कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
८६ कादम्बरी- [ कथामुखे-
रतामनवरत-करास्फोटमिश्रेण जलधर-रसितानुसारिणा गजयूथपतीनां कण्ठगर्जितेन, सरभस-सारमेय-विलुप्यमानावयवानामालोल²-कातर-तरलतर-तारकाणामेणकानाञ्च करुण-कूजितेन, निहत-यूथपतीनां वियोगिनीनामनुगत-कलॅभानाञ्च स्थित्वा स्थित्वा समाकर्ण्य कलकल-मुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यग्र-पतिविनाशशोकदीर्घेण करिणीनां चीत्कृतेन, कतिपय-दिवस-प्रसूतानाञ्च खड्गिधेनुकानां त्रास-परिश्रष्ट-पोतकौन्वेषिणीनामुन्मुक्तकण्ठ॑मा-रसन्तीनामाक्रन्दितेन, तरुशिखरसमुत्पतितानामाकुलाकुलचारिणाञ्च पत्त्ररथानां कोलाहलेन, रूपानुसार-प्रधावितानाञ्च मृगयूणां युगपदतिरभसपाद-पोताभिहताया भुवः कम्पमिव
एकाकिनां सहायसहितानां विभिन्नरूपेणावतिष्ठतामित्यर्थः, सञ्चरतां भ्रमतां गजयूथपतीनां करिवृन्दस्वामिनाम् अनवरतं निरन्तरं यः करास्फोटः शुण्डाघातः तच्छन्द इति यावत् तेन मिश्रं संवलितं तेन तादृशेन जलधररसितानुसारिणा वारिदगर्जनतुल्येन, कण्ठगर्जितेन कण्ठनिःसृतविस्तृतशब्देन । इह समासगतार्थी लुप्तोपमा ।
स.मसेति । सरभसैः वेगवत्तरैः सारमेयैः श्वभिः विलुप्यमाना दन्तैस्त्रोट्यमाना अवयवा अङ्गानि येषां तेषां तादृशानाम्, अत एव आलोलाः अश्रुव्याप्ताः कातरा दीना तारुण्यव्यासूरुकाः, तरलतराः त्रासेनात्यन्तचञ्चलाः तारकाः कनीनिका येषां तेषां तादृशानाम्, एणकानां मृगविशेषाणां करुणकूजितेन शोकोत्पादकध्वनिना । इह वृत्त्यनुप्रासः ।
निहतेति । निहताः शवर्रहिंसिताः यूथपतयः स्ववर्गीयव्रणस्वामिनो गजा यासां तासां तथोक्तानाम् , अतएव वियोगिनीनां स्वामिविरहिणीनाम् अनुगता पश्चात्संक्ताः कलभाः त्रिंशद्वर्षीयशिशवो यासां तथोक्तानाम्, स्थित्वा स्थित्वा यस्मिन् कस्मिन् स्थले अवस्थाय अवस्थाय कलकलं शबराणां कोलाहलं समाकर्ण्य निशम्य उत्कर्णपल्लवानाम्, ऊर्ध्वीकृतकिसलयाकृतिकर्णानाम् इतस्ततः समन्ततः परिभ्रमन्तीनां सञ्चरणं कुर्वतीनां करिणीनां हस्तिनीनाम्, प्रत्यग्रेण अभिनवेन पतिविनाशेन स्वामिरणेन यः शोकः तेन दीर्घं विस्तृतं तेन तादृशेन चीत्कृतेन आर्त्तचीत्कारशब्देन ।
कतिपयेति । कतिपये कियन्तो ये दिवसाः अहानि तत्र प्रसूतम् उत्पादितं याभिः तासां तादृशीनाम् । त्रासेन भयेन परित्रष्टान् मण्डलाद्भ्रष्टगलितान् पोतकान् स्वस्वार्भकान् अन्वेष्टुं मार्गयितुं शीलं यासां तासां तादृशीनाम् । अत एव उन्मुक्तकण्ठं यथा स्यात्तथा आरसन्तीनाम् शोकव्यञ्जकशब्देनाटर्तन्तीनां खड्गिधेनुकानां दुग्धवतीनां गण्डपलीनाम् आक्रन्दितेन आर्त्तशब्देन ।
तरुशिखरेति । तरुशिखरेभ्यः वृक्षप्रान्तेभ्यः समुत्पतितानाम् उड्डीनानाम् आकुलाकुलं यथा स्यात्तथा चारिणां भ्रमणविधायिनां पत्त्ररथानां पक्षिणां कोलाहलेन कलकलध्वनिना ।
रुपेति । रूपानुसारेण मृगानुगमनेन प्रधावितानां प्रचलितानां मृगयूणां शबराणाम्, युगपद् एकस्मिन् समये अतिरभसेन अतिवेगेन ये पादपाताः पादन्यासाः तैः अभिहतायाः ताडितायाः भुवो मेदिन्याः कम्पमिव चलनमिव जनयता उत्पादयता चरणशब्देन पादध्वनिना ।
कर अकेले मटकनेवाले गजपति अपनी सूँड़ पटक-पटककर बादलों की गरज के समान गड़गड़ा रहे थे कहीं जङ्गली कुत्ते झपट-झपटकर हरिणों को नोच रहे थे जिससे उनकी आँखों की पुतलियाँ अत्यन्त चञ्चल, कातर और आँसुओं से भीग उठी थीं तथा वे बेचारे कराहते हुए चिल्ला रहे थे, कहीं मरे हुए गजपतियों की वियोगिन हथिनियाँ पीछे-पीछे बच्चों को लिए-दिए इधर-उधर भटकती हुई तथा थोड़ी-थोड़ी दूर पर रुक-रुक कर उस कोलाहल को कनौतियाँ खड़ी कर करके सुनती हुई पति की मृत्यु के दुःख में विह्वल हो चिग्घाड़ रही थीं, कहीं कुछ ही दिनों की ब्याई हुई गैंडों की मादायें भयभीत होकर साथ से बिछुड़ जानेवाले बच्चों को इधर-उधर खोजती हुई गला फाड़-फाड़कर विलाप कर रही थीं, कहीं वृक्षों से उड़े हुए घबराहट में इधर-उधर चक्कर काटनेवाले पक्षी काँव-काँव मचाए हुए थे, कहीं जंगली पशुओं और उनका पीछा करने वाले शिकारियों के एक साथ हो पड़ने वाले पैरों के आघात से पृथ्वी को कंपाती हुई सी धमक हो रही थी; कहीं कानों
१. क्वापि 'कण्ठ' इति नोपलभ्यते । २. आलोलतरलतारकाणाम्, विलोलतरल...। ३. कलभकानाम् । ४. पोतान्वेषणीनाम् । ५. .. कण्ठकरण, कण्ठं करण, कण्ठमतिकरुण । ६. निनादेन । ७. ...प्रस्थितानाञ्च । ८. मृगयूयानां । ९. पादवातात् ।
शबरसैन्यवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ८७
जनयता चरणशब्देन; कर्णान्ताकृष्टज्यानाञ्च मदकलकुररकामिनी-कण्ठकूजित¹कलेन शरनिकर-वर्षिणां धनुषां निनादेन; पवनोद्धति²-क्वशित-धाराणामसीनाञ्च कठिन-महिष-स्कन्धपीठ³पातिनां रणितेन; शुनाञ्च सरभसविमुक्त-घर्घर-ध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव तदर॑ण्यमभवत्⁴।
अचिराच्च प्रशान्ते तस्मिन् मृगयाकलकले, निर्वृष्ट-मूक-जलधर-वृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव स्तिमिततामुपगते कानने⁵, मन्दीभूतमयोऽहमुपजात-कुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्य एव शिरोधरां प्रसार्य सन्त्रास-तरल⁸तारकः शैशवान् किमिदमिति सञ्जात॑¹⁰दिदृक्षः तामेव दिशं चक्षुः प्राहिणवम्।
कर्णान्तेति । कर्णान्ते श्रोत्रपर्यन्ते आकृष्टा आकर्षिता ज्या गुणो येषां तेषां तथोक्तानाम्, शरनिकरवर्षिणां बाणसमूहपातिनां धनुषां चापानाम्, मदकलानां मदोन्मत्तानां कुररकामिनीनां मत्स्यादनपक्षिणीनां कण्ठकूजितवत् गलनिनादवद् कलेन अव्यक्तमधुरेण निनादेन ध्वनिना । इह लुप्तोपमा । शब्दस्याव्यक्तमधुरत्वव्यञ्जनायै कुररकामिनीत्यत्र कामिनीति पदमित्यवधेयम् ।
पवनेति । पवनस्य वायोः आहत्या संवट्टनेन क्वणिताः शब्दिताः धाराः तीक्ष्णांशा येषां तेषाम्, कठिनः कठोर यो महिषस्कन्धः सैरिभबाहुशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् असीनां खड्गानां रणितेन शब्देन ।
शुनामिति । तथा सरभसं वेगवत्तरं विमुक्ताः परित्यक्ताः विहिता घर्घरध्वनयः 'घर घर' इति निनादः यैः तेषां तथोक्तानां शुनां सारमेयाणां वनान्तरव्यापिना विपिनमध्यप्रसरणशीलेन ध्वानेन निनादेन सर्वतः समन्तात् प्रचलितमिव कम्पितमिव तदरण्यं तद्वनम् अभवद् अभूत् । इह प्रचलितमिवेति क्रियोत्प्रेक्षा ।
अचिरादिति । अचिराद् अल्पकालेन प्रशान्ते शान्ति प्राप्ते तस्मिन् मृगयाकलकले आखेटकोलाहले, निर्वृष्टं निःशेषेण सम्पादितवर्षम् अत एव मूकं निःशब्दं यद् जलधरवृन्दं वारिदसमूहः तदनुकर्तुं शीलं यस्य तस्मिन् तथोक्ते कानने वने 'गहनं काननं वनम्' इत्यमरः, मथनस्य सुरासुरैमन्थनस्य अवसाने अन्ते उपशान्तं निजस्वरूपावस्थितं वारि सलिलं यस्य तस्मिन् तथोक्ते सागर इव समुद्र इव स्तिमिततां निस्पन्दताम् उपगते लब्धे सति । मन्दीभूतं मन्दतां प्राप्तं भयं त्रासो यस्य स तादृशः, उपजातम् उत्पन्नं कुतूहलं कौतुकं यस्य स तादृशश्च अहं वैशम्पायनः पितुः तातस्य उत्सङ्गात् क्रोडात् ईषदिव किञ्चिदिव निष्क्रम्य तद्द्रुमस्य कोटरो वृक्षविवरं तस्य एव शिरोधरां ग्रीवां प्रसार्य बहिः विस्तार्य, सन्त्रासेन भयेन तरले चञ्चले तारके कनीनिके यस्य स तादृशः, शैशवाद् बाल्याद् इदम् आश्चर्यभूतं किमिति हेतोः सञ्जाता समुत्पन्ना दिदृक्षा अवलोकनेच्छा यस्य स तादृशः, तामेव दिशम् आशां प्रति चक्षुर्रोचनं प्राहिणवम् संप्रेषितम् । इह उपमालुप्तोपमयोः परस्परनैरपेक्ष्येण स्थितत्वात् संसृष्टिः ।
तक खिंची हुई बाणों की वर्षा करनेवाली धनुषों की टङ्कार से मतवाली कुररियों की मधुर ध्वनि के समान हुहुक हो रही थी, कहीं हवा के झोकों में खनखनाती हुई जंगली भैंसों की पीठों पर गिरने वाली तलवारें झनझना रही थीं और कहीं झटके के साथ छोड़े गये कुत्तों की घरघराहट हो रही थी ।
थोड़ी ही देर के बाद उस शिकार के हाँके के शान्त हो जाने पर वह जंगल यों सुन्न हो गया मानो जल न बरसाने वाली एकदम शान्त घिरी हुई काली घटा हो, अथवा मदने के पश्चात् शान्त हो जाने वाला समुद्र हो । उस समय मेरा डर भी कम हो गया और बचपन के कारण 'यह क्या है—इसे देखने की अभिलाषा जाग पड़ी इसलिए कुतूहलवश पिता की गोद से थोड़ा-सा निकलकर खोखले में ही गरदन बढ़ाकर भयभीत आँखों से मैं उसी ओर निगाहें दौड़ाने लगा ।
१. '...कूजितकलरवितेन, कूजितकलध्वनितेन; कूजितकण्ठतेनेव;......कूजितकलकण्ठतेन ।
२. पवनाहृत ।
३. '...पीठपातिदानां ।
४. तदारण्यम् ।
५. दृश्यते ।
६. इह 'तस्मिन्' इत्याधिकः पाठः क्वचिद्दृश्यते ।
७. '...साभसोद्धतः साध्वसः ।
८. '...तरलतर' ।
९. किमिति ।
१०. समुत्पन्नदिदित्सरो दिक्षुः, समुत्पन्नदिदृक्षुः, सञ्जातदिदृक्षुः ।
| ८८ | कादम्बरी- | [कथामुखे- |
|---|
अभिमुखमापतंश्च तस्माद्वनान्तरादर्जुनभुजदण्ड-सहस्र-विप्रकीर्णमिव नर्मदाप्रवाहम्, अनिलचलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसङ्घातम्, अञ्जनशिला-स्तम्भ-सम्भारमिव क्षितिकम्प-विघूर्णितम्, अन्धकारपुरमिव रविकिरणाकुलितम्, अन्तक-परिवारमिव परिभ्रमन्तम्, अवदारित-रसातलोद्भूतमिव दानवलोकम्, अशुभ-कर्म्म-समूहमिवैकत्र समागतम्, अनेक-दण्डकारण्यवासिँ-मुनिजन-शाप-सार्थमिव सञ्चर-न्तम्, अनवरत-शर-निकर-वर्षि-राम-निहत-खर-दूषण-बलमिव तदपध्यानात् पिशाचता-
अभिमुखमिति । तस्माद्वनान्तरात् अभिमुखमापतत शबरसैन्यमद्राक्षमित्यग्रिमक्रियया सम्बन्धः । इह द्वितीयान्तानि शबरसैन्यविशेषणानि बोध्यानि । वनान्तरात् वनमध्यात् अभिमुखं संमुखम् आपतत् आगच्छत् । अर्जुनस्य कार्तवीर्यस्य राज्ञो भुजदण्डसहस्रेण सहस्रसंख्यकदण्डसदृशबाहुभिः विप्रकीर्णम् इतस्ततो विक्षिप्तं नर्मदाया मेखलाद्रिजाया नद्याःप्रवाहमिव स्रोत इव, धारावाहिकपङ्किकत्वाद्दित्याशयः । इहोपमा । अत्रायं रामायणीयेतिहासः—पुरा किल हैहयानामधिपतिः कार्तवीर्यः सहस्रबाहुभिः नर्मदा-प्रवाहमवरुध्य जलक्रीडां सम्पादितवानिति ।
अनिलेति । अनिलेन पवनेन चलितं प्रयातम् उत्पादितं सत् स्थानान्तरप्राप्तियोग्यमित्यर्थः, तमालानां तापिच्छानां काननम् अरण्यमिव सान्द्रश्यामवर्णत्वाहीर्घस्वरूपत्वाच्चेत्याशयः । इहाप्युपमा ।
एकीभूतमिति । कालरात्रीणां प्रलयक्षणानाम् अत्यन्तान्धकारत्वेन सान्द्रश्यामानामित्याशयः, एकी-भूतम् एकत्रमिश्रीभूतं यामसङ्घातं प्रहरसमुदायम् इव । इह जात्यूत्प्रेक्षा ।
