आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
४ विषयः पृ. पं. | विषयः पृ. पं. गैरिकगुणाः ... ९९ १९ | पङ्कनामगुणाः .... १०६ २७ कासीसलक्षणगुणाः... १०० ३ | कम्पिल्लकलक्षणं ... १०७ ३ नवमोऽध्यायः । | कम्पिल्लकनामानि ... ,, ६ रसकलक्षणं ... ,, १४ | कम्पिल्लकगुणाः ... ,, १० रसकगुणाः ... ... ,, २० | गौरीपाषाणलक्षणगुणाः ,, १४ अशुद्धखर्परदोषाः ... १०१ ६ | नवसारलक्षणगुणाः... ,, १९ खर्परशोधनं ... ,, ९ | अभ्रिजाललक्षणगुणाः १०८ २ खर्परमारणं ... ,, २४ | गिरिसिन्दूरलक्षणगुणाः ,, ५ खर्परसत्त्वपातनं ... १०२ ५ | बोदारशङ्गलक्षणगुणाः ,, १० दशमोऽध्यायः । | साधारणरसशोधनं ,, १८ कपर्दिकानामलक्षणगुणाः ,, १६ | उपरससङ्ख्या ... १०९ २ कपर्दिकाशोधनं ... १०३ २ | एकादशोऽध्यायः । कपर्दिकामारणं ... ,, ४ | सप्तधातुनामानि ... ,, १० कपर्दिकागुणाः ... ,, ७ | धातुशब्दनिरुक्तिः ... ,, १३ सिकतानामगुणाः ... ,, १५ | सूर्यादिग्रहाणां धातवाधि- बोलनामानि भेदाश्च ,, २३ | पत्यनिरूपणं ... ,, १६ बोलगुणाः ... ... ,, २६ | उपधातुनिरूपणं ... ,, १९ श्यामबोलगुणाः ... १०४ ४ | सुवर्णोत्पत्तिः ... ,, २४ मानुषबोलगुणाः ... ,, ८ | सुवर्णभेदाः, तल्लक्षणं च ११० ८ कङ्कुष्ठोत्पत्तिनामलक्षणानि ,, १४ | सुवर्णशोधनं ... ... ,, १५ कङ्कुष्ठगुणाः ... ... १०५ ४ | सुवर्णनामानि ... १११ ११ कङ्कुष्ठविषशमनोपायः ,, ७ | सदसत्सुवर्णलक्षणं ... ,, १६ सौराष्ट्रीनामगुणाः ... ,, ११ | स्वर्णगुणाः ... ... ,, २१ समुद्रफेननामगुणाः ,, १७ | सुवर्णस्य पकापकप्रयोग- क्षुद्रशङ्खनामगुणाः ... ,, २३ | विवेकः ... ... ११२ ११ मुक्ताशुक्तिकानामानि १०६ ६ | सुवर्णानुपानं ... ११३ ७ मुक्ताशुक्तिकागुणाः ,, १० | अशुद्धस्यासम्यग्झारितस्य जलशुक्तिकानामानि ,, १३ | च स्वर्णस्य गुणाः ,, १२ जलशुक्तिकागुणाः ... ,, १६ | स्वर्णादीनां मात्राकथनं ,, १७ शुक्तिकाशोधनमारणं ,, १९ | स्वर्णादिमारणे कियत्यः कृष्णमृत्तिकानामगुणाः ,, २३ | परिभाषाः ... ,, २२
१. प्रथम अध्याय: पारद-प्रशंसा, अष्ट-संस्कार, मूच्छर्ना एवं शोधन-प्रक्रिया
५ विषयः पृ. पं. स्वर्णादीनां लोहत्वेन व्यव- हारकथनं ... ११४ ११ लोहानां सामान्यशोधनं ,, १४ नागवङ्गयोर्विशेषशोधनं ११५ ६ सामान्यतःसर्वधातुमारणं ,, १३ स्वर्णमारणं ... ... ,, १८ स्वर्णभस्मपरीक्षा ... ११७ १४ स्वर्णद्रुतिः ... ... ,, १६ रूप्योत्पत्तिः ... ,, २१ रूप्यभेदाः, तल्लक्षणं च ११८ ४ रूप्यगुणाः ... ... ,, १३ अशुद्धरजतमारणे दोषाः ,, २५ रजतशोधनं ... ११९ २ रजतमारणं... ... ,, १२ रजतद्रुतिः ... १२० १७ ताम्रोत्पत्तिः ... ,, २१ ताम्रनामानि ... १२१ २ ताम्रलक्षणम् ... ,, ५ ताम्रदोषाः ... ... ,, १० ताम्रशोधनं... ... ,, १७ ताम्रमारणं ... ... ,, २३ ताम्रभस्मलक्षणं ... १२४ १९ ताम्रगुणाः ... ... ,, २२ वङ्गनामलक्षणं ... १२५ ४ वङ्गगुणाः ... ... ,, १० अशुद्धवङ्गदोषाः ... ,, २४ वङ्गमारणं ... ... १२६ २ यशदलक्षणगुणमारणानि १२९ ६ नागोत्पत्तिः ... ... ,, १४ नागनामानि... ... ,, १६ नागगुणाः ... ... ,, १८ अशुद्धनागदोषाः ... १३० ३ विषयः पृ. पं. अपक्वनागदोषाः ... १३० ६ नागमारणं ... ... ,, ९ नागेश्वरः ... ... १३२ १४ लोहोत्पत्तिः ... ... १३३ १२ लोहनामानि ... ,, १५ लोहभेदाः, तल्लक्षणं च ,, १६ तीक्ष्णलोहलक्षणं ... १३४ ९ सारलोहगुणाः ... ,, १५ कान्तलोहलक्षणगुणाः ,, १९ लोहसामान्यगुणाः ... १३५ ४ लोहनैसर्गिकदोषाः ... ,, ९ अशुद्धलोहंगुणाः ... ,, १२ अपक्वलोहगुणाः ... ,, १५ लोहानुपानं ... ... ,, २४ लोहसेवनेऽपथ्यानि ... १३६ २ लोहोपद्रवचिकित्सा... ,, ५ लोहमारणं ... ... ,, १५ मृतामृतलोहपरीक्षा १४२ ४ मृतलोहस्यामृतीकरणं ,, १६ लोहद्रुतिः ... ... ,, २२ लोहकिट्टलक्षणं ... १४३ २ लोहकिट्टमारणं ... ,, २० लोहकिट्टगुणाः ... ,, २४ द्वादशोऽध्यायः। स्वर्णमाक्षिकनामभेदाः १४४ १२ स्वर्णमाक्षिकलक्षणम् ,, २५ स्वर्णमाक्षिकगुणाः ... १४५ ५ अशुद्धस्यामृतस्य च माक्षिकस्य दोषाः ,, १० स्वर्णमाक्षिकशोधनं.... ,, १४ माक्षिकमारणं ... .. ,, १९
