भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

१२ विषयः पृ. पं. | विषयः पृ. पं. क्षये रसाङ्गहरीतक्य- | धातुक्षये मधुपकामलकी २४२ १९ वलेहः २४० २ | स्वरभङ्गे कुलिञ्जनाद्योऽ- जीर्णज्वरे खण्डा- | वलेहः २४३ ४ र्द्रकावलेहः ,, ८ | कासे भागर्याद्यवलेहः ,, १५ अतिसारेऽङ्कोलमूला- | हृद्रोगे चन्दनावलेहः ,, २३ वलेहः ,, १७ | शुक्रक्षयेऽश्वगन्धाद्य- अर्शसि भल्लातकावलेहः ,, २६ | वलेहः २४४ ७ अतिसारे कुटजाष्टका- | वलेहः २४२ २ |

१. प्रयाग खण्ड: ज्वर, अतीसार, ग्रहणी व अर्श रोग चिकित्सा

गदनिग्रहपाठसंशोधनम् अपपाठः \qquad\qquad\qquad सुपाठः वन्ध्या च \qquad\qquad\qquad वन्ध्यालं \qquad\qquad\qquad २ \quad १८ हिङ्गुतक्षाक्षमात्रेण त- \qquad हिङ्गुश्चैषामक्षमात्रैस्त \qquad ,, \quad १४ पाण्डुरोगतां \qquad\qquad\qquad पाण्डुरोगकं \qquad\qquad\qquad ३ \quad १६ सुकृतादतः \qquad\qquad\qquad त्रिवृतस्तथा \qquad\qquad\qquad ,, \quad २१ दत्वा \qquad\qquad\qquad\qquad दत्त्वा \qquad\qquad\qquad\qquad ,, \quad २४ नक्तमालं च \qquad\qquad\qquad नक्तमालञ्च \qquad\qquad\qquad ४ \quad ८ कटुरोहिणीम् \qquad\qquad\qquad कटुरोहिणी \qquad\qquad\qquad ६ \quad २५ हपुषा \qquad\qquad\qquad\qquad हपुषां \qquad\qquad\qquad\qquad ८ \quad १९ अजमोदा \qquad\qquad\qquad अजमोदां \qquad\qquad\qquad ,, \quad २० कृष्णामजाजीपूतिकं \qquad\qquad कृष्णामजाजीं पूतीकं \qquad\qquad ,, \quad २१ शुद्धात् \qquad\qquad\qquad\qquad शुद्धेः \qquad\qquad\qquad\qquad १० \quad १९ आगन्तुसहजाश्चैव शिरः- \qquad आगन्तुसहजांश्चैव शिरः- \quad श्लिष्टाश्च ये व्रणाः \qquad\quad श्लिष्टांस्तथा व्रणान् \qquad\quad १३ \quad १ निदिष्टं \qquad\qquad\qquad\qquad निर्दिष्टं \qquad\qquad\qquad\qquad ,, \quad २६ -गोक्षुरकं तथा \qquad\qquad\qquad -गोक्षुरकस्तथा \qquad\qquad\qquad १४ \quad ४ पृष्ठसर्पिणा- \qquad\qquad\qquad पीठसर्पिणा- \qquad\qquad\qquad ,, \quad १० शूलहत् \qquad\qquad\qquad\qquad शूलहा \qquad\qquad\qquad\qquad १५ \quad २६ यद्याहं \qquad\qquad\qquad\qquad यच्छ्याहं \qquad\qquad\qquad\qquad १७ \quad २ चतुर्थभागो \qquad\qquad\qquad तुर्यभागो \qquad\qquad\qquad\qquad ,, \quad ३ -बदराढके \qquad\qquad\qquad -बदराढकम् \qquad\qquad\qquad १८ \quad २ द्रव्यानिमांश्चैव \qquad\qquad\qquad दद्यादिमांश्चैव \qquad\qquad\qquad ,, \quad ५ एभिर्द्रव्यैर्घृतप्रस्थं \qquad\qquad एतत्सिद्धं घृतप्रस्थं \qquad\qquad ,, \quad १० सभागर्गी \qquad\qquad\qquad सभार्गी \qquad\qquad\qquad\qquad ,, \quad २५ शिलाह्वयं \qquad\qquad\qquad सुरोह्वयं$^२$ \qquad\qquad\qquad १९ \quad २ देवदार्तृद्धिः \qquad\qquad\qquad देवदार्वृद्धी \qquad\qquad\qquad ,, \quad २० जातीक्षीरक- \qquad\qquad\qquad जातीक्षारक- \qquad\qquad\qquad २० \quad १ मारुतास्रकप्रभेदि \qquad\qquad\qquad मारुतासृक्प्रभेदि \qquad\qquad\qquad ,, \quad १९ १ 'चान्नं' ख । २ पाठान्तरम्

