गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
२६० गौतमधर्मसूत्राणि
कुछ लोगों के अनुसार उपर्युक्त कर्म सभी सामान्य निषिद्ध दोषों के लिए प्रायश्चित्त है। इसके विषय में वे कहते हैं कि पापी व्यक्ति इस प्रकार से होम करे एवं इस प्रकार मन्त्रों का जप करे। कर्म कराने वाले ऋत्विज् को वह अपनी इच्छानुसार दक्षिणा प्रदान करे ॥ ६ ॥
अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वाऽयोनौ च दोषवति च कर्मण्यपि संधिपूर्वेऽब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिरन्यैर्वा पवित्रैः ॥ ७ ॥
अनार्जवं शाठ्यम् । पैशुनं परदोषसूचनम् । प्रतिषिद्धाचारो निषिद्धानुष्ठानम् । अनाद्यमभक्ष्यं तस्य प्राशनम् । एतेषु शूद्रायां रेतः सिक्त्वाऽयोनौ चाऽस्यादिषु वा रेतः सिक्त्वा, दोषवति कर्मणि परपीड़ात्मके स्तेयात्मके च संधिपूर्वे बुद्धिपूर्वे, अपिशब्दादबुद्धिपूर्वे कृतेऽब्लिङ्गाभिरापो हिष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः, वारुणोभिर्यत्किंचेदमिमं मे वरुण तत्त्वा याम्यव ते हेड इत्येताभिरन्यैर्वा पवित्रैः पवमानः सुवर्जन इत्यादिभिरप उपस्पृशेत्पूर्व स्नात्वा पश्चादञ्जलिना मूर्ध्नि मन्त्रैरेतैरपः क्षिपेत् । यद्यप्यनाद्यप्राशनमपि प्रतिषिद्धाचारस्तथाऽपि पृथगुपादानात्तेषु बहुभिर्मार्जनमनाद्यप्राशने यथासंभवं द्रष्टव्यम् ॥ ७ ॥
शाठ्य (धोखा), चुगुली, निषिद्ध आचरण करने तथा वर्जित पदार्थों का भोजन या पान करने, शूद्रा स्त्री से संभोग करने योनि के अतिरिक्त अन्यत्र मुख आदि में वीर्यस्खलन करने तथा जानबूझ कर दूसरों को हानि पहुँचाने के लिये दोषपूर्ण कार्य करने पर आप या वरुण के प्रति उक्त मन्त्रों या अन्य पवित्र करने वाले मन्त्रों के उच्चारण के साथ स्नान करे और अपने ऊपर जल छिड़के ॥ ७ ॥
प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्च सत्यान्ताः ॥ ८ ॥
प्रतिषिद्धविषये यो वाङ्मनसयोरपचारः कुत्सिता प्रवृत्तिस्तत्र व्याहृतयः पञ्चजप्या भूरादयः सत्यान्ताः प्रथमेऽध्याय उक्ताः । वाङ्मनसोरिति पाठोऽस्मभ्यं न रोचते । अवतुरेरिति समासान्तविधिप्रसङ्गात् । प्रतिषिद्धग्रहणस्य च दुरन्वयत्वात् ॥ ८ ॥
निषिद्ध विषयों के संबन्ध में वाणी या मन द्वारा किये गये पाप की शुद्धि के लिये पाँच व्याहृतियों का उच्चारण करना चाहिए ॥ ८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २६१
सर्वास्वपो वाऽऽचामेदहश्च माऽऽदित्यश्च पुनात्विति प्राता रात्रिश्च मा वरुणश्च पुनात्विति सायम् ॥ ९ ॥
सर्वासु पापक्रियास्वनांर्जवादिष्वाभ्यां मन्त्राभ्यामपोऽभिमन्त्र्याऽऽचामेदहश्चेति प्रातः पिबेद्रात्रिश्चेति सायं पिबेत् ॥ ९ ॥
अथवा सभी पाप-क्रियाओं के लिए प्रातः काल 'अहश्च माऽऽदित्यश्च पुनातु' ( दिन और सूर्य मुझे पवित्र करें ) मन्त्र से जल को अभिमन्त्रित करके आचमन करे और सन्ध्या को “रात्रिश्च मा वरुणश्च पुनातु” ( रात्रि और वरुण मुझे पवित्र करें ) मन्त्र से आचमन करे ॥ ९ ॥
अष्टौ वा समिध आदध्याद्देवकृतस्येति हुत्वैव सर्वस्मादेनसो मुच्यते [ मुच्यते ] ॥ १० ॥
अथवा देवकृतस्येत्यादिभिर्मन्त्रैरष्टौ समिध आदध्याज्जुहुयात् । हुत्वैव सर्वस्मादेनसो न केवलमनार्जवादिभ्यः किन्त्वयाज्ययाजनादेरप्येनसो मुच्यते । अस्य होमस्य मुख्यत्वप्रदर्शनार्थमेवकारः । हुत्वैवान्यत्कुर्वीतेति । ततश्च सति संभव इदमेव न्याय्यः । देवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादयोऽष्टौ मन्त्राः [ द्विरुक्तिरुक्तार्था ] ॥ १० ॥
अथवा 'देवकृतस्य' आदि मन्त्रों का उच्चारण करते हुए आठ समिधाएँ अग्नि में होम करे। उनका होम करने से ही सभी पापों से मुक्ति हो जाती है ॥ १० ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥
अथ तृतीयप्रश्ने अष्टमोऽध्यायः
कृच्छ्रातिकृच्छ्रौ चान्द्रायणमित्युक्तम्। तत्र क्रमेण कृच्छ्रादिस्वरूपमाह—
अथातः कृच्छ्रान्व्याख्यास्यामः ॥ १ ॥
अथशब्दोऽधिकारार्थः । अतःशब्दो हेतौ । य एत आख्याता न शक्यन्ते कर्तुमतः कृच्छ्रान्व्याख्यास्याम इति ॥ १ ॥
अब हम कृच्छ्र का वर्णन करेंगे ॥ १ ॥
हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् ॥ २ ॥
