आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
९० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
सदस्यं सप्तदशं कौषीतकिनः समामनन्ति ॥ ५ ॥
कौषीतकिनः शाखाविशेषाध्यायिनः, ते सदस्यं सप्तदशमृत्विजं समामनन्ति । सप्तदशग्रहणं नियमार्थं, कथम्, एक एव सदस्यः स्याद् इति 'प्रयन्तु सदस्यानामि'ति प्रैषे बहुवचननिर्देशादनेकसदस्या उक्ताः ॥ ५ ॥
तस्य व्यापारमाह —
स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति ॥ ६ ॥
सदस्योऽभिष्टूयते ततश्च सदस्यसद्भावः तस्योपद्रष्टृत्वं च प्रतिपादितं भवति ॥ ६ ॥
होतारमेव प्रथमं वृणीते ॥ ७ ॥
पूर्वं 'ब्रह्माणमेव प्रथममि'त्युक्तम् । इदानीं होतारं प्रथममित्युच्यते । तदनयोर्होतृब्रह्मणोः प्राप्तयोर्विकल्पः । अपर आह — यदा चतुर्णां वरणं तदा ब्रह्मण एव प्रथमं, यदा सर्वेषां तदा होतुरेवेति व्यवस्थितो विकल्प इति ॥ ७ ॥
वरणे मन्त्रानाह —
अग्निर्मे होता स मे होता होतारं त्वामुं वृण इति होतारम् ॥ ८ ॥
होत्रधिकारे पुनः होतृग्रहणं यदा द्वितीयं होतारं वृणीते तदाप्ययं मन्त्रो यथा स्यादिति । अन्यथा प्रथमं व्रियमाणे समाम्नानान्न स्यात् । अमुमिति सर्वनामस्थाने व्रियमाणस्य नामनिर्देशो द्वितीयाया होतारं त्वा यज्ञशर्माणमिति ॥ ८ ॥
विंशः खण्डः] अनाविलोपेतम् । ९१
चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणम् ॥ ९ ॥
अयं ब्रह्मणो वरणमन्त्रः। उत्तरेषामपि प्रदर्शनार्थं कृत्स्नं पठितम् ॥ ९ ॥
आदित्यो मेऽध्वर्युरित्यध्वर्युम् । पर्जन्यो म उद्गातेत्युद्गातारम् । आपो मे होत्राशंसिन्य इति होत्रकान् । रश्मयो मे चमसाध्वर्यव इति चमसाध्वर्यून् । आकाशो मे सदस्य इति सदस्यम् ॥ १० ॥
आदित्यो मेऽध्वर्युः स मेऽध्वर्युरध्वर्युं त्वामुं वृणे । पर्जन्यो म उद्गाता स म उद्गातोद्गातारं त्वामुं वृणे । आपो मे होत्राशंसिन्यस्ता मे होत्राशंसिन्यो होत्राशंसिनीर्वोऽमूर्वृणे । रश्मयो मे चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यून् वोऽमून् वृणे । आकाशो मे सदस्यः स मे सदस्यः सदस्यं त्वामुं वृणे इतीतरेषां वरणमन्त्राः ॥ १० ॥
स वृतो जपेन् महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति ॥
वृत इति वचनात् सर्वस्य वृतस्य जपो भवति, नानन्तरस्यैव सदस्यस्य । सग्रहणं जपस्य वरणस्य चानन्तर्यार्थम् । अन्यथा सर्वान्ते जपस्योपदेशात् सदस्यवरणानन्तरमेव सर्वे जपेयुः । सग्रहणात्तु वरणानन्तरमेव जपो भवति ॥ ११ ॥
जपित्वाभिष्टे होता स ते होताहं ते मानुष इति होता प्रतिजानीते ॥ १२ ॥
| ९२ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
प्रतिज्ञानमभ्युपगमः । जपे प्रकृते पुनर्जपित्वेति वचनं कथम् । अन्यमपि जपं जपित्वैव प्रतिजानीत इत्येवमर्थम् । कः पुनरसौ । 'तन्मावतु तन्मा विशतु तेन भुक्षिषीये'त्येषः । कस्मात् पुनः सोऽपि जप इहैव न पठ्यते । कारणमुत्तरत्र वक्ष्यामः ॥ १२ ॥
चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ॥ १३ ॥