२ अपपाठः सुपाठः पृ. पं. पिप्पली शर्करा द्राक्षा त्रिफला नी- पिप्पलीशर्कराद्राक्षात्रिफला- लमुत्पलम् । नीलकोत्पलैः- २१ १० मधुकं क्षीरकाकोली मधुपर्णी मधुकक्षीरकाकोलीमधुपर्णी- निदिग्धिका निदिग्धिकैः ,, ११. चित्रकं तथा चित्रकस्तथा २३ ८ अशीतिर्वातजान् अशीतिं वातजान् २३ २१ विंशतिः विंशतिं ,, २२ दाडीमयावशूकं दाडिमायावशूकं २५ ३ विष्या त्रिवृता ,, २२ चाक्षकसंमितम् चाक्षसंमितम् २६ २० शिंशपाखदिरं तथा शिंशपाखदिराक्षकान् ,, २६ बीजकं च तथाऽक्षकम् बीजकश्चूर्णमायसम् ,, २७ विदारी विदारीं २७ २५ वचा वचाम् ,, ,, काकोलीमेदे काकोलिमेदे २९ १९ कुशातिवृद्धाः कुशातिवृद्धा ,, २७ यौवनपुष्टिन्तो यौवनपुष्टिमन्तो *३० ७ पैष्य विपाचयेत् निष्पेष्य पाचयेत् ३१ ४ सनागरकेशरैः सनागकेशरैः ३३ २१ -स्तदैकतः -स्तदेकतः ३४ ११ मृन्मयेऽपि मृण्मयेऽपि ,, १६ अशीतिर्वातरोगार्णा अशीतिं वातरोगाणां ३५ १२ पलशतं पलशतं ,, २५ अशीतिर्वातजान् अशीतिं वातजान् ३७ १३ विंशतिः विंशतिं ,, १४ मेघाभिजनता शुभा मेघाभिजनताः शुभाः ,, १८ तथा जनकपूजिता । ?) तप्ताजनसुपूजिता । ,, १९ अशीतिर्नरनारीणां अशीतिं नरनारीणां ३८ ३ कुष्ठमेलां चांशुमतीं कुष्ठमेला चांशुमती ४१ ८ -च्छलक्षणकुट्टितं -च्छूक्ष्णकुट्टितम् ,, २२ -कमलोत्पलैः -कमलोत्पलम् ४३ १६

३ सुपाठः पृ. पं. मिश्रितं तु मिश्रितं ५० १८ केशवर्धनं केशवर्धनकरं ,, ,, दन्तानाबद्धमूलांश्च दन्तानबद्धमूलांश्च ५२ १ शिरीषाङ्गितुले शिरीषाङ्गे तुले ५५ १७ स्यादृद्धः तु वृद्धः ६२ ८ समधुच्छिष्टो समधूच्छिष्टो ६५ ४ -गुल्मोदरादीनयं -गुल्मोदरादीनिदं ७० ८ -नवस्य नवानां ७१ १३ आमातीसारशमनं आमातीसारशमनः ७३ ९ -शूलनुत् -शूलहा ,, ,, सुगन्धी हृद्यः क्षयरोहन्ता सुगन्धिहृद्यः क्षयरोगहन्ता ७६ ७ कामदयग्निवृद्धिं कामदमग्निविवृद्धिं ८१ १८ यथाक्रमकृतान् भागां- यथाक्रमकृता भागा- ८४ ६ कवलंः प्रतिसारिणम् केवलं प्रतिसारणात् ८६ ११ वातश्लेष्मामयाहम् वातश्लेष्मामयापहम् ९१ २४ हिङ्गु हिङ्गं ९३ २६ अशीतिर्वातजान् अशीतिं वातजान् ९४ १९ विंशतिः विंशतिं ,, २० संजनयेद्धिमा- संजनयेद्दीमा- ,, २४ शकुभिः शक्तुभिः ९५ २१ दशैन्दुराज्या दशैन्दुराज्याः ९७ ३ खादेद्यथामिः खादेद्यथाग्नि ,, ९ द्विजीरकं द्वे जीरके १०० ,, पलमानि पलमानानि १०१ २५ क्षयविबन्धं क्षयं विबन्धं १०३ ७ पथ्याभिसहितं पथ्याभिः सहितं १०४ ११ स्थौल्याम्लवात- स्थौल्यामवात- ,, २६ तत्रैव भक्षयेत्कल्के तत्रैकं भक्षयेत्कल्यं १०५ ११ पार्श्वशूलसमरोचकम् पार्श्वशूलमरोचकम् १०६ २२ कृमिप्लीहानमुदरं कृमीन् प्लीहानमुदरं १०७ १९ सहिङ्ककर्षत्वणु- सहिङ्गुकर्षं त्वणु- १०८ ७

४ अपपाठः सुपाठः पृ. पं. -पाण्डाययारोचक- -पाण्ड्वामयारोचक- ,, १० पूत्वा पूतं ११० २७ खर्जिक्संज्ञिकं खर्जिक्संज्ञकं १११ १६ -युक्ताः खदिरगुटिकाश्च रोगघ्न्यः -युक्ता खादिरगुटि- काऽऽस्वरोगघ्नी ११५ १२ मुखेन धारिता मुखे सुधारिता ११६ ५ वत्सनाभवल्लयुगं वल्लषट्कं वत्सनाभं वल्लयुगं षड् वल्लानि त्रिकटुकचूर्णस्य त्रिकटुचूर्णस्य ११६ ७ पिप्पलीमूलस्य कृष्णमूलस्य ,, ८ -दंशमूली -दंशमूली ११७ ५ -जम्बाम्रकपित्थं -जम्ब्वाम्रकपित्थं ,, १६ क्षिप्तोऽप्सु क्षिप्तस्तु ११८ ४ विंशतिः विंशतिम् ,, २१ व्याधिसमूह- व्याधिगणं च ११ ९ २४ हन्यादशांसि हन्यादशांसि १२० २२ चेति चैव १२२ १ वलीपलिंतरोगरहितो वलिपलिंतरोगरहितो १२४ ३ रसायनवरिष्ठम् रसायनश्रेष्ठम् ,, ५ मधुत्रिफल- मधुत्रिपल- ,, १३ भुक्तैस्तथाऽमुक्तवति भुक्ते तथाऽमुक्तवति १२५ १३ उच्चटा 'सूचटा १२६ २६ भक्षयित्वा तु भक्षयित्वा १३० २३ नाडीव्रणक्लेद- नाडीव्रणक्लेद- १३२ ४ पलमेकं पलमेकं तु ,, २३ उपयोक्षियो उपयोगात्स्त्रियो १४४ १ -चिरिबिल्वमूलं -चिरबिल्वमूलं १४६ २ त्रिकटुं तथा च कटुत्रयम् १४८ २६ मासद्वयोपयोगाद्वेद्दिनाशय- मासद्वयोपयोगाद्विनाश्य- १५० २ एतान्येकपलीकानि एतेषां पलिकान् भागान् १५३ २५ तद्यथाग्निबलं तं यथाग्निबलं १५५ २६ -दौर्बत्यानाहनाशनः -दौर्बल्यानाहनाशनम् ,, २७

