बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
२५६ बौधायन-धर्मसूत्रम् [ज्ञानकर्मसमुच्चयः
प्रेतः। ब्राह्मणस्येति जात्यवच्छिन्नस्सोपाधिकः क्षेत्रज्ञवर्ती च तयोर्व्यतिरेकार्थः। परमात्मा न कर्मणा अग्निहोत्रादिना वर्धते तत्फलभुग्भवति। अतस्ततोऽन्यः कर्ता भोक्ता च। तथा-नोऽपि न कनीयान् कर्मणा ब्रह्महत्यादिना निकृष्टो नरकभाग् भवतीत्यर्थः। यतोऽसौ पापमपि न करोति तस्मादेव तस्य ब्राह्मणस्य सोपाधिकस्य, एवशब्दः पादपूरणः, अवधार्याभावात्। तस्याऽऽत्मा परमात्मा पदवित्। पद्यते गम्यतेऽनेनार्थ इति वेदः पदं, अत एव 'नाऽवेदविन्मनुते तं बृहन्तम्' इत्युक्तम्। सततमात्मानमभेदेन विदित्वा न कर्मणा लिप्यते पापकेन शुभेन च।
तदुक्तम्- सम्यग्दर्शनसपन्नः कर्मभिर्न स बध्यते इति। तथा- भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति
एवं स्पष्टभाषिणा केवलज्ञानवादिना यः पर्यनुयुक्तः-
स यत् ब्रूयात् '-येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृ-
मान् योनियोनौ। नाऽवेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्प- राये इति ॥ ३४ ॥
अनु०-यदि वह ऐसा कहता है तो इस पर ध्यान दे, जिसे वेद का ज्ञान नहीं
वह मृत्यु के समय उस महान्, सर्वानुभवी, आत्मा का ध्यान नहीं करता, जिसके द्वारा सूर्य प्रकाशमान है, तेज से युक्त होकर प्रकाश प्रदान करता है और पिता पुत्र का योनि से जन्म होने पर उसके माध्यम से पितृमान् होता है ॥ ३४ ॥
स ब्रूयात् परिहारत्वेनाऽधस्तनीसूचमित्यर्थः। सत्यमाह भवान् यदि
केवलादेव ज्ञानात् सर्वभेदप्रत्ययनिबर्हणान्मोक्ष इति, न त्वेतदेवम् । अपि कर्मणः। ननु 'एष नित्यो महिमा' इत्युक्तं, सत्यं, ज्ञानात्, तत्तु न कर्म निषे- धति । ननु-कर्मणां मोक्षं प्रत्यनुपायत्वात् निषेधत्येवेत्युक्तम्। मोक्षानभिज्ञः कर्मद्वेषी देवानां प्रियः। मोक्षेऽपि नाऽऽत्मनश्शरीरपरिग्रहाभावः। स च प्रागभावः प्रध्वंसाभावो वा ? न तावदात्मज्ञानेन शरीरं प्रध्वस्तम् , प्रत्यक्ष- विरोधात्। तदुक्तं 'बुद्धे चेत्क्षेमप्रापणं इहैव न दुःखमुपलभेत' इति। अथ मन्यसे सुखदुःखोपभोगार्थानि देहारम्भकाणि पुण्यापुण्यान्यदृष्टानि कर्माणि
१. अयमपि मन्त्रस्तैत्तिरीयब्राह्मणान्तर्गतकाठकभागस्य एव। त० ब्रा १२ ३.९
एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५७
एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५७
क्षीयन्त इति । तदुक्तं-‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इति । तदपि न, न हि कर्म क्षीयते फलमदत्त्वेत्याहुः । ननु प्रायश्चित्तेन क्षीयत इति त्वयाऽभ्युपगतमेव । नैतदेवम्; न हि तत्राऽपि चान्द्रायणादिभिः पापकर्मप्रध्वस्यते । दुःखानुभवप्रकारोऽयं वाचनिकः यथौषधपानम् । यथा चोपवासादिना शुष्कगात्रो ज्वरादिना नाऽभिभूयते तद्वदेतदपि । तदा मोक्षप्रागभाव इति, वदामः । सुखदुःखोपभोगार्थं देहग्रहणम्, तच्च सुखदुःखञ्च काम्यप्रतिषिद्धासेवया नित्यनैमित्तिककर्मानुष्ठानाच्च मोक्षसिद्धिः । आहुश्च मीमांसकाः-
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति ॥
तद्धेतुकमात्मज्ञानं तदर्थानि चोपनिषद्वाक्यानि । एवमुपपद्यमाने नाऽन्यथा कल्पयितुं युक्तम् । न चाऽऽत्मानं मोक्षयेदेवेति वेदेन चोद्यते—
आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं न च चोद्यते ।
कर्मप्रसिद्धिसिद्ध्यर्थं आत्मज्ञानस्य लभ्यते ॥
कथं तर्हि ? अयं परिहारः-‘येन सूर्यः’ इति ज्ञानकर्मसमुच्चयाभिधानात् साजात्येन तद् यद्यत्स्यात् । प्रजनने प्रजनन इत्यर्थः । ईदृक्कर्म मोक्षायाऽलं भवतीत्यभिप्रायः । अतो नाऽवेदवित् अवेदार्थवित् तत्कर्मकृच्च मनुमते जानाति कर्मठः परमात्मानं बृहन्तं सर्वानुभवितारं साम्पराये अपवर्गे निमित्तसप्तम्येषा॥
अवेदविन्न मनुते न जानाति इत्येतदुक्तं विस्तरेण । किञ्च-
‘इमे ये नाऽर्वाङ् न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञय इति ॥ ३५ ॥
अनु०— जो न तो सच्चे ब्राह्मण हैं और न सोमयज्ञ करते हैं वे उसके लिए कार्य नहीं करते जो निकट हैं और न उसके लिए कार्य करते हैं जो दूर है । वे इस वचन को लेकर पापयुक्त वाणी से यज्ञ करते हैं ॥ ३५ ॥
बृहस्पत्यार्षं त्रिष्टुप्छन्दः । अज्ञाननिन्दया ज्ञानकर्मप्रशंसा । यत्तदोर्व्यत्यासः कर्तव्यः । इमे जना वाचं वेदं अभिपद्य अधीत्य पापया वाक्प्रतिरूपया धीराः 'तमसि शेते' इति सिरीः शरीरं तन्वते विस्तारयन्ति वेदविप्लवादिना पोषयन्तीत्यर्थः । तत्र कर्म अप्रजज्ञयः अजानन्तः अवेदार्थज्ञा इति यावत् । एते नार्वाङ्न अर्वाञ्चः नाऽपि पराञ्चः चरन्ति उभयभ्रष्टा इत्यर्थः । न ते ब्राह्मणाः नाऽपि सुतेकरासः सुतस्याऽकर्तारः अभिषवाद्यकर्तारः अयष्टारः अप्रजज्ञयो यद्यपि तन्तुं तन्वते तथापि न सुते करासो भवन्ति ॥ ३५ ॥
१. see, ऋ० सं० २. २४. ४.
