्यते, न तु धर्माणां नित्यभिन्नत्व आविद्यकत्वे वा । आद्ये भिन्न- त्वेन, द्वितीये मिथ्यात्वेन च तत्प्रतिबन्धात् । नचाविद्यकत्वेप्यसत्यव्यावृत्तत्वेन सत्यरूपब्रह्मज्ञाने [L2

१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २९. स्वरूपनिर्वाहार्थमवश्यं ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । तथा सति 'एकमेवाद्वितीय'- मिति बाधः प्रसज्येत । तथाचोत्पत्त्या विचारे निर्धर्मकमेव पूर्वं ब्रह्मेति प्रतिपत्तव्यम् । उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्यः । तत्र धर्मा- णामपि ब्रह्मत्वे एकविज्ञानेन सर्वविज्ञानमुपपद्यते, नान्यथा । ततश्च प्रथमं ब्रह्म स्वधर्मरूपेण भवति । तदनु क्रियादिरूपेण प्रपञ्चरूपेण च । तावतैव सर्ववेदार्थसिद्धेः । नच लौकिकी युक्तिस्तत्रापेक्ष्यते, येन तादृशस्य कथं सर्वभाव इति पर्यनुयोगो भवेत् । धर्मकल्पनायामपि 'नैषा तर्केण मतिरापनेये'ति भाष्यप्रकाशः । एकविज्ञानेन सर्वविज्ञानं भवत्येवेति शङ्क्यम् । मृत्पिण्डादिदृष्टान्तोपरोधेन जायमानस्य तस्याप्रयो- जकत्वात् । अतो धर्माणां ब्रह्मत्व एवैकविज्ञानेन सर्वविज्ञानोपपत्तिः, नान्यथा । तस्मात् तत्तथेत्या- युक्तप्रकारेण धर्माणां ब्रह्मकार्यत्वात् ब्रह्मरूपत्वमङ्गीकर्तव्यम् । तावतैव सर्ववेदार्थाविरोधसिद्धेः । नच पूर्वमव्यक्तस्य पश्चात् व्यक्तत्वं लोके हेत्वन्तरसमवधानादेव दृष्टमितीतरासद्भावे निर्धर्मकस्य कथं धर्मरूपेण भवनमिति शङ्क्यम् । ब्रह्मणो वेदैकसमधि

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३ समानम् । उत्पत्त्या चोपपत्त्या च विचारद्वयम् । उपपत्त्या पूर्वनयनं स्वसिद्धान्तः । भाष्यप्रकाशः। ॠव्याख्योक्तप्रकारिकया उत्पत्त्या, पूर्वसूत्रव्याख्योक्तप्रकारिकया उपपत्त्या च अस्मिन्नधिकरणे विचारद्वयम् । तयोर्मध्य उपपत्त्या पूर्वनयनम् । मैत्रेयीब्राह्मणे 'स यथा सैन्धवघन' इत्यादिना चिन्मात्रत्वेन प्रतिपादितस्यैवात्मनः 'अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मे'त्यनेन स्वरूपा- विनाशधर्मानुच्छित्त्योः कथनेन स्वरूपधर्मयोर्नित्यत्वबोधनात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूप- लक्षणस्ये सत्यपदेपि 'सत्यस्य सत्य'मिति नामधेयतन्निर्वचनयोरनुरोधेन मूलसद्रूपत्वमूलत्यरूपत्व- योरपि बोधनात् । नृसिंहोत्तरतापनीये तुरीयनिरूपणे तुरीयस्य प्रपञ्चोपशमत्वमुक्त्वा, 'ईश्वरग्रासः खराट् स्वयमीश्वर' इति ईश्वरत्वश्रावणात् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दिति प्रपञ्चात् परस्य कारणस्य ऐकत्वादिसप्रपञ्चधर्मवत्त्वश्रावणात्, द्वितीयस्कन्धे भगवता 'पश्चादह'मिति, तृतीयस्कन्धे मैत्रेयेण 'यथेदानीं तथाचाग्रे पश्चादप्येतदीदृश'मिति, विष्णुपुराणे प्रथमेंशे 'तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पव'दिति रश्मिः। तौल्यात् । यथा विरुद्धधर्मकल्पनायां 'नैषा तर्केणे'ति श्रुतिः, तथासन्मतेपीति तौल्यात् । एकदेशिमते- ऽरूपवत उत्पत्तिर्नैयायिकयुक्तिविरुद्धेति 'नैषा तर्केणे'ति श्रुतेर्विरुद्धधर्माश्रयत्व इव प्रवृत्तेः तस्यैकदे- शिमतस्याप्यादरणम् । श्रुत्यर्थस्तु । बहुभिरन्याचार्यग्रन्थैरपि । आश्चर्य इति । आश्चर्य सति वक्तति वचनप्रयोजक आश्चर्य एव वक्ता आश्चर्यवसो वा ब्रह्मरूपः तत्र प्रविष्टः । अर्शाआद्यजन्तो वा । अनुशिष्टः दत्तात्रेयवद्धूर्वनुशिष्टः । अवरः जगद्रूपः न सुविज्ञेयः, किन्तु भगवान् सुविज्ञेयः । जगत्तु तज्जलान्त्वेन । अनन्येति । अपृथग्दर्शनेनाचार्येण प्रोक्ते आत्मगतिरन्यत्र परब्रह्मणि नास्ति । यतोऽणीयान् 'अणुः पन्था विततः पुराणः' इति द्वितीयाध्याये चिन्तितम् । नहि अतर्क्यम् । 'अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेद्युत्त्या तु प्रसादात्परमात्मनः' इति श्रुतेर्नहि अतर्क्यम् । अणु ब्रह्म प्रमाणं प्रमाणप्रेरकत्वेन मुख्यत्वात् । अन्येनेति । आगमाभिज्ञेनाचार्येण गतिम् । त्वादिति । त्वत्सदृशः । शं कल्याणम् । सोः शेः । इतिहेतोः । अध्रुवैः साधनैरिति । अयमिति । विरुद्धधर्माश्रयपक्षः । पश्चात् एकदेशिमतात्पश्चात् । पूर्वत्रेति । एकदेशिमते । उत्पत्त्येति । विरुद्धधर्मोत्पत्त्या । पूर्वसूत्रे प्रकाशाश्रयवत्सूत्रे । व्याख्योक्तेति । कल्पनायामपीत्यादिव्याख्योक्तप्रकारिकया । उपपत्येतिभाष्यं विवृण्वन्ति स्म तयोरिति । पूर्वनयनमिति । पूर्वस्य पक्षस्य नयनम् । एवेति । अन्ययोगव्यवच्छेदकः । कथनेनेति । अनुच्छित्तिर्धर्मो यस्येति विग्रहे पुनरुक्तिरतो न उच्छित्तिर्नाशो येषां तेऽनुच्छित्तयः अनु- च्छित्तयो धर्मा यस्येति विग्रहात्तथा । स्वरूपेति । स्वरूपं च धर्मश्च तयोः । एतदादयो हेतवः । स्वसिद्धान्त इति भाष्यविवरणस्य व्यासचरणानां सिद्धान्त इति ग्रन्थस्य । सत्यपदेपीति । अपिना मूर्तामूर्तब्राह्मणीय- 'प्राणा वै सत्यं तेषामेष सत्य' मित्युक्तसत्यपदे । 'सत्यस्य सत्य' मिति ब्रह्मस्तुतौ । नामधेयं स्वरूपलक्ष- णस्थम्, निर्वचनं ब्रह्मस्तुतिरूपम्। यद्यपि नामधेयं त्रैकालिकाबाधविषयम्, तथापि विरुद्धधर्माधारत्वायाहुः मूलेति । मूलसद्रूपपदत्वं मूलत्यरूपपदत्वं तयोः । सन्मूर्तं त्यममूर्तं मूर्तामूर्तब्राह्मणे स्फुटं । ईश्वरत्वेति । श्रुत्यर्थस्तु प्रपञ्चस्योपशमो यत्रेति निर्धर्मकम्। पूर्वोक्तं प्राज्ञं ईश्वरं ग्रसतीतीश्वरग्रासः कर्मण्यण् । ओतत्वे- नेश्वरग्रासत्वमनुज्ञातृत्वेन स्वराट्त्वमनुज्ञात्वेन स्वयमीश्वरत्वमिति सधर्मकम् । अनन्तरूपमिति । व्यक्तम् । श्रुतीरुक्त्वोपबृंहणमाहुः द्वितीयस्कन्ध इति । भगवदिति । आदिनैकरूपत्वालक्ष्यत्वाविर्भावतिरोभा- १. आदर्शेषु एतत्त्वादिसप्रधर्मेति पाठः, काशीपुस्तके प्रपञ्चधर्मेति पाठः, मूलपुस्तके इदं नास्ति, अतोपेक्षितपाठो रक्षितः । मूलेऽभावाद्भ्रमो न विस्मृत इति । २० ब्र० सू० २० 1689