यज्ञियैर्यवैरकादिव्यतिरिक्तैर्निष्पादितान्घृतादिसंयुक्तान्क्षारलवणवर्जितान्प्रातराशान् । अश्न ( इय )न्त इत्याशा ग्रासाः । दिवा भोज्यान्प्राशान्भुक्त्वा । अथापरं त्र्यहमिति वक्ष्यमाणत्वादत्रापि त्र्यहमिति गम्यते । तिस्रो रात्रीर्नाश्नीयादिति तस्मिंस्त्र्यहे रात्र्यशनप्रतिषेधः श्रुत्यनुसारेण कृतः । पुनरयं वक्तव्यः । कथम्-सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति परिसंख्यानाद् द्विरेव भोजनं प्राप्तम् । तत्र प्रातराशान्भुक्त्वेत्युक्ते परिसंख्यानात्सिद्धा रात्रावशननिवृत्तिरथोत्तरत्र दिवा भोजननिवृत्तिः॥२॥
तीन दिन तक प्रातः काल हविष्य का भक्षण करे और सन्ध्या को उपवास करे ॥ २ ॥
अथापरं त्र्यहं नक्तं भुञ्जीत ॥ ३ ॥
एवं दिवा हविष्यभोजनेन त्र्यहं नीत्वाऽनन्तरं त्र्यहं नक्तमेव भुञ्जीत । हविष्यानित्येव ॥ ३ ॥
पुनः तीन दिन केवल सन्ध्या को हविष्य का भक्षण करे ॥ ३ ॥
अथापरं त्र्यहं न कंचन याचेत ॥ ४ ॥
अथ नक्तभोजनत्र्यहानन्तरमपरं त्र्यहं न कंचन बन्धुमपि याचेत । याच्ञाप्रतिषेधोऽयम् । स्वद्रव्यस्य वाऽयाचितलब्धस्याप्रतिषेधः । एवमुक्ते हविष्यनियमो न प्राप्नोति । कालविशेषाश्रवणाद् द्विर्भोजनं च प्राप्नोति । न याचेतेत्यत्रापि हविष्यानित्येवानुवर्तते । अयाचितलब्धेऽपि सकृदेव सिद्धम् । कुतः । अथापरमिति वचनस्य पूर्वेण सदृशार्थत्वात् । तत्तु दिवा नक्तं वा यथेच्छम् । अन्ये तु त्र्यहमयाचितव्रत इत्यापस्तम्बीये दर्शना-
सानुवाद-मिताक्षरावृत्तिसहितानि २६३
दयाचितलब्धेनैव त्र्यहं वृत्तिर्न स्वद्रव्येण । नापि याचितलब्धेनेति वर्ण- यन्ति । अनुष्ठानमप्येवमेव ॥ ४ ॥
पुनः तीन दिन तक किसी से भोजन न माँगे ॥ ४ ॥
अथापरं त्र्यहमुपवसेत् ॥ ५ ॥
स्पष्टम् । एवमयं द्वादशाहसाध्यः कृच्छ्रः । वसिष्ठेन प्रकारान्तरमपि दर्शितम्—
अहः प्रातरहर्नक्तमहरेकमयाचितम् ।
अहश्चोपवसेदेकमेवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः ।
बालवृद्धातुराणां च शिशुकृच्छ्रमुवाच ह ॥ इति ।
भरद्वाजः—
प्राजापत्यं चरन्विप्रो यद्यशक्तो दिने दिने ।
विप्रान्पञ्चावरान्शुद्धान्भोजयेत्सम्यगर्चितान् ॥ इति ।
यस्मिन्दिनेऽशक्तिस्तत्रैवं, दिनान्तरेषु पूर्ववत् । तत्राप्यशक्तो ब्राह्मण- भोजनमुपवासदिनेष्वशक्तो वा ब्राह्मणभोजनं दत्त्वा हविष्यान्तत्सम्य- ग्भुञ्जीत ॥ ५ ॥
तब फिर तीन दिन तक उपवास रखे ॥ ५ ॥
अथ कृच्छ्रस्य गुणविधिः—
तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ॥ ६ ॥
यः कामयेत क्षिप्रं शुध्येयमिति स तिष्ठन्नेवाहर्नयेत् । भोजनाद्यवि- रोधेन रात्रावासीत । स्वापोऽप्यासीनस्यैव । वसिष्ठस्तु क्षिप्रकामस्य प्रका- रान्तरमाह—
अथ चेत्त्वरते कर्तुं दिवसं मारुताशनः ।
रात्रौ चैव जले तिष्ठेत्प्राजापत्येन तत्समम् ॥
सावित्र्यष्टसहस्रं तु जप्यं कृत्वोत्थिते रवौ ।
मुच्यते पातकैः सर्वैर्यदि न भ्रूणहा भवेत् ॥ ६ ॥
जो शीघ्र शुद्ध होना चाहे वह दिन में खड़ा रहे और रात्रि को बैठा रहे ॥ ६ ॥
सत्यं वदेत् ॥ ७ ॥
सत्यं यथादृष्टम् । विवाहादिविषयेऽपि सत्यमेव वदेत् ॥ ७ ॥
वह सत्य भाषण करे ॥ ७ ॥
२६४ | गौतमधर्मसूत्राणि
अनार्यैर्न संभाषेत ॥ ८ ॥
द्विजातिव्यतिरिक्तैर्लिङ्गस्याविवक्षितत्वात्स्त्रीभिरपि न संभाषेत ॥८॥
वह आर्य के अतिरिक्त किसी अन्य से संभाषण न करे ॥ ८ ॥
रौरवयौधाजपे नित्यं प्रयुञ्जीत ॥ ९ ॥
रौरवयौधाजपे सामनी । पुनानः सोमधारयेत्यस्यामृचि गीते । नित्यं प्रत्यहं प्रयुञ्जीत गायेत् । अपर आह–नित्यं पुनः प्रयुञ्जीतेति ॥ ९ ॥
प्रतिदिन रौरव और यौधजप नाम के साम का गान करे ॥ ९ ॥
अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेति तिसृभिः पवित्रवती-
भिर्मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिः ॥ १० ॥
उदकोपस्पर्शनं स्नानम् । तदनुसवनं त्रिषु सवनेषु कर्तव्यम् । तदनन्तरं च मार्जनमापो हि ष्ठेत्यादिभिः । पवमानः सुवर्जन इत्यनुवाकः या ऋचस्ताः पवित्रवत्यः । लिङ्गसमवायात् । ताभिश्च तैत्तिरीये पञ्चमे काण्डे षष्ठे प्रश्ने हिरण्यवर्णाः शुचयः पावका इत्याद्या ऋचः पठ्यन्ते । ता दश भवन्ति । तत्राष्टाभिः । यदि तु शाखान्तरे क्वचिदष्टावेव पठ्यन्ते ततस्ता एव ग्राह्याः ॥ १० ॥
'आपो हि ष्ठा' आदि तीन मन्त्रों का उच्चारण करते हुए प्रातः, मध्याह्न और संध्या को स्नान करे और 'हिरण्यवर्णा, शुचयः पावका' आदि आठ पवित्र करने वाले मन्त्रों से शरीर को सुखावे ॥ १० ॥
अथोदकतर्पणम् ॥ ११ ॥
अथ मार्जनानन्तरमुदकेन तर्पणं कर्तव्यम् ॥ ११ ॥
तब वह जल से तर्पण करे ॥ ११ ॥
तत्र मन्त्राः—