२० बौ०ध०
२५८ बौधायन-धर्मसूत्रम् [ ज्ञानकर्मसमुच्चयः
किञ्च—
प्रजामिरग्ने अमृतत्वमश्याम् ॥ जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवमृणसंयोगादीन्यसंख्येयानि भवन्ति ॥ ३६ ॥
अनु०— हे अग्नि हम पुत्रों के द्वारा अमृतत्त्व की प्राप्ति करे। ब्राह्मण उत्पन्न होता है। ब्रह्मचर्य द्वारा ऋषियों के ऋण से यज्ञ द्वारा देवों के ऋण से, तथा पुत्र उत्पन्न कर पितरों के ऋण से मुक्त होता है। इस प्रकार वैदिक ग्रन्थों में अनेक अनुच्छेदों में ऋण के संयोग का उल्लेख किया गया है ॥ ३६ ॥
अमृतत्वं जननमरणशून्यत्वं, मुक्तिरित्यनर्थान्तरम् । आश्रमभेदे सति कथमेवं ब्रूयात् ॥ ऋणवान् अनन्तराः पुत्राणां लोकाः ऋणमस्मिन् सन्नयति । ज्योत्स्ना ह पुत्रं परमे व्योमन्न प्रजात्वति गुण इत्यादि । तस्मादप्यैकाश्रम्यमेव ज्यायः ॥ ३६ ॥
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्निति प्रशंसन्निति ॥ ३७ ॥
इति द्वितीयप्रश्ने एकादशः खण्डः ।
अनु०— तीन वेदविद्या का अध्ययन, ब्रह्मचर्य का पालन, पुत्र की उत्पत्ति, श्रद्धा तप का अनुष्ठान, यज्ञ का सम्पादन तथा दान—जो इन कर्मों को करते हैं, वे ही हमारे साथ निवास करे, जो अन्य कार्यों की प्रशंसा करता है वह धूल में मिलकर नष्ट हो जाता है ॥ ३७ ॥
त्रयाणां वेदानां समाहारस्त्रयी ब्रह्मचर्यमित्यपावरणे तैरेव सह सार्धं स्मः अवामः नान्यैरन्यतरोपासकैर्वा । यस्त्वन्यतरदेवोपास्ते ज्ञानं कर्म वा प्रशंसन् स रजो भूत्वा प्रध्वंसते रजः पापं रजस्वलेति यथा । यद्वा रजस्सूक्ष्माणि चूर्णानि यथा तानि क्वचिदपि नाऽवतिष्ठन्ते तद्वन्नाऽऽस्पदं लभते । अथवा गुणो रजः सत्त्वं रजस्तम इति । अस्मिन् पक्षे मतुपो लोपो द्रष्टव्यः । आहोपुरुषिकयाऽन्यतरदेव प्रशंसन् रजस्वलो भूत्वा ध्वंसते । तस्मात् ज्ञानकर्मसमुच्चयस्साधीयान् ।
नन्वाश्रमभेदो नाऽस्तीत्युक्तं किमिदं प्रलप्यते त्रयीं विद्यामिति ? अविवेकापराधोऽयं नाऽऽयुष्मतो दोषः ।
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २५९
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २५९
श्रौते नास्तीत्युक्तम् । न पुनस्मार्तेऽपि नाऽस्तीति । असंख्येयानि स्मृति- वाक्यानि सन्ति 'ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा' 'तस्याश्रमविकल्पमेके ब्रुवत' इति । आह च— 'आश्रमसमुच्चयं द्वितीयं' आयुषो भागं तृतीयम् । इति । तथा चापस्तम्बः- चत्वार आश्रमाः गार्हस्थ्यं आचार्यकुलं मौनं वानप्रस्थ्यमिति । तत्र भेदे सति आश्रमाणां बाधो विकल्पस्समुच्चयो वा सम्भवति । तत्र मानवे बाधपक्षस्स- हेतुकः प्रतिपादितः । 'सर्वेषामपि चैतेषां वेदश्रुतिविधानतः । गृहस्थ उच्यते श्रेष्ठस्स त्रीनेतान् बिभर्ति हि ॥ वेदश्रुत्या हि गृहस्थस्य स्त्र्युपादानप्रभृत्याश्मशानकरणात् सर्वं विधीयते स्मृत्या । भाष्यकारोऽपि बहु मन्यते स्माऽस्य च गृहस्थाश्रमस्य वेदे श्रुतिवि- धानतः श्रेष्ठ्यवचनात्तदविरोधेनाऽऽश्रमान्तरप्रतिपत्तिरवगम्यते इति वदन् । गौतमोऽपि तुशब्देनेतरौ पक्षौ व्यावृत्त्य सहेतुकममुं पक्षमेवोपसंहृतवान् 'ऐका- श्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्य' इति । आचार्याभिप्रायस्तु विस्त- रेण प्रदर्शितः । तस्मात् सूक्तं 'ये चत्वारः पथयो देवयाना इति कर्मवादो नाऽऽ- श्रमवादः' इति ॥ ३७ ॥
इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मसूत्रविवरणे द्वितीयप्रश्ने षष्ठोऽध्यायः ॥
द्वितीयप्रश्ने सप्तमोऽध्यायः
द्वादशः खण्डः
स्नानमुक्तं महायज्ञाश्च । अथेदानीमवसरप्राप्तं भोजनमारभते—
अथ शालीनयायावराणामात्मयाजिनां प्राणाहूतीर्व्याख्या- स्यामः ॥ १ ॥
**अनु०—**अब हम आत्मयाजी (आत्मा में ही अग्नि का आधान कर यज्ञ करने वाले) गृहस्यों और यायावरों की प्राण देवता की आहुतियों का विवेचन करेंगे ॥१॥
**टि०—**शालीन का अर्थ गृहस्थ और यायावर का भ्रमणशील अर्थ है । इन शब्दों की व्युत्पत्ति का संकेत आगे तृतीय प्रश्न के प्रथम अध्याय सूत्र ३ में किया गया है । 'शालाश्रयत्वाच्छालीनत्वम् । वृत्त्या वरया यातीति यायावरत्वम् । अनुक्रमणचरणा-
२६० बौधायन-धर्मसूत्रम् [ भोजनविधिः
च्चकचरत्वम् ।" गोविन्दस्वामी—"विस्तीर्णाभिः शालाभिर्युक्ताः शालीनाः । यहाँ 'प्राण' शब्द से अपान आदि का भी अर्थ ग्राह्य है ।
शालीनयायावराश्च गृहस्था एव केनचिद् वृत्तिविशेषेणोच्यन्ते । 'आत्मयाजी पुनः 'जीर्णस्स्यात् तस्याऽग्निहोत्रचेष्टायाम्' इत्यनेन विधानेनाऽऽत्मनि समारूढाग्निः 'तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः' इत्यत्रोक्तो वा । एतेषामुपादानं मुनेरपि वक्ष्यमाणेन विधिना भोक्तव्यम्, किमङ्ग पुनरन्यैराश्रमिभिरित्येतत्प्रदर्शयितुम् । प्राणदेवत्या आहुतयः प्राणाहुतयः । प्राणशब्दोऽपानादीनामप्युपलक्षणाय ॥ १ ॥
सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुख उपविश्य तद्भूतमाह्रियमाणं भूर्भुवस्सुवरोमित्युपस्थाय वाचं यच्छेत् ॥ २ ॥
**अनु०—**दिन के सभी आवश्यक कर्मों को कर लेने के बाद अच्छी प्रकार स्वच्छ किए गये और लिपे हुए स्थान पर पूर्व की ओर मुख कर बैठे हुए लाये जाते हुए भोज्य अन्न की 'भूः भुवः स्वः ओम्' कहकर पूजा करे और मौन रहे ॥ २ ॥
अवश्यं भाव्यावश्यकं तन्नियोगतोऽहरहः कर्तव्यम् । सर्वावश्यकपरिसमाप्तिर्मध्यन्दिनात् प्रागेव¹ 'पूर्वाह्ने वै देवानां मध्यन्दिने मनुष्याणामपराह्णे पितॄणाम्' इति श्रुतेः । तथा दक्षेणाऽप्युक्तम्— 'पञ्चमे भोजनं स्मृतम्' इति । संमृष्टः शोधितः । उपलिप्तो गोमयेनोदकेन च । देशग्रहणं भूमौ पादनिधानार्थम् । तेन पादावासनमारोप्य न भुञ्जीतेति गम्यते । प्राङ्मुखत्वं नित्यवत् कर्तव्यम् । उपवेशनग्रहणात् स्थानशयननिवृत्तिः प्रतीयते । ²तेनाऽनेन मन्त्रेण उपस्थाय नमस्कृत्य मौनी भवेत् ॥ २ ॥
न्यस्तमन्नं महाव्याहृतिभिः प्रदक्षिणमुदकं परिषिच्य सव्येन पाणिनाऽविमुञ्च 'नमृतोपस्तरणमसी' ति पुरस्तादपः पीत्वा पञ्चान्नेन प्राणाहुतीर्जुहोति "प्राणे निविष्टोऽमृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहे" ति ॥ ३ ॥
**अनु०—**सम्मुख रखे हुए भोज्यान्न के चारो ओर महाव्याहृतियों के उच्चारण के साथ दाहिने ओर से जल छिड़क कर, बायें हाथ से भोजन पात्र को पकड़े हुए ही "अमृतोपस्तरणमसि" ( तुम अमृत अन्न के उपस्तरण हो ) कहकर जल पिये । फिर पाँच बार अन्न से प्राणों के लिए यह कहते हुए. आहुति करे "प्राणे निविष्टोऽ-
१. पूर्वाह्णः, मध्यन्दिनः, अपराह्नः, इति प्रथमान्तपाठः शाबरभाष्ये ।
२. मानवमतेन ग. पु.