अहं ते मानुष इत्यनुषज्यते । प्रतिजानीत इत्येव ॥
एवमितरे यथादेशम् ॥ १४ ॥
अध्वर्य्वादयो यथादेशं येन प्रकारेण वरण आदेशनं कृतं तदनुरूपं प्रतिजानते । तद्यथा — आदित्यस्तेऽध्वर्युः स तेऽध्वर्युंरहं ते मानुषः, पर्जन्यस्त उद्गाता स त उद्गाताहं ते मानुषः, आपस्ते होत्राशंसिन्यस्तास्ते होत्राशंसिन्यो वयं ते मानुषाः, अहं ते मानुषः इति वा प्रत्येकम्, रश्मयस्ते चमसाध्वर्यवस्ते ते चमसाध्वर्यवो वयं ते मानुषाः, आकाशस्ते सदस्यः स ते सदस्योऽहं ते मानुष इति ॥ १४ ॥
तन्मावतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् ॥ १५ ॥
यो याजयिष्यन् भवति स एवं जपित्वा प्रतिजानीते । प्रत्याचक्षाणस्तु नेत्येवमर्थं याजयिष्यन्निति वचनम् । प्रत्याख्यानविषयावतरणार्थं चैतत् । अपर आह — याजयिष्यत एवायं जपशेषः पूर्वस्त्वयाजयिष्यतोऽपीति । अस्ति
विंशः खण्डः] अनाविstepलोपेतम् । ९१
पुनः कश्चिदयाजयिष्यन्नपि वृतः, अस्तीत्याह, यथा चमसा- ध्वर्यवः । अथ तेऽपि होमसंयोगाद् याजयिष्यन्तो भवन्ति । एवमप्याधाने ये व्रियन्ते ते याजयिष्यन्तो न भवन्ति तत्र यागाभावात् । इष्टयस्तु पृथग्भूताः, न तदङ्गं तद्वरणम् । तेन ते याजयिष्यन्तो न भवन्तीति य एवमाहुः ते सोमया- गादन्यत्रापि मन्त्रवन्नियमवद्वरणमिच्छन्ति । तेषां तत्र मधु- पर्कोऽपि प्राप्नोति । न चैव क्वचिदप्यनुष्ठीयते । येऽहीनैनैका- हैर्याजयन्तीति च पुरस्तादुक्तम् । तस्माद् यथा वयमवोचाम तथैव युक्तम् । कस्मात् पुनरयं जपशेषस्तत्रैव नोक्तः । सर्व- शेषत्वात् । सर्वेषां ह्ययं साधारणः शेषः पूर्वोऽशो भिद्यते ॥
न्यस्तमार्त्विज्यमकार्यम् ॥ १६ ॥
न्यस्तमन्यस्मै दत्तं प्रतिश्रुतं वा । अपित्रा तेन त्य- क्तमित्यन्ये । एवम्भूतमात्विज्यं न कर्तव्यम् ॥ १६ ॥
अहीनस्य ॥ १७ ॥
आर्त्विज्यमकार्यमित्येव । श्रूयते च 'तस्माद् द्वाद- शाहेन न याज्यमि'ति । नचैवमहीनानामुपदेशानर्थक्यं व्रा- त्यस्तोमादिवदतिक्रान्तनिषेधानामप्यृत्विजां सम्भवात् ॥ १७॥
नीचदक्षिणस्य ॥ १८ ॥
नीचाल्पीयसी दक्षिणा यस्य । बहुवित्तस्यापि सतः तस्यार्त्विज्यमकार्यम् । क्रतुस्तु यो वा को वा भवतु । अन्ये त्वहीनस्य नीचदक्षिणस्येत्येकमेव विषयं मन्यन्ते । नीचद-
९४ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः
क्षिणस्याहीनस्यार्त्विज्यं न कार्यं, बहुदक्षिणस्य तु कार्यमे- वेति । श्रूयते च ‘ददतं वैते तमयाजयंस्तस्माद्ददृक्षाज्य’ इति ॥ १८ ॥
व्याधितस्यातुरस्य यक्ष्मगृहीतस्य अनुदेश्या- भिशस्तस्य क्षिप्तयोनेरिति चैतेषाम् ॥ १९ ॥
व्याधितो ज्वरादिगृहीतः । आतुरोऽलसः । यक्ष्मगृ- हीतः क्षयरोगी । प्राधान्यादस्य पृथग्ग्रहणमवश्यं वर्जना- र्थम् । अनुदेश्यः समीपवर्ती तेन योऽभिशस्यते तथ्यमतथ्यं वा दुष्कर्मायमिति । यस्य माता व्यभिचारिणी स क्षिप्त- योनिः । इति चैतेषाम् अन्येषामप्येवंप्रकाराणामार्त्विज्यं न कर्तव्यम् ॥ १९ ॥