नमोऽह्माय मोह्माय मंहमाय धुन्वते तापसाय पुनर्वसवे नमः । नमो मौञ्ज्यायोध्र्याय वसुविन्दाय सार्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय पारयिष्णवे नमः । नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्यायाऽऽदित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय
सानुवाद-मिताक्षरावृत्तिसहितानि २६५
नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश्चन्द्रललाटाय कृत्तिवाससे नमः ॥ १२ ॥
नायमेको मन्त्रः । एताश्चाऽऽज्याहुतय इति बहुवचननिर्देशात् । किं तर्हि । त्रयोदशैते मन्त्राः । नमस्कारादयो नमस्कारान्ताश्च सर्वे । तत्र प्रथमे चतुर्थ्यन्तानि षड् देवस्य नामानि । द्वितीये चत्वारि । तथा तृतीये । चतुर्थे त्रयोदश । महते देवायति महादेवपदमेव व्यस्तमुक्तम् । पञ्चमादिषु त्रिषु द्वे । अष्टमे षट् । नवमे पञ्च । दशमे द्वे । तथैकादशे । द्वादशे षट् । त्रयोदशे द्वे । इति षट्पञ्चाशद्देवनामानि । एभिर्मन्त्रैस्तर्पणमनुसवनम् ॥ १२ ॥
अहंभाव को उत्पन्न करने वाले, मोह को उत्पन्न करनेवाले, दान देनेवाले, पाप का नाश करने वाले और तप करनेवाले पुनर्वसु को नमस्कार है । मुखवास की भेंट को, जल के तर्पण को ग्रहण करने वाले, धन जीतने वाले और विश्व की विजय करने वाले को नमस्कार है । सफलता देनेवाले को, पूरी सफलता देनेवाले को, महान् सफलता देने वाले को, प्रयत्नों को सफल बनाने वाले को नमस्कार है । पशुपति महान् देव, तीन आँखों वाले, अकेले विचरण करने वाले रुद्र को, अधिपति-हर को, शर्व को, ईशान को, उग्र को, वज्र धारण करने वाले, भयंकर जटाधारी को नमस्कार है । सूर्य और आदित्य को नमस्कार है । नीली ग्रीवा वाले, काले कण्ठ वाले को नमस्कार है । कृष्ण वर्ण वाले, भूरे वर्ण वाले को नमस्कार है । ज्येष्ठ को, श्रेष्ठ को, वृद्ध को, इन्द्र को, हरिकेश और ऊर्ध्वरेतस को नमस्कार है । सत्य, पावक, पावक वर्ण वाले काम और कामरूपी को नमस्कार है । दीप्त और दीप्तरूपी को नमस्कार है । तीक्ष्ण और तीक्ष्णरूपी को नमस्कार है । सौम्य को, सुन्दर पुरुष, महापुरुष, मध्यमपुरुष और उत्तम पुरुष ब्रह्मचारी को नमस्कार है । सिर पर चन्द्रमा धारण करनेवाले और चर्म धारण करने वाले को नमस्कार है ॥ १२ ॥
एतदेवाऽऽदित्योपस्थानम् ॥ १३ ॥
आदित्य उपस्थीयते येन तदादित्योपस्थानम् । एतेन कृत्स्नेन मन्त्रे-
| २६६ | गौतमधर्मसूत्राणि |
|---|
णाऽऽदित्य उपस्थेय इत्युक्तं भवति । एतदप्यनुसवनं प्रत्यहम् । सकृदि- त्यन्ये । पृथग्योगकरणात् । अन्यथाऽथोदकतर्पणमादित्योपस्थानं चेत्ये- कमेव योगमकरिष्यत् ॥ १३ ॥
इसी मन्त्र से सूर्य्यकी पूजा करनी चाहिए ॥ १३ ॥
एता एवाऽऽज्याहुतयः ॥ १४ ॥
एता इति मन्त्रमपि परामृशति । एतच्छब्दस्याऽहुतिसामानाधिकर- ण्यात्स्त्रीलिङ्गता । एतैरेव त्रयोदशभिर्मन्त्रैराज्यमपि होतव्यमित्युक्तं भवति । तत्र “जुहोतिचोदना स्वाहाकारप्रदाना” इति स्वाहाकारान्तैर्होमः प्रत्यहं सकृत्कर्तव्यः ॥ १४ ॥
इन्हीं मन्त्रों से आज्य की आहुति प्रदान करे ॥ १४ ॥
द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् ॥ १५ ॥
एवमुक्तेन प्रकारेण द्वादशरात्रं नीत्वा तदन्ते त्रयोदशेऽहनि गृह्योक्तेन मार्गेण चरुं श्रपयित्वैताभ्यो वक्ष्यमाणाभ्यो देवताभ्यो जुहुयात् ॥ १५ ॥
बारह दिन के बाद चरु बनाकर इन देवताओं के लिए बलिप्रदान करे ॥ १५ ॥
ता आह—
अग्नये स्वाहा सोमाय स्वाहाऽग्नीषोमाभ्यामिन्द्राग्निभ्या- मिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टकृत इति ॥ १६ ॥
स्विष्टकृता सह नवाऽहुतयः । द्विः स्वाहाकारपाठोऽनुषङ्गप्रकारदर्श- नार्थः । सर्व एव स्वाहाकारान्ताः [ इत्यर्थः ] ॥ १६ ॥
अग्नि के लिये, स्वाहा; सोम के लिए, स्वाहा; अग्नीषोम के लिये, स्वाहा; इन्द्र और अग्नि के लिये, इन्द्र के लिये, सभी देवताओं के लिये, ब्रह्मा के लिये, प्रजापति के लिये, अग्नि स्विष्टकृत के लिये ॥ १६ ॥
ततो ब्राह्मणतर्पणम् ॥ १७ ॥
ततो होमानन्तरं ब्राह्मणास्तर्पयितव्या भोजनादिभिः । शुचीन्मन्त्र- वतः सर्वकृत्येषु भोजयेदित्यापस्तम्बः ॥ १७ ॥
तब ब्राह्मणों को भोजन करावे ॥ १७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २६७
एतेनैवातिकृच्छ्रो व्याख्यातः ॥ १८ ॥
स्पष्टम् ॥ १८ ॥
इस प्रकार अतिकृच्छ्र व्रत बताया गया है ॥ १८ ॥
यस्त्वस्य विशेषस्तमाह--
यावत्सकृदादादीत तावदश्नीयात् ॥ १९ ॥
