आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६३ अपर आह—अनुवाकग्रहणान्मन्त्रब्राह्मणयोरेव प्रतिषेधः, नाङ्गाना- मिति ॥ १६ ॥ नित्यप्रश्नस्य चाऽविधिना ॥ १७ ॥ नित्यं प्रश्नाध्ययनं यत्न स नित्यप्रश्नो ब्रह्मयज्ञः । तस्य चाविधिना व- क्ष्यमाणेन प्रकारेण विनाऽनुवाकाध्ययनमविहितम् । यद्यपि नित्यं ब्रह्म- यज्ञाध्ययनं तथापि केनचिदप्यङ्गेन विना न कर्तव्यम् । तेन विस्मृत्य प्रातराशे कृते प्रायश्चित्तमेव न ब्रह्मयज्ञः । मनुः— 'स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' । इति ॥ १७ ॥ तस्य विधिः ॥ १८ ॥ तस्य नित्यप्रश्नस्य विधिर्वक्ष्यते ॥ १८ ॥ अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे ऽधीयीत यथाध्यायमुत्सृजन्वाचा ॥ १९ ॥ अकृतदिवाभोजन उदकसमीपं गत्वा प्रयतः स्नानमार्जनादिशुद्धः शुचौ देशे प्राच्यामुदीच्यां वा दिश्यच्छदिर्दर्शोऽधीयीत । यथाध्यायं यथा पा- ठमनुषङ्गरहितमुत्सृजन् आदित आरभ्य प्रथमादिष्वहस्सु(१) अधीयीत द्वितीयादिषूत्सृज्य ततः परमधीयीत । वाचा उच्चैरित्यर्थः ॥ १९ ॥ मनसा चाऽनध्याये ॥ २० ॥ अनध्याये च मनसाऽधीयीत नित्यस्वाध्यायम् ॥ २० ॥ विद्युति चाऽभ्रग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते ॥ २१ ॥ विद्युति अभ्रग्रायामविरतायाम् । स्तनयित्नौ चाऽभ्यग्रे । अप्रायत्ये आ- त्मनोऽशुचिभावे । प्रेतान्ने च भुक्ते । नीहारे च नीहारो हिमानी तस्मिंश्च वर्तमाने । मानसमनन्तरोक्तमध्ययनं परिचक्षते वर्जयन्ति ॥ २१ ॥ श्राद्धभोजन एवैके ॥ २२ ॥ एके त्वाचार्याः श्राद्धभोजन एव मानसं परिचक्षते, न विद्युदादिषु॥२२॥ विद्युत्स्तनयित्नुवृष्टिश्चापतौ(२) यत्र सन्निपते- युस्त्र्यहमन्ध्यायः ॥ २३ ॥
१. अधीतं यत् तत् इति ड. पु. २. "यत्र" इति नास्ति क. पु.
६४ आपस्तम्बधर्मसूत्रे [ (प्र.३) क. ११. अपर्तौ यस्मिन् देशे यो वर्षाकालः ततोऽन्यस्तत्रापर्तुः । तत्र यदि विद्युदादयस्सन्निपतेयुः समुदितास्स्युः तदा त्र्यहमनध्यायः ॥ २३ ॥ यावद्भूमिर्व्युदकेत्येके ॥ २४ ॥ यावता कालेन भूमिः विगतोदका भवति तावन्तं कालमनध्याय इत्येके मन्यन्ते ॥ २४ ॥ एकेन द्वाभ्यां वैतेषामाकालम् ॥ २५ ॥ एतेषां विद्युदादीनां मध्ये एकेन द्वाभ्यां वा योगे आकालमनध्यायः । अ- परेद्युरा तस्य कालस्य प्राप्तेरित्यर्थः ॥ २५ ॥ सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्का- यामग्न्युत्पाते च सर्वास विद्यानां सार्वकालिकमाकालम् ॥२६॥ ‘सूर्याचन्द्रमसो’ रिति वचनं बृहस्पत्यादिनिवृत्त्यर्थम् । भूमिचले भू- कम्पे । अपस्वाने निर्घाते । उल्कायामुल्कापाते । अग्न्युत्पाते(१) ग्रामादिदा हे । एतेषु निमित्तेषु(२) सर्वेषु सर्वास विद्यानाम्— (३)अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इत्युक्तानाम् । सार्वकालि कमृतौ चापर्तौ चाऽऽकालमनध्यायः । अत्र ‘सर्वासामि’ति वचनादन्यत्र वेदानामेव प्रतिषेधः । अङ्गानामपीत्यन्ये ॥ २६ ॥ अभ्रं चापर्तौ सूर्याचन्द्रमसोः परिवेश इन्द्रधनुः प्रतिसूर्य्मत्स्यश्च वाते पूतिगन्धे नीहारे च सर्वेष्वेतेषु तावत्कालम् ॥२७॥ अपर्तावभ्रं दृश्यमानं यावत् दृश्यते तावत्कालमनध्यायः । एवं परिवे- षादिष्वपि योज्यम् । बृहस्पत्यादिपरिवेषे न दोषः । इन्द्रधनुः प्रसिद्धम् । सूर्यसमीपे तदाकृतिः प्रतिसूर्यः । मत्स्यः पुच्छवन्न- १. गृहादिदाहे इति ग. पु २. सर्वेषु इति नास्ति. ख. ग. पु ३. विष्णु पु. अङ्गानि शिक्षाव्याकरणच्छन्दोनिरुक्तज्यौतिषश्रौतसूत्राणि, चत्वारो वेदाः, ऋगादयः प्रसिद्धाः, मीमांसा पूर्वमीमांसा, उत्तरमीमांसा च, न्यायविस्तरः गौतम- प्रणीतमान्वीक्षक्य़ाख्यं न्यायशास्त्रम्, वैशेषिकशास्त्रं च, पुराणं मत्स्यादिपुराणानि, मन्वा- दिप्रणीतानि धर्मशास्त्राणि च विद्यापदवाच्यानीत्यर्थः ।
अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६५ त्राम् । समाहारद्वन्द्वे छान्दसो लिङ्गव्यत्ययः । सर्वेष्वेतेषु वाता- दिषु च त्रिषु तावत्कालमनध्यायः । वाते घोषवति । पूतिगन्धे दुर्गन्धे । नीहारे हिमान्याम् । वातादिग्रहणं पूर्वोक्तानां श्वगर्दभादीनामुपलक्षणा- र्थम् । पुनरिह वचनं तावत्कालमिति विधातुम् । अत्रैव श्वगर्दभादिग्रहणे कर्तव्ये पूर्वत्र पाठस्य चिन्त्यं प्रयोजनम् ॥ २७ ॥ मुहूर्तं विरते वाते ॥ २८ ॥ वाते घोषवति विरतेऽपि मुहूर्तमात्रमनध्यायः । द्वे नाडिके मुहूर्तम् ॥२८॥ सलावृक्यामेकसृक इति स्वप्नपर्यन्तम् ॥ २९ ॥ (१)‘तावत्काल’मित्यस्याऽपवादोऽयम् । सलावृक्येकसृकशब्दौ व्याख्यातौ ॥ २९ ॥ नक्तं चारण्येऽनग्नावहिरण्ये वा ॥ ३० ॥ रात्रावग्निवर्जिते हिरण्यवर्जिते वाऽरण्ये नाधीयीत ॥ ३० ॥ अननूक्तं चाऽपर्त्तौ छन्दसो नाधीयीत ॥ ३१ ॥ उत्सर्जनादूर्ध्वमुपाकरणादर्वागपर्तुः । तत्र छन्दसोऽननूक्तमंशमपूर्वं नाऽधीयीत । ग्रहणाध्ययनमपर्त्तौ न कर्तव्यम् । यद्यपि(२)तैष्यां पौर्ण- मास्यां रोहिण्यां वा विरमे’ दित्युक्तम्, तथापि कियन्तं कालं तद्विर- रमणम् ? कस्माच्चाऽध्ययनम् ? इत्यपेक्षायामिदमुच्यते-एतावन्तं कालं ग्रहणाध्ययनं न कर्त्तव्यमिति । धारणाध्ययने न दोषः । तथा ‘छन्दस’ इति वचनादङ्गानां ग्रहणाध्ययने न दोषः ॥ ३१ ॥ प्रदोषे च ॥ ३२ ॥ प्रदोषे चाऽननूक्तमृतामपि नाधीयीत । (३)‘मासं प्रदोषे नाधीयीते’ त्येतत्तु धारणाध्ययनस्यापि प्रतिषेधार्थम् । अपर आह—यस्यां रात्रौ द्वादशी त्रयोदशी च मिश्रीभवतः, तस्यां प्रदोषे नाधीयीतानूकमननू- क्तं च, ऋतावपर्त्तौ च । एष आचार इति ॥ ३२ ॥ सार्वकालिकमाम्नातम् ॥ ३३ ॥ आम्नातंमधीतं तत्सार्वकालिकमपर्त्तौ प्रदोषे च सर्वस्मिन्कालेऽध्येतव्यम् ३३ यथोक्तमन्यदतः परिषत्सु ॥ ३४ ॥ १. आप. ध. १. ११. २७. २. आप. ध. १.९.२. ३. आप. ध. १. ९. १. आप० ध० ९
