गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
एकत्रिंशः पटलः । १८७ ध्यात्वा, मूलमुच्चरन् वौषडिति वह्निं विलोक्यास्त्रेण संर- क्ष्य ज्वलदग्निमादाय स्थण्डिलं दक्षिणावर्तेन त्रिः परि- भ्राम्य ज्वलदिन्धनमेकं हूंफडित्यनेन क्रव्यादामिं नैर्ऋत्यां त्यजेत् । जानुभ्यामवनीं स्पृष्ट्वा वह्निं मध्ये संस्थाप्य क्लीं महात्रिपुरसुन्दरीवह्निमूर्तये नमें इति देवीं संपूज्य नाभि- मण्डलाद्वह्वन्नासापुटेन तदग्निना बाह्याग्निमेकीकृत्य यजेत् । मूलं ऐंक्लींसौःआंसोऽहं वह्निचैतन्यायै नमः इति का- मेश्वरीगर्भे वह्निं संचिन्त्य तद्देहे षडङ्गानि-सहस्रार्चिषे हृदयाय नमः, स्वस्तिपूर्णाय शिरसे स्वाहा, उत्तिष्ठपुरुषाय शिखायै वषट् , धूमव्यापिने कवचाय हुं, सप्तजिह्वाय नेत्रे- भ्यो वौषट् , धनुर्धरायास्त्राय फट् इति यष्ट्वा तप्तजाम्बून- दप्रभं शक्तिस्वस्तिकधरं वरदाभयशोभितकरपङ्कजं दि- व्यालंकारभूषितकरविग्रहमम्भोजसंस्थं शुक्लाम्बरधरं त्रि- नयनं बद्धमौलिं ध्यात्वा , चक्रे सप्तजिह्वाश्च ईशाने यूँ लो- हितां, पूर्वे रूँ रक्तां , आग्नेये नूँ नीलां, नैर्ऋते वूँ कृष्णां, प- श्चिमे शूँ शुभ्रां, दक्षे करालीं, उत्तरे बहुरूपां जप्त्वा का- मेशीगर्भोद्भववह्नेः सर्वभावेभ्यो नम इति मन्त्रैर्गर्भाधान- पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचूड़ोपन- यनकर्म निर्वर्त्य, अमुकाग्नेरमुककर्म कल्पयामि इति वि- धाय परिषिच्य परिस्तीर्य परिधाय पुनर्ध्यात्वा अग्निम- न्त्रेणाग्निं त्रिकोणे पूजयित्वा सप्तजिह्वासु सप्ताहुतीर्हुत्वा वैश्वानर-उत्तिष्ठ-चित्पिङ्गलैस्त्रिधाहुतिं विधाय षडङ्गानि ष- १ 'री' क पाठ । २ 'नमोदे' क पाठ । ३ 'यै' के पाठ । ४ 'त्ति' क. पाठ ।
२८८ गन्धर्वतन्त्रे । दृकोणेषु, अष्टदलेषु अग्नये जातवेदसे सप्तजिह्वाय हव्यवाह- नाय अश्रोदरजाय वैश्वानराय कौमारतेजसे विश्वमुखाय देवमुखाय नम इति, लोकपालांश्च भूगृहे, वह्नेर्दक्षिणतो ब्र- ह्माणमाराध्य आज्यस्थालीं पुरतो निधाय बहुरूपायां जिह्वा- यां श्रीचक्रराजं तदन्तःस्थां चित्कलामशेषरश्मिमण्डितामा- लोच्य यद्वा नित्यं हुत्वा कुण्डं मण्डपधूपैरापूर्य दीपैरूज्ज्वल्य समिधं हुत्वा जुहुयादिष्टमेव च बलीन्प्रदाय ओंभूरग्नये च पृथिव्यै च महते च स्वाहा, ओंभुवो वायवे चान्तरिक्षाय च महते च स्वाहा, ओंस्वरादित्याय दिवे च महते च स्वाहा, ओंभूर्भुवःस्वश्चन्द्रमसे च नक्षत्रेभ्यश्च स्वाहा, इति चतुर्भि- र्मन्त्रैर्व्याहृतिहोमं कृत्वा ब्रह्मार्पणमतः परं समिधं हुत्वा देवीमभ्यर्च्य विसृजेदिति ॥ नित्यहोमो मया प्रोक्तः काम्यहोममतः शृणु । मल्लिका-मालतीजातीकुसुमैर्मधुमिश्रितैः ॥ १२ ॥ घृतपूर्णैः (कु ? फ) लैर्वापि वागीशत्वं प्रजायते । (यवा ? जपा) पुष्पैराज्ययुतैः करवीरैस्तथाविधैः ॥ १३ ॥ हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः । चम्पकैः पाटलैर्हुत्वा श्रियमाप्नोत्यनुत्तमाम् ॥ १४ ॥ कमलै (र्व ? र) रुणैर्होमः सम्यक् संपत्तिदायकः । रक्तोत्पलैर्जगद्वश्यं नीलैलैर्दुष्टान्वशं नयेत् ॥ १५ ॥ (स्त्रो ? श्वे) तोत्पलैः श्रियं राज्यं लभते हवनात्प्रिये । कह्लारहवनैर्लक्ष्मीं सर्वसौभाग्यमेव च ॥ १६ ॥