५ अपपाठः \t सुपाठः \t पृ. \t पं. यथाविधिः \t यथाविधि \t १६७ \t ” तन्मात्रया \t तं मात्रया \t १७१ \t १३ पलविंशतिः \t पलविंशतिम् \t १७७ \t ३ -त्पेयं तत्र \t -त्पेयस्तस्य \t १७९ \t २२ विंशतिः \t विंशतिम् \t १८१ \t २७ आमहत्कफहृद्रोग- \t आमहा कफहृद्रोग- \t १८२ \t ११ द्रवो पेयः \t द्रवः पेयः \t १८३ \t २६ नेत्रंभेषज- \t नेत्रैर्भेषज- \t १८६ \t १३ पलमितमिति \t पलमिह हि \t १९६ \t १० सूर्यातपे स्थाप्य ततस्तु \t संस्थाप्य सूर्यातप एष \t १९७ \t ४ प्रस्थमुत्तमम् \t प्रस्थमुत्तमा \t २०५ \t १७ अशीतिवातजाम् \t अशीतिं वातजान् \t २११ \t १० गजानां शिशूनामपि \t शिशूनां दन्तिनामपि \t ” \t ११ -मजिष्ठारवग्व- \t -मञ्जिष्ठारग्वध- \t २१८ \t ७ -गरादिशमनं \t -गरादिदोषशमनं \t २१९ \t १६ वचा । \t वचा \t २२० \t ७ दतांश्च \t दन्तांश्च \t ” \t १० सिंहचूर्णम् । \t सिंहणचूर्णम् । \t २२३ \t ६ पित्तरक्तातिसारं \t पित्तरक्तातीसारं \t २२६ \t ९ चतुः पलमिदं \t चतुः पलमितं \t २२७ \t २३ भागश्वार्थस्तापितरोद्भवस्य \t भागश्वार्थस्तापितीरोद्भवस्य \t २२९ \t १० परिक्लुताम् \t परिप्लुताम् \t ” \t १४ शोषे द्वितीयो \t शोषे द्वितीयः \t २३९ \t १५ १ पञ्चमपृष्ठे एकादशपङ्क्त्यनन्तरं 'चाङ्गेरीस्वरसं तुल्यं दधि सर्पिश्चतुर्गुणम्' इत्यधिकं पठनीयम् । २ अष्टाविंशत्यधिकद्विशततमे पृष्ठे एकोनविंशतिपङ्क्त्यनन्तरं 'सर्वरोगान्निह- न्त्याशु अनुपानविशेषतः' इत्यधिकं पठनीयम् । ३ भूमिकायां चतुर्दशपञ्चदशपङ्क्त्योः 'नित्योपयोगिनश्च प्रयोगरत्ना उक्ताः' इत्यत्र 'नित्योपयोगीनि प्रयोगरत्नान्युक्तानि' इति पठनीयम् । समाप्तमिदं गदनिग्रहप्रयोगखण्ड शुद्धिपत्रम् ।

गदनिग्रहकारेण प्रयोगखण्डे उपात्तानां ग्रन्थानां ग्रन्थकर्तॄणां च नामानि । —❖— नाम | पृ. | पं. | काङ्कायनः | ८० | २५ हारीतः | ४ | २ | आचार्यलोकसेनः | ८४ | १७ अग्निवेशः | ५ | १६ | भास्करः | ९१ | २३ सिद्धसारः | ८ | ८ | माणिभद्रः | १०८ | १८ भेडः | ,, | २६ | कालपादः | १२९ | ९ खरनादः | ११ | १९ | भारद्वाजः | १४० | २ वाग्भटः | १२ | ६ | अगस्तिः | १४५ | ५ कृष्णात्रेयः | ,, | २० | वशिष्ठः | १४६ | २१ वैदेहः | १३ | १४ | भृगुः | १४८ | १४ क्षारपाणिः | १८ | १७ | शूलपाणिः | १६६ | ५ चिकित्साकलिका | २३ | १ | सिंहणभूमिपालः | २२३ | १० आश्विनसंहिता | ७० | ६ | सिंहगुप्तः | २३२ | ११

आयुर्वेदीयग्रन्थमाला ।

श्रीशोधलविरचितो

गदनिग्रहः।

मङ्गलाचरणम् ।

करकिसलयसङ्गी यस्य पीयूषकुम्भः परममरवधूनां भूयसे मङ्गलाय । स खलु निखिलदुग्धाम्भोधिरत्नेषु रत्नं हरतु दुरितराशीनाशु धन्वन्तरिर्वः ॥ १ ॥ त्रिभुवनजनरोगग्रामसंग्रामजेताऽ- मृतभृतधृतकुम्भोदूर्णहस्तायुधश्रीः । अमरमथितदुग्धाम्भोभिल्लब्धोदयोऽसौ दलयतु दुरितौघानाद्यवैद्याधिपो वः ॥ २ ॥ नानामुनिकृतैः श्लोकैः शोधलेनाल्पमेधसा । विबुधप्रतिबोधाय ग्रथ्यते गदनिग्रहः ॥ ३ ॥

ग्रन्थानुक्रमणिका ।

घृतं तैलं च चूर्णानि गुटिलेहौ तथासवाः । आदावेते ह्यनेकार्था ग्रन्थेऽस्मिन् गदनिग्रहे ॥ ४ ॥ ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णे विषूचिका । अलसश्च विलम्बी च कृमिरुक् पाण्डुकामले ॥ ५ ॥ हलीमकं रक्तपित्तं राजयक्ष्मोरसः क्षतम् । कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः ॥ ६ ॥ छर्दिस्तृषा च मूर्च्छा च रोगाः पानानमदात्ययः । दाहो वातविकाराश्च वातरक्तोरुरुक् तथा ॥ ७ ॥