अञ्जनेति । क्षितिकम्पेन पृथिवीकम्पेन विघूर्णितम् आन्दोलितम् अञ्जनवत् कज्जलवत् श्यामवर्णा इत्यर्थः, ये शिलास्तम्भाः पाषाणरचितस्थूणाः तेषां सम्भारं संघातमिव । इहोपमालुप्तोपमयोः सङ्करः ।
अन्धकारेति । रविकिरणैः सूर्यरश्मिभिः आकुलितं सञ्चाल्य व्याकुलीभूतम् अन्धकाराणां तमसां पूरं प्रवाहमिव । अत्रान्धकारत्वजातिस्वरूपोत्प्रेक्षा । अन्धकारस्य द्रव्यत्वेनानेकत्वेन च जातित्वम् , एतच्च पूर्वोत्तरपक्षाभ्यां मुक्तावल्यादौ निर्णीतम् । तथा चोक्तम्—
'तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धधर्मवैधम्र्म्यान्नवभ्यो भेत्तुमर्हति' ॥
वैशेषिकादयस्तु आवश्यकतेजोभावेनैव चैतस्य सिद्धिं दिशन्ति ।
अन्तकेति । परिभ्रमन्तम् इतस्ततः पर्यटन्तम् अन्तकस्य वैवस्वतस्य 'वैवस्वतोऽन्तकः' इत्यमरः, परिवारं परिजनवर्गमिव निविडश्यामवर्णत्वादित्याशयः । इहापि जातिस्वरूपोत्प्रेक्षा ।
अवदारितेति । अवदारितेन विदीर्णेन रसायाः पृथिव्याः तलेन तन्मार्गेणेत्यर्थः उद्भूतं पातालादुद्गतं दानवलोकं दैत्यजनमिव । इहान्युत्कालङ्कारः ।
अशुभेति । एकत्र एकस्मिन् स्थाने समागतं मिलितम् अशुभकर्मणाम् अघमंकार्याणां समूहं गगमिव । उक्तालङ्कारः ।
अनेकेति । अनेकेषां दण्डकारण्यवासिनां दण्डकवननिवासिनां मुनिजनानां तपस्विलोकानां शापसार्थम् अभिसम्पातसमूहमिव सञ्चरन्तं गच्छन्तम् । उक्तलङ्कारः । 'सार्थो वणिक् समूहेन स्यादपि सङ्घातमात्रके' इति मेदिनी ।
अनवरतेति । अनवरतं सततं शरनिकरं बाणसमूहं वर्षतीत्येवं शीलो यो रामो दशरयतनयः तेन
मैंने उस वन के भीतर से अपनी ही ओर आनेवाली भयदायिनी भीलों की सेना देखी जिसमें अनेकों हजार भील थे । वह सैन्य दल ऐसा प्रतीत हो रहा था मानों कार्तवीर्य अर्जुन की हजारों बाहुओं से कई धाराओं में बिखरा हुआ नर्मदा नदी का प्रवाह हो, अथवा वायु के झोंकों में काँपता हुआ तमाल वृक्षों का वन हो, कालरात्रि के एकत्रित पहरों का समूह हो, अथवा भूचाल में हिलते हुए काले पत्थरों के खम्भों का ढेर हो, अथवा सूर्य की किरणों से व्याकुल अन्धकार का समूह हो, अथवा इधर-उधर भटकता हुआ यमराज का परिवार हो, अथवा पृथ्वीतल को फाड़ कर निकलते हुए दानवों का समूह हो, अथवा अशुभ कर्मों के समूह एकत्रित होकर आ गए हों, अथवा दण्डकारण्य में रहने वाले अनेकों मुनियों के शापों का झुण्ड एक
१. आपतितन्, लापतन्तन् ।
२. अनिलदलचलितमिव, अनलवशचलितमिव ।
३. ०°पूरमिव ।
४. ०°नाकुलन् ।
५. ०°तलोद्गतमिव ।
६. अशेष०° ।
७. ०°वासित०° ।
८. निहतन् , इतखरदूषणनिवहमिव ।
शवरसेनापतिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता। ८६
मुपर्गतम्, कलिकाल-बन्धुवर्गमिव सङ्गतम्, अवगाहप्रस्थितमिव वनमहिषयूथम्, अचल-शिखर-स्थित-केसरि-कराकृष्ट-पतनशीर्णमिव कालमेघपटलं, अखिलरूप-विनाशाय धूम-केतुजालमिव समुद्गतम्, अन्धकारिताशेषकाननम्, अनेकसहस्रसंख्यम्, अतिभय-जनकम्, उत्पात-वेतालव्रातमिव शबरसैन्यमद्राक्षम्।
मध्ये च तस्यातिमहतः शबरसैन्यस्य प्रथमे वयसि वर्त्तमानम्, अतिकर्कशत्वादायस-मयमिव, एकलव्यमिव जन्मान्तरोंगतम्, उद्भिद्यमान-श्मश्रुराजिपया प्रथम-मदलेखा-मण्ड्य-
निहतं मारितं यद् खरदूषणयोः तन्नामकयोः पाताललङ्काधिपयोर्दैत्ययोः बलं सैन्यं तदिव। तस्मिन् रामचन्द्रे अपध्यानं दुश्चिन्तनमशुभचिन्तोत्पन्नपापं तस्मात् पिशाचतां भूतताम् उपगतं प्राप्त सत् आगत मित्यर्थः। उत्थाऽलङ्कारः। अनेन साधुजनाशुभचिन्तनेन प्रत्यवायः समुदेतीत्याशयो ज्ञेयः।
कलिकालति। एकत्र एकस्मिन्नेव स्थाने सङ्गतं सम्मिलितम्, कलिकालस्य कलियुगस्य बन्धुवर्ग• मित्रमण्डल मिव। उक्ताऽलङ्कारः।
अवगाहेति। अवगाहो मज्जनं तदर्थं प्रस्थितं प्रयातं वनमहिषयूथमिव अरण्यसैरिभसमूहमिव ! उक्ताऽलङ्कारः।
अचलेति। अचलः पर्वतः तस्य शिखरे शृङ्गे स्थितो विद्यमानो यः केसरी सिंह तस्य कराभ्यां पाणिभ्यां या आकृष्टः आकर्षणं तया यत् पतनं पृथिव्यां भ्रंशः तेन शीर्णम् अधिकखण्डीभूतं कालमेघ-पटलमिव श्याममेघमण्डलमिव। उक्ताऽलङ्कारः।
अखिलेति। अखिलानां समग्राणां रूपाणां मृगाणां 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः, विना-शाय व्यापादनाय समुद्गतं समुद्भूतं धूमकेतूनाम उत्पातग्रहाणां जालं वृन्दमिव। उक्ताऽलङ्कारः। 'धूम-केतुः स्मृतो वहावुत्पातग्रहभेदयोः' इति विश्वः।
अन्धेति। अन्धकारितं समुत्पन्नान्धकारम् अशेषं समग्रं काननं विपिनं येन तत् तथोक्तम्, अनेकानि बहूनि सहस्राणि संख्या यस्य तत् तादृशन्, अतिभयजनकम् अत्युत्कृष्टत्रासोत्पादकम्। उत्पाताय अशुभाय यो वेतालव्रातः भूताधिष्ठितमृतकगण; तमिव शबरसैन्यं भिल्लानीकम् अद्राक्षम् अपश्यम्। उक्ताऽलङ्कारः।
मध्ये चेति। अतिमहतः अतिविशालस्य तस्य पूर्वोपवर्णितस्य शवरसैन्यस्य भिल्लानीकस्य मध्ये च मातङ्गनामानं शवरसेनापतिमपश्यमित्यतिदूरेण सम्बन्धः। इह यानि द्वितीयान्तपदानि तानि शवर-सेनापतिविशेषणानीत्यवगन्तव्यानि। प्रथमे वार्धकापेक्षया पूर्वे वयसि अवस्थायां वर्त्तमानं स्थितं तरुण-मित्यर्थः। अतिकर्कशत्वात् अत्यन्तकठिनशरीरत्वात् आयसमयमिव लौहरचितमिव 'आयसं लौहमिति' भरतः। इह क्रियोत्प्रेक्षा।
एकेति। जन्मान्तरे अन्यजन्मनि आगतं प्राप्तम् एकलव्यं तन्नामकं द्रोणाचार्यशिष्यं शवरमिव धनुर्वेदे निपुणत्वादित्याशयः। इह द्रव्योत्प्रेक्षा।
अत्रेदमितिवृत्तम्-पुरा किलैकलव्यो धनुर्वेदं शिक्षितुं द्रोणाचार्यान्तिकमुपेत्याध्यापयितुं प्रार्थया-मास। किन्तु स हि पार्थप्रेम्णा तन्नाङ्गीचकार, ततो निराशया तमेव हृदि ध्यायन् मृन्मयीं तन्मूर्तिं विधाय स्वभवने प्रतिदिनमर्चयामास। ततश्च प्राप्तमनोरथो जन्मान्तरे तच्छिष्यत्वमुपगतवानिति महाभारतम्।
उद्भिदेति। उद्भिद्यमानानि उत्पद्यमानानि यानि श्मश्रूणि मुखलोमानि तेषां राजिः पङ्क्तिर्यस्य तस्य
साथ घूम रहा हो, अथवा निरन्तर तीखे बाणों की वर्षा करने वाले राक्ष खरदूषण के जिस सैन्य दल का विनाश कर डाला था वही मानो राम का अहित सोचने के कारण पिशाचों के रूप में प्रकट हो गया हो, अथवा कलियुग के भाई बन्धु इकट्ठा हो गये हों, अथवा जङ्गली भैसों का झुण्ड स्नान के लिये जा रहा हो, अथवा पहाड़ की चोटी पर खड़े सिंह के पञ्जों द्वारा खींच लेने से गिर कर बिखर जानेवाले प्रलयकालीन काले बादलों का समूह हो, अथवा सम्पूर्ण जङ्गली पशुओं का विनाश करने के लिये धूमकेतुओं का जमावड़ा लगा हो। प्रलयकालीन पिशाचों के समान दिखाई पड़नेवाले उस सैन्य-दल ने सारे जङ्गल को अन्धकारमय कर दिया था।
उस बहुत बड़ी सेना के बीच में मैंने भीलों के सेनापति को देखा। अभी उसकी आयु बिल्कुल नयी थी।
१. उपागतम् । २. कलिकालवर्गमिव समुद्गतम्...वर्गमिवैकत्र समागतम् । ३. अवगाहोदितमिव । ४. अचलशिखरस्यसिंह... । ५. विशीर्णमिव । ६. कालान्न...। ७. अन्धकारितकाननम् । ८. ...जननम् । ९. तस्य महतः । १०. आयसमिव । ११. जन्मान्तरगतम् ।
१२ का० कथा०
| ६० | कादम्बरी | [ कथामुखे- |
|---|
मान-गण्डभित्तिमिव गजयूथपतिकुमारं, असित-कुवलय-श्यामेन देहप्रभा-प्रवाहेण कालिन्दीजलेनेव पूरयन्तमरण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तल-भारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललाटम्, अतितुङ्ग-घोरघोणम्, उपनीतस्यैककर्णाभरणां भुजङ्गफणामणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासा-ल्लग्न-पल्लवरागेणेव वामपार्श्वेन विराजमानम्, अचिरै-हत-गज-कपोल-गृहीतेन, सप्तच्छद-परिमलवाहिना कृष्णागुरु-पङ्केनेव सुरभिणा मदेन कृताङ्गरागम्, उपरि तत्परिमलान्धेन
भावस्तया हेतुना, प्रथमया नूतनया मदलेखया श्यामलमहजलरेखया मण्ड्यमाने अलङ्क्रियमाणे गण्डभित्ती कपोलदेशौ यस्य तं तादृशम्, गजयूथपतेः हस्तिनायकस्य कुमारः त्रिंशद्वर्षीयकलभः तमिव । इहोपमा ।
मतीतेति । असितं नीलं यत् कुवलयम् उत्पलं तद्वत् श्यामेन कृष्णवर्णेन देहस्य शरीरस्य । प्रभा-प्रवाहेण द्युतिस्रोतसा कालिन्दी यमुना तस्या जलेन सलिलेनेव अरण्यं वनं पूरयन्तं पूर्ण विदधतम् । कालिन्दीजलं नीलं शवरशरीरकान्तिरपि तादृशी, अत उभयोः सादृश्यम् । इह यथाक्रमं लुप्तोपमा, द्रव्योत्प्रेक्षा तथा उक्तविधशरीरकान्तिप्रवाहेण वनपूरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्ति-रित्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः ।
आकुटिलेति । गजानां हस्तिनां व्यापादनलक्षणेन तन्मदेन दानजलेन मलिनीकृतेन कृष्णीकृतेन केसरकलापेन सटानिकरेण उपेतं सहितं केसरिणं सिंहमिव आकुटिलाग्रेण किञ्चित्कुञ्चिताग्रेण स्कन्धाव-लम्बिना बाहुमूलस्थितवता कुन्तलभारेण केशसमूहेन उपेतम् । इहोपमा ।
आयतेति । आयतं विस्तीर्णं ललाटं भालदेशो यस्य तं तथोक्तम्, अतितुङ्गा अत्युन्नता घोरा विशाल-लच्छिद्रतया भयङ्करी च घोणा नासिका यस्य तं तादृशम् । 'घोणा नासा च नासिका' इत्यमरः ।
उपनीतस्येति । एकस्य कर्णस्य श्रोत्रस्य आभरणताम् अलङ्करणताम् उपनीतस्य प्रापितस्य भूषण-तया सव्यश्रोत्रे स्थापितस्येत्यर्थः, भुजङ्गस्य उरगस्य फणामणेः फणास्थितरत्नस्य आपातलैः किञ्चिच्छ्वेत-रक्तैः अंशुभी रश्मिभिः आलोहितीकृतेन किञ्चिद्रक्तवर्णीकृतेन अत एव पर्णेषु वृक्षपत्रेषु यच्छयनं स्वापः तस्य अभ्यासात् पुनः पुनरनुष्ठानेन संस्कारातिशयात् लग्नः संसक्तः पल्लवानां किसलयानां राग आरुण्यं यत्र तेन तादृशेनेव, आस्तरणभूतपत्रेषु किसलयानामपि विद्यमानत्वादित्याशयः । वामपार्श्वेन सव्यपार्श्वेन विराजमानं द्योतमानम् । इह क्रियोत्प्रेक्षा ।
अचिरेति । अचिरहतस्य तत्कालमारितस्य गजस्य दन्तिनः कपोलाभ्यां गण्डाभ्यां गृहीतेन आनी-तेन, सप्तच्छदस्य सप्तपर्णतरोः परिमलं सौरभमिव परिमलं वहति धारयतीत्येवंशीलेन कृष्णस्य श्याम-वर्णस्य अगुरोः तत्संज्ञकसुगन्धिद्रव्यस्य पङ्केनेव द्रवेणेव सुरभिणा घ्राणतर्पणसौरभवता 'सुरभिघ्रण-तर्पणः' इत्यमरः, मदेन दानजलेन कृतो विहितः अङ्गरागः शरीरविलेपनं येन तं तादृशम् । इहोपमालुप्तो-पमयोः परस्परनैरपेक्ष्येण स्थितेः संसृष्टिरलङ्कारः ।
उपरीति । तस्य मदस्य यः परिमलः सौरभं तेन अन्धेन विह्वलेन, अत एव उपरि शिर ऊर्ध्वभागे