एकत्रिंशः पटलः । २८६ बन्धूककुसुमैर्होमै सर्वसत्त्वान् वशं नयेत् । क्षीरं दधि मधु त्वाज्यं पृथग्हुत्वा वरानने ॥ १७ ॥ आयुर्बलमथारोग्यं समृद्धिर्जायते नृणाम् । रुधिराक्तेन च्छागस्य मांसेन निशि होमतः ॥ १८ ॥ मधुरत्रययोगेन गुरुणोक्तविधानतः । परराष्ट्रं वशं नीत्वा कामभोगी भवेन्नरः ॥ १९ ॥ द्राक्षाभिर्लञ्चहोमेन सिद्धयोऽष्टौ भवन्ति हि । कदलीफलहोमेन नारिकेलफलैस्तथा ॥ २० ॥ राजानो वशमायान्ति समृद्धिरतुला तथा । जम्बूफलैः स्त्रियः सर्वा वश्या भवन्ति निश्चितम् ॥ २१ ॥ श्रीफलैरतुला लक्ष्मीः पत्रैश्चापि तथा भवेत् । इक्षुखण्डैः सुखावाप्तिस्तद्रसैर्वशगा नृपाः ॥ २२ ॥ तिलाज्यहोमतो देवि सर्वकार्याणि साधयेत् । घृतपायसहोमेन सिताज्यमधुना सह ॥ २३ ॥ त्रैलोक्यं वशमायाति धनधान्यमवाप्नुयात् । सोपस्कारैश्च वटकैरुपसर्गान्विनाशयेत् ॥ २४ ॥ कर्पूरस्य च होमेन वाग्वशे जायते नृणाम् । कुङ्कुमैर्होमतो देवि सर्वदुःखानि नाशयेत् ॥ २५ ॥ कस्तूरीहोमतो देवा वशगा नात्र संशयः । चन्दनागुरुहोमेन सर्वांल्लोकान् वशं नयेत् ॥ २६ ॥ शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धये । पुष्पं समग्रं जुहुयाच्छतसंख्यांस्तिलांस्तथा ॥ २७ ॥ १ 'हुनेद्वापि' क पाठ 'मान्' ख पाठ । २ 'श्य' क पाठ । ३ 'ख्यांस्तिलास्तथा' क पाठ ।
२६० गन्धर्वतन्त्रे । लाजा मुष्टिप्रमाणाः स्युर्घृतं कर्षप्रमाणकम् । चुल्लुकार्धं मधु क्षीरमन्नं ग्रासमितं भवेत् ॥ २८ ॥ समग्रैश्च सखण्डैश्च फलानां च यथेच्छया । रम्भाफलं चतुःखण्डं लघु चेत् खण्डितं नहि ॥ २६ ॥ नारिकेलस्य खण्डं तु स्थूलं कुर्यान्मनःप्रियम् । प[र?र्व]स्थाने चेत्तुदण्डं मनःसंतोषकारकम् ॥ ३० ॥ द्राक्षाफलं समग्रं स्याद् गुञ्जामानं ततो भवेत् । कर्पूरकौ(षि ? शि)कादीनां ꕤ मनःसंतोषकारकम् ॥ ३१ ॥ एतदाहुतिमानं च कथितं सर्वसिद्धिकृत् । किंशुकैः पापसंघातनाशकैरथवा प्रिये ॥ ३२ ॥ नानाद्रव्यैः पृथग्भूतैः संगृहीतैर्वरानने । यथाशक्त्या तु मिलितैर्होमं कुर्याद्विचक्षणः ॥ सर्वविघ्नसमूहं तन्नाशयेन्नात्र संशयः ॥ ३३ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे होमतद्रव्य- विधिनिरूपणं नामैकत्रिंशः पटलः ॥ ३१ ॥ ꕤ कौशिको मृगमद आदिना घुसृण ग्राह्यम् । १ 'हा' क पाठ ।
द्वात्रिंशः पटलः । —=०= ❀ =०=— देव्युवाच वह्नीन्द्वर्कमयी मुद्रा प्रतिष्ठा च कथं भवेत् । ईश्वर उवाच सोमसूर्याग्निरूपाः स्युर्वर्णा लो(क ? ह)त्रयं तथा ॥ १ ॥ स्वराः षोडश सौम्यास्ते सौराः स्युः कादयोऽपरे । आग्नेयास्ते समुद्दिष्टा यादयो दश चापरे ॥ २ ॥ रौप्यमिन्दुस्तथा हेम सूर्यस्ताम्रं हुताशनः । लोहभागाः समुद्दिष्टा स्वराद्यक्षरसंख्यया ॥ ३ ॥ तैर्लोहैः कारयेन्मुद्रामसंकलितसंगताम् । पञ्चामृतैः पञ्चगव्यैः क्षालयित्वा शुभेऽहनि ॥ ४ ॥ भानुवारे शुभे लग्ने पूर्वोक्तमातृकाम्बुजे । मध्यादि स्थापयेत्तेषु पत्रेषु कलशानपि ॥ ५ ॥ तन्तुभिर्वेष्टिताञ् शुद्धान् बहिश्चन्दनचर्चितान् । सुधूपवासितान्देवि दूर्वाक्षतसमन्वितान् ॥ ६ ॥ क्वाथेन पूरयेद्देवि यथावदक्षरोषधैः । रोचनाचन्द्रकाश्मीरमधुकस्तूरिकायुतैः ॥ ७ ॥
