कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| ४३४ | कादम्बरी- | [ कथामुखम्- |
|---|
पादि। ततस्तमुत्सङ्गेनादाय' 'भगवन्! गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ। असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसम्भवतया तदेव पुण्ड- रीक इति नाम चक्रे। प्रतिपादितव्रतञ्च तमागृहीतसकलविद्याकलापमकार्षीत्। सोऽयम्।
इयञ्च सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतः पारिजातनामा पादपस्तस्य मञ्जरी। यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमंसादितवती, तदपि कथयामि। अथ चतुर्दशीति भग- वन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्नि-
तत इति । ततः कुमारोत्पत्तेरनन्तरम् उत्सङ्गेन क्रोडेन तं कुमारम् आदाय गृहीत्वा लक्ष्मीरिति शेषः। भगवन् स्वामिन् !, गृहाण स्वीकुरु अयं ममोत्सङ्गे विद्यमानः कुमारः तवात्मजः तव सुतः त्वदव- लोकनेनैव संवृभितानुकूलोऽसावनात्वादित्याशयः। इत्युक्त्वा इत्यभिधाय तस्मै श्वेतकेतवे मुनये तं कुमारकं ददौ दत्तवती।
असाविति । असौ श्वेतकेतुरपि गृहीतवेति शेषः। बालजनोचिताः शिशुजनयोग्याः सर्वाः समस्ताः क्रियाः जातकर्मोदिकाः कृत्वा विधाय तस्य कुमारस्य पुण्डरीकसम्भवतया सितकमलोद्भवतया 'पुण्डरीक' इति नाम इत्यन्वर्थामिधानं चक्रे कृतवान्। पुण्डं सुन्दरेषु तिलकमार्थे मुखरावे शिति व्रजति लभत इति पुण्डरी तरुः स्वार्थिकः कप्रत्ययः।
प्रतिष्ठेति । किञ्च, प्रतिपादितं सम्पादितं व्रतं यज्ञोपवीतं यस्य तम् तथा आ गृहीतः पाठितः सकल- विद्याकलापः समस्तविद्यासमूहो येन तम्, तं पुण्डरीकम् अकार्षीत् कृतवान् श्वेतकेतुरिति सम्बन्धः। अयं युवा सः पुण्डरीकः।
इयमिति । इयमित्यस्य 'तस्य च मञ्जरी' इत्यत्रान्वयः। सुरासुरैः देवराक्षसैः मध्यमानात् विक्षो- भ्यमानात् क्षीरसागराद् दुग्धाम्बुधेः पारिजातनामा मन्दारसंज्ञकः पादपो वृक्ष उद्गतो निःसृतः तस्य वृक्षस्य इयं कर्णावतंसीकृता मञ्जरी वल्लरी एषा कुसुममञ्जरी च व्रतविरुद्धं विलासासङ्गीत्वेन ब्रह्मचर्य- प्रतीपं यथा स्यात्तथा अस्य पुण्डरीकस्य श्रवणसंसर्गं कर्णसंयोगं यथा येन प्रकारेण आसादितवती प्राप्त- वती तदपि वृत्तं कथयामि निवेदयामि।
अथेति । अथ अस्मिन्नहनि चतुर्दशी विधिः इति हेतोः,
उपासना हरेत्त्या चैकादश्यां महामुने ! । चतुर्दश्यां शिवस्येति महापुण्यफलप्रदा ॥
इत्युक्त्या शिवोपासनायां चतुर्दशीदिनेऽधिकमाहात्म्यादित्यभिप्रायः। कैलासगतं रजताद्रिस्यं भगवन्तं माहात्म्यवन्तम् अम्बिकापतिं महेशम् उपासितुं सेवितुम्, अयं पुण्डरीकः, मया ( कपिञ्जलेन ) सह अमरलोकात् स्वर्गात् नन्दनवनसमीपेन इन्द्रोद्याननिकेतेन अनुसरन् कैलासपर्वतमागच्छन्, निर्गत्य इन्द्रोद्यानाद्वहिर्निःसृत्य साक्षान्नन्दनवनदेवतया प्रत्युद्गीभूत्वा इन्द्रोद्यानाधिष्ठात्र्या देव्या प्रणम्य नमस्कृत्य अभिहित उक्त इति सम्बन्धः। तृतीयाया एकवचनान्तानि पदानि 'नन्दनवनदेवतया' इत्यस्य विशेष-
उसीमें उसका मनोरथ पूर्ण हुआ एवं उस श्वेतकेतुसे एक बालकका जन्म हुआ। इसके बाद उसको गोदमें लेकर महर्षिके समीपमें जाकर उसनेने-'भगवन् ! अपने इस पुत्रको ग्रहण करो'-यों कह कर श्वेतकेतुके हाथमें दे दिया। उन्होंने भी उसे ग्रहण कर बालकके उपयुक्त जातकर्मप्रभृति समस्त क्रियाएँ सम्पादन करके पुण्डरीक में उत्पत्ति होने के कारण उसका नाम 'पुण्डरीक' रक्खा। बाद उसका उपनयन संस्कार कराके उसे सब विद्याएँ पढ़ाईं। वही है यह पुण्डरीक।
देव-दानवोंके क्षीरसमुद्रको मन्थन करनेसे जो पारिजात-नामक एक वृक्ष उत्पन्न हुआ था, उसकी यह मञ्जरी है। इस मञ्जरीका धारण करना ब्रह्मचर्यके विरुद्ध होने पर भी जैसे इसने (पुण्डरीकके) कानमें आई यह भी कहता हूँ। आज चतुर्दशी तिथि होनेके कारण, कैलासगामी भगवान् महादेवकी पूजा करनेके लिए ये मेरे साथ स्वर्गलोकसे नन्दन-वनके समीप होकर उस कैलासमें जारहे थे, इतनेमें नन्दन-वनकी साक्षात् अधिष्ठात्री
