अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
६२ परिशिष्टम् । हृत्पद्मत्वेन ज्ञाने न भ्रमः । हे तद्रूप हृत्पद्मरूप स्थैर्यं हृत्पद्मत्वेन रूपेणावह प्रापय सिंहासने । पाठान्तरे हृत्पद्मत्वेन रूपेणेति तथेत्यस्यार्थः । योग्यतां सर्वात्मभाववद्भक्तहृदयं श्रीगोपीशोपवेशयोग्यं पाठे तु सिद्धान्तरहस्ये 'तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । गङ्गात्वं सर्वदोषाणां गुणदोषादि- वर्णना । गङ्गात्वेन निरूप्या स्यात् तद्वदत्रापि चैव ही'ति ब्रह्मतया योग्यता । यद्वा फलप्रकरणे 'स्थानन्दानुभवार्थं हि योग्यतापि निरूपिते'त्यस्याष्टिप्पण्युक्तदिशा भूर्भुवःसुवो जगतद्रूपलक्ष्मीरूपतां भज । लक्ष्मीतुल्यतायां हि भगवद्रमणमिति हि मर्योदेति । ततः पात्राणि सजीकुर्यादिति एतावानेव ग्रन्थः स्पष्टः । श्लोकान्तरं श्रीमत्प्रभुविरचितसेवाविधेर्ग्रन्थकर्तुः । पानीयेति । पानीयपात्रं हि तथा व्रजनाथाय कल्पितम् । राधाधरात्मकत्वेन भूयात्तद्रूपमेव तत् ॥ ५ ॥ अर्थः । प्रकृतौ परिचर्यापदं तत्र चान्यत्र वाराहे चातुर्मासमाहात्म्ये 'सुगन्धिशीतलं वारि ततो मह्यं निवेदयेदि'ति 'लोकवत्तु लीलाकैवल्यं' इति सूत्रे लोकवलीलायामपि । गुहां प्रविष्टावात्मानौ हि तद्दर्शनादित्यत्र ऋतं पिबन्ताविति श्रुत्या वारिपानस्यर्तस्य वारित्वेन सिद्धा 'सत्यं विज्ञानमानन्दं ब्रह्म' इत्यनया श्रीमद्यमुनाजिदुक्त्या च स्वरूपामृतपानं प्रथमं निर्दिष्टम् । सुवर्णमयपात्रे राधाधरात्मकत्वं 'सर्वं सर्वमय'मिति श्रुत्या तदीयभोगोपि राधाधरात्मकत्व एव 'ऋतं पिबन्तौ' इति श्रुतेः । ऋतं परम्ब्रह्मा- नन्दम् । तद्रूपमेव तद्रूप्यादित्याशीर्ब्राह्मणस्य ग्रन्थकर्तुः । तथा च भाष्यं 'ऋतं सत्यं परं ब्रह्मे'ति । श्रीमत्प्रभुविरचितसेवाविधिश्लोकः स्वामिनीति । स्वामिनीकररूपाणि भावस्वर्णमयानि वै । श्रीकृष्णभोज्यपात्राणि सन्तु ते मत्कृतानि हि ॥ ६ ॥ अनुभावुकानामपि श्लोको विव्रीयते । श्रिया सह कृष्णः सदानन्दः तस्य भोज्य- पात्राणि यानि मत्कृतानि मया ते तुभ्यं सजीकृतानि धात्वादिमयानि भावो भावना तेन स्वर्णमयानि स्मरणभक्त्या सर्वमयत्वेपि स्वर्णप्रचुराणि निबन्धे 'अथवा सर्वरूपत्वात्' इत्यत्र वै पात्रस्य प्रामाण्योक्तेः । अत आहुर्वै इति । तानि पुनः स्वामिनीकररूपाणि । सन्त्विति सत्कारपूर्वको व्यापारः । अधीष्टे लोट् आशीर्वा । अयमर्थष्टिप्पण्यां फलप्रकरणे लक्ष्मीतुल्यतायां हि भगवद्रमणमिति मर्यादा सा च ब्रह्मानन्दरूपेति । तथा च सिद्धान्तरहस्ये ब्रह्मतोक्त्या तद्रूपत्वमुक्तं जातमित्युक्तमर्यादापि सम्पन्ना । तन्नाप्यधिकं तत्रानुप्रविष्टं न तु तद्धानिरिति न्यायेनाधिकप्रवेशः । द्वादशस्कन्धेषु कराणां पात्रत्वेन तदुक्तिः पिबत्यस्मादात्मेति पात्रं तानि पात्राणि ष्ट्रन् प्रत्ययः । 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' इति श्रुतेर्दर्शनात् । हीति निश्चयार्थकमव्ययम् । ततः शय्यातो विज्ञाप्योत्थापयेदिति तत इति पदं क्रमवाचकं पूर्ववत् । शय्यात इति पदेन मुक्तिसाधनीभूतवक्ष्यमाणवन्दनभक्तावपि दास्यभक्तिवच्छयनमाक्षिप्यते 'लोकवत्तु लीलाकैवल्य'मिति न्यायात् । विज्ञापना भावनोक्ता लोडर्थः । तत्र श्रुतिः । 'वने वृन्दावने क्रीडन् गोपगोपीसुरैः सहै'ति कृष्णोपनिषदि सा यशोदोत्थापनभावनायां गोप्युत्थापनभावनायां च प्रबोधोपि । गोप- गोभिरित्यत्र गोपाश्च गोप्यश्च गोपाः 'पुमान् स्त्रिये'त्येकशेषः । उत्थापयेदिति विधिः । वन्दनभक्तौ कीर्तनभक्तिमाहुः उदेति । उदेति सविता नाथ प्रियया सह जागृहि । अङ्गीकुरुष्व मत्सेवां स्वकीयत्वेन मां वृणु ॥ ७॥ 2420
व्रजभक्तभावः शृङ्गारात्मा भक्तिर्वा । 'रतिर्देवादिविषया व्यभिचारी तथाञ्जितः, भावः प्रोक्त' Check: "व्रजभक्तभावः शृङ्गारात्मा भक्तिर्वा । 'रतिर्देवादिविषया व्यभिचारी तथाञ्जितः, भावः प्रोक्त'" Wait, look at 'तथाञ्जितः': Letters: 'त' 'था' 'ञ्जि' 'तः' -> "तथाञ्जितः" (from Kavyaprakasha: रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तस्तद्भावाद्...). And then: "भावः प्रोक्त'"
Let's read line 22: इति काव्यप्रकाशात् । तदात्मकतयेत्यर्थः । भक्तिशृङ्गारयोरन्तःपातिवस्तूनां भक्तित्वं शृङ्गारत्वं वा । Check: "इति काव्यप्रकाशात् । तदात्मकतयेत्यर्थः । भक्तिशृङ्गारयोरन्तःपातिवस्तूनां भक्तित्वं शृङ्गारत्वं वा ।" -> Exactly!