सोमप्रवाकं परिपृच्छेत् को यज्ञः क ऋत्विजः का दक्षिणेति ॥ २० ॥
सोमं यः प्रथमं वक्ति असौ सोमेन यक्ष्यते स होता- रं वृणीत इति स सोमप्रवाकः । कर्मण्यण् । न्यङ्कादिषु- दर्शनात् कुत्वम् ॥ २० ॥
कल्याणैः सह सम्प्रयोगः ॥ २१ ॥
याज्यो यज्ञ ऋत्विजो दक्षिणाश्च यत्र कल्याणाः तत्र कर्म कर्तव्यमिति ॥ २१ ॥
न मांसमश्नीयुर्न स्त्रियमुपेयुरा क्रतोरपवर्गात् ॥ २२ ॥
क्रत्वादेः प्रभृत्या समाप्तेरेतौ नियमौ भवतः ऋत्वि- जाम् ॥ २२ ॥
एकविंशः खण्डः] अनाविलोपेतम् । ९५
एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्या- हुतिं हुत्वा यथार्थं प्रव्रजेत् ॥ २३ ॥
य आर्त्विज्यं करोति तस्य तत्समाप्ताविदं नैमित्ति- कमुच्यते । एतेनाग्ने इत्यृचा दक्षिणाग्नावाज्यहुतिं जुहुयात् ततो यथार्थं प्रव्रजेत् । देशान्तरगमनमांसाशनादिकमस्य न प्रतिषिध्यते । पूर्वं तु प्रतिषिध्यत इति ॥ २३ ॥
एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो न इत्येतयर्चा ॥ २४ ॥
हुत्वा यथार्थं प्रव्रजेदिति वर्तते । अनाहिताग्नेरार्त्वि- ज्यं कृतवत ऋगग्निश्च भिद्यते । अन्यत् समानम् । पाद- ग्रहणादेव सिद्धे ऋचेति वचनं विस्पष्टार्थम् । ऋत्विग्भ्यो म- धुपर्को देय इति वक्ष्यते । तत्र के त ऋत्विज इत्यपेक्षामपने- तुमिहर्त्विग्वरणमाम्नातम् ॥ २४ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये विंशः खण्डः ।
अथैकविंशः खण्डः ।
ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥
दद्यात् । वृत्वेति वचनाद् वरणानन्तरमेव ऋत्विजां मधुपर्कः, न प्रत्यहम् ॥ १ ॥
स्नातकायोपस्थिताय ॥ २ ॥
स्नातकः कृतसमावर्तनः । तस्मै उपस्थिताय गुरु- कुलादागताय मधुपर्कमाहरेत् । तत्र मनुः—
९६ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः
“^१तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”
इति ॥ २ ॥
राज्ञे च ॥ ३ ॥
मधुपर्कमाहरेदित्येव । अविशेषवचनात् प्रत्यागमनं राज्ञे मधुपर्कः ॥ ३ ॥
आचार्य्यश्वशुरपितृव्यमातुलानां च ॥ ४ ॥
चतुर्थ्यर्थे षष्ठी । एतेभ्यः प्रतिसंवत्सरमुपतिष्ठद्भ्यो देयः । यथाहोपस्तम्बः— ‘आचार्यायार्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत् कार्यम् । ‘सकृत् प्रव्रजे ^२चित्राये’ति ॥ ४ ॥
दधनि मध्वानीय सर्पिर्वा मध्वलाभे ॥ ५ ॥
मधुपर्कमाहरेदिति सम्बध्यते । आनयनं निषेचनम् । दधनि मध्वानीय मध्वलाभे वा सर्पिः । स एष मधुपर्कः । मध्वलाभ इति वचनान्न तुल्यविकल्पः ॥ ५ ॥
विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते ॥ ६ ॥
विष्टर आसनम् । पादार्थमुदकं पाद्यम् । अर्घार्थमर्घ्यम् । आचमनार्थमाचमनीयम् । मधुपर्क उक्तः । गौः स्त्रीगवी । आपस्तम्बगृह्ये दर्शनाद्, ‘गौरिति गां प्राहै तां स उत्तरेण यजुषे’ ^४ति ‘गौर्धेनुभव्ये’ति च मन्त्रे स्त्रीलिङ्गदर्शनात् । एतेषां द्रव्याणां
१. ‘तत्प्रती’ ख. पाठः.
२. ‘पितृव्याये’ क. ख. ग. पाठः.
३. ‘ह’ ग. पाठः.
४. ‘ति मन्त्रलिङ्गाच्च ए’ ख. पाठः.