एकेन पाणिना यावत्सकृदादातुं शक्नुयात्तावदेवाश्नीयात् । हविष्यं दिवा नक्तमयाचितमुपवास इति विशेषाः स्थिता एव । अत्र मनुः--
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमिति कृच्छ्रः स उच्यते ॥ १९ ॥
लेकिन यह व्रत करते समय उतना ही भोजन करना चाहिए जितना एक बार खा सके ॥ १९ ॥
अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २० ॥
पूर्वोक्तेष्वेव भोजनकालेषु केवलमुदकमेव पिबेत्स एष तृतीयः कृच्छ्रातिकृच्छ्रो नाम वेदितव्यः । अत्रोपवासदिनेष्वाचमनव्यतिरेकेणोदकपानमपि न भवति । त एते त्रयः कृच्छ्रा उक्ताः ॥ २० ॥
तीसरा कृच्छ्र वह होता है जिसमें केवल जल का सेवन किया जाता है और उसे कृच्छ्रातिकृच्छ्र व्रत कहते हैं ॥ २० ॥
तेषु--
प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ॥ २१ ॥
प्रथमं प्राजापत्यं चरित्वा शुचिः 'संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' इत्यादिना विहिताकरणनिमित्तेन दोषेण हीनः । पूतः प्रतिषिद्धाचरणजन्येनाधर्मेण रहितः । कर्मण्यः कर्मसु योग्यश्च भवति । कर्मण्य इति वचनादप्रज्ञातदोषस्यापि कृच्छ्रानुष्ठानादेवानादिष्टेषु कर्मसु योग्यतेति ज्ञाप्यते ॥ २१ ॥
इनमें से प्रथम कृच्छ्र करने वाला पवित्र और अपने वर्ण का कर्म करने के लिये योग्य बन जाता है ॥ २१ ॥
द्वितीयं चरित्वा यत्किंचिदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते ॥ २२ ॥
द्वितीयमतिकृच्छ्रं चरित्वा महापातकव्यतिरिक्तैः पापैर्मुच्यते ॥ २२ ॥
२६८ गौतमधर्मसूत्राणि
दूसरे कृच्छ्र व्रत को करने वाला महापातकों के अतिरिक्त अन्य सभी पापों से शुद्ध हो जाता है ॥ २२ ॥
तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते ॥ २३ ॥
तृतीयं कृच्छ्रातिकृच्छ्रं चरित्वा सर्वस्मान्महापातकादप्येनसोऽनभि-संधिकृतान्मुच्यते ॥ २३ ॥
तीसरे कृच्छ्र व्रत को करने वाले के सभी पाप नष्ट हो जाते हैं ॥ २३ ॥
एवं व्यस्तानां फलमुक्त्वा समस्तानामाह—
अथैतांस्त्रीन्कृच्छ्रांश्चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्वैर्देवैर्ज्ञातो भवति ॥ २४ ॥
य एतांस्त्रीन्कृच्छ्रानव्यवधानेनानुतिष्ठति तस्य सर्वान्वेदानधीत्य स्नातस्य यत्फलं तत्तुल्यं फलं भवति। सर्वेषां देवानां लोका जिता-स्तेन ॥ २४ ॥
इन तीनों कृच्छ्र व्रतों को करने वाला सभी वेदों में पूर्ण और सभी देवों में प्रख्यात हो जाता है ॥ २४ ॥
अथ विदुषः प्रशंसा—
यश्चैवं वेद [ यश्चैवं वेद ] ॥ २५ ॥
यश्चैतान्कृच्छ्रान्स्वरूपेणेतिकर्तव्यतया फलेन विजानाति सोऽपि सर्वेषु वेदेषु स्नातो भवति। सर्वैर्देवैर्ज्ञातो भवति। एवं ज्ञानं प्रशस्त-मित्यर्थः। [ द्विरुक्तिरुक्तार्था ] ॥ २५ ॥
इसी प्रकार इन्हें जानने वाला भी पूर्ण और प्रख्यात होता है ॥ २५ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥
अथ तृतीयप्रश्ने नवमोऽध्यायः
अथातश्चान्द्रायणम् ॥ १ ॥
पूर्ववद् व्याख्येयम् । चन्द्रप्राप्तिनिमित्तभूतं कर्म चान्द्रायणम् । तथा चान्ते वक्ष्यति—चन्द्रमसः सलोकतामाप्नोतीति ॥ १ ॥
अब हम चान्द्रायण व्रत का वर्णन करेंगे ॥ १ ॥
तस्योक्तो विधिः कृच्छ्रे ॥ २ ॥
तिष्ठदहनीत्यादिको यो विधिः कृच्छ्रः उक्तः स चान्द्रायणस्यापि द्रष्टव्यः ॥ २ ॥
कृच्छ्र के लिए विहित सामान्य नियम चान्द्रायण में भी होते हैं ॥ २ ॥
यस्तु विशेषः स उच्यते—
वपनं व्रतं चरेत् ॥ ३ ॥
व्रतमिति प्रायश्चित्तमाह । ‘एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः’ इत्यादौ दर्शनात् । यदि प्रायश्चित्तार्थं चान्द्रायणं क्रियते तदा वपनमपि कर्तव्यम् । अविशेषेऽपि पुरुषाणामेव । तदेव स्त्रियाः केशवपनवर्जमिति बौधायनस्मरणम् । चान्द्रायणे वपनविधानात्कृच्छ्रे प्रायश्चित्तार्थेऽपि न भवति । व्रतं चरेदिति वचनाददृष्टार्थे कर्मण्यताथै च चान्द्रायणे न वपनम् ॥ ३ ॥
यदि चान्द्रायण प्रायश्चित्त के लिए किया जा रहा हो तो केश मुड़ा दिये जाँय ॥ ३ ॥
श्वोभूतां पौर्णमासीमुपवसेत् ॥ ४ ॥
श्वः पौर्णमासी भवितेत्यवगम्य पूर्वेद्युश्चतुर्दश्यामुपवसेत् । उपवासो भोजनलोपः ॥ ४ ॥
पौर्णमासी के एक दिन पहले उपवास करे ॥ ४ ॥
आप्यायस्व सं ते पयांसि नवो नव इति चैताभिस्तर्पण-
माज्यहोमो हविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसः ॥ ५ ॥
आप्यायस्वेत्यादिभिर्मन्त्रैस्तर्पणादीनि चत्वारि कर्माणि कर्तव्यानि । षण्णांयथासंख्यं न भवति । तत्र तर्पणहोमौ प्रतिमन्त्रं भवतः । अनु-