६ विषय: पृ. पं. | विषय: पृ. पं. माक्षिकसत्त्वपातनं ... १४६ २ | अशुद्धशिलाजतुगुणा: १५८ ५ तारमाक्षिकलक्षणं ... ,, ५ | शिलाजतुशोधनं ... ,, ८ तारमाक्षिकशोधनं ... ,, १६ | शुद्धशिलाजतुपरीक्षा १५९ ८ तारमाक्षिकमारणम् ,, २० | शिलाजतुनामानि ... ,, १२ विमलालक्षणम् ... ,, २४ | शिलाजतोर्गुणोत्कर्षाय विमलागुणा: ... ... १४८ ८ | भावनादानं ... ,, १९ विमलानुपानं ... ,, ११ | शिलाजतुमारणं ... १६० १२ माक्षीकलक्षणशोधन- | शिलाजतुसत्त्वाकृष्टि: ,, १५ मारणानि ... ,, १४ | कर्पूरशिलाजतुलक्षणं ,, १८ तुत्थोत्पत्तिलक्षणं ... १४९ १३ | कर्पूरशिलाजतुगुणा: ,, २१ तुत्थगुणा: ... ... ,, २२ | कर्पूरशिलाजतुशोधनं १६१ १ तुत्थशोधनं ... ... १५० २ | चपललक्षणभेदा: ... ,, ६ तुत्थमारणं ... ... ,, १२ | चपलगुणा:... ... ,, १७ तुत्थसत्त्वाकृष्टि: ... ,, १५ | त्रयोदशोऽध्यायः । भूनागलक्षणभेदा: ... ,, २१ | मणिगुणा: ... ... १६२ ४ भूनागसत्त्वाकृष्टि: ... १५१ ६ | रत्ननिरुक्ति: ... ... ,, ७ तुत्थसत्त्वभूनागसत्त्वयो- | रत्ननामानि ... ... ,, १० र्मुद्रिकाकरणं ... ,, २२ | रत्नभेदा: ... ... ,, १३ कांस्यलक्षणगुणा: ... १५३ २० | हीरकादीनां नामानि १६३ ६ कांस्यगुणा: ... ... १५४ २ | हीरकोत्पत्ति: ... ,, १७ पित्तलनामलक्षणभेदा: ,, ८ | हीरकजातयस्तल्लक्षणानि च ,, १९ रीतिकागुणा: ... ,, २२ | हीरकोत्पत्तौ मतान्तरं १६४ १० कांस्यपित्तलयोः शोधन- | अष्टप्रकारहीरकविज्ञान- मारणं ... ... १५५ ५ | निरूपणं... ... १६५ ४ पञ्चलोहलक्षणं ... ,, २५ | हीरकभेदा:... ... ,, १२ पञ्चलोहनामानि ... १५६ २ | हीरकधारणगुणा:... ,, २३ पञ्चलोहशोधनमारणं ,, ४ | वज्रदोषा: ... ... १६६ ९ सिन्दूरनामलक्षणगुणा: ,, १२ | बिन्दुलक्षणं... ... ,, १० सिन्दूरशोधनं ... ,, १८ | काकपदलक्षणं ... ,, १५ शिलाजतुभेदा: ... १५७ २ | यवलक्षणं ... ... ,, १८ शिलाजतुलक्षणं ... ,, ५ | मललक्षणं ... ... ,, २१ शिलाजतुगुणा: ... ,, २६ |
७ विषयः पृ. पं. विषयः पृ. पं. रेखालक्षणं ... ... १६६ २४ श्रेष्ठमाणिक्यलक्षणं ... १७८ २१ वज्रगुणाः ... ... १६७ ७ त्याज्यमाणिक्यलक्षणं ,, २३ वज्रखनिनिरूपणं ... ,, १२ गारुत्मतनामलक्षणगुणाः १७८ ६ मानपरिभाषा ,, २० वैदूर्यनामलक्षणगुणाः ,, १७ वज्रमौल्यनिरूपणं ... १६८ २ गोमेदनामलक्षणगुणाः १७९ ८ मौल्यप्रयोक्तृगुणाः ... १६९ ४ इन्द्रनीलनामलक्षणगुणाः ,, १९ मुद्रादौ वज्रविन्यासक्रमः ,, १५ पुष्परागनामलक्षणगुणाः १८० ६ वज्रपरीक्षाप्रकारः ... ,, २१ सर्वेरत्नानां समुचितं लक्षणं ,, १९ वज्रपरीक्षायां विचार- पञ्चरत्ननिरूपणं ... १८१ २ णीया विषयाः... १७० १ मणिनिरूपणं ... ,, ५ वज्रपरीक्षक मण्डली- वज्रव्यतिरिक्तानां मणीनामुत्पत्तिः,, ९ प्रवेशानर्हाः ... ,, १३ स्फटिकनामलक्षणगुणाः ,, १३ मौक्तिकभेदाः, तेषां सूर्यकान्तनामलक्षणगुणाः ,, २१ लक्षणानि च ... १७१ १ चन्द्रकान्तनामलक्षणगुणाः १८२ ३ मौक्तिकोत्पत्तिस्थानानि १७२ १२ राजावर्तनामलक्षणगुणाः ,, ११ मौक्तिकदोषास्तल्लक्ष- पेरोजनामलक्षणगुणाः ,, १७ णानि च... ... १७३ ७ उपरत्नानां शोधनमारणं ,, २३ मौक्तिकगुणास्तल्लक्ष- रत्नमारणे विचारः १८३ ११ णानि च ... ,, १७ वैक्रान्तोत्पत्तिनामगुणशोधन- वज्रगुणाः ... ... १७४ ३ मारणानि ... ,, २३ वज्रदोषाः ... ... ,, ५ रत्नोपरत्नगुणाः ... १८४ १३ श्रेष्ठवज्रलक्षणम् ... ,, ८ मुद्रिकायां दिग्भेदेन रत्न- अशुद्धवज्रदोषाः ... ,, २४ विन्यासक्रमः ,, २१ वज्रशोधनं ... ... १७५ ४ ग्रहप्रातिकूल्यनिवारणार्थं वज्रमारणं ... ... ,, १९ रत्नानां धारणदानं १८६ ३ श्रेष्ठप्रवाललक्षणं ... १७६ १९ रत्नद्रुतीकरणं ... ,, १० त्याज्यप्रवाललक्षणं ... ,, २१ सौराष्ट्रीसत्त्वपातनं ... ,, १६ प्रवालगुणाः ... ,, २५ सस्यकसत्त्वपातनं ... ,, २० श्रेष्ठमौक्तिक लक्षणं ... १७७ ४ चतुर्दशोऽध्यायः । मौक्तिकगुणाः ... ,, १४ विषोत्पत्तिः ... ... १८७ ४ माणिक्यगुणाः ... ,, १९ विषभेदाः, तेषां लक्षणानि च ,, विषगुणाः ... ... १९१ ४३