१. उत्सङ्ग आदाय ।
कुसुममञ्जरीप्राप्त्युदन्त० ६३ ] चन्द्रकला-विद्योतिनीसहिता । ४३५
र्गत्य साक्षान्मधुमासलक्ष्मीदत्तललित-हस्ताव लम्बया, बकुलमालिकामेखलया, पारिजात-कुसु-मपल्लव-ग्रथिताभिरानुलम्बिनीभिः कण्ठमालिकाभिर्निरन्तराच्छादितविग्रहा, नवचूताङ्कुरकर्णपूरया, पुष्पासव-पान-मत्तया, नन्दनवन-देवतया, पारिजातकुसुममञ्जरीमिमामादाय प्रणम्याभिहितः-'भगवन् ! सकलत्रिभुवनदर्शनाभिरामायास्तवाकृतेरस्याः सुसदृशोऽयम् अलङ्कारः, प्रसादीक्रियताम्, इयमवतंस-विलास-दुर्ललिता समारोप्यतां श्रवणशिखरम्, व्रजतु सफलतां जन्म पारिजातस्य' इत्येवमभिधानाञ्चायमात्मरूप-स्तुतिवादं त्रपावनमित-लोचनंः तामनादृत्यैव गन्तुं प्रवृत्तः । मया तु तामनुयान्तीमालोक्य 'को दोषः, सखे ! क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत् कार्त्स्न्येन
णानि । मधुमासलक्ष्म्या वसन्तमासश्रिया दत्तोऽर्पितः ललितहस्तस्य स्वस्य सुन्दरकरस्य अवलम्ब आश्रयो यस्याः तया, वसन्तलक्ष्म्या ललितहस्तधारिण्येत्यर्थः । बकुलमालिका केसरस्रक् मेखला काञ्ची यस्याः तया, पारिजातकुसुमैः मन्दारपुष्पैः पल्लवैः किसलयैश्च ग्रथिताभिर्गुम्फिताभिः आजानुलम्बिनीभिः जानुकीलालम्बमानाभिः कण्ठमालिकाभिः गलदत्तस्रग्भिः निरन्तरं सान्द्रम् आच्छादित आवृतो विग्रहः शरीरं यस्याः तया, नवा नूतनः चूताङ्कुरा आम्रमुकुलाः कर्णपूराः कर्णावतसा यस्याः तया, पुष्पासवस्य प्रसूनमधुरूपमद्यस्य पानेन मत्ता क्षीवा तया ।
किमुक्त इत्यत आह- भगवन्निति । भगवन् स्वामिन् ! सकलत्रिभुवनस्य जगत्त्रयनिवासिनः समस्तलोकस्य दर्शने अवलोकने अभिरामायाः सर्वथा मनोरमायाः, अस्या अवलोक्यमानायाः तवाकृतेः तव स्वरूपस्य सुसदृशोऽनुरूपः अयम् अलङ्कारो भूषणम्, प्रसादीक्रियतां प्रसादपात्रीक्रियताम् अनुग्रहेण स्वीक्रियतामित्यर्थः । नन्वनया मया किं विधेयमिति जिज्ञासायामाह- इयमिति । अवतंसे भूषणस्थाने कर्णे यो विलासः अनया द्युतिसंपादनं तत्र विषये, दुर्ललिता अन्येन दुर्लभतया क्लेशेन लिप्सिता दुष्प्रापेत्यर्थः, इयं पारिजातकुसुममञ्जरी श्रवणशिखरं श्रोत्रोध्वँदेशं समारोप्यतां संस्थाप्यताम्, पारिजातस्य मन्दारस्य जन्म उत्पत्तिः सफलतां सार्थकतां व्रजतु गच्छतु, तव तन्मञ्जरीधारणादित्यभिप्रायः ।
इतीति । किञ्च, इत्येवं पूर्वोक्तप्रकारेण अभिदधानां कथयन्तीम् अयं पुण्डरीकः, आत्मरूपस्य स्वसौन्दर्यस्य स्तुतिवादेन प्रशंसनेन या त्रपा हीः तया अवनमिते नम्रीकृते लोचने नयने येन स तथोक्तः सन्, तां नन्दनवनदेवताम् अनादृत्यैव तिरस्कृत्यैव गन्तुं चलितुं प्रवृत्तः उद्यतोऽभूत् ।
मयेति । तां नन्दनवनदेवताम् अनुयान्तीं पुण्डरीकमनुव्रजन्तीम् आलोक्य दृष्ट्वा, 'हे सखे मित्र ! को दोषः अस्या वनदेवताया अनुरोधस्वीकारे (मञ्जरीग्रहणे ) को दोष इत्यर्थः, प्रणयपरिग्रहः प्रीतिदान-ग्रहणं क्रियतां विधीयताम्' इत्यभिधाय इत्युक्त्वा इयं कुसुममञ्जरी अनिच्छतोऽपि श्रवणोपरिस्थापनमनभिलषितस्यापि अस्य पुण्डरीकस्य, बलात् हठात् कर्णपूरीकृता श्रवणाभरणकृता । तत्तस्मात् कारणात्
देवीने, इस परिजात-पुष्पकी मञ्जरीको लेकर वसन्तलक्ष्मीके हस्त-धारणपूर्वक नन्दन-वनसे निकल कर इन्हें प्रणाम किया । उस समयमें उसने वकुल-पुष्प-मालकी मेखला ( चन्द्रहार ) धारण की थी । पारिजातके पुष्प और पल्लवद्वारा गूँथी हुई और जांघों तक लटकती कण्ठमालाओंसे उसका समस्त शरीर आच्छादित हो गया था और आमके नूतन अङ्कुरका उसने कर्णपूर धारण किया था, एवं पुष्पोंका मद्य पीनेसे मत्त हुई थी । उसके बाद उसने इनसे कहा-'भगवन् ! आपकी यह आकृति, त्रिभुवननिवासी समस्त लोगोंकी दृष्टिसे ही अत्यन्त सुन्दर है, अत एव इसके सुयोग्य इस आभूषणको अनुग्रहपूर्वक ग्रहण कीजिए । कानमें रखकर शोभा सम्पादन करनेमें दूसरेको दुष्प्राप्य 'इस मञ्जरीको अपने कानके ऊपर धारण कीजिए और आज पारिजातवृक्षका जन्म सफल कीजिए ।' वनदेवता इसप्रकार कह रही थी उस समय ये ( पुण्डरीक ) अपने सौन्दर्यकी प्रशंसा सुन कर लज्जासे नयनयुगल अवनत कर उनका अनादर करके ही चलने लगे । इधर उनको भी इनके पीछे-पीछे आती देख इनसे मैंने कहा कि 'मित्र ! इसमें क्या दोष है ? जो यह प्रेमसे देती है उसे स्वीकार करो' इतना कह कर इनकी इच्छा नहीं रहने पर भी मैंने बलपूर्वक यह मञ्जरी इनके कानमें धरत ( पहना ) दी । अत एव यह जो है जिनके
१. क्वचित् 'पारिजाते'ति पदं न विद्यते । २. क्वचित् 'नन्दन' इति पदं न विद्यते । ३. सदृशोऽयम् तु सदृशः । ४. प्रसीद,० क्रियताम्,। ५. आरोप्यताम् । ६. शिखरे । ७. आत्मन्नतिवाद ००० । ८. ००विलोचनः ।
| ४३६ | कादम्बरी- | [ कथायाम्- |
|---|
योऽयम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं² समारूढा तत्सर्वमावेदितम्' १। इत्युक्तवति तस्मिन् स तपोधनयुवा किञ्चिदुपदर्शितस्मितो मामेवादीत्³-'अयि कुतूह- लिनि ! किमनेन प्रश्नायासेन⁴ । यदि रुचितैषा⁵ सुरभिपरिमला तदा॑⁶ गृह्यतामियम्'⁷ इत्युक्त्वा समु- पसृत्यात्मीयात् श्रवणादपनीय कलैरलिकुलक्वणितैः प्रारब्धरतिसमागम-प्रार्थनामिव मदीये श्रवणपुटे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुमावतंस- स्थाने पुलर्कम्⁸ आसीत् । स च मत्कपोलस्पर्शसुखेन तरलीकृताङ्गुलिजालकात् करतलाद्- अक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसम्प्राप्तामेव भूतलमक्षमालां
एतत् जिज्ञासाविषयीभूतं कात्स्न्येन साकल्येन, यश्चायं तपोधनयुवा, यस्य चायं पुत्रः, या चेयं कुसुम-मञ्जरी यदुरुपेत्यर्थः। अपि चेयं कुसुममञ्जरी यथा येन विधिना, अस्य कुमारस्य श्रवणशिखरं कर्णोर्ध्वभागं समारूढा प्राप्ता तत्सर्वं तत्समस्तम् आवेदितं कथितम् ।' इह 'कात्स्न्येन' इत्यस्य स्थाने साकल्येनेति पाठो विधेयः, तथा सत्येव न दुःश्रवत्वदोष इत्यवधेयम् ।
इतीति । तस्मिन् सहचरे इत्युक्तवति सति स तपोधनयुवा पुण्डरीकः, किञ्चित् ईषत् उपदर्शितं प्रकटितं स्मितं मन्दहसं हास्यं येन स तथोक्तः सन् मां महाश्वेताम् अवादीत् प्रत्यवोचत्-'अयि कुतूहलिनि कौतुकवति ! अनेन प्रश्नायासेन पृच्छापरिश्रमेण किं किं प्रयोजनमित्यर्थः । यदि रुचिरतो जिज्ञासितो सुरभिर्घ्राणतृप्तिकरः परिमलः सौरभं यस्याः सा इयं मञ्जरी तदा तर्हि गृह्यतां स्वीक्रियताम्' इत्युक्त्वा इत्यभिधाय मसृपसृत्य समीपमेत्य आत्मीयात् स्वकीयात् श्रवणात् श्रोत्रात् अपनीय उन्मुच्य, तां कुसुममञ्जरीम् , 'कलैः अव्यक्तमधुरैः अलिकुलक्वणितैः सौरभलोभेन तदन्तिकागतमधुकरगणझङ्कृतः करणैः प्रारब्धा प्रस्तुता रतिसमागमस्य सम्भोगसंसर्गस्य प्रार्थना याच्या यया तामिव सतीम् अकरोत् अर्पितवान् । इह सुरतसमागसयाचनोपक्रमेगोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।
ममेति । मम महाश्वेतायास्तु तत्करतलस्पर्शलोभेन पुण्डरीकपाणितलस्पर्शवृष्णया तत्क्षणं तत्काले अवतंसस्थाने तत्कर्णे, अपरं द्वितीयं पारिजातकुसुममिव मन्दारपुष्पमिव उच्चतावनतमुखसादृश्यादित्याशयः, पुलकं ( पुल्लकः ) रोमाञ्चः आसीत् अभवत् । इह द्रव्योत्प्रेक्षा । अत्र 'पुलकम्' इति रोमाञ्चार्थे नपुंसको न युक्तः किन्तु पुल्लिङ्ग एव पाठः साधीयान् अन्यथा च्युतसंस्कृतिदोषस्य वारयितुं कः शक्नुयात् । 'हृदयम्' इति पाठपरिवर्त्तने तु साम्याभावादनुचितार्थदोषापत्तिरित्यवधेयम् ।
स इति । स च सोऽपि युवा, मत्कपोलस्पर्शसुखेन मदण्डस्थलस्पर्शानन्देन, तरलीकृतं कम्पितम् अङ्गुलीनां हस्तात्रयवानांजालकं समूहो यस्य तस्मात् करतलात् पाणितलात् लज्जया त्रपया सह गलितामपि पतितामपि अक्षमालां जपमालां नाज्ञासीत् न ज्ञातवान् । इह सहोक्तिः।