६६ आपस्तम्बधर्मसूत्रे [(प.३.)क.११. अत एतस्मादनध्यायप्रकरणोक्तादन्यदनध्यायनिमित्तम् । परिषद्सु- मानवादिधर्मशास्त्रेषु यथोक्तं (१)तथा द्रष्टव्यम् । तत्र वासिष्ठः (२)‘दिग्दाहपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिक’ मिति । यमः- (३)‘श्लेष्मातकस्य शल्मल्या मधूकस्य तथाप्यधः । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥’ सङ्ग्रामोद्यानदेवतासमीपेषु नाधीयीतेति ॥ ३४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्जवलायामेकादशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्जवलायां प्रथमप्रश्ने तृतीयः पटलः ॥ ३ ॥ १. तथा इति नास्ति. क. पु. २ व. स्मृ. १३ ८. दिग्नादपर्वतनादकम्पप्रपातेषु, इति मुद्रितपुस्तकपाठः । निमित्तप्रादुर्भावादारभ्याऽन्येद्युर्यावत् स एव कालः स आकालः । तत्र भवमाकालिकम् । ३. मुद्रितयमस्मृतौ बृहद्यमस्मृतौ वा नेदं वचनमुपलभ्यते ।
अथ चतुर्थः पटलः ॥ तपः स्वाध्याय इति ब्राह्मणम् ॥ १ ॥ योऽयं नित्यस्वाध्यायस्तत्तपः कृच्छ्रातिकृच्छ्रचान्द्रायणादिलक्षणं तपो यावत्फलं साधयति तावत्साधयतीत्यर्थः ॥ १ ॥ तत्र श्रूयते(१)स यदि तिष्ठन्नासीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति ॥ २ ॥ तत्रैव ब्राह्मणे "स यदि तिष्ठन्नासीन' इत्यापत्कल्पः श्रूयते । तत्र (२) 'दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्याय' मित्यादिर्मु- ख्यः कल्पो(३) ब्राह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथञ्चिदा- सनार्थम् । सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः । मनुरप्याह— (४)आहैव स नखाग्रेभ्यः परमं तप्यते तपः । यस्स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥' इति । स्रग्वीति स्वैरं दर्शयति ॥ २ ॥ एवं कर्तृनियमो नाऽऽपद्यतीवाऽऽदरणीय इत्युक्त्वा कालेऽप्याह— अथापि वाजसनेयिब्राह्मणम् (५) ब्रह्मयज्ञो ह वा एष यत्स्वा- १. तै. आ. २. १२. अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपल भ्यते । किन्तु एवमनुमीयते—तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं “उत तिष्ठन्नत व्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्" इत्यंशं 'तप एव तत् तप्यते तपो हि स्वाध्या- यः' इति तत्रैव त्रयोदशानुवाकगतमंशं चाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति । २. तै. आ. २. ११ १ ३. तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः । ४. मनु. २. १६७. “यदि ह वा अप्य+यक्तोऽलंकृतस्सुहितस्सुखे शयने शयान. स्वाध्यायमधीत आहैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमधीते, तस्मात् स्वा ध्यायोऽध्येतव्य.” (मा शत. ब्रा ११. ५. ३. ) इति माध्यन्दिनशतपथब्राह्मणवाक्यमू- लेयं मानवी स्मृतिरिति भाति । ५. इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मणपंक्तिस्त्वियम्-“तस्य वा एतस्य ब्रह्म- यज्ञस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तनयति यदवस्फूर्जति तस्मादेवं- विद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय" इति ।
६८ आपस्तम्बधर्मसूत्रे [ (प.४.)क.१२. ध्यायतस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात् स्तन- यति विद्योतमानेऽवस्फूर्जति वाते वा वाय- त्यधीयीतैव वषट्काराणामच्छम्ब- ट्कारायेति ॥ ३ ॥ अथापि अपि च स्वाध्यायो नाम य एष ब्रह्मयज्ञ ब्रह्म वेदः तत्साधनो यागः। यथा दर्शपूर्णमासादयः पुरोडाशादिसाधनाः। हवैशब्दौ प्रसिद्धिं द्योतय- तः। तस्य यज्ञस्यैते वक्ष्यमाणाः स्तनयित्न्वादयो वषट्काराः वषट्कारस्थानी- याः। बहुवचननिर्देशात्(१) वषट्कारानुवषट्कारस्वाहाकारास्सर्वे प्रदा- नार्था गृह्यन्ते । (२)स्तनितं मेघशब्दः। विद्योतनं विद्युद्व्यापारः । अवस्फूर्जनम- शनिपातः। तत्र 'अवस्फूर्जथुर्लिङ्ग' मिति दर्शनात् । 'वायती' ति 'ओवै शोषण' इत्यस्य रूपम्। यथा आर्द्रप्रदेशश्शुष्को भवति तथा(३) वाती- त्यर्थः। यस्मादेते वषट्काराः तस्मात् स्तनादिष्वनध्यायनिमित्तेषु सत्स्वप्यधीयीतैव । न पुनरनध्याय इति नाधीयीत । किमर्थम् ? वषट्- काराणामेतेषामच्छम्बट्काराय अव्यर्थत्वाय । अन्यथा एते वषट्कारा व्यर्थास्स्युः । ततश्च(४) यथा होत्रा वषट्कृते अध्वर्युर्न जुहुयात् तादृ- गेव तत्स्यात् ॥ ३ ॥ तस्य शाखान्तरे वाक्यसमाप्तिः ॥ ४ ॥ तस्य वाजसनेयिब्राह्मणस्य । शाखान्तरे वाक्यसमाप्तिर्भवति, न (५)तावति पर्यवसानम् ॥ ४ ॥ १. वषट्कारः सर्वत्र यागादौ हविःप्रक्षेपात् पूर्वं हविःप्रक्षेपार्थमेव पठ्यमानया- ज्यायाः अन्ते पठ्यमानः “वौषट्” इति शब्दः । सोमयागे तत्तद्ग्रहहोमानन्तरं “सोम- स्याग्ने वीहि३ वौषट्” इति द्वितीयवारं पठ्यमानोऽनुवषट्कारः । स्वाहाकारस्तु प्रसिद्धः । २. स्तननं इति. ख. ग. पु. ३. वायतीत्यर्थः, इति क. पु. ४. दर्शपूर्णमासादियागेषु सर्वत्र हविःप्रदानसमये “अमुष्मा अनुब्रूहि” इति प्रैषानन्तर पुरोनुवाक्यामनूच्याऽऽश्राव्य प्रत्याश्राव्य याज्यामुक्त्वा वषट्कृते जुहोति” इति वचनात् वषट्कारानन्तर होमो विहितः। तत्र वषट्कारानन्तर होमाकरणे यादृशो दोषस्तादृशस्स्या- दित्यर्थः । ५. ‘तावतीति. नास्ति ख. पु.
नित्यस्वाध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६९ तदेव (१)शाखान्तरं पठति— अथ यदि वा वातो वाद्यात्स्तनयेद्वा विद्योतित वाऽवस्फू- र्जेदेकां वर्चमेकं वा यजुरेकं वा सामाऽभिव्याहरेद्भूभूर्भु- वस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो- हैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ५ ॥ अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकासृचमधीयीत । प्राप्ते प्रदेशे । यजु(२)र्वेदाध्ययन एकं यजुः । साम(३)वेदाध्ययन एक साम । सर्वेषु वा वेदेषु 'भूर्भुवः सुव' रित्यादिकं यजुरभिव्याहरेत्, न पुनर्य- थापूर्वं प्रश्नमात्रम् । तेनैव तावतैवास्याऽध्येतुः तदहः तस्मिन्नहनि स्वाध्याय उपात्तो भवति(४) अधीतो भवतीति यावत् । केचित्तु 'भूर्भुवः सुव' रित्या- दिक ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥ ५ ॥ कस्मात् पुनर्वाजसनेयिब्राह्मणस्योदाहृते शाखान्तरे वाक्यसमा- प्तिराश्रीयते न पुनर्यथाश्रुतमात्रं गृह्यते ? तत्राह— एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥ एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्ध भवति । इतरथा विप्रतिषिद्धं स्यात् ॥ ६ ॥ कथम् ? अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाज- सनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥ आर्या हि अध्यागमनध्यायं चोपद्दिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥ ७ ॥ ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह— आर्यसमयो ह्यगृह्यमाणकारणः ॥ ८ ॥ योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किञ्चित्कारणं गृह्यते । यथा(५) 'वैसर्जनहीमीयं वासोऽध्वर्यवे ददाती' त्यत्रागृह्यमाण १ किमिदं शाखान्तरमिति न ज्ञायते । २, ३. वेदाध्यायी इति क. पु. ४. स्वीकृतो भवति अधीतो भवतीत्यर्थ , इति. ख. पु ५. सोमयागे अग्नीषोमीयपश्वनुष्ठानकाले तदर्थ शालामुखीयादग्ने काचिदशमुद्धृत्य
७० आपस्तम्बधर्मसूत्रे [ (प.४)क. १२. कारणश्चार्यसमयः श्रुत्यनुमानद्वारेण प्रमाणम् । अतो वाक्यपरिसमा- प्तिरेव युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्या योपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्त्वमिति । सूत्रे 'अगृह्यमान कारण' इति णत्वाभावश्छान्दसः ॥ ८ ॥ का पुनरसौ स्मृतिः ? या ब्रह्मयज्ञेऽप्यनध्यायमुपदिशति । मानवे तावद्विपर्ययः श्रूयते- (१)'नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।' इति । सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः । तस्मात्ता- दृशी स्मृतिर्मृग्या । एवं तर्ह्यग्निहोत्रादिष्वपि मन्त्राणामनध्याय प्राप्नोति । नेत्याह- विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥ विद्या वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनर्मन्त्राणा कर्मयोगे । हेतुः परिभाषायामुक्तो(२)र्थान्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो मन्त्राणाम् (३)न पुनर्ग्रहणाध्ययनम् । पारायण।ध्ययनमध्येऽनध्यायागमो भवति वा न वेति चिन्त्यम् । एव श्रीरुद्रादिजपेऽपि ॥ ९ ॥ कथं पुनरार्यसमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञानं सम्भवति । तत्राह- ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते ॥ १० ॥ विधीयन्त इति विधयः कर्माणि । ते सर्वे स्मार्ता अपि ब्राह्मणेष्वे- तस्य उत्तरवेदिस्थाहवनीयकुण्डे स्थापनार्थं अध्वर्यौ गच्छति तं यजमानस्तत्पत्नीपुत्राद- योऽनुगच्छेयुः । गच्छतस्तानहतेन दीर्घतमेन वस्त्रेणोपर्याच्छाद्य सर्वेष्वाहवनीयदेश प्राप्तेषु तत्र तमग्निं प्रतिष्ठाप्य, आच्छादनवस्त्रान्तं स्रुग्दण्डे बध्वाऽऽज्येन जुहोति । ते वैसर्जनहोम। उच्यन्ते । तच्च वासः अध्वर्यवे दद्यात् इति प्रकृतवाक्यार्थं । स्मृतेरस्याः लोभादिमूलकत्व- मापाद्यातएवाप्रामाण्यमुक्त शबरस्वामिना । कुमारस्वामिना तु एव सति सर्वत्राऽनाश्वासप्र- सङ्गमापाद्य मन्वादिस्मृतिवत् प्रामाण्यमेवाङ्गीकृतम् । १. म. स्मृ. २. १०६. ब्रह्मसत्रं सततप्रवृत्तं सत्रम्, यथा सहस्रसंवत्सरादिकं सत्रं न कदाचिच्छिद्यते तद्वदिद नित्याध्ययनमित्यर्थः । २. आप. प १. ४०. ३. अनुष्ठेयार्थप्रकाशकतया इत्याधिक ख. ग, पु.
