भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
२८६कादम्बरी-[ कथायाम्-

मद-परिमल-लोभ-निरन्तर¹-निलीन-मधुकर-पटल-जटिलैः कुलक्रमागतैरुदात्तान्वयैरनुरक्तैर्महा-प्राणतया अतिकर्कशतया च दानवैरिव अतिशयाकारैः³ सम्भाव्यमानपराक्रमैः सर्वतः शरीर-रक्षाधिकारनियुक्तैः पुरुषैः परिवृतम्, उभयतो वारविलासिनीभिरनवरतमुद्धूयमानधवल-चामरम्, अमलपुलिनतलशोभिनी सुरकुञ्जरमिव मन्दाकिनीवारिणि हंसधवल⁴-शयनतले निषण्णं पितरमपश्यत्।

'आलोकये'ति च प्रतीहारवचनानन्तरम्, अतिदूरावनतेन चलित-चूडामणिना शिरसा कृतप्रणामम्, 'एह्येहि' इत्यभिदधानैः⁵ दूरादेव प्रसारितभुजयुगलः, शयनतलादीषदू-र्ध्वसितै⁶-मूर्तिः, आनन्दजल-पूर्यमाण॑-लोचनः समुद्गतपुलकतया सीव्यन्निव, एकीकुर्वन्निव⁹

मल्लोभेन सुगन्धतृष्णाया निरन्तरनिलीनं निरवकाशोपविष्टं यन्मधुकरपटलं भ्रमरसमूहः तेन जटिलैः व्याप्तैः आलानस्तम्भैः हस्तिबन्धनस्तम्भैरिव विद्यमानैः। अनुरक्तैः कुलक्रमागतैः परम्परायातैः उदात्ता-न्वयैः उच्चवंशैःमहाप्राणतया नितान्तशक्तिशालितया अतिकर्कशतया अत्यन्तकठिनशरीरतया चकारणेन, दानवैरिव दनुजैरिव लवलोक्यमानैः। अतिशयाकारैः अत्यन्तविशालस्वरूपिभिः, अत एव सम्भाव्यमान-पराक्रमैः सम्भाव्यमानसाहसैः एतादृशः सर्वतः चतुर्दिक्षु शरीररक्षाधिकारनियुक्तैः आत्मरक्षकैः पुरुषैः परिवृतं परिवेष्टितम्। इहं 'आलानस्तम्भैरिव दानवैरिव' इत्युभयत्राऽप्युपमालङ्कारः।

उभेति। उभयतः पार्श्वद्वये वारविलासिनीभिः गणिकाभिः अनवरतं निरन्तरम् उद्धूयमानानि वीज्यमानानि धवलानि निर्मलानि चामराणि यस्य तं तादृशम्, अत एव अमलाभ्यां स्वच्छाभ्यां पुलिन-तलाभ्यां पार्श्वद्वयवर्तिसिकतामयभागाभ्यां शोभते विराजते इति तस्मिन् तादृशे, मन्दाकिनीवारिणि वियद्गङ्गासलिले सुरकुञ्जरम् ऐरावतगजमिव, हंसवद्धवलं यत् शयनतलं शय्योर्ध्वदेशः तत्र निषण्णं उपविष्टम्। इह पार्श्वद्वये सिकतामयभागाभ्यां सह वीज्यमानचामराणाम्, वियद्गङ्गासलिलेन सह धवलशयनतलस्य ऐरावतगजेन च भूपतेरौपम्यमिति लुप्तोपमयोः अङ्गाङ्गिभावेन सङ्करालङ्कारः।

आलोकयेति। आलोकय 'कुमार! तातं निरीक्षस्व' इति प्रतिहारवचनानन्तरं सहायातद्वारपाल-कथनात्परम्, अतिदूरात् अतिदविष्ठदेशात् अवनतेन नम्रेण, अत एव चलितः कम्पितः चूडामणिः शिरो-रत्नं यस्य तेन तथोक्तेन शिरसा मस्तकेन, कृतो विहितः प्रणामो नतिर्येन तं तादृशं कुमारम्, एह्येहि आगच्छ आगच्छ इति वीप्सायां द्विवंचनम्। अभिदधानः ब्रुवाणः, दूरादेव प्रसारितं विस्तारितं भुजयुगलं बाहुद्वयं येन स. तादृशः। शयनबलात् शय्यातः, ईषच्च्वसितमूर्तिः किञ्चिदूर्द्ध्वीकृतशरीरः, आनन्दजलैः प्रमोद्वाष्पैः पूर्यमाणे म्रियमाणे लोचने नयने यस्य स तादृशः पिता तारापीडः, विनयावनतं विनयगुणेन नम्रीभूतं तं चन्द्रापीडम्, समुद्गतपुलकतया स्वशरीरोत्पन्नरोमाञ्चतया सीव्यन्निव स्वशरीरेण

था, अत एव हाथी के मदजलकी सुगन्ध के लोभसे निरन्तर बैठे (चिपटे) हुए भौरोंसे परिव्याप्त हाथी बाँधनेके स्तम्भके समान वे विराजमान थे और महाराजका वंशपरम्परागत शरीर-रक्षा कार्य करते आरहे थे, एवं उच्चकुलमें उत्पन्न हुए महाराजके प्रति विशेष अनुरक्त थे तथा महावीरता और अतिकर्कशताके कारण दानवगणके समान वे देखनेमें आ रहे थे, आकृति बहुत बड़ी होनेके कारण ही उनमें अत्यधिक पराक्रम है ऐसा समझ लिया जाता था। एवं वेश्याएँ महाराजके दोनों भागमें निरन्तर श्वेत चामर डुलाती थीं, उससे निर्मल पुलिन ( बालूकामय तट) से परिशोभित आकाशगङ्गाके जलमें ऐरावत हाथीके समान राजा देखनेमें आता था।

'कुमार! अपने पिताजी को देखिए'—इस प्रकार [साथ आए] द्वारपालके वचन सुननेके बादही चन्द्रा-पीडने माथा झुकाकर पिताको प्रणाम किया, उस समय उसका चूडामणि चलायमान हो गया। इतनेमें—'आओ आओ'—यों कहते-कहते पिता तारापीडने दूरसे ही भुजाओंको फैला कर, पलंग परसे शरीरको कुछ ऊँचा उठाकर, विनय से नम्र हुए पुत्र चन्द्रापीड का आलिङ्गन किया। उस समय महाराजकी आँखें आनन्दके आँसुओंसे भरी थीं, एवं समस्त शरीर में रोमाञ्च उत्पन्न (रोम खड़े) हो जानेके कारण राजा मानो अपने शरीर के


१. क्वचित् 'निरन्तर' इति पदं नास्ति।
२. महाप्राणतया।
३. अतिशयाकार, आश्रयाकारसम्मा-न्यमान..., अतिशयाकारसम्भाव्यमान...।
४. हंसधवले।
५. आदरेणामिधानः।
६. उद्भासित...।
७. ...मापूर्यमाण...।
८. ...पुलककण्टकतया।
९. एकीकुर्वन्निव तम् ।

चन्द्रापीडस्य मातापितृदर्शनवर्णनम्-३० ] चन्द्रकला-विद्योतिनीसहिता । २८७

पिबन्निव तं पिता विनयावनतमालिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृत- मुत्तरीयमात्मीयं^१ ताम्बूलकरङ्क^२वाहिन्या सत्वरमासनीकृतम् 'अपनये'ति शनैर्वदन्नग्र- चरणेन समुत्सार्य्य^३ चन्द्रापीडः क्षितितल एव निषसाद । अनन्तरं निहिते^४ चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत् । मुहूर्त्तमिव विस्मृतचामरोत्क्षेपनिश्शलानां वार- विलासिनीनां साभिलाषैरनिल-चलित-कुवलय-दत्त^५-दाम-दीर्घैराजिह्म^६-तरलतर-तारशारैरवलु- प्यमान इव दृष्टिपातैः स्थित्वा 'गच्छ, वत्स ! पुत्रवत्सलां मातरमभिवाद्य दर्शनलालसाँः^७ यथाक्रमं सर्वा जननीर्दर्शनेनानन्दय' इति विसर्जितः पित्रा, सविनयमुत्थाय निवारितपरिजानो

सह स्रुतं विदधदिव, एकीकुर्वन्निव अभिन्नं विदधदिव गाढारलेपगादित्यभिप्रायः, पिबन्निव सप्रेमाव- लोकनाविधानादित्याशयः आलिङ्ग परिषस्वजे । इह 'सीव्यन्निव' इत्यादि तिसृणां क्रियोत्प्रेक्षाणां परस्पर- नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।

आलिङ्गितेति । प्रथमम् आलिङ्गितः आश्लिष्टः पश्चान्मुक्तस्त्यक्तश्च राजकुमारः, ताम्बूलकरङ्कवाहिन्या नागवल्लीदलपेटिकाधारिण्या पितुरित्यर्थः, सत्वरं शीघ्रम् आत्मीयं स्वीयम्, पिण्डीकृतं सङ्कोचनेन स्तूपी- कृत्य राजकुमारस्य विष्टरीकृतमित्यर्थः उत्तरीय वस्त्रम्, अपनय एतद् दूरीकुरु गुरोः समीपे विष्टरोपवेशन- स्यायुक्तत्वादित्याशयः । शनैः मन्दं ब्रुवन् अग्रचरणेन पादाग्रेण तदुत्तरीयं समुत्सार्य दूरीकृत्य पितुश्चरण- पीठसमीपे तातपादासननिकटे क्षितितल एव भूमावेव निषसाद उपविवेश । अनेन विनयाधिक्यं व्यज्यते ।

अनन्तरमिति । वैशम्पायनश्च राज्ञा तारापीडेन सुतनिर्विशेषम् आत्मजसदृशम् उपगूढ आश्लिष्टः सन् अस्य राजकुमारस्य चन्द्रापीडस्य अनन्तरं पश्चात् निहिते स्थापिते आसने विष्टरे न्यषीदत् उपा- विशत् । वैशम्पायनस्य सचिवात्मजत्वेऽपि विप्रत्वाद्विष्टरे समुपवेशनं नायुक्तमित्यवधेयम् ।

मुहूर्त्तमिति । विस्मृताः राजपुत्रस्य अत्यधिकसौन्दर्यावलोकनोलपन्नविस्मयवशाद्विस्मरणमुपगता ये चामराणाम् उत्क्षेपा योजनानि तैर्निश्चलानां निस्पन्दानां वारविलासिनीनां वाराङ्गनानाम्, साभिलाषैः सस्पृहैः, अनिलचलितानां पवनान्दोलितानां कुवलयदलानां नीलोत्पलपत्राणां दाम माला तद्वद् दीर्घैः आयतः, अजिह्य नितान्तकुटिला तरलतरा अत्यन्तचपलाश्च यास्ताराः कनीनिकाः ताभिः शाराः चित्रिताः तैस्तादृशैः, दृष्टिपातैः नेत्रप्रान्तैः अवेलुप्यमानः पीयमानः इव राजकुमारः । मुहूर्त्तमिव कियत्समयं स्थित्वा तत्र राजनिटे स्थानं विधाय, हे वत्स, पुत्र ! गच्छ व्रज; पुत्रवत्सलां पुत्रहितां दर्शनलालसां त्वदवलोक- नोत्कण्ठितां मातरं जननीम् अभिवाद्य पादग्रहणं विधाय यथाक्रमं क्रममनतिक्रम्य ज्येष्ठाक्रमेणेत्यर्थः सर्वा निखिला जननीः उपमातृः दर्शनेन अवलोकनेन आनन्दय प्रमोदय इति पित्रा तारापीडेन विसर्जितो विष्टष्टः सविनयं सनमं यथा स्यात्तथा उत्थाय उत्थानं विधाय निवारितपरिजतः तत्रैव परित्यक्तसेवकवर्गः

साथ चन्द्रापीडकी सिलाई करता था, गाढ़ आलिङ्गनसे मानो एककर लेता था, एवं स्निग्ध दृष्टिसे मानो पान करता था । महाराजने चन्द्रापीडको आलिङ्गन कर छोड़ दिया । बादमें महाराजकी ताम्बूल-करङ्कवाहिनी (पानके डब्बेको धारण करने वाली) ने शीघ्रता से अपने उत्तरीय वस्त्र (दुपट्टा) को चौपेट कर चन्द्रापीड को बैठनेके लिए आसन कर दिया। उस समय चन्द्रापीडने धीरेसे कहा- 'इसे हटाओ' इस प्रकार कहते-कहते उसे अपने ही पैरके अँगूठेसे एक तरफ सरका (खिसका) कर, पिताके चरणोंके पास पृथिवी पर ही बैठ गया। महाराजने पुत्रके समान वैशम्पायनका भी आलिङ्गन किया, उस समय वैशम्पायन चन्द्रापीडके पीछे रक्खे हुए आसन पर बैठ गया । इधर जब वेश्याएँ चामर झलाना भूलकर निश्चल भावसे खड़ी रहकर अभिलाषा युक्त कटाक्षसे चन्द्रापीडको मानो पान करने लगीं, उस समय आँखें, पवनसे हिलने नीलकमलपत्रग्रन्थिकयोंके समान दीर्घ और टेढ़ी फिरती अत्यन्त चञ्चल पुतलियोंसे विचित्र हो गई थीं । चन्द्रापीडको थोड़ी देर उस स्थानमें बैठने के बाद राजाने कहा- 'जाओ, वत्स ! पुत्रवत्सला अपनी माताका अभिवादन कर एवं तुम्हारे दर्शन की अभिलाषा रखने वाली सब माताओं को यथाक्रम दर्शन देकर आनन्दित करो' यों कहकर उसे विदा किया ।


१. आत्मताम्बूल... । २. करण्ड... । ३. समुत्सार्य क्षितितले । ४. अनन्तरनिहिते, अनन्तरवि- निहिते । ५. ...कुवलयदाम... । ६. ...जिह्मित् । ७. ...लालसाम् ।

२८८कादम्बरी-[ कथायाम्-

वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेन उपदिश्यमानवर्त्मा अन्तःपुरमयासीत् ।

तत्र धवलकञ्चुकावच्छन्नशरीरैरनेक-शतसंख्यैः श्रियमिव क्षीरोदकल्लोलैः$^३$ समन्तात् परिवृतां शुद्धान्तर्वशिकैः$^४$ अतिप्रशान्ताकाराभिश्च कपायरक्ताम्बरधारिणीभिः सन्ध्याभिरिव सकललोकवन्द्याभिः प्रलम्बश्रवणपाशाभिर्विदितानेककथालापवृत्तान्ताभिः$^५$ भूतपूर्वाः$^६$ कथाः कथयन्तीभिः इतिहासान् वाचयन्तीभिः पुस्तकानि दधतीभिः धर्मोपदेशान् निवेदयन्तीभि-र्जरत्प्रव्रजिताभिविनोद्यमानाम्, उपारचितस्त्रीवेशभारेण गृहीतविकटप्रसाधनेन वर्षवरजनेन


वैशम्पायनद्वितीयः अन्तःपुरप्रवेशयोग्येन अवरोधप्रवेशोचितेन राजपरिजनेन राजसेवकवर्गेण उपदिश्य-मानवर्त्मा उपदर्श्यमानमार्गः अन्तःपुरम् आययौ समागतम् । इह 'अवलुप्यमान इव' इत्यत्र क्रियो-त्प्रेक्षालङ्कारः ।

तत्रेति । तत्र अन्तःपुरे चन्द्रापीडः, धवलाः श्वेता ये कञ्चुकाः वारबाणाः तैः अवच्छन्नानि आच्छा-दितानि शरीराणि देहा येषां तैः तादृशैः, अनेके ये शतसंख्याः तैः, वशस्य भवनस्यान्तर्नियुक्ताः इत्य-न्तर्वंशिकाः शुद्धा निर्दुष्टाश्च ते अन्तर्वंशिकाश्चेति तैः कञ्चुक्यादिभिरित्यर्थः 'अन्तःपुरे त्वधिकृतः स्याद-न्तर्वंशिको जनः' इत्यमरः, क्षीरोदकल्लोलैः क्षीरसमुद्रमहातरङ्गैः श्रियं लक्ष्मीमिव, समन्तात् सर्वतः परिवृतां परिवेष्टितां 'मातरं प्रप्रनाम' इत्युत्तरेण सम्बन्धः इह 'श्रियमिव' इत्युपमा ।

अतीति । किञ्चेति चार्थः । अतिप्रशान्तोऽतीव सौम्य आकारो मूर्त्तिर्यासां ताभिस्तादृशीभिः, कपायेण निर्यासेन रक्तानि रञ्जितानि अम्बराणि वस्त्राणि धारयन्तीति ताभिः, पक्षे कपायेण रक्तं रञ्जितमिव अम्बरं गगनं धारयन्तीति ताभिः । 'कपायो रसभेदे स्यादङ्गरोगे विलेपने ।