एकदेशिनस्तद्विपरीतम् । उभयमपि सूत्रकारस्य संमतमिति ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ एकदेशिमते उपपत्त्यन्तरमाह । 'एकमेवे'त्युक्त्वा पुनः 'अद्वितीय'मिति भाष्यप्रकाशः । पराशरेण च भगवद्रूपत्वादिनैव तदुपबृंहणाच्च विरुद्धधर्माधारत्वलौकिकयुक्त्यगम्यत्वविदिताविदित- परत्वानिरुक्तस्वरूपाणां श्रुत्युक्तयुक्तीनां अनन्तगुणपूर्णत्वपक्षेपि तुल्यत्वात् युक्त्या कारणरूपस्यैवम- विरोधानुकूल्यप्रापणं व्यासचरणानां सिद्धान्तः । द्वितीयस्कन्धे 'नास्य कर्माणि जन्मादौ परस्यानु- विधीयत' इति मुख्याधिकारिणामर्थे जन्मकर्मनिषेधकथनेन सद्रूपत्वबोधनात् । एकदेशिन- स्तु पूर्वोक्तरीत्या कालभेदेनाविरोधप्रापणमिति व्यासोक्तपक्षाद्विपरीतम् । तस्य पक्षस्य द्वितीय- स्कन्ध एव 'इत्थं भावेन कथितो भगवान् भगवत्तमः । नेत्थं भावेन हि परं द्रष्टुमर्हन्ति सूरय' इति मध्यमाधिकारिपरतयोक्तत्वेन इतो न्यूनत्वात् । एतावान् परं विशेषः, यत्पुराणे माया- द्वारकं कर्तृत्वादि, श्रौते मते तु तन्नेत्येकदेशिमतं तत उत्तमम् । तथापि 'अनुच्छित्तिधर्मे'त्यादि- श्रुतीनां 'पश्चादह'मित्याद्युपबृंहणानां चाज्ञास्याभावेन न तथोपपन्नम् । एवमपि सत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः कर्तृत्वादिश्रुतीनां च नासामञ्जस्यमित्यल्पदोषदुष्टत्वेन सूत्रकारादृतम् । अत उभयमपि सूत्रकारस्य संमतमित्यर्थः ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ सूत्रमवतारयन्ति एकदेशीत्यादि । भगवन्माहात्म्यबोधकत्वेपि किञ्चिद्दोषपादनादरो मा भूदित्यत एकदेशिमते उपपत्त्यन्तरमाहेत्यर्थः । व्याकुर्वन्ति एकमेवे- रश्मिः । वजन्मनाशविकल्पवत्त्वानि । अत्र उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्य इति भाष्यानुरोधात्पूर्वानय- नमाहुः विरुद्धधर्मेत्यादि । विरुद्धधर्माधारत्वं उभयव्यपदेशसूत्रात् 'सकलविरुद्धधर्मा भगवत्येव वर्तन्त' इति भाष्यात् । लौकिकयुक्त्यगम्यत्वं 'तादृशमेव तद्वस्तुतत्सिद्धि'मिति भाष्यात् 'न धर्मेष्वपि युक्त्य- पेक्षे'ति भाष्याच्च । विदितेत्यादि । विदितं वर्तमानं अविदितं मृतं भविष्यच्च तयोः परत्वम् । 'अन्य- देव तद्विदितादथोऽविदितादधी'ति श्रुतेः । अनिरुक्तत्वं तैत्तिरीये । अभिधेयानामित्युक्ते एकदेशिमतवा- दकवलिता स्यादत आहुः श्रुत्युक्तयुक्तीनामिति । विरुद्धधर्माधारत्वं नित्यं न भवेन्नित्यानित्यसंयोग- धिया श्रुत्यभिधेयं न भवेत् । लौकिकयुक्त्यगम्यत्वं नित्यं न भवेत्, श्रुत्यभिधेयं न भवेत् । 'आसीनो दूरं व्रजति शयानो याति सर्वतः' । 'अपाणिपादो जवनो ग्रहीते'ति श्रुत्यभिधेयं नित्यानित्यसंयोगधिया न भवेत् । विदिताविदितपरत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुतिरभिधेयं न वदेत् । अनि- रुक्तत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुत्यभिधेयं न भवेदित्येवं युक्तीनाम् । नास्येति । अस्य परस्य आदौ कर्माणि जन्म नानुविधीयते इति । मुख्याधिकारिणामिति । एकदेशिन इति भाष्यं विवृण्वन्ति स्म एकदेशिन इति । पूर्वोक्तेति । अत्रैव पूर्वोक्तरीत्या सृष्टिकालस्य भेदेन । सिद्धान्ते तु सृष्टिकालपूर्वकालेपि धर्माः । मायाद्वारकमिति । 'बुभुत्सुम्पावदे' इति वाक्यात् । तत इति । पुराणमतात् । आज्ञास्येति । सिद्धान्तरीत्या नयनाभावेन । स्वार्थे ष्यञ् । न तथेति । सिद्धान्तत्वेन नोपपन्नम् । अल्पदोषेति । अपसिद्धान्तत्वदोषदुष्टत्वेन । सूत्रकारादृतं मत इति पदच्छेदः ॥ २९ ॥ प्रतिषेधाच्च ॥ ३० ॥ किञ्चिदिति । अपसिद्धान्तदोषात् । प्रतीति । धर्मप्रतिषेधयुक्ता 1690

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५५ द्वितीयं प्रतिषेधति । स एवकारेणैव सिद्धो व्यर्थः सन् धर्मनिषेधमपि सूचयति । 'ऐक्षते'ति वचनात् तदुत्पत्तिः । चकारादेकविज्ञानेन सर्वविज्ञानोपक्रमः परिगृ- हीतः । तस्मान्न ब्रह्मणि कश्चिद्विरोध इति सिद्धम् ॥ ३० ॥ इति तृतीयाध्याये द्वितीयपादे नवमं प्रकाशाश्रयवद्भेत्यधिकरणम् ॥ ९ ॥ भाष्यप्रकाशः। त्यादि । स इति । द्वितीयनिषेधः । नन्वनुच्छित्तिधर्मेत्यादिना तन्नित्यत्वे कुतो निषेध इत्यत आहुः ऐक्षतेत्यादि । तथाचोक्तश्रुत्यनुरोधेन धर्मनित्यताबोधकश्रुतिरनुच्छित्तिर्धर्मो यस्येतिसमासेनावि- नाशिपदव्याख्यानपरतया नेयेत्यर्थः । स्फुटमन्यत् । नचैकदेशिमतस्य युक्त्यन्तरेणोपष्टम्भात् पूर्वमततुल्यत्वमस्य सूत्रकाराभिप्रेतमिति शङ्क्यम् । प्रतिषेधश्रुतेर्द्वित्वसंख्यापूरकनिषेधपरतायाः प्रागुपपादितत्वेन, 'सूर्य एकाकी चरती'तिश्रुतौ सप- रिकरे एव सूर्ये एकाकित्ववत् 'गेहे देवदत्त एवास्ति, न द्वितीय' इति लौकिकप्रयोगे करचरणा- दियुक्तदेवदत्ताद्वितीयत्ववच्चापि निषेधगतेः शक्यवचनत्वेन, अनुच्छित्तिधर्मपदस्याविनाशिप- दव्याख्यानताया अपि मानान्तरविरहादगतिकगतित्वेन च तस्य शैथिल्यात् । अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानुरोध एवैतत्संग्रहे बीजम् । एतस्योपष्टम्भकं च नैतस्मादन्यदिति बोधनायैवैतद्यु- क्तिकथनमिति बोध्यम् । तस्मान्न कोपि शङ्कालेशः । (ननु मतद्वयस्यापि सूत्रकारसम्मतत्वे स्वसिद्धान्त इति भाष्यस्थस्य स्वशब्दस्य सूत्रकार- परत्वेन व्याख्यानमनुचितम् । एकदेशिपदे च व्यासैकदेशित्वव्याख्यानमपि तथा । व्यासैस्तन्ना- मानुल्लेखादिति चेत् । मैवम् । एकदेशिपदेत्र व्यासस्यैकदेशी ग्राह्यः । अन्यथाम्बुवत्सूत्रेण 'अत एव'तिसूत्रसिद्धं दृष्टान्तं न दूषयेत् । वृद्धिह्रासादि Barclay सूत्रद्वये युक्त्यन्तरं च न वदेत् । एकदेशिनामानुल्लेखस्तु जैमिन्या- दिवदप्रसिद्धत्वात् । 'जीवमुख्यप्राणलिङ्गा'दित्यादिपूर्वपक्षिनामवत् । अस्मिन् सूत्रे जघन्यानामर्थेऽस्य सद्भावाद्वा । अथवा । जीवप्रसङ्गे 'अवस्थितेरिति काशकृत्स्न' इति काशकृत्स्नेन जीवस्य ब्रह्मावस्थाविशेषत्वेनाङ्गीकारात् तस्य न्यायस्यापि तुल्यत्वात् स एवैकदेशी ग्राह्यः । अत एव द्विती- यस्कन्धपञ्चमाध्याये सृष्टिप्रकरणे 'सत्त्वं रजस्तम' इत्यस्य सुबोधिन्यां 'काशकृत्स्नमतमत्र सिद्धं भविष्यती'त्याचार्यैरपि तथाङ्गीकारः कृत उत्पत्त्या विमर्शविचारे इति नात्र शङ्कालेशः । एवमेक- देशिनि निर्णीते स्वशब्दो व्यासपर एव युक्त इत्यत्राप्यदोषः । नचास्य पश्चात् कथनेनास्यैव मुख्य- त्वमिति शङ्क्यम् । द्वितीयस्कन्धे 'इत्थंभावेन कथितो भगवान् भगवत्समाः । नेत्थं भावेन हि परं ब्रह्मार्हन्ति सूरय' इत्यादिभिरेतदसमुख्यतयाः शुकवाक्ये व्यासचरणैरेवोक्तत्वात् । एतस्य रश्मिः। श्रुतिरद्वितीयमितिश्रुतिस्तस्याः । द्वित्वेति । द्वितीयमित्यत्र पूरणार्थकप्रत्यय इति भावः । प्रागिति । सपरीति । चरणादिः परिकरः । श्रौतत्वादेवकारः । एवेति । अन्ययोगव्यवच्छेदकः । निषेधगते- रिति । अद्वितीयश्रुत्युक्तायाः । तस्येति । एकदेशिमतस्य । एवेति । अन्ययोगव्यवच्छेदकः । एतत्संग्रहे एकदेशिमतसंग्रहे । एतस्मादिति । प्रतिषेधसूत्रादित्यर्थः । एवकारोऽन्ययोगव्यवच्छेदकः । (ए)तद्युक्तीति । एकदेशिमतयुक्तिकथनपनेन सूत्रेणेत्यर्थः । शङ्केति । एकदेशिमतोपपत्त्यनावश्यकत्वशङ्का तस्या लेशः । १. अधिकरणादिसार्थः । 1691