१ म' क पाठ ।
२६२ गन्धर्वतन्त्रे । आपूर्य गन्धतोयैस्तानवेष्टयेदंशुकैः शुभैः । मुक्तामाणिक्यवैदूर्यगोमेदवज्रविद्रुमान् ॥ ८ ॥ पुष्परागं मरकतं नीलं चेति यथाक्रमम् । विन्यसेत्तेषु कुम्भेषु रत्नाङ्कितफलानि च ॥ ९ ॥ स्थापयेत् कुम्भवक्त्रेषु कोमलांश्चूतपल्लवान् । मध्यकुम्भे च मुद्रां तां विन्यस्य बहुमङ्गलैः ॥ १० ॥ बीजत्रयं त्रिधा कृत्वा मातृकां च त्रिधा तथा । विभज्य पूजयेद्देवि सोमसूर्यहुताशनान् ॥ ११ ॥ तत्रावाह्य यजेद्देवीं संमोहिनीं परां ततः । प्राणानायम्य विधिवत् पूर्ववन्मातृकां न्यसेत् ॥ १२ ॥ (वि? त्रि) नेत्रां तरुणेन्द्राभां बालार्ककिरणारुणाम् । अक्षमालाङ्कुशशरान् पाशं पद्मद्वयं तथा ॥ १३ ॥ आबिभ्रतीं कराम्भोजैः पुण्ड्रेक्षुचापपुस्तकम् । मायाश्रीकामबीजाद्यां नित्यां वर्णमयीं भजेत् ॥ १४ ॥ नानाविधैस्तु कुसुमैर्धूपैर्दीपैर्मनोहरैः । उच्चावचैरुपहारैः पूजयित्वा यथाविधि ॥ १५ ॥ शर्कराघृतसंयुक्तं पायसं च निवेदयेत् । पूजयेद्दिग्क्षु कुम्भेषु व्यापिन्यादीन्यथाक्रमम् ॥ १६ ॥ व्यापिनी पालिनी पश्चात् प्लाविनी क्लेदिनी तथा । धारिणी मालिनी चैव हर्षिणी शान्तिनी तथा ॥ १७ ॥ व्यापिन्यश्चाष्टसंख्या वै एताः पर्वतनन्दिनि³ । साग्रं सहस्रं संजप्य स्पृष्ट्वा तां मुद्रिकां ततः ॥ १८ ॥ १ ‘धरा’ क पाठ । २ ‘कान्’ क पाठ । ३ ‘नी’ क पाठ ।
द्वात्रिंशः पटलः । २६३ होमयेत्संस्कृते वह्नौ सहस्रं हविषा तथा । तस्यां संपातयेद्देवि विधिनाहुतिशेषकम् ॥ १९ ॥ संमोहनीं समुद्दिश्य गृहीत्वाज्यं स्रुवेण तु । बीजत्रययुतां देवि मातृकां बिन्दुसंयुताम् ॥ २० ॥ वह्निभार्यान्वितां पश्चात् कृत्वा वै¹ होमयेत्ततः । मण्डले मातृकादेव्याः शिष्यं निवेश्य सादरम् ॥ २१ ॥ सुरास्त्वामिति मन्त्रैस्तु नवभिः कलशैः शुभैः । अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ॥ २२ ॥ इयं रक्षाकरी मुद्रा विषरोगविनाशिनी । व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः ॥ २३ ॥ सर्ववश्यकरी शुद्धा शुद्धिदाशुद्धिहारिणी । तर्जन्यां धारयेदेनां विधिना मनुजेश्वरः ॥ २४ ॥ युद्धे विजयमाप्नोति श्रिया परमया युतः । विभजेन्मातृकां देवि नववर्गांस्तथोदितान् ॥ २५ ॥ नववर्गसमुत्पन्ना नवरत्नेश्वरा ग्रहाः । अर्केन्दुवक्रज्ञगुरुभृगुमन्दाहिकेतवः ॥ २६ ॥ नवरत्नैर्महेशानि मुद्रां कुर्याद्यथेच्छया । तद्रत्नेषु² ग्रहान्सर्वान् पूजयित्वा विधानतः ॥ २७ ॥ आवाह्य पूजयेद्देवीं संमोहनीं परां तथा । जपहोमादिकं सर्वं कुर्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥ यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः । वर्धते तस्य सौभाग्यं लक्ष्मीरव्याहता भवेत् ॥ २९ ॥ १ 'न्या' क पाठ । २ 'तेषु रत्नेषु' क पाठ ।