निर्यासे च कपायोऽथ सुरभौ लोहितेऽन्यवत् ॥' इति विश्वः ।

सकलैः समस्तैः लोकैः जनैः वन्द्याभिः वन्दनीयाभिः, सन्ध्याभिः सायेंसन्मवैरिव विद्यमानाभिः । प्रलम्वाः लम्बायमानाः श्रवणपाशाः शोभनकर्णा यासां ताभिः ।'•••• पाशस्तु मृगपक्षादिवन्धने । कर्णान्ते शोभनार्थः स्यात् कचान्ते निकरार्थकः ॥ छात्राद्यन्ते च निन्दार्थः, •••••• इति हैमः ।

सामुद्रिकशास्त्रे लम्नकर्णत्वमभिज्ञताबोधकमित्यवधेयम् । विदिता ज्ञाता अनेका बह्वः कथाः उपाख्यानानि आलापः परस्परोक्तिप्रत्युक्तयः वृत्तान्ता लौकिकवार्ताश्च याभिस्ताभिः । पूर्वं भूता इति भूतपूर्वाः कथा वत्सराजचरितप्रभृतीनि पुरातनोपाख्यानानि कथयन्तीभिः प्रतिपादयन्तीभिः इतिहासान् महाभारतप्रभृतीन् वाचयन्तीभिः व्याख्यापयन्तीभिः पुस्तकानि दधतीभिः धारयन्तीभिः अनन्तर- व्याख्यापनायेत्याशयः । धर्मोपदेशान् निवेदयन्तीभिः बोधयन्तीभिः जरत्प्रव्रजिताभिः वृद्धसंन्यासिनीभिः विनोद्यमानां तैस्तैः यत्नः सन्तोष्यमाणाम् ।

उपारचितेति । उपारचितो विहितः स्त्रीवेशभारः योषित्तुल्यवस्त्रकेशपाशधारणादिवेशनिकरः येन


तब चन्द्रापीड विनयके साथ उठ कर, परिजनादिकों को साथ आनेसे रोक कर, केवल वैशम्पायनके साथ अन्तःपुरमें प्रवेश करने योग्य राज परिजनके बताये हुए मार्गसे रनिवासमें आ गया ।

चन्द्रापीडने रनिवासमें उपस्थित होकर माता विलासवती को प्रणाम किया । पहले क्षीरसागर की महातरङ्गोंने जिस प्रकार लक्ष्मी देवीको परिवेष्टित किया था, उसी प्रकार सफेद कञ्चुक (अङ्गरखाओं) से आच्छादित शरीरवाले एवं निर्दुष्ट स्वभाववाले कतिपय कञ्चुकीगण, महारानी विलासवतीको घेर कर खड़े थे । अत्यन्त शान्त आकृति वाली, जोगिये वस्त्र धारण करनेवाली एवं सन्ध्या के समान सब लोगोंके प्रणाम करने योग्य अधिकतर वृद्ध परिव्राजिकाएँ वहाँ उपस्थित थीं । उनके सुन्दर कान लम्बे थे । वे अनेक कथा-लौकिक वृत्तान्त और परस्पर आलाप करना जानती थीं । उन सबोंके बीचमें कोई-कोई प्राचीन समयकी पवित्र कथा कह कर, कोई-कोई महाभारतादि इतिहास ग्रन्थकी व्याख्या कर, कोई-कोई पुस्तकें लेकर, और कोई-कोई धर्मोपदेश सुना कर महारानी का मन बहला रही थीं । स्त्रियोंके वेष धारण कर एव अत्युज्ज्वल आभूषणों से भूषित होकर नपुंसक


१. परिजनेन । २. नैक ..। ३. . जलकल्लोलैः । ४. शुद्धान्तान्तर्वशिकैः । ५. ...कथावृत्तान्ताभिः । ६. श्रुतपूर्वाः । ७. क्वचित् 'पुण्याः' इत्यधिकः पाठो विद्यते । ८. वाचयन्तीभिरितिकासपुस्तकानि, ददती-भिर्धम्योपदेशान्, निवेदयन्तीभिः पुण्याः कथाः । ९. ...भापेण ।

चन्द्रापीडस्यमातृदर्शनम्० ३० ] [ चन्द्रकला-विद्योतिनीसहिता । १८८

संसेव्यमानाम्¹, अनवरत²-विधूयमान³-बालव्यजनकलापाम्, अङ्गनाजने च वसनाभरण-कुसुमपटवासताम्बूल-तालवृन्ताङ्गराग-भृङ्गार-धारिणा मण्डलोपविष्टेनोपास्यमानाम्; पयोधरान्तरावलम्बित⁴-मुक्तागुणाम्; अचलद्वय-मध्य-प्रवृत्तगङ्गा⁵-प्रवाहामिव मेदिनीम्; आसन्न-दर्पण-पतित-मुख-प्रतिबिम्बाम्, अर्क-बिम्बप्रविष्टशशिमण्डलामिव दिवं⁶ समुपसृत्य मातरं प्रणनाम⁷।

सा तु तं ससम्भ्रममुत्थाप्य सत्यप्याज्ञासम्पादनदक्षे पार्श्वपरिवर्त्तिनि परिजने स्वयमेव


तेन तादृशेन, तथा गृहीतं स्वीकृतं विकटम् अतिस्वच्छं प्रमाधनम् अलङ्करणक्रिया येन तेन, वर्षवरजनेन नपुंसकमण्डलेन संसेव्यमानां समुपास्यमानाम् । वर्षवरलक्षणं यथा कामन्दकीनीतिसारे—

'ये स्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः॥'

अनवरतेति—अनवरतं निरन्तरं विध्यमानः सेव्यकवर्गैः संवीज्यमानः बालव्यजनकलापः चामरनिकरो यस्यास्तां तादृशीम् ।

वसनेति । वसनानि वस्त्राणि आभरणानि भूषणानि कुसुमानि पुष्पाणि, पटवासान् रक्तचूर्णाद्विशेषान्, उक्तञ्चैतल्लक्षणं वराहेण—

'त्वगुशीरपत्रभागैः सूक्ष्मैलाद्वैर्न संयुक्तश्चूर्णः । पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥'

ताम्बूलानि नागवल्लीदलानि तालवृन्तानि व्यजनानि 'व्यजनं तालवृन्तकम्' इत्यमरः, अङ्गरागान् कुङ्कुमश्रीखण्डादीन्, भृङ्गारान् सुवर्णकृतजलपात्रविशेषान् 'भृङ्गारः कनकालुकाः' इत्यमरः, एतांश्च धारयन्तीति तेन तादृशेन, मण्डलोपविष्टेन सर्वतो वर्त्तुलरुपेणासेदुषा, अङ्गनाजनेन परिचारिकावर्गेण उपास्यमानां सेव्यमानाम् ।

पयोधरेति । पयोधरयोः कुचयोः अन्तरे मध्ये अवलम्बितो लम्बायमानः मुक्तागुणः मौक्तिकदाम यस्यास्तां तादृशीम्, अत एव अचलद्वयमध्ये पर्वतद्वयान्तराले प्रवृत्तः प्रसृतः गङ्गाप्रवाहः भागीरथीधारा यस्यास्तां नयोक्तां मेदिनीं वसुन्धरामिव विद्यमानाम् ।

इह पर्वतयुगलेन सह अत्युच्चकुचयोज्ञस्य, भागीरथीप्रवाहेण मौक्तिकदाम्नाः, वसुंधरया च विलासवत्या औपम्यमित्युपमालङ्कारः पदार्थहेतुककाव्यलिङ्गालङ्कारेण सङ्कीर्यते ।

आसन्नेति । आसन्नः समीपाभिमुखस्थः दर्पणो मुकुरः तत्र पतितं मुखप्रतिबिम्बं यस्याः तां तादृशीम्, अत एव अर्कबिम्बे रविमण्डले प्रविष्टं समसूत्ररातन्यायेनाधो वर्त्तमानं शशिमण्डलं चन्द्रमण्डलं यस्यां तां दिवं गगनमिव विद्यमानाम् । अमावस्यायां नक्षत्रमण्डले समसूत्रपातन्यायेन रविमण्डलादधः शशिमण्डलं तिष्ठति । मातरं समुपसृत्य पार्श्वं समागत्य प्रणाम नमश्चक्रे । इह आदर्शस्य सूर्यबिम्बौपम्यम्, मुखस्य शशिमण्डलौपम्यम्, विलासवत्या अमावास्यौपम्यमिति पूर्ववदुपमालंकार एव ज्ञेयः ।

सेनेति । तुः पुनरर्थे । सा विलासवतीससम्भ्रमं शीघ्रम्, पादपतितं चन्द्रापीडम् उत्थाप्य, पार्श्वपरिवर्त्तिनि समीपस्थायिनि परिजने परिचारिकागणे आज्ञासंपादनदक्षे नियोगकरणभिज्ञे सत्यपि विद्यमानेऽपि


(हिजड़े), महारानी की सेवा करते थे। कुछ परिचारिकायें बराबर चामर डुला रहीं थीं। अन्यान्य परिचारिकायें कपड़े, गहने, फूल, पटवास (अबीर, अथवा जिससे वस्त्र सुगन्धित किया जाय), पान, तालवृन्तके पंखे, अङ्गलेपनके द्रव्य और झारियाँ लेकर, चारों ओर मण्डलाकारमे बैठ कर सेवा करती थीं। स्तनोंके बीचमें मुक्ताहार लटक रहा था, अत एव दो पर्वतोंके बीचमें बहने गङ्गाप्रवाहिते युक्त पृथिवीके समान वह देखने में आ रही थी। संमुखवर्त्ती एक दर्पण (ऐनक) में इसके मुखका प्रतिबिम्ब पड़ रहा था, जिससे सूर्यमण्डलमें चन्द्रमण्डलके प्रवेश करने पर आकाशके समान वह विराजमान थी।

महारानी विलासवतीने उस चन्द्रापीडको उठा कर आज्ञापालन करनेमें निपुण परिजनोंके पासमें रहने


¹ संसेव्यमानानाम् । ² '···भिव्रूयमान···'। ³ क्वचित् 'बाल' इति पदं नास्ति । ⁴ पयोधरविलम्बि···'पयोधरबिलम्बित··· । ⁵ अचलद्वयमध्यप्रवृत्तगङ्गा···, अचलद्वयप्रवृत्तगङ्गा···। ⁶ दिवमुत्सुसृत्य, दिवमिवैकं । ⁷ ननाम । ⁸ तु ससम्भ्रममुत्थाय ।

२६० कादम्बरी- [ कथायाम्-

कृतावतरणमङ्गला, १ प्रस्तुत२-पयोधर-क्षरत्पयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन निर्गच्छतेव३ हृदयेनान्तः शुभशतान्यभिध्यायन्ती४ मूर्द्धन्युपाघ्राय तं सुचिरमाश्लिषेत् ।

अनन्तरञ्च तथैव कृत्तयथोचितसमुपचारमाश्लिष्ट५-वैशम्पायना स्वयमुपविश्य विनयादवनिंतले समुपविशन्तम्६, आकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गेमारोपितवती ।

ससम्भ्रमं७-परिजनाेपनीतायामासन्द्यामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनः पुनरालिङ्ग्य ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत्—'वत्स ! कठिनहृदयस्ते पिता, येनेयमाकृतिरीदृशी८ त्रिभुवनलालनीया क्लेशमतिमहन्तमियन्तं कालं लम्मिता । कथमसि९ सोढवानतिदीर्घामां१० गुरुयन्त्रणाम् ?' अहो !

स्वयमेव आत्मनैव कृतं विहितम् अवतरणमङ्गलं यानावतरणसामयिकं धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणं यया सा तादृशी सती, प्रस्तुतौ सुनावलोकनेन क्षीरस्यन्दिनाव यौ पयोधरौ वक्षोजौ ताभ्यां क्षरतां निःसरतां पयोबिन्दूनां दुग्धकणानां छलेन व्याजेन द्रवीभूय तरलीभूय निर्गच्छतेव निर्यातेव, स्नेहाकुलेन प्रेमपूर्णेन हृदयेन चेतसा करणेन, अन्तर्मध्ये शुभशतानि राजपत्नस्य क्षेमाधिक्यम् अभिध्यायन्ती अभिचिन्तयन्ती, मूर्द्धनि मस्तके आघ्राय आघ्राणं ( चुम्बनं ) विधाय सुचिरं चिरसमयं तम् आश्लिषेप आलिलिङ्ग । इह 'निर्गच्छतेवे'ति अपह्नवसहितोत्प्रेक्षा ।

अनन्तरमिति । अनन्तरम् आश्लेषानन्तरम्, तथैव चन्द्रापीडवदेव कृतो विहितो यथोचितं यथायोग्यं समुपचारः अवतरणमङ्गलं चत्र क्रियायां तद्यथा स्यात्तथा आश्लिष्ट आलिङ्गितो वैशम्पायनो यया सा तादृशी विलासवती स्वयम् उपविश्य विनयात् नम्रात् अवनितले भूतले समुपविशन्तम् आसेदिवांसम् अनिच्छन्तमपि अतिशैक्षवेन बालकवत्क्रोडेमारोढुमनभिलषन्तमपि चन्द्रापीडं वलात् हठात् आकृष्य आकर्षणं कृत्वा उत्सङ्गं क्रोडम् आरोपितवती आरोपयामास, जननी वात्सल्यस्यालौकिकत्वादित्याशयः ।

ससम्भ्रमेति । ससम्भ्रमेण शीघ्रतापरेण परिजनेन परिचारिकावर्गेण उपनीतायाम् उपस्थापितायाम् । सासन्द्यां वेत्रासने—

'वेत्रासनमासन्दी स्त्री नृपी प्रतिकासन्नम्।'

इति रामाश्रमी । वैशम्पायने च उपविष्टे निषण्णे सति चन्द्रापीडं पुनः पुनः भूयो भूयः आलिङ्ग्य आश्लिष्य ललाटदेशे भालप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोः मुहुर्मुहुः वारंवारं करतलेन स्वहस्ततलेन परामृशन्ती आमर्शशं विदधती सती विलासवती तम् अवादीद् अवोचद् ।

वत्सेति । वत्स हे पुत्र !, ते तव पिता कठिनहृदयः कठोरचित्तः येन हेतुना ईदृशीयम् आकृतिः आकारः त्रिभुवनलालनीया त्रिविष्टपनिवासिभिरेव लोकैः प्रेम्णैव समीपे पालनीया, अत्यन्तमृदुलललितत्वादित्याशयः । अतिमहन्तम् अतिदीर्घम् इयन्तं कालम् एतावत्प्रमासमयम् क्लेशं खेदं लम्भिता प्रापिना अतिदीर्घाम् अतिमहासमयव्यापिनीम् इमां गुरुयन्त्रणां पाठशालायां पाठकगगकर्तृकावरोधक्लेशनम्, कथं


पर मो अपनेते ही उसके नवागमनका मङ्गलचार ( उतारा ) किया । उस समय स्तनों में से रिसती दूधकी बूँदोंके बहानेसे महारानीका हृदय मानों तरल होकर बाहर निकल रहा था, महारानीने उस हृदयसे चन्द्रापीडका सैकड़ों मङ्गलों का चिन्तन करती हुई, उसके मस्तकको सूँघ कर बहुत देर तक उसका आलिङ्गन किया ।

उसके बाद उसी भावसे ही यथोचित मङ्गलचारपूर्वक वैशम्पायनका भी आलिङ्गन कर स्वयं बैठी । चन्द्रापीड भी विनयवश पृथिवी पर ही बैठना चाहता था, किन्तु बैठनेकी इच्छा न होने पर भी महारानीने बलपूर्वक उसे खींच कर अपनी गोदमें बैठा लिया ।

इधर दासियोंने शीघ्रतासे एक बेंतकी कुरसी ला दी, उस पर वैशम्पायन बैठ गया । बाद में महारानी विलासवती चन्द्रापीडको बार-बार छाती से लगा कर, ललाट, छाती और कन्धों पर बारन्बार हाथ फेरती हुई कहने लगी—'वत्स ! तुम्हारे पिताका हृदय कठोर है; क्यों कि उन्होंने ऐसी त्रिभुवन-लालनीय आकृति एवं रूपको इतने समय तक ऐसा बड़ा क्लेश सहन कराया । तुम कैसे इतने अधिक समय तक गुरुओं (शिक्षकों) का


१. कृतावतारणका । २. ‘’’प्रस्तुत’’’, अपस्तुत’’’ । ३. निर्गतेव । ४. शतानांव ध्यायन्ती, शतानीवाभिध्यायन्ती । ५. समुपचाराश्लिष्ट’’’ । ६. समुपविशन्तमाकृष्य । ७. ससन्त्रनं । ८. ईदृश’’’ ९. कथमपि । १० गुरुजनयन्त्रणाम् ।

शुकनासनोर्मादर्शनवर्णना-३१ ] [ चन्द्रकला-विद्योतिनीसहिता २९१

बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो ! विगत¹-शिशुजन-क्रीडा-कौतुक-लाघव-नर्मकस्यापि² ते हृदयम् । अहो ! गुरुजनस्योपरि भक्तिरसाधारणी³ सर्वथा⁴ । यथा पितुः प्रसादात् समस्ताभिरुपेतो विद्याभिरालोकि⁵तोऽसि, एवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेनमालोकयिष्यामि' इत्येवमभिधाय लज्जास्मितावनतमात्ममुखप्रतिबिम्बगर्भं विकच-कमलकृत-कर्णपल्लवावतंस इव कपोले पर्यचुम्बदेनम् । एवञ्च तत्रापि नातिचिरमेवं स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शनेन नन्दयामास⁷ । निर्गत्य च राजकुलद्वारावस्थितम्⁸ इन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं द्रष्टुमयासीत् ।

