भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ
२१४गौतमधर्मसूत्राणि

तमेके नरकम् ॥ ६ ॥

येयं कर्मभ्यो हानिर्या च परत्रासिद्धिस्तामेवैके नरकं मन्यन्ते। नरकसामानाधिकरण्यात्पुंलिङ्गमेकवचनं च। कर्मभ्यो हीनस्य बन्धुभिस्त्यक्तस्य दुःखमुत्पद्यते परत्रासिद्धेः सुखलवो न भवत्यतो नरक एवायमिति। स्वमतं तु विशिष्टे देशे दुःखैकतानस्य वासो नरक इति ॥ ६ ॥

कुछ लोग इसी दशा को (कर्म की हानि और पुण्यकर्म के फल के नाश को) नरक कहते हैं ॥ ६ ॥


त्रीणि प्रथमान्यनिर्देश्यान्यनु ॥ ७ ॥

अनुक्रान्तानां पातकानां मध्ये प्रथमानि त्रीणि ब्रह्महत्यासुरापानगुरुतल्पगमनान्यनिर्देश्यान्यनिर्देश्यप्रायश्चित्तानि तेषां प्रायश्चित्तमनिर्देश्यमिति। ब्रह्मवधे। मनुराह—

कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते। इति।

सुरापाने—
मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः। इति। गुरुतल्पे मृग्यम् ॥ ७ ॥

मनु का मत है कि उपर्युक्त पातकों में प्रथम तीन—ब्रह्महत्या, सुरापान और गुरुपत्नी संभोग—के लिए कोई प्रायश्चित्त नहीं है ॥ ७ ॥


न स्त्रीष्वगुरुतल्पं पततीत्येके ॥ ८ ॥

एके मन्यन्ते स्त्रीषु प्रवृत्तो गुरुतल्प एव पतितो नान्यत्रेति। स्वयं त्वन्यत्रापि पततीति। आह मनुरपि—

चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ इति ॥ ८ ॥

कुछ आचार्यों का मत है कि गुरुपत्नी के अतिरिक्त अन्य स्त्री से संभोग करने वाला पतित नहीं होता ॥ ८ ॥


अथ स्त्रियाः पतनहेतुमाह—

भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति ॥ ९ ॥

भ्रूणहेति भावपरम्। भ्रूणो गर्भः। आत्मापेक्षायां गर्भहत्यायां स्त्री पतति। यो हीनवर्णो ब्राह्मण्याः क्षत्रियादिः क्षत्रियाया वैश्यादिर्वैश्यायाः शूद्रस्तत्सेवायां च स्त्री पतति। चकाराद् ब्रह्महत्यादिषु च। अपर आह—

सानुवाद-मिताक्षरावृत्तिसहितानि २१५

भ्रूणहनं हीनवर्णं च या सेवते न तस्य भार्या भवति सा पतति। चका- राद् ब्रह्महत्यादिषु चेति। भ्रूणग्रहणं पतितोपलक्षणम् ॥ ९ ॥

स्त्री गर्भपात कराने पर, निम्नवर्ण के पुरुष के साथ सम्बन्ध करने ( और ब्रह्महत्यादि कर्मों ) से पतित होती है ॥ ९ ॥

कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक- समानि ॥ १० ॥

कूटसाक्षिणो भावः कौटसाक्ष्यं साक्षिणोऽनृतवचनम् । सतोऽसतो वा परदोषस्य ख्यापनं पैशुनम् । राजनीतौ वक्तव्ये राजगामीति वचनं यत्रोक्तं पारम्पर्येणापि राजानं गच्छति तदपि वर्ज्यमित्येवमर्थम् । गुरोः पितुराचार्यस्य वाऽनृतेनासत्येन दोषेणाभिशंसनं दुष्टताख्यापनं गुरोरनृ- ताभिशंसनम् । एतानि [ महा ] पातकसमानि । साम्यातिदेशे प्रायश्चित्त- मर्धमिति स्मार्तो व्यवहारः ॥ १० ॥

झूठी गवाही देना, राजा के कानों तक पहुँचने वाली चुगली करना, गुरु ( पिता, आचार्य ) के विषय में असत्य दोषारोपण करना—ये महापातक के समान हैं ॥ १० ॥

अपङ्क्त्यानां प्राग्दुर्बलाद् गोहन्तृब्रह्मघ्नतन्मन्त्रकृदवकीर्णि- पतितसावित्रीकेषूपपातकम् ॥ ११ ॥

स्तेनादयो गीतशीलान्ता एकपञ्चाशन्न भोजयितव्या इत्युक्ताः श्राद्ध- प्रकरणेऽपङ्क्त्याः । तेषामपङ्क्त्यानां मध्ये दुर्बलात्प्राग्यावन्तस्त्यक्तात्म- पर्यन्ता एकत्रिशत्तेषु पतितः कूटसाक्षो चान्तर्भूतः । तत्र पतितस्य पति- तत्वं कूटसाक्षिणस्तत्साम्यमुक्तम् । व्यतिरिक्तेषूपपातकं पापम् । नास्ति- कोऽपि तेषु पठितः । स च त्रिविधः । यथाऽऽहुः पौराणिकाः—

नास्तिकास्त्रिविधा ज्ञेया धर्मज्ञैस्तत्त्वदर्शिभिः ।
क्रियादुष्टो मनोदुष्टो वाग्दुष्टश्चेति ते त्रयः ॥ इति ।

अत्र वाग्दुष्ट उपपातकोऽभिप्रेतः । इतरयोः पातक एव । गोहन्ता हननं दण्डकाष्ठादिना ताडनम् । ब्रह्म वेदस्तमधीतं यः प्रमादादभिहृतवा- न्विस्मृतवान्स ब्रह्मघ्नः । बुद्धिपूर्वे मानवम्—

ब्रह्मघ्नत्वं वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ इति ।

तन्मन्त्रकृद्गोहन्तृब्रह्मघ्नयोर्योजनादिकृत् । यो ब्रह्मचारी स्त्रियमुपेया- त्सोऽवकीर्णी । अस्यापङ्क्त्येषु पठितस्य पुनर्वचनं कृतेऽप्यवकीर्णिप्राय-

२१६ गौतमधर्मसूत्राणि

श्चित्ते पृथगुपपातकप्रायश्चित्तमपि कर्तव्यमित्येवमर्थम् । एतच्चापत्योत्पाद- नपर्यन्तगमने द्रष्टव्यम् । पतितसावित्रिको यथाकालमनुपनीतो व्रात्यः । एतेषूपपातकं पापमिति ॥ ११ ॥

लघु पाप (उपपातक) का दोष उन व्यक्तियों को लगता है जो श्राद्ध भोजन कराने के लिये अयोग्य बताये गये व्यक्तियों में दुर्बल (गंजे सिर वाले) से पहले गिनाये गये हैं। गाय की हत्या करने वाले, वेद भूल जाने वाले, इनके लिए यज्ञ कराने वाले, मैथुन द्वारा ब्रह्मचर्य भंग करने वाले, और उपनयन की अवधि बीतने के कारण सावित्री मन्त्र से पतित व्यक्ति ॥ ११ ॥