विषयः पृ. पं. | विषयः पृ. पं. विषशोधनं ... ... १९१ १८ | विषचिकित्सा ... १९५ १० विषमारणं ... ... १९३ १ | विषहरा मन्त्राः ... १९६ ६ विषसेवनप्रकारः ... ,, ७ | उपविषनिरूपणं ... १९७ २४ विषानधिकारिणः ... ,, १८ | उपविषाणां शोधनविधिः १९८ ९ विषमात्राकथनं ... १९४ २ | विषतैलं ... ... १९९ ५ विषे पथ्यानि ... ,, १८ | विषवज्रपातरसः ... ,, १० विषवेगाः, तेषां लक्षणा- | विषरोगे सुधानिधिरसः ,, १६ नि च ... ,, २३ | क्षारकल्पना... ... २०० ४
/भू (यङ्-लुगन्त of भू: बोभोति / बोभवीति / बोभवीतु, imperative 3rd person singular!). "आयुगं बोभवीतु" = let it repeatedly become/be until the end of the yuga (आ-युगं बोभवीतु)! What should be "भस्मीकुर्वन्"? "...श्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु" = May the heat of my labor (अस्मदीयश्रमोष्मा) repeatedly burn to ashes (भस्मीकुर्वन्) their families/lineages (गोत्राण्येषां)! AHA!!!!! "गोत्राण्येषां मस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु" OR "गोत्राण्येषामस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु"! Wait! "गोत्राण्येषां" + "अस्मदीयश्रमोष्मा"! If "गोत्राण्येषां" + "अस्मदीयश्रमोष्मा", in sandhi: गोत्राण्येषां + अस्मदीय... -> गोत्राण्येषामस्मदीयश्रमोष्मा! Wait, but why does the print look like: "गोत्राण्येपासमस्मदीय"? Wait! Look at: गोत्राण्ये (gotrāṇye) षा (ṣā) -> wait, the letter is षा! But it has no
२ आयुर्वेदिकग्रन्थमाला । [अध्यायः यद्यन्मयाऽक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे । अध्यापयन्ति य इदं न तु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥ ८ ॥ संस्काराः शिवजनुषो बहुप्रकारा- स्तुल्या ये लघुबहुप्रयाससाध्याः । यद्येकं सुकरमुदाहरामि तेषां व्याहारैः किमिह फलं ततः परेषाम् ॥ ९ ॥ कर्म यद्यदसाध्यं स्याद्दुर्लभं यद्यदौषधम् । तत्तत्सर्वं परित्यज्य सारभूतं प्रकाशितम्¹ ॥ १० ॥ क्वचिच्छास्त्रे क्रिया नास्ति कर्मसंख्या² न च क्वचित् । रसयुक्तिः क्वचिन्नास्ति संप्रदायः क्वचिन्न च ॥ ११ ॥ अतः³ सिद्धिर्न सर्वत्र रसे वापि रसायने । वैद्यवादे प्रयोगे च तस्माद्यत्नो मया कृतः ॥ १२ ॥ यद्यद्गुरुमुखोद्गीतं⁴ स्वानुभूतं च यन्मया । तत्तल्लोकहितार्थाय वक्ष्याम्यनैतिविस्तरम्⁵ ॥ १३ ॥ यदन्यत्र तदत्रास्ति यदत्रास्ति न कुत्रचित्⁶ । मुक्त्वैकं रसवैद्यं तु लाभं पूजां च कीर्तनम् । तृणकाष्ठौषधैर्वैद्यः को लभेत वराटिकाम् ॥ १४ ॥ यावत्सूतॊ न शुद्धो नच मृत अथवा मूर्च्छितो गन्धबद्धो नो वज्रं मारितं स्यान्न च गगनवधो नोपसूताश्च शुद्धाः । स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपाको न जात- स्तावद्वैद्यः क सिद्धो भवति वसुभुजां मण्डले श्लाघनीयः ॥ १ 'समुद्धृतम्' क. । २ 'क्रमसंख्या' क. । ३ 'तेन सिद्धिर्न तत्रास्ति' क. । ४ 'मुखात् ज्ञातं' क. । ५ 'प्रकटीक्रियतेऽधुना' क. । ६ 'तत् क्वचित्' क. ।