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६१
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६१
मृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहा" ( मैं प्राण के लिए अमृत की आहुति करता हूँ, तुम मुझमें कल्याण के लिए प्रवेश करो, प्राण को स्वाहा ) ॥३॥
न्यस्त भाजने प्रक्षिप्तमन्नं महाव्याहृतिभिः 'भूरग्नये च पृथिव्यै चे' त्यादिभिः प्रदक्षिणमुदकं परिषिच्य, सव्येन पाणिना भोजनपात्रं अविमुञ्चन् अविस्सृजन् 'अमृतोपस्तरणमसी' त्यपः पिबेत् । पुरस्ताद् ग्रहणात् परिधानमे- तदन्नस्येति ज्ञापयति, तथोपरिष्टादिति । इतरथाऽन्यदन्नं भवेत्। 'अन्नममृतं च' इति श्रुतिः। अमृतमन्नं तस्योपस्तरणमुदकं तदेवाऽपिधानं तत्त्वमसोत्युदकमा- मन्त्रयते । 'अपोऽशान, कर्म कुरु' इति यदुक्तमुपनयनसमये तदिदम् । 'प्राणे निविष्टः' इत्यन्तेन जुहोतीति सम्बन्धः । प्राणे प्राणार्थमभिनिविष्टोऽहममृतमन्नं जुहोमि मय्येव । मां च शिवस्सुखहेतुः आविश अप्रदाहाय च भव । स्वाहेति प्रदानप्रतिपादकः । प्रयच्छामीति यावत् । एवमुत्तरेष्वपि यथासम्भवं योज- नीयम् ॥ ३ ॥
पञ्चान्नेन प्राणाहूतीर्हुत्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन् ॥ ४ ॥
अनु०— प्राणों के लिए पाँच आहुतियाँ करने के बाद चुपचाप रहकर मन से प्रजापति का ध्यान करते हुए भोजन करे ॥ ४ ॥
अन्नेन पञ्चप्राणाहूत्यनन्तरं यथेष्टं व्रतयेद् भुञ्जीत । तूष्णींग्रहणेन वाग्यम- निवृत्तिः मन्त्रनिवृत्तिर्वा गृह्यते । ध्यायेदिति शेषः । तेषामपाठः । तथा भूय- श्शब्दात् षष्ठो ग्रासो गृह्यते ॥ ४ ॥
नान्तरा वाचं विसृजेद्यदन्तरा वाचं विसृजेद्भूर्भुवस्सुवरोमिति जपित्वा पुनरेव भुञ्जीत ॥ ५ ॥
अनु०— भोजन करते समय बोलना नहीं चाहिए, यदि बीच में बोले तो फिर भूः, भुवः स्वः ओम् का जपकर पुनः भोजन करे ॥ ५ ॥
ऋञ्जेतत् ॥ ५ ॥
त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डमुद्धृत्याऽद्भिर- भ्युक्ष्य भस्माऽवकीर्य पुनरद्भिः प्रोक्ष्य वाचा च प्रशस्तमुपयुञ्जीत ॥६॥
अनु०— यदि भोजन में चमड़े का टुकड़ा, केश, नख, कीड़ा चूहे का मल दिखायी पड़े तो उस स्थान से भोजन का पिण्ड निकाल कर उस पर जल छिड़के, भस्म बिखेरे, पुनः जल से प्रोक्षण कर और शेष भोजन को खाने योग्य विहित किये जाने पर भोजन करे ॥ ६ ॥
२६२ बौधायनधर्मसूत्रम् [ भोजनविधिः
केशग्रहणं लोमनखादीनामपि प्रदर्शनार्थम् । कीटः बृहतीफलादिप्रभवो घुणः । तद्ग्रहणं चाऽजीवन्मक्षिकापिपीलिकादीनामपि प्रदर्शनार्थम् । जीवता- मपवादश्रवणात् 'मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते' इति । आखुपुरीषं गुदादिपुरीषग्रहणार्थं विड्वराहश्लोकसंगृहीतपरिग्रहार्थं च । यो देशः कीटादि- संयुक्तः तं देशम् । वाचा प्रशस्तस्योपयोगः प्रशस्तमित्युच्चरिते उपयोगः । उच्चा- रयिता च स्वयं वाऽन्यो वा यस्तदा प्रयतो भवति ॥ ६ ॥
अथाऽप्युदाहरन्ति— आसीनः प्राङ्मुखोऽश्नीयाद्वाग्यतोऽन्नमकुत्सयन् । अस्कन्दयंस्तन्मनाश्च भुक्त्वा चाऽग्निमुपस्पृशेदिति ॥ ७ ॥
अनु०—इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—"पूर्व की ओर मुख कर चुप रहकर, भोजन की निन्दा न करते हुए, पृथ्वी पर भोजन का अंश न गिराते हुए, भोजन पर ही ध्यान देते हुए भोजन करे तथा भोजन करने के बाद अग्नि का स्पर्श करे ॥ ७ ॥"
आसनप्राङ्मुखत्वयोः पुनरुपादानं पञ्चप्राणाहुत्यन्ते तयोः पर्यवसानं मा भूदिति । वाग्यतोऽन्नं व्रतयेत् । तूष्णींग्रहणेनैव सिद्धत्वादनुवादः । अकुत्सयन् अगर्हयन् अपकतुषपर्णपातादिदोषैः । अस्कन्दयम् भूमावनवकिरन् तन्मनाः अन्नमेव चिन्तयन् भुक्त्वा चाऽऽचान्तश्चाऽग्निमुपस्पृशेदिति योजना ॥ ७ ॥
सर्वभक्ष्यापूपकन्दमूलफलमांसादीनि दन्तैर्नाऽवद्येत् ॥ ८ ॥
अनु०—अपूप, कन्द, मूल, फल, मांस आदि जो बिना काटे ही खाये जा सकते हों उन्हें दाँतों से काट कर न खाए ॥ ८ ॥
सर्वभक्ष्योदाहरणत्वेनाऽपूपादिग्रहणम् । एतानि दन्तैर्नाऽवद्येत् न खण्डयेत् दन्तखण्डितावशिष्टं पुनर्भक्षणाय नाऽऽदद्यादित्यर्थः ॥ ८ ॥
नाऽतिसुहितः ॥ ९ ॥
अनु०—अधिक भोजन न करे ॥ ९ ॥
अत्यशनं वर्जयेत् । उक्तं च— 'न भुञ्जीतोध्दृतस्नेहं नातिसौहित्यमाचरेत्' इति । अतो मिताशनमिति ॥ ९ ॥
'अमृतापिधानमसि' इत्युपरिष्टादपः पीत्वाऽऽचान्तो हृदयदेशम-
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६३
द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६३
मिमृशति—"प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनाऽन्नेनाऽऽ- प्यायस्वे"ति ॥ १० ॥
अनु०—उसके बाद "अमृतापिधानमसि" कहकर जल पिए, आचमन कर "प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनाऽन्नेन आप्यायस्व" (तुम प्राणों को जोड़ने वाला ग्रन्थि हो, तुम रुद्र हो, अन्त करने वाले मृत्यु बनकर मुझमें प्रवेश न करो। इस अन्न द्वारा वृद्धि प्राप्त करो ) कहकर हृदय प्रदेश का स्पर्श करे ॥ १० ॥