एकविंशः खण्डः] अनाविलोपेताम् । ९७
मध्ये एकैकं द्रव्यं मधुपर्क्याय त्रिस्रिनिवेदयन्ते । के, दातारः तत्परिचारका वा । तेषां च निवेदनं तत्रावसरे क्रमेण । एतेषामिति वचनमेवंजातीयानां गन्धादीनां मा भूदिति ॥ ६ ।
एवं दातुः कर्तव्यमुक्तम्, मधुपर्क्यस्य कर्तव्यमाह —
अहं वर्ष्म सजातानां विद्युतामिव सूर्यः। इदं तंमाधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत् ॥ ७ ॥
विष्टरो विष्टरो विष्टर इति त्रिरुक्त्वा उदगग्रं विष्टरं निदधाति दाता । स च दर्भमयं कूर्चम् । तस्मिन्नुपविशेत् प्रतिग्रहीता अहं वर्ष्मेति मन्त्रेण ॥ ७ ॥
आक्रम्य वा पादौ प्रक्षालापयीत ॥ ८ ॥
अथवा नोपविशेत्, पादाभ्यां विष्टरमाक्रम्य पाद्योः प्रक्षालनं कारयेत् । प्रक्षालापयीतेति रूपसिद्धिश्चिन्त्या ॥ ८ ॥
दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥ ९ ॥
यदा ब्राह्मणः प्रक्षालयिता तदा तस्मै दक्षिणं पादं पूर्वं प्रयच्छेत्, ततः सव्यम् ॥ ९ ॥
सव्यं शूद्राय ॥ १० ॥
पूर्वोक्तविपरीतम् । क्षत्रियवैश्ययोर्यथारुचि ॥ १० ॥
प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्णात्याचमनीयेनाचामत्यमृतोपस्तरणमसीति ॥ ११ ॥
उपदेशक्रमादेव सिद्धे प्रक्षालितपादग्रहणमानन्तर्यार्थम् । तेन गन्धमाल्यादीनामर्हणाद्रव्याणां पश्चात् प्रवृत्तिः ।
१. 'ते', २. 'त्व' क. ख. ङ. पाठः. ३. 'नान्वाचा' क. पाठः.
| ९१ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
“तं १ प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”
इति ॥ २ ॥
राज्ञे च ॥ ३ ॥
मधुपर्कमाहरेदित्येव । अविशेषवचनात् प्रत्यागमनं राज्ञे मधुपर्कः ॥ ३ ॥
आचार्यश्वशुरपितृव्यमातुलानां च ॥ ४ ॥
चतुर्थ्यर्थे षष्ठी । एतेभ्यः प्रतिसंवत्सरमुपतिष्ठद्भ्यो देयः । यथाहापस्तम्बः— 'आचार्यार्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत् कार्यम् । 'सकृत् प्रव्रजे २ चित्राये'ति ३ ॥ ४ ॥
दधनि मध्वानीय सर्पिर्वा मध्वलाभे ॥ ५ ॥
मधुपर्कमाहरेदिति सम्बध्यते । आनयनं निषेचनम् । दधनि मध्वानीय मध्वलाभे वा सर्पिः । स एष मधुपर्कः । मध्वलाभ इति वचनान्न तुल्यविकल्पः ॥ ५ ॥
विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्ये-
तेषां त्रिस्त्रिरैकैकं वेदयन्ते ॥ ६ ॥
विष्टर आसनम् । पादार्थमुदकं पाद्यम् । अर्घार्थमर्घ्यम् । आचमनार्थमाचमनीयम् । मधुपर्क उक्तः । गौः स्त्रीगवी । आपस्तम्बगृह्ये दर्शनाद्, 'गौरिति गां प्राह तां स उत्तरेण यजुषे' ति ४ 'गौर्धेनुभव्ये'ति च मन्त्रे स्त्रीलिङ्गदर्शनात् । एतेषां द्रव्याणां
१. 'तत्प्रती' ख. पाठः.
२. 'पितृव्याये' क. ख. ग. पाठः.
३. 'ह' ग. पाठः.
४. 'ति मन्त्रलिङ्गाच्च ए' ख. पाठः.
एकविंशः खण्डः] अनाविलोपेताम् । ९७
मध्ये एकैकं द्रव्यं मधुपर्काय त्रिस्त्रिर्निवेद्यन्ते । के, दातारः तत्परिचारका वा । तेषां च निवेदनं तत्रावसरे क्रमेण । एतेषामिति वचनमेवंजातीयानां गन्धादीनां मा भूदिति ॥ ६ ॥
एवं दातुः कर्तव्यमुक्तम्, मधुपर्क्यस्य कर्तव्यमाह —
अहं वर्ष्म सजातानां विद्युतामिव सूर्यः। इदं तैमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत् ॥ ७ ॥
विष्टरो विष्टरो विष्टर इति त्रिरुक्त्वा उदगग्रं विष्टरं निदधाति दाता । स च दर्भमयं कूर्चम् । तस्मिन्नुपविशेत् प्रतिग्रहीता अहं वर्ष्मेति मन्त्रेण ॥ ७ ॥
आक्रम्य वा पादौ प्रक्षालापयीत ॥ ८ ॥
अथवा नोपविशेत्, पादाभ्यां विष्टरमाक्रम्य पादयोः प्रक्षालनं कारयेत् । प्रक्षालापयीतेति रूपसिद्धिर्चिन्त्या ॥ ८ ॥
दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥ ९ ॥
यदा ब्राह्मणः प्रक्षालयिता तदा तस्मै दक्षिणं पादं पूर्वं प्रयच्छेत्, ततः सव्यम् ॥ ९ ॥
सव्यं शूद्राय ॥ १० ॥
पूर्वोक्तविपरीतम् । क्षत्रियवैश्ययोर्यथारुचि ॥ १० ॥
प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्याथाचमनीयेनौचामत्यमृतोपस्तरणमसीति ॥ ११ ॥
उपदेशक्रमादेव सिद्धे प्रक्षालितपादग्रहणमानन्तर्यार्थम् । तेन गन्धमाल्यादीनामर्हणाद्रव्याणां पश्चात् प्रवृत्तिः ।
१. 'ते', २. 'त्व' क. ख. ङ. पाठः. ३. 'नान्वाचा' क. पाठः.