अथेति । अथ अनन्तरम् अहम् भूतलं पृथ्वीतलम् असम्प्राप्तामेव अपतितामेव ताम् अक्षमालां
पुत्र हैं, और यह मञ्जरी जिस वृक्षसे उत्पन्न हुई है एवं जिस रूपसे इनके कान पर आरूढ़ हुई यह आनुपूर्विक सब वृत्तान्त मैंने कह दिया है।'
उसके यों कह चुकने पर वह तपस्वी युवक कुछ मन्द-मन्द हँस कर स्वयं ही मुझसे कहा—'अयि कौतुकवति ! इस प्रश्न करनेके परिश्रमसे क्या प्रयोजन ? यदि इस मञ्जरीके घ्राणतृप्तिकर सौरभमें तुम्हारी अभिलाषा है तो तूँ इसे ले ले'—इतना कह मेरे समीप आकर, भ्रमरगणके अस्पष्ट और मधुर झङ्कार (गुञ्जार) से मानों सम्भोग सम्मिलनकी प्रार्थना करते हुए उस मञ्जरीको, अपने कानमेंसे निकाल कर, मेरे कानमें पहना दिया । उसके करस्पर्शकी आशासे, उसी समय, एक दूसरे पारिजात-कुसुमके समान कर्णाभरण-स्थानमें मुझे रोमाञ्च हो आया । मेरे कपोलस्थल (गाल) के स्पर्श सुखसे उसके भी हाथके अङ्गुलिसमूह काँपने लगे और हाथमेंसे लज्जाके साथ गिरती अपनी जप-मालाको भी वह जाननेमें समर्थ न हुआ । उस जपकी मालाको पृथिवीपर गिरते-गिरते
१. चोऽयं या चेयम् । २. श्रवणशिखरे । ३. क्वचित् 'माम्' इति पदं न विद्यते । ४. प्रश्नाशवेन । ५. क्वचित् 'रुचिते'ति पदं न विद्यते । ६. क्वचित् 'तदे'त्यपि न दृश्यते । ७. क्वचित् 'इयम्' इति पदं नास्ति । ८. हृदयम् ।
पुण्डरीकाद्योपदेशारम्भ० ६४ ] चन्द्रकला-विद्योतिनीसहिता । [ ४३७
गृहीत्वा सलीलं तद्भुज-पाश-सन्दानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्व-हारलता-लीलां कण्ठाभरणतामनयम्।
इत्थम्भूते च व्यतिकरे छत्रग्राहिणी मामवोचत्-‘भर्त्तृदारिके ! स्नाता देवी, प्रत्यासीदति गृहगमनकालः, तत्क्रियतां मज्जनविधिः’ इति । अहन्तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छन्ती कथं कथमपि समाकृष्यमाणा तन्मुखाल्लावण्यपङ्कमग्नामिव कपोल-पुलकैः-कण्टक-जालक-लग्नामिव, मदन-शर-शलाका-कीलितामिव, सौभाग्यगुण-स्यूतामिव अतिकृच्छ्रेण दृष्टिमाकृष्य स्नातुमुदचलम् । उच्चलितायाञ्च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्य्यस्खलितमालोक्य किञ्चित्प्रकटितप्रणयकोप इवावादीत्—
गृहीत्वा आदाय, तस्य तरुणस्य भुजपाशाभ्यां बाहुपाशाभ्यां सन्दानितः परिवेष्ट्य संयतो यः कण्ठस्तत्र ग्रहसुखं तदालिङ्गनसुखम् अनुभवन्तीव साक्षात्कुर्वन्तीव, दर्शिता प्रकटीता अपूर्वा या आश्चर्य्यरूपया, हारलताया मुक्तालताया लीला शोभा यया तां तादृशीं सतीम्, सलीलं यथा स्यानया कण्ठाभरणतां कण्ठभूषणताम् अनयम् आनीतवती ।
इह 'अनुभवन्तीव' इति क्रियोत्प्रेक्षा, हारलताया लीलेव लीलेति औपम्याक्षेपादसम्भवद्वस्तुसम्बन्धा निदर्शना चेत्यनयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
इत्यमिति । इत्थम्भूते एतादृशे, व्यतिकरे अन्योन्यासक्तिनिबन्धनाचारे छत्रग्राहिणी सदातपत्रधारिणी माम् अवोचत् अब्रवीत्—‘भर्त्तृदारिके राजपुत्रि ! स्नाता कृतमज्जना देवी स्वन्माता वर्तते अथ च गृहगमनकालः भवनव्रजनसमयः प्रत्यासीदति निकटगतो भवति उपस्थितो भवतीत्यर्थः, तत्तस्मात् मज्जनविधिः स्नानकार्यं क्रियतां विधीयताम्' इति ।
अहमिति । तु किन्तु अहं प्रथमाङ्कुशपातेन आद्यसृणिप्रहारेण, नवो नूतनो ग्रहो धारणं यस्याः सा तथोक्ता करिणी हस्तिनीव, तस्याः छत्रग्राहिण्याः तेन वचनेन वाक्येन, अनिच्छन्त्या अनीहया कथं कथमपि महता कष्टेन समाकृष्यमाणा सती, लावण्यं तस्य सौन्दर्यमेव पङ्कः कर्दमः तत्र मग्नां लीनामिव, क्लेशेनार्कषणादित्याशयः । कपोलयोः तदीयगण्डयोः पुलका रोमाञ्चा एव कण्टकाः क्षुद्रशत्रवः तेषां जालके जाले लग्नां संसक्तामिव कष्टेनाकर्षणादित्याशयः । ‘कण्टकः क्षुद्रशत्रौ च' इति विश्वः । मदनस्य कामस्य शरशलाकाभिः बाणेषिकाभिः कीलितां विद्धामिव, सौभाग्यमेव गुणः तन्तुः तेन स्यूतां कृतसीवनामिव क्लेशेनाकर्षणादिति प्राग्वदिवाशयः । तन्मुखात् तदाननात् अतिकृच्छ्रेण अतिवलेशेन दृष्टिं चक्षुः समाकृष्य परावर्त्य स्नातुं मज्जितुम् उदचलम् उदव्रजम् ।