भाष्यप्रकाशः। सम्मतत्वं तु जघन्याधिकारिणामर्थे एतस्यैव सुबोधत्वेनोपयोगात् । अत एवेदं मतं पूर्वमुक्तम् । यथा द्वितीयस्कन्धे राजार्थम् । किञ्च, भाववृत्तसूक्ते 'नासदासी'दित्यादिभिः सृष्टिं पूर्वमुक्त्वा, समाप्तौ 'इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न योऽस्या अध्यक्षः परमे व्योमन् सोऽङ्ग वेद यदि वा न वेदे'ति सृष्ट्याधानानाधानात्भकं पक्षद्वयमुक्त्वा तस्य ज्ञानाज्ञाने आह । तेन विसृष्टिं कदाचिदाधत्ते, कदाचित् स्वतःसिद्धामेव प्रकटयति । अथवा सामान्यां करोति । लीलासृष्टिं तु स्वतःसिद्धामेवाविष्करोतीति ज्ञानाज्ञाने उभये अपि युक्ते । एतज्ज्ञापनाय सन्देह- वचनम् । अन्यथा वेदस्य ब्रह्मणश्च सन्देहाभावादेवं न वदेत् । अतो लीलासृष्टिमनुसन्धाय व्यासः स्वमतं वक्ति । एकदेशिनस्तु तन्न जानन्तीति ब्रह्मणो निर्विशेषादुत्पत्तिं वदन्ति । तस्मादुपपत्ति- पक्ष एव व्यासाशयगोचरः, इतर इतरस्येति दिक् ।) शङ्कराचार्यास्तु । 'न स्थानतोपी'त्यारभ्यैकादशसूत्रमेकमधिकरणं कल्पयन्ति । 'प्रकृतै- तावत्त्वे'त्यारभ्य नवसूत्रमपरम् । तत्र प्रथमे, सुषुप्त्यादिषूपाध्युपशमाज्जीवो यत् सम्पद्यते तद् ब्रह्म । 'सर्वकर्मे'त्यादिभिः सवि- शेषत्वश्रावणादस्थूलमित्यादिभिर्निर्विशेषत्वश्रावणाच्च किमुभयलिङ्गं ब्रह्म प्रतिपत्तव्यम्, उतान्यतर- लिङ्गम् । यद्यन्यतरलिङ्गम्, तदापि किं सविशेषम्, उत निर्विशेषमिति सन्देहे, उभयलिङ्गश्रुत्यनुग्रहा- दुभयलिङ्गं ब्रह्मेति प्राप्ते, अभिधीयते । न स्थानत इत्यादि । परस्य ब्रह्मण उभयचिह्नत्वं स्वत उपा- धितश्च न । कुतः । सर्वत्र हि । ब्रह्मस्वरूपप्रतिपादनपरेषु 'अशब्दमस्पर्शमरूपमव्यय'मित्यादिषु निर्विशेषस्यैवोपदेशादिति । 'न भेदा'दिति द्वितीये च प्रतिविद्यं ब्रह्मण आकारभेदश्रावणान्निर्वि- शेषाङ्गीकारे च तस्य शास्त्रस्य निर्विषयत्वापत्तेरौपाधिक आकार आदर्तव्य इत्याशङ्क्य, मधुविद्यायां प्रत्युपाधिभेदं ब्रह्मणोऽभेदश्रावणान्न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति । 'अपिचैवमेके' इति तृतीये च, 'मनसैवेदमाप्तव्यम्' 'नेह नानास्ति किञ्चने'ति भेददर्शननिन्दापूर्वकमभेदमेके, तथान्ये भोक्तृभोग्यादिप्रपञ्चस्य 'त्रिविधं ब्रह्ममेत'दिति ब्रह्मैकस्वभावत्वमामनन्तीति व्याख्याय, ननूभय- लिङ्गासु श्रुतिषु सतीषु कथमेनाकारमेव ब्रह्मावधार्यते, न पुनः साकारमिति शङ्कायाम्, चतुर्थस्या- रूपवत्सूत्रस्य प्रवृत्तिमुक्त्वा, अरूपवदेव ब्रह्मावधारयितव्यम्, न रूपादिमत् । कुतः । तत्प्रधानत्वात् । 'अस्थूलमनणु', 'अशब्दमस्पर्शमरूपमव्ययम्,' 'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद् ब्रह्म,' 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः,' 'तदेतत् ब्रह्मापूर्वमनपरमनन्तरमबाह्य- मयमात्मा ब्रह्म सर्वानुभू'रित्यादीनां निर्विशेषब्रह्मप्रधानत्वात्, आकारलिङ्गानां चोपासनाप्रधान- रश्मिः। सुषुप्त्यादिष्विति । आदिना संपत्तिसमाधी । एवेति । सविशेषव्यवच्छेदक एवकारः । आकारेति । 'चतुष्पाद्ब्रह्म' 'षोडशकलं ब्रह्म', वामनीत्वभामनीत्वलक्षणं ब्रह्म, त्रैलोक्यशरीरं वैश्वानरशब्दोदितं ब्रह्म, 'सर्वं खल्विदं ब्रह्मे'ति, चतुर्दशभुवनात्मकं ब्रह्मेत्येवमाकारभेदश्रावणात् । मधुविद्यायामिति । 'यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे'त्यादिरूपायाम् । अभेदेति । पृथिव्यादीनामुपाधित्वाच्चेति भावः । भोक्तृभोग्या- द्येति । आदिना प्रेरिता । 'भोक्ता भोग्यं प्रेरितारं च मत्वे'ति श्रुतेः । अनाकारमेवेति । साकार- योग्यव्यवच्छेदक एवकारः । ते यदिति । ते नामरूपे यस्यान्तरा मध्ये व्यवधायके वर्तेते तद्ब्रह्मेत्यर्थः । १. प्रकाशमूलपुस्तके सुषुप्तादिषु, रश्मौ च सुषुप्त्यादिषु । २. ज्ञाप्य ।

त्वेन ततो निर्बलत्वादिति व्याख्यातवन्तः। ततो, ननु तर्हि आकारवद्विषयाणां का गतिरित्या- शङ्कायां पञ्चमं 'प्रकाशवच्चावैयर्थ्या'दिति सूत्रमवतार्य, यथा सौर्यश्चान्द्रो वा प्रकाशो वियद् व्याप्या- वतिष्ठमानोङ्गुल्याद्युपाधिसंसर्गादृजुवक्रादिभावं प्रतिपद्यमानेषु संसर्गिषु तदाकारतामिव प्रतिपद्यते, तथा ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते, तदालम्बनं ब्रह्मण आकार- विशेषोपदेश उपासनाय ना विरुध्यते, एवमाकारवद्ब्रह्मविषयाणामवैयर्थ्यात्। नच नोपाधियो- गादप्युभयलिङ्गमिवि प्रतिज्ञाहानिः। उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः। उपाधीनामाविद्य- कत्वाद्वेति व्याख्याय, 'आह च तन्मात्र'मिति सूत्रं च यथावद्व्याख्याय, 'दर्शयति' सूत्रे च 'अथात आदेशो नेति नेति', 'अन्यदेव तद्विदितादथो अविदितात्', 'यतो वाचो निवर्तन्ते, 'अवचनेनैवोवाचे'ति श्रुतीः, 'ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म' न सत्तन्नासदुच्यत' इति गीतावाक्यम्, 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूत- गुणैर्युक्तं नैवं मां द्रष्टुमर्हसी'ति स्मृती उपन्यस्य परप्रतिषेधेनैव निर्विशेषं ब्रह्म प्रतिपाद्यत इत्युक्त्वा, 'अत एवे' 'त्यम्बुव'दिति सूत्रद्वयं च यथावद्व्याख्याय, 'वृद्धिह्रास'सूत्रे जलसूर्यकादिदृष्टान्तं साधितुं जलगतं सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, तद्ध्रासे ह्रसति, तच्चलने चलति, तद्भेदे भिद्यत इत्येवं जल- धर्मानुविधायि भवति, न तु सूर्यस्य तथात्वमस्ति, एवं परमार्थतोऽविकृतमेकरूपमपि सद्रह्म देहा- द्युपाध्यन्तर्भावाद्बुद्धिह्रासादीनुपाधिधर्मान् भजत इत्येवमुक्त्वा, 'दर्शनाच्चे'ति सूत्रे, 'पुरश्चक्रे द्विपदः,' 'अनेन जीवेनात्मनानुप्रविश्ये'ति श्रुतिभ्यामुपाधिप्रवेशं ब्रह्मणो दर्शयित्वा, युक्त एवातः सूर्यकादिदृ- ष्टान्त इत्युक्त्वा, तस्मान्निर्विकल्पकलिङ्गमेव ब्रह्म,नोभयलिङ्गम्, न विपरीतलिङ्गं चेति सिद्धान्तमाहुः। तत्र प्रथमसूत्रव्याख्यानमयुक्तम्। 'सर्वत्र ही'ति हेतुबोधके पदे निर्विशेषस्यैवोपदेशादित्य- स्यार्थस्यासौत्रत्वेन तृतीयाध्याये वा शास्त्रे वा ईदृशस्य शब्दस्यार्थस्य च काप्यनुक्ततया अनुवृत्तेरपि कर्तुमशक्यत्वेनाभ्युपगमैकशरणत्वात्। 'अशब्दमस्पर्श'मिति विषयवाक्योत्तरार्धेऽपि, 'अनाद्यनन्तं महतः परं ध्रुवं निचाय्य त'मित्यनेन 'महतः पर'मित्यादिना पूर्वोक्तस्य ध्रुवस्य पुरुषस्य परामर्शन प्राप्तायाः सविशेषताया अनादरेण तद्विरुद्धत्वात्। निर्विशेषमेव ब्रह्मेति सिद्धान्तस्तत्रैव सिद्धाव-