९८ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः
अर्घ्यमञ्जलिना प्रतिगृह्य एतावानर्घ्योपयोगः । केचित् मुखप्रक्षालनमिच्छन्ति । अथशब्दाद् गन्धादीनामुत्कर्षः । आचमनीयैनाचामति आचमनयिमुदकं सकृत् पिबति अमृतोपस्तरणमसीति मन्त्रेण । तत्रान्यच्छौचार्थं विधिवदाचमनं प्रवर्तते । नेत्यन्ये, यथा भोजनोपक्रमे न भवति एवमन्यत्रापीति । ज्ञापकं चात्र वक्ष्यामः ॥ ११ ॥
मधुपर्कमाह्रियमाणमीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ॥ १२ ॥
मधुपर्कमाहरति दाता । तमाह्रियमाणमीक्षते प्रतिग्रहीता मित्रस्य त्वेत्यनेन ॥ १२ ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तमञ्जलिना प्रतिगृह्य मधु वाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण छन्दसा भक्षयन्विति पुरस्तान्निमार्ष्टि ॥ १३ ॥
तं मधुपर्कमञ्जलिना प्रतिगृह्णाति देवस्य त्वेति मन्त्रेण । ततो मधु वाता इति तृचेनावेक्षते । ततोऽनामिकया उपकनिष्ठिकयाङ्गुल्याङ्गुष्ठेन च त्रिः प्रदक्षिणमालोडयति । आलोड्य वसवस्त्वेति मन्त्रेण पुरस्तान्निमार्ष्टि लेपमपनयति ॥ १३ ॥
रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्त्विति दक्षिणतः आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति
१. 'ति मन्त्रेण ॥' ख. ग. घ. पाठः.
एकविंशः खण्डः] अनाविलोपेताम् । ९९
पश्चात् विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्त्वित्युत्तरतः ॥ १४ ॥
एवं रुद्रास्त्वेत्यादिभिर्मन्त्रैर्दक्षिणादि प्रतिदिशं निमार्ष्टि ॥ १४ ॥
भूतेभ्यस्त्वेति मध्यात् त्रिरुद्गृह्य विराजो दोहोऽसीति प्रथमं प्राश्नीयात् ॥ १५ ॥
भूतेभ्यस्त्वेति मन्त्रेण मध्यात् त्रिरुद्गृह्णाति ऊर्ध्वमुत्क्षिपति । उद्गृह्य विराजो दोहोऽसीति मन्त्रेण प्रथमं प्राश्नीयात् । प्रथमोपदेशादेव सिद्धे प्रथमवचनमाचार्यप्रवृत्तिकृतम् । एषा प्रवृत्तिराचार्यस्यैवंविधे विषये । तद्यथा ‘आयुषे त्वा प्राश्नामीति प्रथममन्नाद्याय त्वेत्युत्तरमि’ति ॥ १५ ॥
विराजो दोहमशीयेति द्वितीयम् ॥ १६ ॥
मध्ये शौचार्थमाचमनं न भवति । स्मर्यते च ‘सोमे प्राणाहुतिषु मधुपर्के च नोच्छिष्टा भवन्ती’ति ॥ १६ ॥
मयि दोहः पद्यायै विराज इति तृतीयम् ॥ १७ ॥
पूर्वयोर्दर्शनादिहापि विराज इति षष्ठ्यन्तं पदं न चतुर्थ्यन्तम् ॥ १७ ॥
न सर्वम् ॥ १८ ॥
सर्वं मधुपर्कं न प्राश्नीयात् ॥ १८ ॥
न तृप्तिं गच्छेत् ॥ १९ ॥
आ तृप्तेर्न पिबेत् ॥ १९ ॥
| १०० | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
ब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेत् ॥ २० ॥
उच्छिष्टं प्राशितशिष्टं मधुपर्कमुदङ्मुखो ब्राह्मणाय दद्यात् ॥ २० ॥
अलाभेऽपः ॥ २१ ॥
यदि ब्राह्मणो न लभ्यते तदापः प्रवेशयेन्मधुपर्कम् ॥ २१ ॥
सर्वं वा ॥ २२ ॥
प्राश्नीयादित्येव । अलाभ इति च । ब्राह्मणस्यालाभे सर्वं वा प्राश्नीयात् ॥ २२ ॥