१. ] आयुर्वेदप्रकाशः । ३ अथ रसदोषाः । नागो वङ्गो मलो वह्निश्चापल्यं च विषं गिरिः । असह्याग्निर्महादोषा निसर्गात्पारदे स्थिताः ॥ १६ ॥ जाड्यगण्डौ तनौ नागात् कुष्ठं वङ्गाद्धुजो मलात् । दाहो वह्नेर्वीर्यनाशश्चापल्यान्मरणं विषात् ॥ १७ ॥ गिरेः स्फोटोऽप्यसहतादोषान्मोहोऽभिजायते । विषं वह्निर्मलश्चेति दोषा मुख्यतमास्त्रयः ॥ १८ ॥ रसे मरणसंतापमूर्च्छानां हेतवः क्रमात् । यौगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥१९॥ औपाधिकाः पुनश्चान्ये कीर्तिताः सप्त कञ्चुकाः । भूमिजो गिरिजो वारिजौ द्वौ च द्वौ नागवङ्गजौ ॥ २० ॥ द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः । भूमिजः कुरुते कुष्ठं गिरिजो जाड्यमेव च ॥ २१ ॥ वारिजो वातसंघातं दोषाढ्यौ नागवङ्गजौ । अतो दोषनिवृत्त्यर्थं रसः शोध्यः प्रयत्नतः ॥ २२ ॥ शोधितो रसराजस्तु सुधातुल्यफलप्रदः । दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ २३ ॥ साक्षादमृतमप्येष दोषयुक्तो रसो विषम् । तस्माद्दोषनिवृत्त्यर्थं सहायैर्निपुणैर्भिषक् ॥ २४ ॥ सर्वोपस्करमादाय रसकर्म समाचरेत् । रसो ग्राह्यः शुभे काले पलानां शतमात्रकम् ॥ २५ ॥ पञ्चाशत्पञ्चविंशद्वा दश पञ्चैकमेव च । पलादूने न कर्तव्यो रसे संस्कार उत्तमः ॥ २६ ॥ बहुप्रयाससाध्यत्वात्फलं स्वल्पं यतो भवेत् । संपूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ॥ २७ ॥
४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः योगिनीं क्षेत्रपालांश्च चतुर्धा बलिपूर्वकम् । ततो रहस्यनिलये सुमुहूर्ते विधोर्बले ॥ २८ ॥ सुदिने शुभनक्षत्रे रसशोधनमाचरेत् । अघोरेण च मन्त्रेण रसं प्रक्षाल्य पूज्य च । स्वेदनादिमुखान् पश्चात्संस्कारान् सम्यगाचरेत् ॥ २९ ॥ 'अघोरेभ्योऽथ घोरेभ्य' इत्यादि वैदिको मन्त्रः ॥ खल्वो लोहमयः श्रेष्ठस्तस्माच्छ्रेष्ठस्तु सारजः । कान्तलोहभवस्तस्मात्, मर्दकश्च तथाविधः ॥ ३० ॥ अभावे लोहखल्वस्य स्निग्धपाषाणजः शुभः । तादृशस्वच्छमसृणमर्दकेन समन्वितः ॥ ३१ ॥ अष्टादशैव संस्कारा ऊनविंशतिकाः क्वचित् । संप्रोक्ता रसराजस्य वसुसंख्याः क्वचिन्मताः ॥ ३२ ॥ यथा—स्यात्स्वेदनं तदनु मर्दनमूर्च्छनं च स्यादुत्थितः पतनरोधनियामनानि । संदीपनं गगनभक्षणमानमत्र संचारणं तदनु गर्भंगता द्रुतिश्च ॥ ३३ ॥ बाह्या द्रुतिः सूतकजारणा स्याद्रागस्तथा सारणकर्म पश्चात् । संक्रामणं वेधविधिः शरीरयोगस्तथाऽष्टादशधाऽत्र कर्म ॥३४॥ रसपद्धत्यां— स्वेदो मर्दनमूर्च्छनोत्थिति ततः पातोऽपि भेदान्वितो रोधः संयमनं प्रदीपनमिति स्पष्टाऽष्टधा संस्कृतिः । अस्याः सर्वरसोपयोगिकतया त्वन्या न विन्यस्यते ग्रन्थेऽस्मिन् प्रकृतोपयोगविरहाद्विस्तारभीत्याऽथवा ॥३५॥ वाग्भटोऽपि— इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने । शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥
१. ] आयुर्वेदप्रकाशः । ५ अथोनविंशतिकर्माणि। यथा—स्वेदनमर्द्दनमूर्च्छनोत्थापनपातनबोधननियमनसंदी- पनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुति-वाह्यद्रुति-योग- जारणरञ्जनसारणक्रामणवेधनभक्षणाख्या ऊनविंशतिसंस्काराः सूतसिद्धिदा भवन्ति; दीपमान्ता अष्टौ संस्कारा वा देहसि- द्विदा भवन्ति ॥ अथ तेषु स्वेदनविधिः ।— नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः । मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३७ ॥ तन्मध्ये घनवाङ्गुण्डीविष्णुक्रान्तापुनर्नवाः । मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३८ ॥ त्रिफला गिरिकर्णी च हंसपदी च चित्रकः । संमूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥ ३९ ॥ पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् । स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् । अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ॥ ४० ॥ घनो मुस्ता, वाङ् ब्राह्मी, केचित् 'तन्मध्ये भङ्गुरामुण्डी' इति पठन्ति, मुण्डी प्रसिद्धा, विष्णुक्रान्ता श्वेतपुष्पा अपरा- जिता, पुनर्नवा गन्धपूर्णेति भाषा, मत्स्याक्षी मीनाक्षी 'मछेछी' इति भाषा, (हुँनगुंदा इत्यपि,) सर्पाक्षी सर्पनेत्रोपमा 'चुर्ची' इति भाषा, सहदेवी प्रसिद्धा, शतावरी शतावरीति भाषा, त्रिफला प्रसिद्धा, गिरिकर्णी नीलपुष्पा अपराजितैव, हंसपदी हंसचरणा, चित्रकः प्रसिद्धः । समूलकाण्डं मूल- शाखं... ...शिखिलवणासुरिसंयुतैः । नष्टपिष्टं रस कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥
६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः त्र्यूषणं लवणं राजी लशुनं त्रिफलाऽऽर्द्रकम् । महाबला नागबला मेघनादः पुनर्नवा ॥ ४१ ॥ मेषशृङ्गी चित्रकञ्च नवसारः समं समम् । रसस्य षोडशांशेन सर्वं युञ्ज्यात् पृथक् पृथक् ॥ ४२ ॥ एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् । प्रलिम्पेत्तेन कल्केन वस्त्रं चाङ्गुलिमात्रकम् ॥ ४३ ॥ तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्रिदिनं पचेत् । दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥ ४४ ॥ मेघनादस्तण्डुलीयभेदः पत्रशाकविशेषः 'चवलाई' इति भाषा, शृङ्गी मेषशृङ्गी तदलाभे कर्कटशृङ्गी ग्राह्या, नवसारो नवसागरः क्षारविशेषः ॥ अथान्यत्सिद्धमतम् ।— त्र्यूषणं लवणासुर्यौ चित्रकार्द्रकमूलकम् । पिष्ट्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ॥ ४५ ॥ त्र्यूषणं त्रिकटु, लवणं सैन्धवं, आसुरी राई, चित्रकः प्र- सिद्धः, आर्द्रकं शृङ्गवेरं, मूलकं श्वेतमूलकः 'मुली' इति भाषा । पिष्ट्वा तत्कल्केन वस्त्रं लिप्त्वात्यादि पूर्ववत् । मुहुरिति प्रति- दिनं कल्कावृत्तिरित्यर्थः ॥ अथान्यत्सिद्धमतम् ।— दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके । रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् ॥ ४६ ॥ व्योषं त्रिकटु, वरा त्रिफला, वह्निश्चित्रकः; कन्या 'कुवारी' इति भाषा, तन्मध्यगर्भो ग्राह्यः ॥ इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने । शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥
१. ] आयुर्वेदप्रकाशः । ७ त्रिदिनं स्वेदनाशक्तौ दिनमेकं निरन्तरम् । स्वेदयेद्रसराजं तु नातितीक्ष्णेन वह्निना ॥ ४८ ॥ केचित्तु मर्दनपूर्वकं स्वेदनमिच्छन्ति, ते उपपत्तिज्ञान- रहिताः, क्रमविरोधश्च तेषां (मते) दूषणम् ॥ अथ मर्दनम् । भिषग्विमर्दयेच्चूर्णैर्मिलित्वा षोडशांशतः । सूतस्य गालितैर्वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥ ४९ ॥ गृहधूमेष्टिकाचूर्णं तथा दधिगुडान्वितम् । लवणासुरिसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ॥ ५० ॥ जीर्णाभ्रकं तथा जीर्णं बीजं सूतस्तथैव च । गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ॥ ५१ ॥ अथान्यत्सिद्धमतम् ।— रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकैः । जम्बीरद्रवसंयुक्तैर्मुहुर्मर्द्यो दिनत्रयम् ॥ ५२ ॥ दिनैकं वापि सूतः स्यान्मर्दनान्निर्मलः परम् । ऊर्ध्वपातनयन्त्रेण गृह्णीयाच्च पुनः पुनः ॥ ५३ ॥ पटसारणतो वाऽपि क्षालनादारनालतः । अथ मूर्च्छनम् । गृहकन्या मलं हन्ति त्रिफला वह्निनाशिनी ॥ ५४ ॥ चित्रमूलं विषं हन्ति तस्मादेभिः प्रयत्नतः । मिश्रितं मर्दयेत्सूतं सप्तवाराणि मूर्च्छयेत् ॥ ५५ ॥ इत्थं संमूर्च्छितः सूतो दोषशून्यः प्रजायते । सप्तवाराणि मूर्च्छयेदिति धातुवादे, न रसेषु ॥ ५६ ॥ अथान्यन्मतम् ।— [क]न्याशिग्रुशिखिभिर्लवणासुरिसंयुतैः । नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥
८ आयुर्वेदौयग्रन्थमाला । [ अध्यायः
कृष्णधत्तूरकद्रवैश्चाञ्चल्यविनिवृत्तये ।
मर्दनोत्थापने कुर्यात् सूतराजस्य चाऽसकृत् ॥ ५८ ॥
त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये ।
गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥ ५९ ॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् ॥ ६० ॥