२ आयुर्वेदीयग्रन्थमाला । आमवातस्तथा शूलं शूलं च परिणामजम् । जरत्पित्तमथानाह उदावर्त्तोऽथ गुल्मरुक् ॥ ८ ॥ हृद्रोगो मूत्रकृच्छ्रं च मूत्राघातस्तथाऽश्मरी । प्रमेहो मधुमेहश्च पिटिकाश्च प्रमेहजाः ॥ ९ ॥ मेदोदोषोदरं शोफो विद्रधिर्वृद्धिरेव च । कुष्ठं श्वित्रं शीतपित्तमुदर्दः कोठ एव च ॥ १० ॥ अम्लपित्तं विसर्पश्च विस्फोटाऽथ मसूरिका । इति कायचिकित्सायां मया रोगाः प्रकीर्तिताः॥ ११॥ शालाक्ये शिरसो रोगाः कर्णनेत्रामयास्तथा । नासामुखामयांश्चैव द्वितीयेऽङ्गे चिकित्सिताः ॥ १२ ॥ गण्डमालाऽपची गण्डः पिटिकार्बुदग्रन्थयः । श्लीपदं व्रणशोफश्च सद्योव्रणचिकित्सितम् ॥ १३ ॥ भग्ननाडीव्रणौ चैव भगन्दरोपदंशकौ । शूकदोषः क्षुद्ररोगाः शल्ये चाङ्गे चिकित्सिताः ॥ १४ ॥ भूतोन्मादस्तथोन्मादस्तथाऽपस्मार एव च । भूततन्त्रे चतुर्थेऽङ्गे सनिदानाश्चिकित्सिताः ॥ १५ ॥ प्रदरो योनिव्यापच्च गर्भास्रावचिकित्सितम् । मूढगर्भोऽथ वन्ध्या च योनिशुक्रगदास्तथा ॥ १६ ॥ सूतिका स्तन्यदोषाश्च गाढनिर्लोमभेषजम् । बालरोगचिकित्सा च बालतन्त्रेऽथ पञ्चमे ॥ १७ ॥ सर्पलूताविषे चैव वृश्चिकोन्दुरुजं विषम् । नखदन्तविषं चैव स्थावरं कृत्रिमं विषम् ॥ १८ ॥ षष्ठे तन्त्रे विषारूख्ये च प्रोक्तं चैषां चिकित्सितम् । रसायनं सप्तमं च वाजीकरणमष्टमम् ॥ १९ ॥ पञ्चकर्माधिकारे च स्नेहस्वेदविधिस्तथा । वमनं च विरेकश्च नस्यकर्मेत्यनुक्रमः ॥ २० ॥

१.] गदनिग्रहः । ३ अथातो घृताधिकारः प्रारभ्यते ॥ ज्वरे मञ्जिष्ठाद्यं घृतम् । मञ्जिष्ठाऽतिविषा पथ्या वचा नागररोहिणी ॥ १ ॥ देवदारु हरिद्रा च द्रोणेऽपां पलिकान् पचेत् । क्वाथेऽस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचुन्मितैः ॥ २ ॥ शृङ्गवेरकणाहिङ्गुद्विक्षारपडुपञ्चकैः । तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम् ॥ ३ ॥ वर्ध्मगुल्मानिलश्वासकासपाण्डुविकारिणाम् । गलग्रन्थिप्रमेहार्शःप्लीहापस्मारशोफिनाम् ॥ ४ ॥ उदावर्तपरीतानां मन्दाग्निकृमिकुष्ठिनाम् । द्वितीयं मञ्जिष्ठाद्यं घृतम् । मञ्जिष्ठा च हरिद्रा च देवदारु हरीतकी ॥ ५ ॥ शृङ्गवेरं ह्यतिविषा वचा कटुकरोहिणी । हिङ्गुतश्चाक्षमात्रेण तत्सिद्धमवतारयेत् ॥ ६ ॥ एतन्माञ्जिष्ठकं सर्पिर्बहून् रोगान्नियच्छति । हिक्कां श्वासं ज्वरं दुष्टं ग्रहणीं पाण्डुरोगताम् ॥ ७ ॥ प्रमेहान्मधुमेहांश्च कृमीन् कुष्ठमरोचकम् । कासं शोषमुदावर्तमपस्मारं तथैव च ॥ ८ ॥ अर्शांसि श्वयथुं चैव गण्डमालां प्लीहोदरम् । ज्वरे तिल्वकाद्यं घृतम् । तिल्वकस्य पलान्यष्टौ त्वचस्तु सुकृतादतः ॥ ९ ॥ अंशुमत्युरुबूकं च बिल्वाद्यं च पृथक् पलम् । यवकोलकुलत्थानां प्रस्थं प्रस्थं फलत्रिकात् ॥ १० ॥ तत्साधयेज्जलद्रोणे चाष्टभागावशेषितम् । घृतप्रस्थं पचेत्तेन दत्वा दम्नस्तथाढकम् ॥ ११ ॥ कर्षेण यावशूकस्य पर्कं तदवचूर्णयेत् । एतत्तु तैल्वकं नाम जीर्णज्वरविषापहम् ॥ १२ ॥