केन प्रकारेण सोढवानसि नर्पणशीलो जातः ?। आश्चर्यं चेह अहोशब्दत्रयम् । बालस्यापि शिशोरपि ते तव कठोरस्येव परिपक्वावस्थायुक्तलोकस्येव महद्धैर्यम् । अर्मकस्यापि बालकस्यापि ते तव हृदयं चित्तम्, विगतं दूरीभूतं शिशुजना बालकवर्गाः तेषु क्रीडाकौतुकं समुचितखेलाकौतूहलं तेन लाघवं लघुत्वं चापलं यस्मात्तत्तथोक्तम् । गुरुवस्य शिक्षकवर्गस्य पूज्यवर्गस्य वा उपरि सर्वथा असाधारणी असामान्यी सर्वाधिकेत्यर्थः भक्तिः सादरपूर्वकावलोकनम् । अन्येयन्तं कालं यावत् विद्यालये गुरुयन्त्रणां न सहेयुः अनेन प्रकारेण विनयप्रणामादिकञ्च न कुर्य्या इत्याशयः । यथा पितुर्जनकस्य प्रसादात् माहात्म्यात् समस्ताभिः सकलाभिः विद्याभिः आन्वीक्षिकीप्रभृतिभिः उपेतः सहित आलोकितोऽसि वीक्षितोऽसि, एवं तथा पितुः प्रसादेनैव अचिरेण कालेन स्वल्पेन समयेन अनुरूपामिः योग्याभिः वधूभिः स्नुषाभिः उपेतं सहितम् आलोकयिष्यामि निरीक्षिष्ये ।

इतीति । इत्येवम् अनेन प्रकारेण अभिधाय उक्त्वा, लज्जास्मितेन त्रपायुद्भासेन अवनतं शिशुवाच्यत्वेन वधूनामाकर्णनाद् स्मितं विधाय त्रपया नम्रवदनमित्यर्थः, एनं चन्द्रापीडम्, आत्मनो निजस्य मुखस्य वदनस्य प्रतिबिम्बं गर्भे मध्ये यस्य तस्मिन् तादृशे, चन्द्रापीडस्य निर्मलगण्डस्य निकटे निजमुखनयनादित्येवार्थः, अतएव विकचकमलेन विकसितपङ्कजेन कृतो विहितः कर्णपल्लवः श्रवणकिसलयानामेव अवतंसः कर्णभूषणं यत्र तथोक्त इव कर्णनपीकृतकमलसहिते इव विद्यमाने इत्यर्थः कपोले गण्डे पर्यचुम्बद् चुम्बनं विहितवती विलासवतीति शेषः ।

इह प्रस्तुतिपदपदेन कर्णानूपकरणस्योत्प्रेक्षणात् क्रियोत्प्रेक्षा सा च पदार्थाहेतुककाव्यलिङ्गालङ्कारेण सङ्कीर्यते । अतएव हि विलासवतीवदनस्य विकचकमलसादृश्यं ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः ।

एवञ्चेति । एवं पूर्वोक्तप्रकारेण तत्रापि मातुरन्तिकेऽपि नातिचिरमेव किञ्चित्कालमेवेत्यर्थः, स्थित्वा अवस्थानं विधाय क्रमेण आनुपूर्व्येण सर्वान्तःपुराणि समन्ता दवरोधस्थाः स्त्रियः दर्शनेन अवलोकनेन नन्दयामास प्रमोदंयामास । निर्गत्य निष्क्रम्य च राजकुलद्वारावस्थितं राजभवनप्रतोलीमार्गसंस्थन् इन्द्रायुधम् अश्वम् आरुह्य तत्रेोपविश्येत्यर्थः, तथैव पूर्ववदेव तेन पूर्वोक्तेन राजपुत्रलोकेन नृपात्मजवर्गेण अनुगम्यमानः अनुव्रज्यमानः शुकनासं प्रधानामात्यं द्रष्टुम् अवलोकयितुम् अयासीत् आजगाम्द ।

नियन्त्रणा सहन किये हो ? कितना आश्चर्य ? बालक होने पर भी पूर्ववयस्क व्यक्तिके समान तुम्हारे सुन्दर धैर्यको देखती हूँ । विशेष आश्चर्य तो यह है कि—बालक होने पर भी—तुम्हारे हृदयसे शिशुजनोचित क्रीडा-कौतुककी चपलता दूर हो गई है । और भी आश्चर्यका विषय यह है कि—गुरुजनों पर सब प्रकारसे तुम्हारी असाधारण भक्ति देखती हूँ । तुम्हारे पिताके प्रसादसे सर्वथा आज मैं तुमको जिस प्रकार समस्त विद्यासे परिपूर्ण देख रही हूँ, इसी प्रकार थोड़े समयके अनन्तर ही अनुरूप बहुओं-सहित देखूँगी।' विलासवतीके इतना कहने पर चन्द्रापीडने लज्जा और मुस्कुराहटके साथ (कारण) अपने मुखको नीचे झुका लिया, उस समय विलासवतींने उसके गाल पर चुम्बन किया, तब विलासवतीके मुखका प्रतिबिम्ब चन्द्रापीडके गाल पर गिरनेसे इस प्रकार प्रतीत होने लगा मानो, खिले कमलके द्वारा उस पर कानका आभूषण बनाया गया हो । इस प्रकार वहाँ पर भी अधिक समय तक न रह कर चन्द्रापीडने अन्तःपुरमें रहनेवाली समस्त स्त्रियोंको क्रमशः दर्शन देकर आनन्दित किया। फिर वहाँ से बाहर आकर, राजभवनके दरवाजेके समीप खड़े इन्द्रायुध पर बैठ, पहलेके अनुसार ही, उस समस्त राजपुत्रोंके साथ, शुकनाससे मिलनेके लिए गया।


१. विगलित० । २. अर्मकस्ये त्यपि, अर्मकस्येवेति वै, अर्मक वेति । ३. असाधारणा । ४. सर्व्वा । ५. अवलोकिते । ६. अत्र कचित्पुस्तके 'इव' कारो न दृश्यते । ७. दर्शनेनानन्दयामास । ८. राजकुलद्वाराद्बहिः स्थितम् ।

२६२कादम्बरी-[ कथायाम्-

यामावस्थित-विविध-गज-घटा^१-सङ्कटम्, अनेक-तुरङ्ग-सहस्र-सम्बाधम्, अपरिमित-जन-समूह-सम्मर्द^२-सङ्कुलम्, एकदेशोपविष्टैः सहस्रशो निबद्धचक्रवालैरनेककार्य्यागतैर्दर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनोन्मीलितबुद्धिलोचनैः^३ चीवरच्छद्मना^४ विनयानुरागिभिर्धर्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेयैः, रक्तपटैः^५ पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानाञ्च सामन्तानां जघनोपविष्ट-पुरुषोत्सङ्ग-स्थितद्विगुणित-कुथाभिः^७ अतिचिरावस्थान-निर्वेद-प्रसुप्ताधोरणा^८भिरपर्य्याणाभिः सपर्‍य्याणाभिश्च निश्चलाव-

दानेति। यामावस्थिताः प्रतिप्रहरं परिवृत्य परिवृत्य स्थिता ये गजा हस्तिनः तेषां घटया समूहेन संकटम् आकुलम्। इत आरभ्य नपुंसकलिङ्गानि द्वितीयान्तानि पदानि अग्रेतनस्य 'शुकनासगृहद्वारम्' इत्यस्य विशेषणानि। अनेकैः बहुभिः तुरङ्गसहस्रैः घोटकनिकरैः सम्बाधं सङ्कीर्णम्।

'सङ्कटं ना तु संबाधः कलिलं गहनं समे।
सङ्कीर्णं सङ्कुलाकीर्णे.....................

इत्यमरः। अपरिमितः असंख्येया ये जना लोकाः तेषां समूहस्य सङ्घस्य सम्मर्देन परस्पराघातेन सङ्कुलं व्याप्तम्।

एकदेशेति। एकदेशे एकस्मिन् भागे उपविष्टैः निषण्णैः सहस्रशो बहूनि निबद्धानि कृतानि चक्रवालानि मण्डलानि वर्त्तुलरूपेणावस्थानानि यैस्तैः तादृशैः, अनेककार्य्यागतैः पृथक् पृथक् उद्देशेनोपस्थितैः दर्शनोत्सुकैः अवलोकनायोत्कण्ठितैः शुकनालसाक्षात्कारेच्छाकारिभिरित्यर्थः समन्ततः चतुर्दिक्षु सर्वविषयेष्वित्यर्थः, विविधानि अनेकप्रकाराणि शास्त्राण्येव अञ्जनानि कज्जलानि तैरुन्मीलितानि विकासं प्रापितानि बुद्धयो-मतय एव लोचनानि नयनानि येषां तैस्तादृशैः। चीवराणि बौद्धभिक्षुप्रावरणानि छद्मना कपटेन, विनये धर्मशिक्षायाम् अनुराग एव अनुरागः रञ्जनद्रव्यं विद्यते येषां तैस्तथोक्तैः धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव बौद्धव्यवहारसिद्धवस्त्रविशेषैरिव, धर्मपटाश्च येषु पटेषु धर्मशासनान्युल्लिख्य अन्तेवासिभ्यः प्रदर्श्यन्ते ते बोध्याः। अवगुण्ठितैरिव आच्छादितशरीरैरिव विद्यमानैः। शाक्यमुनेः शाक्यसिंहस्य अर्कबान्धव-वतपस्विनः शासनपथे उपदिष्टधर्मविषये धौरेयाः धुरन्धराः अग्रगण्याः तैस्तादृशैः, रक्तपटैः रक्तवस्त्रधारिभिः, पाशुपतैः महेश्वराराधकैः द्विजैर्विप्रैश्च दिवानिशम् अहोरात्रम् आसेव्यमानं शुकनासप्रेम्णोपास्यमानम्।

इह 'विविधशास्त्राञ्जनेत्यादौ शास्त्रेष्वञ्जनत्वारोपस्य बुद्धिषु नेत्रत्वारोपं प्रति कारणत्वात् परम्परित-रूपकमलङ्कारः। 'धर्मपटैरिव' इत्यत्र हि बौद्धभिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु धर्मपटत्वमुत्प्रेक्ष्यते। अर्थात् चीवराणां तु व्याजो वर्त्तते, वस्तुतस्तु धर्मपटैरेव ते आवृत्ताः। अनुराग इति श्लिष्टम्, ततश्च श्लेषो-त्थापिता सापह्रवा क्रियोत्प्रेक्षालङ्कारः।

अभ्यन्तरेति। क्लिन्नेति चार्थः। अभ्यन्तरप्रविष्टानां निजनिजकार्यसम्पादनाय अभ्यन्तरे शुकनासा-न्तिकं प्राप्तानां सामन्तानां स्वदेशपार्श्ववर्त्तिभूपतीनां शतसहस्रशः 'करिणीभिः' इति वक्ष्यमाणेनान्वयः। जघनेषु तासां हस्तिनीनां कट्या अग्रिमप्रदेशेषु उपविष्टानां निषण्णानां पुरुषाणां तत्तत्सामन्तपरिचारक-जनानाम् उत्सङ्गेषु क्रोडेषु विद्यमाना द्विगुणिताः आरोहिसामन्तानामवतरणानन्तरमेव अपसार्य द्विगुण-भागे सङ्कोचिताः कुथाः पृष्ठास्तरणानि यासां ताभिः तादृशीभिः। अतिचिरं सामन्तानां विलम्बमधिकं


क्रमसे शुकनासके भवनके दरवाजे पर जाकर उपस्थित हुआ। वह दरवाजा प्रत्येक प्रहरमें परिवर्तित अनेक प्रकारके हाथियोंसे व्याप्त था, एवं अधिकतर घोड़ोंसे परिपूर्ण और अगणित मनुष्योंके सङ्घर्षसे दुर्गम था। उसके एक भागमें शाक्यसिंहके उपदेश मार्गमें अग्रगण्य अधिकतर बौद्ध संन्यासी एवं रक्तवस्त्रधारी शिवो-पासक ब्राह्मण, चारों ओर हजारों मण्डल बनाकर दिन-रात बैठे रहते थे। वे अपने भिन्न-भिन्न कार्योंके लिए आए हुए थे, एवं सब लोग शुकनासका दर्शन करनेके लिये उत्सुक थे। विविध शास्त्ररूप कज्जलने, सभी विषयोंमें ही उन लोगोंके ज्ञान-नेत्रको उन्मीलित किया था। और बौद्ध संन्यासीगण कौपीन (लङ्गोटी) धारण करनेके बहाने, धर्मशिक्षा द्वारा धर्ममें अनुरागरूप रञ्जन द्रव्यसे रँगे हुए धर्मपटसे मानो, शरीरको आच्छादित


१. ॰॰॰गन्यगज॰॰॰ ।
२. ॰॰॰समूहसङ्घट्टसम्मदं॰॰॰ ।
३. उन्मीलितप्रतिमैः।
४. रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः।
५. रक्तपादैः।
६. स्थानोपविष्टपुरुषावस्थित।
७. संग्रथितद्विगुणकुथाभिः।
८. धोरणाभिः सपर्‍य्याणाभिः।

शुकनासमनोमादर्शन०-३१ ] चन्द्रकला-विद्योतिनीसहिता । २९३

स्थानप्रचलायिताभिः शतसहस्रशः करिणीभिराकीर्णम्, शुकनास-गृहद्वारमासाद्य, सत्वर-प्रधावितैर्द्वारदेशावस्थितैः प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गणे एव तुरङ्गान् अवततार । द्वारदेशावस्थापित-तुरङ्गत्व वैशम्पायनमवलम्ब्य पुरः प्रधावितैः समुत्सारित-परिजने-स्तत्प्रतीहार-मण्डलैरुपदिश्यमानमार्गः, तथैव चलितमुकुटकोटिभिर्नरेन्द्रवृन्दैः सेवासमुपस्थि-तैरुत्थाय प्रणम्यमानः तथैव च प्रचण्ड-प्रतीहार-हुङ्कार-भय-मूकीभवत्परिजनानि प्रचलित-

सभयम् अवस्याननेन अवस्थित्या यो निर्वेदः खेदः तेन प्रसुप्ता निद्रां प्राप्ता आधोरणा हस्त्यारोहा यासां ताभिस्तादृशीभिः ।

'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः' । इत्यमरः ।

अपर्यागाभिः पृथक्कृतपल्ययनाभिः, सपर्यागाभिः, प्राग्वदेव पल्ययनसहिताभिश्च निश्चलावस्थानेन निष्क्रियत्वेनावस्थित्या प्रचलायिताभिः निद्रावेशेन घूर्णिताभिः 'घूर्णिनं प्रचलायितम्' इत्यमरः, करिणीभिः हस्तिनीभिः आकीर्णं सङ्कुलम् ।

सत्वरेति । सत्वरप्रधावितैः सम्भ्रान्तोपस्थितजनदूरीकरणाय शीघ्रं पुरोगतैः, द्वारदेशावस्थितैः प्रतोली-देशे विद्यमानैः प्रतीहारपुरुषैः द्वारपालजनैः अनिवार्यमाणोऽपि राजपुत्रः चन्द्रापीडः राजकुल इव राज-भवन इव बाह्याङ्गण एव भवनाद्बहिंश्चत्वर एव । कस्यापि भवने सवाहनप्रवेशस्यानुचितत्वादित्याशयः ।

द्वारेति । अपि च द्वारदेशे प्रतोल्याम् अवस्थापितः रक्षितः तुरङ्गः अश्वो येन स तादृशो राजपुत्रः, वैशम्पायनं शुकनासत्मजम् अवलम्ब्य आलम्ब्य पुरः प्रधावितैः अग्रतो द्रुतप्रचलितैः समुत्सारितपरि-जनैः सम्मुखावनागां दूरीकृतसमन्तादागतपरिचारकैः तत्प्रतीहारमण्डलैः तद्द्वारपालगणैः उपदिश्यमान-मार्गः प्रदर्श्यमानपथः ।

तथैवेति । तथैव यथा राजभवने तथैवेत्यर्थः । चलिताः शिरोऽवनमनसमये कम्पिताः मुकुटानां शिरोभूषणानां कोटयः अग्रभागा येषां तैस्तादृशैः, सेवासमुपस्थितैः शुकनाससन्तोषाय प्राप्तैः, नरेन्द्रवृन्दैः राजमण्डलैः उत्थाय उत्थाय पुनःपुनरुत्थानं विधायेत्यर्थः प्रणम्यमानः नमस्क्रियमाणः ।