अमृतस्याऽपिधानमुपरि प्रच्छादनं उदकं तत्त्वमसीति मन्त्रार्थः। अभिम- र्शनमन्त्रस्य वामदेव ऋषिः काण्डर्षिर्वा। निचृद्गायत्री छन्दः जीवो देवता। हृदयं जीवायतनं तत्रस्थो जीव आमन्त्र्यते। ग्रन्थिः बन्धनं प्राणायतनं असि रुद्रः अन्तकः अन्तकरस्सन् मा अन्तःविश अन्तको मा भूरित्यर्थः। यज्जीवितं मम तेनाऽन्नेन मां आप्यायस्व वर्धय ॥ १० ॥
पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति"अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्व- भुगि"ति ॥ ११ ॥
अनु०—पुनः दूसरी बार आचमन कर, दाहिने पैर के अँगूठे पर अपने हाथ से जल की बूंदें यह कहते हुए गिराए—"अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्" ( अङ्गुष्ठ के आकार का पुरुष जो अंगु- ष्ठ मात्र आकाश का आश्रय लेता है, सम्पूर्ण संसार का स्वामी है, विश्व का भोक्ता है, प्रसन्न होवे ) ॥ ११ ॥
पाणिभ्यामिति द्विवचनात् द्वाभ्यां हस्ताभ्यामुदकं निस्रावयेत्। अङ्गुष्ठमात्र इत्यृचः वामदेव ऋषिः अनुष्टुप्छन्दः आत्मा देवता। मात्रच्प्रत्ययः। अद्य परमात्मा स्मृतः पुरुषः पुरि शेत इति व्युत्पत्त्या। आह च कृष्णद्वैपायनस्सा- वित्र्युपाख्याने— अङ्गुष्ठमात्रं पुरुषं विचकर्ष यमो बलात् ॥ इति ॥ तत्परिमाणश्च तदाश्रयश्चाऽसावीश्वरः जगतो जङ्गमस्य सर्वशब्दात्स्थावर- स्य प्रभुः प्रभूतं प्रियतमं विश्वं भुनक्ति भुङ्क्त इति वा विश्वभुक् ॥ ११ ॥
हुतानुमन्त्रणमूर्ध्वहस्तस्समाचरेत्—"श्रद्धायां प्राणे निविश्या- ऽमृतं हुतम्। प्राणमन्नेनाऽऽप्यायस्वे"ति पञ्च ॥ १२ ॥
अनु०—हाथ ऊपर उठाकर हुत अन्न का "श्रद्धायां प्राणे निविश्यामृतं हुतम्। प्राणमन्नेनाप्यायस्व।" आदि पाँच मन्त्रों से अनुमन्त्रण करे ॥ १२ ॥
२६४ | बौधायन-धर्मसूत्रम् | [ भोजनविधिः
पञ्चैते मन्त्राः हुतानुमन्त्रणं तत्साधनं हुतस्य भुक्तस्याऽनुमन्त्रणमन्वीक्ष्य वदनं तदूर्ध्वहस्तस्समाचरेत् ॥ १२ ॥
"ब्रह्मणि म आत्माऽमृतत्वाय" त्यात्मानम् ॥ १३ ॥
अनु०--- "ब्रह्मणि म आत्माऽमृतत्वाय" (मेरा आत्मा ब्रह्म में अमृतत्व प्राप्त करे) कहते हुए अपना अनुमन्त्रण करे ॥ १३ ॥
स्वशरीरमनुमन्त्रयत इति शेषः । जीवपरमात्मानावेकीभावयेदिति मन्त्रार्थः ॥ १३ ॥
अक्षरेण चाऽऽत्मानं योजयेत् ॥ १४ ॥
अनु०— स्वयं अपने आत्मा को अक्षर ( ओम् ) के साथ अभिन्न कर उसका ध्यान करे ॥ १४ ॥
अक्षरं प्रणवः तेन आत्मानं प्रणवं क्षेत्रज्ञं वा एकीभूय ध्यायेदित्यर्थः ।
सर्वक्रतुयाजिनामात्मयाजी विशिष्यते ॥ १५ ॥
अनु०— जो आत्मा के लिए यज्ञ करता है वह सभी यज्ञ करने वाले से श्रेष्ठ होता है।
विदुषः प्रशंसैषा । यथा च श्रुतिः—'स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत् स्यात्' इति ॥ १५ ॥
अथाऽप्युदाहरन्ति ॥ १६ ॥
यथा हि तूलमैषीकम् ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने द्वादशः खण्डः ॥ १२ ॥
त्रयोदशः खण्डः
यथा हि तूलमैषीकमग्नौ प्रोतं प्रदीप्यते ।
तद्वत्सर्वाणि पापानि दह्यन्ते ह्यात्मयाजिनः ॥ १ ॥
अनु०— इस विषय में निम्नलिखित पद्य उद्धृत किया जाता है—जिस प्रकार रूई और इषीक ( सूखे हुए सरपत आदि जैसे घास-फूस ) अग्नि में डालने पर जल उठते हैं उसी प्रकार आत्मयाजी के सभी पाप नष्ट हो जाते हैं ॥ १ ॥
इषीकं तृणविशेषः । तूलमग्रं प्रणवं शुष्कमिति शेषः । आत्मयाजी यथाविधि भुञ्जानः सर्वाणि इह जन्मनि जन्मान्तरे च कृतानि । श्रुतिरपि 'तद्यथे-
त्रयोदशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६५
षीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति' इति ॥ १ ॥ 'केवलाघो भवति केवलादी । मोघमन्नं विन्दते इति ॥ २ ॥
अनु० — जो व्यक्ति केवल आहार मात्र करता है वह केवल पाप ही एकत्र करता है । वह व्यर्थ ही अन्न खाता है ॥ २ ॥
एवमविदुषो निन्दया विदुषः प्रशंसा । अघं पापं इतरथा केवलाघो भवेत् कोऽसौ ? केवलादी केवलआहारीत्यर्थः । स एव मोघमन्नं विन्दत इति अनया ऋचा निन्यत इति शेषः । अस्य ऋषिर्भिक्षुः त्रिष्टुप्छन्दः । अन्नदानप्रशंसा । मोघं वृथा अन्नमदनीयं विन्दते भुङ्क्ते अप्रचेताः अविद्वानित्येतत् । अहं सत्यमेव ब्रवीमि न मृषा । वधो हिंसा इत् इत्यवधारणे स इति केवलाशन उच्यते : तस्य केवलाशनं वध एवेत्यर्थः । अथ वा—एतद्भिक्षोर्वाक्यम् , तस्य वध इत्युक्तम् , तमावेष्टयति नाऽर्यमणं पुष्यति देवतार्थं न प्रयच्छतीति नो सखायं चाऽप्यभ्यागतं पूजयति स एव केवलाघो भवति केवलादित्वात् । गतश्लोकदर्शितविस्तरः ॥ २ ॥
स एवमेवाऽहरहस्सायम्प्रातर्जुहुयात् ॥ ३ ॥
अनु०—इसी प्रकार प्रतिदिन सायंकाल तथा प्रातःकाल हवन करे ॥ ३ ॥
अत एतद्गम्यते—'सर्वावश्यकामवसाने' इत्यस्य दिवसे कर्तव्यानामन्ते दिवाभोजिन एवमेव रात्रावित्ययमर्थ इति ॥ ३ ॥
रात्रौ भोजनद्रव्याभावे कथम् ?