कृमिकुष्ठहरं चैव शोफपाण्ड्वामयापहम् । जीर्णज्वरे हारीताल्कटुकं घृतम् । त्रिफलां पञ्चमूल्यौ द्वे कुलत्थान् बदरान् यवान् ॥ १३ ॥ द्विपलिकान् जलद्रोणे त्वष्टभागावशेषितम् । निःस्राव्य विपचेत्कल्कं दत्वा प्रस्थं च सर्पिषः ॥ १४ ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । पुष्करातिविषे भार्गी शठी सप्तच्छदं वचा ॥ १५ ॥ रजन्यौ नक्तमालं च पाठे द्वे शिग्रुतुम्बरु । सोमवल्कोऽर्कमूलानि मदनं कटुरोहिणी ॥ १६ ॥ तेजस्विनी सगोजिह्वा चन्दनं कण्टकारिका । किराततिक्तकं मुस्तं पटोलं सदुरालभम् ॥ १७ ॥ वयस्थां पिचुमन्दं च कटुकं हिङ्गुना सह । एतानक्षसमान् दत्वा क्षारौ द्वयर्धपलोन्मितौ ॥ १८ ॥ लवणानां च पञ्चानां कर्षं कर्षं प्रदापयेत् । सिद्धं तन्मात्रया पीतं सर्वजीर्णज्वरापहम् ॥ १९ ॥ हृत्प्लीहग्रहणीदोषश्वासकासार्शसां हितम् । गुल्मघ्नं कटुकं नाम कृष्णात्रेयेण पूजितम् ॥ २० ॥ दीर्घकालानुबद्धानां ज्वराणाममृतोपमम् । अग्निमान्द्ये अग्निघृतम् । मद्यातकान्पलशतं जलद्रोणे विपाचयेत् ॥ २१ ॥ चतुर्थांशावशेषं तु कषायमवतारयेत् । त्र्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ २२ हिङ्ग्वजमोदं च पञ्चैव लवणानि च । द्वौ क्षारौ दाडिमं चात्र दद्यादर्धपलोन्मितान् ॥ २३ मस्त्वम्लरसचुक्राणां प्रस्थं प्रस्थं प्रदापयेत् । आर्द्रकस्य रसप्रस्थं घृतप्रस्थं विपाचयेत् ॥ २४ ॥ एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते ।

गदनिग्रहः । ५ अर्शांसि वातरोगं च प्लीहोदरजलोदरम् ॥ २५ ॥ ग्रन्थ्यर्बुदापचीशोफकुष्ठमेदोऽनिलांस्तथा । ये च कुक्षिगता रोगा ये च बस्तिसमाश्रिताः ॥ २६ ॥ तान् सर्वान्नाशयेदेतत्सूर्यस्तम इवोदितः । ग्रहण्यां चाङ्गेरीघृतम् । पिप्पली नागरं पाठा यवानी विश्वभेषजम् ॥ २७ ॥ भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत् । भार्गी च पिप्पलीमूलं व्योषं चव्यं सचित्रकम् ॥ २८ ॥ श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका । एतैः पलार्थकैर्द्रव्यैः कृत्वा कल्कं विपाचयेत् ॥ २९ ॥ पलानि सर्पिषस्तस्मिन् चत्वारिंशत्समावपेत् । मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत् ॥ ३० ॥ ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम् । शोफप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम् ॥ ३१ ॥ कासहिकारुचिश्वाससूदनं सर्वगुल्मनुत् । अग्निवेशात् गुदभ्रंसे द्वितीयं चाङ्गेरीघृतम् । नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ ३२ ॥ श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका । चाङ्गेरीस्वरसे सर्पिः कल्कैरेभिर्विपाचयेत् ॥ ३३ ॥ चतुर्गुणेन दध्ना तु तद्धृतं कफवातनुत् । अर्शांसि ग्रहणीरोगं मूत्रकृच्छ्रं प्रवाहिकाम् ॥ ३४ ॥ गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति । गुल्मे दाधिकं घृतम् । विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः ॥ ३५ ॥ हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः । बीजपूररसोपेतं सर्पिर्दधि चतुर्गुणम् ॥ ३६ ॥ साधितं दाधिकं नाम गुल्महृत् प्लीहशूलनुत् ।

हपुषाव्योषमृद्वीकाचव्यचित्रकसैन्धवैः ॥ ३७ ॥ साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम् । सकोलमूलकरसं सदधिक्षीरदाडिमम् ॥ ३८ ॥ तत् परं वातगुल्मघ्नं शूलानाहविनाशनम् । योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् ॥ ३९ ॥ बाहुहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति । अग्निवेशाद्रक्तपित्ते वासाद्यं घृतम् । समूलपत्रशाखस्य तुलां कुर्यादृषस्य च ॥ ४० ॥ जलद्रोणे विपक्तव्यमष्टभागावशेषितम् । कल्केन वृषपुष्पाणामाढकं सर्पिषः पचेत् ॥ ४१ ॥ तत्सिद्धं पाययेद्युक्त्या मधुपादसमायुतम् । श्वासं कासं प्रतिश्यायं तृतीयकचतुर्थकम् ॥ ४२ ॥ रक्तपित्तं क्षयं चैव विषं सर्पिर्नियच्छति । हारीताद्रक्तपित्ते महावासाद्यं घृतम् । वासकस्वरसे सर्पिः पयसा सह पाचयेत् ॥ ४३ ॥ कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः । उदीच्यमधुकैर्युक्तैस्तालिशोत्पलपद्मकैः ॥ ४४ ॥ त्रायन्त्युत्पलमूर्कामर्मर्दयन्त्याश्च पल्लवैः । सिताक्षौद्रयुतं हन्याद्रक्तपित्तं सुदारुणम् ॥ ४५ ॥ पित्तं कासं च गुल्मं च स्वरभेदं हलीमकम् । ये चान्ये कीर्तिता रोगा रक्तपित्तकफाश्रयाः ॥ ४६ ॥ तान् सर्वान्नाशयेत्तत्पीयमानं हिताशिनः । हारीताद्गुल्मे दशाङ्गं घृतम् । यावशूकं वचा व्योषं विडङ्गं कटुरोहिणीम् ॥ ४७ सौवर्चलं हरीतक्यश्चित्रकं चाक्षसंमितैः । एभिः पचेद्धृतप्रस्थं दत्वा क्षीरजलाढकम् ॥ ४८ ।