अज्ञानादनध्यापनादृग्विगाचार्यौ पतनीयसेवायां च हेयौ ॥ १२ ॥

अज्ञानादनध्यापनादिति । यदि (यः) कर्मणि प्रवृत्त ऋत्विड्मन्त्रा- न्कर्मपद्धतिं वा न जानाति स च, य आलस्यादिना नाध्यापयत्याचार्यस्ता- वुभौ हेयौ त्याज्यौ । इदं पतितेन सह शयनासनादेः सेवायां प्रागप्यब्दा- त्परित्यागार्थम् । तर्हि संवत्सरेण पततीति वचनमनर्थकम् । न तादृशस्त्या- गोऽत्र विवक्षितः । किं तर्ह्यृत्विगाचार्यान्तरमुपादेयम् । अनुपादाने दोष इति ॥ १२ ॥

(यज्ञ के नियमों के विषय में) अज्ञान ऋत्विज् और (आलस्य आदि के कारण) अध्यापन से प्रमाद करने वाले आचार्य को और पतित व्यक्ति की सेवा करने पर इन दोनों का त्याग कर देना चाहिए ॥ १२ ॥

अन्यत्र हानात्पतति ॥ १३ ॥

अन्यत्राज्ञानादनध्यापनादन्यत्र तयोस्त्यागो न कर्तव्यः । कुर्वन्प- तति ॥ १३ ॥

इस के अतिरिक्त अन्य किसी स्थिति में इनका त्याग करने वाला पतित हो जाता है ॥ १३ ॥

तस्य च प्रतिग्रहीतेत्येके ॥ १४ ॥

तस्यर्त्विजमाचार्यमीदृशं त्यजतः प्रतिग्रहीता तं यः प्रतिगृह्णाति याज्य- त्वेन शिष्यत्वेनर्त्विगाचार्यौ वा सोऽपि पततीत्येके मन्यन्ते । एके ग्रहणा- ज्ज्ञात्वा प्रतिग्रहे पातित्यं नान्यत्रेति ॥ १४ ॥

कुछ लोगों का मत है कि अनुचित ढंग से अपने ऋत्विज् या आचार्य का परित्याग करने वाले व्यक्ति को शिष्य या यजमान बनाने वाला भी पतित हो जाता है ॥ १४ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २१७

न कर्हिचिन्मातापितृयोरवृत्तिः ॥ १५ ॥

न कस्यांचिदप्यवस्थायां मातापित्रोरवृत्तिरशुश्रूषा कर्तव्या किन्तु पतितयोरपि तयोर्नमस्कारादिका शुश्रूषा कर्तव्या। तथा चाऽऽपस्तम्बः- माता पुत्रस्य भूयांसि कर्माण्यरभते तस्यां शुश्रूषा नित्या पतितायामपीति ॥ १५ ॥

किसी भी स्थिति में (पतित होने पर) माता और पिता के साथ अनुचित व्यवहार नहीं करना चाहिए ॥ १५ ॥

दायं तु न भजेरन् ॥ १६ ॥

तदीयं तु धनं तदभावे न भजेरन्पुत्रादयः। राजगामि तद्भवति ॥१६॥

(माता पिता के पतित होने पर) पुत्र उनकी सम्पत्ति न ग्रहण करे (उनका धन राजा को प्राप्त होता है) ॥ १६ ॥

ब्राह्मणाभिशंसने दोषस्तावान् ॥ १७ ॥

यो ब्राह्मणमभिशंसति तस्य सन्तं दोषं प्रथमं ख्यापयति तस्य दोषस्तावान्भवति यावान्कर्तुरिति। यथाऽऽहापस्तम्बः—
दोषं दृष्ट्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्यादूर्जयेश्चैनं धर्मेषु। इति ॥ १७ ॥

किसी ब्राह्मण पर कोई दोष मढ़ने पर दोष मढ़ने वाला ही उस दोष के पाप का भागी होता है ॥ १७ ॥

द्विरनेनसि ॥ १८ ॥

अनेनसि विषये दोषाभिशंसने द्विर्दोषोऽस्य भवति। द्विर्द्विगुणः। अत्राभिशंसनमात्रे दोष उक्तः। मानवे तु—
पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विद्दोषभाग्भवेत् ॥ इति।
पातित्यचौर्यविषयमभिशंसनमुक्तम्। वसिष्ठस्तु—ब्राह्मणमनृतेनाभिशस्य पतनीयेनोपपतनीयेन वा मासम्मभक्षः शुद्धवतीरावर्तयेत्पूतो भवतीति विज्ञायते ॥ १८ ॥

यदि वह व्यक्ति निर्दोष हो जिस पर दोष मढ़ा गया हो तो दोष मढ़ने वाले को उस कुकर्म का दूना पाप लगता है ॥ १८ ॥

दुर्बलहिंसायां च विमोचने शक्तश्चेत् ॥ १९ ॥

दुर्बले प्रबलेन हिंस्यमाने यः शक्तः सन्न मोचयति तस्यापि तावान्दोषो यावान्हिंसितुः ॥ १९ ॥

२१८गौतमधर्मसूत्राणि

समर्थ होते हुए भी किसी मारे जाते हुए दुर्बल व्यक्ति की रक्षा न करने पर उतना ही दोष लगता है जितना उस दुर्बल व्यक्ति को मारने वाले को ॥१९॥

अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ॥ २० ॥

योऽभिक्रुद्धः सन्ब्राह्मणं प्रहर्तुं हस्तमायुधं वाऽवगुरत उद्यम्य कम्पयति तस्य तदवगोरणं वर्षाणां शतमस्वर्ग्यं भवांत स्वर्गप्राप्तिं निरुणद्धि । तन्निमित्तानि सुकृतानि हन्तीत्यर्थः । अस्वर्ग्यमिति नरकपातो वा लक्ष्यते । सजातीयविषयमिदम् । विजातीयविषये तु—

द्विगुणं त्रिगुणं चैव चतुर्गुणमथापि च ।
क्षत्रविट्शूद्रजातीनां ब्राह्मणस्य वधे स्मृतम् ॥ इति ।

अनेनैव न्यायेन ब्राह्मणेनावगोरणे कृते त्रिपाद्यं द्विपाद्यं पादश्चेति क्षत्रियादिषु द्रष्टव्यम् । एवमन्यत्रापि प्रतिलोमानुलोमभेदेनाधरोत्तरभावे तारतम्यं कल्प्यम् ॥ २० ॥

जो क्रुद्ध होकर किसी ब्राह्मण के ऊपर हाथ या हथियार उठाता है वह सौ वर्ष तक स्वर्ग से बहिष्कृत होता है ॥ २० ॥

निघाते सहस्रम् ॥ २१ ॥

यः पूर्वेण हन्ति तस्य वर्षसहस्रमस्वर्ग्यम् । उपसमस्तं वर्षपदमपेक्षते ॥ २१ ॥

यदि वह मार देता है तो वह सहस्र वर्षों तक स्वर्ग नहीं प्राप्त करता ॥२१॥

लोहितदर्शने यावतस्तत्प्रस्कन्द्य पांसून्संगृह्णीयात् [ संगृह्णीयात् ] ॥ २२ ॥

यदि तेन निभातेन लोहितमुत्पादयेत्ततस्तल्लोहितं प्रस्कन्द्य निःसृत्य यावतः पांसून्संगृह्णीयात्पिण्डान्कुर्यात्तावन्ति वर्षाणि तदस्वर्ग्यं भवति । तस्माद् ब्राह्मणाय नावगुरेत्त न निहन्यान्न लोहितं कुर्यादिति गम्यमानत्वादमुक्तम् । [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ २२ ॥