अद्भिर्वा सायम् ॥ ४ ॥
अनु०—अथवा सायकाल जल अर्पित करे ।
भोजनीयम् , आचमनभोजनसामान्यात् ॥ ४ ॥
मनुष्याणां पौर्वापर्यमाह —
अथाऽप्युदाहरन्ति—
अग्रे भोजयेदतिथीनन्तर्वत्नीरनन्तरम् ।
बालवृद्धांस्तथा दीनान् व्याधितांश्च विशेषतः ॥ ५ ॥
अनु० — इस विषय में निम्नलिखित पद्य उद्धृत करते हैं-सबसे पहले अतिथियों
१. श्रुतेरनुवादोऽयम् See तै. ब्रा. २. ८. ८. १.
| २६६ | बौधायन-धर्मसूत्रम् | [ भोजनविधिः |
|---|
को भोजन कराये, फिर गर्भिणी स्त्रियों की, उसके बाद बालकों और वृद्धों को भोजन कराये फिर दुःखी व्यक्तियों को और विशेषतः रोगी व्यक्ति को भोजन कराए ॥ ५ ॥
अन्तर्वत्नी गर्भिणी। ऋज्वन्यत् ॥ ५ ॥
अन्यथाकरणनिन्दा—
अदत्वा तु य एतेभ्यः पूर्वं भुङ्क्ते यथाविधि ।
भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥ ६ ॥
**अनु०—**किन्तु जो व्यक्ति पहले उपर्युक्त व्यक्तियों को नियमपूर्वक भोजन न कराकर स्वयं ही भोजन कर लेता है, वह यह नहीं जानता कि स्वयं उसी का भक्षण होता है, वह खाता नहीं है, खाया जाता है ॥ ६ ॥
यथाविधीति आचमनभोजनसामान्यात् भुज्यमानः क्षीयमाणोऽपि न जानात्यात्मनो भुज्यमानताम्। न हि स भोजनकर्ता। किं तर्हि ? स भुज्यते कर्म भवति। यथा भुज्यमानं द्रव्यं क्षीयते एवं केवलादीत्यभिप्रायः ॥६॥
पितृदैवतभृत्यानां मातापित्रोर्गुरोस्तथा ।
वाग्यतो विघसमश्नीयादेवं धर्मो विधीयते इति ॥ ७ ॥
**अनु०—**पितरों, देवों, सेवकों, माता, पिता, तथा गुरुओं को खिलाने के बाद अवशिष्ट भोजन मौन होकर ग्रहण करे, यही धर्म बताया गया है ॥ ७ ॥
विघसः शेषः। तथा वसिष्ठोऽप्यतिथिपूजाप्रकरणे आह—'श्रेयांसं श्रेयांसमानुपूर्व्येण। स्वगृह्याणां कुमारीबालवृद्धतरुणप्रजाताः। ततोऽपरान् गृह्यांश्च। श्वचण्डालपतितवायसेभ्यो भूमौ निर्वपेत्। शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्यात्। शेषं दम्पती भुञ्जीयाताम्' इति। वाग्यत इति पुनर्वचनमादरार्थम् ॥७॥
अथाऽप्युदाहरन्ति—
'अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः ।
द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥ ८ ॥
**अनु०—**इस संबन्ध में ही निम्नलिखित पद्य उद्धृत करते हैं संन्यासी का भोजन आठ ग्रास का होता है, वानप्रस्थ का भोजन सोलह ग्रास का तथा गृहस्थ का भोजन बत्तीस ग्रास का होता है, किन्तु ब्रह्मचारी के लिए भोजन के ग्रासों का कोई नियम नहीं है ॥ ८ ॥
१. cf. वा. ध. ६. १८.
त्रयोदशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६७
अपरिमितं ग्रासानां परिमाणसङ्ख्यानियमो नास्तीत्यर्थः ॥ ८ ॥
'आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नतामिति ॥ ९ ॥
अनु०—अग्निहोत्री, बैल और ब्रह्मचारी-ये तीनों अपरिमित भोजन करने पर ही अपना कार्य सम्पादित कर पाते हैं; भोजन किये बिना वे अपने कार्य नहीं कर सकते ॥ ९ ॥
अनडुद्ग्रहणं दृष्टान्तार्थम् । नैतेषां परिमितमित्येतत्सिद्ध्यति । कर्मकर्तृत्वेनाऽनश्नतामेषां न सिद्धिः कर्मणः । उपवासप्रतिषेधो वाऽयम् । आहिताग्नेर्ब्रह्मचारिणश्चोपवासे सति शुश्रूषायाः कर्मणश्च लोपप्रसङ्गात् ॥ ९ ॥
किञ्च—
गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥ १० ॥
अनु०—जो गृहस्थ वा ब्रह्मचारी उपवास करते हुए तपस्या करता है, वह प्राणाग्निहोत्र न करने से अवकीर्णी हो जाता है ॥ १० ॥
प्राणाग्निहोत्रलोपनिन्दैषा । नन्वेवं सति पञ्चाहुतिलोप एव दोषस्स्यात् , नेतरग्रासलोपे । यथाऽग्निहोत्रहोमे हुतशेषप्राशनाभावे दोषो नाऽस्ति तद्वदेतदपि । वक्तव्यो वा विशेषः उच्यते-स्यादेतदेवं यद्यनशननिन्दा न स्यात् , अस्ति तु । तस्मादनशननिन्दैषा ॥ १० ॥
किमेष एवोत्सर्गः ? सर्वदाऽशितव्यमेव ? नेत्याह—
अन्यत्र प्रायश्चित्तात्प्रायश्चित्ते तदेव विधानम् ॥ ११ ॥
अनु—प्रायश्चित्त की तपस्या के अतिरिक्त अन्य प्रायश्चित्त में उपवास ही नियम है ॥ ११ ॥
उपवास एव साधीयानित्यर्थः ॥ ११ ॥
अथाऽप्युदाहरन्ति
अन्तरा प्रातराशं च सायमाशं तथैव च ।
सदोपवासी भवति यो न भुङ्क्ते कदाचनेति ॥ १२ ॥
अनु० —इस विषय में निम्नलिखित उद्धृत करते हैं—जो प्रातः कालीन और
१. cf. वा. ध. ६. १९.