इह 'नवग्रहा करिणी' इत्यत्रोपमा, 'लावण्यपङ्कमग्नामिव' इत्यत्र निरङ्गकेवलरूपकक्रियोत्प्रेक्षयोरङ्गाङ्गिभावसङ्करः, एवं 'कपोलपुलके' त्यत्र, 'सौभाग्यगुणस्यूतामिद' इत्यत्र चोक्ताऽलङ्कार एव । 'मदनशरशलाकाकीलितामिव' इत्यत्र तु क्रियोत्प्रेक्षा ।
उच्चलितेति । किञ्च, उच्चलितायां मद्व्रजितायां मयि द्वितीयो मुनिदारकः अपरस्तपस्विबालकः तस्य पुण्डरीकस्य धैर्य्यस्खलितं मदनविकारेण धृतिमङ्गम् आलोक्य निरीक्ष्य किञ्चित् प्रकटितः ईषदावि-
रोक कर मैने ले लिया और उस कुमारके भुज-पाशको मानो अपने कण्ठमें वेष्टन कर आलिङ्गन करनेका सुख मान कर अपूर्व हार-लताकी शोभा दिखाती उस मालाको मैंने लीलाके साथ अपने कण्ठका आभरण कर लिया ।
आसक्तिवश परस्पर इस प्रकारका व्यवहार हो जानेपर, मेरी छत्रधारिणी परिचारिकाने मुझसे कहा—'राजकन्ये ! महारानी स्नान कर चुकीं और घर चलनेका समय उपस्थित हो गया है अतः एव आप भी स्नान कर लें' अंकुशके प्रथम ही प्रहार (चोट) से पकड़ी हुई अभिनवा हस्तिनीके समान मैं उस परिचारिकाके वचनसे अनिच्छापूर्वक ही बड़े बड़े प्रयत्नसे पीछे हटी; उस समय मेरी दृष्टि, उसके लावण्यरूपी पङ्कमें मानो फँस गई थी, उसके गण्डस्थल (गाल) पर उत्पन्न हुए रोमाञ्चरूपी कण्टक जालमें मानो प्रविष्ट कर गई थी; कामदेवकी शर-शलाका (बाणरूपी सलाई) से मानो विद्ध हो गई थी; एवं सौभाग्यरूपी सूत्रसे मानो सिल गई थी; अत एव मैं अतिकष्टसे उसके मुखमण्डलसे उस दृष्टिको हटाकर स्नान करनेको चली । मेरे स्नान करनेके लिए चले जाने पर, वह द्वितीय मुनिकुमार पुण्डरीकका इस प्रकार मदनविकारसे धैर्य्यस्खलन देखकर मानो कुछ प्रणय-कोप प्रकट करके ही कहने लगा—
१. क्वचित् ‘अपि’ इत्यधिकं पदमत्र दृश्यते । २. स्नानाय । ३. तथाविधः ।
| ४३८ | कादम्बरी- | [ कथायाम्- |
|---|
'सखे ! पुण्डरीक ! नैतदनुरूपं भवतः। क्षुद्रजनक्षुण्ण एष मार्गः।१ धैर्यधना हि साधवः। किं यः कश्चित्२ प्राकृत इव विह्वलीभवन्तमात्मानं न रुणत्सि। कुतस्तवापूर्वोऽयमचेन्द्रियोपप्लवैः३ ? येनास्येवं कृतः। क्व ते तद्धैर्यम्, कासाविन्द्रियजयः, क्व तद्वशित्वं चेतसः, क्व सा प्रशान्तिः, क्व तत् कुलक्रमागतं ब्रह्मचर्यम्, क्व सा सर्वविषय्निरुत्सुकता, क्व ते गुरूपदेशाः, क्व तानि श्रुतानि, क्व ता वैराग्यबुद्धयः, क्व तदुपभोगविद्वेषित्वम्, क्व सा सुखपराङ्मुखता, कासौ तपस्यभिनिवेशः, क्व सा संयमिता४, क्व सा भोगानामुपर्युरुचिः५, क्व तद्यौवनानुशासनम्। सर्वथा निष्फला प्रज्ञा, निर्गुणो धर्मशास्त्राभ्यासः, निरर्थकः संस्कारः, निरुपकारका गुरूपदेशविवेकः, निष्प्रयोजना प्रबुद्धता, निष्कारणं ज्ञानम्, यदत्र६
प्रकृतः प्रणयकोपः स्नेहक्रोधो येन सः तथोक्त इव सन् भवादीत् अवोचत्—
सख इति। सखे पुण्डरीक मित्र पुण्डरीक ! एतद् विधीयमानं भवतस्तव नानुरूपं नोचितम्। एष मार्गः सुन्दरीदर्शने कामभाव इत्यर्थः, क्षुद्रजनक्षुण्णः नीचजनैराचरितो न तु भवद्विधैरित्यभिप्रायः, हि यतः साधवो मुनयो धैर्यधना धृतिधनाः, हेतुविशेषेणाधैर्यतासम्भवेऽपीत्यभिप्रायः। यः कश्चित् अनिर्दिष्टनामा प्राकृत इव साधारणपुरुष इव, विह्वलीभवन्तं कामावेशेन व्यग्रीभवन्तम् आत्मानं मनः किं न रुणत्सि निरुद्धं करोषि ? तव भवतः अयम् अपूर्वः अनुत्पन्नपूर्वः कुतः कस्मात् इन्द्रियाणां करणानाम् उपप्लवः क्षोभः उद्वेलनम् ? येन इन्द्रियोपप्लवेन एवं कृतः अधीरीकृतः।