२७० गौतमधर्मसूत्राणि
मन्त्रणमुपस्थानं च समुच्चयेन। कृच्छ्रविध्यतिदेशाद्रौद्रेण य उदकतर्पणा- दयः प्राप्तास्तेषां च समुच्चय इत्येके। उपदिष्टैरतिदिष्टानां बाध इत्यन्ये ॥५॥
'आप्यायस्व सं ते पयांसि नवो नव' मन्त्र से जल का तर्पण करे, घृत का होम करे, हवि का अनुमन्त्रण करे एवं चन्द्रमा की पूजा करे ॥ ५ ॥
यद्देवा देवहेडनमिति चतसृभिर्जुहुयात् ॥ ६ ॥
यद्देवा देवहेडनमित्यनुवाक आदितश्चतसृभिर्ऋग्भिरनादेशादाज्यं जुहुयात् पूर्वाभिस्तिसृभिश्चेति सप्ताऽऽज्याहुतयः ॥ ६ ॥
'यद्देवा देवहेडनम्' आदि चार ऋचाओं का उच्चारण करते हुए आज्य की आहुति करे ॥ ६ ॥
देवकृतस्येति चान्ते समिद्भिः ॥ ७ ॥
आज्यहोमान्ते देवकृतस्येत्यादिभिः पूर्वोक्तैरष्टभिर्मन्त्रैः समिद्भिर्होमः कर्तव्यः। उपदेशक्रमादेव सिद्धेऽन्तग्रहणं प्राप्त्यनुवादः। अन्ये पुनश्चान्द्रा- यणान्त इति व्याचक्षते। तेषां च शब्दो न संगच्छते ॥ ७ ॥
आज्य-होम के उपरान्त 'देवकृतस्य' आदि मंत्रों से समिधाओं का होम करे ॥ ७ ॥
ओं भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूर्गिडौजस्तेजो वर्चः पुरुषो धर्मः शिव इत्येतैर्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा ॥ ८ ॥
प्रणवादयः पञ्चदश मन्त्रास्तेषामेकैकेन मन्त्रेणैकैकस्य ग्रासस्य मनसाऽनुमन्त्रणं कर्तव्यम्। अनुमन्त्रणक्रमेण भोजनम्। यदा तु न्यूना ग्रासास्तदा यावद्-ग्रासमादितो मन्त्रा ग्राह्याः। अन्ततो लुप्यन्ते। ग्रासां- नुमन्त्रणमिति वचनान्नैते भोजनमन्त्राः। ततश्च प्राणाहुतिमन्त्राणामनि- वृत्तिः। यदा चत्वारो ग्रासास्तदा द्वाभ्यां पूर्वं यदा त्रयो द्वाभ्यां द्वाभ्यां पूर्वा यदा द्वौ द्वाभ्यां पूर्वमुत्तरं त्रिभिः। सर्वैरेकम्। हविषश्चानुमन्त्रण- मिति पूर्वोक्तमिह तु ग्रासानुमन्त्रणमिति प्राणाहुतिमन्त्राश्च स्थिताः। तत्र प्रयोगः-सर्वं भोज्यं पात्रे निधायाऽप्यायस्वेत्यादिभिरनुमन्त्र्य ग्रासा- न्कृत्वा प्रणवादिभिः क्रमेणानुमन्त्र्य प्राणाहुतीः कृत्वा प्राश्नीयादिति ॥८॥
प्रत्येक ग्रास का मन में इन मंत्रों का जप करके अभिमंत्रण करे : ओं, भूः, भुवः, स्वः, तपः, सत्यं, यशः, श्रीः, ऊर्गिड, ओजस्, तेजस्, वर्चस्, पुरुष, धर्मः, शिवः ॥ ८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २७१
नमःस्वाहेति वा सर्वान् ॥ ९ ॥
अथवा सर्वान्नैव ग्रासान्नमः स्वाहेत्यनुमन्त्रयेत्। नमः स्वाहेत्यनयोर्विकल्पः। समुदितो मन्त्र इत्यन्ये ॥ ९ ॥
अथवा नमः स्वाहा कहकर सभी ग्रासों को अभिमन्त्रित करे ॥ ९ ॥
ग्रासप्रमाणमास्याविकारेण ॥ १० ॥
यावत्प्रमाणे ग्रासे ग्रस्यमान आस्यमविकृतं भवति तावत्तस्य प्रमाणम् ॥ १० ॥
जितना ग्रास ग्रहण करने से मुख विकृत न हो उतने ही परिमाण का ग्रास होना चाहिए ॥ १० ॥
चरुभैक्षसक्तुकणपावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्तानि ॥ ११ ॥
हविष्यैरुपकल्पितो नवस्रावितो विशदसिद्धौदनश्चरुः। भैक्षं ब्रह्मचारिणा शिष्यादिना स्वयमानीतम्। गृहस्थस्य भिक्षाचरणनिषेधात्। चूर्णीकृता लाजाः सक्तवः। कणाः फलीकरणानि। यावकः पूर्वमुक्तः। अन्यानि प्रसिद्धानि। द्वादशैतानि हवींषि। तेषु च पूर्वस्मात्पूर्वस्मादुत्तरमुत्तरं प्रशस्तम्। तत्र द्रवाणां पत्रपुटादिना ग्रासकल्पना। तपांसि चैनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ ११ ॥
चरु, भिक्षा में प्राप्त अन्न, सक्तु, कण, यावक, शाक, दूध, दही, घृत, मूल, फल और उदक ये हवियाँ हैं और उनमें पहले वाले से बाद वाला क्रमशः अधिक उत्तम होता है ॥ ११ ॥
पौर्णमास्यां पञ्चदश ग्रासान्भुक्त्वैकापचयेनापरपक्षमश्नीयात् ॥ १२ ॥
एवं चतुर्दश्यामपोष्यापरेद्युः पञ्चदश्यां पञ्चदश ग्राशानशित्वा ततः परमेकापचयेन द्विर्वचने सत्यर्थः स्पष्टो भवति प्रत्यहमेकैकापचयेनेति। सर्वमेवापरपक्षमश्नीयात्। तिथिह्रासे क्रमप्राप्ते नवमीभोजने यदा प्रातः पञ्च नाड्यो नवमी, अपरेद्युश्च दशमी नास्ति तदा पूर्वेद्युरागतायामेव नवम्यां नव ग्रासान्भुक्त्वाऽपरेद्युरेकादशीप्राप्तानेकादश ग्रासान्भुञ्जीत। दशमीप्राप्तानां दशग्रासानां लोपः। एवं तिथिवृद्धावेकादशग्रासे प्राप्ते यदा षड्विंशतिनाडिका दिवा दशमी चतस्र एकादशी, अपरेद्यु रात्रावपि
२७२ | गौतमधर्मसूत्राणि