यदि वह मार कर खून निकाल देता है तो उस खून से जितने रजकण एक साथ मिलते हैं उतने वर्षों तक उसे स्वर्ग नहीं मिलता ॥ २२ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने तृतीयोऽध्यायः ॥ ३ ॥

अथ चतुर्थोऽध्यायः

एवं प्रायश्चित्तनिमित्तान्युक्तानि। अथ प्रायश्चित्तान्युच्यन्ते—

प्रायश्चित्तम् ॥ १ ॥

अधिकारोऽयम् । निश्चित्य तपसोऽनुष्ठानं प्रायश्चित्तम् ।
तथा चाङ्गिराः—

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥ इति ॥ १॥

अब प्रायश्चित्तों का वर्णन किया जाता है ॥ १ ॥

अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य ॥ २ ॥

सक्तिः सङ्गः पतनम् । अवच्छातोऽवशीर्णो भक्तत्यागेन कृशोभूतः । ब्रह्महा भक्तत्यागेन कृशो भूत्वाऽग्नौ त्रिः पतेदुत्थायोत्थाय । इदमस्य प्रायश्चित्तम् , अत्र मानवो विशेषः—

प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः । इति ।

काठकश्रुतिः— "अनशनकर्शितोऽग्निमारोहेत्" इति ।
नेदं मरणान्तिकं त्रिरिति नियमात् । त्रिः पतने जीवन्नपि शुध्यतीति ॥ २ ॥

जानबूझ कर का ब्राह्मण की हत्या करने वाला भोजन त्याग कर दुर्बल शरीर होकर तीन बार अग्नि में कूदे तो उसका प्रायश्चित होता है ॥ २ ॥

लक्ष्यं वा स्याज्जन्ये शस्त्रभृताम् ॥ ३ ॥

जन्यं युद्धम् । शस्त्रभृत इष्वासाः । लक्ष्यमिति वचनाद्युद्ध इष्वासानामिषूनस्यतां मध्ये लक्ष्यं वेध्यं भूत्वा तिष्ठेत् । तैर्विद्धो जीवन्मृतो वा शुध्यति । याज्ञवल्क्यः—

संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति ॥ इति ॥ ३ ॥

अथवा वह युद्ध में रत योद्धाओं का लक्ष्य बनकर प्रायश्चित करे ॥ ३ ॥

खट्वाङ्गकपालपाणिर्वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत्कर्माऽऽचक्षाणः ॥ ४ ॥

२२० गौतमधर्मसूत्राणि

खट्वाङ्गं पाशुपतानां प्रसिद्धम् । कपालं स्वव्यापादितस्य ब्राह्मणस्य शिरः कपालम् । ते पाण्योर्यस्य स खट्वाङ्गकपालपाणिः । खट्वाङ्गं दक्षिणे पाणौ कपालं सव्ये भिक्षार्थं पानीयपानार्थं भोजनार्थं च । तत्राऽऽपस्तम्बः—पुरुषशिरः प्रतिपानार्थमादाय खट्वाङ्गं दण्डार्थमिति । मनुस्तु—कृत्वा शवशिरोध्वजम् । इति । तस्मिन्पक्षे खट्वाङ्गस्याग्रे ध्वजः । तन्मूले शवशिरः । भिक्षाचरणं तु लोहितेन खण्डशरावेणाऽऽपस्तम्बीयदर्शनात् । एवंभूतो भैक्षाय ग्रामं प्रविशेत् । एतावानस्य ग्रामे प्रवेशोऽन्यदा रण्ये । भैक्षं च कर्माऽऽचक्षाणश्चरेत् ।

वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति पराशरः ।

द्वादश संवत्सरानेवं चरन्ब्रह्मचारी भवेत् । स्त्रीषु न प्रसजेत् । भिक्षाचरणे सप्तागाराण्यसंकल्पितानीत्यापस्तम्बः । संवर्तस्तु—

भिक्षायै प्रविशेद् ग्रामं वन्यैर्यदि न जीवति । इति ।

एककालाहार इति वसिष्ठः ॥ ४ ॥

अथवा बारह वर्ष तक ब्रह्मचर्य धारण कर, केवल भिक्षा के लिए ग्राम में प्रवेश करके, हाथ में एक चारपाई का पाया तथा नरकपाल लेकर अपने कर्म को बताते हुए जीवन व्यतीत करने पर प्रायश्चित्त होता है ॥ ४ ॥

पथोऽपक्रामेत्सन्दर्शनादार्यस्य ॥ ५ ॥

आर्यस्त्रैवर्णिकस्तस्मिन्दृष्टे पथोऽपक्रामेदपयायात् । अत्र व्याघ्रः—

चाण्डालं पतितं दृष्ट्वा दूरतः परिवर्जयेत् ।
गोवालव्यजनादर्वाक्सचैलं स्नानमाचरेत् ॥ इति ।

शूद्रोऽपि स्पर्शं वर्जयेत् । यथाऽऽह लौगाक्षिः—

महापातकिसंस्पर्शे वर्णानां स्नानमुच्यते ।
अस्नात्वा भोजने चैव सप्तरात्रं समाविशेत् ॥
त्रिरात्रं स्यादमत्या चेच्छङ्खपुष्पीश्रुतं पयः ।
एवमर्त्तविचण्डालशवानामपि कीर्तयेत् ॥ इति ॥ ५ ॥

यदि उसके मार्ग में कोई आर्य (तीन उच्च वर्णों का व्यक्ति) आता दिखाई पड़े तो वह मार्ग से दूर हट जाय ॥ ५ ॥

स्थानासनाभ्यां विहरन्सवनेषूदकोपस्पर्शी शुध्येत् ॥ ६ ॥

तिष्ठेदहनि रात्रावासीत यथाशक्ति प्रातर्मध्यन्दिने सायमिति सवनेषु त्रिसंध्यमुदकोपस्पर्शी स्यात्स्नायात् । एवं द्वादश वर्षाणि चरन्नन्ते शुध्येत् । स्नानविधानादेव तदन्तर्भूतमन्त्रादिप्राप्तिरिति गम्यते । शुचिना कर्तव्यमिति च सर्वकर्मसाधारणम् । अतः संध्योपासनमप्यस्य भवति ।

सानुवाद-मिताक्षरावृत्तिसहितानि २२१

संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यत्किंचित् कुरुते कर्म न तस्य फलभाग्भवेत् ॥
इति दक्षस्मरणात् । द्विजातिकर्मभ्यो हानिः पतनमित्यनेन तु प्रायश्चित्तं व्रतचर्यानङ्गभूतानां कर्मणां हानिर्न सर्वेषाम् । अत्र च यस्य द्वे ब्रह्महत्ये, स चतुर्विंशतिवर्षाणि व्रतं चरेत् । यस्य तिस्रः, स षट्त्रिंशतं न पुनर्देहकालकर्त्रैक्यात्प्रायश्चित्तस्य तन्त्रता । यस्य चतस्रो, न तस्येह लोके निष्कृतिः । एतदेव व्रतमोन्मादुच्छ्वासाच्चरेत् । तथा च मनुः—

विधेः प्राथमिकादस्माद् द्वितीये द्विगुणं चरेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥ इति ।

याज्ञवल्क्यः—द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् । इति ॥ ६ ॥

दिन में खड़े रहकर, रात्रि में बैठकर तथा प्रतिदिन प्रातः मध्याह्न एवं सायं स्नान करके वह (बारह वर्ष में) शुद्ध होता है ॥ ६ ॥