२६४ गन्धर्वतन्त्रे । द्रोहिणस्तस्य नश्यन्ति नश्यन्ति सकलापदः । रक्षोभूतपिशाचाद्या ने ( द्य ? त्त ) न्ते तं भयातुराः ॥ ३० ॥ उपर्युपरि वर्धन्ते धनरत्नानि संपदः । विना प्रतिष्ठया मुद्रां धारयित्वा पतत्यधः ॥ नाप्नोति च फलं तस्माद्धारयेद्विधिना प्रिये ॥ ३१ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे मुद्राधारण- विधिनिरूपणं नाम द्वात्रिंशः पटलः ॥ ३२ ॥
त्रयस्त्रिंशः पटलः । —=:◇·०·◇:=— देव्युवाच चक्रराजस्त्वया प्रोक्तः प्रतिष्ठा न प्रकाशिता । ईश्वर उवाच चक्रे मूर्तौ तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ॥ १ ॥ प्रतिष्ठितस्तथा शिष्यो दीक्षया खलु पार्वति । १अर्चां रत्नमयीं कृत्वा हैमीं वा राजतीं प्रिये ॥ २ ॥ प्रतिष्ठां विधिवत् कुर्यात् संस्थाप्य च गृहे शुभे । मासि मासि चरेद्यात्रां महाविभव२विस्तरात् ॥ ३ ॥ चतुःषष्ट्युपचारैस्तु पूजां कुर्याद्दिने दिने । दीक्षोक्तविधिना पूर्वमधिवासादिकं चरेत् ॥ ४ ॥ वासोभूषणगन्धाद्यैः कार्यतत्त्वार्थविद्गुरुः उक्तेन विधिना पूर्वं कृत्यं निर्वर्त्य ३देशिकः ॥ ५ ॥ पञ्चामृतैः पञ्चगव्यैः क्षालयेच्चक्रराजकम् । तथाविधे गृहे वेद्यां पूजयित्वा यथाविधि ॥ ६ ॥ नानाकुसुमसौरभ्यवासितेऽतिमनोहरे । सुषुम्नाव (र्तिने ? र्त्मना ) चक्रं पर्यङ्केऽथ निवेशयेत् ॥ ७ ॥ ———————————————————————— १ 'अर्चा' क पाठ । २ 'राम्' ख पाठ । ३ 'दै' ख पाठ ।
२६६ गन्धर्वतन्त्रे । कुङ्कुमागुरुकस्तूरीकर्पूरैरथ चन्दनैः । विलिप्य विविधैर्गन्धैः कुङ्कुमैरपि योजयेत् ॥ ८ ॥ दिव्येन वाससाच्छाद्य कर्पूरैरधिवासयेत् । धूपैः सुधूपितं कृत्वा दीपैरुज्ज्वल्य पार्वति ॥ ९ ॥ कर्पूरवासितैस्तोयैः पूरितान् कलशान् शिवे । एकाशीतिपदे तत्र स्थापयेद्वस्त्रवेष्टितान् ॥ १० ॥ हेमगर्भांन्समाञ्छुद्धान् पुष्पमालाद्यलंकृतान् । एकाशीतिपदोपेतं चतुरस्रं तु मण्डलम् ॥ ११ ॥ ब्रह्मचारी गुरुस्तत्र सशिष्यश्चापि संविशेत् । प्रातरेव तु तत्सर्वं विनिर्वर्त्य विधानतः ॥ १२॥ पूर्वोक्तेन विधानेन प्रविशेन्मण्डपे गुरुः । पूर्ववदपरं कृत्वा आसनमुपविश्य च ॥ १३ ॥ तथासनं च निर्वर्त्य चक्रमुत्थापयेत् ततः । पञ्चामृतैः पञ्चगव्यैः क्षालयित्वा विधानतः ॥ १४ ॥ निधाय भद्रपीठे च तत्र देवीं विभावयेत् । क्षौद्राज्यदुग्धैः प्रथमं नारिकेलाम्भसा ततः ॥ १५ ॥ इक्षुरसैस्तथा तोयैरभिषिच्य समन्त्रकम् । तैरेव कलशैः सम्यगभिषिञ्चेद्यथाविधि ॥ १६ ॥ सर्वतीर्थाम्बुपूर्णेन भृङ्गारेणाभिषिच्य वै । चक्रं कराभ्यामुद्धृत्य स्थापयेद्धेमपीठके ॥ १७ ॥ ततो देवीं हृदि ध्यात्वा यथोक्तध्यानयोगतः । आवाह्य चक्रमध्ये च तथैवैकाग्रचित्तवान् ॥ १८ ॥ १ 'कराभ्यामुद्धृत्य तच्चक्र' क पाठ ।
त्रयस्त्रिंशः पटलः । २६७ निर्वर्त्य विधिना देवि चक्रं स्पृष्ट्वा करेण च । कुङ्कुमागुरुकस्तूरीरोचनाचन्दनेन्दुभिः ॥ १६ ॥ विलिप्यथ पुनश्चक्र सुवर्णस्य शलाकया । रेखोन्मीलनमापाद्य यजेदाधारपूर्वकम् ॥ २० ॥ प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । ॐक्षीरोदधिः सनादेन बिन्दुना परिमण्डितः ॥ २१ ॥ नकुलीशोऽग्निमारूढो मायानादेन्दुलाञ्छितः । कामदेवोऽग्निमारूढः सद्योजातेन भूषितः ॥ २२ ॥ नादबिन्दुकलायुक्तः सर्वप्राणप्रदायकः । बीजत्रयमिठं देवि शिवबीजं सचन्द्रकम् ॥ २३ ॥ तदन्ते परमेशानि (ख ? स) र्गवान् भृगुरव्ययः । ततो भू(यात्तु ? यस्तु) षष्ठ्यन्ता महात्रिपुरसुन्दरी ॥ २४ ॥ क्रमात्प्राणा इह प्राणास्तथा जीव इह स्थितः । अमुष्याः सर्वेन्द्रियाणि भूयोऽमुष्याश्च पार्वति ॥ २५ ॥ वाङ्मनोनयनश्रोत्रघ्राणप्राणास्तथैव च । पश्चादिहागत्य सुखं चिरं तिष्ठन्त्वग्निप्रिया ॥ २६ ॥ अयं प्राणमनुः ॐप्रोक्तः सर्वजीवप्रदायकः । अनेन मनुना देव्याः प्राणांस्तत्र निवेश्य च ॥ २७ ॥ स्पृशञ्जपेत् कराग्रेण श्रीचक्रं पूजयेत्ततः । उपचारैस्तथा प्रोक्तैस्त्रिसंध्यं त्रिदिनं यजेत् ॥ २८ ॥ ॐ सनादादि क्षीरोदधि आँ, रेफमारूढो नकुलीशो ह मायादिना ईबीजेन लाञ्छितः । कामदेव क अग्नि रेफ सद्योजात ओ तेन क्रौं, शिवबीज सचन्द्रकमिति हस, । तत सर्गवानित्यादिना सोहमिति बीजोद्धार । ॐ आँह्रीँक्रौँहस सोह महात्रिपुरसुन्दर्या , प्राणा इह प्राणा १५ जीव इह स्थित १५ सर्वेन्द्रियाणि १५ वाङ्मनोनयनश्रोत्रघ्राणप्राणा इहागत्य सुख चिर तिष्ठन्तु स्वाहेति स्पष्टम् । १ 'न्मे' क पाठ ।
२६८ गन्धर्वतन्त्रे । तत्र तत्र महादेवीं होमयेद्विधिना तथा । अष्टोत्तरशतं देवि पायसैर्मधुराप्लुतैः ॥ २९ ॥ वाद्यैर्नानाविधैर्देवि नृत्यगीतपुरःसरैः । जयशब्दान्वितैः स्तोत्रैर्महोत्सवमुदान्वितः ॥ ३० ॥ कृत्वाथ गुरुवे दद्याद्दक्षिणां पूर्वसूचिताम् । प्रमदाः परितोष्याथ ब्राह्मणानपि तोषयेत् ॥ ३१ ॥ एवं देवि प्रतिष्ठायां देवीसांनिध्यकारकः । यन्त्रे मन्त्रे कुले चैव कुलालंकरणे तथा ॥ ३२ ॥ त्रैपुरे चास्त्रशस्त्रे च पूजयेद्वा तथात्मनि । प्रतिमायां तथा वह्नौ शिवलिङ्गे तथा गुरौ ॥ ३३ ॥ पूजाधाराणि देवेशि कथितानि मयानघे । नान्यत्र पूजयेद्देवीं यदिच्छेदात्मनो हितम् ॥ ३४ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे चक्रराज- प्रतिष्ठानिरूपणं नाम त्रयस्त्रिंंशः पटलः ॥ ३३ ॥ १ 'शा' क पाठ. । २ 'दि' क पाठ ।
चतुस्त्रिंशः पटलः। —=०४०=— ईश्वर उवाच कुलाचारं शृणु प्राज्ञे प्रकीर्णं कथ्यते मया । (अमा?विना मान्) दक्षिणां वामं नोपोष्या परमां यजेत् ॥ १॥ प्राणिहिंसां न कुर्वीत न चात्मानं प्रपीडयेत् । हेतुद्रव्यमनास्वाद्य न स्मरेत्सुन्दरीं शिवे ॥ २॥ विना मद्येन मांसेन परस्त्रीरमणं विना । यजनं तु महादेव्या अगव्यं भोजनं यथा ॥ ३॥ अनैन्दवमगत्यं च भोजनं मृतभोजनम् । उपवासव्रतं नैव कुर्यादिह कदाचन ॥ ४॥ दुर्गन्धवदनो वापि विरागवदनोऽपि च । अकौलभूषणो वापि रक्तपुष्पविवर्जितः ॥ ५॥ अविश्वासहृदा युक्तः शिवस्य पत्रधारकः । तथा नान्यमना भूत्वा सुन्दरीं समुपासयेत् ॥ ६॥ अतो न तुलसीपुष्पैस्तत्पत्रैर्न यजेत्पराम् । कन्यायोनिं न वीक्षेत³ बीभत्सं न विलोकयेत् ॥ ७॥ न नग्नां नान्ययोषां च न वीक्षेतप्रकटस्तनीम् । क्रीडाकुलकुमारीणां दर्शनाद्वन्दनं शिवे ॥ ८॥
१ 'नैवो' क पाठ. । २ 'च' क पाठ । ३ 'यु' क पाठ. ।