पञ्चमहायज्ञाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७१ वोक्ताः । नन्विदानीं ब्राह्मणानि नोपलभ्यन्ते । सत्यम्; तेषामुत्सन्नाः पाठाः, अध्येतृदौर्बल्यात् । कथं तर्हि तेषामस्तित्वम् ? प्रयोगादनुमीयन्ते । प्रयोगः स्मृतिनिबन्धनमनुष्ठानं च । तस्माद्ब्राह्मणान्यनुमीयन्ते मन्वादिभिरु- पलब्धानीति । (१) कथमन्यथा स्मरेयुरनुतिष्ठेयुर्वा । सम्भवति च तेषां वेदसंयोगः ॥ १० ॥ अथ प्रसङ्गादपस्मृतिरुच्यते- यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ॥११॥ यत्र(२)पितृष्वसृसुतामातुलसुतापरिणयनादौ । प्रीत्युपलब्धितः प्रवृत्तिर्न तत्रोत्सन्नपाठं शास्त्रमनुमीयते, प्रीतेरेव प्रवृत्तिहेतोः सम्भवात् ॥ ११ ॥ ततश्च- तदनुवर्तमानो नरकाय राध्यति ॥ १२ ॥ तद्विधानमनुतिष्ठन्नरकायैव राध्यति कल्पते ॥ १२ ॥ अथ ब्राह्मणोक्ता विधयः ॥ १३ ॥ एवं स्मृत्याचारप्राप्तानां श्रुतिमूलत्वमुक्तम् । (३) अथ प्रत्यक्षब्राह्मणोक्ता एव केचिद्विधयो व्याख्यायन्ते तेषामपि स्मार्तेष्वनुप्रवेशार्थम् । तेन तद्- तिक्रमे स्मार्तातिक्रमनिमित्तमेव प्रायश्चित्तं भवति ॥ १३ ॥ तेषां (४)महायज्ञा महासत्राणीति च संस्तुतिः ॥१४॥ तेषां वक्ष्यमाणानां महायज्ञा इति संस्तुतिः स्वाध्यायब्राह्मणे । महासत्रा- णीति च संस्तुतिर्भवति बृहदारण्यकादौ । संस्तुतिग्रहणेन संस्तुतिमात्र- मिदं न नामधेयं(५) धर्मातिदेशार्थमिति दर्शयति । तेन महायज्ञेषु सोम १. कथमपरथा इति ख. पु. २. 'पितृष्वसृसुता' इति नास्ति ख. ग. पु. ३ अथेदानीं इति ख. पु. ४ पञ्चैव महायज्ञाः तान्येव महासत्राणि (श. ब्रा. ११. ५.६.१ ) इति शतपथे । ५. कुण्डपायिनामयनाख्ये संवत्सरसाध्ये सत्रविशेषे "मासमग्निहोत्रं जुहोतीति" श्रुतोऽग्निहोत्रशब्दस्तत्रत्यस्य कर्मविशेषस्य गौण्या वृत्त्या नामधेय सन् प्रसिद्धाग्नि- होत्रात् धर्मातिदेशक इत्युक्तं पूर्वमीमांसायां सप्तमतृतीये । एव च क्वचित् नामत्वेनाभिधावृत्त्या प्रयुज्यमानस्य शब्दस्य प्रकरणान्तरेऽन्यत्र कर्मनामतया यदि श्रवणं, तदा न तत्र कर्मान्तरेऽपि तस्य शक्तिरङ्गीक्रियतेऽनेकार्थतादोषभिया । किन्तु प्रसिद्धतादृशकर्मनिष्ठगुणसमानगुणवत्वरूपां गौणी वृत्तिमाश्रित्य तद्वत्तात् तदीयधर्मातिदेशक- इति स्थितम् । प्रकृते तु न तथा । किन्तु स्तुतिमात्रमिति ।
७२ आपस्तम्बधर्मसूत्रे [ (प्र. ४) क. १३. यागेषु ये धर्माः 'न ज्येष्ठं भ्रातरमतीत्य सोमेन यष्टव्य' मित्यादयः, ये च महासत्रस्य गवामयनस्य धर्मा(१) इष्टप्रथमयज्ञानामधिकार' इत्या- दयः उभयेऽपि ते वक्ष्यमाणेषु पञ्चमहायज्ञेषु न भवन्ति ॥ १४ ॥ के पुनस्ते ? तानाह- (२)अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् ॥ १५ ॥ वैश्वदेवे वक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहर्भूतबलिर्देयः, एष भूतयज्ञः । मनुष्येभ्यश्च यथाशक्ति दान कर्तव्यम् । एष मनुष्ययज्ञः ॥ १५ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वादशी कण्डिका ॥ देवेभ्यः स्वाहाकार आ काष्ठात् पितृभ्यः स्वधाकार ओदपात्रात् स्वाध्याय इति ॥ १ ॥ देवेभ्यः स्वाहाकारेण प्रदानम् आकाष्ठात् अशनीयाभावे काष्ठमपि तावद्देयम् । वैश्वदेवोक्तप्रकारेणैवैष देवयज्ञः । केचिद्वैश्वदेवाहुतीभ्यः पृथग्भूतामिमामाहुतिं मन्यन्ते । 'देवेभ्यः स्वाहे' ति च मन्त्रमिच्छन्ति । 'देवयज्ञेन यक्ष्य' इति सङ्कल्पमिच्छन्ति । वयं तु न तथेति(३) गृह्य ए वाऽवोचाम । केचिदाहुः- 'आकाष्ठा' दिति वचनादशनीयाभावेन भोजन- लोपेऽपि यथाकथञ्चित् वैश्वदेवं कर्तव्यम्, पुरुषसंस्कारत्वादिति । १. इष्टप्रथमयज्ञैर्यष्टव्यम् इति. ख. पु. "आहिताग्नय इष्टप्रथमयज्ञाः गृहपतिसप्त- दशास्सत्रमासीरन्" इति सत्रेऽधिकारिनियमः । प्रथमयज्ञशब्देन सोमयाग उच्यतेऽग्नि- ष्टोमसंस्थाकः । पूर्वं कृताधानाः अनुष्ठिताग्निष्टोमसंस्थाकसोमयागाः द्वादशाहादिषु सत्रा- ख्येषु ज्योतिष्टोमविकृतिभूतेषु सोमयागेष्वधिकारिणः इति वाक्यार्थः ॥ तादृशानां निय- मानां तत्रोपेक्षा । अधीतवेदस्य सर्वस्याऽप्यत्राधिकार इति भावः ॥ २. "सूत्राणीमानि-शतपथब्राह्मणस्य काञ्चन प्रतिरूपतामनुभवन्ति” इयं हि शतपथी पंक्तिः-भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञः इति । अहरहर्भूतेभ्यो बलिं हरेत् । तथैतं भूतयज्ञं समाप्नोति, अहरहर्दद्यादोदपात्रात् तथैतं मनुष्ययज्ञं समाप्नोति, अहरहः स्वधा कुर्यादोदपात्रात् तथैतं पितृयज्ञं समाप्नोति, अहरहस्स्वाहा कुर्यादाकाष्ठात्तथैनं देवयज्ञं समाप्नोति । अथ ब्रह्मयज्ञः । स्वाध्यायो वै ब्रह्मयज्ञ. इति । ३. आपस्तम्बगृह्यसूत्रस्यानाकुलातात्पर्यदर्शनसहितस्य चौखम्बामुद्रणालयमुद्रितस्य पुस्तकस्य १०४ पृष्ठे द्रष्टव्यम् ।