उसका शरीर इतना कठोर था मानो लोहे का बना हो। वह ऐसा प्रतीत होता था मानो दूसरा जन्म लेने वाला एकलव्य हो। अभी उसकी मसें भीन रही थीं जिससे वह ऐसा सुशोभित हो रहा था मानो पहली मद-रेखा से सुशोभित कपोलों वाला कोई गजपति-कुमार हो। उसके शरीर का रङ्ग नीले कमल के समान साँवला था जिससे निकल कर जङ्गल में चारों ओर फैलने वाली कान्ति की धारा यमुना जल की बाढ़ के समान प्रतीत होती थी। उसके कन्धों तक लटके हुए घुंघराले बाल गजमद से माँग कर काले बने सिंह के अयाल जैसे लगते थे। उसका माथा चौड़ा और नाक बड़ी तथा ऊँची थी। एक कान में पहिनी गयी नागमणि को लाल-लाल किरणों से उसका बाया अङ्ग रक्तवर्ण का हो गया था जिससे वह ऐसा प्रतीत होता था मानो पल्लवों की शय्या पर सोने से उसमें उनका लाल रङ्ग ही निचुड़ पड़ा हो। उसने अपने शरीर पर काले अगुरु के लेप के समान तत्काल ही के मारे हुये हाथी कपोलों के सुगन्धित मद का लेप किया था जिससे छितवन जैसी गन्ध उठ रही थी। उस गज-मद की सुगन्ध से विह्वल होकर उसके सिर पर मँडराने वाले मोरपङ्खों के छाते जैसे भौरों के झुण्ड ऐसे प्रतीत
१. ०कुमारम्। २. श्यामेन । ३. पूरिताण्यम् । ४. आयतललाटमासिनम् । ५. तुङ्गघोरघोणम् । ६. भुजङ्गफणामणेः, भुजगफणामणेः । ७. अचिराहत००० । ८. कृष्णागरु००० । ९. पतत्००० ।
शबरसेनापतिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६१
परिश्रमता मायूर-पिच्छातपत्रानुकारिणा मधुकराकुलेन तमाल-पल्लवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबलनिर्जितया भयप्रयुक्तसेवया विन्ध्याटव्येव करतलेनापमृज्य-मान-गण्डस्थल-स्वेदलेखम्, आपाटलया हरिणकुल-काल-रात्रि-सन्ध्यायमानया शोणितार्द्रे-येव दृष्ट्या रञ्जयन्तमिवाशाविभागान्, आजानुलम्बिना दिक्कुञ्जर-करप्रमाणमिव गृहीत्वा निर्मितेन चण्डिका-रुधिर-बलिप्रदानार्थमसकृन्निशितशस्त्रोल्लेख-विषमित-शिखरेण भुज-युगलेनोपशोभितम्, अन्तरान्तरा लग्नाश्वान-हरिण-रुधिरविन्दुना स्वेदजल-कणिको-चितेन गुञ्जाफलमिश्रैः करिकुम्भमुक्ताफलैरिव विरचिताभरणेन विन्ध्यशिलातल-विशालेन वक्षः-
परिश्रमता सञ्चरता, मायूरं मयूरसम्बन्धि यत् पिच्छं बर्हं तस्य आतपत्रं तद्रुचितच्छत्रम् अनुकर्तुं शील-मस्येति तेन तथोक्तेन मधुकरकुलेन भ्रमरगणेन तमालस्य तापिच्छस्य पल्लवेन किसलयेन इव निवारितः दूरीकृतः आतपः सूर्यरश्मिः यस्य तं तथोक्तम्। इहोपमाद्वयम्, एका आर्थी अपरा च श्रौती, अनयोश्च परस्परनिरपेक्षेण स्थित्या तिलतण्डुलवत् संसृष्टिरलङ्कारः।
आलोलेति। भुजबलेन शवरसेनाधिपतिबाहुबलेन निर्जितया स्वाधीनीकृतया, अत एव भयेन त्रासेन प्रयुक्ता आरब्धा सेवा शुश्रूषा यथा तथा तादृश्या विन्ध्याटव्या, विन्ध्यवनस्थल्या कर्या, आलोलाः पवनवेगेन सम्यक् चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन स्वीयवृक्षोत्पन्नकिसलयसञ्चालनकपटेने-त्यर्थः, करतलेन हस्तेनेव अपमृज्यमाना प्रोञ्छ्यमाना गण्डस्थलयोः कपोलस्थलयोः स्वेदलेखा घर्मबिन्द-पङ्क्तिः यस्य तं तादृशम्। इहापह्रवोत्रेक्षा।
आपाटलयेति। आपाटलया ईषच्छ्वेतततया, अत एव हरिणकुलस्य मृगवृन्दस्य कालरात्रेः विनाश-यामिय्याः सन्ध्यायमानया अरुणरश्मिलोहिनीकृतसायंकालवदाचरन्त्यातयाविधदृष्टिनिक्षेपेणैव निरूप्य मृगविनाशादित्याशयः, शोणितार्द्रयेव रुधिरलिप्तयेव दृष्ट्या नेत्रेण आशाविभागान् दिग्त्रिभागान् रञ्जयन्तं रक्तवर्णोत्पादनात् शोभयन्तमिव विद्यमानम्। इह सन्ध्यायमानयेत्यत्र व्यङ्गतोपमा, शोणितार्द्रयेवेत्यत्र गुणोत्प्रेक्षा, रञ्जयन्तमिवेत्यत्र क्रियोत्प्रेक्षा चेति परस्परमेषामङ्गाङ्गिभावेन सङ्करात् सङ्करालङ्कारः।
आजान्विति। आजानुलम्बिना नलकीलपर्यन्तपातिना अतिदीर्घेण, दिक्कुञ्जरस्य ऐरावताद्यन्यतम-दिग्गजस्य करप्रमाणं शुण्डापरिमाणं गृहीत्वेव आदायैव निर्मितेन प्रजापतिरचितेन दिग्गजशुण्डादण्ड-सदृशायितेनेत्यर्थः। चण्डिकायै कालिकायै रुधिरबलेः शोणितोपहारस्य प्रदानायं समर्पणार्थं पशुकर्त्तनार्थ-मित्याशयः, असकृत् मुहुर्मुहुः निशितानि सुधारोपादनाय प्रस्तरादौ तेजितानि यानि शस्त्राणि खड्गा दीनि तेषाम् उल्लेखेन घर्षणेन विषमितम् उद्भावचीकृतं शिखरम् अग्रदेशो यस्य तेन तादृशेन । इह गृहीत्वेवेति क्रियोत्प्रेक्षा।
अन्तरेति। अन्तरान्तरा मध्ये मध्ये लग्ना संलग्ना आश्व्याना आशुष्का हरिणस्य मृगस्य रुधिर-विन्दवः शोणितकणा यस्मिन् तेन तथोक्तेन, स्वेदजलं घर्मजलं तस्य कणिका विन्दवः ताभिः चितेन व्याप्तेन अत एव गुञ्जाफलैः क्रुन्दालस्रैः 'काकचिञ्चागुञ्जे तु कृष्णला' इत्यमरः, मिश्रानि संयुतानि तैः तथोक्तैः,
दो रहे थे मानो वह तमाल के पत्ता से धूप रोक रहा हो। इसके कानों में लगी हुई वायु से हिलनेवाली कोंपलें कपोलों पर बहते हुए पसीने को पोंछ दिया करतीं थी मानों उसके बाहुबल में पराधीन होकर भयवश सेवा के लिए लाई हुई स्वयं विन्ध्याटवी अपने हाथों से पसीना पोंछ रही हो। उसकी खून से तर जैसी लाल-लाल दृष्टि से दिशायें भी लाल हो उठी थी मानो हरिणों की कालरात्रि की संध्या फूट उठी हो। घुटनों तक लटकती हुई उसकी बाहें ऐसी प्रतीत होती थी मानो दिग्गजों की सूँढ़ की माप लेकर बनायी गयी हों और उसकी हथेलियाँ भगवती चण्डिका को रक्त की बलि देने के लिए हथियारों पर सान चढ़ाते-चढ़ाते अत्यन्त कठोर हो गयी थीं। उसकी विन्ध्य पहाड़ की चट्टान जैसी चौड़ी छाती पर हरिणों के खून के जमे हुए गाढ़े छीटों में ढलती हुई पसीने की बूंदियाँ ऐसी सुशोभित हो रही थीं मानो गुँदचों के लाल-लाल दानों के साथ पिरोई गयी मोतियों की माला
१. भ्रमता। २. मायूरपिच्छातपानुकारिणा, मयूरपिच्छातपस्यानुकारिणा, मयूरपिच्छच्छत्रानुकारिणा।
३. आलोलकर्णपल्लवव्याजेन। ४. ०००हस्तिलेखम्। ५. मृगकुलह्वदराति०००। ६. रञ्जयन्तमाशाविभागान्।
७. नतुलम्बेन। ८. वनकुञ्जर, कुञ्जर०००। ९. कालिका। १०. प्रदानाय। ११. अन्तरान्तरा०००। १२. कण०००।
१३. विमिश्रैः। १४. रचिताभरणेन। १५. विन्ध्यशिलाविशालतेन। १६. वक्षस्थलमेन, वक्षःस्थलेन।
६२ कादम्बरी- [ कथामुखे-
स्थलेनोद्भासमानम् , अविरत-श्रमाभ्यासादुल्लिखितोदरम् , इभ-मद-मलिनमालान-स्तम्भ-युगलमुपहसन्तमिवोरुदण्डद्वयेन लाक्षा-लोहित-कौशेयपरिधानम् , अकारणेऽपि क्रूरजातितया बद्धत्रिपताकोदग्रभ्रुकुटीकराले ललाटपट्टे प्रबलभक्त्याराधितया 'मत्परिग्रहोऽयम्'इति कात्यायन्या त्रिशूलेनेवाङ्कितम् , उपजातपरिचयैरनुगच्छद्भिः , श्रमवशात् दूरविनिर्गताभिः स्वभाव-पाटलतया शुष्काभिरपि हरिण-शोणितमिव क्षरन्तीभिर्जिह्वाभिरावैद्यमानखेदैः
करिकुम्भमुक्ताफलैः गजशिरःपिण्डरसोद्भवैः विरचितं निर्मितम् आभरणं भूषणं यस्य तेन तादृशेन विद्यमानेन । इह च हरिणरुधिरविन्दवो गुञ्जाफलसदृशाः घर्मविन्दवश्च करिकुम्भमुक्ताफलसदृशा इत्यवधेयम् । विन्ध्यस्य धात्वाद्यजपर्वतस्य शिलातलवत् विशालप्रस्तरतलवत् विशालेन पृथुलेन वक्षःस्थलेन उरःस्थलेन उद्भासमानं शोभमानम् । इह विरचिताभरणेनेवेत्यत्र क्रियोत्प्रेक्षा, विन्ध्यशिलातलविशालेनेत्यत्र लुप्तोपमा चेत्युभयोः परस्परं नैरपेक्ष्येण संसृष्टिरलङ्कार ।
अविरतेति । अविरतो दिने निरन्तरं यः श्रमः शक्त्यतिशयार्थं परिश्रमः तस्य अभ्यासात् पुनः पुनरनुष्ठानेन संस्कारातिशयात् उल्लिखितं कृशत्वेन चिह्नितम् उदरं जठरं यस्य तं तथोक्तम् ।
इभमदेति । ऊर्वोः जङ्घयोर्यद्दण्डद्वयं दण्डयुगलं तेन, इभमदेन गजदानवारिणा मलिनं श्यामवर्णम् आलामस्तम्भयुगलं राजबन्धस्तम्भद्वन्द्वम् उपहसन्तमिव पृथुलतायां तिरस्कुर्वन्तमिव गजबन्धनस्तम्भद्वयादुरुद्वयस्य पृथुलत्वादित्याशयः । इभमदमलिनमिति विशेषणोपादानं प्राकृतिकश्यामवर्णस्य ऊरुदण्डयुगलस्य आलामस्तम्भेन सह सादृश्यववोधनार्थमिति बोध्यम् । इह उपहसन्तमिवेति क्रियोत्प्रेक्षा, आक्षेपेण आर्थी उपमा चेति द्वयोरेकाश्रयानुप्रवेशरूपः सङ्करालङ्कारः ।
लाक्षेति । लाक्षया जतुना लोहितं रक्तवर्णीकृतं कौशेयं कीटकोशोत्पन्नं क्षौमवसनं परिधानम् अधोंऽशुकं यस्य तं तादृशम् ।
अकारणेऽपीति । अकारणेऽपि कोपसूचकभ्रुकुटीविधानहेत्वभावेऽपि क्रूरजातितया प्रकृत्यैव दुष्टजातितया कारणेन, बद्धाः विहिताः त्रिपताकाः पताकावत् त्रिशूलिर्यया तथा उदग्रया उन्नतया भुकुट्या भ्रुवोः वक्रिम्णा करालं भीषणं तस्मिन् तथोक्ते, ललाटपट्टे पट्टवद्विपुले भालदेशे, प्रबलभक्त्या अत्युत्कृष्टप्रेम्णा आराधितया सेवितया कात्यायन्या गौर्या 'उमा कात्यायनी गौरी' इत्यमरः, 'अयं मातङ्गः मत्परिग्रहः मदीयकृपापात्रम्' इति कृत्वा त्रिशूलेन स्वकीयत्रिशूलाख्यास्त्रविशेषेण अङ्कितमिव चिह्नितमिव, एवञ्च सति भगवत्यनुग्रहपात्रत्वेन देवादयोऽप्ययं संस्कुर्युरित्याशयः । अन्यत्रापि यः कोऽपि समर्थो राजादिः स्वसेवकाय स्वीयत्ववोधनार्थं स्वाङ्कीतं वस्तु प्रयच्छतीति सम्प्रदायः । इह अङ्कितमिवेति क्रियोत्प्रेक्षा ।
उपजातेति । अत्र पुंल्लिङ्गतृतीयान्तविशेषणानि श्वभिरिति वक्ष्यमाणकर्तृपदस्य, अस्य चान्वयः अनुगम्यमानमित्यग्रिमक्रिययेति ज्ञेयः । उपजातपरिचयैः समुत्पन्नसादृश्यैः एकस्मिन् स्थले बहुकालं वर्त्तनादित्याशयः । अनुगच्छद्भिः पश्चाद्गामिभिः । न चानुगम्यमानमिति वक्ष्यमाणक्रिययैवान्वये पुनरुतस्याः पौनरुक्त्यमिति वाच्यम् , उक्तदिशा समाहितत्वात् ।
श्रमवशादिति । श्रमवशात् मार्गव्रजनादिखेदवशात् दूरविनिर्गताभिः वदनादत्यन्तं बहिर्निःसृताभिः स्वभावपाटलतया जातिस्वभावेन श्वेतरक्ततया शुष्काभिरपि निर्लेपाभिरपि हरिणशोणितं मृगरुधिरं क्षरन्ति
हो। निरन्तर व्यायाम के कारण उसकी पेटी मंज उठी थी मानो खराद पर चढ़ायी गई हों । उसकी मोटी-मोटी दोनों जांघे गजमद से काले पड़े हुए हाथी बाँधने के दो खम्भों की हाँसी-सी उड़ा रही थीं। वह लाक्षा-रस में रङ्गे हुए लाल रेशमी वस्त्र पहिने हुए था । कोई अन्य कारण न होते हुए भी केवल जातिगत क्रूरता के कारण अत्यन्त भयङ्कर दिखाई देने वाले उसके ललाट पर टेढ़ी भौंहों के बीच में स्थित त्रिपताका ऐसी प्रतीत होती थी मानो अत्यन्त भक्ति के साथ अराधना की गयी भगवती दुर्गा ने उसे अपना कृपापात्र समझकर त्रिशूल से दाग दिया हो । उसके साथ-साथ अनेक रङ्ग के शिकारी कुत्ते थे जो इतने परचे हुए थे कि संकेतों पर पीछे-पीछे चले आ रहे थे । उनकी लाल-लाल जिह्वायें परिश्रम के कारण पूरी की पूरी मुँह के बाहर लटक रही थीं जो
१. उल्लिखिताम्बरम् । २. क्रूरताया । ३. बद्धत्रिपताकाभ्रुकुटिकराले । ४. ललाटफलक । ५. दरविनिर्गताभिः ।
शबरसेनापतिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६३