एवं संशोधितः सूतः सप्तदोषविवर्जितः ।
जायते कार्यकर्त्ता च अन्यथा कार्यनाशकः ॥ ६१ ॥
अथ रसस्य कञ्चुकहरणम् ।
कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्बृहतीविमिश्रितैः ।
फलत्रिकेनापि विमर्दितो रसो
दिनत्रयं सप्तमलैर्विमुच्यते ॥ ६२ ॥
इति युगपत्सप्तमलनाशनम् ॥
अथोत्थापनम् ।
तत उत्थापयेत्सूतमातपे निम्बुकार्दितम् ।
उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके ॥ ६३ ॥
धृत्वाऽधोर्ध्वभाण्डात्तं संगृह्णेत्पारदं भिषक् ॥ ६४ ॥
वाग्भटोऽपि—
अस्माद्विरेकात्संशुद्धो रसः पात्यस्ततः परम् ।
उत्थितः काञ्जिकक्वाथैः क्षालनीयस्ततः परम् ॥ ६५ ॥
रसरत्नाकरस्तूत्थापनक्लेशमसहमानः सुगमोपायमाह; यथा—
वाग्भटोऽपि—
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥
१.] आयुर्वेदप्रकाशः । ९ अन्यत्राऽपि।— जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् । अथवा पातनायन्त्रे पातनाडुत्थितो भवेत् ॥६७॥ इति । अथ पातनम् । तच्च त्रिविधं—ऊर्ध्वाधस्तिर्यग्भेदात्; तत्रोर्ध्वपातनं यथा— भागास्त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ॥ ६८ ॥ एतत्संमर्दयेत्तावद्यावदेति पिण्डताम् । तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ॥ ६९ ॥ कृत्वाऽऽलवालं केनापि दत्त्वा चार्द्रं हि प्लोत कम् । संमुद्रयाग्निमधस्तस्य चतुर्यामं प्रबोधयेत् ॥ ७० ॥ युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः । ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ॥ ७१ ॥ ससूतभाण्डविवरमन्यद्विलति भाण्डकम् । तथा संधिर्द्वयोः कार्यः पातनात्रययन्त्रके ॥ ७२ ॥ यन्त्रप्रमाणं वदनाङ्कुरोर्ज्ञेयं विचक्षणैः । रसस्य मानानियमात्कथितुं नैव शक्यते ॥ ७३ ॥ अर्कचूर्णस्य ताम्ररजसः ॥ अथान्यन्मतम् ।— मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च । यन्त्रे डमरुके कुर्याद्रसेन्द्रस्योर्ध्वपातनम् ॥ ७४ ॥ मयूरग्रीवं तुत्थकं, ताप्यं स्वर्णमाक्षिकं, नष्टपिष्टीकृतस्य 'कुमारिकाद्रवयोगेन' इति शेषः ॥ अथाधःपातनम् । त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः । नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥
१० आयुर्वेदियग्रन्थमाला । [ अध्यायः ऊर्ध्वभाण्डोदरं लिप्त्वाऽधोभाण्डे जलं क्षिपेत् । सन्धिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ॥ ७६ ॥ उपरिष्टात्पुटे दत्ते जले पतति पारदः । अधःपातनमित्युक्तं सिद्धाद्यैः सूतकर्मणि ॥ ७७ ॥ त्रिफलेति व्याख्याता । अधोभाण्डे जलं क्षिपेदिति वच- नात्संपुटपात्रमध्ये जलं प्राप्यते, तच्च संप्रदायविरुद्धं, अतः संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तस्योपरि संपुटं दद्यात्, पश्चात्स संपुटस्याधःपात्रस्य च संधिरोधः कार्य इति तात्पर्यतो ज्ञेयम् । उपरिष्टात्पुटे दत्ते इति पुटं चात्र कौकुटं यथायथरसमात्रापेक्षया वा विंशतिवनोत्पलैरधिकैर्वा निवात- स्थले शनैः शनैर्देयमिति गुरुसंप्रदायः ॥ अथान्यन्मतम् ।— नवनीताभ्रकं सूतं घृष्ट्वा जम्भारम्भसा दिनम् । वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ७८ ॥ 'नष्टपिष्टं रसं कृत्वा' इत्यादि पूर्ववत् ॥ अथ तिर्यक्पातनम् । घटे रसं विनिक्षिप्य सजलं घटमन्यकम् । तिर्यङ्मुखं द्वयोः कृत्वा संमुखं रोधयेत्सुधीः ॥ ७९ ॥ तथैव चुल्ल्यां संस्थाप्य यत्नतस्तु ततो भिषक् । रसाधो ज्वालयेदग्निं यावत्सूतौ जलं विशेत् ८० ॥ तिर्यक्पातनमित्युक्तं सिद्धैर्नागार्जुनादिभिः । मिश्रितौ चेन्नागवङ्गौ रसे विक्रयहेतुना ॥ ८१ ॥ ताभ्यां स्यात् कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् । एवं सुसंस्कृतः सूतः पातनावधि यत्नतः ॥ ८२ ॥ सर्वदोषविनिर्मुक्तो जायते नात्र संशयः ॥ ८३ ॥