पञ्चयज्ञादि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७३ अपरे तु-अशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं न कर्तव्यमिति स्थिताः । पितृभ्यः स्वधाकारेण प्रदानम् आउदपात्रात् अन्नाद्यभावे उदपात्रमपि स्वधाकारेण तावद्देयम् । पात्रग्रहणात् सह पात्रेण देयम् । एष पितृयज्ञः । स्वाध्याय·(१) ‘तस्य विधि’ रित्यारभ्योक्तो नित्यस्वाध्यायः । स तु ब्रह्मयज्ञः। इतिः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदेशक्रमोऽनुष्ठान उपयुज्यते । अनुष्ठानं तु—(२)ब्रह्मयज्ञो, देवयज्ञः, पितृयज्ञो, भूतयज्ञो, मनुष्ययज्ञ इति ॥ १ ॥ पूजां प्रसङ्गादाह— पूजा वर्णज्यायसां कार्या ॥ २ ॥ वर्णतो(३) ये ज्यायांसः प्रशस्ततरा भवन्ति तेषामवरेण वर्णेन कार्या पूजा अध्वन्यनुगमनादिका उत्सवादिषु च गन्धलेपादिका ॥ २ ॥ वृद्धतराणां च ॥ ३ ॥ सजातीनामपि पूजा कार्या । तरपो निर्देशात्(४) विद्यावयःकर्म- भिर्वृद्धानां ग्रहणम् । हीनानामपीत्येके । तथा च मनुः— (५)‘शूद्रोऽपि दशमीं गत’ इति ॥ ३ ॥ पूजा कार्येत्युक्तम् । तद्विरोधी हर्षो वर्ज्य इत्याह— हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरर्कः ॥ ४ ॥ अभिमतलाभादिनिमित्तश्चित्तविकारो हर्षः । तद्युक्तो हृष्टः । स द- र्पति तृप्यति । दर्पो गर्वोऽभिमानः । दृप्तो धर्ममतिक्रामति, पूज्यपूजनादिकं प्रति स्तब्धत्वात् । खलुपुनश्शब्दौ वाक्यालङ्कारे । धर्मातिक्रमे खलु पुनर्नरको भवति १. आ. ध. ११ २२. २ शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः. पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु ब्राह्मणोक्तेनैव क्रमेणानुष्ठानम् । च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः । ३. अत्र प्रथमान्तस्सर्वोऽप्येकवचनान्ततया पठ्यते क. पु. ४. वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदु त्तरम् ॥ इति मनूक्तैर्विद्यादिभिर्वृद्धानामित्यर्थः ॥ ५. म. स्मृ. २. १३७. दशमीं गतः नवत्यधिकां अवस्था गत इत्यर्थः । वर्षाणा शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति । आप० ध० १०
७४ आपस्तम्बधर्मसूत्रे [(प.४.)क.१३. निरयं प्रतिपद्यते । तस्माद्धर्मातिक्रममूलभूतो हर्षो न कर्तव्यः । यद्यपि भूतदाहीयेषु (१)दोषेषु वर्जनीयेषु हर्षोऽपि, (२)वक्ष्यते । तथापीह विशे- षेण हर्षस्य वर्जनार्थोऽयमारम्भः । योगाङ्गत्वाद्वक्ष्यमाणस्य ॥ ४ ॥ न समावृत्ते समादेशो विद्यते ॥ ५ ॥ समावृत्तं शिष्यं प्रति आचार्येण समादेशो न देयः-इदं त्वया कर्तव्य- मिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैव मिदानीम् । स्वेच्छया करणे न प्रतिषेध्यम् ॥ ५ ॥ ओङ्कारस्स्वर्गद्वारं तस्माद्ब्रह्माऽध्येष्यमाण एतदादि प्रतिपद्येत ॥ ६ ॥ ओङ्कारः प्रणवः स्वर्गस्य द्वारमिव । यथा द्वारेण गृहाभ्यन्तरं प्राप्य- ते तथाऽनेन स्वर्गः । तस्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अना- म्नातमप्योङ्कारमादौ कृत्वा प्रतिपद्येत उपक्रमेताऽध्येतुम् ॥ ६ ॥ विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ॥ ७ ॥ अध्ययने ऽनुपयुक्ता कथा विकथा । तां चान्यां कृत्वा एतदादि प्रति- पद्येत । एवं सति ब्रह्म वेदः लौकिक्या वाचा व्यावर्तते तया मिश्रितं न भवति ॥ ७ ॥ पुनरप्योङ्कारमेव स्तौति- यज्ञेषु चैतदादयः प्रसवाः ॥ ८ ॥ यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुज्ञा- वाक्यानि भवन्ति ब्रह्मादीनाम्—ॐ प्रणय, ॐ निर्वप, ॐ (३)स्तु- ध्वमिति ॥ ८ ॥ लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ॥ ९ ॥ यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु १. दोषेषु वर्जनीयेषु इति नास्ति ख. पु. २. आप ध. १. २३. ६. ३ सोमयागे उद्गातृप्रस्तोतृप्रतिहर्त्राह्वयान् छन्दोगान् प्रति गुणिनिष्ठगुणाभिधानरूप- स्तोत्रारम्भार्थमध्वर्युणाऽनुज्ञादानमिदम् ।