विवृतमुखतया स्पष्ट-दृष्ट¹-दन्तांशून् दंष्ट्रान्तराल-लग्न-केसरिसर्टानिव सृक्कभागानुद्वहद्भिः, स्थूल-वराटक-मालिका-परिंगत-कण्ठैर्महावराह-प्रहारजर्जरैः अल्पकायैरपि महाशक्तित्वादनुपजात-केसरैरिव केसरिकिशोरकैः- मृगवधू-वैधव्यै-दीक्षादान-दक्षैरनेकवर्णैः श्वभिः, अति-प्रमाणाभिश्च केसरिणामभयप्रदान-याचनार्थमागाताभिः सिंहिभिरिव कौलेयककुटुम्बिनीभि-रनुगम्यमानम्, कैश्चिद्गृहीत-चमर-वालगजदन्तभारैः, कैश्चिदच्छिद्र-पर्ण-बद्ध-मधुपटैः कैश्चिन्मृगपतिभिरिव गर्ज-कुम्भ-मुक्ताफलनिकर-सनाथ-पाणिभिः, कैश्चियातुधानैरिव गृहीत-
मिरिव स्रवन्तीभिरिव जिह्वाभिः रसनाभिः आवेद्यमानः परेभ्यो घोष्यमानः खेदक्लान्तिः यैः तैः तादृशैः। क्षरन्तीभिरिति क्रियोत्प्रेक्षा।
विवृतेति। विवृतमुखतया विदीर्णवदनतया कारणेन, स्पष्टं स्फुटं यथा स्यात्तथा दृष्टा अवलोकिता दन्तांशवः दशनकिरणा येषु तान् तादृशान्, अत एव दंष्ट्राणां दशनानाम् अन्तरालेषु मध्येषु लग्नाः संसक्ताः केसरिणां हिंसितसिंहानां सटा स्कन्धजटा येषु तान् तादृशानिव, सृक्कभागान् ओष्ठप्रान्तान् 'दन्त-वक्त्रं च तत्प्रान्तौ सृक्कणी' इति कोशः, उद्वहद्भिः धारणं कुर्वद्भिः। इहाप्युत्प्रेक्षालङ्कारः।
स्थूलेति। स्थूलानां पीवराणां वराटकानां कपर्दकानां मालिकाभिः स्रग्भिः परिगताः सहिताः कण्ठा-गलप्रदेशा येषां तैः तादृशैः। महावराहाणां वनशूकराणां प्रहारेण दन्ताभिघातेन जर्जराः शिथिलाङ्गा येषां तैस्तादृशैः।
अल्पकायैरिति। अल्पकायैरपि क्षुद्रशरीरैरपि महाशक्तित्वात् प्रबलपराक्रमत्वात् अनुपजातकेसरैः अनुत्पन्नस्कन्धसटैः केसरिकिशोरकैः सिंहशिशुभिरिव। अत्रोपमा।
मृगवध्विति। मृगवधूनां हरिणीनां वैधव्यदीक्षादाने विगतस्वामिकत्वव्रतविधाने दक्षाः कुशलाः तैः तादृशैः मृगविनाशोद्यन्तादत्तैरित्यर्थः। अनेके बहवो वर्णा रक्तपीतादयो येषु तैः तादृशैः श्वभिः सारमेयैः।
अतीति। अतिप्रमाणाभिः विस्तृतदेहाभिः, केसरिणां सिंहानां यत् अभयप्रदानं जीवरक्षणं तस्य याचनार्थं हस्तिनिकटे प्रार्थनार्थम् आगताभिः प्राप्ताभिः सिंहिभिरिव सिंहपत्नीभिरिव कौलेयककुटुम्बि-नीभिः सारमेय (कुक्कुर)भार्याभिश्च अनुगम्यमानम् अनुव्रज्यमानम्। इह सिंहिभिरिवेति जात्युत्प्रेक्षा।
कैश्चिदिति। इत आरभ्य तृतीयान्तानि शबरवृन्दैरित्यस्य विशेषणानि उक्तविशेष्यस्य च परिवृत-मित्यग्रिमक्रियायान्वयः। गृहीता आत्ताः चमराणां चमरहरिणानां बालाः पुच्छकेशाः गजदन्तानां हस्ति-दशनानां भाराः समुदायाश्च यैस्तैस्तादृशैः।
कैश्चिदिति। अच्छिद्रपर्णैः रन्ध्ररहिततरुदलैः बद्धानि मधुपूटानि मधुस्थापनार्थं सम्पुटकानी यस्तै-स्तादृशैः तदादायिभिरित्यर्थः।
कैश्चिदिति। मृगपतिभिरिव केसरिभिरिव गजकुम्भानां हस्तिशिरः पिण्डानां मुक्ताफलानि मौक्ति-कानि तेषां निकरेण वृन्देन सनाथाः संयुक्ता पाणयो हस्ता येषां तैः तादृशैः। इह पूर्णोपमा अभङ्गरश्लेषश्च, अनयोश्चैकाश्रयानुप्रवेशरूपः सङ्करः।
कैश्चिदिति। यातुधानैरिव राक्षसरिव 'राक्षसो यातुधाने स्यात्' इति रामाध्रग्यम्। गृहीतो धतः
मुखी होने पर भी मानों हरिणों के रक्त जैसी बूँदों टपका टपका कर थकान प्रकट कर रही थीं। मुँह खुला होने के कारण स्पष्ट दिखाई पड़नेवाले उनके दाँतों की किरणें उनके मुँह के दोनों कानों पर ऐसी प्रतीत हो रही थी मानो सिंह के दाढ़ों में फँसी हुई उसकी अयाल हो। उनके गलों में बड़ी-बड़ी कौड़ियों की कंठियाँ बँधी हुई थीं। उनका शरीर जङ्गली सूअरों के आघातों से चोटिला हो गया था। यद्यपि वे कद में छोटे थे किन्तु अत्यन्त शक्ति-शाली होने के कारण अयालरहित सिंहों जैसे प्रतीत होते थे और वे बेचारी हरिणियों को वैधव्य की दीक्षा देने में बड़े ही पटु थे अर्थात् हरिनी के शिकार में सधे हुये थे। उनके पीछे पीछे ऊँचे कद वाली कुत्तियों का भी झुण्ड चल रहा था। वह ऐसी प्रतीत होती थीं मानों सिंहिनियाँ सिंहों के प्राणों की भीख माँगने आई हों। वह सेनापति अनेक दलों के भीलों से घिरा हुआ था। उनमें से कुछ हाथों में चमर मृग के बाल हाथीदाँत
१. ०००दन्तांशून् । २. दन्तान्तराल००० । ३. ०००सटानिव । ४. किशोरैः । ५. वैधव्यदानदक्षैः । ६. कौलेय, कौलेटेय । ७. आगुदीत००० । ८. विनिप्रगञ्जः००० ।
| ६४ | कादम्बरी— | [ कथामुखे- |
|---|
पिशितभारैः१, कैश्चित् प्रमथैरिव केसरिकृत्तिधारिभिः, कैश्चित् क्षपणकैरिव मयूरपिच्छवाहिभिः२, कैश्चिच्छिशुभिरिव काकपचधरैः, कैश्चित् कृष्णचरितमिव दर्शयद्भिः, समुत्खात-विधृत-गजदन्तैः, कैश्चिज्जलदागमदिवसैरिव जलधरच्छाया-मलिनैराम्बरैः३, अनेकवृत्तान्तैः शबरवृन्दैः, परिवृतम्, अरण्यमिव सखङ्गधेनुकम् , अभिनव-जलधरमिव मयूर-पिच्छ-चित्र-चापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम् , अरुणानुजमिवोद्धृतानेकमहानाग-दशनम् ,
पिशितस्य मांसस्य भारः समूहो यैस्तैस्तादृशैः। उक्तोऽलङ्कारः।
कैश्चिदिति। प्रमथैरिव शिवपारिषदैरिव 'प्रमथाः स्युः पारिषदाः' इत्यमरः, केसरिणां सिंहानां कृत्तयश्चर्माणि हस्ते परिधाने च धरन्तीत्येवंशीलैः। इहाप्युक्तोऽलङ्कारः। अत्र च 'केसरिकृत्तिधारिभिः' इत्यत्र केसरिपदस्थाने व्याघ्रपदं निवेशनीयम्, प्रमथानां व्याघ्रकृत्तिधारित्वस्यैव प्रसिद्धत्वात्, अत एव च नात्र ख्यातिविरुद्धत्वदोष इति विचारणीयम्।
कैश्चिदिति। क्षपणकैरिव दिगम्बरैः संन्यासिभिरिव, मयूराणां बर्हिणां 'मयूरो बर्हिणो बहीं' इत्यमरः, पिच्छानि छदानि वहन्तीत्येवंशीलैः, दिगम्बराणां तद्धारणव्यवहारात् शवराणांस्तु तदेकत्रीकरणप्रहित्वा दिव्याशयः। उक्तोऽलङ्कारः।
कैश्चिदिति। शिशुभिरिव शावकैरिव, काकानां सकृत्प्रणानां पक्षान् छदान्, काकपत्तान् शिखण्ड-कांश्च धरन्तीत्येवंशीलैः 'काकपत्तः शिखण्डकः' इत्यमरः। शैशवे शिशूनां शिखण्डकधरणव्यवहारात् शबराणाञ्च तदा व्यापादितकाकपक्षादिस्थापनव्ययोः सादृश्यम्। उक्तोऽलङ्कारः।
कैश्चिदिति। समुत्खाताः प्रथमं सम्यक्प्रकारेणोत्पाटिताः विघृताः पश्चाच्च गृहीता गजदन्ता यैस्तैः तादृशैः गजदन्तान्मुखाय धारयद्भिरित्यर्थः, अत एव कृष्णचरितं वासुदेवस्य व्यवहारं दर्शयद्भिरिव प्रकाश-यद्भिरिव। अत्र क्रियोत्प्रेक्षा।
श्रीकृष्णो हि स्वव्यापादनया कंसाज्ञापितहस्तिपकव्यापारितं कुवलयापीडाभिधानं करिणं विजित्य तद्दन्तमुत्पाट्य च जग्राह' अनन्तरञ्च स्वयमेव तं गजं हस्तिपकञ्च निहतवानिति भागवतीया कथा।
कैश्चिदिति। जलदस्य वारिदस्य आगम उत्पत्तिर्येषु एवंभूतः दिवसैर्दिनैरिव, जलधरच्छायया मलिनम् अम्बरं गगनं येषु तैः। उपमालङ्कारः।
अनेकेति। अनेके बहुप्रकारा वृत्तान्ता आचरणानि येषां तै तादृशौः, शवरवृन्दैः भिल्लगणैः परिवृतं परिवेष्टितम्।
अरण्यमिति। अरण्यं काननं तद्वदिव खड्गधेनुका छुरिका तया सहेति तं तादृशम्, पक्षे खड्गैः गण्डकैः धेनुकाभिः अरण्यकरिणीभिश्च सहेति तत् तादृशम्। उपमालङ्कारः 'छुरिका चासिधेनुका' 'धेनुका नु करेण्वान्य' इति चामरः।
अभिनवेति। अभिनवो नूतनो यो जलधरो मेघस्तमिव, मयूराणां बर्हिणां पिच्छानि छदाः तद्वत् चित्रम् अनेकविधवर्णं चापं धनुः इन्द्रधनुश्च धारयितुं शीलं यस्य तं तादृशम्। उपमालङ्कारः।
बकराक्षसमिति बकः तत्संज्ञको यो राक्षसः असुरः तमिव, गृहीतं घृतम् एकम् अद्वितीयं चक्रम्
लटकाये हुये थे, कुछ भीलों ने शहद के छत्तों को घने पत्तों में लपेट कर हाथों में लटका लिया था, कुछ की मुट्ठियाँ सिंह के पञ्जों की तरह गजमोती से भरी हुई थी; कुछ राक्षसों की तरह मांस का बोझ लादे हुये थे, कुछ शङ्करजी के गणों के समान बाघम्बर लपेटे हुये थे, कुछ क्षपणको की तरह अपने हाथों में मोरपङ्ख लिये हुये थे, कुछ बालों में कौओं के पङ्ख खोंसने के कारण काकपक्षधारी बालकों जैसे लग रहे थे, कुछ हाथी के दाँत उखाड़ कर हाथों में लटकाये हुये चल रहे थे मानो कुवलयापीड़ का वध करने वाले भगवान् कृष्ण का अनुकरण कर रहे हों और कुछ मटमैले कपड़ों को पहिने हुये ऐसे प्रतीत होते थे मानो काले-काले बादलों की छाया से मैले आकाश वाले वर्षा के धुँधले दिन हो। वह सेनापति कमर की पेटी में कटारी खोंसे था मानों गैंडों और हथिनियों से भरा साक्षात् जङ्गल हो, वह मोर के पङ्खों से सजा हुआ धनुष लिये था मानो इन्द्रधनुष से सुशोभित नवीन साँवला बादल हो, वह एक हाथ में एक चक्र लिये था मानो एकचक्रा नगरी को धारण करने वाला बकासुर हो, वह अनेक बड़े-बड़े जङ्गली हाथियों के दाँत उखाड़ चुका था मानो अनेक साँपों के दाँत तोड़ने
१. ॰॰॰पिशिताहारैः। २. ॰॰॰धारिभिः । ३. मलिनैरम्बरैः ।
शबरसेनापतिवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ६५
भीष्ममिव शिखण्डि-शत्रुम् , निदाघदिवसमिव सतताविर्भूत-मृगतृष्णम् , विद्याधरमिव मानस-वेगम् , पराशरमिव¹ योजनगन्धानुसारिणम् , घटोत्कचमिव भीमरूपधारिणम् , अचलराज-कन्यका-केशपाशमिव नीलकण्ठ-चन्द्रकाभरणम् , हिरण्याक्ष-दानवमिव² महावराह-दंष्ट्रा-
अस्त्रविशेषो येन तम्, अन्यत्र तु गृहीता निवासाय स्वाधीनीकृता एकचक्रा तत्संज्ञका पुरी येन तं तादृशम्। उपमालङ्कारः।
पुरा किल एकचक्राख्यायां नगर्यां बकाभिधानोऽसुरः नरसंहारेणायुपद्रवं कृतवान्। ततस्तन्नत्यो राजा प्रतिदिनमेकैकं नरं तद्भोजनाय प्रेष्य तस्मादनर्थाल्लोकान् रक्षयामास। कस्मिंश्चित्समये दह्यमान-लाक्षाभवनेतः पलायितानां पाण्डवादीनामाश्चयदातृविप्रस्यावसरः समापन्नः। पारिवारिकस्थित्यातिव्यग्रं तं समीक्ष्य कुन्ती निजमेकमात्मजं तत्र प्रेषयितुं स्वीकृत्य तद्भोजनाय भीमसेनं प्रेषितवती। स च तत्रोपेत्य तं व्युत्पादितवानिति माहाभारतीया कथा।
अरुणेति। अरुणानुजो गरुडः तमिव, उद्घृता उत्खाता अनेकेषां महानागानाम् अनेकपृथुलगजानां दशना दन्ता येन तं तादृशम्, पक्षे उद्धृतान् खातान्निःसारितान् अनेकान् बहून् महानागान् विशालसर्पान् दशति चञ्चुपुटेन सन्दश्य भक्षयतीति तं तादृशम्। उक्तालङ्कारः।
भीष्ममिति। भीष्मो गाङ्गेयः तमिव, शिखण्डिनां मयूराणां शत्रुं बहोः कालेन व्यापादयितारम्, पक्षे शिखण्डिनः तत्संज्ञकपाण्डवपक्षीयद्रुपदात्मजस्य शत्रुं चिररिपुम्। उक्तालङ्कारः।
पुरा किला अम्बालिका काशिराजसुता स्वविवाहस्य भीष्मपितामहमेव वव्रे किन्तु तत्प्रत्याख्याता सती तत्प्राणनाशार्थमेव स्वप्राणान् त्यक्त्वा द्रुपदराजसुता संजाता, अनन्तरञ्च गन्धर्वस्य पुंस्त्वं जग्राह ततः शिखण्डीतिसंज्ञकेन लोके प्रसिद्धा आसीदिति संक्षिप्ता महाभारतीया कथा।
निदाघेति। निदाघो ग्रीष्मकालः तमिव, सततं निरन्तरम् आविर्भूता वनात् प्रकटीभूता मृगेषु हरिणेषु तद्धननेच्छेत्यर्थः, तृष्णा अभिलाषो यस्य तं तादृशम्, पक्षे सततमाविर्भूता मृगतृष्णा मरीचिका दिनकररश्मिषु सलिलभ्रमो यस्मिन् तं तादृशम्।