निर्बलत्वादिति । उपासनायाः कल्पिताकारपरत्वादिति भावः। संसर्गिषु प्रकाशेषु। इति प्रतिज्ञेति। 'न स्थानत उभयलिङ्ग'मितिसूत्रभाष्ये इति प्रतिज्ञा। यथावदिति । निराकारपरत्वेपि सिद्धान्तानुसारि- त्वाद्यथावत् । तेषां सिद्धान्ते यथावदिति वा। परप्रतीति। चिन्मात्रतापरप्रतिषेधेन। नेतिनेती- त्यादिना । 'मत् परं ब्रह्मे'त्यत्र मत् मत्तः ब्रह्म परमित्यर्थायोगव्यवच्छेदक एवकारः । यथावदिति। व्याख्यातम् । वृद्धिह्रासादीनिति । आदिनोक्तचलनादयः। एवकारव्यावर्त्यमाहुः नोभयेति। विपरीतेति। साकारलिङ्गमेव, न तु निराकारमित्येवम्। निर्विशेषस्यैवेति। परसोभयलिङ्गमिवि प्रतियोगिनिर्वचनेन सर्वत्र प्रतियोगिस्फूर्तेर्नेतिनेतीत्यादौ नञा निषेध इति तथा। ईदृशस्येति । निर्विशेषमात्रस्य । अनुक्ततयेति । किन्तु 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्षण्यस्य सर्वत्र कारणत्वाद्भगवानस्तीत्यर्थस्य चोक्ततया । निचाय्य तमिति । तं पुरुषं निचाय्य ज्ञानकाण्डत्वा- ज्ज्ञात्वा। अत्र परामर्शमाहुः महतः परमिति । काठके 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति'रित्यनेन पूर्वोक्तस्य । ध्रुवपदसामानाधिकरण्यायाहुः ध्रुवस्येति । 'सा काष्ठा सा परा गति'रित्यस्यार्थः । तद्धीति । उत्तरार्धविरुद्धत्वात् । अत्रैवेति । अस्मिन्सूत्रे एव

१५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। ग्रिमस्यारूपवत्सूत्रस्य वैयर्थ्यप्रसक्तेः। तत्र साध्यमानत्वान्न सिद्धवन्निर्देशाङ्गीकार इत्यस्याप्युक्त- त्वाच्च । तथा, अरूपवत्सूत्रे 'तत्प्रधानत्वा'दित्यस्य निर्विशेषप्रधानत्वादिति व्याख्यानमप्ययुक्तम् । तदुपन्यस्तानां विषयवाक्यानामुपक्रमादिविचारे तथात्वस्यालाभात् । तथाहि । प्रथमं तत्रास्थूल- वाक्यम् । तच्च 'कस्मिन् वा आकाश ओतश्चे'ति गार्गीप्रश्नात् प्रवृत्तम्, स्थूलत्वादीन् लौकिकान् धर्मान्निषेधत् प्रशासितृत्वाम्बरान्तधारकत्वद्रष्टृत्वादीनाकाशोपादानत्वान्तानलौकिकान् दर्शयति । अशब्दवाक्यं तु प्राग्व्याख्यातम् । आकाशवाक्यं च नामरूपनिर्वाहकत्वम् । 'दिव्यो ह्यमूर्तः' इति वाक्यं चेयत्तावच्छिन्नं परिमाणं निषेधत् पुरुषं बाह्याभ्यन्तरसाहित्यं बाह्याभ्यन्तररूपत्वं वा दर्शय- दक्षरात् परत्वमग्रे श्रावयति । 'तदेतद् ब्रह्मे'ति मधुविद्योपसंहारस्थमपि मधुविद्यायामुपक्रमे, 'अय- मेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व' मित्येवं चतुर्दशपर्यायैरभ्यस्तं सर्वत्वं मध्य उक्तं सर्व- भूताधिपतित्वादिकं 'रूपं रूप'मिति मन्त्रव्याख्यानोक्तं 'अयं हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि चे'त्यनन्तरूपतां श्रावयतीति निर्विशेषब्रह्मप्रधानतया वक्तुमयुक्तत्वात् । नच 'तदेतद् ब्रह्मे'ति भिन्नं वाक्यं पूर्वेभ्य इति वाच्यम् । तच्छब्दात् पूर्वपरामर्शाद्विभागे साकाङ्क्ष- तया तदभावात् । नचेदं तच्छब्देन पूर्वोक्तरूपत्वं परामृशदप्यपूर्वमित्यनेन तभिषेधतीति न दोष इति वाच्यम् । एवं तर्ह्यनपरमित्यनेनानन्तरत्वादीनग्रिमानपि निषेधच्छून्यवाद्मेव प्रसञ्जयेत् । अतोत्र पूर्वत्वादीनां धर्मानामेव निषेध इत्येवाङ्गीकार्यम् । तथा सति 'न शुष्केण न चार्द्रेण रश्मिः। निर्धारणेनेत्येवकारार्थः । इत्यस्यापीति । इति हेतोः सूत्रस्यापि । अशब्दवाक्यमिति । काठकेऽस्ति । प्राक् । अत्रैव पूर्वम् । नामरूपेति । दर्शयतीत्यनेनान्वेति । पुरुषत्वमिति । दर्शयतीत्यनेनान्वेति । 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' इत्यत्र बाह्याभ्यन्तराभ्यां समानः सह वेति विग्रहे आहुः बाह्याभ्यन्तरेति । सः बाह्याभ्यन्तरः इति पदद्वयेनेत्याहुः बाह्याभ्यन्तरेति । श्रावयतीति । 'अक्षरात्परतः परः' इति श्रुत्या श्रावयति । सर्वभूतेति । आदिना राजत्वसमर्पितत्वे । 'स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना५ राजा तद्यथा रथनाभौ रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानः समर्पिता' इति श्रुतिः । रूपं रूपमिति । 'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेत्ययं वै हरय'इत्यादि । युक्ता इति । रथयुक्तवाजिवत् अस्य इन्द्रस्य परमात्मनः रथस्थानीये आकाशे शरीरे युक्ताः गोविन्दं स्वविषयान्प्रति हरन्तीति हरयः इन्द्रियाणि, शता शतानि, नित्यलीलास्थभक्तेन्द्रियाभिप्रायेण दश प्राणाः, प्राणानामिन्द्रियपदवा- च्यत्वात् । मन्त्रः समाप्तः । नित्यलीलास्थगोपीजनवल्लभ उक्तः । लीलायां भेदवारणाय मन्त्रव्याख्यानं प्रकाशे । अयं वा इति । अयं परमात्मा । अत्र श्रुतिश्छान्दोग्ये 'आत्मत आविर्भावतिरोभावा'विति सर्वात्मभावप्रकरणश्रुतेः । पूर्वेभ्य इति । चतुर्दशपर्यायेभ्यः । तदभावादिति । 'अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति जैमिनिसूत्रेणैकवाक्यत्वे भिन्नवाक्यत्वाभावात् । पूर्वोक्तेति । 'अयमेव स योयमात्मे'ति पूर्वोक्तरूपत्वम् । अपूर्वमिति । 'तदेतद्ब्रह्म' इत्यस्य अग्रे 'अपूर्वमनपर- मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मित्यस्यापूर्वमित्यनेनेत्यर्थः । न दोष इति । सधर्मकत्वदोषो न । शून्यवाद्मेवेति । अन्ययोगव्यवच्छेदक एवकारः । द्वितीयस्कन्ध नवमाध्यायेऽपि कारणत्वाङ्गीकारात् साकारत्वाङ्गीकाराच्च । एवेति । पूर्वोक्तरूपत्वानन्तरत्वादियोगव्यवच्छेदकः । 1694

... wait! Ah, let's look at line 27, character by character: 1: 2:स्म3:(or is itद्?) Wait, look at line 26: रत्वमस्मदादिगोचरत्वम् ।-> wait, is itरत्वमस्मदादिगोचरत्वम्orरत्वमस्मदाद्यगोचरत्वम्? Wait! In Bhashya line 11: अस्मदाद्यगोचरत्वमेव प्रलयः, क्रमेण वा युगपद्वा तद्गोचरत्वमेव सृष्टिःBhashyaprakasha says:अस्मदाद्यगोचरत्वमेव प्रलयः, क्रमेण वा युगपद्वा तद्गोचरत्वमेव सृष्टिःHere "तद्गोचरत्वम्" refers to: whose gocara? Does "तद्" refer to "अस्मदादि"? Yes! Srishti is when it becomes gocara to them (अस्मदादिगोचरत्वम्)! And pralaya is when it is NOT gocara to them: अस्मदाद्यगोचरत्वम्! Now look at Rashmi explaining this: Line 25-26:तद्गोच- रत्वमस्मदादिगोचरत्वम् ।` Rashmi explains: "तद्गोचरत्वम् = अस्मदादिगोचर