ॐकारप्रशंसा ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७५ एतदादीन्येव वाक्यानि स्युः । तान्युदाहरति—यथेति । पुण्याहवाचने ॐ कर्मणः पुण्याहं भवन्तो ब्रुवन्त्वि'ति वाचयिता वदति । (१)'ॐ पुण्या- हं कर्मणोऽस्तु' इति प्रतिवक्तारः । (२)'ॐ कर्मणे स्वस्ति भवन्तो ब्रुव न्तु' इति वाचयिता । 'ॐ कर्मणे स्वस्ति' इतीतरे । (३)'ॐ कर्मण ऋद्धिं भवन्तो ब्रुवन्तु' इति वाचयिता । 'ॐ कर्मर्ध्यता'मितीतरे । तस्मादेवं प्रशस्त ॐकार इति ॥ ९॥ नाऽसमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिसह- वचनमिति परिहाप्य ॥ १० ॥ समयः शुश्रूषा, तेन विना कृच्छ्रं दुःखं दुरवधारणं अपूर्वं ग्रन्थं न कुर्वीत । क्रियासामान्यवचनः करोतिरध्ययनेऽध्यापने च वर्तते । सम- येन विना शिष्योऽपि कृच्छ्रं ग्रन्थं नाऽधीयीत । आचार्योऽपि नाध्याप- येत् । तथा च मनुः— (४)'धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे' ॥ इति । किमविशेषेण ? नेत्याह—त्रिःश्रावण त्रिसहवचनमिति परिहाप्य वर्ज यित्वा । त्रिःश्रावणमात्रे त्रिसहवचनमात्रे चान्यतरापेक्षया क्रियमाणे शुश्रूषा नाऽपेक्ष्या । ततोऽधिके सर्वत्रापेक्ष्येति ॥ १० ॥ अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ॥११॥ विचिकित्सा संशयः । तदभावोऽविचिकित्सा सा यावदुत्पद्यते ताव- द्ब्रह्म निगन्तव्यं नियमपूर्वमधिगन्तव्यमिति हारीतः आचार्यो मन्यते । अत्र पक्षे त्रिःश्रावणत्रिसहवचनयोरपि शुश्रूषितव्यम् । ब्रह्मग्रहणाद- ङ्गेषु नायं विधिः ॥ ११ ॥ न बहिर्वेदे गतिर्विद्यते ॥ १२ ॥ वेदाद्बहिर्भूते काव्यनाटकादिश्रवणे । गतिः शुश्रूषा न विद्यते यद्यपि तदुपयुक्तं वेदार्थज्ञाने ॥ १२ ॥ समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् ॥१३॥ १. ॐ पुण्याहं इति क.पु. २. ॐ कर्मणे स्वस्ति इति वाचयिता इति क. पु. ३. ॐ कर्मण ऋद्धिं इति क. पु ४. म स्मृ. २ ११२
७६ आपस्तम्बधर्मसूत्रे [ (प.४.)क.१३. य आचार्येण समादिष्टोऽध्यापयति तं यावदध्ययनं यावदसावध्यापयते तावदुपसंगृह्णीयात् । तथा(१)‘समादिष्टेऽध्यापयती’त्यत्राऽऽचार्यदारवद्वृ- त्तिरुक्ता । तत्र (२)चा‘न्यत्रोपसङ्ग्रहणादि’ति वर्तते । (३)अत उपसङ्ग्रह- णार्थोऽयमारम्भः ॥ १३ ॥ नित्यमर्हन्तमित्येके ॥ १४ ॥ स चेत्समादिष्टोऽर्हन् भवति(४) विद्यासदाचारादिना । ततो नित्य मुपसंगृह्णीयात् , इत्येके मन्यन्ते । स्वमतं तु यावदध्ययनमिति ॥ १४ ॥ न गतिर्विद्यते ॥ १५ ॥ यद्यप्यसावर्हन् भवति तथाप्याचार्ये या गतिःशुश्रूषा सा तस्मिन्न कर्तव्या ॥ १५ ॥ वृद्धानां तु ॥ १६ ॥ तुशब्दार्थे । वृद्धाना चान्तेवासिनां न गतिर्विद्यते । पूर्ववयसाऽन्ते वासिना अवरवया आचार्यो न शुश्रूषितव्यः । अध्ययनादूर्ध्वमित्येके । अध्ययनकालेऽपीत्यन्ये । केचिदवरवयसाऽप्यन्तेवासिना न वार्धके गतिः कर्तव्येत्याहुः ॥ १६ ॥ ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते ॥ १७ ॥ ब्रह्मणि वेदविषये यदा मिथो विनियोगः क्रियते बह्वृचो यजुर्वेदिनः सकाशाद्यजुर्वेदमधीते सोऽपि तस्मादृग्वेदम् । तदाऽपि परस्परं शुश्रूषा न कर्तव्या ॥ १७ ॥ अत्र हेतुं स्वयमेवाह— ब्रह्म वर्धत इत्युपदिशन्ति ॥ १८ ॥ द्वयोरपि ब्रह्म वर्धते । सैव ब्रह्मवृद्धिः शुश्रूषेत्युपदिशन्त्याचार्याः ॥१८॥ निवेशे वृत्ते संवत्सरेसंवत्सरे द्वौद्वौ मासौ समाहित आचार्यकुले वसेद्भूयःश्रुतिमिच्छन्निति श्वेतकेतुः ॥ १९ ॥ भूयःश्रवणमिच्छन् पुरुषो निवेशे दारकर्मणि वृत्तेऽपि प्रतिसंवत्सरं द्वौद्वौ १. आप. ध १. ७ २८. २. आप ध १ ७ २७ ३. तत• इति क. पु ४. विद्यासदाचारादिना इति नास्ति ख. पु
मासौ समाहितो भूत्वाऽचार्यकुले वसेदिति श्वेतकेतुराचार्यों मन्यते ॥ १९ ॥ अत्र हेतुत्वेन श्वेतकेतोरेव शिष्यान्प्रति वचनम्— एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतम- कुर्वीति ॥ २० ॥ एतेनानन्तरोक्तेन योगेनोपायेन अहं पूर्वस्मात् ब्रह्मचर्यकालात् भूयः (१)बहुतरं श्रुतमकुर्वीति कृतवानस्मि । अतो यूयमपि तथा कुरुध्वमिति ॥ तच्छास्त्रैर्विप्रतिषिद्धम् ॥ २१ ॥ तदिदं श्वेतकेतोर्वचनं श्रुत्यादिभिः शास्त्रैर्विंरुद्धम् ॥ २१ ॥ कथमित्यत आह— निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते ॥ २२ ॥ हिशब्दो हेतौ । यस्मात् निवेशे वृत्ते नैयमिकानि नियमेन कर्तव्यानि नित्यानि कर्माणि श्रूयन्ते ॥ २२ ॥ ॥ इति त्रयोदशी कण्डिका ॥ कानि पुस्तकानि ? (२)अग्निहोत्रमतिथयो यच्चान्यदेवं युक्तम् ॥ १ ॥ अग्निहोत्रम्, अतिथयः अतिथिपूजा । (३)‘यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः ॥’ इति । यच्चान्यदेव युक्तं एवंविधं श्राद्धसन्ध्योपासनादि । एवमेतैः कर्मभि- रहरहराक्रान्तस्य न (४)शरीरकण्डूयनेष्वप्यवसरो भवति । स कथं १ अधिकतर इति ख पु २. अग्निहोत्रमतिथयः । यच्चान्यदेवं युक्तम् । इति सूत्रद्वयत्वेन परिगणितं ख. च. पुस्तकयोः । ३. वसि० स्मृ० ८. १६. वचनमिदं स्मृतिमुक्ताफले ‘दक्षः’--इत्यारभ्य पठितेषु वचनेषु मध्ये पठितम् । इदानीमुपलभ्यमानमुद्रितदक्षस्मृतिपुस्तके तु नोपलभ्यते । वसिष्ठ स्मृत्तावेवोपलभ्यते । ४. शिरःकण्डूयने इति ख पु.