क्वेति। ते तव तद्धैर्यं क्व, तथा इन्द्रियाणां करणानाम् असौ जयो निरोधः क्व, तथा चेतसो मनसस्तद्वशित्वं निवृत्तिमार्गे तत्स्वातन्त्र्यं क्व, सा अनिर्वचनीयस्वरूपा प्रशान्तिः शमगुणाश्रयणं (सात्त्विकता) क्व, तथा कुलक्रमेण वंशपरिपाट्या आगतम् आयातं ब्रह्मचर्यं कामविरतिः क्व, तथा सर्वविषयेषु समस्तेन्द्रियार्थेषु निरुत्सुकता निरुत्कण्ठता क्व, तथा गुरूणां हिताहितोपदेष्टृणां ते उपदेशाः शिक्षावचनानि क्व, तथा तानि पूर्वोक्तानि श्रुतानि ज्ञानानि क्व, ताः सर्वाधिका वैराग्यबुद्धयः विरक्तिमतयः क्व, तासाम् अङ्गनानां कामिनीनाम् उपभोगः पुनःपुनरासेवनं तस्मिन् विद्वेषित्वं वैरित्वं क्व, सुखात् सौख्यात् पराङ्मुखता व्यावृत्तता क्व, तपसि व्रतविशेष एव अभिनिवेश आग्रहः क्व, सा प्रसिद्धा संयमिता संयतभावः स्रक्चन्दनवदितादिभिरनाकर्षणमित्यर्थः क्व, भोगानां विषयाणाम् उपरि सा अरुचिः अस्पृहा क्व, तद् यौवनानुशासनं यौवनविकारनिग्रहः क्व।
सर्वथेति। सर्वथा सर्वप्रकारेण प्रज्ञा प्रतिभा निष्फला निष्प्रयोजना, निर्गुणः सदसज्ज्ञानोत्पत्तिरूपगुणरहितः धर्मशास्त्राभ्यासः मन्वादिस्मृतीनां भूयो भूयः पठनम्, संस्कारः शिक्षाजनितचित्तशुद्धिः निरर्थको निष्प्रयोजनः, गुरूपदेशात् आचार्योपदेशाद् यो विवेको बोधः स निरुपकारकः उपकाराकरणाद्व्यर्थक इत्यर्थः। प्रबुद्धता विषयेषु प्रकृष्टज्ञानवत्ता भोग्यानां साररहितत्वमिति ज्ञानमित्यर्थः, निष्प्रयोजना निष्फला, ज्ञानं तत्त्वावबोधः निष्कारणं निर्हेतुकम्, यद् यस्मात् कारणात् भवादृशाः त्वद्विधा अपि रज्यन्ते
'मित्र पुण्डरीक ! इस प्रकारका आचरण करना आपके योग्य नहीं है, क्योंकि यह तुच्छ मनुष्योंके ही व्यवहार करनेका मार्ग है, साधुओंका तो धैर्य ही धन है। क्यों एक साधारण मनुष्यके समान अधीरचित्त होकर आप अपनेको नहीं रोकते ? आज कैसे आपमें यह अपूर्व इन्द्रियोंका उपद्रव उपस्थित हो गया कि जिससे आपकी यह दशा कर दी गई ? आपका वह धैर्य कहाँ गया ? आपकी वह जितेन्द्रियता कहाँ गई ? चित्तकी वह स्वाधीनता कहाँ गई ? वह प्रशान्ति कहाँ गई ? वह वंश-परम्परागत ब्रह्मचर्य कहाँ गया ? समस्त विषयोंके प्रति वह निरुत्सुकता कहाँ गई ? वे गुरुके उपदेश कहाँ गए ? वे सब शास्त्रज्ञान कहाँ गए ? वह वैराग्य-बुद्धि कहाँ गई ? उपभोगके प्रति वह विद्वेष कहाँ गया ? वह सुखपराङ्मुखता कहाँ गई ? तपस्याके प्रति वह आग्रह कहाँ गया ? वह संयतभाव कहाँ गया ? भोगोंके ऊपर वह अरुचि कहाँ गई ? एवं यौवनविकारका वह अनुशासन कहाँ गया ? आज प्रतिभा, सब प्रकारसे निष्फल हुई। धर्मशास्त्रोंका अभ्यास सदसद्विवेकजनननरूपगुणहीन निकला। शिक्षाजनित चित्तशुद्धि निरर्थक हुई ! गुरूपदेशजनित-विवेक किसी प्रकारका उपकारक नहीं हुआ ! विषयों का असारताज्ञान, प्रयोजन-विहीन हुआ ! एवं तत्त्वज्ञान निष्फल (निरुपयोगी) हुआ ! क्योंकि आपके समान लोग भी
१. क्व एष मार्गः।
२. कश्चन।
३. अयेन्द्रियोपप्लवः।
४. क्वचित् 'क्व सा संयमिता' इति पाठो नास्ति।
५. सङ्गानाम्।
६. यत्र।
कादम्बरी-महाश्वेतादशा० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४३६
भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलिताम- पहृतामक्षमालामपि न लक्षयसि । अहो ! विगतचेतनत्वम् । अपहृता नामेयम्, इदमपि तावदपाह्रियमाणम् अनया अनार्यया निवार्यतां हृदयम्' ।
इत्येवम् अभिधीयमानश्च तेन किञ्चिदुपजातत्रप इव प्रत्यवादीत्, कपिञ्जल ! किं मामन्यथा सम्भावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयान्यक्षमालाग्रहणापराव- मिमम्' इत्यभिधाय अलीक-कोप-कान्तेन प्रयत्नविरचित-भीषण-भ्रुकुटिभङ्गरेण चुम्बनाभिला- पस्फुरिताधरेण मुखेन्दुना मामवदत्-चपले ! प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात् पद-
पुभिरिति रागाः स्रक्चन्दनकामिनीप्रभृतयो विषयाः तेषु अभिषङ्गैः आसक्तिभिः कलुषीक्रियन्ते मलिनी- क्रियन्ते साष्टपंगं विधाय दुष्टत्वं विधीयन्त इत्यर्थः, प्रमादैः निजकर्त्तव्यात् स्खलनरूपैः अभिभूयन्ते स्वाधीनीक्रियन्ते, तद्भवता सम्प्रति प्रस्तुतमहेशोपासनां विहाय सुन्दर्यामभिषङ्गो विधीयत इत्यभिप्रायः ।