तथैवेति । प्रचण्डो भीषणो यः प्रतीहारहुङ्कारः द्वारपालोपसारणसूचकशब्दः तेन यद्भयं कोलाहलेन राजपुत्रत्रासः तेन मूकीभवन्तः मौनतां समाश्रयन्तः परिजनाः परिचारिका येषु तानि तादृशानि । तथा प्रचलिताः प्रतीहारगणैः धृता या वेत्रलता वेतसयष्टयः ताभिः चकितं शङ्कितं यन्मामन्तचक्रं स्वायत्तः राजमण्डलं तस्य चरणशतेन पादन्याससमूहेन चलिता कम्पिता वसुन्धरा पृथ्वी येषु तानि तादृशानि-कक्षान्तराणि भिक्षान् भिक्षान् प्रकोष्ठान् निरीक्षमाणः समवलोकयन् ।


किये थे। छोटे-छोटे अधीन राजा लोग शुकनासका दर्शन करनेके लिये अन्दर में प्रवेश किये थे, उनका वह दरवाजा लाखों हथिनियोंसे भरा हुआ था। वे बहुत देर तक निश्चलभावसे खड़े रहनेके कारण निद्राके आवेशमें घूमतीं रहतीं थीं। उन सबोंके बीचमें अनेक हथिनियोंको ऊपर से पल्ययन (जीन) समेट कर रख लिया गया था, एवं कितने के ऊपर पल्ययन (जीन) पहिलेकी तरह फैलाया हुआ ही रखा हुआ था। और उन गजारोके परिचारक गण उन हथिनियोंके बदन पर बैठकर, उनके पीठपर बिछाये हुए दोहरी लपेटी सूकडी गोदमें रख दिये थे; एवं बहुत देर तक राह देखनेसे थक कर उनके महावत निद्रावश हो गये थे। चन्द्रापीडको वहाँ उपस्थित होने पर दरवाजेके पास खड़े द्वारपालगण आगे आगे शीघ्रतासे जाने लगे, किन्तु किसीने द्वारा चन्द्रापीड को घोड़ेके साथ प्रवेश करने में निषेध (रुकावट) न करने पर भी वह राजभवनके समान बाहरके आँगनमें ही घोड़े से उतर पड़ा।

बाद में दरवाजे के पास घोड़ेको खड़ा कर वैशम्पायनका हाथ पकड़ कर प्रवेश करने लगा। उस समय भवनके द्वारपालगण, चारों ओरसे आये हुए लोगोंको रास्तेसे हटाते आगे आगे मार्ग बता कर ले जाने लगे। शुकनासके सन्तोषके लिए आये हुए सामन्तलोग राजा लोग पहलेके अनुसार ही उठ उठ कर प्रणाम करने लगे, उस समय उन लोगोंके मुकुटों अग्रभाग कम्पित होते था। चन्द्रापीड देखते देखते उनके अनुसार ही एक एक बीचके अन्दाम चौकोंमें जाने लगा। उन सभी जगहोंमें द्वारपालोंके प्रचण्ड हुंकारके भयसे परिजन्द्रां चुप


१. वल्गाभिः । २. तुरगात् । ३. अवततार । ४. तथैव च प्रतीहार 'दपि च प्रतीहार' । ५. क्वचिद् पुस्तके 'च' इत्यधिकः पाठो नोपलभ्यते ।

२६४कादम्बरी-[ कथायाम्-

वेत्रलता-चकित^१-सामन्त-चक्र-चरण-शत-चलित-वसुन्धराणि कक्षान्तराणि निरीक्षमाणः, तथैव च^२ नव-नव-सुधावदात-प्रासाद-सहस्र-निरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश। प्रविश्य चानेक-नरेन्द्र-सहस्रमध्योपविष्टम्^४ अपरमिव पितरमुपदर्शितविनयो दूरावनतेन मौलिना शुकनासं ववन्दे।

शुकनासस्तं ससम्भ्रममुत्थाय^५ आनुपूर्व्येण उत्थित-राजलोकैः सादरमभिमुखदत्तावि-रलपदः प्रहर्ष^८-विस्फारितलोचनागतानन्द^९-जलकणः सह^८ वैशम्पायनेन प्रेम्णा गाढमालिङ्गि। आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपविशत्, तदनु


तथैवेति। नवनवा नूतनाः सुधावदाताः चूर्णादिलेपैरूज्ज्वलाः प्रासादाः अट्टालिकाः तेषां सहस्रेण समूहेन निरन्तरं निरवकाशं व्याप्तम्, अत एव द्वितीयं राजकुलं राजभवनमिव विद्यमानं शुकनासभवनं विवेश प्रविष्टवान्। इह 'राजकुलमिव' इति द्रव्योत्प्रेक्षा।

प्रविश्येति। उपदर्शितः प्रकटितो विनयो नम्रता येन स तादृशः, अनेके बहवो ये नरेन्द्राः सामन्ताः तेषां सहस्राणि समूहाः तेषां मध्ये उपविष्टं संनिषण्णम् अत एव अपरम् अन्यं पितरं तारापीडमिव विद्य-मानम्, तथापि तथैव नरेन्द्रसहस्रमध्योपवेशनादित्याशयः। दूराद्विष्ठादेव अवनतेन नम्रीभूतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चक्रे। इहाप्युत्प्रेक्षालङ्कारः।

शुकनास इति। ससम्भ्रमं शीघ्रं तं चन्द्रापीडम् उत्थाय आनुपूर्व्येण यथाक्रमानुसारेण उत्थितः राजलोको भूपमण्डलं यस्मात् स तादृशः, अभिमुखे चन्द्रापीडसम्मुखे दत्तानि विहितानि अविरलानि सान्द्राणि पदानि पादक्षेपा येन स तादृशः दूरादेव तेन कृतप्रणामत्वादित्याशयः, तया प्रहर्षेण अतिप्रमो-देन विस्फारितयोः विस्तारितयोः लोचनयोर्नयनयोः आगता आयाता आनन्दजलकणाः प्रमोदाश्रुविन्दवो यस्य स तादृशः शुकनासः प्रेम्णा स्नेहातिशयेन वैशम्पायनेन निजात्मजेन सह तं चन्द्रापीडं सादरम् आदरेण सहितं यथा स्यात्तथा गाढं सान्द्रम् आलिङ्ग उपगूहनं चक्रे।

आलिङ्गितेति। प्रथमम् आलिङ्गितः आश्लिष्टः पश्चात् उन्मुक्तः परित्यक्तश्चेति स तादृशो राजपुत्रो नृपात्मजः सादरोपनीतम् आदरेण आनीतं रत्नासनं मणिविष्टरम् अवनौ भूमावेव अपहाय परित्यज्य समुपविशत् समुपविष्टवान्। तदनु तत्पश्चाद्भागे वैशम्पायनश्च समुपायविशदिति सम्बन्धः। शुकनासस्य प्रधानामात्यत्वे सत्यपि विप्रत्वेन पितृवयस्यत्वेन पितृस्थानीयत्वेन च तत्समीपे चन्द्रापीडस्य विष्टरोपवेशन-मनुचितम्, वैशम्पायनस्य तु जनकत्वेन तत्समीपे विष्ट्रोपादानस्य नितान्तमेवानुचितत्वादवनावेवोपवे-शनमित्याशयः।


होकर रहने लगे, एवं बेंतकी छड़ियोंके सञ्चालन होते रहनेसे सामन्तराजगण चकित होकर सरकने लगे, उन लोगोंके सैकड़ों चरण पड़नेसे वह स्थान कम्पित होने लगा। क्रमसे चन्द्रापीडने पहलेकी भाँति ही दूसरे राजभवनके समान शुकनासके भवनमें प्रवेश किया; वह भवन, नई सफेदी किए जानेके कारण श्वेतवर्ण महलोंसे परिपूर्ण था। प्रवेश करके अनेक सहस्र राजाओंके बीचमें बैठे हुए द्वितीय पिताके समान, शुकनासको उसने विनयप्रदर्शनपूर्वक दूरसे ही मस्तक नवाकर प्रणाम किया।

उस समय शुकनास शीघ्रतासे उठ खड़े हुए, बाद सब राजा लोग यथाक्रम खड़े हो गये। उस समय शुकनासने चन्द्रापीडके सम्मुख आदरसे कितने ही कदम आगे आकर आनन्दसे प्रफुल्लित लोचनोंमें भरे आनन्दा-श्रुसहित चन्द्रापीडका और वैशम्पायनका स्नेहयुक्त गाढ़ आलिङ्गन किया। मिलकर पृथक् होने पर किसी सेवक ने आदरके साथ एक रत्नासन ला दिया, चन्द्रापीड उसको छोड़कर भूमि पर ही बैठा, और वैशम्पायन भी उसके पीछे वैसे ही बैठा। चन्द्रापीड पृथिवीमें बैठने पर, शुकनासके अतिरिक्त अन्य सब नरेन्द्र भी अपने-अपने


१. त्रासनचकित। २. क्वचित् 'तथैव नव' इत्यावेव पाठो दृश्यते। ३. क्वचित् 'सहस्र' इति पदं न विद्यते। ४. ...उपस्थितम्। ५. समुत्थाय। ६. ...पूर्वेण। ७. ...लोकैः। ८. संहर्षं...। ९. ...विलोचन...। १०. समन्।

शुकनासमनोरमादर्शन० ३१ ] चन्द्रकला-विद्योतिनीसहिता । २६५

च वैशम्पायनः । उपविष्टे¹ च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजा- सनमवनितलमभजत । स्थित्वा च तूष्णीं क्षणमिव² शुकनासः समुद्गतप्रीतिपुलकैरङ्गैरावे- द्यमान-हृदय-हर्ष-प्रकर्षस्तमब्रवीत्—

'तात ! चन्द्रापीड !⁴ अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारूढयौवनमा- लोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अद्य समृद्धाः सर्वा गुरुजनाशिषः, अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म्म, अद्य प्रसन्नाः कुलदेवताः, न ह्यपुण्यभाजां⁵ भवादृशास्त्रिभुवन-विस्मयजनकाः⁷ पुत्रतां प्रतिपद्यन्ते । क्वेवं वयः, क्वेयमानुषी शक्तिः क

उपविष्ट इति । उपविष्टे उपवेशनं कृतवति राजपुत्रे चन्द्रापीडे शुकनासवर्जं केवलं शुकनासं परित्यज्य अन्यत् अखिलं समस्तम् अवनिपालचक्रं नरेन्द्रमण्डलम् उज्झितनिजासनं परित्यक्तस्वस्वविष्टरं सत्, अवनितलम् अभजत भूमावेव प्रोपाविशदित्यर्थः । शुकनासस्य सचिवत्वेऽपि विप्रतया पितृसखत्वेन पितृस्थानीयतया च चन्द्रापीडेन भूमावुपवेशने कृतेप्यासनेापवेशनमेव युक्तम्, अवनिपालचक्राणां तु चक्रवर्त्तिसुते भूतलेोपविष्टे विष्टरोपवेशनस्य नितान्तमेवानुचितत्वाद् भूतल एवोपवेशनमुचितमित्याशयः ।

स्थित्वेति । क्षणमिव क्षणमात्रं तूष्णीं मौनं स्थित्वा समुद्गताः प्रादुर्भूताः प्रीत्या आनन्देन पुलका रोमाञ्चा येषु तैस्तादृशैः अङ्गैः आवेद्यमानः प्रत्याय्यमानः हृदयस्य चित्तस्य हर्षप्रकर्षः प्रमोदातिरेको यस्य स तादृशः, शुकनासः, तं राजपुत्रम् अब्रवीत् अवोचत्—

तातेति । हे तात ! सुतस्थानीयं ‘पूज्ये पितरि पुत्रे च तातशब्दः स्मृतो बुधैः’ इति केशवः । अद्य अस्मिन् दिने समाप्तविद्यं परिपूर्णकृतविद्यम् उपारूढयौवनम् उत्पन्नतारुण्यं भवन्तं त्वाम् आलोक्य निरीक्ष्य देवस्य तारापीडस्य सुचिरात् चिरकालेन भुवनराज्यस्य समस्तभूमण्डलराज्यस्य यत्फलं निःसीमप्रेम तस्य प्राप्तिर्लाभः उपजाता प्रादुर्भूता, भवत उत्पत्तेः पूर्वं सन्तानाभावजनितं उत्पन्ने च त्वयि परिपूर्णविद्यायाः पूर्वं गुणवत्सन्तानाभावजनितः क्लेश आसीदित्याशयः ।

अद्येति । अद्य गुरुजनानां पूज्यमहानुभावानां सर्वा निखिला आशिषः आशीर्वादाः समृद्धाः सम्पूर्णाः सार्थका इत्यर्थः । अनेकजन्मान्तरोपात्तम् अनेकभवार्जितम् अवदातं स्वच्छं कर्म पुण्यकार्यमित्यर्थः । कुलदेवताः कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः । नन्वेवंविधस्य ममोत्पन्नत्वेनैव जन्मान्तरीयम् अवदातं कर्म कथं फलितम् ! इत्याकाङ्क्षायामाह—नहीति । हि यतः अपुण्यभाजां पापवतां (कुले) भवादृशाः भवत्सदृशाः त्रिभुवनस्य लोकत्रयस्य विस्मयजनकाः आश्चर्योत्पादकाः पुत्रताम् आत्मजत्वं न प्रतिपद्यन्ते भजन्ते । इह वैधम्र्येण हेतुना कार्यसमर्थनरूपोऽर्थान्तरन्यासः ।

क्वेति । इदम् अभिनवतारुण्यरूपम् अत्यल्पमित्यर्थः वयोध्वस्था छ, इयं पुरो दृश्यमाना अमानुषी मनुष्यलोकेऽसम्भवा शक्तिः शारीरिकसामर्थ्यं छ, इदम् अशेषविद्याग्रहणसामर्थ्यं समस्तविद्याधारणशक्तिश्च छ । मनुष्यलोके एवंविधायाम् अत्यल्पावस्थायां न खल्वन्यस्य कस्यापि एवंविधासामामान्यशारीरिकशक्तिः सकलविद्याभ्यासशक्तिश्च भवेदित्याशयः ।

आसन छोड़ पृथिवी पर ही बैठे। उस समय अत्यन्त आनन्दवश शुकनासके समस्त शरीरमें रोमाञ्च उत्पन्न हो गया, इससे उसके मनमें भी जो अत्यन्त आनन्द उत्पन्न हुआ था, वह प्रकाश होने लगा । इस प्रकार शुकनास थोड़ी देर चुप रह कर राजपुत्रसे कहने लगा—

'वत्स चन्द्रापीड ! तुम्हारी सब विद्याओंकी शिक्षा समाप्त हो गई है एवं यौवनकाल उपस्थित हो गया है—इस रूपमें तुझे देख कर, आज महाराज तारापीडको बहुत कालके बाद भुवन-राज्यका फल प्राप्त हुआ है । आज गुरुजनोंके सब आशीर्वाद सफल हुए, आज अनेक जन्मान्तरमें किए हुए अच्छे कर्मोंका फल मिला है और कुल-देवता प्रसन्न हो गए हैं; क्योंकि तुम्हारे समान त्रिभुवनको विस्मय उत्पन्न करनेवाले व्यक्ति अपुण्यवान् व्यक्तियोंका पुत्रत्व स्वीकार नहीं करते हैं । यह नवीन अवस्था ही कहाँ ? और यह अमानुषी दैहिक शक्ति ही कहाँ ? एवं


१. समुपविष्टे ।
२. क्षणमपि ।
३. आवेद्यमानहर्षं०…।
४. क्वचित् 'तात ! अद्य' इत्येव पाठो दृश्यते ।
५. यत्पुण्यभाजां ।
६. सकलत्रिभुवन ०।
७. विस्मयहेतवः ।

२६६कादम्बरी-[ कथायाम्-

चेदमशेष-विद्याग्रहणसामर्थ्यम् ? अहो ! धन्याः प्रजाः, यासां भरतभगीरथप्रतिमो भवा- नुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुन्धरया, ययासि भर्त्ता समासादितः । हरिवक्षःस्थलनिवासासद्ग्रहव्यसनिनी¹ हता खलु लक्ष्मीः, या विग्रहवती भवन्तं नोपसर्पति । सर्वथा कल्पकोटीर्महावराह इव दंष्ट्रावलयेनं² वह बाहुना वसुन्धराभारं सह पित्रा' इत्यभि- धाय³ स्वयमाभरण-वसन-कुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयाञ्चकार ।

विसर्जितश्चोत्थायन्तःपुरं प्रविश्य दृष्ट्वा⁴ वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितं प्रतिच्छन्दकमिव राजकुलस्य, द्वारावस्थित-सित-पूर्ण-कल-


अहो इति । अहो इत्याश्चर्ये । प्रजाः प्रकृतयो धन्या भाग्यवत्यः, यासां प्रजानां भरतः शकुन्तला- पुत्रः, भगीरथः सगरपौत्रः ताभ्यां प्रतिमः सदृशः भवांस्त्वं पालयिता रक्षक उत्पन्नो जातः । किमिति प्रश्ने । खलु निश्चयेन वसुन्धरया पृथिव्या अवदातं निर्मलं विशुद्धमित्यर्थः कर्म कार्यं सुकृतमित्यर्थः कृतं विहितम्, यथा त्वं भर्ता प्रभुः समासादितो लब्धः असि ।