द्वाङ्खौ मासौ गुरुकुले वसेदिति ॥ १ ॥ अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ॥ २ ॥ यमाचार्यं माणवकोऽध्ययनं प्रयोजनमुद्दिश्य चोदयेत्-'शिष्यस्तेऽह शाधि मां त्वां प्रपन्न'मिति, स एनं माणवकं नैव प्रत्याचक्षीत। चशब्दो- ऽवधारणे ॥ २ ॥ किमविशेषेण ? नेत्याह- न चास्मिन् दोषं पश्येत् ॥ ३ ॥ चणिति निपातोऽस्ति-(१)'निपातैर्यद्यदिहन्तकुविन्नेच्चच्चेच्चणकच्चि- द्यत्रयुक्त'मिति। स चेदर्थे वर्तते। (२)'इन्द्रश्च मृडयाति न' इत्यादौ दर्शनात्। तस्यायं प्रयोगः-न चेदस्मिन् माणवके दोषमनध्याप्यताहेतुं पश्येत् ॥ ३ ॥ यदृच्छायामंसंवृत्तौ गतिरेव तस्मिन् ॥ ४ ॥ समानमधीयानेषु माणवकेषु यदि कस्यचिद्यदृच्छया दृष्टहेतुम- न्तरेण बुद्धिमान्द्यादिनाऽध्ययनस्या (३)संवृत्तिस्स्यात् अधीतो भागो माणवकान्तरवन्नागच्छेत् तदा तस्यां यदृच्छायामंसंवृत्तौ तस्मिन्नाचार्ये गतिरेव शुश्रूषैव माणवकस्य शरणम् । तथा च मनुः-- (४)'यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥' इति । अधिकं शुश्रूषितो हि गुरुस्सर्वात्मना त शिक्षयेदिति ॥ ४ ॥ मातरि पित्र्याचार्यवच्छुश्रूषा ॥ ५ ॥ मातृग्रहणेन पितामहीप्रपितामह्योरपि ग्रहणम् । पितृग्रहणेन पि- तामहप्रपितामहयोः । सर्वे एते आचार्यवच्छुश्रूषितव्याः ॥ ५ ॥ समावृत्तेन सर्वे गुरव उपसङ्ग्राह्याः ॥ ६ ॥ उक्ताश्चानुक्ताश्च ज्येष्ठभ्रातृमातुलादयः सर्वे गुरव समावृत्तेनाहरहरुपसंग्राह्याः ॥ प्रोष्य च समागमे ॥ ७ ॥ १. पा० सू० ८. ३. १०. २. ऋ. सं २. ४१ ११. ३. समावृत्तिः इति क. पु. ४ म स्मृ २ २१८
अभिवाद्याः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७९ यदि स्वयं प्रोष्य समागतो भवति । गुरवो वा प्रोष्य समागताः । तदापि ते उपसङ्ग्राह्याः ॥ ७ ॥ भ्रातृषु भगिनीषु च यथापूर्वमुपसङ्ग्रहणम् ॥ ८ ॥ पूर्वेणैव सिद्धे क्रमार्थं वचनम्-यथापूर्वं ज्येष्ठक्रमेणेति ॥ ८ ॥ नित्या च पूजा यथोपदेशम् ॥ ९ ॥ (१)‘पूजा वर्णज्यायसां कार्या, वृद्धतराणां चे’त्युपदेशानुरोधेन या नित्या पूजा सा यथापूर्वं वृद्धक्रमेण ॥ ९ ॥ ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाऽभिवदेत् ॥ १० ॥ (२)‘त्रिवर्षपूर्व. श्रोत्रियोऽभिवादनमर्हती’ति वक्ष्यति । तेनावरवयस ऋत्विगादयोऽप्यभिवाद्यन्ते । तानभिवाद्यमानान् प्रत्युत्थायाऽभिव देत् । नान्येष्विव सुखमासीनोऽभिवदति । वयस्त उत्कृष्ठानां तेषामिय मेव पूजा ॥ १० ॥ तूष्णीं वोपसंगृह्णीयात् ॥ ११ ॥ अथवा प्रत्युत्थाय स्वयमपि तांस्तूष्णीमुपसङ्गृह्णीयात् । विद्याचारित्राद्य पेक्षो विकल्पः ॥ ११ ॥ अथाभिवाद्या उच्यन्ते— दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमर्हति ॥ १२ ॥ पुरेभवं पौरम् । पौरं च तत्सख्यं च पौरसख्यं सेवादिनिबन्धनं बा- न्धवं तदभिवादनस्य निमित्तम् । कीदृशम् ? दशवर्षान्तरालं, दशवर्षा- धिकः पौरस्सखा अश्रोत्रियोऽप्याभिवाद्य इति विवक्षितम् । पञ्चवर्षं तु चारणम् । सख्यमित्युपसमस्तमप्यपेक्षते । चारणशब्दः शाखाध्यायिषु रूढः । तेषां सख्यं पञ्चवर्षमभिवादनस्य निमित्तम् । (३)श्रोत्रियं वक्ष्यति । त्रिवर्षपूर्वः श्रोतियोऽभिवादनमर्हति । स त्रिवर्षपूर्वतामात्रेणाभिवादनमर्हति, न पूर्वसंस्तवमपेक्षते ॥ १२ ॥ १. आप. ध. १, १३ २, ३ २. आप. ध. १ १४. १३ ३ आप ध. २. ६. ४.