१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः । वाक्यान्युक्तानि, तेष्वपि 'अथात आदेश' इति वाक्यं तु न निर्विशेषप्रतिपादकमिति दर्शयितुंछात्रमा- ध्वाख्यान एव दर्शितम् । विदिताविदितवाक्यं तु तदुभयभिन्नत्वमेव वदति, न तु विशेषान्नि- षेधति । अथान्यत्वादिकथनेनमुखेन निषेधति, तदा लौकिकानेव निषेधति । तावतैव चारिता- र्ध्यम्, न तु स्वरूपात्मानपि । 'तदेतद् ब्रह्मे'त्यादिश्रुतिविरोधप्रसङ्गात् । 'यतो वाच' इति वागाद्यप्राप्यत्वमेव वदतीत्यनिरुक्तश्रुतिसमानार्थम्, न तु विशेषनिषेधकमित्यपि प्रागेव व्युत्पा- दितम् । 'अवचनेनैवोवाचे'त्यपि 'यतो वाच' इत्येतस्य समानार्थकम् । लौकिकसर्वधर्मराहित्या- देवोपशान्तत्वसिद्धेरिति । 'न सत्तन्नासदुच्यत' इति गीतावाक्यमपि व्याकृताव्याकृतयोरेव निषे- धकमिति लौकिकनिषेधपरमेव । 'सर्वतःपाणिपादन्त'मित्यग्रिमवाक्येन तथा निश्चयात् । सर्वतःपा- णिपादत्वादेः क्वापि लौकिके अदर्शनादिति । 'माया ह्येषे'ति वाक्यमपि सर्वभूतगुणयुक्तदर्शननि- षेधाभिप्रायकमिति तत्रैव स्फुटतीति न सार्वात्म्यबाधकम्, अतस्तत्तन्त्रव्याख्यानमपि तथा । एवं रश्मिः । ख्याविचारे यत्किमपि कार्यमविद्या च तत्सत्त्वेनैवानुभूयते, नतु प्रतिनियतेन तेन तेन रूपेणातो विजातीयद्वैतस्याप्यभावाच्छुद्धाद्वयसिद्धिरित्यर्थ इति' सन्दर्भे दूषितत्वेन, प्रयोजकहेतुत्वाभावात् । व्याख्यान एवेति नान्यत्रेत्येवकारः । तदुभयेति । विदिताविदितोभयभिन्नत्वमन्यदेवेत्यत्र भिन्नार्थ- कान्यशब्दप्रयोगात् । भिन्नवाचकपदसत्त्वान्निषेधवाचकपदाभावादेवकारः । विशेषानिति । द्विती- यान्तम् । अथेति पदार्थभिन्नप्रक्रमे । अन्यत्वादीति । आदिना विदितत्त्वाविदितत्वे । मुखमुपायः । निषेधतीति । विदितादन्यत् अविदितादन्यदित्युक्ते विदिताविदितप्रतियोगिकभेदवत्प्रतीतेः विदित- त्वाविदितत्वरूपसामान्यधर्मनिषेध इति निषेधतीत्यर्थः । एवेति । प्रक्षालनपङ्कन्यायात् । श्रुतिवि- रोधेति । तत्त्वसर्वात्मपदविरोधप्रसङ्गादित्यर्थः । वागादीति । आदिना मनः । एवकारोऽन्यस्य सविशेषत्वस्य योगव्यवच्छेदकः । नतु निर्विशेषत्वं वदतीत्यर्थः । किञ्च । अनिरुक्तेति । निरुक्तत्वे प्राप्तेऽनिरुक्तत्वं विरुद्धधर्माधारत्वार्थम् । तद्वद्वागप्राप्यत्वे प्राप्ते वाग्वृत्तिर्विरुद्धधर्माधारत्वार्थमित्य- निरुक्तश्रुतिसमानार्थमित्यर्थः । प्रागेवेति । अवचनेति । वचनेनोवाचेति प्राप्ते अवचनेनोवाचेति विरुद्धधर्माश्रयत्वाय । अवचनेन वचनविरुद्धवचनेन । परस्परं विरुद्धवचनेनेति यावत् । विरोधो नञर्थ इति । अत एवकारः । विरुद्धधर्माणांमन्याभिनिश्चयात् । एवेति । नत्वलौकिकसर्वधर्मराहि- त्यमुपशान्तत्वसिद्धिरपेक्षत इत्यर्थः । उपशान्तत्वं त्वेवम् । बाष्कलिना च राद्धः पृष्टः सन् 'अवचनेनैव ब्रह्म प्रोवाचे'ति श्रूयते 'स होवाचाधीहि भगवो ब्रह्मेति । स तूष्णीं बभूव, तं ह द्वितीये तृतीये वा वचन उवाच क्रथः खल त्वं न विजानासि उपशान्तोऽयमात्मे'ति । स ह बाष्कलिर्ह प्रसिद्धः । हे भगवन् पृष्टः सः पृष्टः । तं तूष्णींभूतं पृष्टं प्रति द्वितीय इति । प्रश्ने वचने, पृष्ट उवाच, क्रथः क्रमेण । सुपांसुः । हे खल, त्वं तु ब्रह्म न विजानासि, उपशान्तः लौकिकसर्वधर्मरहितः । यथा शान्तो वह्निर्भ- स्मात्मा । व्याकृतेति । लक्षणया सदसद्द्रव्ययोः । एवेति । समाकर्षाधिकरणोक्तवकारोयम् । तत्र शब्दाः स्वार्थात्तच्याव्यन्त इति । लौकिकेति । लौकिकसर्वधर्मनिषेधपरम् । श्रुत्येकवाक्यतासम्भवादेवकारः । इत्यग्रिमेति । अलौकिकसर्वधर्माणां सर्वतः पाणिपादान्तत्वादीनां बोधकेन । तथेति । लौकिकनिषे- धपरत्वेन निश्चयात् । सर्वत इति । आदिना सर्वतोऽक्षिशिरोमुखत्वम् । तत्रैवेति । वाक्य एव, नत्वन्यत्र, 'नैवं मां द्रष्टुमर्हसी'त्यंशेन स्फुटतीत्यर्थः । न सार्वात्म्येति । परिच्छेदेन सर्वात्मत्वधर्म- बाधकम् । एतादृशधर्मोपादानं जीवपरत्वेन प्रतीतानां ब्रह्मपरत्वप्रतिपादनाय । अत इति । सर्वा- 1696

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६१ भाष्यप्रकाशः । वृद्धिह्राससूत्रे जलवृद्धिह्रासाभ्यां प्रतिबिम्बवृद्धिह्रासकथनपि तथा । भूयसि स्वल्पेपि च जले सूर्यादिप्रतिबिम्बस्य तुल्यताया एव ग्रहणात् । अतोत्राकाशदृष्टान्तेन धर्माणामौपाधिकत्वसमर्थन- मेव युक्तम्, न तु जलसूर्यदृष्टान्तसमर्थनमित्यवधेयम् । यत्तु भामत्यामेतत्तात्पर्यमुक्तम् । उपाधिजनितस्य रूपस्य पारमार्थिकत्वे ब्रह्मणः परिणामि- भावः । स च प्राक्प्रतिषिद्ध इत्यपारमार्थिको ब्रह्मण्यध्यस्त इति । निर्विशेषप्रतिपादनार्थत्वाच्छ्रु- तीनाम् । सविशेषतायामपि मधुविद्यायां 'यश्चायमस्यां पृथिव्या'मित्यादिभिर्ब्रह्मैकत्वप्रतिपादनपर- त्वात् । एकत्वनानात्वयोश्चैकस्मिन्नसम्भवात् । एकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात् । नानात्वस्य प्रमाणान्तरसिद्धत्वेनानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्व