प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥ ७ ॥

यदि चोरव्याघ्रादिभिः प्रमाप्यमाणस्य ब्राह्मणस्य तन्निमित्तः प्राणलाभो भवति तदा शुध्येत् । एकस्य च्छिन्नाः प्राणा अपरस्य दत्ताः को न्वत्र विशेषः । अनेनैव न्यायेन सर्वेषामेव हनने तज्जातीयस्य तद्धेतुके प्राणलाभे शुद्धिर्द्रष्टव्या ॥ ७ ॥

अथवा किसी (संकटग्रस्त) ब्राह्मण के प्राण बचाने पर वह पापमुक्त होता है ॥ ७ ॥

द्रव्यापचये त्र्यवरं प्रतिराद्धः ॥ ८ ॥

ब्राह्मणस्येति वर्तते ब्राह्मणस्य द्रव्ये चोरादिभिरपचीयमानेऽपह्रियमाणे तस्य प्रत्यानयनाय चोरादिसमीपं गतस्तैः शस्त्रादिभिः क्षतो वर्जि(तोऽवर्जि)तः सकृत्, पुनः पुनश्चैवं त्रिवारान्न्यूनू ( रन्यू ) नं प्रतिराद्धोऽभियुक्तः सन्नप्रत्यानीतेऽपि द्रव्ये शुध्येत् । प्रत्यानीते तु सकृत्प्रयोगेऽपि शुध्येत् ।

त्र्यवरं प्रतिराद्धो वा सर्वस्वमवजित्य च । इति मनुः ।

अनेनैव न्यायेन स्वद्रव्यप्रदानेनापि शुद्धिर्ज्ञेया । तथा च मनुः—

सर्वस्वं वा वेदविदे ब्राह्मणायापपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ इति ॥ ८ ॥

याज्ञवल्क्यस्तु—पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् ।

आदातुश्च विशुद्ध्यर्थमिष्टिवैश्वानरो स्मृता ॥ इति ॥ ८ ॥

२२२ Gautamadharmasūtrāṇi

अथवा ब्राह्मण का धन (चोरों आदि से) वापस लेने के लिए संघर्ष करके तीन बार क्षतविक्षत होने पर प्रायश्चित्त होता है ॥ ८ ॥

अश्वमेधावभृथे वा ॥ ९ ॥

स्नात्वेति शेषः । परकीयस्याश्वमेधस्यावभृथे स्वयं स्नात्वा वा शुध्येत् । प्राणलाभ इत्यादि सूत्रेषु वाशब्दो विकल्पार्थः । अत्र मानवो विशेषः—

शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
स्वमेनोऽवभृथे स्नात्वा हयमेधे विमुच्यते ॥

भूमिदेवा ब्राह्मणा ऋत्विजः, नरदेवो राजा यजमानः । तेषां समवाये स्वमेनः शिष्ट्वा विख्याप्य ॥ ९ ॥

अथवा अश्वमेधयज्ञ के अन्त में ऋत्विजोँ के साथ अवभृथ स्नान करने पर वह दोषमुक्त हो जाता है ॥ ९ ॥


अन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत् ॥ १० ॥

अश्वमेधादन्ययज्ञेऽप्यवभृथे स्नात्वा शुध्येत् । किमविशेषेणे । न । तस्य चेदन्तर्मध्येऽग्निष्टुन्नामैकाहो भवति । पञ्चदशरात्रादेर्ग्रहणम् । अपर आह—अग्निष्टुदन्तोऽग्निष्टुत्समाप्तिको भवतीति । अत्र पक्षे सर्वमेधादेर्ग्रहणम् । अत्र च शुध्येदिति द्वादशवार्षिकमुपसंहृत्य विधानाद्ब्राह्मणाच्च सर्वाण्येतानि स्वतन्त्राणि वैकल्पकानि प्रयोजकान प्रयोजकादिविषयाणि वा द्रष्टव्यानि । अन्ये तु द्वादशवार्षिकप्रवृत्तस्येत्याहुः । तथा च शङ्खो द्वादशे वर्षे शुद्धिमाप्नोतीत्यभिधायाऽऽह—अन्तराले वा ब्राह्मणं मोचयित्वा गवां वा द्वादशानां परित्राणादिति । वाशब्दस्तु परस्परापेक्षया विकल्पार्थः ॥ १० ॥

अथवा किसी भी ऐसे वैदिक यज्ञ के अन्त में, जिसमें अग्निष्टुत् यज्ञ भी सम्मिलित हो, स्नान करने से शुद्धि होती है ॥ १० ॥


सृष्टश्चेद् ब्राह्मणवधेऽहत्वाऽपि ॥ ११ ॥

सर्ग उत्साहो निश्चयश्च । तद्वान्सृष्टः । यदि ब्राह्मणवधे सृष्टो भवति केनचिद्दैवाद्वाऽनिवारितः सोऽहत्वाऽपि ब्रह्महा भवति । अतस्तस्याप्यनन्तरोक्तेषु प्रायश्चित्तेषु यल्लघु तद्भवति ॥ ११ ॥

यदि ब्राह्मण की हत्या करने का असफल प्रयत्न भी किया हो तो उपर्युक्त प्रायश्चित्त ही करने चाहिए ॥ ११ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २२३

आत्रेय्याश्चैवम् ॥ १२ ॥

ऋतुस्नातामात्रेयीमाहुः तत्र। यदपत्यं भवतीति वसिष्ठः। तस्यामपि ब्राह्मण्यां हतायामेवं ब्रह्महा भवतीति तदीयमेव प्रायश्चित्तमिति। क्षत्रियाद्यात्रेयीवधे तत्तत्पुरुषवधनिमित्तं प्रायश्चित्तम्। अन्ये त्वत्रिगोत्रामात्रेयीमाहुः ॥ १२ ॥

इसी प्रकार मासिक अशौच के उपरान्त स्नान कर चुकी होने वाली ब्राह्मण स्त्री की हत्या का प्रायश्चित्त भी होता है ॥ १२ ॥

गर्भे चाविज्ञाते ॥ १३ ॥

ब्राह्मणस्य गर्भे स्त्रीपुंनंसकत्वेनाविज्ञाते ब्राह्मण्यामाहित औषधादिना हते ब्रह्महत्याप्रायश्चित्तम्। विज्ञाते तु यथालिङ्गम्। क्षत्रियादिगर्भेऽपि तदनुगुणम्। राजन्यवैश्योरपि सवनं गतयोर्वध एतदेव। यथाऽऽह मनुः—

हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत्।
राजन्यवैश्यबीजानां चाऽऽत्रेयीमपि च स्त्रियम् ॥ इति।

अत्र पराशरः—

चातुर्विद्योपपन्नस्तु विधिवद् ब्रह्मघातके।
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात्समाहरेत्।
वर्जयित्वा विकर्मस्थांश्छत्रोपानहवर्जितः ॥
अहं दुष्कृतकर्मा वै महापातककारकः।
वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च।
तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥
एतेषु ख्यापयेदेनः पुण्यं गत्वा तु सागरम्।
ब्रह्महा विप्रमुच्येत स्नात्वा तस्मिन्महोदधौ ॥
ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम्।
गवां वार्डाप शतं दत्त्वा चातुर्वेद्याय दक्षिणाम् ॥
एवं विशुद्धिमाप्नोति चातुर्वण्यानुमोदितः। इति।