| २६८ | बौधायन-धर्मसूत्रम् | [ श्राद्धविधिः |
|---|
सन्ध्याकालीन भोजन के बीच कभी भोजन नहीं करता वह सदा उपवास करने वाले के समान ही होता है ॥ १२ ॥
कालयोरन्तराऽनशनं तदुपवासफलं भवेत् । अतश्च नाऽन्तरा भोजनं कर्तव्यम् ॥ १२ ॥
प्राणाग्निहोत्रमन्त्रांस्तु निरुद्धे भोजने जपेत् ।
त्रेताग्निहोत्रमन्त्रांस्तु द्रव्यालाभे यथा जपेदिति ॥ १३ ॥
**अनु०—**जिस प्रकार यज्ञ की वस्तुओं के अभाव में तीनों अग्नियों से संबद्ध अग्निहोत्र के मन्त्रों का जप किया जाता है, उसी प्रकार भोजन न उपलब्ध होने पर प्राणाग्नि होत्र के मन्त्रों का जप करना चाहिए ॥ १३ ॥
निरुद्धे भोजने व्याध्यादिना द्रव्यासमम्भवेन वा तदानीं 'भूर्भुवस्स्वः' इत्यादीन् प्राणाहूतिमन्त्रान् वा जपेत् ॥ १३ ॥
¹एवमेवाऽऽचरन् ब्रह्मभूयाय कल्पते ब्रह्मभूयाय कल्पत इति ॥ १४ ॥
इति द्वितीयप्रश्ने त्रयोदशः खण्डः॥
**अनु०—**इस प्रकार आचरण करने वाला ब्रह्म के साथ तादात्म्य प्राप्त कर लेता है।
ब्राह्मणो ब्रह्म तद्भूयं तद्भावः ॥ १४ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे द्वितीयप्रश्ने सप्तमोऽध्यायः।
द्वितीयप्रश्ने अष्टमोऽध्यायः
चतुर्दशः खण्डः
येन विधिना स्वयं भुञ्जीत तत्प्रतिपादयितुमधुना परभोजनं कारयितुं काम्यस्य विधानमुच्यते । द्विविधं भवत्यतिथिभोजनं श्राद्धभोजनं च । तदिदानीं श्राद्धमुच्यते--
पित्र्यमायुष्यं स्वर्ग्यं प्रशस्यं पुष्टिकर्म च ॥ १ ॥
**अनु०—**पितृदेवताओं के लिए श्राद्ध कर्म दीर्घ आयु प्रदान करने वाला, स्वर्ग देने वाला, प्रशंसनीय तथा समृद्धि का कारण होता है ॥ १ ॥
१. "उत्तम एवमेव" इति ख. ग. घ. पुस्तकेषु सूत्रपाठः ।
चतुर्विंशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २६५
पितृदेवत्यं पित्र्यं श्राद्धम् । तदेव आयुष्यमायुषे हितम् । स्वर्ग्यं स्वर्ग- साधनम् । प्रशस्यं प्रशंसनीयम् । पुष्टिकर्म सर्वसुखसम्पत्तिः । एवंलक्षणं श्राद्धं वक्ष्याम इति संग्रहः क्रियते ॥ १ ॥
कान् पुनश्श्राद्धे भोजयेदित्याह— 'त्रिमधुस्त्रिणाचिकेतस्त्रिसुपर्णः पञ्चाग्निष्षडङ्गविच्छीर्षको ज्येष्ठ- सामिकस्स्नातक इति पङ्क्तिपावनाः ॥ २ ॥
अनु०—त्रिमधु (मधु शब्द वाले तीन मन्त्रों का सम्यक् अभ्यास) करने वाला, तीन बार नाचिकेत व्रत किया हुआ, ('ब्रह्मामेतु माम्' आदि तीन अनुवाकों का ज्ञाता), त्रिसुपर्ण व्रत करने वाला, पञ्चाग्नि की तपस्या करने वाला, वेद के छः अंगों का ज्ञाता, शिरोव्रत किया हुआ, ज्येष्ठसाम का अध्येता तथा स्नातक—ये पंक्ति को पवित्र करते हैं ॥ २ ॥
टि०—मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः । त्रयो मधुशब्दवन्तो मन्त्राः² 'मधु वाता ऋतायते' इत्यादयः । ते तेन बहु- शोऽभ्यस्ताः स त्रिमधुः । ³त्रिणाचिकेतो नामाऽथर्वणां व्रतम्, तच्चारी । अयं वाव यः पवते' इत्यनुवाकत्रयं वा, तद्विद्वान् । ⁴त्रिसुपर्णो नाम बह्वृचानां व्रतं तच्चारी । त्रिसुपर्णः 'ब्रह्म मेतु माम्' इत्यनुवाकत्रयं वा, तद्विद्वान् । ⁵पञ्चाग्निः
१. cf आप. ध. २. १७. २२. २. मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः ॥ १ ॥ मधुनक्तमुतोषसि मधुमत्पार्थिवं रजः । मधुद्यौरस्तु नः पिता ॥ २ ॥ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ ३ ॥ ( तै. सं. ४. २. ९ ) ३. नचिकेता नाम कश्चिदृषिरासीत्, तस्मै यमेनोपदिष्टश्चयनविशेषो नाचिकेत- शब्देनाऽभिधीयते इति प्रतिपादितं तैत्तिरीयब्राह्मणे ( काठके ३.८ ) विस्तरश उपा- ख्यानान्वाख्यानपुरस्सरं कठोपनिषदि च । तदर्थं यद्व्रतं, तन्नाचिकेतं नाम । यो नाचि- केताख्यं चयनं वारत्रयमचिनोत्, स त्रिणाचिकेतः तद्विज्ञाता तदध्येता तदनुष्ठानवान् वा इति कठोपनिषद्भाष्ये । ४. ब्रह्म मेतु माम्, ब्राह्मामेधया, ब्रह्ममेधवा इत्यनुवाकत्रयं त्रिसुपर्णः । ५. सावित्र, नचिकेत, चातुर्होत्रिय, वैश्वसृजा,रुणकेतुकाख्यः पञ्च चयनविशेषाः काठके ( का. १. २. ३ ) समन्त्रकास्समाम्नाताः, ते पञ्चाऽग्नयः तदध्येता, तच्चेता वा पञ्चाग्निः । छान्दोग्योपनिषदुक्तपञ्चाग्निविद्याध्येता इति मनुव्याख्याने ( ३. १८४ ) मेधातिथिः ।
२७० बौधायन-धर्मसूत्रम् [श्राद्धीयब्राह्मणाः
सभ्यावसथ्याभ्यां सह । षडङ्गवित् प्रसिद्धः । १ शीर्षकः शिरोव्रतिकः अथर्वणा- मेतच्छिरोव्रतं नाम । ज्येष्ठसाम 'मूर्धानं दिव' इत्यस्यामुत्पन्नं तयोऽधीते स ज्येष्ठसामिकः । एवमुक्तलक्षणः स्नातको वेदितव्यः । पंक्तिपावनाः पङ्क्ति- शोधकाः ॥ २ ॥
तदभावे रहस्यवित् ॥ ३ ॥
अनु०—इनके न होने पर रहस्य विद्या का ज्ञाता पंक्ति को पवित्र करता है ॥ ३ ॥
रहस्यमरण्ये पठितव्यो ग्रन्थः, यस्तमर्थतो ग्रन्थतश्च वेत्ति सोऽपि पंक्ति- पावनः श्राद्धार्हः । अत्र तदभावशब्दः पूर्वैस्सम्बन्धनीयः रहस्यविद्भावे त्रिम- ध्वादय इत्यर्थः ॥ ३ ॥
ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्मादेवंविदं सपिण्डमप्याशयेत् ॥ ४ ॥
अनु०—ऋचाओं, यजुस् मन्त्रों और साम से श्राद्ध का माहात्म्य बढ़ता है । अत एव सपिण्ड संबन्ध वाला व्यक्ति भी इनका ज्ञाता हो तो उसे भोजन कराये ॥ ४ ॥
महिमा सम्पत् । पंक्तिपावनाः ऋगादिशब्देन तद्विदो लक्ष्यन्ते । यस्मादेवं तस्मात् एवंविदं रहस्यविदं ब्रह्मज्ञम् । तस्मादत्यन्तगुणवानपि रहस्यवित्स- पिण्डो भोजयितव्यः । रहस्यविद्धि भूतानां श्रेष्ठो भवति । आह च—
भूतानां प्राणिनश्श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराश्श्रेष्ठाः नरेषु ब्राह्मणास्मृताः ॥