गदनिग्रहः । ७ तत्पक्वं वातगुल्मघ्नं कृमिप्लीहज्वरापहम् । कासहिकारुचिहरं दशाङ्गं नाम दीपनम् ॥ ४९ ॥ गुल्मे हारीतालशुनघृतम् । लशुनाण्डस्य शुद्धस्य तुलार्धं निस्तुषस्य च । तदर्धं पञ्चमूलस्य ब्याढकेऽपां विपाचयेत् ॥ ५० ॥ पादशेषे घृतप्रस्थं लशुनस्य रसं तथा ॥ दाडिमाम्लसुरामस्तुकाञ्जिकाम्लैस्तदर्धकैः ॥ ५१ ॥ साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः । यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धकैः ॥ ५२ ॥ सिद्धमेतद्धविः कल्कैर्गुल्मार्शोजठरापहम् । वर्ध्मपाण्ड्वामयप्लीहयोनिदोषज्वरापहम् ॥ ५३ ॥ वातश्लेष्मामयांश्चान्यान् घृतमेतद्व्यपोहति । हारीताद्गुल्मे नाराचकं घृतम् । चित्रकं त्रिफला दन्ती त्रिवृता कण्टकारिका ॥ ५४ ॥ स्नुहीक्षीरं विडङ्गानि घृतं दशममुच्यते । एकैकस्य च कर्षेण घृतस्य कुडवं पचेत् ॥ ५५ ॥ चतुर्गुणेन तोयेन सम्यगेतत्सुखाग्निना । तस्य काले पिबेन्मात्रां पलार्धसंमितां नरः ॥ ५६ ॥ उष्णोदकं चानुपिबेदल्पत्वादस्य सर्पिषः । विरिक्ते च यवागूः स्यात्सर्पिषा परिवर्जिता ॥ ५७ ॥ रसेन वा जाङ्गलानां भोजयेन्मतिमान् भिषक् । वातगुल्ममुदावर्तं प्लीहार्शोवर्ध्मकुण्डलम् ॥ ५८ ॥ ग्रहणीं दीपयेन्मेहान् कुष्ठदोषांश्च नाशयेत् । नाराचमिति विख्यातं सर्पिर्नाराचसंज्ञितम् ॥ ५९ ॥ भैषज्यं संप्रयोक्तव्यं नाराचमिव शत्रवे । कुष्ठे नीलिनीघृतम् । नीलिनीं त्रिफलां रास्नां वचां कटुकरोहिणीम् ॥ ६० ॥

८ आयुर्वेदीयग्रन्थमाला । [घृताधिकार पचेद्दण्डं व्याघ्रीं च पलिकानि जलाढके । रसेऽष्टभागशेषे तु घृतप्रस्थं विपाचयेत् ॥ ६१ ॥ दध्नः प्रस्थेन संयोज्यं सुधाक्षीरपलेन च । ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम् ॥ ६२ ॥ जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम् । कुष्ठगुल्मोदरव्यङ्गशोफपाण्ड्वामयज्वरान् ॥ ६३ ॥ श्वित्रं प्लीहानमुन्मादं हन्त्येतन्नीलिनीघृतम् । सिद्धसाराद्गुल्मे विश्वाद्यं घृतम् । पलांशैर्विश्वचव्याग्निपिप्पलीक्षारसैन्धवैः ॥ ६४ ॥ क्वाथेन चिरबिल्वस्य घृतप्रस्थं विपाचयेत् । गुल्मोदावर्त्तपाण्डुत्वग्रहणीश्वासकासजित् ॥ ६५ ॥ कुष्ठज्वरमतिश्वासप्लीहार्शःशमनं परम् । अग्निवेशाद्गुल्मे षट्पलं घृतम् । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥ ६६ ॥ पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत् । क्षीरप्रस्थेन संयुक्तं हन्ति गुल्मं कफात्मकम् ॥ ६७ ॥ ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् । हारिताद्गुल्मे महाषट्पलं घृतम् । सौवर्चलं पञ्चकोलं सैन्धवं हपुषा विडम् ॥ ६८ ॥ अजमोदा यवक्षारहिङ्गुजीरकमौद्भिदम् । कृष्णामजाजीपूतिकं कल्कीकृत्य पलार्धतः ॥ ६९ ॥ शृङ्गवेररसं चुक्रं घृतप्रस्थं समीकृतम् । कृमिप्लीहोदराजीर्णज्वरगुल्मप्रमेहकम् ॥ ७० ॥ वातरोगं तथा शोफं दौर्बल्यं वह्निसंक्षयम् । महाषट्पलमातङ्कान् भिनत्त्यशनिवद्गिरिम् ॥ ७१ ॥ कुष्ठे भेदात्रीलं घृतम् । द्वौ प्रस्थौ लोहचूर्णस्य त्रिफला त्र्याढकं तथा ।