१.] आयुर्वेदप्रकाशः । ११ अत्रावसरे केचित्पुनः स्वेदनमिच्छन्ति; यथा— रसं चतुर्गुणे वस्त्रे सरसोनशरावके । नियम्य दोलिकायन्त्रे मध्याग्नौ दिवसं पचेत् ॥ ८४ ॥ सव्योषत्रिफलावह्निकन्याकल्के तुषाम्बुनि । दोषशेषापनुत्त्यर्थमिदं स्वेदनमिष्यते ॥ ८५ ॥ अथ बोधनम् । एवं कदर्थितः सूतः षण्ढत्वमधिगच्छति । तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ ८६ ॥ वाग्भटोऽपि— मर्दनैर्मूच्छनैः पातैर्मरणान्तो भवेद्रसः । शक्त्युत्कर्षाय बोध्योऽसौ गुरुदर्शितवर्त्मना ॥ ८७ ॥ यथा— विश्वामित्रकपाले वा काचकूप्यामथापि वा । सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ ८८ ॥ पूरयेत्रिदिनं भूम्यां राजहस्तप्रमाणतः । अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ ८९ ॥ विश्वामित्रकपालं नारिकेलपात्रं; ‘सृष्ट्यम्बुजं सैन्धववारि’ इत्येके, अपरे तु ‘मूत्रं रजः शुक्रं च’ इत्याहुः । युक्तं तु सृष्ट्य- म्बुजं अरुणायाः षोडशवार्षिकीयाः स्त्रिय आर्तवम् । राजहस्तः सपादकरः ॥ मतान्तरं सुगमं च— कदर्थनेनैव नपुंसकत्वमेवं भवेदस्य रसस्य पश्चात् । वीर्यप्रकर्षाय तु भूर्जपत्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ ९० ॥ १ ‘पातैर्मन्दः शान्तो’ ख. ।
१२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः मतान्तरम्— लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् । आच्छाद्याथ जलं किंचित् क्षिप्त्वा शरावेण रोधयेत् ॥९१॥ ऊर्ध्वं लघुपुटो देयः प्राप्तपुंस्त्वो रसो भवेत् ॥ ९२ ॥ मतान्तरम्— एवं कदर्थितः सूतः षण्ढभावं प्रयाति हि । बह्वौषधिकषायेण खेदितः सबलो भवेत् ॥ ९३ ॥ यथा— सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः खेदितो बली । निरस्तषण्ढभावोऽसौ जायते हि रसोत्तमः ॥ ९४ ॥ सर्पाक्षी नागिणी, चिञ्चा अम्लिका, वन्ध्या वांझखखसा, भृङ्गो भृङ्गराजः, अब्दो मुस्ता नागरसंज्ञको ग्राह्यः । एषां रसो ग्राह्यः ॥ अथ नियमनम् । सर्पाक्षी चिञ्चिका वन्ध्याभृङ्गाब्दकनकाम्बुभिः । दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत् ॥ ९५ ॥ मतान्तरम्— उत्तराशाभवस्थूलरक्तसैन्धवलोष्टकः। तद्गर्भे रन्ध्रकं कृत्वा सूतं तत्र विनिक्षिपेत् ॥ ९६ ॥ ततस्तु चणकक्षारं दत्त्वा चोपरि निम्बुजम् । रसं प्रक्षिप्य दातव्यं तादृक्सैन्धवखण्डकम् ॥ ९७ ॥ गर्तं कृत्वा धरागर्भे दत्त्वा सैन्धवसंपुटम् । धूलिमष्टाङ्गुलां दत्त्वा कारीषं दिनसप्तकम् ॥ ९८ ॥ वह्निं प्रज्वाल्य तद्ग्राह्यं क्षालयेत्काञ्जिकेन च । अयं नियमनो नाम संस्कारो गदितो बुधैः ॥ ९९ ॥
१. ] आयुर्वेदप्रकाशः । १३ अभावे चणकक्षारस्यार्पयेन्नवसादरम् । खर्जिका वा प्रदातव्या नूनमित्याह भास्करः ॥ १०० ॥ अथ संदीपनम् । कासीसं पञ्चलवणं राजिका मरिचानि च । द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥ १०१ ॥ आलोड्य काञ्जिके दोलायन्त्रे पाच्यो दिनैस्त्रिभिः । दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ १०२ ॥ अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् । दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥ १०३ ॥ अथानुवासनम् । दीपितं रसराजं तु जम्बीररससंयुक्तम् । दिनैकं धारयेद्धर्मे मृत्पात्रे वा शिलोद्भवे ॥ १०४ ॥ इत्यनुवासनम् ॥ सहस्रनिम्बूफलतोयघृष्टो रसो भवेद्वह्निसमप्रभावः । सव्योषराजीलवणः सचित्रः सरामठो विंशतिवासराणि ॥ १०५ इति रसचिन्तामणावनुवासनम् ॥ एतैरनुवासनान्तैर्नवभिः संस्कारैः शुद्धः सूतोऽष्टमांश अव- शिष्यत इत्याह रसरत्नाकरकृन्नित्यनाथः— स्वेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् । अष्टमांश अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥ इति । शुद्धसूतपरीक्षेयमिति भावः। कीदृशः स्वेदनादिनवकर्मभिः संस्कृतः पारदः सप्तकञ्चुकविवर्जितो भवेदत्र दृष्टप्रत्यय- माह—(कञ्चुकविवर्जितस्येयं परीक्षा) यदा अष्टमांश अवशि- ष्यते, सप्तभागाः सप्तकञ्चुकसंबन्धिनो गच्छन्त्यष्टमो भागः पारदस्यावशिष्यते तदा शुद्धसूतः कञ्चुकदोषविनिर्मुक्तो २