कियत्यप्येकादशी तदा पूर्वेद्युरेकादश्यां प्रनिविष्टायामेकादश ग्रासा- न्भुक्त्वाऽपरेद्युरपि तानेवैकादश भुञ्जीत । तस्यापरेद्युर्द्वादशेति प्रयोगः । यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ इति मानवे चान्द्रायणान्तरं विधीयते । न पुनरुपचयापचयरूप उक्ते चान्द्रायणे पिण्डसंख्यानियमः । तथा च याज्ञवल्क्येन स्पष्टमुक्तम्— यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैकेन भुञ्जीत चान्द्रायणमथापरम् ॥ इति ॥ १२ ॥ पौर्णमासी के दिन पन्द्रह ग्रास खाकर मास के कृष्णपक्ष में प्रतिदिन एक- एक ग्रास कम करता जाये ॥ १२॥
अमावास्यायामुपोष्यैकोपचयेन पूर्वपक्षम् ॥ १३ ॥
एवमेकापचयेन ग्रस्यमानेषु चतुर्दश्यामेको ग्रासो भवति । अमावा- स्यायामुपवासः अमावास्यायामुपोष्य पूर्वपक्षप्रतिपद्येकं ग्रासमशित्वैकै- कोपचयेनैकेकग्रासवृद्ध्या कृत्स्नमेव पूर्वपक्षमश्नीयात् । पौर्णमास्यां पञ्चदश भवन्ति । तदेतत्तनुमध्यत्वात्पिपीलिकामध्यं चान्द्रायणम् ॥ १३ ॥ अमावास्या के दिन उपवास करे और शुक्लपक्ष में प्रतिदिन एक-एक ग्रास बढ़ाता जाये ॥ १३ ॥
विपरीतमेकेषाम् ॥ १४ ॥
एकेषामाचार्याणां मतेनेदमेव विधानं विपरीतं भवति । अमावा- स्यायामुपोष्यैकोपचयेन पूर्वपक्षमशित्वा कृष्णप्रतिपदमारभ्यैकापचयेना- परपक्षमश्नीयाच्चतुर्दश्यामेको ग्रासो भवति । अमावास्यायामुपवासः । तदेतत्स्थूलमध्यत्वाद्यवमध्यं चान्द्रायणम् ॥ १४ ॥ कुछ आचार्यों के अनुसार यह क्रम इसके विपरीत होना चाहिए ॥ १४ ॥
एवं चान्द्रायणो मासः ॥ १५ ॥
एवं माससाध्यं चान्द्रायणं तद्योगादेष मासश्चान्द्रायणः । यद्यप्युक्ते प्रकारे पिपीलिकामध्ये द्वात्रिंशदहानि यवमध्ये चैकत्रिंशत्तथाऽपि न वैकेनाक्षरेणेति न्यायेनैष मास इत्युक्तम् ॥ १५ ॥ इस प्रकार चान्द्रायण मास होता है ॥ १५ ॥
एवमाप्त्वा विपापो विपाप्मा सर्वमेनो हन्ति ॥ १६ ॥
एवमेवंविधं चान्द्रायणं मासमाप्त्वा माससाध्यमेतद्व्रतं कृत्वा
सानुवाद-मिताक्षरावृत्तिसहितानि २७३
विपापो विहिताकरणजन्यपापहीनो भवति । विपाप्मा निषिद्धाचरणभव- पापहीनः । सर्वमेनो हन्ति यच्चान्यजन्मन्तरार्जितं सूक्ष्ममेनस्तदपि सर्वं हन्ति ॥ १६ ॥
जो इस व्रत को पूरा कर लेता है वह सभी पापों से मुक्त और सभी दोषों से शुद्ध हो जाता है, उसके सभी पाप नष्ट हो जाते हैं ॥ १६ ॥
द्वितीयमाप्त्वा दश पूर्वान्दश परानात्मानं चैकविंशं पंक्तिं च पुनाति ॥ १७ ॥
द्वावाप्त्त्वेति वक्तव्ये द्वितीयमिति वचनं नैरन्तर्यार्थं द्वितीयं मासं निरन्तरमाप्त्त्वेति । कथं पुनर्नैरन्तर्यस्य संभवः । यावता पिपीलिकामध्ये श्वोभूतां पौर्णमासीमुपवसेदित्युक्तं पौर्णमास्यां पञ्चदश ग्रासान्भुक्त्वाति च तथाऽमावास्यायामुपोष्यैकैकोपचयेन पूर्वपक्षमश्नीयादिति तद् द्वितीय- पौर्णमास्यन्तः स प्रयोगः । तदनन्तरं द्वितीयस्याऽऽरम्भे चतुर्दश्या- मुपवासः । पञ्चदश्यां पञ्चदश ग्रासानिति च नोपपद्यते । तस्मा- देवमत्र वक्तव्यम्—नात्र द्वयोश्चान्द्रायणयोर्विधानम् । किं तर्हि । मास- द्वयसाध्यमेकं चान्द्रायणम् । तस्यैष फलविधिः । तस्याऽऽदौ चतुर्दश्या- मुपवासस्तृतीये पौर्णमास्यन्तश्च प्रयोगः । मध्ये यथोक्तम् । द्वितीया च पौर्णमासी तन्त्रेण प्रथमस्यान्त्या द्वितीयस्याऽऽद्या । एवं यवमध्ये द्वितीयाऽ- मावास्या । एतेन संवत्सरं चाऽऽप्त्त्वेति व्याख्यातम् ॥ १७ ॥
जो दो मास तक इस व्रत का पालन करता है वह स्वयं को तथा अपने पहले और बाद की दस-दस पीढ़ियों को एवं जिस समुदाय में वह निमन्त्रित होता है उसे भी पवित्र करता है ॥ १७ ॥
संवत्सरं चाऽऽप्त्त्वा चन्द्रमसः सलोकतामाप्नोति सलोकता- माप्नोति ॥ १८ ॥
यस्तु संवत्सरमव्यवधानेन चान्द्रायणव्रतं चरति स चन्द्रमसः सालो- क्यमाप्नोति । द्विरुक्तिर्व्याख्याता । अत्र मनुः—
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यांदिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं चरन् ॥
चतुरः प्रातरश्नीयाद् द्विजः पिण्डान्समाहितः ।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरन् ॥ इति ।
१८ गौ०
२७४ गौतमधर्मसूत्राणि
यथाकथंचित्पिण्डानामिति च ॥ १८ ॥
इस प्रकार एक वर्ष व्यतीत करने वाला ( मृत्यु के बाद ) चन्द्रमा के लोक में निवास करता है ॥ १८ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने नवमोऽध्यायः ॥ ९ ॥
अथ तृतीयप्रश्ने दशमोऽध्यायः
अथ दायविभागः—
ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् ॥ १ ॥