अत्र सुमन्तुः—ब्रह्महा संवत्सरं कृच्छ्रं चरेदधःशायी त्रिषवणी कर्मावेदको भिक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्ठपर्वतप्रस्रवणतपोवनविहारी स्यान्न वीरासनी। संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसर्पींषि ब्राह्मणेभ्यो दद्यात्पूतो भवतीति। अत्र वर्णविशेष आश्रमविशेषे चाङ्गिराः—

२२४ गौतमधर्मसूत्राणि

पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच्च व्रतं स्मृतम् ॥
गृहस्थोक्तानि पापानि कुर्वन्त्याश्रमिणो यदि ।
शौचवच्छोधनं कुर्यादवार्गब्रह्मनिदर्शनात् ॥ इति ।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद्वनस्थानां यतीनां च चतुर्गुणम् ॥ इति ।
अत्र भार्गवः-अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव वा ॥ इति ।
हारीतः-प्रायश्चित्ते प्रवृत्तस्तु मध्ये यदि विपद्यते ।
शुद्धस्तदहरेवासाविह लोके परत्र च ॥ इति च ॥ १३ ॥

ब्राह्मण के गर्भ का नाश करने पर भी ये ही प्रायश्चित्त होते हैं, भले ही उस गर्भ के बालक या कन्या होने का ज्ञान न हो ॥ १३ ॥

उक्तं ब्राह्मणवधे प्रायश्चित्तम् । अथ राजन्यवधे—

राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश्च गां दद्यात् ॥ १४ ॥

राजन्यवधे कृते ब्राह्मणवधे यदुक्तं ब्रह्मचर्यं तत्षड्वार्षिकं कर्तव्यम् । तदपि प्राकृत स्वाभाविकं खट्वाङ्गादिरहितं ब्रह्महत्याप्रायश्चित्तं षड् वर्षाणि कुर्यात् । एकाधिकं सहस्रमृषभ एकसहस्रो यासां ता ऋषभैक-सहस्रा गा दद्यात् । अत्रोशना—राजन्यवधे षड्वार्षिकं ब्रह्मव्रतं तस्यान्त ऋषभैकसहस्रगोदानं चेति । इदमभिषिक्तस्य श्रोत्रियस्य व्रतवतो बुद्धि-पूर्ववधे । तस्यैवाश्रोत्रियस्य व्रतहीनस्य वधे केवलं गोदानम् । उभयही-नस्यानाभिषिक्तस्य वधे केवलं षड्वार्षिकम् । अनभिषिक्तस्य तूभयवतो वासिष्ठम्—ब्राह्मणो राजन्यं हत्वाऽऽष्टौ वर्षाणि व्रतं चरेदिति । एतेषामे-वाबुद्धिपूर्वेऽर्धं कल्प्यम् । जातिमात्रवधे, स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकमित्युक्त्वा —

एतदेव व्रतं कुर्यु रुपपातकिनो द्विजाः ।
अवकीर्णिध्वजं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥

इति मनुरोक्तं द्रष्टव्यम् । किञ्चिद्गुणवतो वधेऽग्न्युत्सादिनिराकृत्यु-पपातकेषु चैवमिति वक्ष्यमाणे सांवत्सरिकं प्राकृतं ब्रह्मचर्यम् । एवमुत्तर-त्रापि द्रष्टव्यम् । सर्वत्राबुद्धिपूर्वेऽर्धं बुद्धिपूर्वे कृत्स्नमिति ॥ १४ ॥

(जानबूझकर) क्षत्रिय की हत्या करने पर छः वर्षतक सामान्य ब्रह्मचर्य और एक सहस्र गौ एवं एक साँ का दान करने पर प्रायश्चित्त होता है ॥ १४ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २२५

अथ वैश्यवधे— वैश्ये तु त्रैवार्षिकमृषभैकशताश्च गा दद्यात् ॥ १५ ॥
इदमत्यन्तगुणवतो बुद्धिपूर्ववधे । एतेन परं व्याख्यातम् ॥ १५ ॥

वैश्य की हत्या करने पर उपर्युक्त प्रायश्चित्त तीन वर्ष तक करे और एक सौ गायें तथा एक साँड़ का दान करे ॥ १५ ॥

शूद्रं संवत्सरमृषभैकादशाश्च गा दद्यात् ॥ १६ ॥
इदमप्यत्यन्तगुणवद्विषयम् । अत्यन्तनिर्गुणस्य शूद्रस्य वध औशनसम्—
शूद्रं हत्वा तप्तकृच्छ्रमिति । अथानुलोमविषये व्याघ्रः—

सर्वेषामनुलोमानां तन्मात्रहनने तु यत् ।
तदेव निर्दिशेद्विद्वान्स्त्रीणामध तथैव च ॥
आत्रेयीहनने ब्रूयाद्यद्भर्तुरुपदिश्यते ।
गर्भे चैव तथा ज्ञाते व्याघ्रस्य वचनं यथा ॥ इति ।

प्रतिलोमवधे लौगाक्षिः—

हनने प्रतिलोमानां शूद्रजानां कथं भवेत् ।
ज्ञानपूर्वे पराकः स्यादज्ञाने त्वैन्दवं स्मृतम् ॥
इतरेषां चतुर्थांशं पितुरुक्तं मनीषिभिः । इति ॥ १६ ॥

शूद्र की हत्या करने पर उपर्युक्त प्रायश्चित्त एक वर्ष तक करे तथा दस गायों एवं एक साँड़ का दान करे ॥ १६ ॥

अनात्रेयीयां चैवम् ॥ १७ ॥
आत्रेयीव्यतिरिक्ताया वधे चैवं शूद्रे संवत्सरमृषभैकादशाश्च गा दद्या-
दिति । इदं ब्राह्मण्यश्चारित्रवत्याः कुटुम्बिन्या बुद्धिपूर्ववधे । याज्ञ-
वल्क्यश्च—

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । इति ।
षण्मा [ सा ] ञ्शूद्रहाऽप्येतद्देनेर्द्दद्याद्दशाथवा ॥ इति ।
दुर्वृत्ता ब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ इति ।

यत्त हारीतेनोक्तम्—षड्वर्षाणि राजन्ये प्राकृतं ब्रह्मचर्यम् । वैश्ये त्रीणि, सार्धमब्दं शूद्रे, क्षत्रियवद् ब्राह्मणीषु, वैश्यवत्क्षत्रियायां शूद्रव-द्वैश्यायां शूद्रां हत्वा नव मासानिति, तदत्यन्तोत्कृष्टान्नाद्यर्थादि-विषयम् ॥ १७ ॥
१५ गौ०

२२६
गौतमधर्मसूत्राणि

इसी प्रकार मासिक-धर्मोपरान्त स्नान करने वाली स्त्री के अतिरिक्त अन्य स्त्री का वध करने पर भी इस प्रकार के प्रायश्चित्त का विधान है ॥ १७ ॥

गां च वैश्यवत् ॥ १८ ॥

गां च हत्वा वैश्यवधे यत्प्रायश्चित्तं 'वैश्यवधे त्रैवार्षिकमृषभैकशताञ्च गा दद्यात्' इति तच्चरेत् । इदं वृत्तस्वाध्यायवतो दुर्गतस्य बहुकुटुम्बस्य या गौर्बहुक्षीरा तरुणी तस्या बुद्धिपूर्ववधे । तादृश्या एकफलाया गर्भिण्याः कर्माङ्गभूताया वधे याम्यम्—