१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ९ सू० १०. भाष्यप्रकाशः। द्वैताभिधायिनीनां तत्तल्लयपरत्वम् । तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सत् ब्रह्म परमार्थतः । विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादर्ता इति सिद्धमिति । तदप्यसङ्गतमेव । ब्रह्मणः परिणामिभावस्य श्रुतिषु सूत्रेषु च प्रतिषेधादर्शनात् । 'बहु स्यां प्रजायेये'ति, 'स आत्मानं स्वयमकुरुते'त्यादिश्रुतिषु, 'आत्मकृतेः परिणामा'दित्यादिषु सूत्रेषु च तद्विपरीतस्य विधानस्यैव दर्शनाच्च । नच वाचारम्भणवाक्यं विकारस्य वाङ्मात्रताकथनमुखेन तद- भावमेव बोधयत् प्रतिषेधतीति शक्यवचनम् । तत्र तत्कथनमुखेन कारणाभिन्नत्वबोधनस्यैव भग- वता सूत्रकारेणादृततया स्वयमन्यादर्तुमयुक्तत्वात् । तदनादृत्यादरे तु 'वाचारम्भणं विकारो मृत्तिकैव सत्य'मित्येतावत्तैव चारितार्थ्येन, इतिशब्देनामधेयपदयोर्वैयर्थ्यस्य दुर्वारत्वमित्यादिकं तदनन्यत्वसूत्रभाष्यविभागे एव विवृतमिति न पुनः प्रपञ्च्यते । अतो निर्विशेषप्रतिपादनार्थत्वं यच्छ्रुतीनामङ्गीकृतम्, तदप्यभिमानमात्रमेवेति प्रागेवोपपादितम् । एकत्वनानात्वयोरेकत्रासम्भ- वस्तु 'इदं सर्वं यदयमात्मा' 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दित्यादिश्रुतिभि- रेवोदस्त इति तस्य निर्विशेषतासाधनादरः श्रुतिप्रद्वेषादेव । एकत्वाङ्गत्वेन नानात्वप्रतिपादनं त्विष्टमेव, परन्तु तन्न नानात्वस्यापोद्यत्वाय, अपि त्वभेदस्य भेदविरुद्धसम्पत्त्वबोधनायेत्यप्युक्तं पूर्वम् । नानात्वस्य प्रमाणान्तरसिद्धत्वं तु लौकिकस्यैव, न तु ब्रह्मधर्मभूतस्यैकत्वाविरोधिनः । तादृशस्य रश्मिः। अन्येति । चक्षुर्विद्येत्यात् । तथाच नार्थवादत्वमिति भावः । तस्येति । नानात्वस्य । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण' इति श्रुत्या तस्य भेदस्य प्रलयपरत्वम् । 'प्रज्ञां कुर्वीते'त्यस्य दृशिमात्रं ब्रह्म कुर्यात्प्रपञ्चप्रविलायनेनेत्यर्थात् । उपाधीत्यादि । अन्यत्राप्रसिद्धानामप्य- स्तत्वं भ्रमात् । इत्यादिष्विति । सूत्राणि तु समन्वयादिलादीनि द्रष्टव्यानि । तद्विपरीतस्य प्रतिषेधविपरीतस्य । एवेति । प्रतिषेधयोग्यव्यवच्छेदक एवेति । तदभावमेवेति । परिणामिभावस्य प्रतिषेधम् । एवकारोऽन्ययोग्यव्यवच्छेदकः । प्रतीषेधतीति । ब्रह्मणः परिणामिभावं प्रतिषेधति । एवेति । स्वसिद्धान्तभाष्यादेवकारः । तदिति । भाष्यम् । तदनन्येति । विभागो व्याख्यानम् । एवकारोऽन्ययोग्यव्यवच्छेदकः । एवेति । नतु युक्त्यन्तरदूषणेन प्राप्तम् । प्रागेवेति । तदनन्यत्वा- धिकरणे । एवकारोधिकरणान्तरयोग्यव्यवच्छेदकः । एषोदस्त इति । निर्धारणेनोदस्तः । एकात्मत्व- विधानेन तमःपरत्वेन चोदस्तः । श्रुतिप्रेति । श्रुतीनामक्षरमात्रान्याथाप्रतिपादकत्वेन विरुद्धधर्मा- श्रयत्वे लोकविरोधाल्लोकेषः, आलोचनयुक्त्यभावात्, दुरूह जिज्ञासोदयात् । अनुभवादेवकारः । इष्ट- मेवेति । नानात्वं विना सात्त्विकज्ञानेनैकत्वज्ञानानुदयादिष्टम् । एवेति । एकत्वस्याष्टादशाध्यायगी- तयोपबृंहणादेवकारः । विरुद्धधर्माधारप्रकरणादाहुः परन्त्विति । तन्नेति । एकत्वं न । अभेदस्य एकत्वस्य भेदो नानात्वं तद्विरुद्धत्वसम्पत्त्वबोधनाय । पूर्वमिति । प्रकाशाश्रयवत्सूत्रे । प्रमाणान्तरेति । प्रत्यक्षसिद्धत्वम् । एवकारव्यवच्छेद्यमाहुः नत्विति । तादृशस्येति । नानात्वस्य । तादृशशब्दो रूढः । अवयवार्थो नास्ति । कुत्र रूढ इति चेत् । तत्पूर्वोक्तमेकत्वाविरोधिृत्वं दृश्यते यत्र तत्र । योग इति चेत्, वैदिकेस्तु, तल्लोके रूढ्यर्थं गृह्यते । योगस्तु तमिवेमं पश्यन्ति जना इति । बहुव्रीहिप्रसङ्ग इति चेत्, १. मुद्रितभामत्यामप्यस्ता इति पाठ उपलभ्यते, श्रीहस्ताक्षरपुस्तके तथैव केश्वित् शोधितः, तथापि भाष्यप्रकाशका- राणां त्वयमेव पाठः संमत इति 'विशेषाणामस्ताते' तिफक्किकया प्रतिभाति, अतो यथोपलब्ध एव पाठोत्रावृत इति । खार- स्वस्य तस्मिन्नेव रक्षणादिति । 1698

ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति ।' L17: 'तद्धि प्रकृतम् । प्रपञ्चितं च पूर्वस्मिन् ग्रन्थे अधिदैवतमध्यात्मं च । तज्जनितं च वासनालक्षणम-'

Now रश्मि: L18: 'रश्मिः ।' L19: 'तत् दृश्यत इति पदद्वयं तादृश इति प्रयोगे यत्रेति तु स्पष्टार्थम् । स्वरूपान्तरिति । 'अविभक्तं च भूतेषु' L20: 'विभक्तमिव च स्थित'मिति गीतायाः । तोषणायैवेति । 'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्चे'ति' L21: 'सूत्रेणालंयोगे चतुर्थी । व्याख्येयेति । नानालापनोदेनैकत्वसमर्थनाय । अतो विरुद्धधर्मधारत्वमर्थ-' Wait, in L21: 'विरुद्धधर्मधारत्वमर्थ-' or 'विरुद्धधर्मधारकत्वमर्थ-'? Look at L21: 'विरुद्धधर्मधारत्वमर्थ-' -> 'धा', 'र', 'त्व', 'म', 'र्थ'. Yes, 'विरुद्धधर्मधारत्वमर्थ-'. L22: 'वादत्वाभावात्सुस्थिरमिति भावः । ननूक्ताया भेददर्शननिन्दायास्तादृशेष्ववतारात्स्वरूपान्तःपातित्वं'