विद्येति। विद्याधरो देवयोनिविशेषः तमिव, मानेन शक्त्यहङ्कारेण मनोवद्वा सवेगं सर्वदा तीव्रगति-मन्तम्, अन्यत्र मानसे मानसामिधाने सरसि वेगो मज्जनादिनिमित्तं वेगेन गमनं यस्य तं तादृशम्। मानस-वेगाख्यो गन्धर्वः कश्चिद्भवेदिति तु न शङ्कनीया तथा सति पदावृत्तप्रसङ्गात्।
पराशरमिति। पराशरो व्यासपिता तमिव, योजनं चतुष्क्रोशन्यापि ‘योजनं परमात्मनि। चतुष्क्रोशां च योगे च' इति मेदिनी, गन्धः सौरभोऽस्यास्तीति योजनगन्धः कस्तूरीमृगः, अर्श आदित्वादच् प्रत्ययः, अन्यत्र=योजनगन्धां तन्नामिकां वृषलकन्यामनुसरतीत्येवं शीलम्। ‘व्यासमातरि। कस्तूरी-शीतयोश्च' इति भानुचन्द्रधृतकोशः। उक्तालङ्कारः।
कदाचित् पराशरो हि सर्वयोगसमन्वितं पुत्रोत्पादनसमयं यावद्विचारयति तावत् काञ्चिदतिसुन्दरीं धीवरतनयां सत्यवतीनाम्नीं ददर्श, दृष्ट्वा च जातस्मरतया रिरंसया कुहकं निर्माय मैथुनायोपचक्रमे इति माहाभारतीया कथा।
घटेति। घटोत्कचः हिडम्बायां भीमसेनादुत्पन्नोऽसुरः तमिव, भीमं भीषणम्, अन्यत्र आत्मा एव वीर्यरूपेण स्त्रीयोनौ प्रविशतीति सिद्धान्तात् भीमं भीमसेनेनतुल्यं रूपम् आकृतिं धारयितुं शीलं यस्य तं तादृशम्। ‘सत्या भामा' इतिवद् भीमेति नामैकदेशे नामग्रहणम्। उक्तालङ्कारः।
अचलेति। अचलराजः पर्वताधिपतिर्हिमालयः तस्य कन्यका पार्वती तस्याः केशपाशः कचसमूहः
वाला गरुड हो, वह मोरों का शत्रु था मानो शिखण्डी का शत्रु भीष्म हो, उसमें मृगों के मारने की अभिलाषा निरन्तर उठती रहती थी मानों मृगमरीचिका से परिपूर्ण ग्रीष्म ऋतु का दिन हो, वह अहङ्कार के वेग में चूर था मानो मानस सरोवर की ओर वेग से जाने वाला कोई विद्याधर हो, वह योजनगन्धा का अनुसरण करने वाले पराशरमुनि के समान कोसों तक गन्ध मारने वाली कस्तूरी का पीछा करने वाला था, भीम रूपधारी घटोत्कच के समान उसकी आकृति अत्यन्त विशाल और भयङ्कर थी, भगवान् शङ्कर को चन्द्रकला से विभूषित भगवती पार्वती के दायों के समान वह भी मोर-चन्द्रिकाओं से सुशोभित था, महावराह की दाढ़ों से पाण्ड
१. पाराशरमिव ।
२. हिरण्याक्षं··· ।
६६ | कादम्बरी- | [ कथामुखे-
विभिन्न-वक्षःस्थलम्, अतिरागिणमिव कृत-बहु-बन्दी-परिग्रहम्, पिशिताशनमिव रक्त-लुब्धकम्, गीतकलाविलासमिव निषादानुगतम्, अम्बिका-त्रिशूलमिव महिष-रुधिरार्द्र-कायम्, अभिनवयौवनमपि क्षपित-बहुवयसम्, कृत-सारमेय-संग्रहमपि फलमूलाशनम्,
तमिव, नीलकण्ठानां मयूराणां चन्द्रका मेचका एव आभरणानि अलङ्कारा यस्य तं तादृशम्, 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः; 'बर्हिकण्ठसमं वर्णं मेचकं ब्रुवते बुधाः' इति काव्यः; पक्षे— नीलकण्ठस्य शङ्करस्य चन्द्र एव चन्द्रकः भालस्थः शशी एव आभरणं भूषणं यस्य तं तादृशम्, भगवतो-ऽर्द्धनारीश्वररूपत्वेनैकस्य मूर्द्ध्नः चन्द्रभूषणेनेव द्वयोरपि मूर्द्ध्नस्तद्भूषणत्वमित्याशयः । उक्तालंकारः ।
हिरण्याक्षेति । हिरण्याक्षस्तदाख्यो हिरण्यकशिपुसंसंज्ञकभ्राता दानवो दैत्यः तमिव, महावराह्रैः विशालशूकरैः दंष्ट्राभिर्दशनैः करणैः विभिन्नं विहितक्षतं वक्षःस्थलं भुजान्तरं यस्य तं तादृशम्, पक्षे— महावराहेण भगवतो विष्णोर्दशावतारेषु शूकररूपतृतीयावतारेण दंष्ट्रया दन्तेन विभिन्नं विदारितं वक्षः-स्थलं यस्य तं तथोक्तम् । उक्तालंकारः ।
अत्रायमितिहासः—पुरा किल हिरण्याक्षो महासुरो लोकान् संक्षोभयन् प्रतिदिनमस्वास्थ्यं चक्रे, अत्युग्रतपःशालित्वेन भुवं सलिले मज्जयामास । अथ भगवाञ्च्छारयणस्तेषां रिरक्षयिषया शूकररूपमास्थाय सागराद्भुवमुद्धृत्य पर्वतकन्दरायां वर्तमान आसीत्, अनन्तरञ्च मृगयार्थं व्रजता हिरण्याक्षेणावलोकितं गदामादाय ताडितवान्, अथ च दंष्ट्रया तद्वक्षो विदारयित्वा निजघानेति ।
अतिरागिणमिति । अतिरागिणम् अत्यन्तविषयाधीनम् अर्थपतिमिव, कृतो विहितो बहूनाम् अनेकानां बन्दीनां हठादपहृतवधूनां परिग्रहः स्त्रीत्वेन स्वीकारो येन तं तादृशम्, पक्षान्तरे तु-कृतो बहूनां वन्दिनां मङ्गलपाठकानां परिग्रहः एकत्रीकरणं येन तं तादृशम् । उक्तालंकारः ।
पिशितेति । पिशिताशनो मांसभक्षकः तामिव, रक्तं अनुरक्ता लुब्धका व्याधा यत्र तं तादृशम्, पक्षान्तरे तु रक्ते शोणिते लुब्धकं साभिलाषम् । उक्तालंकारः ।
गीतेति । गीतकला गानविद्या तस्या विलासं व्यापारमिव, निषादैः अन्त्यजैः अनुगतम् अनुस्यूतम्, पक्षे-निषादस्तन्त्रीकण्ठोद्भवः स्वरः 'निषादर्षभ गान्धाराः, इत्यादिप्रसिद्धः, तेन अनुगतं सहितम् । उक्तालंकारः ।
अम्बिकेति । अम्बिकायाः चण्डिकायाः 'मृडानी चण्डिकाम्बिका' इत्यमरः, त्रिशूलं शस्त्रविशेषः तमिव, महिषाणां सौरिभाणां तदाख्यासुरस्य च रुधिरेण शोणितेन आर्द्रः क्लिन्नः कायः शरीरं यस्य तं तादृशम् । उक्तालंकारः ।
अमोति । अभिनवं नूतनं मनोहारि वा यौवनं तारुण्यं यस्य एतादृशमपि क्षपितानि व्यतीतानि बहूनि नानाविधानि वयांसि शैशवादीनि येन तं तादृशमिति विरोधः क्षपितानि व्यापादितानि बहूनि वयांसि पक्षिणो येन तं तादृशमिति तत्साधनम् । 'खगवात्यादिनोर्वयः' इत्यमरः । अत्र विरोधाभासो-ऽलङ्कारः, तथा च दर्पणे—
जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः । क्रिया क्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ॥
विरुद्धमिव भासेत विरोधोऽसौ, .......... ।
कृतेति । कृतो विहितः साराणां धनानां मेयानां परिमातुं योग्यानां शस्यादीनां च संग्रहः एकत्री-
हिरण्याक्ष राक्षस की छाती के समान उसकी भी छाती जङ्गली सूअरों की दाढ़ों के आघात से चोटीलो हो गयी थी, जैसे यश के अत्यन्त लोभी चाटुकारों से घिरे रहते हैं वैसे ही वह भी अनेक बन्दियों से घिरा था, जैसे मांसभोजी राक्षस रक्त चाहने वाले होते हैं वैसे ही बहेलिए उसको चाहते थे, सङ्गीत कला की क्रीडा में जिस प्रकार गीत के पीछे-पीछे निषाद-स्वर चलता रहता है उसी प्रकार उसके पीछे पीछे चाण्डाल चल रहे थे और उसका शरीर जङ्गली भैसों के खून से लथपथ था मानो महिषासुर के रक्त में सना हुआ भगवती दुर्गा का त्रिशूल हो। वह नौजवान होते हुए भी बहुत अधिक वयस (अवस्था, पक्षी) नष्ट कर चुका था, सारमेयों (धनधान्य, कुत्तों)
१. ॰॰॰वन्दि॰॰॰। २. विन्यासामिव॰॰कलाभिलाप। ३. बहुरक्त॰॰॰। ४. क्षयित॰॰॰। ५. फलमूला-शिनम्, फलाशिनम्।
शबरचरित्रवर्णनम् ] चन्द्रकला-विद्योतिनीसहित । ६७
कृष्णमप्यसुदर्शनम्, स्वच्छन्दप्रचारमपि दुगैकशरणम्, क्षितिभृत्पादानुवर्त्तिनमपि राज-सेवानभिज्ञम्, अपत्यमिव विन्ध्याचलस्य अंशावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सारथिमिव कलिकालस्य भीषणमपि महासत्त्वतया गभीरमिवोपलक्ष्यमाणम्, अनभिभवनीयाकृतिम्, मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानन्तु तस्य पश्चादह-मश्रौषम् । आसीच्च मे मनसि—'अहो ! मोहप्रायमेषां जीवितम्, साधुजन-विगर्हितश्च वरि-
करणं येन तं तादृशमपि फलमूलान्येव अशनं भक्षणं यस्य तं तादृशमिति विरोधः, कृतः सारमेयाणां शुनां संग्रहो येन तादृशमिति तत्समाधानम् । उक्तालंकारः ।
कृष्णमिति । कृष्णं नारायणमपि असुदर्शनं सुदर्शनचक्रेण रहितमिति विरोधः, 'चक्रं सुदर्शनम्' इत्यमरः, कृष्णं कालवर्णम् अत एव असुदर्शनं भयोत्पादकत्वेन भीमदर्शनमिति तत्समाधानम् । उक्ता-लङ्कारः ।
स्वच्छन्देति । स्वच्छन्देन स्वाभिप्रायेण प्रचारो भ्रमणं यस्य तं तथोक्तमपि दुर्गं दुर्गमं नगरम् एकम् अद्वितीयं शरणं गृहं यस्य तं तादृशमिति विरोधः, दुर्गा भवानी देवी एकम् अद्वितीयं शरणं रक्षिका यस्य तं तादृशमिति तत्समाधानम् 'शरणं गृहरक्षित्त्रोः' इत्यमरः । उक्तालंकारः ।
क्षितीति । क्षितिभृद् राजा तस्य पादौ चरणौ तदनुवर्त्तिनमपि तत्सेवाविधायिनमपि राजसेवा नृप-परिचर्या तस्या अनभिज्ञम् अज्ञातामिति विरोधः, क्षितिभृत् पर्वतः तस्य पादे प्रत्यन्तपर्वते 'पादाः प्रत्य-न्तपर्वताः' इत्यमरः, अनुवर्त्तते अवतिष्ठत इति तं तादृशमिति तत्परिहारः । उक्तालंकारः ।
अपत्यमीति । विन्ध्याचलस्य जलवालकपर्वतस्य अपत्यं सन्तानमिव अत्यन्तकठिनशरीरत्वात् । कृता-न्तस्य यमस्य 'कृतान्तो यमुनाभ्राता शमनो यमराड्यमः' इत्यमरः, अंशावतारमिव एकदेशावतारमिव जीवसंहारात् । पापस्य अधर्मस्य सहोदरमिव सोदरमिव जीवानां तीव्रयातनाविधायित्वात् । कलिकालस्य कलियुगस्य सारथिमिव यन्तारमिव निरन्तरधर्मोत्पादनेन सञ्चालकत्वात् । उक्तस्थलेषु जात्युत्प्रेक्षा । भीषणमपि भयजनकमपि तृणनिक्षेपादिनिकृष्टाचारण निःसत्त्वजीवानां त्रासोत्पादनात् चञ्चलस्वभावम-पीत्यर्थः महासत्त्वतया प्रबलोत्साहस्वभावतया गम्भीरमिव धैर्यगुणयुक्तमिव उपलक्ष्यमाणम् अन्यैः परि-दृश्यमानम् । इह गाम्भीर्यं गुण इति तदुत्प्रेक्षणाद्गुणोत्प्रेक्षा ।
अनभीति । अनभिभवनीया अतिरस्करणीया आकृतिः स्वरूपं यस्य तं तादृशम्, अत्यन्तकर्कशत्वेन दुर्द्धर्षत्वादित्याशयः । मातङ्गनामानं मातङ्गेतिसंज्ञकं शबरसेनापतिं किरातसैन्यस्वामिनम् अपश्यम् अद्राक्षम् । केवलदर्शनेन नामावबोधः कथमित्याशङ्कायामाह—अभिधानन्त्विति । तस्य सेनापतेः अभिधानं संज्ञां अहं वैशम्पायनः पश्चात् तदवलोकनानन्तरम् अश्रौषं भृत्यमुखादाकर्णयम् । एवञ्च सम्प्रति तन्नामा-भिधाने न काचिद्विप्रतिपत्तिरित्याशयः ।
आसीदिति । मे मम मनसि हृदये आसीद् अभूत्—चिन्तेति शेषः । तदेव उपपादयति—अहो ! इत्यादिना । अहो ! इत्याश्चर्ये, 'आहो उताहो किमुत' इत्यमरः, मोहाऽविवेकः प्रायो बहुलं यत्र तथोक्तम्,
का संग्रह करते हुए भी फल-मूल खाने का अभिलाषी था, श्यामल शरीर के कारण कृष्ण के समान होते हुए भी असुदर्शन (सुदर्शनचक्र रहित, कुरूप) था, स्वच्छन्दचारी होने पर भी दुर्गैकशरण (किले में रहने वाला, भगवती दुर्गा का एक मात्र था) और क्षितिभृत् (पर्वत-राजा) के चरणों का अनुगमन करने पर भी राज सेवा से अपरि-चित था । वह मानो विन्ध्याचल का पुत्र था, यमराज का अंशावतार था, पाप का सगा भाई था और कलिकाल का नियुक्त हुआ अंश था । भयंकर होते हुए भी वह अत्यधिक पराक्रम के कारण अत्यन्त गम्भीर भी था । उसकी आकृति में ऐसा प्रभावशाली व्यक्तित्व था जिसकी उपेक्षा नहीं की जा सकती थी । जैसा कि मुझे पीछे मालूम हुआ, उसका नाम मातंग था ।
उन भीलों को देखकर में मन ही मन सोचने लगा—अहा ! इन लोगों का जीवन कितना विवेकहीन
१. स्वच्छन्दचारमपि । २. विन्ध्यस्य । ३. सारमिव । ४. अनभिभवत्प्रकृतिन् । ५. मातङ्गक-नामानम् । ६. सर्वंशबर । ७. 'तस्य' इति पदं क्वचिन्नोपलभ्यते । ८. घोरप्रायम्, मोहिप्रायम्, एतेषाम् । ९. ॰॰॰निर्वाहितम् ।