अथाचमनीयैनान्वाचामति अमृतापिधानमसीति ॥ २३ ॥
यत् पूर्वमानीतमाचमनीयं तेन अन्वाचामति अमृतापिधानमसीति यजुषा ॥ २४ ॥
सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् ॥ २४ ॥
सत्यमित्यादिना यजुषा द्वितीयमाचामति ॥ २४ ॥
आचान्तोदकाय गां वेदयन्ते ॥ २५ ॥
अथ शौचार्थं विधिवदाचामति । तस्मै आचान्तोदकाय । एतदेव ज्ञापकं पूर्वत्र मध्ये शौचार्थं नाचमनमिति । उदकग्रहणेनाचमने उदकमेव प्राप्तं दर्शयति । तेन नालिकेराम्ब्वादिभिराचमनं न भवति । तस्मै गां वेदयन्ते गौर्गौर्गौरिति ॥ २५ ॥
CC-0. Agamnigam Digital Preservation Foundation, Chandigarh
एकविंशः खण्डः] अनाविलोपेताम् । १०१
हतो मे पाप्मा पाप्मा मे हत इति जपित्वोङ्कुरुतेति कारयिष्यन् ॥ २६ ॥
ब्रूयादिति शेषः । क्रियासामान्यवाचिना करोतिना वधो लक्ष्यते । यो वधं गोरनुजानाति स कारयिष्यन् भवति । स हतो मे पाप्मेत्यादि जपित्वा ॐ कुरुतेति ब्रूयात् । ॐ हतेत्युक्तं भवति ॥ २६ ॥
माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन् ॥ २७ ॥
यः पुनर्गामुत्स्रक्ष्यन्¹ उत्स्रष्टुकामो भवति स माता रुद्राणाम् इति मन्त्रं जपित्वोमुत्सृजतेति ब्रूयात् ॥ २७ ॥
नामांसो मधुपर्को भवति भवति ॥ २८ ॥
मांसरहितो मधुपर्को न भवति । किं मधुपर्के मांसं देयमित्युच्यते² मधुपर्के³ भोजनममांसं न भवतीत्युच्यते । तदनेनाभ्युपायेन मधुपर्के भोजनमुपदिश्यते । द्विरुक्तिरध्यायसमाप्तिकृता ॥ २८ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ अनाविलायां प्रथमाध्याये एकविंशः खण्डः ।
प्रथमाध्यायः समाप्तः ।
१. 'मुत्स्रष्टुमिच्छति स' ख. पाठः. २. 'ते । नेत्याह म' क. ख. पाठः. ३. 'र्को नाम भो' ख. पाठः.
अथ द्वितीयोऽध्यायः।
श्रावण्यां पौर्णमास्यां श्रवणाकर्म ॥ १ ॥
मेषादिस्थे सवितरि यो यो दर्शः प्रवर्त्तते ।
चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्रादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निश्चयः ॥
तदेवं सिंहस्थे सवितरि यामावास्या तदन्ते चान्द्रमसे मासि मध्यवर्तिनी या पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा मा वा भूत् । तस्यां श्रवणाकर्म कर्तव्यम् । श्रवणाशब्देनापि श्रावण्येवोच्यते । 'विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्य' इति दर्शनात् । तस्यां क्रियत इति श्रवणाकर्म । नामधेयमेतदन्वर्थम् । किं पुनस्तत् यः सर्पबलिरित्याख्यायते । अविशेषवचनात् प्रतिसंवत्सरं भवति ॥ १ ॥
अक्षतसक्तूनां नवं कलशं पूरयित्वा दर्वीं च बलिहरणीं नवे शिक्ये निदधाति ॥ २ ॥
तत्राक्षतानां धानानां सक्तवः कर्तव्याः अखण्डितानां यवानां तैर्नवं कलशं पूरयित्वा तं कलशं दर्वीं च बलिहरणीं बलिराह्रियते यया तां च नवे शिक्ये निदधाति ॥ २ ॥
अक्षतधानाः कृत्वा सर्पिषार्द्धा अनक्ति ॥ ३ ॥