Let's read line 23: कृपयेति पूर्ववत् । ततो नमस्कुर्यादिति स्पष्टम् । Check: "कृपयेति पूर्ववत् ।
": स - प - त - व - ि - ं - श - े -> "सप्तविंशे"! Look at 'विं': व with i-matra and anusvara. Look at 'शे': श with e-matra. Now look back at line 24: Between "नान्" and "शय्या": There is a letter with i-matra: 'नि'. Then a letter with a dot above: wait, does it have an i-matra or anusvara? Wait! It has an i-matra! Look at the curve: there is a curve over 'नि', and a curve over the next letter! Wait, is it "निशि"? Let's look at the top: There is an i-matra over 'न' (left curve): wait, no, i-matra curves to the left! Wait, if it's 'निशि', both i-matras curve to the left: ि + न, ि + श. Look at line 24: there is a left curve before 'न', and a left curve before the next letter! Wait, the dot above: is it a dot or a flyspeck? Look at the letter itself: it's 'श'! It has the rounded head of 'श'! Wait, so it is ि + न् + न + ि + श ? No: तत्रोत्थापनान् (tatrotthāpanān) निश
परिशिष्टम् । ६५ ब्रजस्त्रीकरयुग्मात्मयन्त्रे पात्रं च तन्मयम् । स्थापितं ते भोजनार्थं योग्यभोज्याङ्गसम्भृतम् ॥ १३॥ ब्रजस्त्रीणां करयुग्मं तदात्मकं यन्त्रे, उपासनया शुद्धे चित्ते भवेति पक्षेक्ति रामतापनीये सर्वात्मकयन्त्रस्य विभूतिविषयत्वं भक्तिहंसोक्तदिशाऽतो गोपालतापनीयोक्तं यन्त्रं जानीयाद् ध्यान- विषयीभूतं न तु रामतापनीयोक्तं लेख्यम् । ननु दास्यभक्तौ प्रेमलक्षणाभक्तिकारणत्वात् किमनेन यन्त्रेण पाक्षिकेन सच्चिदानन्दैकरसे भक्तियोगस्तिष्ठतीति तत्रैव श्रुतेरिति चेन्न । यन्त्रमिव यन्त्रमित्युप- चारात् । एतस्योपयोगः पूर्वं 'क्रीडात्मसाधनयुतम्' इत्यत्र निरूपितः । क्रीडात्मसाधनानि यन्त्रे श्रुत्युक्तानि । तास्तु 'ते होचुरूपानमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्यमष्टप
गोपवधूपतेः प्राणप्रिये हे राधे यशोदाजिदुक्तिः । तत्र गोपवधूपतेरित्युक्तिः स्नेहेन मुक्तित्वाद्वा । 'यशोदा मुक्तिगेहिनी'ति कृष्णोपनिषच्छ्रुतेः धरातवाद्वा 'यशोदा सा धरामवत्', इति भागवताद् धराया विरुद्धधर्माश्रयत्वम् । किञ्च ग्रन्थकर्ता श्लोकानुपनिबबन्ध । श्लोकास्तु विज्ञस्यादि- ष्ट्येतद्वन्यानां तत्कर्तुस्तूचितमेव । गोपवधूपतेरिति पदं तदीयत्वाद् 'अहं तदीय इत्येषा तद्वार्ता रूपिता परम्' इति त्रिभङ्गललितस्तोत्रन्यायात् । तत्र हेतुमाहुः त्वदित्यादि । तव मुखस्यामोदः सुरभिर्विशेषः तेन सुरभीत्यर्थः । अधिकमिति । भक्तमात्रनिवेदितमश्नाति यद्यपि तथापि नाहं भक्षितवानिति वाक्यादानन्दभुगपि ब्रह्मानन्दामोदेन सुरभि त्वधिकं भुङ्क्ते 'ऋतं पिबन्ता'विति श्रुतेः । तदेवाहुः राधेति । राधाधरसुधापातुः किमन्यन्मधुरायितम् । यन्निषेव्यं तदप्येतन्नामसम्बन्धतो भवेत् ॥ १६ ॥ अन्यन्मधुरवदाचरितं किम्, न किमपीति काकुः । ध्वनेर्विकारः काकुः । एतस्या नाम- सम्बन्धतो मधुरायितं भवेत् । यथा 'व्रजस्त्रीकरयुग्मालम्यत्रे पात्रं च तन्मय'मिति व्रजस्त्रीनाम- सम्बन्धः । अयं भावः । सर्वेषां ब्रह्मत्वेऽपि पुनः 'सर्वेषां ब्रह्मता तत' इति सिद्धान्तरहस्ये ब्रह्मताविधान- मीदृगिति । 'ऋतं पिबन्ता'विति श्रुतेः । एवं विज्ञाप्यात्राङ्गीकारेपीष्टमाहुः प्रियेति । प्रियामुखाम्बुजामोदसुरभ्यन्नमतिप्रियम् । अङ्गीकुरुष्व गोपीश तदीयत्वान्निवेदनम् ॥ १७ ॥ ननु प्रियेत्यादिविशेषणेन पूर्वोक्तब्रह्मतानुवादस्तेनैव योग्यतया भुङ्क्तेत्युपपन्नेऽङ्गीकुरुष्वे- त्यङ्गीकारस्य किं प्रयोजनमिति चेन्न । एतादृशब्रह्मत्वेऽपि वरणरूपाङ्गीकारस्यावश्यकत्वात् । तदुक्तं 'विद्यैव तु निर्धारणात्' इति सूत्रभाष्ये 'नायमात्मेति श्रुतिरितरसाधननिषेधपूर्वकं वरणस्य साधनत्वमुक्त्वे'त्यादि । अङ्गीकुरुष्वेत्यात्मनेपदेनाङ्गीकारफलं भक्तमनोरथपूर्तिरात्मगामिनी । तदीयत्वादिति स्वस्य योग्यता । निवेदनमिति अर्शआद्यच् निवेदितमित्यर्थः । 'सर्वतोऽक्षिशिरोमुख'मित्युक्ते कस्मिंश्चिज् आस्य इत्याकाङ्क्षायां नवलास्ये भक्तिमार्गमर्यादया- ङ्गीकृतं भोज्यमन्नं भुङ्क्तेत्याहुः निजेति । निजास्यनवलास्येऽस्मिंश्चारुभोज्यं मदर्पितम् । भुङ्क्ष्व श्रीगोकुलाधीश स्वाधिव्याधी निवारय ॥ १८ ॥ सर्वत आस्येषु निजे आस्ये तत्रापि नवं भक्तेच्छयाधुना प्रकटं लास्यं यत्र तदपि प्रत्यक्षं साक्षात्कृतं तस्मिन् भुङ्क्ष्व, न तु घर, 'तत्तदत्तुमनुप्रियते'ति बृहदारण्यके सर्वाश्रयस्योक्तेः । अयं तु भक्तिमार्गाश्रयः । भक्तस्त्वाध्यात्मिकादित्रितयविदाश्रयः । अत ऊचुः स्वाधीति । पूर्वोक्तभक्तेच्छया स्वस्यात्मनो निवर्तनीयत्वेन भक्तेच्छाकालिकौ आधिर्मनःपीडा व्याधिः शरीरस्य तौ निवारय । ननु मूर्ध्नि तावच्छक्यवचनावित्यत आहुः गवीति । गोकुलस्य पुष्टिमक्तौ स्वीकृतसाधीशः पुष्टि- रक्षकस्तस्य सम्बोधनम् । पुष्टौ क्षुत्पिपासादि ज्ञापयतीति । स्वीयानां आधिव्याधी इति वा । 'उत्कर्षश्चापि वैराग्ये हरेरपि हरिर्यदी'ति सुबोधिनीकारिकाया वैराग्योत्कर्षवतां भक्तानां आधिव्याधी भवतः । लौकिकापाधिव्याधी वा । १. अर्शआद्यादिराकृतिगण इत्याधुनिकाः । 2424