हरीति । हरेः विष्णोः वक्षःस्थले भुजान्तरे निवासे अवस्थितौ यः असद्ग्रहो दुष्टबुद्धिः तत्र व्यसनिनी आसक्तिमती लक्ष्मीः श्रीः हता प्रतारिता खलु निश्चयेन, या लक्ष्मीः त्वां भवन्तं विग्रहवती शरीरधारिणी सती नोपसर्पति नाभ्युपैति, यद्यपि अमूर्त्तरूपेण ह्यानुसरति तथापि मूर्त्तशरीररूपेण नोपसर्पतीत्यर्थः ।

इह हतत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारः, तेन हि भगवतोऽपि राज- पुत्रस्योत्कर्षबोधनाद् व्यतिरेकालङ्कारः प्रतीयत इत्यलङ्कारेण ध्वनिः ।

सर्वथेति । दंष्ट्रावलयेन दन्तमण्डलेन महावराहः शूक्रावतारो विष्णुरिव, पित्रा तारापीडेन सह त्वं बाहुना भुजेन कल्पकोटीः कोटिसंख्यकान् कल्पान् यावत् वसुन्धरायाः भूमेः भारं व्यवस्थापनव्यापारं गुरुत्वञ्च सर्वथा सर्वप्रकारेण वह धारय । इति पूर्वोक्तप्रकारेण अभिधाय निगद्य स्वयम् आत्मनैव आभ- रणानि भूषणानि, वसनानि वस्त्राणि कुसुमानि पुष्पाणि अङ्गरागा विलेपनानि इत्यादिभिः वस्तुभिः अभ्यर्च्य संपूज्य विसर्जयाञ्चकार विसर्जितवान् । इहोपमालङ्कारः ।

पुरा किल भगवान् विष्णुः सागरमग्नं पृथ्वीमण्डलमुद्धत्तु मिच्छ्या वराहावतारं परिगृह्य दन्तमण्ड- लेन तदुद्दधारेति पौराणिकी वार्त्ता ।

विसर्जित इति ।-विसर्जितो गृहाय अनुज्ञात उत्थाय अन्तःपुरम् अवरोधं प्रविश्य प्रवेशं कृत्वा मनोरमाभिधयां मनोरमाख्यां वैशम्पायनमातरं दृष्ट्वा अवलोक्य तदनन्तरं बहिर्निर्गत्य निःसृत्य इन्द्रायुध- मश्वं समारुह्य आरोहणं विधाय कुमारो भवनं जगाम ययावित्यन्वयः । भवनं विशेषयति-पूर्वमिति । पित्रा तारापीडेन पूर्वकल्पितं प्रागेव निर्मितम्, राजकुलस्य राजभवनस्य प्रतिच्छन्दकं प्रतिरूपमिव सर्वथा सुसाम्यादित्याशयः । 'प्रतिरूपं प्रतिच्छन्दः' इति त्रिकाण्डशेषः । द्वारे अवस्थितौ स्थापितौ सितौ श्वेतौ पूर्णकलसौ पूर्णकुम्भौ यस्य तत्तादृशम् । आबद्धाः संदानिता बहिर्द्वारेषु योजिता इत्यर्थः हरिताः पलाश- वर्णाः वन्दनमाला माङ्कल्यानि कुसुममाल्यानि यत्र तत्तादृशम् ।

'तोरणार्द्धं च माङ्गल्यं दाम वन्दनमालिका ।'

यह समस्त विद्या-ग्रहण करनेका सामर्थ्य कहाँ ? अहो ! धन्य वे प्रजा हैं जिनके तुम भरत, भगीरथके समान परिपालक होकर उत्पन्न हुए हो । पृथिवीने ऐसा कौन पवित्र-कर्म किया, जिससे तुम्हें पतिरूपमें पाया है । लक्ष्मी देवी नारायणके वक्षःस्थलमें वास करनेके दुराग्रहमें फसकर विधाता द्वारा वञ्चित हुई है, जो शरीर धारण कर अब भी तुम्हारे निकट नहीं आती है । आदिवराहने जिस प्रकार दन्त-वलयसे पृथिवीका भार वहन किया था, तुम भी उसी प्रकार पिताके साथ कोटि-संख्यक कल्प (देवताओं का एक हजार युग एक कल्प कहलाता है) समय तक बाहुद्वारा पृथिवीका वहन करो' इतना कह कर आभूषण, वस्त्र, पुष्प और अङ्गराग द्रव्य आदिसे अपनेसे ही सत्कार करके कुमारको विदा किया ।

तब कुमार चन्द्रापीड शुकनासके पाससे विदा होकर उठ, अन्तःपुर (रनिवास) में जा, वैशम्पायनकी माता मनोरमाको देख, उसी मार्गसे बाहर आकर इन्द्रायुध पर सवार होकर, पिताके द्वारा पहलेसे ही निश्चित किए गए अपने भवन (महल) में चला गया, वह भवन (महल), राजभवन का मानों, प्रतिमूर्त्तिस्वरूप था ।


१. ०००व्यसनिता । २. दंष्ट्रावलेन । ३. अभिधाय च । ४. दृष्ट्वा च ।

प्रदोषवर्णना-३२ ]चन्द्रकला-विद्योतिनीसहिता।२९७

सन्, आबद्ध-हरित-चन्दनमालम्¹, उल्लसित-पताकासहस्रम्, अभ्याहतमङ्गल-तूर्य-रव-परि-पूरित-दिगन्तरम्, उपरचित-विकच-कमलकुसुम-प्रकरम्, अचिरकृताग्निकार्यम्, उज्ज्वल-विविक्त-परिजनम्, उपपादिताशेष-गृहप्रवेशमङ्गलम्, कुमारो भवनं जगाम। गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्त्तमुपविश्य सह तेन राजपुत्रलोकेन अभिषेकादिकम्² अशनावसानमकरोद्दिवसविधिम्। अभ्यन्तरे च शयनीय-गृह एवेन्द्रायुधस्यावस्थानमकल्पयत्।

एवं प्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ। गगनतलादवतरन्त्या दिवसश्रियः पद्मरागनूपुरमिव स्वप्रभापिहितरन्ध्रं रविमण्डलमुन्मुक्तपादं पपात। जलप्रवाह इव³ रथचक्र-


इत्यभिधानचिन्तामणिः। उल्लसितम् उच्छ्रितम् उड्डीनं वा पताकानां वैजयन्तीनां सहस्रं समूहो यत्र तत्तादृशम्। अभ्याहतानि वादितानि यानि मङ्गलतूर्याणि माङ्गलिकवाद्यविशेषाः तेषां रवैः शब्दैः परिपूरितानि व्याप्तानि दिगन्तराणि यस्य तत्तादृशम्। उपरचितो विहितः विकचानां विकसितानां कमलकुसुमानां कमलपुष्पाणां प्रकरो विक्षेपो यत्र तत्तादृशम्। अचिरं शीघ्रं कृतं विहितम् अग्निकार्यं शान्तिहोमो यत्र तत्तादृशम्। उज्ज्वला उज्ज्वलवेषाः विविक्ताः भिन्नभिन्नस्वरूपाः परिजनाः परिचारका यत्र तत्तादृशम्। तथा उपपादितानि भूपतिनैव सम्पादितानि अशेषाणि समग्रानि गृहप्रवेशमङ्गलानि वास्तुपूजाम्भ्युदयिकश्राद्धप्रभृतीनि यस्य तत्तादृशं भवनम्।

गत्वेति। श्रीमण्डपे शोभाशालिनि सभाभवने अवस्थितं स्थापितं यच्छयनं शय्या तस्मिन् मुहूर्त्तम् उपविश्य अवस्थानं कृत्वा तेन राजपुत्रलोकेन सह अभिषेकादिकं स्नानादिकम् अशनावसानं भक्षणपर्यन्तं दिवसविधिं दिनचर्याम् अकरोत् अकार्षीत्।

अभ्यन्तर इति। अभ्यन्तरे मध्ये यच्छयनीयगृहं सुषुप्तिभवनं तत्र एव इन्द्रायुधस्य अश्वस्य अवस्थानं स्थितिम् अकल्पयत् अन्वतिष्ठत् अत्यन्तादरयोग्यत्वादित्याशयः।

एवमिति। अपि चेति चार्थः। एवं प्रायेण इत्थम्भूतेन अस्य चन्द्रापीडस्य उदन्तेन समाचारेण व्यापारेण तदहः तद्दिवसं परिणतिम् अवसानम् उपययौ अगमत्।

गगनेति। रविमण्डलं सूर्यबिम्बं कर्तृ, उन्मुक्ता ऊर्ध्वं त्यक्ताः पादा रश्मयो येन तथोक्तं सत्, गगनतलात् आकाशतलात् अवतरन्त्याः, आगच्छन्त्याः, दिवसश्रियो दिनलक्ष्म्याः, स्वप्रभया स्वीयरश्मिपंक्त्या पिहितम् आच्छादितं रन्ध्रं छिद्रदेशो यस्य तत्तथोक्तं पद्मरागनूपुरमिव लोहितकपादकटककमिव, पपात अस्तम् आकाशादिति शेषः। सूर्यबिम्बं छिद्ररहितान्तरत्नम्, सुतरां तत्सादृश्यनिरूपणाय 'स्वप्रभापिहितम्' इति नूपुरविशेषणम्। इह स्वपदेन नूपुरस्य ग्रहणम्। जात्युत्प्रेक्षा।

जलेति। वासरालोको दिनरश्मिः, जलप्रवाह इव सलिलपूर इव, दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण रथचक्रमार्गक्रमेण रथचक्रमार्गवदित्यर्थः, प्रतीचीं पश्चिमां ककुभं दिशम् अगात् प्रययौ। जलप्रवाहपक्षे तु रथचक्रक्षुण्णमार्गमनेनेत्यर्थः, तस्याधोगामित्वात्। उपमा।


बड़े दरवाजे के समीप दो शुभ्रवर्ण जलपूर्ण कलश रखे थे। बर्हिर्द्वारके साथ पलाशवर्ण मांगलिक पुष्पमालायें (बन्दनवारें) बँधी थीं। हजारों पताकायें फहरा रही थीं। बजाए गए माङ्गलिक तूर्य (तुरही) ध्वनिसे दिगन्तर व्याप्त हो गए थे। अन्दर में कमलके खिले हुए फूलोंके ढेर लग रहे थे। थोड़े ही समय पहले होमकार्य समाप्त हो गया था। भिन्न-भिन्न आकारके परिजनगण उज्ज्वलवेषमें भ्रमण करते थे। एवं उस भवनमें गृह-प्रवेशके योग्य सब मङ्गल-क्रियाएँ सम्पादित हुई थीं। राजकुमार उस भवनमें जाकर, सुन्दर सभामण्डपस्थित पलंग पर कुछ देर बैठ कर, उन्हीं राजपुत्रोंके साथ स्नान से लेकर भोजन पर्यन्त नित्य क्रियाओंका सम्पादन किया और भवनके अन्दर अपने शयन करनेके घरमें ही इन्द्रायुधको रहनेके लिए स्थानका निर्देश किया।

इस प्रकार व्यापार करते २ चन्द्रापीड का वह दिन शेष हो गया। उस समय रवि-मण्डल ऊपरकी ओर किरणें फेंक कर आकाशसे नीचे गिरने लगा, इससे प्रतीत हुआ कि—दिवसश्री आकाशमें उतर कर जा रही हैं। उसके पैरोंसे पद्मरागमणि-मय एक नूपुर (पायजेब) गिर रहा है, उस नूपुरके मध्यका रन्ध्रभाग (छेदवाला


१. हरिचन्दन, हरितचन्दन***।
२. अभिषेकादिम् ।
३. स्वशयनीय **।
४. सलिलप्रवाह इव।
१९ का०

२६८ - कादम्बरी- [ कथावाम्-

मार्गांनुसारेण दिवसकरस्य वासरालोकः प्रतीचीं ककुभमगात्^१। अभिनवपल्लवलोहिततलेन^२ करेणेवाधोमुखप्रसृतेन रविविम्बेन^३ वासरः कमलरागमशेषं ममार्ज। कमलिनीपरिमलपरिचयागतालिमालाकुलित-कण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृष्यमाणं विजघटे। करपुटैरादिवसान्तम्^४ आपीतमरविन्दमधुरसमिव रक्तातपच्छलेन गगनगमनखेदादिव दिवसकरविम्बं ववाम। क्रमेण च प्रतीचीं कर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, समुल्लसितायामम्बर-तडाग^५-विकच-कमलिन्यां सन्ध्यायाम्, कृष्णागुरुपङ्क-पत्रलता-

अभिनवेति। वासरो दिवसः, करेणेव हस्तेनेव, अभिनवस्य नूतनस्य पल्लवस्य किसलयस्येव लोहितं रक्तं तलम् ऊर्ध्वदेशो यस्य तेन तादृशेन, अधोमुखेन निम्नमुखेन सता प्रसृतेन प्रर्चलितेन रवि-विम्बेन सूर्यमण्डलेन, अशेषं समग्रं कमलरागं पङ्कजस्य रक्तिमानं नमार्ज प्रोञ्छितवानिव। अन्योऽपि तथाविधपाणिना वस्तुविशेषस्य वर्णं परिमार्जयति। रवेरस्तगमनेन कमलस्य मुद्रणाद् रक्तिमापगमः सञ्जात इति तात्पर्यम्।

इह जात्युत्प्रेक्षा प्रतीयमानक्रियोत्प्रेक्षा च, अनयोश्चाङ्गाङ्गिभावसङ्करः।

कमलिनीति। कमलिन्या नलिन्या यः परिमलः सौरभम् तस्य परिचयेन लोभातिशयेन आगतया प्राप्तया तस्या मुद्रणेन तत्परिमलप्राप्त्यभावाड्ड्डीय तद्गलदेश एवोपधिष्टयेत्यर्थः, अलिमालया भ्रमर-पङ्क्त्या आकुलितो व्याप्तः कण्ठो गलदेशो यस्य तत् तादृशम् अत एव कालपाशैः कण्ठवद्धश्यामवर्णरश-नाभिः आकृष्यमाणमिव सन्, केनाऽपीति शेषः, चक्रवाकमिथुनं रथाङ्गपक्षिदम्पती विजघटे वियुक्तं बभूव। रात्रिप्राप्त्या प्राकृतिकेपि रथाङ्गदम्पतीवियोगे अलीनां तद्गलदेशोपवेशनात् श्यामवर्णगलवद्धरज्जु-भिराकर्षणहेतुकवियुक्तत्वमुत्प्रेक्षितमित्यवगन्तव्यम्।

इह पदार्थहेतुककाव्यलिङ्गालङ्कारेण 'आकृष्यमाणमिव' इति क्रियोत्प्रेक्षालङ्कारः सङ्कीर्यते।

करपुटैरिति। दिवसकरविम्बं सूर्यमण्डलं कर्तृ, आदिवसान्तं दिवसावसानपर्यन्तं करपुटैः रश्मि-जालैरेव करपुटैः अञ्जलिभिः आपीतं सम्यक् पीतम् अरविन्दानां कमलानां मधुरसं पुष्परसद्रवम् गगनगमनखेदादिव आकाशभ्रमणपरिश्रमादिव कारणात्, रक्तात्पच्छलेन लोहितवर्णविस्तृतप्रकाशमिषेण ववाम उज्जगारेत्यर्थः। मार्गगमनपरिश्रमातिशयाद् यथा श्रान्तस्य पीतजलादेर्वमनं भवति तथाऽत्र सूर्यस्य वमनमित्यभिप्रायः।

इह किरणहस्तयोर्भिन्नेष्वेपि श्लेषेणाभिन्नाध्यवसायादतिशयोक्त्यलङ्कारः, गगनगमनखेदादिवेति हेतूत्प्रेक्षा, ववामेवेति सापह्नवा क्रियोत्प्रेक्षा चेत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः।

क्रमेणेति। प्रतीची पश्चिमा दिक् तस्याः कर्णपूरं कर्णाभ्ङ्करणभूतं यत् रक्तोत्पलं कुवलयं तद्रूपे, भगवति माहात्म्यवति, गभस्तिमाला रश्मिश्रेणिरस्यास्तीति तस्मिन् दिवसाधिपे, लोकान्तरम् अन्यद् भुवनम् अस्ताचलमित्यर्थः उपगते प्राप्ते सति।

इह 'मुखं तव कुरङ्गाक्षि! सरोजमिति नान्यथा' इति दर्पणोदाहृतवत् शाब्दो दिवसाधिपे रक्तोत्पलत्वारोपः आर्थो हि प्रतीच्यां स्त्रीत्वारोप इत्यसमासेऽप्येकदेशविवर्त्तिरूपकमलङ्कारः।

समुल्लसितायामिति। अम्बरं गगनमेव तडागः निर्मलत्वसादृश्यात् सरोवरः तस्य विकचकमलिन्यं