परं रूपममूर्तरसभूतपुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्निहितालम्बनेनेतिकरणेन प्रतिषेधकेनञ् प्रत्युपनीयत इति गम्यते । ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन् ग्रन्थे, न तु स्वप्रधानत्वेन । प्रपञ्चिते च रूपद्वये रूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तं 'अथात आदेशो नेति नेती'ति । तत्र कल्पितरूपप्रत्याख्या- नेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते । नच स्वरूपद्वयं स्वयमेवोक्त्वा स्वयमेव निषेधे 'प्रक्षा- लनाद्धि पङ्कस्ये'ति न्यायेनाकथनमेव युक्तं स्यादिति शङ्क्यम् । एतस्य रूपद्वयस्य लोकप्रसिद्धस्य ब्रह्मणि कल्पितत्वेन प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च तत्परामर्शेन कथनस्य युक्त- त्वात् । द्वौ चैतौ निषेधौ यथासंख्यं मूर्तामूर्ते प्रतिषेधतः । यद्वा । पूर्वप्रतिषेधो भूतराशिं निषेधति, उत्तरस्तु वासनाराशिम् । अथवा, 'नेति नेती'ति वीप्सा । तत्र 'इती'ति यावत्किञ्चिदुत्प्रेक्ष्यते, तत्सर्वं 'ने'त्यनेन निषिध्यते । परिगणितनिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म, किमन्यत् ब्रह्म भवे- दिति जिज्ञासा स्यात् । वीप्सायां तु सत्यां समस्तविषयजातस्य प्रतिषेधाद् अविषयः प्रत्यगात्मा विराडात्मा एतच्चाधिदैविककारणात्मकस्य ब्रह्मणो रूपम् । निश्चयपूर्वकं पुनराह त्यस्य ह्येष इति । त्यमित्युक्तस्य हि निश्चयेन एष रसः रसशब्दप्रतिपाद्यः सारः वासनेत्यावृत्तिः । एवमुक्तमाधिदैविकं विभागमुपसंहरति स अधिदैवतमिति । लिङ्गात्मेति । 'तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्५ सकृद्विद्युतेव ह वा अस्य श्रीर्भवति य एवं वेदे'ति श्रुतिः । अत्र तस्याधिदैविकस्य ह एतस्याध्यात्मिकस्य लिङ्गपुरुषस्य आत्मनीत्यध्यात्मं तत्सम्बन्धिन इत्यर्थात् । मनसो वासनामयं रूपम् । यथा लोके महारजनं हरिद्रा तया रक्तं माहारजनं वासः वस्त्रम् । 'तेन रक्तं रागादि'ति सूत्रेणाण् । एवं रूपादिविषयसंयोगे सति । तादृशं रञ्जनाकारमुत्पद्यते । तथा चावेरिदमाविकम् । ऊर्णादि यत्पाण्डुरम् । तथान्यद्वासनारूपं लिङ्गस्य जायते । तथा चेन्द्रगोपः वर्षाकालीनकीटविशेषः कौसुम्भवदत्यन्तरक्तो भवत्येवमेवास्य वासणारूपम् । यथाचाग्न्यर्चिर्भास्वरं भवति, तथा कचित्कस्यचिद्वासनारूपम् । यथाच पुण्डरीकं शुभ्राम्भोजं तद्वदपि कचित्कस्यचिद्वासनारूपं भवति । यथाच सकृद्विद्युतं विद्योतनं सर्वतः प्रकाशकं भवति । यथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्धिरण्यगर्भादेर्वासनारूपमुपजायते । सत्त्वा- दितारतम्यादित्यर्थः । चरमोक्तहिरण्यगर्भवासनारूपोपासनफलमाह सकृदिति । एवं यथोक्तमत्यन्तं हिरण्यगर्भवासनारूपं यो वेद अस्योपासकस्य सकृद्विद्युतेव विद्योतनमिव श्रीः शोभा ख्यातिर्भवति । ह वै भवत्येवेत्यर्थः । तदेतदुक्तं लिङ्गात्मेत्यारभ्य दर्शितमित्यन्तेन । 'अथात आदेशो नेति नेती'त्यस्या र्थमाह तदेतदिति । सन्निहितं मूर्तामूर्तं आध्यात्मिकमाधिदैविकं च तेषामवलम्बनं ग्राह्यं प्रतिपाद्यं यस्येतिकरणस्य तेन । प्रतिषेधकेति । प्रतिषेधकं नञ् प्रतिषेधकनञ् तं प्रति प्रतियोगितासम्बन्धेनो- पनीयते प्राप्यते । 'द्वे वा व ब्रह्मणो रूपे' इत्यत्राह ब्रह्म त्विति । ब्रह्मसम्बन्धिनी रूपे इति रूपविशे- षणत्वेन । ग्रन्थे श्रुतौ । रूपवत इति । ब्रह्मणः । स्वयमेवेति, नतु 'तदेषाभ्युक्ते'तिवदन्यमुखेन । एवमग्रेपि । प्रक्षालनेति । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मितिन्यायेन । एवेति । कथन- योग्यव्यवच्छेदकः । परीति । परिगणितानां वस्तूनां मूर्तामूर्ताधिदैवताध्यात्मिकानां निषेधे । एतदिति । वासनामूतम् । अविषयः स्वयंप्रकाशः । 'प्रकृतैतावत्त्वं हि प्रतिषेधती'ति व्याकृत्य 'ततो ब्रवीति च १. मूले रश्मौ च प्रतिषेधकनमिति पाठः, मुद्रितपुस्तके प्रतिषेधकमनमिति ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १६५ भाष्यप्रकाशः । ब्रह्मणेति जिज्ञासा निवर्तते । तस्मात् ब्रह्मणि कल्पितं प्रपञ्चं प्रतिषेधति, ब्रह्म तु परिशिनष्टीति निर्णयः । किञ्च । ततः प्रतिषेधात् 'भूयो ब्रवीति' 'अन्यत् परम्स्ती'ति । अभावावसाने हि निषेधे किमन्यत् परम्स्तीति ब्रूयात् । अतोपि ब्रह्मैव परिशिनष्टीति निर्णयः । तत्रैषा श्रुत्यक्षरयोजना । नेति नेतीति ब्रह्मादिश्य तमेवादेशं पुनर्निर्वक्ति । नेति नेतीत्यस्य कोर्थः । न ह्येतस्माद्ब्रह्मणो व्यति- रिक्तम्स्तीत्यतो नेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्शयति 'अन्यत् परम्स्ती'ति । यदा पुनः श्रुत्यक्षराप्येवं योज्यन्ते, न ह्येतस्मादिति नेति । न हि प्रपञ्चनिषेधरूपादादेशनादन्यत् परं ब्रह्मण आदेशनं नास्तीति, तदा 'ततो ब्रवीति च भूय' इत्येतन्नामधेयविषयं योजनीयम् । 'अथ नामधेयं सत्यस्य सत्य'मिति, 'प्राणा वै सत्यं तेषामेष सत्य'मिति हि ब्रवीतीति । तच्च ब्रह्मा- वसाने निषेध उपपद्यते । अभावावसाने तु किं 'सत्यस्य सत्य'मित्युच्येत । तस्माद्ब्रह्मावसानोऽयं निषेध इति सूत्रं व्याचक्षुः । तत् ब्रह्मास्ति चेत्, कुतो न गृह्यते इति शङ्कायां तदन्यक्तसूत्रम्, तस्य च, 'न चक्षुषा गृह्यते,' 'स एष नेति नेत्यात्मा,' 'अगृह्यः', 'यदा ह्येवैष एतस्मिन्नदृश्ये,' 'यत्तद- दृश्यमग्राह्यम्,' 'अव्यक्तोऽयमचिन्त्योऽय'मिति विषयवाक्यानि धृत्वा, सर्वसाक्षित्वादनिन्द्रियग्रा- ह्यमिति व्याख्याय, 'अपि संराधन'सूत्रे भक्तिध्यानप्रणिधानाद्यनुष्ठानरूपसंराधनेन 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत्,' 'ज्ञानप्रसादेन विशुद्धसत्त्व' इत्यादिश्रुत्यनुरोधेन अव्यक्तस्यापि ब्रह्मणो दर्शन- मङ्गीकृत्य, ननु संराध्यसंराधकभावाभ्युपगमात् परेतरात्मनोरन्यत्वं स्यादिति शङ्कायां तन्निषेधाय 'प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासा'दिति सूत्रमवतार्य, यथा प्रकाशाकाशसूर्यादयोऽङ्गु- लिकरकोदकादिषु कर्मण्यपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति, एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्त्वैकात्म्यमेव । तथाहि वेदान्तेष्वभ्यासेनासकृ- ज्जीवप्राज्ञयोरभेदः प्रतिपाद्यत इति व्याख्याय, 'अतोऽनन्तेन तथाहि लिङ्ग'मिति सूत्रं च अमे- दस्य स्वाभाविकत्वात् भेदस्य चाविद्याकृतत्वाद्विद्यया अविद्यां विधूय जीवः परेणानन्तेन प्राज्ञे- नैक्यं गच्छति । तथाहि लिङ्गम् । 'स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति, ब्रह्मैव सन् ब्रह्मा- प्येती'त्यादीनि व्याख्याय, स्वमतशुद्धये तस्मिन्नेव संराध्यसंराधकभावे मतान्तरोपन्यासायाहिकुण्ड- लादिसूत्रद्वयमित्येवं तदवतार्य, 'ततस्तु तं पश्यते निष्कलं ध्यायमानः,' 'परात् परं पुरुषमुपैति रश्मिः । भूय' इति व्याकरोति स्म किञ्चेति । 'अन्यत्परमस्ती'ति श्रुतिस्तत्रत्या । अभावावसाने वासनावसाने- ऽप्यभावो वासनायामवसानं यस्य निषेधस्य तस्मिन्सति । ब्रूयादिति । किमः प्रश्ने प्रयोगात्प्रश्नं ब्रूयात् । अतोपीति । वीप्सया प्रतिषेधात् । तमेवेति । एतन्निर्वचनस्याग्रे दर्शनादेवकारः । श्रुतिस्तु 'नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्तीति प्राणा वै सत्यं तेषामेष सत्य'मिति । 'नह्येतस्मादिति' 'नेत्यन्यत्परमस्ती'ति द्वितीयपाठः । दर्शयतीति । श्रुतिः । नामधेयविषयं यथा तथाहुः अथेत्यादि । तत इत्यस्यार्थः आनन्तर्येऽथशब्दः । तदनन्तरम् । हीति चकारार्थः । ब्रवीति भूयो ब्रवीति । तच्चेति । सत्यत्वम् । वीप्सापक्षे ब्रह्मावसानं तस्मिन् । ब्रह्मण्यवसानं यस्य निषेधस्य तस्मिन्सत्युपपद्यते । सर्वेति । सर्वेषां साक्षित्वात् । इत्यादीति । 'ततस्तु तं पश्यते निष्कलं ध्यायमान' इति । परेति । परं च इतरात्मा चेति तयोः । प्रकाशेति । आदिना चन्द्रः । अङ्गुलीति । आदिना आदर्शः । यथासंख्यमधिकरणानि । कर्मस्विति । कर्मणीति सौत्रपदार्थः । अस्य विवरणमुपाधिष्विति रूढ्या । सविशेषा इति । विशेषा अङ्गुल्यादयः तैः सह समाना वा सविशेषाः । एवेति । 'मृत्योः स मृत्युमा- प्नोती'ति श्रुतेरेवेति । ऐकात्म्यमेवेति । 'यत्र त्वस्य सर्वमात्मैवाभू'दिति श्रुतेरेवकारः । अभ्यासा- [1701]

१६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। दिभ्यम्', 'यः सर्वाणि भूतान्यन्तरो यमयती'त्यादौ ज्ञातृध्येयत्वद्रष्टृद्रष्टव्यत्वाभ्यां गन्तृगन्तव्य- त्वेन नियन्तृनियन्तव्यत्वेन च भेदो व्यपदिश्यते । 'तत्त्वमसि' 'अहं ब्रह्मास्मि', 'एष त आत्मा सर्वा- न्तर एष त आत्मान्तर्याम्यमृत' इत्यभेदश्च । एवमुभयव्यपदेशे सति यद्यभेद एकान्त एव गृह्येत, तदा भेदव्यपदेशो निरालम्बन एव स्यात् । अतो यथा अहिरित्यभेदः, कुण्डलाभोगप्रांशुत्वादी- नेति भेदः, एवमिहापि उभयव्यपदेशदर्शनादङ्गीकर्तव्यः । अथवा । यथा सौर्यः प्रकाशस्तदाश्रयश्च सूर्यो नात्यन्तभिन्नौ, उभयोस्तेजस्त्वाविशेषात्, अथ च भेदव्यपदेशभाजौ भवतः, एवमिहापीतिव्या- ख्याय, ततः, पूर्ववद्वेत्यादिसूत्रद्वयं सिद्धान्तीत्यत्वेनाभिप्रेत्य, यथा वा, 'प्रकाशादिवच्चावैशेष्य'मिति सूत्रे पूर्वमुपन्यस्तं तथैवैतद्भवितुमर्हति । तथा सत्यविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्माऽहिकुण्डलन्यायेन परमात्मनः संस्थानभूतः प्रकाशाश्रय- न्यायेन वा एकदेशभूतोऽङ्गीक्रियते, तदा बन्धस्य पारमार्थिकत्वेन तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्र- वैय्यर्थ्य स्यात् । श्रुतिश्च भेदाभेदौ न तुल्यवद्व्यपदिशति, किन्तुवभेदं प्रतिपाद्यत्वेन निर्दिशति । भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया । किञ्च । 'नान्योऽतोऽस्ति द्रष्टे'त्यादिना चेतना- न्तरं निषेधति, 'अथात आदेशो ने'ति, 'तदेतद्ब्रह्मापूर्वमनपर'मित्यादिना च प्रपञ्चम् । अतोऽ- न्यनिराकरणाद्ब्रह्ममात्रपरिशेषणाच्च 'प्रकाशादिवच्चावैशेष्य'मितिसूत्रोक्त एव सिद्धान्त इत्याहुः । तदसङ्गतम् । तद्रीतिके प्रथमसूत्रव्याख्याने मूर्तामूर्तप्रतिषेधस्य 'प्रकृतं प्रतिषेधती'त्येताव- तैव सिद्धेरेतावत्त्वमित्यस्य, एतावत्त्वपदादरे च प्रकृतपदस्य वैय्यर्थ्यप्रसक्तेर्दुर्নিবারत्वात् । एताव- त्वमिति त्वप्रत्ययस्य भावेऽनुशिष्टत्वेन एतावता परिच्छिन्नस्य मूर्तामूर्तलक्षणरूपद्वयस्य तेन पदे- नालाभात् । त्वस षष्ठ्यन्तादनुशिष्टत्वेन तृतीयान्तादभवनेनापि तथात्वाच्च । अथ तन्न विग्रहवा- क्यम्, किन्त्वर्थमात्रकथनमित्युच्यते, तदापि रूपद्वयात्मकस्य सर्वस्य प्रपञ्चस्य परिच्छिन्नान्तर्निवे- रश्मिः। दिति सौत्रं पदं व्याकरोति स्म तथाहीति । अविद्यां विधूयेत्यावरणभङ्गः । तद्वतार्येति । सूत्रद्वय- मवतार्य । एवेति । आलम्बनयोग्यव्यवच्छेदकः । अतो यथेति । रङ्गुरहिरित्यभेदः । अहेः कुण्डलमा- भोगो रङ्गुः । प्रगतः अंशुः प्रांशुः तत्त्वम् । उभयेति । भेदाभेदव्यपदेशदर्शनात् । प्रकाशाश्रयसूत्रव्या- ख्यानमाहुः अथवेति । भेदरूप्येति । सूर्यस्य प्रकाश इति प्रयोगादिति भावः । अभिप्रेत्येति । इत्याहुरित्यनेनान्वेति । कथं सिद्धान्तत्वेनाभिप्रेतत्वमित्यतः पूर्वसूत्रीयभाष्यं प्रक्षिपन्ति स्म यथा वेति । इतीति । इति पूर्वं तस्मिन्सूत्र उपन्यस्तमितियोजना । एतदिति ब्रह्म । बन्धस्य भेदस्य । मोक्षोऽभेद उपपद्यते । संस्थानेति । ज्ञातृध्येयादिभावात्तथा । एकदेशेति । भेदव्यपदेशभाक्त्वपक्षे ब्रह्मण एकदेशभूतः । भेदं त्विति । ध्यातृध्येयभावाद्भेदं तु पूर्वं अविद्यावस्थायां प्रसिद्धम् । एवेति । सार्वत्रिकत्वादेवेति । अन्विति । सिद्धस्य कथनमनुवादः । अर्थोऽभेदः अन्योऽर्थः भेदः अर्थान्तरं तस्य विवक्षया । प्रतिषेधसूत्रार्थमाहुः किञ्चेति । एवेति । अपिसंराधनसूत्रोक्तस्य सिद्धान्तत्वयोग्यव्यव- च्छेदकैवकारः । ननु प्रकृतं मूर्तामूर्तं एतावत्त्वं यत्पदं इत्येवमेतावत्त्वपदादरे तस्य तद्वाच्यत्वे लक्षणायाः क्वचित् सिद्धत्वेनादोषादूषणान्तरमाहुः प्रकृतपदस्येति । मूर्तामूर्तेति । भावप्रत्ययरहितस्य । तेनेति । भावप्रत्ययसहितेन । तृतीयान्तादिति । एतावता मूर्तामूर्तेन भावः प्रकृतजन्यबोधे प्रकारः एतावत्त्वम् । प्रकृतेन मूर्तामूर्तेन विशेषणेन जन्यो नेति नेतीत्युक्तब्रह्मविशेष्यकबोधः तत्र प्रकारः । तथात्वादिति । तेन पदेनालाभात् । अथेति । भिन्नप्रक्रमे । तत् एतावत्ताभावः । तदित्यव्ययात् । एतावतोर्भाव 1702