ब्राह्मणेषु च विद्वांसः विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ।
ब्रह्मविद्भवः परं भूतं न किञ्चिदिह विद्यते ॥ इति ॥
रक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च । मध्वृचोऽथ पवित्राणि श्रावयेदाशयञ्छनैः ॥ ५ ॥
अनु०—भोजन कराने वाला भोजन करने वाले ब्राह्मणों को रक्षोघ्न साम, ( 'सोमाय पितृपीताय स्वधानमः' आदि ) स्वधावत् यजुस् मन्त्र, ( 'मधु वाता:' इत्यादि तीन ) मधु नाम की ऋचाएं 'पवमानस्सुवर्जन' इत्यादि पवित्र करने वाले मन्त्र सुनवाये ॥ ५ ॥
१. इदमेव शिरोव्रतं मुण्डकोपनिषदि "शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इत्यनुदितम् ।
चतुर्दशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २७१
रक्षोधनानि सामानि १अग्ने रक्षाणो अंहसः, २अग्ने युक्ष्वाहि ये तव, ३ प्रत्यग्ने मिथुना दहं यातुधाना, ४प्रत्यग्ने हरसा हरः, ५ न तस्य मा यया च न, ६ श्रुष्ट्यग्ने नवस्य मे, ७ यद्वा उ विश्पतिः शितः, ८ अग्निं होतारम्' एतत्सूक्तोत्पन्नानि स्वधाषन्ति यजूंषि च 'सोमाय पितृपीताय स्वधा नमः' इत्यादीनि । मध्वृचः 'मधु वाताः' इत्यादीनि त्रीणि पवित्राणि 'पवमानस्सुवर्जनः' इत्यादीनि भुञ्जानान् ब्राह्मणान् श्रावयेत् ॥ ५ ॥
९चरणवतोऽनूचानान्योनिश्रोत्रमन्त्रासम्बन्धाञ्छुचीन्मन्त्रवतस्त्र्यवरान्युजः पूर्वेद्युः प्रातरेव वा निमन्त्र्य सदर्भोंपक्लृप्तेष्वासनेषु प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा ॥ ६ ॥
अनु०— उत्तम आचरण वाले, वेदों के विद्वान्, पवित्र, मन्त्र के ज्ञाता श्रोत्रिय, त्रिमधु आदि जानने वाले, वेदाङ्ग के विद्वान् कम से कम तीन और सदैव विषम संख्या में ब्राह्मण को, जो विवाह, गोत्र, मन्त्र आदि द्वारा सम्बन्धी न हों, श्राद्ध के दिन से एक दिन पहले अथवा श्राद्ध के दिन ही प्रातःकाल निमन्त्रण देकर श्राद्ध कर्ता उन्हें दर्भ से ढके हुए आसनों पर पूर्व या उत्तर की ओर मुख कराकर बैठावें ॥ ६ ॥
१. अग्ने रक्षाणो बंहसः प्रति स्म देव रिषतः । तपिष्ठैरजरो दह । ( सा. सं. पूर्वार्चिके १ प्रपाठके १ अर्ध ३. दशतो ३ ऋक् ) २. अग्ने युक्ष्वा हि ये तवाऽश्वासो देव साधवः । अरं वहन्त्याशवः । ( सा. सं. पू, अर्ध १. द. ३. ऋ. ४. ) । ३. ऋ. सं. ८. ४. ९, ४. ४. प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् । ( सा. सं. पू. प्र. १. अ. २. ५ द. ऋ. ५. ) ५. न तस्य मायया चन रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये । ( सा. सं. पू. प्र. २. अ. १. १. ऋ, ८, ) ६. श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस्तपसा रक्षसो दह । ( सा. सं. पू. २. १. १. १० ) ७. यद्वा उ विश्पतिश्शितस्सुप्रीतो मनुष्यो विशे । विश्वेदरिनः प्रति रक्षांसि सेधति । ( सा. सं. पू. २, १. २. ८. ) ८. अग्निं होतारं मन्ये दास्वंतं वसोस्सुनुं सहसो जातवेदसम् । विप्रं न जातवेदसम् । ( सा. सं. पू. ५. २. ३. ९. ) ९. cf आप. गृ. २. १६. ४.
| २७२ | बौधायन-धर्मसूत्रम् | [ श्राद्धविधिः |
|---|
टि०—गौतम के अनुसार कम से कम नो ब्राह्मणों को भोजन कराने का नियम है “नवावरान्मोजयेदयुजः” २. ६. ७ पृ० १५९. किन्तु साथ ही यह भी कहा गया है कि अपनी सामर्थ्य के अनुसार नो से कम ब्राह्मणों को भी भोजन कराया जा सकता है । “यथोत्साहं वा”। युवक ब्राह्मण को दान देना अधिक उत्तम बताया गया है किन्तु जिसे श्राद्ध का भोजन करावे उससे मित्रता का प्रयोजन न सिद्ध करे “ न च तेन मित्रकर्मं कुर्यात्” गौतम० २. ६. १२ पृ० १६०
चरणमाचारः । यद्वा—गुरुपूर्वकमागतं शाखाध्ययनं तद्विहितोपनयनं च येषां ते चरणवन्तः । वेदाङ्गाध्यायिनोऽनूचानाः । योन्यसम्बन्धाः । गोत्रासम्बन्धाः असगोत्राः । मन्त्रासम्बन्धाः अशिक्षोपाध्यायाः । शुचयो बाह्याभ्यन्तरयोः । मन्त्रवन्तः श्रोत्रियाः । त्रिमध्वादीनामेतेषां च सम्भवापेक्षया व्यस्तसमस्तभावः कल्प्यः । निमन्त्रणं-श्वः करिष्यामि प्रसीदन्तु भवन्तो भोक्तुमित्येवमादि ॥ ६ ॥
अथैनांस्तिलमिश्रा अपः प्रतिग्राह्य गन्धैर्मात्यैश्चाऽलङ्कृत्याऽग्नौ करिष्यामीत्यनुज्ञातोऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात्कृत्वाऽऽज्यस्यैव तिस्र आहुतीर्जुहोति— “सोमाय पितृपीताय स्वधा नमस्सवाहा । यमायाऽङ्गिरस्वते पितृमते स्वधा नमस्सवाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्सवाहे”ति ॥ ७ ॥
इसके उपरान्त उनको तिल मिश्रित जल दे, उन्हें गन्ध और माला से अलंकृत करे और “अग्नौ करिष्यामि” ( मैं अग्नि में हवन करना चाहता हूँ) इस प्रकार उनकी अनुमति से अग्नि का उपसमाधान करे, उसके चारों ओर कुश बिछावे, अग्नि मुख तक की क्रियाएं कर इन मन्त्रों के साथ आज्य की तीन आहुतियां करे “सोमाय पितृपीताय स्वधानमस्सवाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्सवाहा” ॥ ७ ॥
अग्नौ करिष्यामीत्युक्ते कुरुष्वेत्यभ्यनुज्ञात इति शेषः । अन्यदतिरोहितम् । दार्विहोमिकतन्त्रप्राप्त्यर्थमग्निमुखादित्युकम् ॥ ७ ॥
तच्छेषेणाऽन्नमभिघार्याऽन्नस्यैता एव तिस्र आहुतीर्जुहुयात् ॥८॥
अनु०—अवशिष्ट आज्य अन्न में मिलाकर उस अन्न से ही तीन आहुतियां करे ॥ ८ ॥
तच्छेषेण आज्यशेषेण अन्नस्य अन्नेनेत्यर्थः । एता इत्याहुतिमन्त्रान् व्यपदिशति ॥ ८ ॥
वयसां पिण्डं दद्यात् ॥ ९ ॥
चतुर्दशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २७३
अनु०—कौओं के लिए पिण्ड दे ॥ ९ ॥