स्थान) मानो अपनी ही प्रभासे पूर्ण हो गया है। जलका प्रवाह जिस प्रकार रथचक्रद्वारा खुदे जाने के मार्ग में नीचे होकर जाता रहता है, उसी प्रकार दिनका आलोक (धूप) भी सूर्यके रथचक्र-मार्गानुसारसे पश्चिम दिशामें जाने लगा। दिवसने अभिनवपल्लवतदृश लाल हथेलीवाले हाथके समान नीचे लटकते रविमण्डलसे पद्मकी समस्त रक्तिमाको मानो पोंछ दिया। कमलिनीके सुगन्धलोभसे भ्रमरगण आकृष्ट हो गये, किन्तु कमलिनीके मुद्रित होनेसे चक्रवाकदम्पतीके कण्ठको जाकर घेर लिया, अतएव उस समय वह चक्रवाक-दम्पती गलबद्ध कालपाशसे खींचे गये होकर ही मानो एक दूसरेसे अलग हो गए और रवि-विम्बने दिनके शेषपर्यन्त कर-सम्पुटसे कमलके जो समस्त मधु-रसका पान किया था, उसे मानो आकाशके मध्यमें चलनेकी थकावटके कारण लाल धूपके आकारके बहाने उगलने लगा। क्रमसे जब पश्चिम दिशाके कर्णाल्ङ्कार-रक्तोत्पलरवरूप भगवान् सूर्यनारायण अस्तमित हुए, गगन-सरोवरकी सन्ध्यारूप कमलिनी दीखने लगी, गाढ़े काले अगरुके रससे निर्मित पत्रलता


१. दिशमगमत। २. पल्लवदललोहितकरेण। ३. दिवसकरविम्बेन। ४. करपुटैर्दिवसान्तम्। ५. अम्बरतल ** । ६. तटाक।

प्रदोषवर्णना-३२ ] चन्द्रकला-विद्योतिनीसहिता । २९९

स्त्विव तिमिरलेखासु स्फुरन्तीषु दिशां$^१$ मुखेषु, अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरनिकरेण$^३$ उत्सार्यमाणे सन्ध्यारागे, कमलिनी-निपीतमातपमुन्मूलयितुमन्धकारकरप-ल्लवेष्विव$^४$ प्रविशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैः शनैश्च निशाविलासिनीमुखाव-तंस-पल्लवे गलिते सन्ध्यारागे, दिक्षु$^६$ विक्षिप्तेषु सन्ध्यादेवतार्चन$^७$-बलिपिण्डेषु, शिखर-देश-लग्नतिमिरास्वनारूढमयूरारस्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु, गवाक्षविवरनिलोनेषु प्रासा-दलक्ष्मीकर्णोत्पलेष्विव$^८$ पारावतेषु विगतविलासिनीसंवाहन-निश्चले$^९$ काञ्चन-पीठासु$^{१०}$ मूकीभूत-

लोहितत्वात् विकसितकमलिनीस्वरूपायां सन्ध्यायां समुल्लसितायां प्रकाशं प्राप्तायां सत्याम् ।

इहान्तरे तडागत्वारोपः सन्ध्यायां विकचकमलिनीत्वारोपे निमित्तमिति परम्परितरूपकमलङ्कारः ।

कृष्णेति । कृष्णागुरुपङ्कः गाटकाकतुण्डद्रवः तस्य पत्रलतासु पत्रसदृशचिह्नविशेषेष्विव तिमिर-लेखासु अन्धकारपरम्परासु दिशां ककुभां मुखेषु भागेषु आननेषु च, स्फुरन्तीषु प्रसरन्तीषु सतीषु ।

इहान्धकारपरम्पराणां पत्रलतासादृश्यं शाब्दम्, दिशां श्रोसादृश्यन्तु प्रतीयमानमित्येकदेशविव-र्त्तिरूपकमलङ्कारः ।

अलिकुलेति । अलिकुलमलिनेन भ्रमरसमूहाच्छादिततया मलिनेन कुवलयवनेन नीलोत्पलसमूहेन रक्तकमलाकरे रक्तकमलसरोवरे इव, अलिकुलवन्मलिनेन तिमिरनिकरेण अन्धकारजालेन सन्ध्यारागे उत्सार्यमाणे पूर्वमाणे दूरीक्रियमाने च सति । इहोपमा ।

कमलिनीति । कमलिनीभिः नलिनीभिः निपीतं दिवसे निगीर्णम् आतपं सूर्यरश्मिम् उन्मूलयितुं स्ववैरित्वाद्‌उत्पाटयितुम् अन्धकाराणां तिमिराणां करपल्लवेष्विव नीलत्वसादृश्यात् विस्तारितहस्तेष्विव मधुकरकुलेषु भ्रमरसमूहेषु, रक्तकमलानां रक्तपद्मानाम् उदराणि अभ्यन्तराणि प्रविशत्सु प्रवेशं कुर्वत्सु सत्सु, निगीर्णद्रव्याणामुदरेष्वेव विद्यमानत्वादित्याशयः । इह जात्युत्प्रेक्षा ।

शनैरिति । निशा रात्रिरेव विलासिनी भूषणप्रिया रमणी तस्या मुखस्य अग्रभागस्य आननस्य च अवतंसपल्लवे लोहितत्वसादृश्यात् भूषणभूतकिसलयस्वरूपे सन्ध्यारागे शनैः शनैः मन्दं मन्दं गलिते दूरीभूते च सति । इह परम्परितरूपकम् ।

दिक्ष्विति । सन्ध्यायां सायंसमये यानि देवतार्च्चनानि वास्त्वादिपूजाः तेषां बलिपिण्डेषु उपायनी-भूतान्नादिद्रव्येषु दिक्षु पूर्वादिषु विक्षिप्तेषु साधकविकीर्णेषु सत्सु ।

शिखरेति । शिखरदेशे ऊर्ध्वप्रदेशे लग्नं तिमिरम् अन्धकारो यासां तासु, अत एवं अनारूढः अनाश्रितो मयूरो नीलकण्ठो यासु तास्वपि मयूरयष्टिषु, मयूरावस्थानदण्डेषु मयूराधिष्ठितास्विव सतीषु । अमग्नभ्रान्यकारस्यैव नीलकण्ठवत् प्रतीतेरित्याशयः ।

इह पदार्थहेतुककाव्यलिङ्गालङ्कारेण क्रियोत्प्रेक्षालङ्कारः सङ्कीर्यते ।

गवाक्षेति । प्रासादलक्ष्मीः अट्टालिकाश्रीः तस्याः कर्णोत्पलेष्विव कर्णभूषणभूतनीलोत्पलेष्विव, गवा-क्षाणां कर्णतुल्यदेशस्थायित्वात् कपोतानाञ्च तदुपलतुल्यनीलत्वादित्याशयः, पारावतेषु गृहकपोतेषु गवा-क्षविवरेषु वातायनच्छिद्रेषु निलीनेषु तूष्णींभूय विद्यमानेषु सत्सु । जात्युत्प्रेक्षा ।

विगतेति । विगतेन दूरीभूतेन विलासिनीनां दोलनप्रियागां सुन्दरीणां संवाहनेन दोलनेन करणेन, निश्चलानि निष्क्रियाणि काञ्चनपीठानि सुवर्णरचितोपवेशपीठानि यासां तासु तयोक्तासु, अन्तःपुरस्य


चिह्नके समान अन्धकारकी पङ्क्तियाँ दिशाओंके मुखमें फैलने लगीं, भ्रमरोंके बैठनेसे मलिनवर्ण नीलोत्पलसमूह जिसप्रकार लालकमलके सरोवरको आच्छादित करते (ढक लेते) हैं, उसी प्रकार अन्धकारसमूह सन्ध्याके रागको दूर करने लगे; कमलिनियों सायङ्काल तक सूर्यकी किरणों का जो पान किया था, उसे निकालनेके लिए अन्धकारके फैलाए हुए हाथके समान भ्रमरोंके झुण्ड, लाल कमलके उदरमें प्रवेश करने लगे; निशारूप विलासिनीके मुखका अलङ्कारपल्लवस्वरूप सन्ध्याकी लालिमा धीरे-धीरे दूर होने लगी; साधकगण, सन्ध्याकालीन देवपूजाके उपहारद्रव्य (बलिपिण्ड) प्रत्येक दिशामें रखने लगे; मयूरोंके बैठनेकी डंडोंकी चोटियों पर अन्धकार व्याप्त हो जानेसे उस स्थानमें मयूरोंके नहीं बैठने पर भी मानो, वे उन पर बैठे हुए हों ऐसा प्रतीत होने लगा; प्रासादलक्ष्मीके कर्णके नीलोत्पलके समान कबूतर झरोखोंमें निस्तब्धसे रहने लगे; विलासिनीियोंके इस समय बैठ कर नहीं झूलते रहनेसे


१. दिशांमुखेषु । २. अलिकुलेन मलिनेषु । ३. तिमिरेण । ४. अन्धकारपल्लवेष्विव । ५. विगतल्ल । ६. दिक्षु दिक्षु । ७. ...'अर्चन'... । ८. कर्णोत्पलेषु । ९. ...'निश्चलासु । १०. काञ्चनपीठिकासु ।

३००कादम्बरी-[ कथायाम्-

घण्टासु अन्त:पुरदोलासु, भवनसहकार-शाखावलम्बित-पञ्जरेषु शुकसारिकानिवहेषु, सङ्गी- त-विराम-विश्रान्तरवासूत्सार्यमाणासु वीणासु, युवति-नूपुर-शब्दोपशमनिभृतेषु भवनकलहं- सेषु, अपनीयमान-कर्ण-शङ्ख-चामर-नक्षत्रमाला-मण्डनेषु मधुकर शून्य-कपोलभित्तिषु मत्तवा- रणेषु, प्रदीयमानेषु राजवल्लभ-तुरङ्गम-मन्दुराप्रदीपेपु विशन्तीषु प्रथमयाम-कुञ्जरघटासु, कृत- स्वस्त्ययनेषु निष्क्रामत्सु पुरोहितेषु, विसर्जित-राजलोक-विरलपरिजनेषु विस्तारितेष्विव राज

दोलासु अवरोधप्रेङ्खासु अन्तःपुरदोलनयन्त्रेष्वित्यर्थः। मूकीभूताः शब्दरहिता घण्टा यासां तासु तथो- क्तासु सतीषु। दोलनकूतूहलं परित्यज्य सुन्दरीणां भवनान्तर्गमनादित्याशयः।

भवनेति। भवनसहकारा राजकुलस्थितचूततरवः तेषां शाखासु स्कन्धेषु अवलम्बितानि स्थापि- तानि पञ्जराणि येषां तेषु तादृशेषु, शुकसारिकानिवहेषु कीरपीतपादसमूहेषु विगतालापेषु उक्तिप्रत्युक्ति- रहितेषु सत्सु, निद्रावेशादित्याशयः।

सङ्गीतेति। सङ्गीतस्य 'गीतं वाद्यं तथा नृत्यं त्रयं सङ्गीतमुच्यते' इत्युक्तलक्षणस्य विरामेणावसानेन विश्रान्तः तिरोहितः रवः शब्दो यासां तासु तादृशीषु वीणासु वल्लकीषु उत्सार्यमाणासु भृत्यैः सङ्गीत- स्थानात् दूरीक्रियमाणासु सतीषु।

युवतीति। भवनकलहंसेषु गृहपालितराजहंसेपु, युवतीनां तरुणीनां ये नूपुरशब्दाः पादकटकखाः तेषामुपशमेन तासां तिरोहिततया विरामेन, निभृतेषु निःशब्देषु सत्सु। तरुणीनां पादकटकखेपु प्रवृत्तेषु राजहंसानां शब्दविधानात् निवृत्तेषु च तेषु तेषामपि तद्विधानादित्याशयः।

अपनीयेति। मधुकरशून्या निद्रावेशेन दानच्युतेरभावाद् भ्रमररहिताः कपोलभित्तयो गण्डदेशा येषां तेषु तादृशेषु, मत्तवारणेषु मत्तगजेषु अपनीयमानानि तत्समये सज्जताया अनावश्यकत्वेन हस्तिपकैः परित्यज्यमानानि कर्णयोः शङ्खस्य ललाटास्थ्नश्च चामराणि वालव्यंजनानि, नक्षत्रमाला सप्तविंशतिमुक्ता- ग्रथितस्रजः तदितराणि च मण्डनानि अलङ्काराः येषां तेषु तादृशेषु सत्सु।

'शङ्खो निधौ ललाटास्थ्नि कम्ब्रौ न स्त्री,' 'सैवनक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः।' इति चामरः।

प्रदीप्यमानेष्विति। राज्ञो वल्लभा नृपस्य प्रियाः ये तुरङ्गमा अश्वाः तेषां मन्दुरायाः शालायाः प्रदी- पेषु स्नेहप्रदीपेषु प्रदीप्यमानेषु प्रज्वाल्यमानेषु सत्सु। यद्यपीह मन्दुरापदेन 'वाजिशाला तु मन्दुरा' इत्यमरोक्तदिशा अश्वशालाप्रतीतिर्भवति पुनः तुरङ्गमपदं पुनरुक्तमिवाभाति तथापि तत्समयेऽश्वस्थिति- द्योतनार्थं तत्पदमिति धनुर्ज्यादिशब्दवन्नोक्तदोष इति विभावनीयम्।

प्रविशन्तीष्विति। प्रथमयाने रात्रेः प्रथमप्रहरे याः कुञ्जरघटा हस्तिसमूहाः तासु प्रविशन्तीषु प्रवेशं कुर्वतीषु सतीषु।

कृतेति। स्वस्त्ययनं विघ्नोपशमनार्थं देवपूजादि, कृतानि विहितानि स्वस्त्ययनानि यैः तथोक्तेषु पुरोहितेषु पुरोधस्सु निष्क्रामत्सु वहिर्गच्छत्सु सत्सु।

विसर्जितेति। विसर्जितः विश्रामाय निजनिजबभवनं गन्तुं महाराजेनादिष्टः राजलोकः सामन्तवर्गः तेन कारणेन विरलाः स्वल्पीभूताः परिजनाः सेवकवर्गा येषु तेषु तादृशेषु, राजकुलकक्षान्तरेषु राजभवन-


अन्तःपुर (रनिवास) के झूलोंकी पटलियाँ निश्चल और घंटियोंकी आवाज बन्द हो गई, घरके पास लगे हुए आम्रवृक्षकी डालियों पर लटकाए हुए पिंजरोंके अन्दर शुक और सारिकाओं ( तोता और मैनाओं ) के झुण्डका बोलना बन्द हो गया; सङ्गीतके अन्तके स्वर बन्द करनेसे वीणाओंकी आवाजके भी बन्द हो जाने पर नौकरों द्वारा वे हटा ली गईं; युवतियोंके नूपुरों ( पायजेबों ) की झनझनाहट बन्द हो जानेके कारण गृहपालित राजहंस निश्चल हो गये; निद्राके आवेशमें मत्त हाथियोंके मदजल नहीं चूनेसे गण्डस्थल भौरोंके उड़ जानेसे खाली हो गए एवं महावतों द्वारा उन ( हाथियों ) के कानोंके और ललाटके चामर, मुक्ताकी माला एव अन्यान्य आभूषण उतार लिए गए; अश्वरक्षकों ( साईसों ) द्वारा राजप्रिय अश्वशालाओं ( अस्तबलों ) में प्रदीप जला दिए गए; पहले प्रहरके द्वाररक्षक हस्तिगण प्रवेश करने लगे; स्वस्त्ययन ( देवपूजन ) करके पुरोहितगण बाहर निकलने लगे; सामन्त राजाओंके विदा होकर अपने-अपने घर चले जाने के कारण थोड़े परिजन रह जानेसे राज-भवनके बड़े-बड़े कमरे अधिक विस्तृत


१. घण्टास्वरासु, घण्टारवासु । २. अवलम्बि ... । ३. सङ्गीतक ... । ४. मण्डलपिण्डेपु, मण्डलेषु । ५. तुरङ्ग... । ६. कृतराजस्वस्त्ययनेषु ।

प्रदोषवर्णना-३२ ] चन्द्रकला-विद्योतिनीसहिता । ३०१

कुलकक्षान्तरेषु, प्रज्वलित-दीपिका-सहस्रप्रतिबिम्ब-चुम्बितेषु कृत'-विकच-चम्पकदलोपहारेष्विव मणिभूमि-कुट्टिमेषु, निपतित-दीपालोकासु रवि-विरहार्त्त-नलिनी-विनोदनागत-बालातपास्विव भवद्दीर्घिकासु, निद्रालसेषु पञ्जरकेसरिषु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तः-पुरप्रविष्टे मकरकेतौ, अवतंसपल्लवेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, सूर्य-कान्तंमणिभ्य इव संक्रान्तानलेषु ज्वलत्सु मानिनीनां शोकविधुरेषु हृदयेषु, प्रवृत्ते प्रदोषस-मये चन्द्रापीडः प्रज्वलित-दीपिका-चक्रवाल-परिवारश्चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे

प्रकोष्ठाम्यन्तरेषु, विस्तारितेष्विव विस्तारं प्राप्तेष्विव सत्सु अत्यल्पपरिजनत्वादेव पूर्वकालादेव विस्तारि-तवदवगम्यमानेष्वित्यर्थः ।

इह 'विस्तारितेष्विव' इत्यत्र क्रियोत्प्रेक्षा, सा च पदार्थहेतुककाव्यलिङ्गालङ्कारेण सङ्कीर्णा ।