अक्षतानां यवानां धानाः कृत्वा तासामर्धाः सर्पिषानक्ति । समप्रविभागोऽयमर्धः । अर्धशब्दो नपुंसकलिङ्ग इति
प्रथमः खण्डः] अनाविलोपेनम् । १०३
प्रथमः खण्डः] अनाविलोपेनम् । १०३
वैयाकरणाः । वेदे तु स्त्रीलिङ्गोऽपि दृश्यते ‘तस्यार्धाः शस्त्वा- र्धाः परिशिष्ये²ति । सर्पिंरं³संस्कृतम् । सर्वमेतदहन्येव भवति ॥
अस्तमिते स्थालीपाकं श्रपयित्वैककपालं च पुरोडाशम् अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यृचं हुत्वा पाणिनेककपालम् अच्युताय भौमाय स्वाहेति ॥
अस्तमित आदित्ये स्थालीपाकमेककपालं पुरोडाशं च श्रपयित्वा अग्ने नयेति चतसृभिः प्रत्यृचं स्थालीपाकं जुहोति । अच्युताय भौमाय स्वाहेति मन्त्रेण पुरोडाशम् । सर्वहुतोऽयं पुरोडाशः । कारणमुत्तरत्र वक्ष्यामः । तत्रावदानमर्थलुप्तम् । उपस्तरणाभिघारणयोस्तु सव्येन पाणिना प्रवृत्तिमिच्छन्ति । इह स्थालीपाकपुरोडाशयोः श्रपणविधानात् सक्तूनां धानानां च विधिवच्छ्रपणं न भवति । यथासिद्धानामेव ग्रहणम् । प्रत्यृग्ग्रहणादृगन्तेन होमः न स्वाहाकारेण ॥ ४ ॥
अवप्लुतः स्यादाविःपृष्ठो वा ॥ ५ ॥
अयं पुरोडाशः अवप्लुतः घृते निमग्नः स्यात् प्रकाशपृष्ठो वा । कस्मिंश्चित् पात्रे निधाय तथा घृतेन परिषेकः कार्यः यथायं निमग्नो भवति, आविःपृष्ठो वा भवति ॥ ५ ॥
मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति ॥ ६ ॥
१. 'र्धांश', २. 'शिष्य मध्ये निविदं दधाति' ग. पाठः.
३. 'लौकिकमसं' ग. घ. पाठः. ४. 'हुत्वा अ' ख. पाठः.
१०४ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
एनं पुरोडाशमाशयेन यस्मिन् घृते पुरोडाश आश- यितः मग्नः तेन घृतेनाभिजुहोति एनामिति वचनादखण्डि- तस्यास्य होम इति ज्ञाप्यते ॥ ६ ॥
शं नो भवन्तु वाजिनो हवेष्वित्यक्ता धाना अञ्ज- लिना ॥ ७ ॥
जुहोतीत्येव । अञ्जलिनेत्युभयोर्हस्तयोर्व्यापृतत्वादुप- स्तरणाभिघारणयोरन्यः कर्ता ॥ ७ ॥
अमात्येभ्य इतरा दद्यात् ॥ ८ ॥
अमात्याः पुत्रादयः तेभ्य इतरा अनक्ता धाना दद्यात् । एतावद् गृह्ये करोति ॥ ८ ॥
कलशात् सक्तूनां दर्वीं पूरयित्वा प्रागुपनिष्क्र- म्य शुचौ देशेऽपोऽवनिनीय सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति ये सर्पाः पार्थिवा ये आन्तरिक्ष्या ये दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्षं तेभ्य इमं ब- लिमुपाकरोमीति १ ॥ ९ ॥
अथ शिक्यं गृहीत्वा प्राङ्मुख उपनिष्क्रम्य शुचौ देशेऽपोऽवनिनीय नवात् कलशाद् गृहीतैः सक्तुभिर्दर्वीं पूर- यित्वा जुहोति । सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति ये सर्पा इति मन्त्रेण । मन्त्रलिङ्गात् सर्पेभ्यो नमस्कारः । शुचौ देश इति वचनाद्धोमत्वेऽप्यग्नेर्निवृत्तिः । शुचाविति व- चनात् स्वभावतः शुचेररण्यस्य ग्रहणमिच्छन्ति ॥ ९ ॥
१. 'ति अस्योपरि प्रश्च्योतयति । ए' क. ख. पाठः.