१.] गदनिग्रहः । ९ वायसीकाकमाचीभ्यां द्वे पले शङ्खिनीतुला ॥ ७२ ॥ त्रिद्रोणेऽपां विपक्तव्यं चतुर्थांशावशेषितम् । घृतप्रस्थं पचेत्तेन गर्भे चैनं समावपेत् ॥ ७३ ॥ वरुणं वत्सकफलं त्र्यूषणं देवदारु च । अवल्गुजफलं दन्तीफलान्यारग्वधस्य च ॥ ७४ ॥ निदिग्धिका भृङ्गरजः पारावतपदी तथा । नीलकं नाम विख्यातमित्येतत्कुष्ठनुद्भूतम् ॥ ७५ ॥ श्वित्राणि रञ्जयेच्चैव पानाभ्यङ्गे प्रयोजितम् । पामाविचर्चिकासिध्मकिटिमानि च नाशयेत् ॥ ७६ ॥ श्वेताकुष्ठे महानीलं घृतम् । आरग्वधं वायसीं च बीजकं मदयन्तिका । एकैकस्य तुला देया प्रत्येकं त्रिफलाढकम् ॥ ७७ ॥ दन्ती दार्बी हरिद्रा च वरुणं कुटजत्वचम् । चित्रकं चार्कमूलं च काकमाची निदिग्धिका ॥ ७८ ॥ एषां दशपलान् भागान् त्रिद्रोणेऽपां विपाचयेत् । अष्टभागावशिष्टं तु पुनरग्नावधिश्रयेत् ॥ ७९ ॥ धात्रीरसं वृषरसं जातीस्वरसमेव च । दधि सर्पिषश्च दुग्धं च गोमूत्रं गोशकृद्रसः ॥ ८० ॥ आढकाढकमेतेषां गर्भे चेमं समावपेत् । अवल्गुजं त्रिकटुकं नक्तमालफलानि च ॥ ८१ ॥ पिचुमर्दं च जात्याश्च पीलुतिल्वकपल्लवाः । किराततिक्तकं श्यामा नीलिकानीलपल्लवाः ॥ ८२ ॥ एतैः सिद्धं परिस्राव्य पाययेत्कुष्ठरोगिणम् । महानीलमिति प्रोक्तमेतत्कुष्ठापहं घृतम् ॥ ८३ ॥ भगन्दरमथांशांसि कृमींश्चापि विनाशयेत् । अष्टादशैव कुष्ठानि सर्पिरेतन्नियच्छति ॥ ८४ ॥ १ गर्भमिति कल्कमित्यर्थः ।

१० आयुर्वेदीयग्रन्थमाला । [घृताधिकार अथर्वप्रहितो दीप्तो ब्राह्मयो दण्ड इवासुरान् । विशेषतस्तु श्वित्राणि रञ्जयेच्च भिनत्ति च ॥ ८५ ॥ प्रसङ्गतः सेव्यमानं पानेनाभ्यञ्जनेन च । कुष्ठे त्रिफलाद्यं घृतम् । त्रिफला मदनं कुष्ठं शार्ङ्गष्टा रजनीद्वयम् ॥ ८६ ॥ शुकनासा काकमाची हपुषाऽतिविषा वचा । पाठा कोषातकी मूर्वा तिक्ता काकादनी घृतम् ॥ ८७ ॥ एतत्कषायकल्काभ्यां सिद्धं पीतं घृतोत्तमम् । विशीर्यमाणं विध्वस्तस्नायुकेशनखं नरम् । कुष्ठातुरं तु जनयेन्मुमूर्षुमपि निर्गदम् ॥ ८८ ॥ हसीतात्कुष्ठे आवर्तकीघृतम् । आवर्तकीमूलशतं सुसिद्धं क्वाथीकृतं कल्कपलाष्टयुक्तम् । प्रस्थं पुराणाद्धविषः सुगव्यात् पक्कं शनैः साधु तदावतार्य ॥ ८९ ॥ मात्रां पिबेद्व्याधिबलानुरूपां भुञ्जीत चान्नं सह काञ्जिकेन । दत्तोत्तरं क्रोष्टुकजं सुजीर्णे कामं पुरस्तादपरेऽह्नि शुद्धात् ॥ ९० ॥ त्रिसप्तरात्रं विधिनैवमाशु पीतं निहन्यादचिरेण कुष्ठम् । त्रैवद्रुषं मैथुनसाङ्गदेहं मण्डानुपूर्व्या विधिनाऽथ चैतत् ॥ ९१ ॥ अग्निवेशादुदर्दंशे चव्याद्यं घृतम् । चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बरूणि च । यवानी पिप्पलीमूलमुभे च विडसैन्धवे ॥ ९२ चित्रकं विल्वमध्यां पिष्ट्वा सर्पिर्विपाचयेत् ।

गदनिग्रहः । ११ शकृद्वातानुलोमार्थं जले दध्नश्चतुर्गुणे ॥ ९३ ॥ प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम् । गुदवंक्षणशूलं च घृतमेतद्व्यपोहति ॥ ९४ ॥ ⁠भेदात्प्रमेहे धान्वन्तरं घृतम् । दशमूलं करञ्जौ द्वौ देवदारु हरीतकी । वर्षाभूर्वरुणो दन्ती चित्रकः सपुनर्नवः ॥ ९५ ॥ कपित्थोऽर्कसुधाक्षीरं बिल्वं भल्लातकानि च । शठी पुष्करमूलं च पिप्पलीमूलमेव च ॥ ९६ ॥ पृथग्दशपलानेषां भागांस्तोयार्मणे पचेत् । यवकोलकुलत्थानां प्रस्थं प्रस्थं प्रदापयेत् ॥ ९७ ॥ तेन पादावशिष्टेन घृतप्रस्थं विपाचयेत् । निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ॥ ९८ ॥ शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकं तथा । गणेनानेन तत्सिद्धं पाययेद्धि यथाबलम् ॥ ९९ ॥ एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम् । कुष्ठं प्रमेहं गुल्मांश्च श्वयथुं वातशोणितम् ॥ १०० ॥ प्लीहानमुदराशांसि विद्रधिं पिडकांस्तथा । अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ॥ १०१ ॥ खरनादात्कुमारकल्याणकं घृतम् । शङ्खपुष्पी वचा ब्राह्मी कुष्ठं त्रिफलया सह । द्राक्षा सशर्करा शुण्ठी जीवन्ती जीवको बला ॥ १०२ ॥ शठी दुरालभा बिल्वं दाडिमं सुरसा स्थिरा । मुस्तं पुष्करमूलं च सूक्ष्मैला पिप्पली जलम् ॥ १०३ ॥ पाठा श्वदंष्ट्राऽतिविषा विडङ्गं दारु मालती । मधूकपुष्पं खर्जूरं बदरं वंशरोचना ॥ १०४ ॥ कल्कैरेषां समांशानां घृतं क्षीरचतुर्गुणम् । कषाये कण्टकार्याश्च साधयेत्सौम्यदैवते ॥ १०५ ॥