प्रज्वलितेति । प्रज्वलितानि दीपिकासहस्राणि प्रदीपसमूहाः तेषां प्रतिबिम्बैः प्रतिच्छायैः चुम्बि-तेषु संसृष्टेषु, मणिभूमिकुट्टिमेषु मणिमयबद्धभूमिषु, कृतो विहितः विकचचम्पकदलानां विकसितचम्पक-पुष्पपत्राणाम् उपहारो निक्षेपो येषु तेष्विव सत्सु, तत्र तत्र पथि प्रदीपप्रतिच्छायानां निक्षिप्तविकसित-चम्पकपत्रवदवगम्यमानत्वादित्याशयः । इहापि पूर्ववदेवा लङ्कारः ।

निपतितेति । निपातिता दीपानां दीपकानाम् आलोको प्रकाशा यासु तासु, भवनदीर्घिकासु वाटी-चतुःसीमाभ्यन्तरवापीषु, रविविरहेण सूर्यवियोगेन आर्त्तानां व्यथितानां नलिनीनां कमलिनीनां विनो-दनाय आश्वासनाय आगता आयाता बालातपा नवोदितरवेः रक्तरश्मयः यासु तादृशीष्विव सतीषु, प्रतिबिम्बितदीपकप्रकाशानां बालातपवदवलोक्यमानत्वादित्याशयः ।

इहापि क्रियोत्प्रेक्षा, समासोक्तिः, पदार्थहेतुकं काव्यलिङ्गश्चालङ्कार इत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः ।

निद्रेति । पञ्जरकेसरिषु पञ्जरस्थसिंहपु निद्रया प्रमोतया अलसेषु मन्थरेषु सत्सु ।

समारोपितेति । समारोपितं सजीकृतं गृहीतञ्च, कार्मुकं धनुः सायकं च येन तस्मिंस्तादृशे, कामि-लक्ष्येषु सायकक्षेपस्य तस्यैव प्रथमकालत्वादित्याशयः, मकरकेतौ कामदेवे, यामिके प्रहरिके जन इव अन्तःपुरे अवरोधे प्रविष्टे सति । उपमा ।

अवतंसेति । अवतंसपल्लवेष्विव कर्णाभरणीभूतकिसलयेष्विव, सरागेषु, उत्पादकतया नायकं प्रत्य-नुरागविशिष्टेषु नायकं प्रत्यनुरागोत्पादकेष्वित्यर्थः, पक्षे आरुण्यविशिष्टेषु, सुरतदूत्या मैथुनसंदेशहारिण्या-वचनेषु वाक्येषु क्रियमाणेषु आकर्ण्यमानेषु अर्प्यमाणेषु चेत्यर्थः । पूर्णोपमा ।

सूर्यकान्तेति । सूर्यकान्ता ये मणयो रत्नानि तेभ्यो दिवसे रविकिरणस्पर्शादग्निं वमद्भय इत्यर्थः, संक्रान्तः सञ्चरितः अनलोऽग्निः येषु तेषु तादृशेष्विव, शोकविधुरेषु मानेन स्वजनितवियोगात्तत्समये दुःखविह्वलेषु, मानिनीनां चित्तेषु ज्वलत्सु कामाग्निना जाज्वल्यमानेषु सत्स्वित्यर्थः । क्रियोत्प्रेक्षा ।

प्रवृत्त इति । प्रदोषसमये यामिनीमुखसमये 'प्रदोषो रजनीमुखम्' इत्यमरः, अस्तसमयादूर्ध्वं घटि-काद्वय इत्यर्थः, प्रवृत्ते सञ्जाते सति चन्द्रापीडः राजपुत्रः, प्रज्वालिताम् उद्दीपितं यद्दीकिकाचक्रवालं प्रदीप-समूहः तदेव परिवारः परिवेशनकारी यस्य तादृशः चरणाभ्यां पदाभ्यामेव राजकुलं राजभवनं गत्वा पितुः तारापीडस्य समीपे निकटे मुहूर्त्तं किञ्चित्काल स्थित्वा अवस्याय विलासवर्ती निजजननीं च दृष्ट्वाऽवलोक्य

हुए-से दीखने लगे; हजारों जलते हुए प्रदीपके प्रतिबिम्बोंसे युक्त मणिनय भूमि पर मानो, प्रस्फुटित चम्पक पुष्पके उपहार रक्खे हों ऐसा प्रतीत होने लगा; राजभवनके चतुःसीमान्तर्गत सरोवरमें प्रदीपोंका प्रकाश पड़नेसे सूर्यके विरहसे दुःखित कमलिनीका मन बहलानेके लिए मानो बाल-सूर्य आया हो ऐसा प्रतीत होने लगा पिंजरेमें बन्द सिंह निद्राके आवेशमें अलस हो गए; धनुष चढ़ाकर बाण ले पहरेदार (चौकीदार) के समान कामदेवने अन्तःपुर (रनिवास) में प्रवेश किया; स्त्रियाँ नायकके प्रति अनुरागजनक रतिदूत्तियोंके वचनको रक्तवर्ण कर्ण-पल्लवके समान सुनने लगीं; विरहवेदनासे विह्वल मानिनियोंके हृदय सूर्यकान्तमणियोँसे ही मानो अग्नि संक्रान्त हो जानेके कारण जलने लगे; इस प्रकार प्रदोष समय हो गया तब राजपुत्र चन्द्रापीड, प्रज्वलित प्रदीपोंसे परिवेष्टित हो, टहलता ही राजभवनमें जाकर, पिताके समीप थोड़ी देर बैठ कर, विलासवतीसे मिल, अपने


१. क्वचित् 'कृत' इति पदं नास्ति ।
२. क्वचित् 'कान्त' इति पदं नास्ति ।
३. प्रज्ज्वल्य ।

३०२ कादम्बरी- [ कथायाम्-

मुहूर्त्तं स्थित्वा दृष्ट्वा च विलासवतीमागत्य स्वभवनमनेकरत्नप्रभाशबलमुरगराजफणामण्डल- मिव हृषीकेशः शयनतलमधिशिश्ये ।

प्रभातायाञ्च निशीथिन्यां समुत्थाय समभ्यनुज्ञातः पित्रा अभिनवमृगयाकौतुकाकृ- ष्यमाणहृदयो भगवत्यनुदित एव सहस्ररश्मावारुहेन्द्रायुधम्, अग्रतो वालेयप्रमाणानार्क- र्षद्भिः चामीकरशृङ्खलाभिः कौलेयकान्, जरद्व्याघ्रचर्म्म-शबल-वसन-कञ्चुकै-धारिभिरनेक- वर्ण-पट्ट-चीरिकोद्वद्ध-मौलिभिरुपचितश्मश्रु-गहनमुखैरेककर्णावसक्त हेमतालीपुटैराबद्ध-निबिड- कक्षैरनवरतश्रमोपचितोरुपिण्डकैः कोदण्डपाणिभिः श्वपोषकैरनवरत-कृत-कोलाहलैः प्रधा- वद्भिर्द्विगुणीक्रियमाणगमनोत्साहो बहु-गज-तुरग-पदाति-परिवृतो वनं ययौ ।

स्वभवनं निजगृहम् आगत्य अनेकेषाम् अनेकप्रकाराणां बहूनां च रत्नानां मणीनां प्रभाभिः कान्तिभिः सबलं चित्रम्, द्वयोरपि विशेषणञ्चेदम् । उरगराजस्य शेषनागस्य फणामण्डलम्, हृषीकाणाम् इन्द्रियाणाम् ईशो नियन्तेति हृषीकेशो नारायण इव शयनतलं शयनीयोपरिभागम् अधिशिश्ये स्थित्वा शयितवान् । शयनतलमित्यत्र 'अधिशीङ्स्थासां कर्म' इत्यधिकरणे द्वितीया । उपमालङ्कारः ।

प्रभातायामिति । किञ्चेति चार्थेः । प्रभातायां प्रातःकाले निशीथिन्यां रजन्यां च समुत्थाय उत्थानं विधाय पित्रा तातेन समभ्यनुज्ञातः प्राप्तानुकूल्यः आखेटेऽनुमत इत्यर्थः, अभिनवेन प्रत्यग्रेण मृगयाकौतुकेन आखेटकुतूहलेन आकृष्यमाणं हृदयं चित्तं यस्य स तथोक्तः, चन्द्रापीडो वनं ययाविति सम्बन्धः । भगवति ऐश्वर्यवति अनुदिते उदयमप्राप्त एव सहस्ररश्मौ सूर्ये इन्द्रायुधम् अश्वमारुह्य चामीकरस्य सुवर्णस्य शृङ्खलाभिः करनैः, वालेया गर्दभाः तत्प्रमाणान् गर्दभसदृशविशालान् इत्यर्थः, कौलेयकान् सारमेयान् 'चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः ।' 'कौलेयकः सारमेयः, कुक्कुरो मृगदंशकः ॥' इति चामरः ।

अग्रतः पुरतः आकर्षद्भिः आकर्षणं कुर्वद्भिः । इत आरभ्य तृतीयान्तानि यानि पदानि तानि अग्रेतनस्य श्वपोषकैरित्यस्य विशेषणानि । जरन् वृद्धो यो व्याघ्रो द्वीपी तस्य चर्म त्वक् । तद्वत् शबलं चित्रं वसनं वस्त्रं तस्य कञ्चुकधारिभिः तद्रचितवारवाणग्राहिभिः अनेकवर्णानि नानारूपाणि यानि पट्टानि क्षौमवस्त्राणि तेषां चीरिकाभिः क्षुद्रक्षुद्रखण्डैः उद्धद्धाः उन्नमय्य संयताः मौलयः संयुक्तकेशा जटीभूता इति यावत् यैस्तैः तादृशौः, उपचितैः वपनाभावाद् वर्धितैः श्मश्रुभिः वदनरोमभिः गहनानि सङ्कीर्णानि मुखानि वदनानि येषां तैः तादृशैः, एकस्मिन् कर्णे श्रोत्रे अवसक्तं लग्नं हेम्नः सुवर्णस्य तालीपुटम् आभूषणविशेषो येषां तैः तादृशैः, आबद्धाः वस्त्रेण संयताः निविडकक्षा दृढमध्यप्रदेशा यैस्तैः तादृशैः, अनवरतश्रमेण निरन्तरपरिश्रमेण उपचितौ वृद्धिमुपगतौ ऊरुपिण्डौ जङ्घामांसानि येषां तैः तादृशैः, कोदण्डा धनूंषि पाणिषु हस्तेषु येषां तैः तादृशैः अनवरतं निरन्तरं कृतो विहितः कोलाहलो यैस्तैः तादृशैः, तथा प्रधावद्भिः शीघ्रं गच्छद्भिः, स्वोपकैः कुक्कुरपालकैः लुब्धकविशेषैः द्विगुणीक्रियमाणो

भवनमें आया । बादमें नारायणने जिस प्रकार अनेक रत्नोंकी प्रभासे विचित्र शेषनागके फणामण्डल पर शयन किया था, उसी प्रकार अनेक रत्नोंकी प्रभासे चित्रित पलङ्ग पर, सो गया ।

प्रातःकाल होने पर उठ कर पिताकी अनुमति लेकर, नूतन मृगया (शिकार) के औत्सुक्यसे आकर्षित हृदयवाला राजकुमार, भगवान् सूर्यनारायणके उदित नहीं होने पर ही, इन्द्रायुध पर सवार हो, अधिकतर हाथी, घोड़े और पैदल सैनिकोंसे परिवेष्टित होकर वनकी तरफ चला । आगे-आगे दौड़कर कितने कुत्तेको पालन करनेवाले, निरन्तर कोलाहल करते-करते चन्द्रापीड के मृगया-गमनके उत्साहको दूना बढ़ाने लगे । वे गधोंके समान बड़े बड़े कुत्तोंको सोने की जंजीरोंसे बाँध कर खींचते हुए ले जाते थे । वे वृद्ध व्याघ्रके चर्मद्वारा निर्मित विचित्र वस्त्रके कञ्चुक पहने हुए थे, और विविध-वर्णके रेशमी कपड़ेके खण्डद्वारा (टुकड़ेके साफेसे) केशकलापको ऊँचे उठाकर बाधे हुए थे, दाढ़ी बढ़ जानेसे उनके मुखमण्डल भर गये थे, एक-एक कानमें सोनेके बनाए हुए 'तालीपुट' नामक आभूषण पहने हुए थे, कमर दृढ़रूप (मजबूत) से बाँध ली थी, अहर्निश परिश्रम करनेसे उनकी जाँघें मोटी हो गई थीं और उन्होंने हाथमें धनुष ले रक्खे थे ।


१. मुहूर्त्तकम् । २. अभ्यनुज्ञातः । ३. " अवकृष्यमाण... । ४. बालेयदीप्रिप्रमाणाम्, माकर्षयद्भिः । ५." शबलकञ्चुक... । ६. अबद्ध, ऊर्ध्वंबद्ध... । ७. "पिण्डकैः । ८. दण्डपाणिभिः । ९."क्रियमाणोत्साहः, मनोत्साहः । १०. पादातिभिः । ११. घनं वनं ।

चन्द्रापीडाखेटवर्णना-३३ ] चन्द्रकला-विद्योतिनीसहिता । ३०३

तत्र च कर्णान्ताकृष्ट-मुक्तैर्विकच-कुवलय-पलाश-कान्तिभिर्भल्लैः, मदकलकलभ-कुम्भ-भित्ति-भिदुरैश्च नाराचैः, चाप-टङ्कार-भय-चकित-वनदेवताद्धेक्षितेक्षितो वनवराहान् केसरिणः शरभांश्चामराननेकरुंश्च सहस्रशो जघान। अन्यांश्च जीवत एव महाप्राणतया स्फुरतो जग्राह।

समारूढे च मध्यमह्नः सवितरि वनात्, स्नानोत्थितेनेव श्रमसलिलविन्दुवर्षमनवरतमुत्सृजता मुहुर्मुहुर्दशनविघट्टनैः खणखणायित-खर-खलीनेनं श्रम-शिथिल-मुख-विगलित-फेनित-रुधिर-लवेन पर्य्याण-पट्टकानुसरणोत्थित-फेनराजिना कर्णावतंसीकृतमुत्फुल्लकुसुमशबलम-

गमनेत्साहो दस्य स तादृशः, तथा बहुभिरनेकः गजैः हस्तिभिः तुरंगैरश्वैः पदातिभिः स्वल्पायिसेना-मिश्र परिवेष्टितः।

तत्रेति । किञ्चेति चार्थः। तत्र तस्मिन् वने चापस्य धनुषो यः टङ्कारः शब्दः तस्मात् यद्वयं त्रासः तेन चकिताभिः त्रस्ताभिः वनदेवताभिः वनाधिष्ठात्रीभिः अर्द्धाङ्गेन भयवशादेवाद्धं समुचितेन नेत्रेण नयनेन वीक्षितोऽवलोकितः चन्द्रापीडः कर्णान्ते श्रवणपर्यन्तम् आकृष्टा आकर्षिताः पश्चात् मुक्ताः त्यक्ताः तैः तादृशैः, तथा दिकचानि विकसितानि यानि कुवलयानि नीलोत्पलानि तेषां यानि पलाशानि पर्णानि तेषामिव कान्तिः द्युतिः येषां तैः तादृशैः भल्लैरद्धंचन्द्रसदृशशिलीमुखैः, मदकला मदमत्ता ये कलभाः त्रिंशद्वर्षायिककरिणः तेषां याः कुम्भभित्तयो भित्तिवद्विस्तृता घटाश्च कुम्भदेशाः तासां भिदुराः विदारकाः तैः तादृशैः नाराचैः लौह मयैः शिलीमुखैश्च वनवराहान् अरण्यक्रोढान्, केसरिणः सिंहान्, शरभान् अष्टापदान् चामरान् चामरीविशिष्टान्, अनेककुरङ्गान अगणितमृगांश्च सहस्रशः जघान हतवान्।

इह 'विकचकुवलये' त्यादौ लुप्तोपमा, तथा अर्द्धाङ्गेन वनदेवताकर्त्तृकावलोकनसम्वन्धाभावेऽपि तत्सम्वन्धप्रतिपादनादतिशयोक्तिरलङ्कारः। अनयोश्च परस्परं नैरपेक्ष्येण संसृष्टिः।

अन्द्यांचेति । महाप्राणतया अत्यधिकसाहसतया अत्यधिकबलतया वा जीवतः प्राणान् दधत एव स्फुरतः स्पन्दमानान् अन्यान् एनङ्गिद्धान् पशून् जग्राह गृहीतवान्।