अनाविलोपेताम् । १०५
प्रदक्षिणं परीत्य पश्चाद् बलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सर्पान् यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुः ॥ १० ॥
अथ तं बलिं प्रदक्षिणं परीत्य पश्चादस्योपविश्य जपतीत्यध्याहार्यम्। बलिग्रहणेऽक्रियमाणे पश्चाच्छब्दः कालवाची शङ्क्येत। तथा सति पूर्वाहुतिरवस्थितस्य प्राप्नोति। बलिग्रहणाद् दिग्वाची भवति ॥ १० ॥
ध्रुवान्ते परिददामीति ॥ ११ ॥
परिददातीत्यध्याहार्यम्। साकाङ्क्षत्वान्मन्त्रलिङ्गाच्च। ध्रुवान्ते परिददामीत्येवं परिददाति कस्मै ध्रुवाय सम्बोध्यमानाय। ध्रुवो नाम सर्पाणामधिपतिः। हे ध्रुव! अन्ते अस्य कर्मणोऽन्ते परिददामीति मन्त्रार्थः। ध्रुवान् निश्चलान् ते तुभ्यं परिददामीत्यन्ये ॥ ११ ॥
एवं सामान्योक्तस्य परिदानस्य विभज्य वचनं —
ध्रुवामुं ते ध्रुवासुं ते इत्यमात्याननुपूर्वं ध्रुव मां ते परिददामीत्यात्मानमन्ततः ॥ १२ ॥
अमुमित्यस्य स्थाने अमात्यानां नामनिर्देशो द्वितियया ध्रुव! रुद्रं ते ध्रुव! विष्णुं त इति। एवममात्याननुपूर्वं ज्येष्ठक्रमेण परिददाति। अन्ततस्तु ध्रुव! मां ते परिददामीत्यात्मानं परिददाति। अमुमित्यस्य स्थाने मामिति नतु नामनिर्देशः। तत्रार्थात् स्वयंकर्तृकमेतत् कर्म। अन्यकर्तृकत्वेऽप्याधिकारिण एवान्ततः परिदानम् ॥ १२ ॥
. १०६ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
नैनमन्तरा व्यवेयुरा परिदानात् ॥ १३ ॥
एनं कर्तारं बलिं चान्तरा न व्यवेयुः मध्ये न गच्छेयुः ॥ १३ ॥
सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात् ॥ १४ ॥
'मार्गशीर्ष्यां प्रत्यवरोहण'मिति वक्ष्यति । आ तस्मात् सायं प्रातश्च बलिं हरेत् सर्पदेवजनेभ्यः स्वाहेति पूर्वेणैव मन्त्रेण । बलिहरणोपदेशादेव मन्त्रे सिद्धे पुनस्तदुपदेशादन्येषामुपनिष्क्रमणादीनां निवृत्तिः । सक्तवस्तु भवन्ति बलिद्रव्यत्वाद् । दर्वी च भवति 'दर्वी च बलिहरणीमि'ति पूर्वं विशेषितत्वात् । उपविश्यजपादेरपि निवृत्तिः ॥ १४ ॥
प्रसङ्ख्याय हैके तावतो बलींस्तदहरेवोपहरन्ति ॥
एके आचार्याः आ प्रत्यवरोहणाद् यावत्य आहुतयः सायं प्रातः तावतीः प्रसङ्ख्याय परिगणय्य तदहरेव तदानीमेवोपहरन्ति उपहर्तव्या इत्याहुः ॥ १५ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
आश्वयुज्यामाश्वयुजीकर्म ॥ १ ॥
अश्वयुग्भ्यां युक्ता पौर्णमासी आश्वयुजी श्रावणी-
[द्वितीयः खण्डः] अनाविलोपेतम् । १०७
वद् द्रष्टव्या । तस्यामाश्वयुजीकर्म भवति श्रवणाकर्मवन्निर्वचनम् ॥ १ ॥
निवेशनमलङ्कृत्य स्नाताः शुचिवाससः पशुपतये स्थालीपाकं निरुप्य जुहुयुः पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहेति ॥ २ ॥
निवेशनं गृहं तदुपलेपनादिभिरलङ्कृत्य पशुपतये निरुप्य स्थालीपाकं जुहुयुः पशुपतये शिवायेति मन्त्रेण । पशुपतये निरुप्येति वचनं निर्वापकाले निर्गुणस्य पशुपतेरुपलक्षणं भवति, नतु मन्त्रे यावन्तो गुणाः तावद्गुणकस्य । बहुवचननिर्देशात् पुत्रादयोऽप्यधिकारिणः । तत्र गृही जुहोति इतरेऽन्वाहरन्ते उपासते वा ॥ २ ॥
पृषातकमञ्जलिना जुहुयाद् ऊनं मे पूर्यतां पूर्णं मे मोपसदत् पृषातकाय स्वाहेति ॥ ३ ॥
पयस्यवनयेदाज्यं तत् पृषातकमितिच्छन्दोगाः । तदञ्जलिना जुहुयाद् ऊनं मे पूर्यतामिति मन्त्रेण । धानाभिर्होमो व्याख्यातः । अत्र सर्वरुद्रयज्ञेषु दिशामुपस्थानमिति वचनात् ‘कद्रुद्राय’ ‘इमारुद्राया’ ‘आ ते पितः’ ‘इमारुद्राय स्थिरधन्वन्’ इति चतुर्भिः सूक्तैश्चतस्रो दिश उपस्थाय स्विष्टकृदादि ॥
सजूर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा । सजूर्ऋतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । सजूर्ऋतुभिः सजूर्विधाभिः सजूर्द्यावापृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणः स्थालीपाकः ॥ ४ ॥