१३ का० कथा०
शबरचरित्रवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६६
रागः, यस्मिंश्चैवं कानने निवसन्ति, तदेवोत्खातमूलमशेषतः कुर्व्वन्ति²। इति चिन्तयत्येव मयि सँ शबर-सेनापतिरटवीपरिभ्रमेण-समुद्भवं श्रममपनिनीषु- रागत्य तस्यैव शाल्मलीतरोरधश्छायायामवतारित-कोदण्डस्त्वरितपरिज्नोपनीत-पल्लवासने समुपाविशत् । अन्यतमस्तु शबरयुवा ससम्भ्रममवतीर्य तस्मात् करयुगल-परिक्षोभिताम्भसः सरसो वैदूर्य्यद्रवानुकारि प्रलय-दिवसकर-किरणोपतापादम्बरैकदेशमिव विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, द्रुतमिव मुक्ताफल-निकरम्, अत्यच्छतया स्पर्शानुमेयं हिमजर्डम्, अरविन्दकोश- रजः-कषायमम्भः-कमलिनीपत्रपुढेन, प्रत्यग्रोद्धृताश्च धौतपङ्कनिर्मला ¹³मृणालिकाः समुपाहरत् ।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ १७० ॥
चौर्येण परद्रव्यापहारेण जीवनं जीविकानिर्वाहः। भूषणानि अलङ्काराः भुजङ्गममयः सर्परचनानि पर्वतस्था- यित्वात्तेषां तेऽनायासलभ्या इत्याशयः। वनगजमदैः अरण्यहस्तिदानवारिभिः अङ्गरागः अङ्गलेपनम् ।
यस्मिन्निति। यस्मिन् अलक्षिताभिधेये कानने अरण्ये निवसन्ति निवासं कुर्वन्ति तदेव काननम् अशेषतः समस्ततः उत्खातम् उत्पाटितं मूलं मध्यदेशो यस्य तथाविधं कुर्वन्ति विदधति।
इतीति। इति पूर्वोक्तविधिना मयि वैशम्पायने चिन्तयति सत्येव स शवरसेनापतिः किरातसैन्य- स्वामी मातङ्गः, अटव्यां परिभ्रमणम् इतस्ततः पर्यटनं तस्मात् समुद्भवं सञ्जातं श्रमं परिश्रमम् अपनि- नीषुः अपनेतुं दूरीकर्तुमिच्छुः तस्यैव शाल्मलीतरोः अधश्छायायाम् अधोऽनातपे आगत्य, अवतारितं स्कन्धा- त्प्रामितं कोदण्डं कार्मुकं येन स तथोक्तः, त्वरितेन शीघ्रतावता परिजनेन सेवकेन उपनीतम् समीपे प्रापितं यत् पल्लवासनं किसलयविष्टरः तस्मिन् तादृशे समुपाविशत् तस्थिवान्।
अन्यतम इति । अन्यतमः बहुसैनिकमध्ये कश्चिदनिर्दिष्टनामा शबरयुवा भिल्लतरुणः ससम्भ्रमं शीघ्रम् अवतीर्य अन्तः प्रविश्य प्रथममिति शेषः । तस्मात् पम्पासरात् करयुगलेन पाणिद्वयेन पत्रपुटेन परिक्षोभितं तृणाद्यपनयनाय विलोडितम् अम्भः सलिलं यस्य तस्मात् तादृशात् सरसः सरोवरात् कम- लिनीपत्रपुटेन नलिनीदलपुटेन अम्भो मृणालिकाश्च समुपाहरदिति सम्बन्धः। नपुंसकलिङ्गद्वितीयान्तानि पदानि अम्भसो विशेषणानि । वैदूर्यस्य बालवायजस्य मणेः द्रवं गलितांशम् अनुकरोतीति तत् तादृशम्, देदीप्यमानत्वाद्दित्याशयः। प्रलये कल्पान्तसमये दिवसकरस्य प्रचण्डादित्यस्य किरणैः रश्मिभिः उपता- पात् प्रखरसन्तापात् विलीनं द्रवीभूय क्षरितम् अम्बरैकदेशं गगनैकभागमिव । इन्दुमण्डलात् चन्द्र- बिम्बात् प्रस्यन्दितं द्रवीभूय पतितमिव । द्रुतं स्यन्दितं मुक्ताफलानां मौक्तिकानां निकरं वृन्दमिव सर्वतोऽ- त्यन्तोज्ज्वलत्वादित्याशयः। अत्यच्छतया अत्यन्तस्वच्छतया स्पर्शेन शैत्यस्पर्शेन अनुमेयं सलिलतया अनुमातुं योग्यम् आकाशसदृशतया प्रेक्षणाशक्यत्वादित्याशयः। हिमजडं तुहिनवत् शीतलम् । अरविन्द- कोशस्य कमलकर्णिकाधारस्य रजसा धूलिना कपायं तुवररसयुक्तम् अम्भः सलिलम् । प्रत्यग्रोद्धृताः तरक्षण- मुत्पाटिताः धौतपङ्काः क्षालितकर्दमाः अत एव निर्मलाः स्वच्छः मृणालिकाः क्षुद्रविसतन्तूिनि । 'स्त्री
की मणियों ही इनके आभूषण हैं, जंगली हाथियों का मद ही इनका सुगन्धित लेप है और यह जिस किसी भी जङ्गल में कुछ दिनों रह जाते हैं, उसी को जड़मूल से उजाड़ देते हैं।
मैं अभी यह सोच ही रहा था कि जङ्गल में इधर-उधर भटकने की थकान मिटाने के लिये वह सेनापति उसी सेमल के पेड़ के नीचे छाया में आकर रुक गया। उसने अपना धनुष उतार कर रख दिया और अपने संगी-साथियों द्वारा जल्दी से बिछाये गये पत्तों के आसन पर बैठ गया। उनमें से एक भील नौजवान् फुर्ती से सरोवर के जल में उतर पड़ा और उसे दोनों हाथों से झकोर कर कमल के चौड़े पत्ते से बने दोने में जल भर लाया। वह जल वैदूर्यमणि के रस के समान, प्रलयकालीन सूर्य की किरणों से पिघले हुए आकाश-खण्ड के समान, चन्द्रमण्डल से टपके हुए अमृत के समान तथा पिघले हुये मोतियों के समान प्रतीत होता था। वह इतना निर्मल था कि छूने ही पर पहिचाना जा सकता था। वह बर्फ के समान ठण्डा और कमल के खिले हुये
१. १६ 'च' इत्यधिकः पाठः समुपलभ्यते । २. कुर्वते । ३. १६ 'स' इति पाठः क्वचिन्नास्ति । ४. शबरसेनापतिश्च । ५. भ्रमणसमुद्भवमश्रम् । ६. शाल्मलि । ७. छायाम् । ८. ००० जनोपनीते पल्लवासने । ९. अन्यतरस्तु । १०. इवमिव । ११. प्रलदिमिरम् । १२. ००० पत्रसम्पुटेन । १३. निर्मलमृणालिकाः ।
१०० कादम्बरी— [ कथामुखे-
आपीत-सलिलश्च ^१सेनापतिस्ता मृणालिकाः शशिकला इव सैंहिकेयः क्रमेणादशत् । अपगतश्रमोत्थाय परिपीताम्भसा सकलेन तेन शबर-सैन्येनानुगम्यमानः शनैः शनैरभिमतं दिगन्तरमयासीत् । एकतमस्तु^२ जरच्छबरस्तस्मात् पुलिन्द-वृन्दादनासादित हरिण-पिशितः पिशिताशन इवाविकृतदर्शनः^३ पिशितार्थी तस्मिन्नेव तरुमूले^४ मुहूर्तमिब व्यलम्बत । अन्तरिते च तस्मिन्^५ शबरसेनापतौ जीर्णशबरः- पिबन्निवास्माकमायूंषि रुधिरबिन्दुपाटल्या कपिलभ्रूलता-परिवेष-^६भीषणया दृष्ट्या गणयन्निव शुककुल-^७कुलायस्थानानि श्येन इव विहगामिंषास्वाद-लालसः सुचिरमारुरुक्षुस्तं वनस्पतिमामूलादपश्यत् ।
स्यात्काचिन्मृणाल्यादि विपक्षापचये यदि’ इत्यमरात् क्षुद्रविषये स्त्रीलिङ्गप्रयोगः। समुपादहरत् शबरसेना-पतये समर्पितवान् । एतेषु अभ्वरकदेशमिवेत्यत्र दृष्ट्योत्प्रेक्षा, प्रस्यन्दितमिवेति क्रियोत्प्रेक्षा, मुक्ताफलनि करमिवेत्यत्र जात्युत्प्रेक्षा, हिमजडमित्यत्र लुप्तोपमेति बोध्या ।
आपीतेति । आपीतं सम्यक्तया पीतं सलिलम् अम्भो येन स तादृशः सेनापतिः सैन्यनायकः सैंहिकेयः सिंहिकापुत्रो राहुः शशिकलाः चन्द्रकला इव ता मृणालिकाः क्रमेण जलपानानन्तरम् अदशत् दशनैर्-अभक्षयत् । राहुर्यथा चन्द्रकला अश्नाति तथायमपीत्युपमालङ्कारः । अपगतो दूरीभूतः श्रमः मृगयापरिश्रमो यस्य स तादृशः, उत्थाय उत्थानं विधाय परिपीताम्भसा कृतजलपानेन सकलेन समस्तेन तेन प्राक्प्रति-पादितेन शबरसैन्येन भिल्लानीकेन अनुगम्यमानः अनुव्रज्यमानः शनैः शनैः मन्दं मन्दम् अभिमतम् अभिलषितं दिगन्तरम् अन्यदिशं प्रति अयासीत् अगमत् ।
एकतमस्त्विति । तेषु मध्ये एकतमः कश्चिदनिर्दिष्टनामा, तु पुनरर्थे, जरच्छबरः वृद्धकिरातः तस्मात् पुलिन्दवृन्दात् शबरमण्डलात् अनासादितम् अलब्धंहरिणपिशितं मृगमांसं येन स तादृशः, पिशिताशनो मांसभक्षको व्याघ्रः स इव विकृतं भीमं दर्शनम् अवलोकनं यस्य स तादृशः, पिशितार्थी मांसार्थी तस्मि-न्नेव पूर्वोक्त एव तरुमूले शाल्मलीवृक्षमूले मुहूर्तभिव किञ्चित्कालमिव व्यलम्बत विलम्बमकरोत् । तस्मिन् शबरसेनापतौ किरातसैन्यनाथके अन्तरिते वृक्षगहनत्वेन व्यवहिते सति स पूर्वोक्तो जीर्णशबरः स्थविर-भिल्लः अस्माकं पक्षिणाम् आयूंषि जीवनसमयान् पिबन्निव पानेन विलुप्तं विदधदिव । रुधिरबिन्दुभिः कोपप्राप्तशोणितकणैः पाटल्या श्वेतरक्तया, तथा कपिले पिङ्गले ये भ्रूलते ताभ्यां परिवेषः परिधिः ‘परिवेषस्तु परिधिः’ इत्यमरः तेन भीषणया त्रासकारिण्या, दृष्ट्या लोचनेन शुककुलस्य कीरगणस्य कुलायस्था-नानि नीडाधारस्थलविशेषान् गणयन्निव इयत्तया तत्संख्यां विदधदिव । श्येन इव मांसभक्षी शशादनः पक्षिविशेष विहगानां खगानाम् आमिषास्वादे पिशितभक्षणे लालसो लम्पटः ‘लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि सः’ इति यादवः । तं वनस्पति शाल्मलीतरुम् आरुरुक्षुः आरोढुमिच्छुः आमूलात् मूलप्रान्तपर्यन्तंसुचिरं चिरकालम् अपश्यत् अवलोकितवान् । एषु ‘पिशिताशन इव’ इत्यत्र, ‘श्येन इव’ इत्यत्र चोपमालङ्कारः । ‘पिबन्निव’ इत्यत्र ‘गणयन्निव’ इत्यत्र च क्रियोत्प्रेक्षालङ्कारः ।
पराग के कारण स्वाद में कसैला था। वह जल के साथ ही तटकी निकाली गयी और पानी में धोकर भलीभाँति साफ की गयी पवनार (कमल की कोमल जड़) भी लाया था।
सेनापति जल पीकर धीरे-धीरे उस कमल की जड़ को काटकर खाने लगा मानों राहु चन्द्रकला का भक्षण कर रहा हो। थोड़ी देर थकान मिटाकर वह उठ खड़ा हुआ और जल पीकर निश्चिन्त हुई उस भील सेना के साथ-साथ धीरे धीरे अपनी इच्छित दिशा की ओर चल पड़ा।
उन भीलों के झुण्ड में से पिशाच की तरह भयंकर आकृति वाला एक बूढा भील, जिसे हिरन का मांस नहीं मिला था, उसी पेड़ के नीचे मांस पाने की आशा में थोड़ी देर रुका रहा और सेनापति के आँखों से ओझल हो जाने पर वह उस पेड़ पर चढ़ने की अभिलाषा से बहुत देर तक उसे जड से ऊपर तक देखता रहा। बाज के समान पक्षियों के मांस का लालची वह बूढ़ा अपनी भूरी-भूरी भौंहों से घिरी हुई रक्त की बूंदों जैसी
१. शबरसेनापतिः । २. एकतरस्तु । ३. ॰॰॰इवातिविकृतदर्शनः । ४. तरुमूले च तस्मिन् । ५. ‘तस्मिन्’ इति पाठ कचिञ्चोपलभ्यते । ६. कपिलभ्रुवा परिवेष॰॰॰ । ७. शुककुलायस्थानानि । ८. विहङ्गामिष॰॰॰विहगा-मिषस्वाद॰॰॰ । ९. सुचिरम् ।
शुकशावकनिपातवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता। १०१
उत्क्रान्तमिव तस्मिन् क्षणे तदालोकने-भीतानां शुककुलानावसुभिः। किमिव हि दुष्करमकरुणानाम् ? यतः स तमनेक-ताल-तुङ्गमभ्रङ्कष-शाखाशिखरमपि सोपानैरिवारूयत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन्, कांश्चिदल्पदिवस-जातान् गर्भ-च्छवि-पाटलाञ् शाल्मली-कुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनी-संवर्त्ति-कानुकारिणः, कांश्चिदर्कफलसदृशान्, कांश्चिल्लोहितायमान-चञ्चुकोटीन् ईषद्विघटित-दल-पुट-पाटलमुखानां कमलमुकुलानां श्रियमुद्वहतः, कांश्चिदनवरत-शिरःकम्प-व्याजेन निवार-यत इव प्रतीकारासमर्थान्, एकैकशः फलानीव तस्य वनस्पतेः शाखासन्धिभ्यः कोटरा-न्तरेभ्यश्च शुक-शावकानग्रहीत्, अपगतासूंश्च कृत्वा क्षितावपातयत्।
ददिति । तस्मिन् क्षणे काले 'क्षणः पर्वोत्सवोऽपि स्यात्तथा मानेऽप्यनेहसः' इति रामाश्रमी टीका, तस्य यदालोकनं वीक्षणं तेन भीतानां त्रासमुपगतानां शुककुलानां कीरगणानाम् असुभिः प्राणैः उत्क्रान्त-मिव निःसृतमिव । इह उत्क्रान्तमिवेति क्रियोत्प्रेक्षा ।