ऊर्ध्वं पितुः पितरि मृते तदीयं रिक्थं स्वगृहक्षेत्रदासगवाश्वस्वर्णादिकं पुत्रा भजेरन्पुत्रास्तत्र भागिनः। पुत्राणां तत्स्वामित्वमित्युक्तं भवति। ऊर्ध्वं पितुरिति वचनाज्जीवति तस्मिन्न तत्र पुत्राणां स्वाम्यम्। तथा च मनुः—
ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः सह ।
भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ इति।
पितृशब्दस्य संबन्धिशब्दत्वादेव सिद्धे पुत्रग्रहणं नियमार्थम्। तेन पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेदित्यादिवचनजातमाचार्यस्याभिमतं न भवति। पुत्रा एवं सर्वं धनादिकं गृहीत्वा मातरं यथावद्रक्षेयुरिति मन्यते। श्रूयते च—तस्मात्स्त्रियो निरिन्द्रिया अदायादा इति। मनुरप्याह—
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ इति ॥ १ ॥
पिता की मृत्यु के बाद पुत्र उसकी सम्पत्ति प्राप्त करे ॥ १ ॥
निवृत्ते रजसि मातुर्जीवति चेच्छति ॥ २ ॥
अथवा जीवत्यपि पितरि पुत्रा रिक्थं भजेरन्निति। इच्छति सति। तदनुज्ञयेत्यर्थः। तस्य कालः—
निवृत्त रजसि मातुः। उपरतजस्कायां निवृत्तप्रसवायामित्युक्तं भवति ॥ २ ॥
अथवा पिता के जीवन-काल में भी माता के रजोदर्शन-आयु समाप्त होने पर इच्छानुसार विभाजन करे ॥ २ ॥
सर्वं वा पूर्वजः स्वेतरान्बिभृयात्पितृवत् ॥ ३ ॥
ज्येष्ठ एव सर्वं धनं स्वीकृत्य गृहीत्वेतरान्कनिष्ठान्बिभृयात्। तेऽपि तस्मिन्पुत्रवद्वर्तेरन् ॥ ३ ॥
२७६ गौतमधर्मसूत्राणि
अथवा सभी सम्पत्ति ज्येष्ठ पुत्र को प्राप्त हो और वह शेष लोगों का पिता के तुल्य भरण-पोषण करे ॥ ३ ॥
विभागे तु धर्मवृद्धिः ॥ ४ ॥
तु शब्दः पक्षं व्यावर्तयति । नैतदेवं ज्येष्ठ एव बिभृयादिति । यदुक्तं विभाग एव ज्यायान्यतस्तत्र धर्मवृद्धिः । यथाऽऽह बृहस्पतिः— एकपाकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद् गृहे गृहे ॥ ४ ॥ किन्तु विभाग से धर्म की वृद्धि होती है ॥ ४ ॥
अधुना पितुरूर्ध्वं जीवति च तस्मिन्विभागप्रकारमाह— विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदद्युक्तो रथो गोवृषः ॥ ५ ॥ सर्वस्मात्पितृधनाद्विंशतितमो भागः, मिथुनं गवादिषु स्त्रीपुंसयोर्युग्मम् । उभयतोदन्ता अश्वाश्वतरगर्दभास्तेषामन्यतमाभ्यां युक्तो रथः गोवृषः पुंगवः । अयमुद्धारो ज्येष्ठस्य ॥ ५ ॥ ज्येष्ठ पुत्र को सम्पत्ति का बीसवाँ भाग एक-दन्तपंक्ति वाले एक नर और मादा पशु जैसे कोई और दो दन्तपंक्ति वाले पशुओं से जुती हुई गाड़ी तथा एक बैल अतिरिक्त मिलता है ॥ ५ ॥
काणखोरकूटवण्डेटा मध्यमस्यानेकाश्चेत् ॥ ६ ॥ काण एकनेत्रः । विकलाङ्ग इति यावत् । खोरो वृद्धः । खोट इति पाठे विकलपादः । कूटः शृङ्गहीनः । वणेतो विकलवालधिः । गवाश्वादिषु य एवंरूपः स मध्यमस्योद्धारः । सं च काणादिर्यद्यनेको भवति । इतरेषामप्यस्ति चेदिति ॥ ६ ॥ मझले पुत्र को एक आँख वाले, बूढ़े, बिना सींग और बिना पूँछ वाले पशु अतिरिक्त मिलते हैं, यदि अनेक पशु हों तो ॥ ६ ॥
अविर्धान्यायसी गृहमनोयुक्तं चतुष्पदां चैकैकं यवीयसः ॥ ७ ॥ अविरूर्णायुः । जातावेकवचनम् । यावन्तोऽवयः । एकस्य चतुष्पदां चैकैकमित्येव सिद्धत्वात् । अपर आह—यद्यपि पितुरेक एवाविस्तथाऽपि स यवीयसः । चतुष्पदां चैकैकमिति तु बहुविषयमिति । धान्यं व्रीह्यादि । अय आयसं दात्रादि । धान्यमयश्चेति धान्यायसी । एतदुभयं यावत्किञ्चिद् गृहे । गृहं यत्राऽऽस्यते । अनः शकटं युक्तं बाह्याभ्याम् । चतुष्पदां च गवादीनामेकमिष्टं गृह्णीयात् । अयं कनीयस उद्धारः । अयं च सर्वकनीयसः । इतरेषामुद्धारो यो मध्यमस्य ॥ ७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २७७
सब से छोटे पुत्र को अतिरिक्त अंश के रूप में भेड़, अन्न, लौह पात्र, घर, सफेद बैलों से जुती हुई गाड़ी और अन्य सभी प्रकार के पशुओं में से एक-एक पशु मिलते हैं ॥ ७ ॥
समधा चेतरत्सर्वम् ॥ ८ ॥
इतरदुद्धृतशिष्टं सर्वं सर्वे समधा गृह्णीयुः । सममित्यर्थः । द्विधा बहुधेत्यादौ दृष्टो धाप्रत्ययः प्रयुक्तः ॥ ८ ॥
शेष सम्पत्ति का विभाजन होता है ॥ ८ ॥
एकैकं वा धनरूपं काम्यं पूर्वः पूर्वो लभते ॥ ९ ॥
कल्पान्तरेषु बहुषु क्षेत्रादिष्वेकैकं धनरूपं ज्येष्ठानुपूर्व्याद् गृह्णीयुः । काम्यं यस्य यदिष्टं स तद् गृह्णीयादिति । सर्वेष्विष्टं ज्येष्ठस्तद्रहितेष्विष्टम-नन्तर इति । अयमुद्धारः सर्वेषाम् ॥ ९ ॥