३०० गन्धर्वतन्त्रे । न दुष्यति मनो येन नारीणां तत्समाचरेत् । नारीणां विप्रियं कृत्वा सिद्धोऽपि नश्यति ध्रुवम् ॥ ९ ॥ नैकवारं समश्नीया(न्नहृत्य ? न्नाहार्य)पूतिगन्धयुक् । स्वयं हृद्यं स्थिरं स्वादु प्रशस्तं मधुरं तथा ॥ १० ॥ आहा(रं ? र्य) साधकेन्द्राणामल्पमल्पतरं शिवम् । कट्वम्ललवणानां च नातिप्रियतरं भवेत् ॥ ११ ॥ यद्भुक्ते जीर्यते शीघ्रं तदश्नीयान्न चाधिकम् । यदिच्छा जायते भोक्तुं तदश्नीयादपूर्णकम् ॥ १२ ॥ एकदाच्छादिते वह्नौ नैव वृद्धिं प्रयाति सः । तस्मात्सावहितो वह्निं व(न्ध ? र्ध)येद्भुक्तैमा(ज्ञ ? त्र)तः ॥ १३ ॥ समाने तु स्थिते वह्नौ शरीरं स्यान्निरामयम् । निरामये शरीरे तु सर्वकर्माणि साधयेत् ॥ १४ ॥ विषमस्थो यदा वह्निः शरीरं स्यान्निरर्थकम् । शरीरं तु मनुष्याणां पुरुषार्थैकसाधकम् ॥ १५ ॥ तस्मात् सर्वप्रयत्नेन (शु ? शो)धयेत्तन्निरामयम् । देवाँ अपि जयन्त्यत्र किं पुनर्मानवादयः ॥ १६ ॥ भवाब्धेस्तरणोपायं तरणी वर्ष्म चोच्यते । निर्गदेन शरीरेण सुखं तरति दुस्तरम् ॥ १७ ॥ सरुजा व(र्त्म ? र्म)णा देवि जीवनं विफलं शिवे । धूमागारे चान्धकारे चाज्ञाते पूजनं शिवे ॥ १८ ॥ नरकाय महादेवीः पूजनं विद्धि पार्वति । सत्ये चास्थिगताः प्राणास्त्रेतायां मांसगा मताः ॥ १९ ॥ १ 'शे' क पाठ । २ 'युक्तिमात्रतः' ख पाठ । ३ दैवात्त्वपि यज' क पाठ. । ४ 'ने' क पाठ ।
चतुस्त्रिंशः पटलः । ३०१ द्वापरे त्वग्गताः प्राणाः कलावन्नगता मताः । निराहारव्रतं देवि कलौ तेन विवर्जितम् ॥ २० ॥ बलिदानं विना हिंसां कलौ नैवात्र कारयेत् । न स्वयं छेदयेद्देवि बलिं साधकसत्तमः ॥ २१ ॥ बलिदानं विना देव्याः प्रीतिर्नान्यैस्तथा भवेत् । प्रोक्षणे तु परो मन्त्रः सोऽयमेव प्रकीर्तितः ॥ २२ ॥ उत्बुध्यस्व पशो त्वं हि नापरस्त्वं शिवोऽसि हि । शिवोत्कृत्यमिदं पिण्डमतस्त्वं शिवतां व्रज ॥ २३ ॥ बहवो नैव हन्तव्या यदीच्छेदात्मनो हितम् । बहवो यत्र हन्यन्ते तत्र कृत्या क्षयंकारी ॥ २४ ॥ भवत्येवाचिरेणैव बन्धनोच्चाटनं शिवे । आत्मप्राणसमा देवि परेषामपि सा कथा ॥ २५ ॥ परहिंसाभवोऽधर्मः क्रमात् सर्व हरिष्यति । य इहात्मकृते देवि परान्निष्पीड्य जीवति ॥ २६ ॥ नेहापि लभते सिद्धिं परत्रापि कदाचन । यो वा विधिमनादृत्य जन्तून् हत्वा शिवां यजेत् ॥ २७ ॥ भवन्त्येव महोत्पाता (य ? स्त) त्र तस्य न संशयः । यज्ञादिषु महेशानि हिंसया दारुणाज्ञया ॥ २८ ॥ परहिंसाभवोऽधर्मः परिणामेऽतिदुःखदः । तथैव प्रतिजानेऽहं मोहात्किं वा न दृश्यते ॥ २६ ॥ कियत्कालसुखावाप्तिकाम्यया कामुकान् शिवे । हन्तीह परमो मोहः परमोहः सुदारुणः ॥ ३० ॥
१ 'शोस्तुष्टि नापरस्त' क पाठ । २ 'शिवायत्तमित्क पाठ । ३ 'निष्पाद्य' क पाठ । ४ 'नीहि' ख पाठ । ५ 'प्ति' क पाठ ।
३०२ गन्धर्वतन्त्रे । ममत्व१समता देहे प्रिये चातिसुदुर्लभे । तस्मादेषु महद्दुःखं नान्यत्र खलु पार्वति ॥ ३१ ॥ देहत्यागे शुनो य(स्मा ? द्व)त्तथेन्द्रचन्द्रयोरपि । आव्रयोर्जायते प्रीतिः कामदा कामुकस्य च ॥ ३२ ॥ न शस्तं मारणं कर्म ब्रह्मासौ ब्रह्मसाधके । यदा सर्वाणि भूतानि स्वात्मैव परिपश्यति ॥ ३३ ॥ सर्वभूतमित्वात्मानं ब्रह्म संपद्यते तदा । शक्तिर्महेश्वरो ब्रह्म त्रयस्तुल्यार्थवाचकाः ॥ ३४ ॥ स्त्रीपुंनपुंसको भेदः शब्दतो न परार्थतः । अन्ते सिद्धिर्भवेत्पुंसां वशगा भोगमोक्षदा ॥ ३५ ॥ स्त्रीणामपीह पुरुषो वशगः सर्वसिद्धिदः । नपुंसकात्मकं तत्तु स्वयमेव प्रकाशते ॥ ३६ ॥ द्वयोरेकतरद्वैतयोगान्मत्तैकभावना । निष्ठीवनं२रवं छिक्कामधोवायुविसर्जनम् ॥ ३७ ॥ पूजामध्ये तु यः कुर्यात् स भवेद्योगिनीपशुः । देशानां व्यवहारा(णि ? दि)विज्ञाय मतिमान् सदा ॥ ३८ ॥ पञ्चमादिपराम(र्षः ? र्श)स्वतन्त्रो न भवेत् क्वचित् । यत्र देशे य३ आचारस्तत्र धर्मस्तु तादृशः ॥ ३६ ॥ अविरोधः सर्वभूतैः परिपन्थिषु निग्रहः । अनुग्रहः संश्रितेषु देववत् पुरुषेऽपि च ॥ ४० ॥ गुरुपुत्रकलत्रादि गुरुवदेव संश्रयेत् । पर्वसु च विशेषार्चां कुलवृक्षान्नपल्लवः ॥ ४१ ॥ १ 'त्व ममता' क पाठ । २ 'वूल वर शूका' क पाठ । ३ 'च' क पाठ । ४ 'क्षौन्' क पाठ ।
चतुस्त्रिंशः पटलः । ३०३ अनिच्छा मिथ्यावचने परदारधनेषु च । स्वस्तुतौ परनि(न्देच?न्दायां)आनन्दंचापि न स्पृशेत् ॥ ४२॥ संभाष्याभिमुखीं शक्तिं नासंभाष्य व्रजेत् क्वचित् । स्त्रीणां समूहमालोक्य प्रणमेद्भावतत्परः ॥ ४३ ॥ पुण्ड्रेक्षुदण्डजातानि भक्षयेन्न कदाचन । प्राज्ञेनैव सदा कार्या पूजा सर्वसमृद्धिदा ॥ ४४ ॥ आगमोक्तविधौ दृष्ट्या त्यजेद्दोषं¹ तु पञ्चमे । स्नायात् सुगन्धिसलिलैः स्याद्देहो निर्मलो यथा ॥ ४५ ॥ निर्मलं धारयेद्वासः सर्वदा निर्मलः शुचिः । सुस्निग्धदेहवदनो न रूक्षः स्यात् कदाचन ॥ ४६ ॥ कृत्वा सुमङ्गलं देहं मृदुभाषणतत्परः । न बहु प्रलपेद्धीरो नैव रूक्षं कदाचन ॥ ४७ ॥ गन्धर्वरूपवान् भूत्वा वीणावादनतत्परः । मदिराघूर्णनयनो मदिराक्षीसमन्वितः ॥ ४८ ॥ सर्वदा देवताभावः संगीतरसपारगः । यतिर्वा भूपतिर्वापि प्रशस्तः साधकोत्तमः ॥ ४६ ॥ भूपतिर्व्यस्तसंभारैर्यतिरिन्द्रियनिग्रहैः । चतुराश्रमिणां मध्ये ह्यवधूताश्रमो महान् ॥ ५० ॥ खादन् मांसं पिबन् मद्यं विषयी विषयान्(यु?जु)षन् । रामारमो रमणीभिर्भूषिताभिर्विभूषितः ॥ ५१ ॥ तत्तदानन्दसंदोहैरानन्दितान्तरात्मवान् । निस्पन्देन्द्रियवान् यस्तु सोऽवधूतो यतिर्महान् ॥ ५२ ॥ १ 'पमप' क पाठ । २ 'चि' क पाठ ।
३०४ गन्धर्वतन्त्रे । स्रक् चन्दनं च वस्त्रादि भूषणं यद्विलेपनम् । यदृच्छयोपपन्नं यत् तदप्यन्यैर्निवेदितम् ॥ ५३ ॥ अगृध्नुदुपयुञ्जीत न चासक्तमना भवेत् । एकान्तविजने रम्ये सदा योगं समभ्यसेत् ॥ ५४ ॥ इन्द्रियाणि यदा भिक्षोश्चञ्चलानि महात्मनः । तदा पर्यटनं कार्यं तीर्थादिषु प्रयत्नतः ॥ ५५ ॥ विभूतिभूषणो भिक्षां कुर्वन्नैकत्रै संवसेत् । त्वं मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् ॥ ५६ ॥ विभूतिमतुलां प्राप्य न मत्तो नैव मत्सरी । संपत्तौ च निरानन्दः समरूपगुणान्वितः ॥ ५७ ॥ सर्वदानन्दहृदयो दानभोगपरायणः । प्रासादे चोत्तमे रम्ये लाक्षारुणसमप्रभे ॥ ५८ ॥ दिव्योपकरणैर्युक्ते मणिकाञ्चनभूषिते । परार्ध्यास्तरणे रम्ये रत्नसिंहासने शुभे ॥ ५९ ॥ नानाकुसुमसौरभ्यसुरभीकृतदिङ्मुखे । चन्दनागुरुकर्पूरधूपैः संमोदितान्तरे ॥ ६० ॥ कर्पूरज्वलितैर्दीपैरुज्ज्वले रत्नसंज्वले । शरच्चन्द्रनिभं छत्रं मुक्तामाणिक्यमण्डितम् ॥ ६१ ॥ हेमदण्डशिखालम्बिश्वेतचामरभूषितम् । निधायोर्ध्वं विशेत् तत्र कृतासनपरिग्रहः ॥ ६२ ॥ चन्दनागुरुकर्पूरमृगनाभिविलेपितः । सर्वशृङ्गारवेशाढ्यो रत्नभूषाविभूषितः ॥ ६३ ॥ १ 'न्न चिरं वसेत्' क पाठ । २ 'लीस्त' क पाठ । ३ 'र' क पाठ ।