श्शादेतावतेत्यत्राभिप्रेतस्य परिच्छेदकस्यालाभेनासङ्गतिः । नच लौकिकप्रमाणमेव तथेति वाच्यम् । जन्मादिसूत्रव्याख्याने 'मनसाप्यचिन्त्यरचनारूपस्ये'ति श्लोकस्य प्रपञ्चविशेषणस्य विरोधेन तथा वक्तुमशक्यत्वाच्च । किञ्च, अत्र मूर्तामूर्तं रूपद्वयं यत्प्रकृतत्वेन विवक्षितं तत्प्राधान्यमालम्ब्य । तत् तस्य किं स्वेन रूपेण ब्राह्मरूपत्वेन वा । नाद्यः । ब्रह्मणो रूपे इति विशेषणवैयर्थ्यप्रसङ्गात् । द्वितीये तु ब्रह्मण एव प्राधान्यम् । ब्रह्मपरिचायनार्थमेव रूपद्वयस्य कथनात् । ब्रह्मण एवात्रोपदे- श्यत्वाच्च । नच सम्बन्धषष्ठ्यन्तपदेन बोधनाद्ब्रह्मणोऽप्राधान्यमिति युक्तम् । 'राहोः शिर' इति- वदभेदेपि षष्ठीभवनेन सम्बन्धषष्ठ्या प्राधान्याबाधात् । 'आनन्दं ब्रह्मणो विद्वा'नित्यत्र स्वयम- प्यभेदे षष्ठ्याः स्वीकृतत्वात् । कार्ये कारणानन्यत्वस्य भगवता सूत्रकारेणोक्ततया 'द्वे वा व ब्रह्मणो रूपे' इत्यत्र ब्रह्माभिन्ने रूपे इत्यर्थस्य वक्तुमुचितत्वाच्च । अतो ब्रह्मणः प्राधान्यस्याविधा- तात् 'ब्रह्म ते ब्रवाणि'ति वाक्योपन्यासेन स्वयमेवोपक्रान्तत्वाङ्गीकारादग्रे उपदेश्यत्वाच्च ब्रह्मणः प्रकृतत्वसिद्धौ तस्मिन्नेतावत्त्वं परिच्छिन्नत्वं प्रतिषेधतीत्येव व्याख्यातव्यम् । एतावच्छब्दस्य परि- च्छिन्नवाचकतायाः प्रसिद्धत्वात् । तथाच मूर्तामूर्तमात्रत्वं ब्रह्मणि नास्तीत्यर्थः सिध्यति, न तु प्रकृतं यदेतावता परिच्छिन्नमिति सिध्यति । एवञ्च, 'नेति नेती'ति श्रुतिव्याख्याने नञ्द्वयेन यथा- संख्यं मूर्तामूर्तनिषेधे वासनाशेषात् तद्विहाय भूतराशीवासनाराश्योर्निषेधाङ्गीकारे परिगणितनि- षेधेन, यदि नेदं ब्रह्म, किमन्यद्ब्रह्मेति शङ्कापत्तेस्तदपि विहाय वीप्सया यावत्प्रपञ्चजातनिषेधो यदङ्गीकृतः, सोपि तथा । भूतराशिनिषेधे कैमुतिकादेव वासनाराशिनिषेधसम्भवेन तदर्थं निषे- धापेक्षाभावात् । त्यक्ते यथासंख्ये वासनानिषेधावतारकप्रमाणाभावात्, वासनाया अनुक्तत्वेन तन्निषेधस्याप्ययुक्तत्वाच्च । अत एव न यावनिषेधोपि युक्तः । यदपि 'न ह्येतस्मा'दिति 'नेत्यन्यत् परमस्ती'त्यस्य योजनाद्वयम् । तत्र प्रथमयोजनायां निषेध- वीप्सया ब्रह्मव्यतिरिक्ताभाव उच्यते, न पुनर्ब्रह्माभावः, तदेव दर्शयति'अन्यत्परमस्ती'ति व्याख्यातम् । एतावत्त्वमिति षष्ठ्यन्तविगृहीतसार्थमात्रकथनम् । अभीति । अभेदसंसर्गेणाभिप्रेतस्य मूर्तामूर्तरूपस्य परिच्छेदकस्यालाभेन एकस्य परिच्छेदकपरिच्छिन्नभावायोगात् परिच्छिन्नपरिच्छेदकभावासंगतिरित्यर्थः । लौकिकेति । यादृशपरिच्छेदकेन मूर्तामूर्तेन यादृशं मूर्तामूर्तं परिच्छिन्नमिति लौकिकप्रमाणं चक्षुरादि तदैव नतु अलौकिकं प्रमाणं तथा संगतिप्रयोजकम् । भाष्ये प्रकृते ब्रह्मणि यदेतावत्त्वं लौकिकधर्मवत्त्वं तत्समर्थयितुमाहुः किञ्च, अत्रेति । प्राधान्येति । मूर्तामूर्तयोः प्राधान्यमालम्ब्य तत्तस्य प्राधान्यं तस्य मूर्तामूर्तस्य । स्वेन मूर्तामूर्तरूपेण । ब्राह्म(ण) इति । मूर्तामूर्तं ब्राह्मणामिति ब्रह्मसम्बन्धिविशेषणरूपत्वेन । विशेषणस्य ब्रह्मणो वैयर्थ्यप्रसङ्गात् । ब्रह्मण एवेति । नतु मूर्तामूर्तयोरिति मूर्तामूर्तान्ययोगव्यवच्छेदक एवेति । एवेति । प्रसिद्धेरेवकारः । ब्रह्मण एवेति । 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रमात् । 'तेषामेष सत्य'मित्युपसंहाराच्चैवकारः । स्वयमिति । श्रुत्या । तदनन्यत्वसूत्रकारेण । ब्रह्म ते ब्रवाणीत्यादि । तथाच तद्भाष्यं प्रकृतसूत्रस्य । 'ब्रह्म ते ब्रवाणि'त्याद्युपक्रमविरोधात् । 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दित्यादिनिन्दाविरोधादिति । अग्रे इति । उपसंहारे 'तेषामेष सत्य'मित्यनया । प्रतीति । प्रतिषेधत्येवेति व्याख्येयम् । अयोगव्यवच्छेदक एवकारः । एतावतेति । परिच्छिन्नत्वेन धर्मेण परिच्छिन्नं ब्रह्मेत्यर्थः । त्यक्त इति । वासनानिषेधापेक्षाभावात्त्यक्ते द्वितीयपक्षोक्ते यथासंख्ये । यद्वा । पूर्वप्रतिषेधो भूतराशि निषेधस्तूत्तरस्तु वासनाराशिमिति । अत एवेति । भूतराशिनिषेधेन कैमुति-