अथवा ज्येष्ठता के अनुसार वे इच्छानुसार एक प्रकार की सम्पत्ति ग्रहण करे ॥ ९ ॥
अत्रैव पशुषु विशेषः—
दशकं पशूनाम् ॥ १० ॥
दशावयवा अस्य दशकः । पशूनां गवादीनां मध्ये दशकं दशकं पूर्वो लभते न त्वेकमिति ॥ १० ॥
अथवा दस-दस पशु (ग्रहण करें) ॥ १० ॥
अस्यापवादः—
नैकशफद्विपदाम् ॥ ११ ॥
एकशफानामश्वादीनां द्विपदां दास्यादीनां च दशकं न गृह्णीयुः । किंतु पूर्वोक्तमेकैकमेवेति । द्विपदानामिति पाठे पादशब्देन समानार्थः पदशब्दः । एवमेकमातृकाणां सोद्धारो विभाग उक्तः ॥ ११ ॥
किन्तु किसी भाई को दस एक खुर वाले पशु या दस सेवक या सेविका न मिले ॥ ११ ॥
अथानेकमातृकाणामाह—
ऋषभोऽधिको ज्येष्ठस्य ॥ १२ ॥
उत्तरसूत्रे ज्यैष्ठिनेयस्येति वचनादयं ज्येष्ठः कानिष्ठिनेयः । यदि कनी-यस्याः पुत्रो भवति तदा तस्य ऋषभ उद्धारः । सममन्यत् ॥ १२ ॥
| २७८ | गौतमधर्मसूत्राणि |
|---|
( यदि अनेक स्त्रियाँ हों तो ) पहली स्त्री के पुत्र को एक बैल अधिक मिले ॥ १२ ॥
ऋषभषोडशा ज्यैष्ठिनेयस्य ॥ १३ ॥
ज्येष्ठस्येति वर्तते । ज्येष्ठायाः पुत्रश्च भवति यो ज्येष्ठश्च भवति तस्य पञ्चदश गाव ऋषभश्चैक उद्धारः । सममन्यत् ॥ १३ ॥
सबसे बड़े पुत्र को ( प्रथम पत्नी से उत्पन्न होने के कारण ) पन्द्रह गायें और एक बैल मिले ॥ १३ ॥
अथ ऋषभषोऽधिको ज्येष्ठस्येत्यस्यापवादः—
समधा वाऽज्यैष्ठिनेयेन यवीयसाम् ॥ १४ ॥
ज्येष्ठस्येति वर्तते । तच्चाज्यैष्ठिनेयेनेत्यनेन सामानाधिकरण्यात्तृतीयान्तं संपद्यते । अज्यैष्ठिनेयेन कनिष्ठायां जातेन ज्येष्ठेन सह यवीयसां ज्यैष्ठिनेयानां समो वा विभागः । एकस्य जन्मतौ ज्यैष्ठ्यमन्येषां मातृत इति ॥ १४ ॥
अथवा बाद को विवाहित पत्नी से उत्पन्न हो तो ज्येष्ठ पुत्र पहली पत्नी से उत्पन्न छोटे पुत्रों के साथ बराबर भाग ग्रहण करे ॥ १४ ॥
प्रतिमातृ वा स्वस्ववर्गे भागविशेषः ॥ १५ ॥
विंशतिभागो ज्येष्ठस्येत्यादिर्य उक्तो भागविशेषः स प्रतिमातृ वा स्वे स्वे सर्गे विशेषः कर्तव्यः । एतदुक्तं भवति—यावत्यो मातरः पुत्रवत्यस्तावता विभक्ते धन एकस्या यावन्तः पुत्रास्तेषां भागानकीकृत्य तत्र तत्र वर्गे यो यो ज्येष्ठस्तस्य विंशतिभागो ज्येष्ठस्येत्यादिर्भागविशेष इति । एवं पुत्रवतो विभाग उक्तः ॥ १५ ॥
अथवा माता के अनुसार प्रत्येक वर्ग के पुत्रों का विशेष भाग निर्धारित होना चाहिए ॥ १५ ॥
अथापुत्रस्याऽऽह—
पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं चेष्ट्वाऽस्मदर्थमपत्यमिति संवाद्यं ॥ १६ ॥
पिता नाम तामुत्सृजेद्दद्यात् । भाविसंज्ञानिर्देशोऽयम् । यथा यूपं छिनत्तीति । पुत्रिकां भविष्यन्तीं दुहितरमनपत्योऽपुत्रोऽग्निं प्रजापतिं चेष्ट्वाऽग्नये स्वाहा प्रजापतये स्वाहेत्याज्यभागानन्तरमौपासन आज्येन
सानुवाद-मिताक्षरावृत्तिसहितानि २७९
हुत्वाऽस्मदर्थमपत्यमिति संवाद्य यस्मै ददाति तेन संवादं कारयित्वा । तत्र प्रकारो वसिष्ठेन दर्शितः—
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् ।
अस्यां जनिष्यते पुत्रः स मे पुत्रो भवेदिति ॥
एवं दत्ता सा पुत्रिका तस्यां जातो मातामहस्यैव पुत्रो नोत्पादयितुः । अत एव मनुः—
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥ इति ।
एवं सर्वे गर्भाः पुत्रिकाऽप्येषा पितुः पुत्रप्रतिनिधिः । 'इवे प्रतिकृतौ' संज्ञायां कन्न्निति । सैव च रिक्थग्राहिणी । तथा च मनुः—
पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति ।
गोत्रमपि तस्याः पितुरेव गोत्रम् । भर्तुस्तु केवलं धर्मेषु सहचारिणी रतिफला च । पुत्रार्थं तु विवाहान्तरं कर्तव्यं स्वकुलसंतानार्थमन्यथा दोषः ॥ १६ ॥
जिस पिता को कोई पुत्र न हो वह अग्नि और प्रजापति को भेंट चढ़ाकर अपनी पुत्री से ‘अस्मदर्थमपत्यम्’ ‘मेरे लिये तेरा पुत्र हो’ ऐसा कहकर पुत्र उत्पन्न करने को कहे ॥ १६ ॥
अभिसंधिमात्रात्पुत्रिकेत्येकेषाम् ॥ १७ ॥
एके मन्यन्ते प्रदानसमये पितुर्योऽभिसंधिरियं मे पुत्रिकाऽस्त्विति तावन्मात्रकादेव दुहिता पुत्रिका भवति न होमसंवादनाद्यपेक्षेति ॥ १७ ॥
कुछ आचार्यों का मत है कि कन्यादान के समय ही पिता की अभिसन्धि से ही पुत्री पुत्रिका हो जाती है ॥ १७ ॥
ततश्च—
तत्संशयान्नोपयच्छेद्भ्रातृकाम् ॥ १८ ॥
तत्संशयादभिसंधिसंशयात्पुत्रिकासंशयाद्वा । मनुरप्याह—
यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ इति ॥ १८ ॥
इस भय से किसी ऐसी कन्या से विवाह नहीं करना चाहिए जिसके कोई भाई न हो ॥ १८ ॥