किमिवेति । हि यस्माद्धेतोः अकरुणानां निर्दयानां लोकानां किमिव दुष्करं कठिनं न किमपीत्यर्थः, सर्वमेव दुष्करं सम्पादयन्तीत्याशयः। यतः स वृद्धकिरातः अनेके बहवो ये ताला उपर्युपरिनिहितास्ताल-वृक्षाः तद्वत् उत्तुङ्गम उच्चतम, अभ्रं मेघं कर्षन्ति विलिखन्तीति अभ्रङ्कषाणि 'अभ्रं मेघो वारिवाहः' इत्य-मरः, शाखानां स्कन्धानां शिखराणि अग्राणि यस्य तं तादृशम्, तं पादपं विटपं सोपानानि आरोहणानि तैरिव 'आरोहणं स्यात्सोपानम्' इत्यमरः, अयत्नेनैव अनायासेनैव आरुह्य आरोहणं विधाय, अनुपजाता अनुत्पन्ना उत्पतनशक्तिःगगनगमनसामर्थ्यं येषां तान् तादृशान् कांश्चित् अल्पदिवसजातान् स्वल्पदिनोत्प-न्नान्, गर्भस्य तरणशनिःछृतस्य भ्रूणस्य या छविः शोभा तया पाटलान् श्वेतरक्तवर्णान् अत एव शाल्मली-कुसुमस्य शाल्मलीतरुपुष्पस्य शङ्कां निजेषु भ्रान्तिम उपजनयतः उत्पादयतः । कांश्चित्-उद्भिद्यमानौ प्रादुर्भवन्तौ पक्षौ पत्त्रे येषां तेषां भावः, तया नलिनानां पङ्कजानां संवर्त्तिका नवदलानि 'संवर्त्तिका नवदलम्' इत्यमरः, अनुकर्तुं शीलं तेषां तान् तादृशान्, एतेनातिस्वच्छत्वं व्यज्यते। अर्कफलसदृशान् संयोजाततया मन्दारफलसमानद्युतीन्। अलोहिता लोहिताः सम्पद्यमाना भयन्तीति लोहितायमाना रक्तायमानाः चञ्चनां चोटीनां कोटयः अग्रदेशा येषां तान, अत एव ईषद्विघटितैः किञ्चिद्विकसितैः दल-पुटैः पुटकाकारपत्तैः पाटलानि श्वेतरक्तानि मुखानि अग्रभागा येषां तेषां कमलमुकुलानां पङ्कजकुद्मलानां श्रियं कान्तिम् उद्वहतः धारयतः । अनवरतं निरन्तरं यः शिरःकम्पः बालकत्या त्रासेन वा उत्तमाङ्गविधू-ननं तस्य व्याजेन कपटेन निवारयत इव 'वयं शिशव इति कृत्वा न हन्तव्या' इत्यादिना स्वव्यथापादनं प्रतिषेधत इव प्रतीकारो मारणनिवृत्त्युपायः तत्रासमर्थान् अशक्तान् शिशुत्वेन चञ्चुपुटेन दंशनं कर्तुमक्ष-मत्वात् उद्धयनं विधाय पलायितुमयोग्यत्वाच्चेत्याशयः । एकैकशः प्रत्येकं फलानि रसोद्भवानीव तस्य वनस्पतेः शाल्मलीतरोः शाखासन्धिभ्यः स्कन्धग्रन्थिभ्यः कोटरात्तरेम्यः विवरमध्यम्येभ्यश्च शुकशावकान्
लाल-लाल दृष्टि से मानों हम लोगों की आयु को सोख रहा था अथवा सुग्गों के घोसले गिन रहा था। उसे इस प्रकार अपनी ओर देखते हुये देखकर भयभीत सुग्गों के प्राण तो मानों उसी समय उड़ गये।
निर्दयों के लिये कोई भी कर्म असाध्य नहीं होता। बादलों से बात करने वाले चोटी वाले उस अनेक ताड़ वृक्षों में भी ऊँचे पेड़ पर वह इतनी सरलता से चढ़ने लगा मानो सीढ़ियों पर चढ़ रहा हो। वह ऊपर पहुँच कर डालियों की जोड़ों और खोहलों से सुग्गों के बच्चों को निकाल-निकालकर और उन्हें मार-मारकर पृथ्वी पर गिराने लगा। उन बच्चों में अभी उड़ने की शक्ति नहीं आयी थी। कुछ तो इतने थोड़े दिनों के पैदा हुये थे कि अभी तक उनमें गर्भ की लाली बनी हुई थी, जिससे वे सेमल के फूल जैसे लग रहे थे, कुछ बच्चों के पंख फूट चुके थे जिससे वह कमल के नवीन दलों के समान प्रतीत हो रहे थे, कुछ मदार के फल जैसे मालूम पड़ते थे, कुछ की थोड़ी-थोड़ी खुली हुई लाल-लाल चोंचें कुछ-कुछ खिली हुई कमल की कलियों के समान सुहावनी लग रही थीं और कुछ के सिर निरन्तर काँप रहे थे मानों कोई उपाय न चलने के कारण विवश होकर वे सिर हिला-
१. तदालोकभीतानां । २. कषिरुह्य । ३. शाल्मलि ० । ४. नलिनी ० । ५. वहन्तः। ६. निवारयन्त इव-। ७. प्रतीकारानैकेकशत, एकैकस्तदा-। ८. शाखान्तरेभ्यश्च ।
| १०२ | कादम्बरी- | [कथामुखे- |
|---|
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमवलोक्य द्विगुणतरोपजातवेपथुमंरणभयादुद्भ्रान्ततरलतारकां विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कताल्वप्रतीकाराक्षमः त्रासस्रस्तसन्धि-शिथिलेन पक्षपुटेनाच्छाद्य मां तत्कालोचितप्रतीकारं मन्यमानः स्नेहपरवशो मद्रक्षणाकुलः किंकर्त्तव्यताविमूढः क्रोडभागेन मामवष्टभ्य तस्थौ।
असावपि पापः क्रमेण शाखान्तरैः संञ्चरमाणः कोटरद्वारमागत्य जीर्णसितभुजङ्गभोगभीषणं प्रसार्य विविधवनवराहवसाविस्रगन्धि करतलम् अनवरतं कोदण्डगुणा-
कीरशिशून् जग्रहीत् आदत्त, च पुनः अपगतासून् विगतप्राणान् कृत्वा विधाय क्षितौ पृथिव्याम् अपातयत् अक्षिपत्। एषु हि 'किमिव हि दुष्करम्' इत्यर्थापत्तिः 'सोपानैरिव' इत्यत्र जात्युत्प्रेक्षा, 'शाल्मलीकुसुमशङ्कामुपजनयत इव' इत्यत्र पदार्थहेतुककाव्यलिङ्गसंमिश्रो भ्रान्तिमान्, 'नलिनसंवर्तिकारिण' इत्यत्र 'लर्क्फलसदृशान्' इत्यत्र न लार्थी उपमा, 'कमलमुकुलानां श्रियमुद्वहतः' इत्यत्र निदर्शना, 'निवारयत इव' इत्यत्र सापह्नवक्रियोत्प्रेक्षा, 'फलानीव' इत्येतोपमा । 'किमिव हि दुष्कराणाम्' इत्यस्यव हि 'यतः स' इत्यादिना समर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः, अयमेव हि प्रधानम एतस्यैव चार्थोपत्यादयोऽङ्कमिति सङ्करोलङ्कारः।
तात इति। तातस्तु मज्जनकस्तु क्रोडभागेन मामवष्टभ्य तस्थौ इति सम्बन्धः। महान्तं दीर्घतरम् अकाण्ड एव असमय एव प्राणहरं जीवितविनाशनम् अप्रतीकारम् अचिन्तितम्य उपप्लवं विपदम् उपनतम् आगतम् अवलोक्य निरीक्ष्य, द्विगुणतरः पूर्वं शरीरशैथिल्येन यावान् कम्प आसीत्तद्द्विगुणतर इत्यर्थः, उपजातः उत्पन्नो वेपथुः कम्पा यस्य स तादृशः, मरणभयात् मृत्युत्रासात् उद्भ्रान्ते उद्भ्रमिते तरले चञ्चले तारके कनीनिके यस्याः तां यादृशीम्, विषादेन शोकेन शून्यां लक्ष्यरहिताम्। दृशं लोचनम् इतस्ततः समन्ततो दिक्षु आशासु विक्षिपन् विस्तारयन्, उच्छुष्कम् प्राबल्येनाछिन्नं तालु काकुदं यस्य स तादृशः, आत्मनो निजंस्य चः प्रतीकारो विपन्निवृत्त्युपायः तत्र सक्षमः अशक्तः, त्रासेन भीत्या स्रस्तैः विदीणैः सन्धिभिः अस्थिबन्धेः शिथिलेन श्लथेन पक्षपुटेन छुदद्वयेन मां वैशम्पायनम् आच्छाद्य आवृत्य तत्काले तत्क्षणे उचितप्रतीकारम् इदमेव योग्योपायं मन्यमानः जानन् स्नेहपरवशः प्रेम्णा पराधीनः मद्रक्षणाकुलो मत्राणव्यग्रः किंकर्तव्यताविमूढः किमिदानीं मया कर्त्तव्यं विधेयमित्यत्र विषये सन्दिग्धबुद्धिः क्रोडभागेन उत्सङ्गप्रदेशेन माम् अवष्टभ्य अवलम्बनं, विधाय आवृत्यथंः, तस्थौ तस्थिवान्।
असावपीति। असौ वृद्धचाण्डाळोऽपि पापः पापिष्ठः अतिनृशंसः अत्यन्तक्रूरः क्रमेण पर्यायेण शाखान्तरैः स्कन्धान्तरैः सञ्चरमाणः प्रवर्त्तमानः कोटरद्वारम् अस्मदधिनिष्कुहद्वारम् आगत्य प्राप्य तातं गतासुमकरोदित्यन्वयः। जीर्णस्य परिणतवयसः असितस्य श्यामवर्णस्य भुजङ्गस्य सर्पस्य 'सर्पः पृदाकुर्भुजगो भुजङ्गः' इत्यमरः, भोगः शरीरं तद्वत् भीषणं भयदम्, 'भोगः सुखे रुच्यादिभृतावहेश्च फणका-
दिलाकर 'नहीं' 'नहीं' कह रहे हो। वह बूढ़ा उन्हें एक-एक करके इस प्रकार फेंक रहा था मानों सेमर का फल तोड़-तोड़कर गिरा रहा हो।
मेरे पिता ने भलीभाँति समझ लिया कि यह एक बहुत बड़ी आकस्मिक प्राणनाशक विपत्ति आ गई है। अब इससे बचने का कोई उपाय नहीं है, इसलिये भय के कारण उनके शरीर की कँपकँपी दूनी हो गयी; मृत्यु के भय से उनकी पुतलियाँ उलटने-सी लगीं और वह दुःख से सूनी-सूनी आँसू भरी आँखों से इधर-उधर देखने लगे। उनका तालू सूख गया, उनमें अपने को बचा पाने की कोई शक्ति न रह गयी। भय के कारण उनके सभी अङ्ग ढीले पड़ गये तथा पखने और भी लटक गये। वह मेरी रक्षा के लिये व्याकुल हो उठे। मेरे प्रेम ने उन्हें इतना विवश कर दिया कि मुझे अपने पंखों से ढँककर छाती से चिपका लिया और हक्का-बक्का होकर चुपचाप बैठ गये। उस समय उन्हें मेरी रक्षा का यही उपाय सूझ पड़ा।
वह पापी धीरे-धीरे डालियों से होता हुआ मेरे खोखले के द्वार पर आ पहुँचा। उसने काले बूढ़े
१. अतिमहान्तम्। २. आलोक्य। ३. ०००तरलतारको०००तरलतारकालु, ०००तारकाम्। ४. पक्षकर्मणेति पदं न विद्यते। ५. ०००विमिश्र०००। ६. इह 'अनवरतं'ति पदं क्वचिक्षस्ति।
शुकावस्थावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १०३
कर्षण-व्रणाङ्कित-प्रकोष्ठम् अन्तक्र-दण्डानुकारिणं वामबाहुमतिनृशंसोमुहुर्मुहुर्दत्तचञ्चु-प्रहार-मुक्तक्रून्दन्त॑माकृष्य तातमपगतासु॑मकरोत् । मान्तु स्वल्पशरीरत्वाद् भयसम्पीडिताङ्गत्वात् सावशेषत्वाच्चायुषः कथमपि तत्पक्षे पुटान्तर-गतं नालक्षयत् । उपरतञ्च तमवनितले शिथिलशिरोधरमथोमुख॑ममुञ्चत् ।
अहमपि तच्चरणान्तरे निवेशित॑शिरोधरो निभृतमङ्ग-निलीनस्तेनैव सहापतम् । आयुषोऽवशिष्टतया तु पवनवशात् पुञ्जितस्य महतः शुष्कप॑र्णराशेरुपरि पतितंमात्मानमपश्यम् । अङ्गानि येन मे नाशीर्यन्त॑ ।
ययोः' इत्यमरः ! विविधा अनेके ये वनवराहाः अरण्यशूकराः तेषां वसाभिः तत्क्षणव्यापादनात् स्नायुभिः तत्सम्बन्धेनेत्यर्थः, विस्रगन्धि आमगन्धि 'विस्रं स्यादामगन्धि यत्' इत्यमरः करतलं हस्ततलं यस्य तं तादृशम् । अत्र हि 'विस्रगन्धिकरतलम्' इत्यस्य स्थाने 'विस्रकरतलम्' इत्येव पाठः साधीयान् उक्त-कोशवलेन 'गन्धि' पदानुपादानेप्युक्तार्थप्रतीतेरभावात् ; अन्यथाधिकपदत्वदोषं वारयितुं कः शक्नुयात्। अनवरतं निरन्तरं कोदण्डगुणानां धनुःप्रत्यञ्चानाम् आकर्षणेन आक्षेपेण व्रणः तेन अङ्कितः चिह्नितः प्रकोष्ठः कूर्परादधः प्रदेशो यस्य तं तादृशम् 'कचान्तरे प्रकोष्ठः स्यात् प्रकोष्ठः कूर्परादधः' इति शाश्वतः, कूर्परश्च 'कफोणिस्तु कूर्परः' इत्यमराद् भुजमध्यग्रन्थिः अन्तकदण्डानुकारिणं यमदण्डतुल्यम्, वामबाहुं सव्यभुजं प्रसार्य विवरमध्ये विस्तार्य मुहुर्मुहुः वारंवारं दत्तः चञ्चप्रहारः त्रोणीप्रघातो येन स तं तादृशम् उत्कूजन्तम् उच्चैः स्वरेण रुवन्तम्, तातं मज्जनकम् आकृष्य कोटराद्वहिरानीय अपगतासुं विगतप्राणम् अकरोत् कृतवान् । जीर्णासितभुजङ्गोद्भोगभीषणमित्यत्र लुप्तोपमा, अन्तकदण्डानुकारिणमित्यत्र चार्थी लुप्तोपमा ।
मामिति । मां वैशम्पायनं तु स्वल्पशरीरत्वात् स्वल्पवपुष्ट्वाद् भयेन त्रासेन संपीडितानि सङ्कुचितानि अङ्गानि अवयवा यस्य तस्य भावः तस्मात्, आयुषो जीवितव्यस्य सावशेषत्वात् अविशिष्टत्वेन सह विद्यमानत्वात् । कथमपि महता क्लेशेन तस्य तालस्य पक्षपुटान्तरे छदपुटमध्ये गतं प्राप्तं नालक्षयत् नापश्यत् स जीर्णशवर इति शेषः । एवमग्रे । उपरतं व्यक्तप्राणम्, अत एव शिथिला श्लथा शिरोधरा ग्रीवा यस्य तं तादृशम्, तं जनकम्, अधोमुखम् अवाङ्मुखम् अवनितले अमुञ्चत् अपातयत् ।
अहमिति । तच्चरणान्तरे पितुः पादमध्ये निवेशितशिरोधरः स्थापितग्रीवः, निभृतं निःशब्दम् अङ्ग-निलीनः तत्सङ्गेऽन्तर्हितः तेनैव जनकेनैव सह साकम् अपतम् अधःपतनफलिकां चेष्टामकरवम् । आयुषः स्वजीवितसमयस्य अवशिष्टतया अवशेषत्वेन हेतुना तु पवनवशात् वायुसंयोगेन पुञ्जितस्य पिण्डितस्य ऊर्ध्वाधोभावमाश्रितस्येत्यर्थः, महतो विशालस्य शुष्कपत्रराशेः नीरसदलसमूहस्य उपरि पतितं स्रस्तम् आत्मानं स्वशरीरम् अपश्यम् अवलोकयम् । येन शुष्कपत्रराश्युपरिपातेन हेतुना, मे मम अङ्गानि अवयवाः नाशीर्यन्त विगलितानि नाभवन् ।