१४ आयुर्वेदीयग्रन्थमाला। [ अध्यायः भवति। सप्तकञ्चुकाः सप्तावरणानि शिवशापाज्जातानि, तद्वि- मुक्ततया शुद्धसूतो बुधैः कथ्यत इति ॥ अथ जारणम् । जारणा हि नाम गालनपातनव्यतिरेकेण घनहेमादिग्रास- पूर्वकपूर्वावस्थाप्रतिपन्नत्वं, फलं चास्य प्रोक्तं स्वयं महेश्वरेण— सर्वपापक्षये जाते प्राप्यते रसजारणा । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् । मोक्षाभिव्यञ्जकं देवि जारणा साधकस्य तु ॥ १०७ ॥ खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते । मर्दनं चन्दनं चैव ग्रासः पूजाऽभिधीयते ॥ १०८ ॥ यावद्दिनानि देवेशि वह्निस्थो धार्यते रसः । तावद्दशसहस्राणि शिवलोके महीयते ॥ १०९ ॥ दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् । द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ ११० ॥ इत्यादि ॥ विपिनौषधिपाकसिद्धमेतद्द्भुततैलाद्यपि दुर्निवारवीर्यम् । किमयं पुनरीश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥१११ रसगुणबलिजारणं विनाऽयं न खलु रुजां हरणक्षमो रसेन्द्रः । न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥ अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात् फलमप्युदारम् । क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥११३ घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः । कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ ११४ ॥ अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते । यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ ११५ ॥ गन्धकजारितसूतस्य फलमुक्तं शिवागमे।—
१. ] आयुर्वेदप्रकाशः । १५ तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः । द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्ठहा ॥ ११६ ॥ त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः¹ । चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ ११७ ॥ गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः । षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः² ॥ अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥ ११८ ॥ अन्यत्रापि ।— समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् । जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशनः ॥ ११९ ॥ चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः । भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ १२० ॥ 'षड्गुणे रोगघ्न' इत्युक्तं यत्तत्तु मूर्च्छायामेवाधिगन्तव्यं, तत्र गन्धकस्य समग्रजारणाया अभावात् । अत्र तु समे गन्धे इति तृतीयार्थे सप्तमी; ( तेन³ समेन गन्धेन तुल्यगन्धेन जीर्णः पारदो मूर्च्छनाविधिना मृतः, तत्फलं रोगघ्नता ) एवं द्विगुणादिष्वपि व्याख्येयमिति प्रतिभाति ॥ तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे । ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥ १२१ ॥ हेम्नि जीर्णे सहस्रैकगुणसंपत्प्रदायकः । वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम् ॥ १२२ ॥ देव्या रजो भवेद्गन्धो धातुः शुक्लं तथाऽभ्रकम् । आलिङ्गने समर्थौ द्वौ प्रियत्वाच्छिवरेतसः ॥ १२३ ॥ शिवशक्तिसमायोगात् प्राप्यते परमं पदम् । यथा स्याज्जारणौ वह्नी⁴ तथा स्याद्गुणदो रसः ॥ १२४ ॥ १ 'सर्वषाण्ड्यविनाशनः' क. । २ 'भवेत्' ख. । ३ अयं पाठः ख. पुस्तके नोपलभ्यते । ४ 'स्याज्जारणावह्निस्तथा' क. ।