गोसहस्रं शतं वाऽपि दद्यात्सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ इति ।

द्वैमासिकं व्रतमत्र प्रकृतम् । अत्रैव बुद्धिपूर्वे कात्यायनीयं गोदानरहितं त्रैवार्षिकम्—

गोघ्नस्तच्चर्मसंवीतो वसेद्गोष्ठेऽथ वा पुनः ।
गाश्चानुगच्छेत्सततं मौञ्जीचोराजिनादिभिः ॥
वर्षशोतातपक्लेशवह्निपङ्कभयार्दितः ।
मोक्षयेत्सर्वयत्नेन पूयते वत्सरैस्त्रिभिः ॥ इति ।

वसिष्ठः—गां चेद्धन्यात्तस्याश्चर्मणाऽऽर्द्रेण परिवेष्टितः षण्मा [ सा ]न्कृच्छ्रं तप्तकृच्छ्रं वा तिष्ठेदृषभवेहत्तौ च दद्याताम् । इति । वेहद्वृषभोपहता गौः । दद्यातामिति कर्मणि कर्तृप्रत्ययः । याज्ञवल्क्यः

पञ्चगव्यं पिबन्गोघ्नो मासमासीत संयतः ।
गोष्ठेशयो गोनुगामी गोप्रदानेन शुध्यति ॥
कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वाऽपि समाहितः ।
दद्यात्त्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥ इति ।

जाबालः—प्रजापत्यं चरेन्मासं गोहन्ता चेदकामतः ।

गोहितो गोनुगामी स्याद् गोप्रदानेन शुध्यति ॥ इति ।

विष्णुः—गोघ्नस्य पञ्चगव्येन मासमेकं पलत्रयम् ।

प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥ इति ।

काश्यपः—गां हत्वा तच्चर्मणा परिवृतो मासं गोष्ठेशयस्त्रिषवणस्नायी नित्यं पञ्चगव्याहारः । इति । शातातपः—मासं पञ्चगव्याहारः ॥ इति ।

शङ्खप्रचेतसौ—गोघ्नः पञ्चगव्याहारः । पञ्चविंशतिरात्रमुपवसेत्सशिखं वपनं कृत्वा गोचर्मणा परिवृतो गाश्चानुगच्छेद् गोष्ठेशयो गां च दद्यात् । इति ।

चतुर्थकालमश्नीयादक्षारलवणं मितम् ।

सानुवाद-मिताक्षरावृत्तिसहितानि २२७

पैठोनसिः-गोघ्नो मासं यवागूं प्रसृततण्डुलशृतां भुञ्जानो गोभ्यः प्रियं कुर्वन्शुध्यति । इति ।

मनुः-उपपातकसंयुक्तो गोध्नो भुञ्जीत यावकम् । कृतवापो वसेद् गोष्ठे चर्मणाऽऽद्रेण संवृतः ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् । गोमूत्रेणाऽऽचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ इत्यारभ्य-अनेन विधिना यस्तु गोध्नो गा अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ ऋषभैकादशाःगाश्च दद्यात्सुचरितव्रतम् । इति ।

सुमन्तुः-गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्यप्राशनं गवामनुगमनं च । इति ।

संवर्तः-सक्तूयावकभैक्षाशो पयो दधि घृतं सकृत् । एतानि क्रमशोऽश्नीयान्मासार्धं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥ इति ।

बृहस्पतिः-द्वादशरात्रं पञ्चगव्याहारः । इति ।

एतेषां बुद्धिपूर्वाबुद्धिपूर्वभेदेन ब्राह्मणादिपरिग्रहेण यथार्हं विषयविभाग ऊहितव्यः । षट्त्रिंशन्मते विशेषः-

पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते । पादोनं व्रतमादिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसम्पूर्णे गर्भे चेतःसमन्विते । द्विगुणं गोव्रतं कुर्यादेषा गोघ्नस्य निष्कृतिः ॥

बृहत्प्रचेताः-एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धिपूर्वे पुंसः स्याद् द्विपादस्तु द्विहायने ॥ त्रिहायने त्रिपादं स्यात्प्राजापत्यमतः परम् । इति ।

स्मृत्यन्तरम्-अतिवृद्धामतिकृशामतिबालां च रोगिणीम् । हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥ ब्राह्मणान्भोजयेच्छक्त्या दद्याद्धेम तिलांस्तथा ॥ इति ।

संवर्तापस्तम्बौ-एका चेद्बहुभिः कैश्चिद्दैवाद्द्यापादिता क्वचित् । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि वा । भिषङ्मिथ्योपचारे च द्विगुणं गोव्रतं चरेत् ॥ इति ।

२२८ गौतमधर्मसूत्राणि

बहूनामपि व्यापादने द्विगुणमेव वचनबलात् । न तु प्रतिनिमित्तं नैमित्तिकावृत्तिः । व्यासः-

औषधं लवणं चैव पुण्यार्थमपि भोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥
अतिरिक्ते विपत्तिश्चेत्कृच्छ्रपादो विधीयते । इति ।

आपस्तम्बः-

पाषाणैर्लगुडैर्वापि शस्त्रैर्वाऽन्येन वा बलात् ॥
निघातयन्ति ये गास्तु तस्मिन्कुर्युर्व्रतं हि ते ।
पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ॥
योजने पादहीनं स्याच्चरेत्सर्वं निपातने । इति ।

वसिष्ठः-

न नालिकेरेण न शाणवालै-
र्न चापि मौञ्जेन न वर्ध्रशृङ्खलैः ।
एतैस्तु गावो न निबन्धनीया
बद्ध्वाऽनुतिष्ठेत्परशुं प्रगृह्य ॥ इति ॥ १८ ॥

गाय की हत्या करने पर वैश्य की हत्या के लिए विहित प्रायश्चित्त ही होता है ॥ १८ ॥

मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासु च ॥ १९ ॥

बिम्बः कामरूपी कृकलासः । दहरः स्वल्पकायो मूषकः । छुच्छुन्दरी- त्येके । अन्ये प्रसिद्धाः । एतेषां समुदितानां वधे वैश्यवत्प्रायश्चित्तम् । इदं बुद्धिपूर्वाभ्यासविषयम् । अन्यत्राऽऽपस्तम्बीयम्-वायसबकबलाक- बर्हिणचक्रवाकहंसभासमण्डूकनकुलसैरिकाश्वहिंसायां शूद्रवत्प्रायश्चित्तम् । इति ।

मनुरपि-

मार्जारनकुलौ हत्वा चाषमण्डूकमेव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ इति ।

प्रत्येकं वधे तु बुद्धिपूर्वे-

मार्जारगोधामकुलमण्डूकश्वपतत्त्रिणः ।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥

इति याज्ञवल्क्योक्तं द्रष्टव्यम् । बुद्धिपूर्वे मानवम्-

पयः पिबेत्त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् । इति ॥१९॥

मेढ़क, नेवला, कौआ, कृकलास, चूहा, छुछुन्दर इन सबका वध करने पर वैश्यवध के समान प्रायश्चित्त होता है ॥ १९ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २२९

अस्थन्वतां सहस्रं हत्वा ॥ २० ॥ अस्थिमतां कृकलासादीनां सहस्रं हत्वा वैश्यवत्प्रायश्चित्तम् ॥ २० ॥
अथवा बिना अस्थि वाले एक सहस्र जीवों का वध करने पर (वही प्रायश्चित्त होता है) ॥ २० ॥