दाससेवायां मानसीसेवा फलं तस्यै समाधये ध्यानवद्भावनास्ता आहुः यशोदेति । यशोदारोहिणीभावाद्बलेन सह बालकैः । भुक्तं यथा बाल्यभावप्राकट्याद्भुङ्क्ष्व मे तथा ॥ १९ ॥ अत्र तृतीयाध्यायस्य 'सर्वथापि त एवोभयलिङ्गादि'ति सूत्रे 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' इति बृहदारण्यकश्रुत्या भावनात्रयम् । तासु प्रथमं लीलाभावना यशोदारोहिणी- भावादिति । लीलाभावना नाम लीलास्थभक्तानामात्मनिष्ठक्रीडाभावना सप्रतियोगिकक्रीडाभावनेति यावत्, लीलास्था भक्ताः परिगणिताः क्वचिद्भावनायाम्, उभये स्वामिन्यौ, तुर्यप्रिया, श्रीगोवर्धनः, व्रजः श्रीमदाचार्याः श्रीगोस्वामिनः ससबालका इति । अत्र श्रीगोपीनाथजितः श्रीमल्लक्ष्मणजितः अन्येऽपि नित्यलीलाप्रविष्टा उपलक्षणविधया ग्राह्याः । यशोदारोहिणीभावाद्बाल्यभावप्राकट्याद् बाल्य- भावेऽष्टस्वरूपाणां भावना कर्तव्या यथा
६८ परिशिष्टम् । 'स्ववंशे स्थापिताशेषस्वमाहात्म्य' इति सर्वोत्तमे श्रीमदाचार्यनामः सर्वेषां तद्वंशजानां वैराग्यसंभवात् । कृपयेति श्रीमद्गवतः साधनत्वायैतत्पूर्वमुक्तम् । अत्र 'कृष्णस्तु भगवान् स्वयम्' इति यशोदानन्दादि- भाववता देवासुरेति वाक्यार्थमनुसन्दधता श्रीकृष्ण एव संबोधितः बलस्तु गोपीवल्लभभोगापसरणा- नन्तरमाकार्यः । सेवार्थं नन्दादयश्च तत्रैवाकार्यन्ते स्म देवकीति । देवकीवसुदेवश्रीबलरोहिणीसंयुतः । श्रीमन्नन्दयशोदाभ्यां समं मयि कृपां कुरु ॥ २१ ॥ देवकी ब्रह्मविद्या ब्रह्मविद्योपनिषदुक्ता, सर्वात्मभावः पुरुषोत्तमविद्या, वसुदेवः शुद्धसत्त्वा- त्मकः, श्रीबलः शेषनागः, रोहिणी दया, श्रीमद्गोकुलम्, वनम्, वैकुण्ठम्, तत्र नन्दः परमा- नन्दः । श्रीमन्नन्द इति वा स एवार्थः । 'यशोदा मुक्तिगेहिनी' मुक्तिश्च गेहिनी मुक्तिर्भक्तिमार्गीयात्र गृह्यते मय्याश्रये आध्यात्मिकादित्रितयविदाश्रये भक्ते वा । यथायोग्यकाले कृपां कुरु । देवक्यादीनां स्वरूपाणि कृष्णोपनिषदि वर्तन्ते । निःकिञ्चनस्य 'यद्दिष्टतमं लोक' इति श्लोकोक्तमर्यादातिक्रमेऽपि चाधिकारस्याकिञ्चनाधि- क्रियोपेत्यत्रोपपादनादाहुः निःकिञ्चनेति । निःकिञ्चनस्य दीनस्य गुणहीनमपि प्रभो । शुद्धान्नं तत् स्वदत्त्वाद्भुङ्क्ष गोकुलनायक ॥ २२ ॥ विकृतेः प्रकृतौ 'मच्छरणो मुनि'रिति मुनिविशेषणाच्छरणं भक्तिमार्गे प्रोक्तमतः 'पृथक् शरण- मार्गोपदेद्दे'त्यस्य न विरोधः । किञ्च प्रकृतौ 'धर्मान्सन्त्यज्य यः सर्वान्मां भजेत् स च सत्तम' इत्यत्र 'न्यासादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्ता कार्पण्यं वाङ्गमुक्त'मिति श्लोकोक्तप्रकारोऽसूचि । परान्नगणान्नादिभिन्नमन्नं शुद्धान्नम् । वाराहे 'कान्यन्नानि निषिद्धानि तद्भक्ते शोधने च कि'मिति पृथ्वीप्रश्ने श्रीवराहः 'परान्नं नैव भुञ्जीत परपकं विशेषतः । तथा गणान्नं शूद्रान्नं स्वयं पकमपि त्यजे'दिति षोडशाध्याय उवाच । तत् सिद्धान्तरहस्योक्तरीत्या ब्रह्मात्मकं स्वदत्तं यतिभ्यो दत्तं स्वेन पूर्वमुपपादितं 'पुष्पं पत्रं फलं तोय' मिति श्लोकोक्तमर्यादया भुङ्क्ष । भोजनफले आहुः भुक्त्वेति । भुक्त्वा दत्त्वातिप्रियेभ्यो भक्तेभ्योऽतिप्रियं सदा । तदात्मशोधकोच्छिष्टं कृतकृत्यं च मां कुरु ॥ २३ ॥ भुक्त्वा वैराग्योत्कर्षं मयि फलं कुरु 'उत्कर्षश्चापि वैराग्ये हरेरपि हरिर्यदी'ति वाक्यात् । मानसीसेवां प्रति तनुजापूर्ति कुरु, तदतिप्रियं भुक्तमात्मशोधकोच्छिष्टं कुरु, पुरुषोत्तमयोगाध्या- योक्तपदार्थज्ञानात्कृतकृत्यं च मां कुरु । 'एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते'ति गीतातः । अतिप्रियमात्मशोधकं भक्तेभ्योऽतिप्रियेभ्यो दत्त्वा च कृतकृत्यं मां कुरु । 'आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां प्रविमोक्ष' इति श्रुतेः । क्वेत्याकाङ्क्षायां श्रीविष्णुस्वामिसंप्रदायानुरोधाद्यथा तद्गृहे आगत्य भुक्तं तथा भुक्त्वा कृतार्थं कुर्वित्याहुः श्रीति । श्रीकृष्णान्तरस्वरूप स्वकीयस्य गृहे मम । आगत्य भोजनं कृत्वा कृतार्थं कुरु मां प्रभो ॥ २४ ॥ 2426
परिशिष्टम् । ६९ हे श्रिया सहित कृष्ण सच्चिदानन्द हे आन्तरस्वरूप ‘आनन्दमय आनन्दभुगि’ति नृसिंह- तापनीयश्रुतेः । यद्यपीयं तृतीयचरणनिरूपणेऽस्ति तथापि तुरीयचरणे 'नित्यानन्दं सदैकरस’मिति- श्रुतेरानन्दभुक्त्वमस्त्येव संदेंकरसं मन्यन्त इत्यस्य रसत्वेनानेकरसत्वप्राप्त्या तन्निषेधार्थमेकरसावबोधोक्तेः मनु अवबोध इति धातुपाठात् । तर्ह्यानन्दमयः प्राज्ञ इत्यायाति । 'प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखश्चतुरात्मा प्राज्ञ ईश्वरस्तृतीयः पाद' इति श्रुतेः । मैवम् । 'नित्यानन्दं सदैकरस’मिति पूर्वोक्तश्रुतेः, अत एवानन्दमयाधिकरणे 'को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यादि’ति श्रुतिर्मीमांसिता, नतूक्ता श्रुतिर्मीमांसिता । अत एवाहुः स्वकीयस्येति । मदीयजीवविशिष्टो भोगान्भुङ्क्ते यतः । एतच्च विद्यैवेति सूत्रभाष्य उक्तम् । कृतार्थं हृदि भगवत्प्राकट्यवन्तं मां कुरु । एतादृशस्य हृदि भगवत्प्राकट्यं भवतीत्याहेति भाष्यात् तथा च कृतः अर्थो हृदि भगवत्प्राकट्यं येन स तथोक्तः । अत्र श्रुतिः 'ता वां वास्तूनि’ ‘वने वृन्दावनै क्रीडन् गोपगोपीसुरैः सह’ । सूत्रं 'तानि परे तथा ह्याह’ । गीतातयोदशाध्याये ‘सर्वेन्द्रियगुणाभासम्’ समाधिभाषा ‘अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षज’ इति । अथवा श्रुत्यादयः 'सर्वथापि त एवे'त्यादिसूत्रस्थाः, समाधिभाषा तु सैव । मङ्गलभोगपर्यन्तं 'गोपगोपीसुरैः सहै'त्यतो नन्दयशोदागोपीमात्रेण सह लीलादि भावनीयम् । ततो जलमर्पयेदिति स्पष्टम् । अत्राचार्याज्ञा कुम्भनदासादीन्प्रति प्रियेति । - प्रियारतिश्रमपरिमलितं वारि यामुनम् । समर्पयामि तत्पानं कुरु श्रीकृष्ण तापहृत् ॥ २५ ॥ वारीत्युक्तं चेदितरस्य स्यादतो यामुनमिति विशेषणं यामुनं सिकताचपीति वारीति । तदपि न नापि सेवमानानां भुक्तिमुक्तिदा अपि तु प्रिया या कदाचित् प्रत्यक्षा, तस्या रतिः तत्स्रग्भूषणा एकैक- स्मिन्नदार्ये दशलीलाविशिष्टो भगवान्वर्तत इति सुबोधिन्याः । तज्जन्यश्रमेण परिमलवतकञ्चित्पदार्थ- मितं प्राप्तं तारकादिभ्य इतच्, आधिदैविकसंस्पृक्तमिति यावत् । मल धारणे भ्वादिर आत्मनेपदी सेट् । के रूपमपि प्रियारतिश्रमं परिहर्तुं धारितमित्यर्थः । तापो ह्याधारे भक्तेच्छया वार्यपनोधधर्मरूपः । सर्वधर्मकत्वात् । श्रुतिस्तावत् 'ऋतं पिबन्तावि'ति । सूत्रं 'गुहां प्रविष्टावात्मानौ’ इति । 'पुष्पं पत्रं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मन' इति गीताराजविद्याराज- गुह्ययोगाध्याये । गुरुपादुकादिपूजनं तु पूर्वमेव कर्तव्यम् । मद्भक्तपूजाभ्यधिकेति वाक्यात् । आधिक्यं प्राथम्यम् । तथा च भाष्यम् । गुरौ तु 'शब्दे परे चे'त्यादिगुर्वभेदेन भगवत्सेवयैव चारितार्थ्यम् । पादुकादितां भक्तिमार्गीयं पूजनं वेदस्तुतौ वर्तते । घटिकानन्तरं कृत्यमाहुः ततः आचमनं कारये- दिति । 'दत्त्वाचमन'मिति वाक्योक्ताचमनस्य 'पाद्योपस्पर्शनादीनि’त्यत्राप्यादिपदार्थत्वात् । कुरुष्वेति । कुरुष्वाचमनं कृष्ण प्रियायामुनवारिणा । स्नेहात्मदन्तसक्तान्यभावापाकरणात्मकम् ॥ २६ ॥ आचमनफलस्य शुद्धेः कृष्णगामित्वादात्मनेपदम् । कुरुष्वेति । आङ् मर्यादायां चमु अदने अद्- नमवधिर्यस्य भावे ल्युट् । आचमनं हस्तादेः प्रक्षालनम् । कृष्ण सदानन्द । स्नेहात्मानो दन्तास्तेषु सक्ताः अन्यभावाः स्नेहग्लानिकारकास्तदपाकरणरूपमाचमनम् । तदुक्तं 'खेदकला द्विजानी'ति द्वितीयस्कन्धे । ननु हस्तादेरपि प्रक्षालनं वर्तते किं पुनर्बालभावे सर्वाङ्गप्रक्षालनं भवति । तत्र सक्तान्यभावाः 2427
आश्रवणवद्योगात्पूर्वं"? Let's look at footnote 1: "१. दर्शनश्रवणमनननिदिध्यासनादीनाम् ।" Ah! Footnote 1 refers to something with 'श्रवण'! Where is '१' in the main text? Look at L2: "तद्दर्शनादे१रवर्जनीयस्वभावस्य"! There is a small '१' after 'दर्शनादे'! Yes, "तद्दर्शनादे१रवर्जनीयस्वभावस्य". Footnote 1 says: "१. दर्शनश्रवणमनननिदिध्यासनादीनाम् ।" Where is '२'? In L2-3: "अन्येषाम्२ अवर्जनीयप्रक्षालनकत्वाद्" -> footnote 2 says: "२. वर्जनीयानां प्रक्षालनं वर्जनीयप्रक्षालनं न तथैषाम् तत्फलत्वात् ।" Where is '३'? In L13: "स्नेहा३द्रतिश्रमजल..." There is a small '३' after 'स्नेहा'! Footnote 3: "३. स्नेहसम्बन्धेयः स्नेहः तदादिषु पदार्थेषु स्नेहाम्बुखस्त्राव्यमबजलं प्रोञ्छदाचमनजलं मुखवञ्जमिति स्नेह्रायः ।"
Now back to L8: "प्रयोग इति नियमाभावः आश्रवणवद्योगात्पूर्वं प्रमितिजनकत्व
उद्धवभावनया सेवामाहुः ततस्ताम्बूलमर्पयेदिति । 'लोकवत्तु लीलाकैवल्यम्'ति व्याससूत्रा- दिति भावः । इदमग्रेतनमाकृष्यते ताम्बूलमिति । ताम्बूलं खप्रियावक्त्रसौरभ्यरतिसंयुतम् । गृहाण गोकुलाधीश तत्कपोलाभपाण्डुरम् ॥ २८ ॥ खस्य सदानन्दस्य प्रिया भक्तियुता ब्रह्मानन्दात्मिका तस्या वक्त्रे तदिच्छयाविर्भूतेन सौरभ्य- ग्रहणा या रतिः क्रीडाव्यासक्ततया संयुतम् । ताम्बूलं पर्णव्यतिरिक्तमपि पर्णमात्रेऽपि प्रियावक्त्रसौरभ्याभावादेवं व्याख्यातम् । तत्करादाभपाण्डुरमित्यनुक्त्वा तत्कपोलाभेत्याद्युक्तं तत्तन्मुखमात्रयोग्यौचित्याय हस्तद्वारेति ज्ञेयम् । गृहाणेति हस्तव्यापारादानात् । ग्रह उपादाने 'हस्तौ चादातव्यं चे'ति प्रश्नोपनिषच्छ्रुतेः । उपेति लुप्तषष्ठीकं समीपस्थानां पदार्थानां हस्तव्यापारो हस्ताभ्यामा
७२ परिशिष्टम् । स्नेहेति । स्नेहात्मगन्धतैलेन प्रियगन्धातिचारुणा । अभ्यक्तो मङ्गलस्नानं कुरु गोकुलनायक ॥ ३१ ॥ स्नेहो गुणस्तदात्मा गन्धो न संभवतीति स्नेहेनात्मा स्वरूपं भगवद्योग्यतारूपं यस्य गन्ध- युक्ततैलस्य तेन तैलेन प्रियो गन्धः प्रियागन्धः पूत्युग्रगन्धव्यतिरिक्तो वा गन्धः प्रियगन्धस्तेन चारुणा मङ्गलदिने स्नानं कुरु । स्नेहेति । स्नेहात्मगन्धतैलस्य लापनाङ्गोकुलाधिप । वितरात्यन्तिकीं भक्तिं मयि स्नेहात्मिकां विभो ॥ ३२ ॥ भक्तिवर्धिन्यां तनुजासेवायां भक्तिवृद्धिर्बीजत्वेनोपादानाद् वितरेत्युक्तम् । ननु सेवायाः फलं मानसी सिद्धान्तमुक्तावत्युक्तम् । भक्तिवर्धनस्य फलत्वं कुत इति चेन्न । श्रद्धा भक्तिबीजं 'श्रद्धा रतिर्भक्तिरनुक्रमिष्यती'ति वाक्यात् । सेवा मानसीसेवायाः कारणम् । व्यसनात्मिका तु सेवा भक्तकृतार्थताबीजमिति । आत्यन्तिकीं भक्तिं फलाभिसन्धानरहितां 'मुक्तिं ददाति कर्हिचित् स्म न भक्तियोग'मिति वाक्यान् मुकुन्दाद्भक्तिसत्कारपूर्वोको व्यापारो युक्तः । स्नेहात्मिकां भक्तिं वितरेति । विभविति । मुक्तिदातुरपि भक्तिदाने सामर्थ्यं द्योतितम् । श्रीति । श्रीसुगन्धोद्वर्तनेन निशाश्रमनिवारणात् । उद्वर्तितः कृष्ण भक्तिदानेन कुरु मे कृपाम् ॥ ३३ ॥ चतुरसेवकैः सुगन्धयुक्तमुद्वर्तनं कृतं चेच्छ्रीयुक्तं भवतीतरथा तु कृष्णं शुभ्रं वा भवेत् । उद्वर्तनं उबटनेति लोके उच्यते । तत्करणं पुस्तकेऽस्ति । तथाहि । सठी, कचूरेति लोके तद्वस्तु सेटक- द्वयम् । कर्पूरा, कपूरकाचरीति प्रसिद्धा सा पादद्वयपरिमितोऽऽनकद्वयमिता च । ग्रन्थंस, वरमीति लोके, तत्पादद्वयानकद्वयपरिमितम् । जटिला, मूतकेशी छडीलो इति लोके सा पादद्वयानकद्वयमिता । तालीसपत्रं तमालपत्रं वा, पत्रेति लोके तदपि पादद्वयानकद्वयम् । मुस्ता, मोथा इति लोके सापि पूर्वोक्तमाना । बेसा, बेसवनोसा इति लोके सापि सार्धसेटकैकपादा च । वालम्, वालो इति लोके तदपि सेटकद्वयम् । उक्तसर्वाैषधय एकीकृत्य पक्वाः कृत्वा शुष्काः कृत्वा खण्ड्यन्ताम् । पश्चाद् रुगातुगा तवखीरेति लोके सा पादोनसेटकद्वयमिता । चन्दनं घृष्ट्वा कृताः खपड्यः सेटकद्वयानकद्वयाः । चन्दनचूर्णं सपादद्वयसेटकमेतानोषधीनेकीकृत्य पिष्ट्वा वस्त्रपूतान्कृत्वोद्वर्तनं कुर्यात् । 'कस्तूर्या चन्दने- नैव कुर्यादुद्वर्तनादिक'मिति स्कान्दे । निशेति आलस्यं स्नानेन निवर्तते श्रमस्तु 'मृत्युः श्रमो मूले'ति श्रुतेर्मृत्युरूपः स उद्वर्तनेन निवर्तते । भक्तीति करणे ल्युट् प्रकृत्यादित्वादभेदे तृतीया । भक्तिदानकरणीभूता कृपा तां कुरु । कृपापदस्यानुग्रहे गौणी । तेनानुमानिकाधिकरणे विज्ञानकरण- त्वेऽपि भक्तिदानकरणत्वं कृपायाः । परस्मैपदार्थ उक्त एव । आलस्यदूरीकरणाय स्नानमाहुः दिवेति । दिवा त्वदनुगमनस्मरणात्तापभावतः । गोपिकास्पर्शोष्णेन वारिणा स्नापयाम्यहम् ॥ ३४ ॥ ननूष्णेन वारिणा स्नापयाम्यहमित्येतावता चारितार्थ्ये 'लोकवत्तु लीलाकैवल्यमि'ति 2430
व्याससूत्रात् । तदुक्तं सिद्धान्तरहस्ये 'सर्वेषां ब्रह्मता तत' इति 'निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिरि'ति च । स्पर्शनान्तं तु परं किमर्थमिति चेन्न । 'ऋतं पिबन्ता'विति श्रुतौ सर्वेषां ब्रह्मतारूप- प्रकारस्य प्रस्तावनाङ्गीकारात् । तदुक्तं सिद्धान्तमुक्तावल्यां 'कृष्णसेवा सदा कार्ये'ति । 'तस्माच्छ्रीकृष्ण- मार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेदि'ति । तथा च स्नान- वारिणि कृष्णविचिन्तनं दिवात्मनो वने गमनस्य स्मरणाद् यस्तापो विरहतापः सोऽपि भाव्यो भक्तिदलं ततो गोपिकास्पर्शनवदुष्णः स्पर्शो यस्य वारिण इति । ननु गोपिकास्पर्शनोष्णत्वचिन्तनं न कृष्णविचिन्तनमिति चेन्न । 'सर्वरस' इतिश्रुत्या कृष्णस्यैव सर्वरूपत्वेनास्य कृष्णविचिन्तनत्वात् । अत्र श्रीभागवतम् 'चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः । सलिलैः स्नाप
सदा ध्येया' 'दर्शनं स्पर्शनं स्पृष्ट'मिति वाक्ये । अत्र प्रयोगे यत्र मूर्तिकर्मकार्चनवाक्येऽयं कर्तृत्वेन प्रतिपाद्यत्वं तत्र हरिमूर्त्तिमत्फलमिति व्याप्तिः । सर्वथेति सर्वैः प्रकारैस्ते च 'कामादीतरत्रे'ति सूत्रोक्ता मन्मथकामुकत्वभयानकत्वद्वेषत्वसम्बन्धित्वस्नेहविषयत्वभक्तिविषयत्वरूपाः । अत्र द्वेषत्व- भयानकत्वरूपौ प्रकारौ भक्तिमार्गे चिन्त्यौ । तत्तत्स्वभावत इति तेन श्रीविष्णुना तस्य श्रीपुरुषोत्तमस्य स्वभावत्वात् । 'अलङ्कारप्रियो विष्णुर्'इति श्रीपुरुषोत्तमोऽप्यलङ्कारप्रियः शृङ्गोऽ- प्रियः क्रीडनकानि प्रियाणि श्रीपुरुषोत्तमस्य । यद्वा 'इन्द्रस्य युज्यः सखे'ति श्रुतेरिन्द्रेण समानानि शीलव्यसनानि श्रीपुरुषोत्तमस्येतीन्द्रस्वभावेन श्रीपुरुषोत्तमस्वभावमनुमाय भजेदित्यर्थः । ननु 'शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता
परिशिष्टम् । ७५ वस्त्रार्पणमाहुः प्रियेति । प्रियाङ्गतुल्यवर्णानि वस्त्राणि व्रजनायक । समर्पयामि कृपया परिधेहि दयानिधे ॥ ४० ॥ प्रियाङ्गेत्यादिपूर्ववद् ब्रजानन्दवाय । ननु लोहितशुक्लनीलरूपाणि प्राप्तानि न परं पीतहरितकपिश- चित्ररूपाणीति चेन्न । त्रिविधरूपभेदत्वादन्येषाम् । तथा च श्रुतिः, 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति यद् धूम्रं तद्वायोरि'त्याद्यवर्णश्रुतिरित्यनन्तानि रूपाणीति प्रस्थान- रत्नाकरेऽस्ति । वस्त्राणि यथाकालं 'देशकालविभागविदि'ति चतुर्थस्कन्धवाक्ये दैशिकविशेषणात् । कृपयेत्यत्र परिधानकारणं कृपा गृह्यते न विज्ञानकारणं वाक्यं पूर्वमुक्तम् । अलङ्कारार्पणमाहुः भूषणेति । भूषणान्यवतारात्मकान्येतान्यर्पयामि ते । प्रियाङ्गतुल्यकान्तीनि प्रसीद व्रजसुन्दर ॥ ४१ ॥ अवतारात्मकानि द्वितीयस्कन्धसुबोधिन्यां सप्तमाध्याये यद्यद्भावतारो 'लसन् महारत्न- हिरण्मयाङ्गद' इति 'नामेरसावृषभ' इत्यत्र निरूपितः । हयग्रीवो हि स्फुरन्महारत्नकिरीटकुण्डलरूपः । नृसिंहो भगवान् कौस्तुभरूपः । यो हरिः स वनमाला । वामनो हि कटिमेखलारूपः । नूपुरकङ्कणादीनि मन्वन्तरावताररूपाणि । प्रियाङ्गेत्यादि विशेषणं पूर्ववत् । व्रजसुन्दरेति संबोधनम् तदनुरूप- शृङ्गाररूपभजनार्थमुक्तभाष्यात् । प्रियेति । प्रियानासाभूषणस्थबृहन्मुक्ताफलाकृतिम् । समर्पयामि राधेश गुञ्जाहारमतिप्रियम् ॥ ४२ ॥ प्रियाणाम् नासाभूषणानि तत्स्थानि बृहन्ति मुक्ताफलान्यादान्ते च येषां मणीनां ते तथोक्तास्तेषामिवाकृतिर्यस्य हारस्य तम् । राधेशेति संबोधनम् तादृशहारसमर्पणे प्रम्वनिक्षिप्तत्यागार्थम् । मिलितेति । मिलितान्योन्याङ्गकान्तिचाकचक्यसमं विभो । अङ्गीकुरुष्वोत्तमाङ्गे केकिपिच्छमतिप्रियम् ॥ ४३ ॥ मिलिता अन्योन्यस्याङ्गकान्तयः पीताङ्गकान्तिः श्यामाङ्गकान्तिश्चोभे मिलिते हरिता कान्तिः लोहिताङ्गकान्तिर्नीलाङ्गकान्तिश्चोभे मिलिते ताम्रवर्णकान्तिस्तयोः कान्त्योः शोभयोः चाकचक्यं भास्वरशुक्लं रूपं तेन समम् । चाकचक्यं लौकिकशब्दानुकरणं दीप्तिवाचकम् । अमरकोशादान्य- त्रिको वा शब्दः । केकिनां मयूराणां पिच्छं अङ्गीकुरुष्वेत्यात्मनेपदम्, 'मयूराश्चित्रिता येने'ति स्ववक्त्रनिःसृतमयूरचित्रश्रैष्ठ्यवाक्यसत्यत्वरूपम्, अङ्गीकारफलस्य कर्तृब्रह्मगामित्वात् । गोपेति । गोपस्त्रीहृत्स्थितं श्रीमच्छृङ्गारात्मकमाञ्जनम् । शोभार्थं मातृवद्दत्तमङ्गीकुरु व्रजाधिप ॥ ४४ ॥ मातृवदित्यत्र तृतीयान्ताद्वतिः मया दत्तम् । ननु शृङ्गारात्मकमञ्जनं मातृवद्दत्तमित्यनु- चितमिति चेन्न । हे व्रजाधिपेति संबोधनाद् व्रजस्य ग्रामीणाः स्त्रियो न चतुराः नागर्यश्चतुरा- स्तासाधिप इत्यनौचित्यभावाद् अङ्गीकारफलस्य परगामित्वात्परस्मैपदम् । 2433
कस्तूरीति । कस्तूरीतिलकं भाले चित्रं चारु कपोलयोः । दृष्ट्वा प्रियाकृतं हृष्टस्तथा मुदमवाप्नुहि ॥ ४५ ॥ ननु बालगोपाले कथमिति चेन्न । प्रियापदस्य मातृवाचकत्वमपीति दोषाभावात् । मुखेति । मुखाब्जमकरन्दासिलोभेन रसभावतः । मधुपायितचित्तानि व्रजरत्नानि तानि ते ॥ ४६ ॥ मुखं भक्तिः साऽब्जं भक्तोष्मापहारित्वात् तस्य मकरन्द आनन्दः भजनानन्द इत्यर्थः । तत्सासेर्लोभेन । मकरन्दः पुण्यं कर्म वा दास्यमिति यावत् सौरभ्यसाम्यात् । अयमर्थः । बह्वीषु भक्तासु कस्याश्चिन्मनोरथेन मन्मथमन्मथरूपेणात्मन आविर्भावे आत्मनः कपोलरिंखावशादूष्मणि सति कासाञ्चिद्भक्तानां वैराग्योत्कर्षवशात्तच्छान्तचित्तानां रसभावः रसः शृङ्गारः स च देवादिविषयो भावः । 'रतिर्
An exact line-by-line transcription of the text from the image into pure Markdown with Devanagari Unicode:
विलोकय ब्रह्मबोधनयुतं कुरु। परस्मैपदं ब्रह्मबोधनस्य परगामित्वात् । ज्ञानी चेद्भवते कृष्णं तस्माज्ज्ञास्त्यधिकः पर' इति वाक्यात् स्वेच्छयाऽस्मिंल्लोकेधीतं कृतं ब्रह्मबोधनम् । एवं शृङ्गारं कृत्वा सिंहासने उपवेश्य सामग्रीमग्रे स्थाप्य व्रजस्वीकेरेत्यादिसार्धपद्येन विज्ञाप्य भाषणमित्यादिपद्यद्वयेन विज्ञाप्यानेन पद्येन समर्पयेद् गोपिकेति । गोपिकाभावतः स्नेहाद्भुक्तं तासां गृहे यथा । मदर्पितं तथा भुङ्क्ष्व कृपया गोपिकापते ॥ ५० ॥ गुप्तारसे स्पष्टोऽस्यार्थः । 'न रोधयति मां योग' इत्यारभ्य 'यथा भक्तिर्ममोर्जिता' 'भक्त्याह- मेकया ग्राह्य' इत्येकादशद्वादशाध्याये । अत्र श्रीभागवते मार्गे गोपीवल्लभभोगो न दृश्यते अतः सामान्यतः प्रमाणमुक्तमन्यच्च 'पत्रं पुष्पं फलं तोयं यो मे
संक्षम् । ततः पुनराचमनं कारयित्वा ताम्बूलमर्पयित्वा आरात्रिकं कुर्यात् । अत्रापि माहा । अमङ्गलानिवृत्त्यर्थं मङ्गलावाप्तये तथा । कृतमारात्रिकं तेन प्रसीद पुरुषोत्तम ॥ ५४ ॥ तृतीयमारात्रिकमिदं कचित्लुप्तं स दोषो नित्यत्वात्सेवायां नास्ति तदुक्तं पूर्वमीमांसायाम् । ननु स्कान्दे मार्गशीर्षमाहात्म्ये नृसिंहपरिचर्यायां च 'सर्वं संपूर्णतामेति कृते नीराजने सुते'ति सर्वसंपूर्णता- वाप्तये 'नीराजनमिदं नाथ प्रीयतां मधुसूदने'ति प्रीत्यवाप्तये चारात्रिकस्य निरुक्तेः कथममङ्गल- निवृत्त्याद्यर्थमिति चेन्न । स्कान्दस्य तामसत्वेन 'तामसा निरयायैवे'ति वाक्यप्रसरात् । सर्वं संपूर्णता- मित्यस्य मानसीपूजाङ्गत्वात् । अतो'अचलत्वं चापेक्ष्ये'ति सूत्राभासोक्तभक्तेच्छयाऽमङ्गलानिवृत्त्या- द्यर्थमारात्रिकं साधु, घण्टादीनां वादनं 'सामनीराजनादिभि'रित्यत्रादिपदार्थत्वात् । अश्रुतघटस्थापना- पेक्षया पुराणादौ स्मृतस्य घण्टावादनादेर्ज्यायस्त्वात् 'सामनीराजनादिभि'रिति भागवतवाक्या- त्सामश्रुतिः । सेवापूर्त्यर्थमिति स्कान्दे । सष्टमन्यत् । नवनीतचौर्यादीनां प्रेङ्खाशयनमाहुः प्रेम्णेति । प्रेम्णा मत्प्रेङ्खाशयनदोलने श्रीयशोदया । सिताग्रमर्पितं भुक्तं भुङ्क्ष्वैवं च तथैव मे ॥ ५५ ॥ बालानामतिमहतामप्यन्येप्रेङ्खाशयनं न दोषाय । प्रेमवशादात्मनस्तदाहुः प्रेम्णा मत्प्रेङ्खेति । वर्तमानेन त्व्येति शेषः । आद्यपदेन त्वक्सहिता मज्जा शीर्षफल, वीणि, खर्जूरिका, द्राक्षादीनि खण्डशकलानि च बदाममीजी गरी चिरौंजीति लोके त्रयाणां पूर्वैषां समाख्याः । अधुना तु नवनीतथपदीस्वल्पमोदकाद्यपि । पिष्टसिताखण्डे च जलभृङ्गारः । इदं चेत्यत्र चकारः समुच्चये । पूर्वोक्तं प्रत्यक्षमपित्यर्थः । इदं सेवायाम् । पूर्वोक्तं गृहे । अन्येषां स्वरूपाणां भावनया शय्यायां शयनं श्रीयशोदादिभावनं च । अग्रेतनकृत्यमाहुस्ततोग्रे क्षणं क्रीडार्थमक्षादीन्निवेदयेत् । क्रीडारूपात्मकैरक्षैः क्रीडार्थं स्थापितैः प्रभो । क्रीडां कुरु महाराज गोपिकाभिश्च राधया ॥ ५६ ॥ आदिपदेन क्रीडनकानि व्याघ्रशर्करी, शतरञ्जिका । क्रीडारूपात्मकैरिति नव सात्त्विकादिभेदाः। सच्चिद् आनन्दाः विभावोऽनुभावः सञ्चारिभावो निर्गुण इति मिलित्वा षोडश क्रीडारूपाणि । धीरा, अधीरा, धीराधीरास्वरूपा अक्षास्त्रयः । अक्षबिन्दवश्चतुर्दश तेषां सङ्घातातपर्यं यद् तयैकः पञ्च द्वौ च । षड् धर्माः, एको धर्मी, पञ्च महाभूतानि, जीवपरमात्मानौ द्वौ । पट्टिकाखण्डानि षण्णवतिः षोडश शृङ्गाराः पुंसः षोडश क्रियाः मिलित्वा द्वात्रिंशच्छृङ्गाराश्चतुःषष्टिकलाः एवं षण्णवतिः । शतरञ्जिकाशयः द्वात्रिंशच्छृङ्गाराः क्रीडनरूपाः, चतुःषष्टिखण्डानि कलारूपाणि, द्वौ क्रीडा- कर्तारौ, द्वौ द्रष्टारौ मिलित्वा शतं जातम् । व्याघ्राजाशयः विंशतिजनानां सात्त्विकादिनवैकादशे- न्द्रियभेदेन । व्याघ्राश्चत्वारः पुष्टिमार्गीयधर्मार्थकाममोक्षरूपाः द्वौ चेद् धर्ममोक्षात्मकौ धर्ममोक्ष- रूपकोटेरैक्यं कामकोटेरुत्कृष्टत्वात् । द्वात्रिंशत्खण्डानि द्वात्रिंशच्छृङ्गाररूपाणि स्त्रीपुरुषभेदेन । एवं क्रीडारूपाण्यक्षादीनि भक्तेच्छया तत्र तत्र स्थितामिर्गोपीभी राधया च । श्रीहरिरायजितां भावनया वेणुवेत्रे अपि श्रीहस्ते धर्त्तव्ये ।
परिशिष्टम् । ७१ मालामुत्तार्य राजभोगसमर्पणमाहुः ततो राजभोगं समर्पयेच्छ्रीमदिति । श्रीमद्राधाङ्गसौगन्ध्यागरुधूपार्पणाद्विभो । भावात्मकूनसामग्र्यां भोगेच्छां प्रकटीकुरु ॥ ५७ ॥ अगरुधूपार्पणस्य विशेषणं पूर्ववच्चन्दनधूपार्पणस्योपलक्षकम् । तेन मुक्तः कृतसामग्रीको भवति । 'मुक्तोपसृप्यव्यपदेशात्' इति व्याससूत्रात् । धूपार्पणेन मुक्तत्वं तु तत्त्वसागरे 'कृष्णा- गरुसमुत्थेन धूपेन श्रीधरालयम् । धूपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवा'दिति नृसिंहपरिचर्यायाम् । भोगेच्छाकारणत्वेन भक्त्यान्याज्ञादुरात्मनः । सामग्रीज्ञानार्थं विशेषणम् । आभावात्मेति । भावो भक्तिर्दासरूपा तस्यामात्मा स्वरूपं यस्याः कृतसामग्र्याः । तथा च 'मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि' इति वाक्ये तत्पदार्थो भक्तत्वावच्छिन्नस्तत्र भक्तत्वं भक्तिरेव । तस्यामात्मा स्वरूपं यस्या इति सामग्र्या आत्मज्ञानविषयत्वम् । ततो जानातीच्छति यतत इति प्रणाल्या भोगेच्छां प्रकटीकुर्वित्युक्तम् । दीपः समर्पितो भोग्यरूपार्थाङ्गप्रदीपने । तद्दीपनेन बोधितभावो भोजनमाचर ॥ ५८ ॥ प्रदीपने प्रकाशने । ननु सूर्यप्रभाप्रकाशितेऽह्ने प्रकाशकान्तरदीपापेक्षाभाव इति चेन्न । भूयः प्रकाशदेशान्मन्दिर आगच्छत आत्मनः प्रथममपेक्षाभावे मानाभावात् । उद्दीप्तभावस्तूरीसस्नेहः 'धूपदीपोपहाराणी'ति श्रीभागवतम् । नारदीयकल्पे तु 'सघृतं गुग्गुलं धूपं दीपं गोगृतदीपितम् । समस्तपरिवाराय हरये श्रद्धयार्पयेदि'त्युक्तम् । धूपदीपानुक्तोपहाराण्याहुः ब्रजेति । ब्रजस्त्रीकरयुग्मात्मयन्त्रे पात्रं च तन्मयम् । स्थापितं ते भोजनार्थे योग्यभोज्याङ्गसम्भृतम् ॥ ५९ ॥ व्याख्यातम् । गुप्तरस इव प्रकारमाहुः स्वर्णेति । स्वर्णपात्रेषु दुग्धादि दध्याद्यं राजतेषु च । मृत्पात्रेषु रसालाद्यं भोज्यं सन्द्रोणकादिकम् ॥ ६० ॥ राजते नवनीतं च पात्रे हैमे सितां तथा । यथायोग्येषु पात्रेषु पायसव्यञ्जनादिकम् ॥ ६१ ॥ सूपौदनं पोलिकादि तथाऽन्नं च चतुर्विधम् । शुद्धं भावैकसंशुद्धं राधया सहितो हरे ॥ ६२ ॥ सन्द्रोणकं सन्धितं तदादिकमादिपदेन निम्बार्द्रकादि । यथायोग्यानि पात्राणि । श्रीपद्मपुराणे 'नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृण्मयमेव च । पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम्' । इति नृसिंहपरिचर्यायाम् । सूपशब्देन 'दारि' इत्युच्यते लोके तद्ग्राह्यम् । पोलिका रोट्यः आदिपदेन बाटाः । चतुर्विधमन्नं भोज्यं तण्डुलादि, लेह्यं शिख- रिण्यादि, चोष्यमिक्षुदण्डादि, पेयं.दुग्धादि । भावैकसंशुद्धं भक्त्यैकसंशुद्धं सिद्धान्तरहस्योक्तरीत्या । नवनीतप्रियजित्स्वरूपे राधासखिर्भाला वा भावनीया । अत्र भावना गुप्तरसे स्फुटैव, उपहाराणीत्यत्र 2437
श्रीभागवते उपहारान्तरमुक्तम् । 'गुडपायससर्पींषि शष्कुल्यापूपमोदकान् । संयावदधिसूपांश्च नैवेद्यं सति कल्पये'दिति 'पच्यन्तां विविधाः पाका' इति श्रीगोवर्धनप्रसङ्गे । उपहारपदस्य नैवेद्यवदन्यत्रापि वृत्तेराहुः कम्ब्विति । कम्बुनाज्ञातातिप्रियश्रीशङ्खान्तर्गतवारिणा । दृष्टादिदोषाभावाय सामग्री प्रोक्षिता विभो ॥ ६३ ॥ कम्बुर्गलस्तत्सञ्जातातिप्रियः श्रीशङ्खो गलकम्बुः । तथा च विश्वः 'कम्बुः शम्बूक- गजयोर्ग्रीवागलकम्बुयोः' अमरः 'कम्बूनां वलये शङ्खे' इति । कम्ब गतौ सुग्वंवादिः । काम्यते वा । एकदेशान्वयः । तदन्तर्गतवारिणा । भक्तिमार्गानुसारेणाहुः दृष्टाविदोघेति । आदिपदेनाज्ञा- तास्पृश्यतादोषः । तदुक्तं 'नार्थं तडागजं वापि वापीकूपादिकं च यत् । गाङ्गेयं जायते सर्वं जलं शङ्खे कृतं सुत । त्रैलोक्ये यानि तीर्थानि मम वै याज्ञया सुत । शङ्खे तानि वसन्तीह तस्माच्छङ्खो वरः स्मृत' इति स्कान्दे । याज्ञयेत्यत्र इ आज्ञयेति छेदः । श्रीभागवते च 'अपां तत्त्वं दरवर' इति । यद्वा कम्बुर्वलयस्तत्सञ्जाता कम्बुना गृहीतः शङ्खोऽतिप्रियो भवति । राधाभृङ्गारत्वाद्वल यस्यान्यत्पूर्ववत् । प्रायपाठात् ययाव्रजस्त्रीकरयुग्मलेति यन्नविशेषणम् । 'व्रजस्त्रीकरयुग्मात्मयन्त्रे पात्रं च तन्मयमि'त्यत्र तथा च वलयस्मारककम्बुपदेन शङ्खाभिधानाद्दतं पिबन्ताविति श्रुत्युक्तस्वरूपामृतपानात्मकः शङ्खभोग श्वात्मनः सिद्धः । न च शङ्खभोगो न वलयभोग इति वाच्यम् । सर्वं सर्वमयमिति श्रुतेर्वलयस्य स्मारकपदप्रयोगे वलयस्यापि भोगाङ्गीकारात् । प्रक्षिपेति । प्रक्षिप्ता तुलसी तेऽतिप्रियगन्धा तथैव च । कुरुष्व तेनातिसंतुष्टो भोजनं व्रजनायक ॥ ६४ ॥ अतिप्रियेति । तदुक्तं ब्रह्मपुराणे 'तुलसीदलगन्धेन मालतीकुसुमेन च । कपिलाक्षीर- दानेन सद्यस्तुष्यति केशवः' इति । राजसत्वेऽपि पुराणस्य समबलत्वं समोत्कर्षः समं प्रामाण्यं परेषाम् । अस्माकं फलोत्कर्षयोः साम्यासहनमिति बहिर्मुखमुखध्वंसे कल्याणरायाः । तथैव मक्तराधासद्गन्धत्वे- नैवेत्यर्थः । तेनातिसन्तुष्ट इत्यत्रातिपदम् । अतिप्रियेत्यत्रापि । वाक्यं तु गरुडपुराणे भगवतः 'तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । तस्य तां प्रतिगृह्णामि न पूजां शतवार्षिकीम्' इति । इदं सात्त्विकं पुराणम् । 'भक्त्या तुतोष भगवान् गजयूथपाय' इति श्रीभागवतम् । एवमुक्तं श्रीगरुडपुराणे 'तुलसीदलसम्मिश्रं हरेर्यच्छति यः सदा । नैवेद्य'मित्यादि 'भाषणं मा त्यजे'ति श्लोकचतुष्टयेन समर्पये- दिति मूलम् । अत्रार्घ्यपात्रेऽर्घो ज्ञेयः । विष्णुरहस्ये 'सौवर्णे रम्यपात्रे तु मणिरत्नविभूषिते । तोयाषष्टाङ्गसम्पूणं स्वामिनेऽर्घं ददामि ते' इति वचनात् । यद्यपि नृसिंहपरिचर्यायां मानसीसेवायाँ पादप्रक्षालनानन्तरमनेन वाक्येनार्थ उक्तस्तथा स्कान्दे 'अर्घ्यं दद्यात्ततो वत्स पाद्यमाचमनीयकमिति पादप्रक्षालनमर्थ्यानन्तरमुक्तं तथापि प्रयोगभेदात्तात्क्रममनादृत्य क्रमान्तरेण नैवेद्यसमये बोध्यः । तदित्थम् । 'अङ्गोपहृतं स्नेहं भक्तेन मम वार्यपि' । 'गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ।' 'भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ।' इत्येकादशसप्तविंशाध्याये भगवदुपदेशः । तत्र भक्त्या क्रमेण नैवेद्यसमयेऽर्घः । एकत्र सिद्धः शाखायोऽपरत्रापि तथेत्यतिदेशस्य निर्बलत्वादग्रवदुपदेशा- पेक्षया । पूर्वतन्त्रे पञ्चमसैकादशाधिकरणे आचार्येषु आत्मभेदबुद्धेर्महापराघेषु गणनं यद्यपि तथापि लौकिकदृष्टिमतो भक्तस्वेच्छया पादुकाजितामुत्सवेषु निलदा वा राजभोगसमर्पणं पादुकाजितामाहुः ततः श्रीमदाचार्येषु समर्पयेदिति ।
परिशिष्टम् । ८१
कीर्तनभक्तिमपि तदर्थमाहुः स्वार्थेति । स्वार्थप्रकटसेवाख्यमार्गे श्रीवल्लभप्रभो । निवेदितस्य मे भोज्यं स्वास्ये कुरु हुताशन ॥ ६५ ॥ ‘मायावादतमोभिरस्तमधुवित्सेवाख्यवर्त्माद्भुतं, श्रीमद्गोकुलनाथसङ्गमसुधासंप्रापकं तत्क्षणात् । दुःप्रापं प्रकटं चकार करुणारागातिसंमोहनः स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशान्तर’ इति स्फुरत्कृष्णप्रेमामृतात्स्वार्थप्रकटसेवाख्यमार्गः । भोज्यं चतुर्विधान्नम् । हुताशन कृष्णवर्त्मन् । पानीयपात्रमपि ज्ञेयम् । घटिकाद्वयं भोगं प्रस्थाप्यानन्तरं कृत्यमाहुः । ततो यथावदाचमनं कारयित्वा ताम्बूलमर्पयेदिति, अत्र मुखवासं द्रष्टव्यम् । ‘मुखवासं सुरभिमत्ताम्बूलाद्यम्’ इति श्रीभागवतवाक्यात् । आचार्येभ्योऽपीति ज्ञेयम् । किञ्च ‘मद्भक्तपूजाभ्यधिके’ति वाक्यात्सस्त्रीबालकपादुकाजीनामपि ताम्बूलान्तं समर्पयेत् । ‘पितृदेवो भवे’ति श्रुत्या भक्तः स्वपितृभ्योऽपि पादुकाजीद्वारा योग्यं कुर्यात् । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ इति श्रुतिः । ततो भोजनपात्रस्थले मार्जनं कुर्याद् गोकुलेशेति । गोकुलेश तवोच्छिष्टलेपात्पात्रप्रमार्जनात् । त्वत्सेवान्तरधर्मेषु रतिर्भवति निश्चला ॥ ६६ ॥ भोजनपात्राणां मार्जनं च कुर्याद् इति फक्किकार्थः । श्लोके उच्छिष्टलेपमालोक्य पात्राणां प्रकृष्टं मृदादिभिर्मार्जनं तस्मात् । त्वत्सेवातोऽन्यधर्माः पात्रप्रमार्जनादयस्तेषु । रतिः पूर्वं वर्तते सेवान्तरधर्मेष्वपि प्रवृत्तत्वात् । इदानीं नित्यदा करणान्निश्चला । अन्तरपदं मध्यवाचि वा । ततश्चरणयोस्तुलसीं समर्पयेत् प्रियेति । प्रियाङ्कगन्धसुरभितुलसीं ते पदप्रियाम् । समर्पयामि मे देहि हरे देहमलौकिकम् ॥ ६७ ॥ तुलसीविशेषणं पूर्ववत् । पदप्रियाम् ‘कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये’ इति वाक्यात् । देहमिति । तुलस्याः पदसमर्पिताया अलौकिकदेहदातृत्वं पद्मपुराणे ‘सुकृती दुष्कृती चापि तुलस्या योऽर्चयेद्धरिम् । देहान्ते दिव्ययानेन विष्णुभक्तैः स नीयते’ इति । देहमन्तरा यानेन नयनासम्भवात् । प्रसीदेति । प्रसीद पूजितो भक्त्या तुलस्या प्रियगन्धया । निःकिञ्चनाधीश नान्यत्कर्तुं शक्नोमि सर्वथा ॥ ६८ ॥ तुलस्याः गोविन्दचरणप्रियत्वात् प्रसीद । अन्यत्पुष्पमालादि । सर्वथा सर्वैः प्रकारैः देहेन मूल्येनाज्ञया वा । तादृशदेहवान् मूल्यवानाज्ञावांश्च नास्मीति देहादीनां प्रकारता । ननु निः- किञ्चनस्य कथं सेवेति चेन्न । यतो निःकिञ्चनानामधीश ‘धर्मान्सन्त्यज्य यः सर्वान्मां भजेत्स च सत्तम’ इत्येकादशस्कन्धदशमेऽध्याये । ‘न्यासादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियेते’ति । ननु गीता कुतो नोक्ता ‘सर्वधर्मान्परित्यज्ये’त्यादिः । गीतायाः प्रकृतित्वाभावात् । एकादशस्कन्धस्य भक्तिमार्गस्यैकोनत्रिंशाध्यायोक्तस्य प्रकृतित्वात् । धनी पुष्पमालाः पुष्पमण्डपादिकं कुर्यादेव । बीटिका- समर्पणमपि । ततः पादपीठादिकमर्पयेत् । आदिपदेन जलपात्रं मुखवस्त्रं दर्पणमुष्णकालश्चेन्मृत्पात्रं जलपूर्णं चन्दनपात्रं च व्यजनानि च सिंहासने उभयपार्श्वयोः स्थापनीयानि । सिंहासनखण्डास्तरणं