चतुस्त्रिंशः पटलः । ३०५ स्रग्भिर्विचित्रभूषाभिर्भूषितोऽतिमनोहरः । कर्पूरशकलोन्मिश्रताम्बूलपूरिताननः ॥ ६४ ॥ निर्वृत्ताखिलचिद्वृत्तिर्मदिराघूर्णलोचनः । विधाय पुरतः शक्तिं सुवेशां सुमनोहराम् ॥ ६५ ॥ दुकूलक्षौमकौशेयैर्नानारत्नैर्विराजिताम् । निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ ६६ ॥ आत्माभेदेन संचिन्त्य याति तन्मयतां नरः । भोगेन मोक्षमाप्नोति स्वयं त्रिपुरभैरवः ॥ ६७ ॥ तत एव समुत्पन्ना ब्रह्मविष्णुमहेश्वराः । तदेवैते न संदेहस्तस्माद्भिन्नं न भावयेत् ॥ ६८ ॥ भेदावभाषिणो मूढाः पतन्त्येव वरानने । सर्वदो सर्वदाः सर्वास्तोषयेद्भूषयेत् स्त्रियः ॥ ६६ ॥ वासोभूषणगन्धाद्यैः पेयैर्भक्ष्यैर्मुदान्वितः । प्रथमे राजसो भूत्वा द्वितीये तामसो भवेत् ॥ ७० ॥ तृतीये सात्त्विको धर्मी तुर्ये पञ्चपरायणः । पूजाहोमजपान्तेऽस्या बलिभिः शत्रुनिग्रहैः ॥ ७१ ॥ दानभोगैस्तृतीये च चतुर्थे संमतात्मनः । तच्चित्तस्तद्गतप्राणो मदिरामदविह्वलः ॥ ७२ ॥ सात्त्विको दिव्यभावस्तु स्थिराय जायते पुनः । नाशाय (सै ? चै) व भावस्तु तामसः खलु मानुषे ॥ ७३ ॥ विपर्ययाद्भवेन्मृत्युर्कालसंभवः शिवे । विषशस्त्रजनैश्चौरैर्दस्युभिर्वा वरानने ॥ ७४ ॥ १ 'परित' क पाठ । २ 'पे' क पाठ । ३ 'भामिन्यो' क पाठ । ४ 'दा' क पाठ । ५ 'चतुर्थे' क पाठ । ६ 'म' क पाठ । ७ 'त्ता' क पाठ । ८ 'णा' क पाठ ९ 'क्षा' क. पाठ. ।
३०६ गन्धर्वतन्त्रे । विनाशं तस्य दुर्बुद्धेः समूलं विद्धि पार्वति । पुत्रमित्रकलत्रादिसुहृद्धृत्यादयोऽपरे ॥ ७५ ॥ विप्रा भ्रात्रादयो यस्य वि (सी? षी) दन्ति सुदुःखिताः । दुश्चरित्राः स्त्रियो यस्य भवन्त्यन्तःपुरे शिवे ॥ ७६ ॥ मृगयाभिरतिर्यस्य दुरोदरप्रियस्य च । अद्भुतानि च जायन्ते हाहाकारयुताः प्रजाः ॥ ७७॥ पीडिताः क्लेशविक्षिन्ना विपत् तस्य पदे पदे । यस्यैते चातिसंतुष्टाः सुस्था मङ्गलशंसिनः ॥ ७८ ॥ तस्यायुर्वर्धते नित्यं महालक्ष्मीः स्थिरा गृहे । कलहो यस्य देवेशि विना कारणमापतेत् ॥ ७६ ॥ नार्योऽमङ्गल (संशि ? शंसि) न्यस्तस्य हानिं विनिर्दिशेत् । एतेषामपि चान्येषां दोषाणां ग्रहसंकटे ॥ ८० ॥ आयुर्वृद्धौ तथा शान्त्यै कोटिहोमं चरेन्नृपः । कोटिहोमात् परं नास्ति कर्म रिष्टिविनाशने ॥ ८१ ॥ न तत्तुल्यं तथा रैक्षां महोत्पातविनाशनम् । पुरश्चर्यां प्रकुर्वीत संध्यासु जपतत्परः ॥ ८२ ॥ वर्षेकेन हि तत् सिद्ध्येत् सर्वविघ्नविनाशनम् । ज्ञानलोपो भवेद्यस्य मद्यपानात् सुलोचने ॥ ८३ ॥ विकारं जनयेद्वापि स पुनर्यात्यधोगतिम् । प्रलापो भ्रंशनं हास्यं क्रोधोन्मादभयानकाः ॥ ८४ ॥ आलस्यं चातिचिन्ता च परानिष्टप्रवर्तनम् । हिंसासूथा तथेर्ष्या च दम्भमोहौ प्रमादता ॥ ८५ ॥ १ 'नि' क पाठ । २ 'राज्ये' क पाठ । ३ 'प' क पाठ ।