अनस्थिमतामनडुद्धारे च ॥ २१ ॥ येऽस्थिमन्तो न भवन्ति दंशमशकादयस्तेषां यावतोऽनड्वान्भर्तुं शक्नोति तावतो हत्वा वैश्यवत्प्रायश्चित्तम्। इदं द्वयमपि पूर्वाभ्यास-विषयम्। अन्यत्र याज्ञवल्क्योक्तम्—
अस्थन्वतां सहस्रं तु तथाऽनस्थिमतामनः।
शूद्रहत्याव्रतं षाण्मासिकं प्रकृतं दश धेनूर्वा दद्यात्। इति च ॥ २१ ॥
अथवा एक बैल के बोझ होने के बराबर बिना अस्थि वाले जीवों की हत्या करने पर (वही प्रायश्चित्त होता है) ॥ २१ ॥

अपि वाऽस्थन्वतामेकैकस्मिन्किंचिद्दद्यात् ॥ २२ ॥ अपि वेति विकल्पे। अस्थन्वतां यावन्तो हताः सहस्रमूर्ध्वमर्वाग्वा तावतः संख्याय प्रत्येकं किंचित्किंचिद्दद्यात्। इदं चास्थिमत्सु प्रायश्चित्तं पूर्वकं वेति।
अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम्।
पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥
चतुराढको भवेद् द्रोण इति मानस्य लक्षणम्। इति स्मृतिः।
अनस्थिमतां तु तावन्तः प्राणायामाः। तथा च मनुः—
किंचिदेव तु विप्राय दद्यादस्थिमतां वधे।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ इति ॥ २२ ॥
अथवा अस्थि वाले प्रत्येक क्षुद्र प्राणी की हत्या के प्रायश्चित्त के रूप में कुछ वस्तु का दान करे ॥ २२ ॥

षण्ढे पलालभारः सीसमाषश्च ॥ २३ ॥ यं प्रति देवलं आह—
षण्ढो यो हीनलिङ्ग स्यात्संस्कारार्हश्च नैव सः। इति।
तस्मिन्हते पुरुषवाह्यः पलालभारः सीसमाषश्चेत्युभयं मिलितं देयं बुद्धिपूर्वे। इतरत्र त्वेकैकम्। सीसं लोहविशेषो रजतसदृशः क्षणद्रुतिः। माषप्रमाणं पूर्वमेव व्याख्यातम्। अत्र च न क्वापि स्मृतौ जातिविशेषः श्रूयते, षण्ढः षण्ढक इत्येतावदेव श्रूयते। तत्र यथा जातिसमवायेऽपि

२३० गौतमधर्मसूत्राणि

ब्राह्मणादिप्रयुक्तः संस्कारो न भवति तथा तद्वधनिमित्तं प्रायश्चित्तमपि न भवति यावदुक्तमेव तु भवति । अन्ये मृगपक्षिविषयं मन्यन्ते । मृगेषु पक्षिषु च ये षण्ढास्तेषु हतेष्विति ॥ २३ ॥

नपुंसक (लिङ्गविहीन) की हत्या करने पर एक पुरुष बोझ के बराबर पुआल और एक माष भर सीसे का दान करे ॥ २३ ॥

वराहे घृतघटः ॥ २४ ॥ वराहे हते घृतपूर्णो घटो देयः ॥ २४ ॥
एक सूअर की हत्या करने पर एक घड़े घी का दान करे ॥ २४ ॥

सर्पे लोहदण्डः ॥ २५ ॥ सर्पे हते लोहदण्डो देयः । लोहशब्देन कार्ष्णायसमुच्यते ।
अश्रो कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । इति मानवे दर्शनात् ।
सर्पं हत्वा माषं दद्यादित्यौशनसं बुद्धिपूर्वविषयम् ॥ २५ ॥
सर्प की हत्या करने पर लोहे की छड़ी दान करे ॥ २५ ॥

ब्रह्मबन्ध्वां चलनायां नीलः॥ २६ ॥ जातिमात्रब्राह्मणी ब्रह्मबन्धूः । चलना व्यभिचारिणी । तस्यां हतायां नीलो देयः । नीलो वृष इति । मनुस्तु वर्णानुपूर्व्यामाह—
नोल्कार्मुकबस्तावीः पृथग्दद्याद्विशुद्धये ।
चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ॥ इति ॥ २६ ॥
किसी ऐसी व्यभिचारिणी स्त्री का वध करने पर जो नाममात्र के लिए ब्राह्मणी हो, नील वृष का दान करे ॥ २६ ॥

वैशिके न किंचित् ॥ २७ ॥
अभिगच्छति या नारी पुरुषैर्बहुभिर्मिथः ।
व्यभिचारिणीति सा ज्ञेया प्रत्यक्षं गणिकेति च ॥
इति प्रजापतिः ।
वैशिकेन वेश्याकर्मणा जीवन्त्यां ब्रह्मबन्ध्वां हतायां किंचिद्देयमष्टमुष्टि भवेत्किंचिदित्येतत् ॥ २७ ॥
वेश्या का वध करने पर कोई प्रायश्चित्त करने की आवश्यकता नहीं होती ॥ २७ ॥

तल्पान्नधनलाभवेधेषु पृथग्वर्षाणि ॥ २८ ॥
तल्पशब्देन शयनवाचिना भार्या लक्ष्यते । अन्नं कृतान्नम् । धनं

सानुवाद-मिताक्षरावृत्तिसहितानि २३१

सुवर्णादि । एतेषां लाभस्य वधे विघ्न एषु लभ्यमानेषु दोषोपन्यासादिना यो हन्ति स पृथक्प्रतिनिमित्तं भेदेन संवत्सरं प्राकृतं ब्रह्मचर्यं चरेत् । कन्यान्नधनविघ्ने प्राजापत्यमित्यौशनसमबुद्धिपूर्वविषयम् । ब्राह्मणलाभ-विषयमिदम् । क्षत्रियादिष्वर्धमर्धम् ॥ २८ ॥

किसी ब्राह्मण के पत्नी, अन्न या धन की प्राप्ति में विघ्न बनने पर एक वर्ष का सामान्य ब्रह्मचर्य प्रायश्चित्त होता है ॥ २८ ॥

द्वे परदारे ॥ २९ ॥

परदारगमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम्। ऋतुकालगमने बुद्धिपूर्व इदम्। अकामिनः पुनरेतदेवार्धक्लृप्त्या योज्यम् ॥ २९ ॥

पर-स्त्री-गमन के लिए दो वर्ष ब्रह्मचर्य प्रायश्चित्त होता है ॥ २९ ॥

त्रीणि श्रोत्रियस्य ॥ ३० ॥

पूर्वोक्त एव विषये श्रोत्रियस्य ब्राह्मणस्य दारान्गच्छतस्त्रीणि वर्षाणि ब्रह्मचर्यम् । अत्राप्यकामतोऽर्धम् । अत्र शङ्खः—वैश्यायामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत् । क्षत्रियायां द्वे वर्षे । त्रीणि ब्राह्मण्याम् । वैश्यावच्च शूद्रायां ब्राह्मणपरिणीतायाम् ॥ इति ।

संवर्तः—शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा ।
गोमूत्रयावकाहारस्तिष्ठेत्तत्पापमोक्षकः ॥ इति ।