सांप जैसी अपनी बाँह फैलाकर पिता को खींच लिया। उसकी हथेली से जंगली सूअरों की चर्बी जैसी विसैली गन्ध निकल रही थी, उसके गट्टे पर धनुष की डोरी खींचते-खींचते घाव के चिह्न से बन गये थे और उसकी बाँह यमराज के दण्ड के समान भयंकर लग रही थी। यद्यपि पिता ने अपने बचाव के लिये बार-बार चोंच चला-चलाकर उस पर प्रहार किया, किन्तु अन्त में उस हत्यारे ने टें टें चिल्लाते हुए पिता को मार ही डाला। एक तो मैं बहुत नन्हा-सा था, दूसरे भय से मेरा शरीर भी सिकुड़ गया था, तीसरे अभी मेरी आयु भी शेष थी इसीलिए वह परों के बीच में छिपे हुए मुझे देख न सका। उसने झूलती हुई गरदन वाले पिता के मरे हुए शरीर को उलट कर नीचे डाल दिया। मैं भी उनके चरणों के बीच अपना सिर रखे चुपचाप छाती से चिपककर उन्हीं के साथ गिर पड़ा। कुछ आयु बाकी रहने के कारण मैं वायु द्वारा एकत्रित सूखे पत्तों की एक ढेरी पर गिरा था जिससे मेरे अङ्ग टूटने से बच गये थे।
१. तमाकृष्य । २. गतासुम् । ३. स्वल्पत्वाद् । ४. अवशेषत्वात् । ५. पक्ष्मपुटान्तरगतम् । ६. एनम् । ७. तानम् । ८. तच्चरणान्तराले । ९. प्रवेशिताः । १०. अङ्गुदेशनिलीनः, ऽङ्गुविक्लीनः । ११. अवशिष्टपुण्यतया तु पवनवस्देन, पवनवशपुञ्जितस्य । १२. पर्णराशेः । १३. निपतितम् । १४. नावशीर्यन्त ।
| १०४ | कादम्बरी- | [कथामुखे- |
|---|
यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्ण-पर्ण$^१$-सवर्णत्वादस्फुटोपलक्ष्य-माण-मूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले ^२बालतया कालान्तरसुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किञ्चिदुपजाताभ्यां पक्षाभ्यामीषत्कृतौ$^३$वष्टम्भो लुठंस्तितस्ततः कृतान्तमुख-कुहरादिव विनिर्गतमात्मानं मन्यमानः नातिदूरवर्त्तिनः, शबरसुन्दरी-कर्णपूर-^४रचनोपयुक्त-पल्लवस्य, सङ्कर्षण-पट-नील$^५$-च्छाययोपहसत इव गदाधर-देहेच्छविम्, अच्छेः कालिन्दी-जल-च्छेदैरिव विरचितच्छदस्य, वन-करिमदोपसिक्त-किसलयस्य, विन्ध्याटवी-केशपाश-श्रियममुद्वहंतः, दिवाप्यन्धकारितशाखा-
यावदिति । यावत् यावता समयेन असौ जीर्णशबरः तस्मात् तरुशिखरात् शाल्मलीवृक्षाग्रात् नावतरति नोत्तरति तावता कालेन अहं वैशम्पायनः तमालविटपिनो मूलदेशमविशमित्यग्रेतनेन सम्बन्धः । अवशीर्णस्य तत्क्षणविगलितस्य अशुष्कस्य सरसः पर्णस्य तरुपत्रस्य सवर्णत्वात् तुल्यहरिद्वर्णत्वात् अस्फुटम् अप्रकटम् उपलक्ष्यमाणा अवलोक्यमाना मूर्तिः स्वरूपं यस्य स तादृशः । नृशंस इव क्रूर इव तत्समये तातपरित्यागादित्याशयः । उपरतं विगतप्राणं पितरं तातम्, उत्सृज्य, परित्यज्य, प्राणपरित्यागे जीवितोत्सर्गे योग्येऽपि उचितेऽपि काले समये तथाविधप्रेमविधाflightतात्परित्यागादित्याशयः । बालतया शिशुत्वेन कालान्तरभुवः बाल्यातिरिक्तावस्थायां जननसामर्थ्यस्य स्नेहरसस्य शयनासनभोजनादिषु प्रेमविषयकरसस्य अनभिज्ञः अज्ञाता जन्मसहभुवा उत्पत्तिकालादारभ्य समुत्पन्नेन त्रासेनेव केवलं समन्ततः अभिभूयमानः स्वाधीनीक्रियमाणः, किञ्चित् ईषत् उपजाताभ्याम् उत्पन्नाभ्यां पक्षाभ्यां पतत्त्वाभ्याम् ईषत्कृतः किञ्चिद्विहितः अवष्टम्भ आधारो यस्य स तादृशः पृथिव्यां स्वल्पं स्वल्पमवलम्बनं विधायेत्यर्थः इतस्ततः पृथिव्यां लुठन् निपतन् । कृतान्तस्य यमस्य मुखमिव मुखं वदनं यस्य तथाभूतात् कुहरात् विवरात् विनिर्गतमिव विनिःसृतमिव आत्मानं निजं मन्यमानः बुध्यमानः । इह विनिर्गतमिवेति क्रियोत्प्रेक्षा ।
नातीतिति । नातिदूरवर्त्तिनः नातिदविष्ठस्थायिनः । शबराणां किरातानां याः सुन्दर्यो रमण्यः तासां कर्णपूराणि कर्णभूषणानि तेषां रचनायां विनिर्मितौ उपयुक्ता उपयोगिनः पल्लवाः किसलया यस्य तस्य तादृशस्य, सङ्कर्षणस्य बलभद्रस्य 'सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः' इत्यमरः, पटवत् वस्त्रवत् नीलच्छायया नीलकान्त्या गदाधरदेहच्छवि श्रीकृष्णशरीरद्युतिम् उपहसत इव उपहासं कुर्वत इव विद्यमानम् । अच्छैः निर्मलैः कालिन्दीच्छेदैः यमुनाजलखण्डैरिव विरचिता विनिर्मिताः छदाः पर्णानि यस्य तस्य तादृशस्य द्वयोरपि नीलरूपत्वादित्यभिप्रायः । वनकरिणाम् अरण्यगजानां मदादानवारीणि तै रुपसिक्तानि कृतसेचनकानि किसलयानि पल्लवानि यस्य तस्य तथोक्तस्य । विन्ध्याटव्या दण्डकारण्यस्य केशपाश-
उस दुष्ट के पेड़ से उतरने के पहिले ही निष्ठुर हृदय के समान मैं मरे हुए पिता को छोड़कर उनकी गोद से निकल पड़ा। मेरा रंग भी उन्हीं सूखे पत्तों के समान ही था, अतः मेरा शरीर उस पर स्पष्ट दिखाई नहीं पड़ रहा था। यद्यपि उस समय मेरा मर जाना ही उचित था, लेकिन मुझ में बचपन के कारण बाद में होनेवाले प्रेम का अनुभव नहीं था, केवल जन्म के साथ ही पैदा होनेवाला भयमात्र था। इसलिए भयभीत होकर कुछ-कुछ निकले हुए पङ्खों के सहारे इधर-उधर लोटता हुआ अपने को यमराज के मुँह के भीतर निकला हुआ समझकर समीप ही के एक बड़े तमाल वृक्ष की जड़ में घुस गया मानो दूसरे पिता की गोद में चला गया। उसकी नयी-नयी कोपलें भीलनियों के कानों के आभूषण बनने योग्य थीं, वह बलराम के वस्त्र की तरह नीली छाया से भगवान कृष्ण के साँवले शरीर की खिल्ली-सी उड़ा रहा था। उसके पत्ते गहरे रंग के लग रहे थे मानों यमुनाजल के टुकड़ों से बने हों और उनसे निकलती हुई गन्ध के कारण वे ऐसे लग रहे थे मानों जंगली हाथियों के मदजल से सिंचे हों। वह पेड़ विन्ध्याटवी के जूड़े के समान प्रतीत हो रहा था और इतना घना था कि सूर्य की किरणें भी उसमें घुस नहीं सकती थीं जिससे उसके नीचे दिन में ही अन्धकार छाया रहता था।
१. '...पत्र । २. बालकतया । ३. ईषत्कृतगमनावष्टम्भः । ४. नीलच्छायम्, नीलदलच्छायया, नील्या छायया । ५. क्वचिद् 'देह' इति पाठो नास्ति । ६. 'मदसलिलैरिवोपसिक्त'..., मदसलिलैरिव संसिक्त'...' । ७. उद्वहन्तः ।
शुकेन स्वावस्थावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १०५
न्तरस्य, अप्रविष्ट-सूर्य्य-किरणमतिगहनपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदेशमविशम् ।
अवतीर्य्य च^१ स तेन समयेन क्षितितल-विप्र^२कीर्णान् संहृत्य तान्^३ शुकशिशूननेक-लता-पाश-संयतानाबँद्ध्य^४ पर्णपुटेऽतित्वरित-गमनः सेनापतिगतेनैव वर्त्मना तामेव^५ दिशमर्गच्छत्^६।
मांन्तु लब्ध-जीविताशं प्रत्यग्र-पितृमरण-शोक-शुष्क-हृदयम् अतिदूरापातादाँयासित-शरीरं सन्त्रास-जात-वेपथुं सर्वोङ्गोपतापिनो बलवती पिपासा परवशमकरोत् ।
अनया च काल-कलया सुदूरमतिक्रान्तः स पापकृदिति परिकलय्य किञ्चिदुन्नमित-कन्धरो भयचकितया दृशा दिशोऽवलोक्य^१० तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे
श्रियं नीलवर्णत्वाद् कुन्तलसमूहकान्तिम् उदूहन् धारयतः। दिवाऽपि दिवसेऽपि अन्धकारतानि सूर्य-किरणप्रवेशाभावात् समुत्पन्नान्धकाराणि शाखान्तराणि स्कन्धाभ्यन्तरप्रदेशा यस्य तस्य तथोक्तस्य। अति-महतः अत्यन्तविशालस्य तमालविटपिनः तमालतरोः अपरस्य अन्यस्य पितुः जनकस्य उत्सङ्गमिव क्रोड-मिव भयनिवारकत्वात् पर्याप्तवरणकत्वाच्चेत्याशयः। अप्रविष्टा अन्तरप्राप्ताः सूर्यस्य दिनेशस्य किरणा-रश्मयो यस्मिन् म तं तादृशम्, अतिगहन अतिशयेनापूर्णावकाशम्। मूलदेशं वृक्षमभागम् अविशं प्रविष्ट-वान्। इह सङ्कीर्णादिश्चयन्ते लुप्तोपमाक्रियोत्प्रेक्षयोः अच्छैरियादिशब्दस्यान्ते जाप्युत्प्रेक्षावृत्त्यनुप्रासयो-श्चैकाध्रयानुप्रवेशरूपः सङ्करालङ्कारः। विन्ध्याटव्याः केशपाशश्रियभिव श्रियमिति विम्बप्रतिविम्वयस्वभाव-बोधनान्निदर्शनालङ्कारः। उत्सङ्गमिवेत्यत्र क्रियोत्प्रेक्षा।
अवतीर्येति। अवतीर्य उत्तीर्य च स वृद्धकिरातः तेन समयेन तत्कालेन क्षितितले भूतले विप्रकीर्णान् इतस्ततो विक्षिप्तान् तान् वृक्षपतितान् शुकशिशून् कीरडिम्भान् संहृत्य एकीकृत्य अनेकैः बहुभिः लता-पाशैः वल्लीरूपबन्धनरज्जुभिः संयतान् यद्धान् विधायेति शेषः। पर्णपुटे छदपुटे आबद्धय प्रपूर्य, अति-स्वरितम् अतिशीघ्रं गमनं गतिर्यस्य स तादृशा, सेनापतिगतेनैव सैन्यनायको येन वर्त्मना यया गतस्तेनैव पथा तामेव दिशं सेनापत्याश्रितामेवाशाम् अगच्छद् अगमत्।
मामिति। मां पिपासापरवशमकरोदित्यन्वयः। लब्धां प्राप्ता जीविताशां प्राणधरणसम्भावना येन तादृशम्, तच्चाण्डालस्य गमनादित्याशयः। प्रत्यग्रः अभिनवो यः पितृमरणशोकः तातमृत्युविषादः तेन शुष्कम् अक्लिन्नं सङ्कुचितं वा हृदयं मनो यस्य स तं तादृशम्। अतिदूरापातात् अत्युच्चतप्रान्ततः पतनात् आयासितं परिश्रमितं शरीरं वपुर्यस्य स तादृशः तम्, तथा सन्त्रासेन अतिभयेन जातः समुत्पन्नो वेपथुः कम्पा यस्य स तादृशस्तम्। सर्वाङ्गोपतापिनो समस्तहस्तपादादिग्यथादायिनी बलवती शक्तिशालिनो पिपासा तृट् परवशं पराधीनम् अकरोत् कृतवती।
अनया चेति। अनया अमुया कालकलया घटिकया स पापकृत् वृद्धकिरातः सुदूरं दूरदेशम् अति-क्रान्तः, अतीत इति परिकल्प्य मनसि विचार्य, किञ्चिदुन्नमिता दिगवलोकनायेपढूर्वीकृता कन्धरा ग्रीवा येन स तादृशः। भयेन त्रासेन चकितया चञ्चलया दृशा नेत्रेण दिशोऽवलोक्य आशा निरीक्ष्य सोऽथवा-ऽन्यो वा तथाविध आयाति न चेति ज्ञानार्थमित्याशयः। तृणेऽपि यत्रसेऽपि चलति कम्पमाने सति पुनर्भूयः
थोड़ी ही देर बाद उस पेड़ से उतर कर उस बूढ़े भील ने पृथ्वी पर फैले हुये शुगों के बच्चों को इकट्ठा किया और पत्तों के दोने में रखकर लताओं से बाँध दिया। फिर उन्हें लेकर वह अत्यन्त शीघ्रता से उसी ओर चल पड़ा जिधर सेनापति गया था। यद्यपि अब मुझे जीवित बच जाने की कुछ आशा हो चली थी, किन्तु तत्काल ही मरे हुए पिता के शोक में हृदय सूख रहा था, बहुत ऊपर से गिरने के कारण शरीर भी दुख रहा था, भय के कारण कंपकंपी लगी हुई थी और मारे शरीर को जलाने वाली जोर की प्यास ने मुझे विह्वल बना दिया था। इतनी देर में वह दुष्ट बहुत दूर तक चला गया होगा... ऐसा सोचकर मैंने अपनी गर्दन थोड़ी
१. क्वचित् 'च' इति पाठो नास्ति ।
२. विकीर्णान् ।
३. क्वचित् 'तान्' इति पाठो न विद्यते ।
४. आबध्य ।
५. 'तामेव' इत्यपि पाठः क्वचिन्नास्ति ।
६. अन्वगच्छत् ।
७ पातादायासितशरीरं ।
८. सन्त्रा-सजाता सर्व्वाङ्गोप०... ।
९. आक्रान्तः ।
१०. विलोक्य ।
१४ का० कथा०