८० आपस्तम्बधर्मसूत्रे [ (प.४)क. १४. ज्ञायमाने वयोविशेषे वृद्धतरायाऽभिवाद्यम् ॥ १३ ॥ क्रमार्थमिदम्(१) वयोविशेषे ज्ञायमाने पूर्वं वृद्धतरायाऽभिवाद्यम् अभिवादनं कर्तव्यम् । पश्चाद्वृद्धायेति ॥ १३ ॥ विषमगतायाऽगुरवे नाभिवाद्यम् ॥ १४ ॥ उच्चैःस्थाने नीचैःस्थाने वाऽवस्थितो विषमगतः । तस्मै गुरुव्यति- रिक्ताय नाभिवाद्यम् । गुरवे त्वभिवाद्यमेव, दर्शने सति तूष्णीमवस्थान- स्याऽयुक्तत्वात् ॥ १४ ॥ अन्वारुह्य चाभिवादयीत ॥ १५ ॥ इदमगुरुविषयम् । यत्रासावभिवादनीयः स्थितः तत्रान्वारुह्याभिवाद- यीताऽभिवदेत् । अन्ववरुह्येत्यापे द्रष्टव्यम , न्यायस्य तुल्यत्वात् । गुरौ तु दृष्टमात्र एवाभिवादनमित्युक्तम् ॥ १५ ॥ सर्वत्र तु प्रत्युत्थायाभिवादनम् ॥ १६ ॥ सर्वत्र गुरावगुरौ च प्रत्युत्थायैवाभिवादनं कर्तव्यम् ॥ १६ ॥ उत्तरे द्वे सूत्रे निगदसिद्धे ॥ (२)अप्रयतेन नाभिवाद्यं, तथाऽप्रयताया,ऽप्र यतश्च न प्रत्यभिवदेत् ॥ १७ ॥ यद्यज्ञानादप्रयताय कश्चिदभिवादयेत् तथापि सोऽप्रयतो न प्रत्य- भिवदेत् ॥ १७ ॥ पतिवयसः स्त्रियः ॥ १८ ॥ पत्युर्यद्वयस्तदेव स्त्रीणां वयः । तेन तदनुरोधेन ज्येष्ठभार्यादिष्व- भिवादनम् ॥ १८ ॥ न सोपानद्वेष्टितशिरा अवहितपाणिर्वा- भिवादयीत ॥ १९ ॥ अवहितपाणिः समिध्रुशादिहस्तः, दात्रादिहस्तो वा । अन्यत्प्रसिद्धम्॥ सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च(३) न नाम्ना ॥ २० ॥ १. 'वचन'मित्यधिक ख. पु. २. इद सूत्रं त्रिधा विभक्त ख. च. पु. ३. 'न नाम्ना' इति पृथक् सूत्रं कृतं क. पु
कुशलप्रश्न. ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८१ स्त्रिय सर्वनाम्नैवाभिवादयीत अभिवादयेऽहमिति न नाम्ना(१) ऽसाधा- रणेन देवदत्तोऽहमभिवादय इति । एवं राजन्यवैश्यौ च ॥ २० ॥ मातरमाचार्यदारं चेत्येके ॥ २१ ॥ मातरमाचार्यदारं चेते अपि द्वे सर्वनाम्नैवाऽभिवादयीत । न नाम्ना भिवादयीतेत्येके मन्यन्ते । स्वमतं तु नाम्नैवेति ॥ २१ ॥ वयोविशेषेणाभिवादनं हीनवर्णै नास्तीत्याह— दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता ॥ शिष्यं प्रत्याचार्यस्याऽयमुपदेशः । स्मशब्दः श्लोकपूरणो निपातः । ब्राह्मणः क्षत्रिय इत्युपलक्षणमुत्तमाधमवर्णानाम् । विद्धि जानीहि । (२)शिष्टं स्पष्टम् ॥२२ ॥ कुशलमवरवयसं वयस्यं वा पृच्छेत् ॥ २३ ॥ ब्राह्मणविषयमिदम् । (३)क्षत्रियादिषु विशेषस्य वक्ष्यमाणत्वात् । वयसा तुल्यो वयस्यः । अवरवयस वयस्य वा ब्राह्मणं पथ्यादिषु सङ्गतं कुशलं पृच्छेत्—'अपि कुशल'मिति ॥ २३ ॥ अनामयं क्षत्रियम् ॥ २४ ॥ पृच्छेत् 'अप्यनामयं भवत' इति । आमयो रोगः तदभावोऽनामयम् ॥ अनष्टं वैश्यम् ॥ २५ ॥ 'अप्यनष्टपशुधनोऽसी'ति ॥ २५ ॥ आरोग्यं शूद्रम् ॥ २६ ॥ शूद्रमारोग्यं पृच्छेत्—'अप्यरोगो भवा'निति ॥ २६ ॥ नाऽसम्भाष्य श्रोत्रियं व्यतिव्रजेत् ॥ २७ ॥ श्रोत्रियं पथि सङ्गतमसम्भाष्य न व्यतिव्रजेत न व्यतिक्रामेत् ॥ २७ ॥ १. असाधारणेन 'देवदत्तोऽहमभिवादये' इति क पुस्तके नास्ति । २. 'स्पष्टमन्य'दिति क. ख. च. पु. ३ इतरेषु इति क. पु. आप० ध० ११
८२ आपस्तम्बधर्मसूत्रे [(प्र.४.)क.१४. अरण्ये च स्त्रियम् ॥ २८ ॥ अरण्यग्रहणं (१)सभयस्य देशस्योपलक्षणम् । तत्र स्त्रियमेकाकि- नीं दृष्ट्वा असम्भाष्य न व्यतिव्रजेत् । सम्भाषणं च मातृवद्भगिनी- वच्च-‘भगिनि किं ते करवाणि न भेतव्यम्’ इति ॥ २८ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ चतुर्दशी काण्डका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने चतुर्थः पटलः ॥ ४ ॥ १ सहायरहितस्य' इति पाठान्तरम् । इति ख पुस्तकटिप्पण्याम् ।