कामतो मासमकामतोऽर्धमासमिति व्यवस्थितो विकल्पः । अनृतुकाले तु ब्राह्मण्यादिद्विजातिषु मानवानि त्रैमासिकद्वैमासिकचान्द्रायणानि क्षत्रियादीनां च क्षत्रियादिस्त्रीषु ब्राह्मणवत्प्रायश्चित्तम् । अत्रोशना—
गमने तु व्रतं यत्स्याद् गर्भे तद्विगुणं चरेत् ॥ इति ॥ ३० ॥

किसी श्रोत्रिय ( वेदज्ञ ब्राह्मण ) की पत्नी के संभोग का प्रायश्चित्त तीन वर्ष का ब्रह्मचर्य होता है ॥ ३० ॥

द्रव्यलाभे चोत्सर्गः ॥ ३१ ॥

यदि च परस्त्रीतो यत्किंचिद् द्रव्यं लब्धं तस्योत्सर्गस्त्यागः कार्यः ॥ ३१ ॥

पर-स्त्री से कोई द्रव्य पाने पर उसका त्याग कर दे ॥ ३१ ॥

यथास्थानं वा गमयेत् ॥ ३२ ॥

यत्र स्थाने लब्धं तदा गमयेत् ॥ ३२ ॥

अथवा यथास्थान ( जहाँ से प्राप्त हुआ हो वहाँ ) उसे लौटा दे ॥ ३२ ॥

२३२ | गौतमधर्मसूत्राणि

प्रतिषिद्धमन्त्रयोगे सहस्रवाक्श्वेत् ॥ ३३ ॥

मन्त्रयोगे ये प्रतिषिद्धाः पतितादयस्तैः सह मन्त्रयोगेऽध्ययनाध्यापनयाज्ययाजनलक्षणे संवत्सरं प्राकृतं ब्रह्मचर्यं स चेन्मन्त्रयोगः सहस्रवाको भवति । वक्तीति वाकः पदम् । सहस्रपदश्चेत् । अबुद्धिपूर्वं इदम् । बुद्धिपूर्वे तु पतितत्वं स्यादिति । उपपातके तु वासिष्ठम्—पतितचण्डालशवसूतकश्रवणे तु त्रिरात्रं वाग्यता आसीरन्सहस्रावरं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते । एतेनैव गर्हिताध्यापकयाजका व्याख्याताः । दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायत इति । अन्ये तु सहाध्ययनं सहयजनं च मन्त्रयोगं व्याचक्षते ॥ ३३ ॥

यदि किसी ऐसे लोगों के लिए वैदिक मन्त्रों का प्रयोग करे, जिनके लिये उनका प्रयोग वर्जित हो तो और उस प्रयुक्त मन्त्रों में एक सहस्र शब्द हो तो एक वर्ष तक ब्रह्मचर्य करने से पापमुक्ति होती है ॥ ३३ ॥


अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥ ३४ ॥

अग्निमुत्सादयितुं शीलमस्येति बुद्धिपूर्वमग्न्युत्सादी । निराकृतिः शक्तौ सत्यामनध्येता । उपपातकानि, अपङ्क्त्यानां प्राग्दुर्बालाद् गोहन्तृब्रह्महत्यादीनि व्याख्यातानि । एष्वग्न्युसा (त्सा) द्यादिष्वेवं संवत्सरं ब्रह्मचर्यमिति । यो नास्तिक्याद्देशोपप्लवादिना वाऽग्नीनपविध्यति पुनस्तच्छान्तावपि बहुकालं नाऽऽधत्ते तद्विषयमिदम् । तत्रैवाल्पकाले वासिष्ठम्—योऽग्नीनपविध्यात्कृच्छ्रं द्वादशरात्रं चरित्वा पुनरादधीत । आलस्येन त्यजतो मानवम्—

अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ॥ इति ॥

मासमपविध्येत्यन्वयः ।

अग्निहोत्र्यपविध्याग्नीन्मासादूर्ध्वं तु कामतः ।
कृच्छ्रं चान्द्रायणं चैव कुर्यादत्राविचारयन् ॥ इति ।

मासादर्वागपि चान्द्रायणमिच्छन्ति । स्मार्ते त्वग्नौ—

योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद् द्विजः ।
अन्यत्र पुनराधानं दानमेव तथैव च ॥ इति ।

मानवं तु—

षष्ठान्नकालता मासं संहिताजप एव च ।
होमश्च शाकलैर्नित्यमपङ्क्त्यानां विशोधनम् ॥ इति ॥ ३४ ॥

पवित्र अग्नि को बुझाने वाले, वेद का स्वाध्याय त्यागने वाले, अथवा उपपातक के दोषी भी उपर्युक्त प्रायश्चित्त करे ॥ ३४ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २३३

स्त्री याऽतिचारिणी गुप्ता पिण्डं तु लभेत ॥ ३५ ॥

या स्त्री भर्तारमतिचरति व्यभिचरति पुरुषान्तरेण संगच्छते सा चैतदेव प्रायश्चित्तं कुर्यात्संवत्सरं ब्रह्मचर्यम् । सा च यावत्समाप्यते प्रायश्चित्तं तावद् गुप्ता सती पिण्डमात्रं लभते । बुद्धिपूर्वे सकृद्गमन इदम् । अन्यत्र— यत्पुंसः परदारेषु तच्चैतां चारयेद् व्रतम् । इत्येतत् ।

सजातीयविषये चेदम् । ब्राह्मण्याः क्षत्रियविषये वासिष्ठम्—व्यवाये संवत्सरं घृतपटं धारयेद् गोमयकर्दमे कुशप्रस्तरे वा भुञ्जानाऽधः शयीतोर्ध्वं संवत्सरादप्सु निमग्नायाः सावित्र्यष्टसहस्रेण शिरोभिर्जुहुयादिति । वैश्यविषये त्वौशनसम्—व्यभिचारिणौ कृच्छ्राब्दं चरेदिति । अत्र बृहत्प्रचेताः—

विप्रा शूद्रेण संपृक्ता न चैतस्मात्प्रसूयते । प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥ चान्द्रायणे द्वे कृच्छ्रं च विप्राया वैश्यसंगमे । कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥ क्षत्रिया शूद्रसंपर्के कृच्छ्रे चान्द्रायणद्वयम् । चान्द्रायणं सकृच्छ्रं च चरेद्वैश्येन संगता ॥ शूद्रं गत्वा चरेद्वैश्या कृच्छ्रं चान्द्रायणोत्तरम् । आनुलोम्येन कुर्वीत कृच्छ्रं पादावरोपितम् ॥ इति ।

प्रजाताया ब्राह्मण्याश्चतुर्विंशतिमते विशेषः—

विप्रगर्भे पराकः स्यात्क्षत्रियस्य तथैन्दवम् । ऐन्दवं च पराकश्च वैश्यस्याकामकारतः ॥ शूद्रगर्भे भवेत्त्यागश्चण्डालो जायते यतः । गर्भस्रावे धातुदोषैश्चरेच्चान्द्रायणत्रयम् ॥ इति ।

कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । वसिष्ठस्तु—

ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥

आहितपतिगर्भायास्तु पश्चाच्छूद्रादिसंगमे—

अन्तर्वत्नी तु या नारी समेताऽऽक्रम्य कामिना । प्रायश्चित्तं न सा कुर्याद्यावद्गर्भो न निःसृतः ॥ जाते गर्भे व्रतं पश्चात्कुर्यान्मासं तु यावकम् । न गर्भदोषस्तत्रास्ति संस्कार्यः स यथाविधि ॥