१२ आयुर्वेदीयग्रन्थमाला । [घृताधिकारः एतत्कुमारकल्याणं घृतरत्नं सुखप्रदम् । बलवर्णकरं धन्यं पुष्टयग्निरुचिकारकम् ॥ १०६ ॥ छायासर्वग्रहालक्ष्मीदन्तकर्णगदापहम् । सर्वबालामयहरं मेध्यमायुष्यमुत्तमम् ॥ १०७ ॥ रसायनमिदं सेव्यं विशेषाद्दन्तजन्मनि । वाग्भटाद्ब्राह्मीघृतम् । द्वौ प्रस्थौ स्वरसाद्ब्राह्मया घृतप्रस्थं च साधयेत् ॥ १०८ ॥ व्योषश्यामत्रिवृद्ब्राह्मीशङ्खपुष्पीनृपद्रुमैः । ससप्तलाकृमिहरैः कल्कितैरक्षसंमितैः ॥ १०९ ॥ पलवृद्ध्या प्रयुञ्जीत यावन्मात्रा चतुष्पलम् । उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् ॥ ११० ॥ वाक्स्मृतिस्वरमेधाकृद्धन्यं ब्राह्मीघृतं शुभम् । शूले बीजपूरकाद्यं घृतम् । घृताच्चतुर्गुणो देयो मातुलुङ्गरसो दधि ॥ १११ ॥ शुष्कमूलककोलाम्लकषायो दाडिमाद्रसः । बिडङ्गलवणक्षीरपञ्चकोलयवानिभिः ॥ ११२ ॥ पाठामूलककल्कैश्च सिद्धं पूरकसंज्ञितम् । हृत्पार्श्वशूलवैस्वर्यहिध्माश्वासशमन्दरात् ॥ ११३ ॥ वर्ध्मगुल्मप्रमेहार्शोवातव्याधीन् विनाशयेत् । कृष्णात्रेयाङ्गे महागौर्याद्यं घृतम् । गौरी हरिद्रा मञ्जिष्ठा मांसी कटुकरोहिणी ॥ ११४ ॥ प्रपौण्डरीकं मधुकं भद्रमुस्तं सचन्दनम् । जातीनिम्बपटोलं च कारञ्जं बीजमेव च ॥ ११५ ॥ कट्फलं समधूच्छिष्टं समभागानि कारयेत् । पञ्चवल्ककषायेण घृतप्रस्थं विपाचयेत् ॥ ११६ ॥ क्षीरद्विगुणसंयुक्तं शनैर्मृद्वग्निना पचेत् । एतद्गौरं महागौर्यं सर्वव्रणविशोधनम् ॥ ११७ ॥

२-] गदनिग्रहः । १३: आगन्तुसहजांश्चैव शिरःश्लिष्टांश्च ये व्रणाः । विषममपि नाडीं च रोहयेच्छीघ्रमेव च ॥ ११८ ॥ रक्तपित्ते दूर्वाद्यं घृतम् । दूर्वामुत्पलकिञ्जल्कं मञ्जिष्ठा चैलवालुकम् । श्वेतदूर्वा तथोशीरं मुस्ता चन्दनपञ्चकम् ॥ ११९ ॥ द्राक्षा मधूकयष्ट्याह्वं काश्मरी सितचन्दनम् । पिष्टैस्तैः कार्षिकैर्द्रव्यैर्घृतप्रस्थं विपाचयेत् ॥ १२० ॥ अजाक्षीरं तण्डुलाम्बु पृथग्दद्याच्चतुर्गुणम् । तत्पानं वमतो रक्तं नावनं नासिकागते ॥ १२१ ॥ कर्णाभ्यां यस्य गच्छेत तस्य कर्णौ प्रपूरयेत् । चक्षुर्गते च रक्ते वै पूरयेत्तेन चक्षुषी ॥ १२२ ॥ मेढ्रपायुगते चापि बस्तिकर्म प्रयोजयेत् । प्रवृत्ते रोमकूपेभ्यस्त्वभ्यङ्गे योजयेद्धृतम् ॥ १२३ ॥ वैदेहनेत्ररोगे महात्रैफलं घृतम् । त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च । पीडयित्वा वृषं बालं रसप्रस्थं च दापयेत् ॥ १२४ ॥ अजाक्षीरस्य च प्रस्थं, प्रस्थं तैः सर्पिषः पचेत् । त्रिफला चन्दनं द्राक्षा पिप्पली मधुकं बला ॥ १२५ । काकोलीक्षीरकाकोलीमेदामरिचसैन्धवैः । शर्करा पुण्डरीकं च हरिद्रोत्पलनागरैः ॥ १२६ ॥ कल्कैः सिद्धं भिषग्दद्यान्नेत्ररोगविनाशनम् । काचं शुक्नं नीलिकां च वर्त्मरोगांश्च नाशयेत् ॥ १२७ नक्तान्ध्यं नकुलान्ध्यं च कण्डुं पिल्लमथापि च । अजकां तिमिरांश्चैव नेत्रस्त्रावांश्च दारुणान् ॥ १२८ ॥ त्रिफलासर्पिरेतद्धि पाननावनतर्पणैः । विदेहराज्ञा निर्दिष्टं दृष्टिनैर्मल्यकारकम् ॥ १२९ ॥ २