सनेते । सवितरि सूर्येऽह्नो दिनस्य मध्यं कालं समारूढे प्राप्ते सति कुमारश्चन्द्रापीडः वनात् स्वभवनमाजगामेति सम्वन्धः। स्नानोत्थितेनेव स्नानं विधायनन्तरमुत्थितेनेव सतेत्यर्थः, अनवरतं निरन्तरं श्रमसलिलविन्दुवर्षं घर्मविन्दुवृष्टिम् उत्सृजता, मुञ्चता। इत आरभ्य तृतीयेकवचनान्तानि पदानि अश्वेतनस्य 'इन्द्रायुधेन' इत्यस्य विशेषणानि बोध्यानि। मुहुर्मुहुः वारं वारं दशनैः दन्तैः यानि विघट्टनानि घर्षणानि तैः तादृशैः। खणखणायितः खणखणेतिशब्दद्यायमानीकृतः खरो निशितः खलीनः मुखयन्त्रणं येन तेन तादृशेन। श्रमेण खेदेन शिथिलात् विवृतादित्यर्थः, मुखात् वदनात् विगलितः स्त्रस्तः फेनिलो लालफेनवान् रुधिरलवः शोणितविन्दुर्यस्य तेन तादृशेन। पर्याणं पल्ययनं तस्य यः पट्टकः स्थितिपीठं तस्यानुसरणं तत्पर्य्यन्तगमनं यस्याः सा नयोक्ता सनी उत्थिता फेनराजिः कफपङ्क्तिर्यस्य तेन तादृशेन। कर्णावतंसीकृतं श्रवणाभरणीकृतम्, उत्फुल्लानि विकसितानि यानि कुसुमानि पुष्पाणि तैः शबलं


उस वनमें प्रवेश कर कान तक धनुषको खींच कर छोड़े गए, खिले हुए नील-कमलकी पंखड़ियोंके समान लगते हुए भालोंसे और मदमत्त दलमण्डोंके कुम्भ-भित्तियोंको विदारण करनेमें समर्थ लोहमय बाणोंसे चन्द्रापीडने हजारों जङ्गली शूकर, सिंह, शरभ ( भीषण पशुविशेष जिसको आठ टाँगें होती हैं), चमरयुक्तहरिण और अन्यान्य विविध हरिणों को मार डाला। उसके धनुषकी टङ्कारसे भयभीत वनदेवियाँ कटाक्षसे उसे देखने लगीं और अत्यन्त शारीरिक बल होने के कारण काँपते हुए अन्यान्य पशुओंको तो उसने बिना मारे ही (जीवित अवस्थामें ही) जाते-जाते पकड़ लिया।

सूर्यके दिनके मध्यस्थानमें (दोपहरमें) आ जाने पर राजकुमार इन्द्रायुध पर सवार होकर उस वनसे अपने भवनमें आ गया। उस समय इन्द्रायुध परिश्रमजन शरीर से पसीनेकी बूंदोंका अनवरत मेह बरसाता था, उससे प्रतीत होता था कि मानो, वह स्नान कर उठा हो। वारं वार दाँतके घर्षण (किट् किट् करने) से इन्द्रायुधके मुखका तीक्ष्ण लगाम खड़खड़ाहट करता था, उस (इन्द्रायुध) को थकावट से शिथिल हुए मुखमें से फेनके साथ रुधिरकी बूँदें टपकती थीं, पर्य्याणपट्टके किनारे पर फेन की रेखा उठी थी और खिले हुए नानाविध फूलों से विचित्र


१. सबहृष्ट । २. चानरटङ्काररव*** । ३. वनवराहकेसरिणः । ४. चमराननेकविध*** । ५. स्नानोत्थितेन । ६. खररखामीतेन । ७. गश्चित् । ८. अनुसारोत्थित

३०४कादम्बरी-[ कथायाम्-

लिपटल-झङ्कारै-मुखरं वनगमनचिह्न पल्लव-स्तवकमुद्वहतेन्द्रायुधेनोह्यमानः, समुद्गतस्वेदतया-ऽन्तराद्रीकृत-मण्डलेन मृग-रुधिर-लव-शत-शबलेन वारवाणेन द्विगुणतरमुपजनितकान्तिः, अनेकरूपानुसरणं-सम्भ्रम-परिभ्रष्ट-छत्रधरतयौ छत्रीकृतेन नवपल्लवेर्न निवार्य्यमाणातपः विविध-वन-लताकुसुम-रेणु-धूसरो वसन्त इव विग्रहवान्, अश्वखुर-रजो-मलिन-ललाटाभि-व्यक्तावदात-स्वेदलेखः, दूरविच्छिन्नेनँ पदातिजनेन शून्यीकृतपुरोमार्गः, प्रजवि-तुरङ्गामधि-रूढैरल्पावशिष्टैः सह राजपुत्रैः 'एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः, एवं हरिणः' इति तमेव मृगयावृत्तान्तमुच्चारयन् स्वभवनमाजगाम ।

चित्रम्, अलिघटलानि तत्सुगन्धिलोमेन प्राप्ता भ्रमरसमूहाः तेषां झङ्कारेण झंइमितिरवेण मुखरं शब्दायमानम्, वनेऽरण्ये यद्गमनं तस्य चिह्नं लक्ष्म तादृशं पल्लवस्तवकं किसलयगुच्छकम् उद्द्वहता धारयता इन्द्रायुधेन उद्यमानः पृष्ठे स्थाप्यमानः कुमारः ।

समुद्गतेति। समुद्गतस्वेदतया प्रादुर्भूतघर्मतया कारणेन, अन्तरभ्यन्तरे आर्दीकृतानि क्लिन्नीकृतानि मण्डलानि वर्तुलाकारभागा यस्य तेन तादृशेन, मृगरुधिराणां हरिणशोणितानां लवरशतेन बिन्दुसमूहेन शबलः कर्बुरितः तेन तादृशेन, वारवाणेन कञ्चुकेन द्विगुणतरं यथा स्यात्तथा उपजनिता उत्पादिता कान्तिः शोभा यस्य सः तादृशः कुमारः ।

अनेकेति। अनेकेषां नानाविधानां रूपाणां मृगाणां 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः । अनु-सरणे पश्चात् पश्चाद् गमने यः सम्भ्रमः शीघ्रता तेन परिभ्रष्टः विच्युतः छत्रधारणस्थानादपगतः छत्रधरः आतपत्रधारकः भृत्यः सेवकौ यस्य तस्य भावतस्या कारणेन, छत्रीकृतेन आतपवारणीकृतेन नवपल्लवेन नूतनकिसलयेन निवार्यमाणो दूरीक्रियमाणः आतपः सूर्यरश्मिः यस्य सः तादृशः, कुमारः ।

विविधेति । विविधानि नानाप्रकाराणि यानि 'वनलताकुसुमानि तेषां रेणुभिः परागैः धूसरः किञ्चित् पाण्डुवर्णः, अतएव विग्रहवान् सशरीरो वसन्तः कुसुमाकरऋतुराव, तस्यापि तथाविधपरागः पाण्डुवर्ण-त्वादित्याशयः ।

इह द्वन्योत्प्रेक्षा, पदार्थहेतुकं काव्यलिङ्गमलङ्कारश्च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।

अश्वेति । अश्वानां तुरगाणां ये खुराः शफानि 'शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च' इति मेदिनी । तेषां रजोभिर्धूलिभिः मलिने कश्मले ललाटे भाले अभिव्यक्ता आविर्भूता अवदाता निर्मला स्वेदलेखा घर्मबिन्दुपङ्क्तिर्यस्य स तादृशः ।

दूरेति । पदातिजनेन पत्तिपरिच्छदेन दूरविच्छिन्नेन दूरान्तरितेन सता शून्यीकृतः पुरोभागः अग्र-भागो यस्य स तादृशः ।

प्रजवीति । प्रजविनो वेगवन्तो ये तुरङ्गमा अश्वाः तेषु अधिरूढैः, अल्पावशिष्टैः स्तोकैः राज-पुत्रैः सह बहूनामग्रतो गमनादित्याशयः । एवम् अनेन प्रकारेण, मृगपतिः पशुराजो मृगेन्द्रः एवं वराहो वनशूकरः, एवं महिषो रक्ताक्षः, एवं शरभोऽष्टापदः, एवं हरिणो मृगो मया मारित इति शेषः । अत्रैवशब्दे ऽनवीकृतत्वदोषस्तु न शङ्क्यः वैचित्र्यविशेषस्य द्योतिततया रसापकर्षकत्वाभावात् ।


और गूँजते भ्रमरोंके झुण्डोंसे शब्दायमान एवं वनगमनके चिह्नरूप दो पल्लवस्तवक को वह कर्णाभरणके स्थान में धारण कर रहा था। चन्द्रापीडके शरीरसे घर्मजल (पसीना) उत्पन्न होकर कवचके अन्दरके वर्तुलाकार अंशको आर्द्र कर दिया था, एवं मृग रुधिरके सैकड़ों बूंदों से उसके ऊपर का भाग विचित्र हो गया था, अन एव वह कवच उसके द्विगुण सौन्दर्य को उत्पन्न करता था। अनेक हरिणोंके अनुसरण (पीछा) करनेके समयमें दौड़नेकी गड़बड़ीमें उसके छत्रधारी नौकर स्थानभ्रष्ट (अलग) हो गए थे, अत एव अनेक अभिनवपल्लव ही छत्रके आकार में हो गए थे, वे पल्लव ही उसके रौद्र (धूप) को निवारण करने थे। अनेक प्रकारकी वन-लताओंके फूलोंकी रज चन्द्रापीड का शरीर धूसरवर्ण हो गया था, उससे वह शरीरधारी वसन्तके समान-शोभित हो रहा था । एवं चन्द्रापीडका ललाट घोड़ोंके खुरोंसे उड़ी धूलसे मलिन हो गया था और उसमें निर्मल पसीने की बूँदें आविर्भूत हुई थीं। पैदल सैनिकों के आगे आगे दूर चले जानेसे उसका सम्मुख भाग शून्य था 'मैंने यों सिंह मारा, एवं यों शूकर, यों महिषों यों शरभ, और यों हरिणों का सहार किया' इस प्रकार चन्द्रापीड, जानेके-


१ ॰॰॰झङ्काररव॰॰॰
२. अन्तरान्तरार्द्रीकृत॰॰॰ ।
३. उपजातकान्तिः ।
४ ॰॰॰अनुसार॰॰॰ ।
५. छत्रधारतया ।
६. वनपल्लवेन ।
७ ॰॰॰परिजनेन ।
८. वनमहिषः ।

चन्द्रापीडविश्रामादिव०-३४ ] चन्द्रकला-विद्योतिनीसहिता । ३०५

अवतीर्य्य^१ च तुरङ्गमात् ससम्भ्रम-प्रधावित-परिजानोपनीते समुपविश्य^२ आसने वार-बाणमवतार्य्य; अपनीय चाशेषं तुरङ्ग^३विरोहोणोचितं वेशपरिग्रहम्, इतस्ततः प्रचलित-ताल-वृन्त-पवनापनीयमानश्रमो मुहूर्त्तं विशश्राम । विश्रम्य च मणि-रजत-कनक-कलश-शत-सना-थामन्तर्विन्यस्त-काञ्चनपीठां स्नानभूमिमगात् । निर्वर्त्तितोऽभिषेकव्यापारस्य च विविक्त-वसन-परिमृष्टवपुषः स्वच्छदुकूल-पल्लवाकलित^५-मौलेर्गृहीतवाससः^६ कृतदेवतार्चनस्य^७ अङ्गराग-.. भूमौ समुपविष्टस्य राज्ञा विसर्जिता महाप्रतीहाराधिष्ठिता राजकुलपरिचारिकाः, कुलवर्द्ध-नासनायाश्च विलासवती-दास्यः, सर्वान्तःपुरप्रेषिताश्चान्तःपुर-परिचारिकाः पटल-विनि-हितानि विविधान्याभरणानि माल्यान्यङ्गरागान्^९ वासांसि चादाय पुरस्तदस्योपतस्थुः, उपनि-

अवतीर्येति । तुरङ्गमात् अश्वात् अवतीर्य अवरोहं कृत्वा ससम्भ्रमं सजबं प्रधावितः शीघ्रगत्या गतः यः परिजनः सेवकः तेन उपनीते उपस्थापिते, आसने विष्टरे उपविश्य, वारबाणं कञ्चुकं कवचमित्यर्थः । अवतार्य देहादुन्मुच्य, तुरङ्गाधिरोहणोचितम् अश्वारोहणयोग्यम् अशेषं समग्रं वेशपरिग्रहं वेशपरिच्छदम् अपनीय दूरीकृत्य, इतस्ततः प्रचलितानि परिजनान्दोलनेन स्पन्दितानि यानि तालवृन्तानि व्यजनानि तेषां पवनैः वातैः अपनीयमानो दूरीक्रियमाणः श्रमः क्लमो यस्य स तादृशः मुहूर्त्तं किञ्चित्कालं विशश्राम विश्रामं कृतवान् ।

विश्रम्येति । विश्रम्य विश्रामं कृत्वा, मणयः चन्द्रकान्ताद्याः, रजतं रौप्यम्, कनकं सुवर्णम्, एतेषां ये कलशाः कुम्भाः तेषां शतेन समूहेन सनाथाः सहिताः ताम्, तथा अन्तर्मध्ये विन्यस्तं स्थापितं काञ्चनपीठं यस्यास्तां तादृशीम्, स्नानभूमिम् आप्लवनस्थानम् अगात् जगाम ।

निर्वर्त्तितेति । निर्वर्त्तितो निष्पादितः अभिषेकव्यापारः स्नानक्रिया येन तस्य तादृशस्य, विविक्तं पवित्रं यद् वसनं वस्त्रं तेन देहमार्जन्येत्यर्थः परिमृष्टं संवकेन जलरहितीकृतं वपुः शरीरं यस्य तस्य तादृशस्य, स्वच्छेन विशदेन दुकूलपल्लवेन विस्तृतक्षौमवस्त्रखण्डेन आकलितो बद्धो मौलिः संयतकेशसमूहो येन तस्य तादृशस्य, गृहीतवाससः परिहितवसनस्य, कृतं विहितं देवतार्चनं नित्यिकदेवतापूजा येन तस्य तादृशस्य अङ्गरागभूमौ विलेपनभूमौ समुपविष्टस्य कृतोपवेशनस्य तस्य चन्द्रापीडस्य, अग्रत इति सम्बन्धः, राज्ञा भूपतिना विसर्जिताः, प्रेषिता महा प्रतीहारेण द्वारपालाध्यक्षेण अधिष्ठिताः पाल्यत्वेनाश्रिताः राजकुलपरिचा-रिकाः नृपकुलसेवाकारिण्यः कुलवर्द्धनया पूर्वप्रतिपादितपरिचारिकाविशेषेण सनाथा युक्ताः, विलासवती-दास्यः कुमारजननीकूटदहारिकाः । सर्वैःन्तःपुरैः निखिलान्तःपुरस्थाङ्गनाभिः प्रेषिताः प्रेरिताः, पटल्के पेटि-कामध्ये विनिहितानि स्थापिनानि विविधानि नानाप्रकाराणि आभरणानि भूषणानि माल्यानि पुष्पदा-मानि अङ्गरागान् विलेपनानि, वासांसि वस्त्राणि आदाय गृहीत्वा उपतस्थुः स्थिता बभूवुः, उपनिन्युः तानि तानि चन्द्रापीडाय ददुश्च ।


समर्पने, तेज दौड़े पर बैठे, दौड़े कवकिट (दचे हुए) राजपुत्रोंके साथ उस शिकारकी ही आलोचना करता था।

चन्द्रापीड भवनमें आकर घोड़ेसे उतर गया। बादमें किसी सेवकने जल्दीसे दौड़कर एक आसन (कुर्सी) रख दी। वह उस पर बैठ कर, शरीरसे कवच उतार कर, घुड़सवारीके योग्य सब वेश-भूषाओंको उतार दिया। तदनन्तर सेवकगण चारों ओर पंखा हिलाकर, उसको हवा करने लगे। उनकी हवासे चन्द्रापीडकी थकावट दूर हो गई और उसने क्षण भर विश्राम (आराम) किया। विश्रामके बाद वह स्नानगृहमें गया। उस स्थानमें रत्नमय, रौप्यमय और सुवर्णमय बहुसंख्यक कलश रखे हुए थे एवं उसके बीचमें सुवर्णकी एक चौकी रखी थी। वहाँ जाकर चन्द्रापीडने विधिवत् स्नान किया। उसके बाद किसी शुन्यने पवित्र (स्वच्छ) अङ्गोछे (तौलिया आदि) से उसका शरीर पोंछ दिया। बादमें उसने निर्मल और विस्तृत रेशमी कपड़ेसे शिरमें साफ़ा बाँधकर अन्य वस्त्रोंको पहन लिया। जब वह ठाकुरजी की पूजा कर अङ्गरागशालामें जा बैठा तब, वहाँ प्रधान द्वारपालको आगे कर, महाराज (तारापीड़) के भेजे हुए राजकुलके सेवक, कुलवर्धनासहित विलासवती महारानी की दासियाँ एवं अन्यान्य रानियों द्वारा भेजी हुई अन्तःपुर (रनिवास) की दासियाँ, पेटियोंके अन्दर रखे हुए अनेक आभूषण, माल्य, अङ्गरागद्रव्य और वस्त्र लेकर चन्द्रापीड़के समक्ष उपस्थित हुई और उन वस्तुओंको उसको


१. वतीर्य्य । २. उपविश्य । ३. तुरङ्ग । ४. निर्वर्त्तितु..... । ५. "...माकुलित...." । ६. गृहीत-धौतवाससः । ७. कृतदेवतार्चनस्य । ८. ...'परिचारिकाः । ९. माल्याङ्गरागान् ।