वयश्शब्देनेह काका गृह्यन्ते ॥ ९ ॥
पितृभ्यो दातव्ये वयोभ्यः पिण्डदाने कारणमाह—
“वयसां हि पितरः प्रतिमया चरन्ती” ति विज्ञायते ॥ १० ॥
अनु०—क्योंकि वेद में कहा गया है कि पितृ लोग कौओं के रूप में विचरण करते हैं ॥ १० ॥
प्रतिमया आकारेण ॥ १० ॥
अथेतरत् साङ्गुष्ठेन पाणिनाऽभिमृशति ॥ ११ ॥
अनु०—शेष अन्न को हाथ और अंगूठे को स्पर्श करे ॥ ११ ॥
भोक्तृकामस्य ब्राह्मणस्य कराङ्गुष्ठेन अनखेन स्वपाणिना भोज्यद्रव्यमभि-मृशति । स्वपाणिर्व्यवहितकारणम् ॥ ११ ॥
तत्रैते मन्त्राः—
पृथिवीसमं तस्य तेऽग्निरुपद्रष्टर्चस्ते महिमा दत्तस्याऽप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्राऽमुष्मिन् लोक इति । अन्तरिक्षसमं तस्य ते वायुरुपश्रोता यजूंषि ते महिमा दत्तस्याऽप्रमादाय, पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्राऽमुष्मिन् लोक इति । द्यौसमं तस्य त आदित्योऽनुख्याता सामानि ते महिमा दत्तस्याऽप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्राऽमुष्मिन् लोक इति ॥ १२ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने चतुर्दशः खण्डः ।
अनु०—इसके बाद निम्नलिखित मन्त्रों का जप करे तुम पृथिवी के समान व्यापक हो, अग्नि तुमको देखता है, ऋचा तुम्हारी महिमा है, दिये गये दान के व्यर्थ न होने के लिए पृथिवी तुम्हारा पात्र है, आकाश आवरण है, मैं तुम्हें ब्रह्म के मुख में
२१ बौ० ध०
२७४ बौधायन-धर्मसूत्रम् [ श्राद्धविधिः
हवन करता हूँ मैं तुम्हें विद्वान ब्राह्मणों के प्राण और अपान में हवन करता हूँ, तुम अविनश्वर हो, तुम उस लोक में पितरों के पास पहुंचने में कभी विफल नहीं होते । तुम अन्तरिक्ष के समान हो, वायु तुम्हें सुनता है, यजुस मन्त्र तुम्हारी महिमा हैं... तुम द्युलोक के समान हो, सूर्य हो, सूर्य तुम्हें प्रकट करता है, साम तुम्हारी महिमा है...॥ १२ ॥
एते त्रयो मन्त्राः पृथिव्यन्तरिक्षद्युक्रमाः । लोकानां तावन्महिमा एष वेदितव्यः । यदेतद्धीयतेऽन्नं तदामन्त्र्यते । पृथिव्या समं तस्यैवंविधस्य तव अग्निरुपद्रष्टा साक्षिभूतः एवमुपश्रोता अनुख्यातेति च । ऋचस्ते महिमा महत्त्वम् । एवमुपासनया दत्तास्याऽन्नस्याऽप्रमादो भवति । पृथिव्येव तव पात्रं आधारः द्यौरेवाऽपिधानं ब्रह्मणा ब्राह्मणस्य मुखे त्वा जुहोमि । ब्राह्मणानामित्यादि जुहोमीत्यन्तं प्रतिपत्तिमात्रम् । अक्षितमसि मा क्षेष्ठाः क्षयं मा गाः पित्रादीनां परस्मिन् लोके ॥ १२ ॥
पञ्चदशः खण्डः
अथवै भवति ॥ १ ॥
अग्नौ करणशेषेण तदन्नमभिघारयेत् ।
निरङ्गुष्ठं तु यद्दत्तं न तत्प्रीणाति वै पितॄन् ॥ २ ॥
**अनु०—**अथवा यह इस प्रकार भी किया जाता है । अग्नि में हवन के बाद अवशिष्ट उस अन्न को अंगूठे से फेंके । जो अन्न बिना अंगूठे से स्पर्श किए हुए दिया जाता है वह पितृजनों को प्रसन्न नहीं करता ॥ १-२ ॥
हस्ताङ्गुष्ठेनाऽभिमर्शनमुक्तम् । तदभावे निन्दैषा ॥ १,२ ॥
उभयोश्शाखयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् ।
$^१$तदन्तरमुपासन्तेऽसुरा वै दुष्टचेतसः ॥ ३ ॥
**अनु०—**पितरों के लिए जो अन्न दोनों हाथों से नहीं दिया जाता उसे दुष्ट असुर बीच में ही खा लेते हैं ॥ ३ ॥
सव्येन पाणिना भोजनपात्रमुपस्पृश्यैव भुञ्जीतेत्येतदनेन विधीयते । शाखयोः हस्तयोः ॥ ३ ॥
१. तदन्तरमुपासन्ते असुरा दुष्टचेतस. इति. क. पु.
पञ्चदशः खण्डः ] द्वितीयप्रश्ने अष्टमोऽध्यायः २७५
यातुधानाः पिशाचाश्च प्रतिलुम्पन्ति तद्धविः ।
तिलदाने ह्यदायादास्तथा क्रोधवशेऽसुराः ॥ ४ ॥
अनु०—भोजन के स्थान पर तथा आसनों पर तिल न बिखरने पर उस हवि को यातुधान और पिशाच, जिनका कोई अंश नहीं होता, छीन लेते हैं और श्राद्ध-कर्ता के क्रोध में आने पर उस हवि को असुर ले लेते हैं ॥ ४ ॥
भोजनस्थानेष्वासनेषु च तिलविकिरणस्याऽक्रोधस्य च प्रशंसैषा ॥ ४ ॥
काषायवासा यान्कुरुते जपहोमप्रतिग्रहान् ।
न तद्देवगमं भवति हव्यकव्येषु यद्धविः ॥ ५ ॥
अनु०—लाल या काषाय वस्त्र धारण कर मनुष्य जो प्रार्थनाएं या होम करता है अथवा जो दान लेता है, वह देवों के समीप नहीं पहुँचता उसी प्रकार उसके द्वारा यज्ञ में दी गयी हवि भी देवों को नहीं मिलती ॥ ५ ॥
टि०—तात्पर्य यह है कि देवकार्य और पितृकर्म में यजमान को श्वेत वस्त्र ही धारण करना चाहिए। गोविन्द के अनुसार काषाय वस्त्र धारण करने वाले संन्यासियों को भी पितृकर्म के अवसर पर निमन्त्रित नहीं करना चाहिए।
दैवे कर्मणि पित्र्ये च काषायवासोनिषेधः श्वेतवाससा भवितव्यमिति विधानार्थम्। किञ्च—काषायवाससो यतीश्वराः। तेऽपि पित्र्ये दैवे कर्मणि च जपहोमप्रतिग्रहान् कुर्वते। तद्देवगमं पितृगमं च न भवतीति शेषः। हव्यं देवदैवत्यं कव्यं पितृदैवत्यम् ॥ ५ ॥
यच्च दत्तमनाङ्गुष्ठं यच्चैव प्रतिगृह्यते ।
आचामति च यस्तिष्ठन् न स तेन समृध्यत इति ॥ ६ ॥
अनु०—जो दान अंगूठे से स्पर्श किये बिना दिया जाता है और जो दान अंगूठे से स्पर्श के बिना ग्रहण किया जाता है और जो आचमन खड़े होकर किया जाता है उससे कर्ता को कोई फल नहीं प्राप्त होता—वह लाभान्वित नहीं होता है ॥ ६ ॥
प्रदानप्रतिग्रहयोरङ्गुष्ठस्याऽबहिर्भावार्थः, तिष्ठतः आचमननिषेधार्थश्चाऽयं श्लोकः ॥ ६ ॥
आद्यन्तयोरपां प्रदानं सर्वत्र ॥ ७ ॥
अनु०—दान में आरम्भ और अन्त में सर्वत्र जलदान करना चाहिए ॥ ७ ॥
सर्वत्र दाने श्रद्धानेनाऽऽदावन्ते च जलदानं कर्त्तव्यम्। तथा च गौतमः—'भिक्षादानमत्पूर्वम्। ददातिषु चैवं धर्म्येषु' इति ॥ ७ ॥