कथमिति । करतलाद् हस्ततलाद् गलिता श्युता तया अपहृतां गृहीताम् अक्षमालां जपमालामपि कथं कस्माद्धेतोः न लक्षयसि जानासि । अहो आश्चर्यम्, विगतचेतनत्वं संज्ञारहितत्वम्, पतिताया अक्ष- मालाया अप्यज्ञानादित्याशयः ।
इति । अनया अनार्यया पुरोऽवलोक्यमानया धृष्टया नायिकया, इयम् अक्षमाला जपमाला अपहृता बलाल्लुष्ठिता नाम, सम्प्रति इदं तावत् अपह्रियमाणं समाकृष्यमाणं हृदयं चित्तमपि निवार्यतां स्वया निषिध्यताम्, एकस्य अपहरणे जाते सम्प्रति अपह्रियमाणस्य रक्षणावश्यकत्वादित्याशयः ।
इतीति । इत्येवं पूर्वोक्तप्रकारेण, तेन कपिञ्जलेन अभिधीयमानः कत्थ्यमानः पुण्डरीकः, किञ्चिदुप- जाता ईषदादुद्भूता लज्जा त्रपा यस्य स तादृश इव प्रत्यवादीत् प्रत्यवोचत्-'सखे कपिञ्जल वयस्य कपि- ञ्जल ! अन्यथा तया नायिकया हृतचित्तं मां किकथं सम्भावयसि नाहं तथेत्याशयः ।
तर्हि कथमेवं तवार्धेयमित्यत आह—नाहमिति । अहम् एवमस्या दुर्विनीतकन्यकाया इमम् अक्ष- मालाग्रहणापराधं जपमालास्वीकरणागसनं न मर्षयामि क्षमे, न खलु मदनविकारजनिता ममेयमधीरता अपि तु कोपजनितेवेत्यभिप्रायः।
इह द्योतिताया अपि मदनविकारजनिताया अधीरतायाः कोपजनितत्वव्याजेन गोपनाद् व्याजोक्तिः।
इतीति । इत्यभिधाय इत्युक्त्वा अलीककोपेन असत्यक्रोधेन कान्तः तान्नरूपतया पूर्वतोऽपिसुन्दरः तेन, प्रयत्नेन कोपाभावेन स्वयंजन्मभावाच्चेष्टया विरचिता विहिता भीषणा भयङ्करा भ्रूकुटिरेव भूषणम् स्फुरारो यस्य तेन तादृशेन, तथा चुम्बनाभिलाषेण चुम्बनेच्छया स्फुरितः स्पन्दितः अधरः ओष्ठो यस्य तेन, मुखमाननम् इन्दुरिव तेन, माम् अवदत् अबोचत्-चपले चञ्चले ! इमाम् अक्षमालां जपमालाम् अदत्त्वा असमर्प्य अस्मात् प्रदेशात् स्थानात् पदात् पदमपि एकपादपि न गन्तव्यं यातव्यम् ।
इह त्रासकारणीभूतभ्रुकुटिनोल्लङ्घारगुणशोभाजननाद् विषमालङ्कारः, 'मुखेन्दुना' इत्यत्र लुप्तोपमा चेत्युभयोः परस्परं नैरपेक्ष्येण स्थितत्वात् संसृष्टिः।
स्रक्चन्दनवनितादिरूप विषयासक्तिसे कलुषित और प्रमादसे अभिभूत होने लगे। क्या आपने अपने हाथमेंसे गिरी हुई और किन्हींके द्वारा अपहरण कर ले ली गई जपमालाको भी नहीं जानते? कितनी आश्चर्यदायिनी आपकी संज्ञाहीनता ! यह प्रगल्भा कन्या आपकी मालाका अपहरण करके तो ले गई पर आपके हृदयको भी जो आहरण कर ले जा रही है उसे तो निवारण कीजिए।'
इसप्रकार कपिञ्जलके कहे जाने पर, मानो कुछ लज्जित होकर, पुण्डरीकने प्रत्युत्तर दिया-'मित्र कपिञ्जल ! क्यों मेरे विषयमें तुम अन्यथा सम्भावना करते हो? मैं इस दुर्विनीत कन्याका अक्षमाला ग्रहण करनेका अपराध क्षमा नहीं करूँगा।' इतना कह कर, मिथ्या क्रोधसे और भी मनोहर लगने, यत्नपूर्वक रचे हुए भयङ्कर भ्रुकुटीरूपी आभूषणसे अलङ्कृत और चुम्बन करनेकी अभिलाषासे कांपने होंठवाले मुख-चन्द्रसे उसने मुझसे कहा-'चञ्चले ! मेरी इस जप-मालाको दिये बिना इस स्थानसे एक कदम भी नहीं गमन कर सकती हो।'
१. प्रमादैः। २. विगतचेतनत्वमपहृतानामेयम् । ३. ह्रियमाणम् । ४. दवन् । ५ चञ्चले ! ।
| ४४० | कादम्बरी- | [ कथायाम्- |
|---|
मपि न गन्तव्यम्' इति । तच्च श्रुत्वाहमात्मकण्ठादुन्मुच्य मकरध्वज-लास्यारम्भ-लीला-पुष्पाञ्जलिमेकावलीं 'भगवन् ! गृह्यतामक्षमाला' इति सन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् । गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहावधुरा किमागतास्मि, किं तत्रैव स्थितास्मि,किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किं न रोदिमि, किं दुःखमिदम्, किं सुखमिदम्, किमुक्तण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्वं नावगच्छम् । अविज्ञातमदनवृत्तान्ता च क्व गच्छामि, किं करोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति
तदिति । तत्पूर्वोक्तं श्रुत्वा निशम्य आत्मकण्ठात् स्वकीयगलात् अहम् उन्मुच्य, मकरध्वजेन कामेन यो लास्यारम्भः देहसञ्चालनात्मकनृत्यारम्भः तत्र लीलापुष्पाञ्जलिं क्रीडाप्रसूनाञ्जलिं तद्रूपाम्, नृत्यारम्भे पुष्पाञ्जलिप्रक्षेपस्य लोकव्यवहारसिद्धत्वात् अक्षमालायाश्च तद्वदवलोक्यमानत्वादित्याशयः । एकावलीं मदीयमेकपङ्क्तिकं हारम्, 'भगवन् तपोनिधे ! गृह्यताम् उपादीयताम् अक्षमाला स्फटिकाक्षमाला' इति एवं सन्मुखे मदानने आसक्ता आबद्धा दृष्टिरवलोकनं यस्य तस्य, शून्यं विषयान्तरज्ञानवर्जितं हृदयं चेतो यस्य तस्य, अत एव मन्मुक्तमालामपि निजस्फटिकमालात्वेनेवासौ निःशङ्कं जग्राहेत्याशयः । अस्य पुण्डरीकस्य प्रसारिते विस्तारिते पाणौ हस्ते तां निधाय स्थापयित्वा स्वेदसलिलेन घर्मजलेन स्नातापि कृतमज्जनापि पुनर्भूयः स्नातुं मज्जितुम् अवातरम् अवतीर्णवती ।
उत्थायेति । किञ्चेति चार्थः । अहम् उत्थाय सरोवरादुत्थानं विधाय सखीजनेन सहचरीवर्गेण कर्त्रा, प्रयत्नेन बलाच्च निम्नगा सरिदिव कथमपि कष्टेन, प्रतीपं प्रतिकूलं चेतः तपस्विकुमारदिग्गयायित्वेऽपि तत्प्रतिकूलदिशमित्यर्थः नीयमाना प्राप्यमाणा, तमेव मुनिकुमारं चिन्तयन्ती ध्यायती सती, अम्बया जनन्या सह साकं स्वभवनं निजगृहम् अयासिषम् आगतवती । 'निम्नगेव' इत्युपमा ।
गत्वेति । गतैत्य स्वभवनं कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा ततः प्रभृति तद्दिनादारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा विह्वला सती, किम् आगता गृहम् आयातास्मि ? किं तत्रैव अच्छोदसरस्तीरे स्थितास्मि विद्यमानास्मि, किम् एकाकिनी असहाया अस्मि, किं परिवृता लोकैः परिवेष्टिता अस्मि, किं तूष्णीं मौनमस्मि, किं प्रस्तुतालापा सहचरीभिरारब्धकथनोपकथनास्मि, किं जागर्मि प्रबुद्धोऽस्मि, किं सुप्ता निद्रिताऽस्मि, किं रोदिमि विलपामि, किं न रोदिमि न विलपामि, किं दुःखं क्लेशमिदम्, किं सुखम् सातमिदम्, किम् उत्कण्ठा उत्सुका इयम्, किं व्याधिरामयः अयम् किं व्यसनं विपदिदम्, किम् उत्सवः समारोहोऽयम्, किम् एष दिवसो वासरः किम् इयं निशा रात्रिः, कानि वस्तूनि रम्याणि मनोहराणि, कानि चारम्याणि अमनोहराणि, इति सर्वं नावगच्छम् न ज्ञातवती ।
अविज्ञातेति । अविज्ञातः पूर्वमनवगतः मदनवृत्तान्तः अनङ्गप्रभावो यया सा, क्व गच्छामि व्रजामि,
उसका यह वचन सुन कर, कामदेवके नृत्यारम्भके समय विलासपुष्पाञ्जलिस्वरूप एक लट्की रुद्राक्षमालाको अपने कण्ठमेंसे उतार कर—'भगवन् ! लीजिए जपकी माला'—यों कह कर, मेरे ही सामने देखते शून्य-हृदय कुमारके माला ग्रहण करनेके लिए प्रसारित हाथमें रख, घर्मजल (पसीने) से स्नान की हुई भी मैं पुनः स्नान करनेके लिए सरोवरमें चली । स्नान कर लेनेके बाद प्रबल प्रयत्नसे मेरी सखियां लाकर मुझे, नदीके समान लौटा लाईं और माताके साथ मैं उस तपोघन युवा (कुमार) का चिन्तन करती-करती बलात्कार अपने घर आई । वहां जाकर कन्यान्तःपुरमें प्रविष्ट हो गई उस समयसे उसके वियोगसे शोकातुर रहनेके कारण—क्या मैं आ गई हूँ या वहीं खड़ी हूँ ? क्या एकाकिनी हूँ या सखियोंसे परिवेष्टित (घिरी हुई) हूँ ? क्या चुप हूँ या आलाप आरम्भ किये हूँ ? क्या जागती हूँ या सोती हूँ ? क्या रोती हूँ या नहीं रोती ? क्या यह दुःख है या सुख है ? क्या यह उत्कण्ठा है या व्याधि है ? क्या यह विपत्ति है या उत्सव है ? क्या यह दिन है या रात्रि है, क्या सुन्दर हैं और क्या कुत्सित है, वे समस्त विषय ही मुझे अवगत नहीं हुए । पहले और किसी समयमें भी मदनवृत्तान्तके अनभिज्ञ
१. क्वचित् 'उन्मुच्य' इति पदं न दृश्यते। २. प्रगतः । ३. सातमिदम् ।
कामाकुलमहाश्वेतादशाव० ६५] चन्द्रकला-विद्योतिनीसहिता। ४४१
सर्वञ्च नाज्ञासिषम्। केवलमारुह्य कुमारीपुरप्रासादं विसर्ज्य च सखीजनं द्वारि निवारि- ताशेषपरिजनप्रवेशा सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव कुसुमितामिव¹ महारत्ननिधानाधिष्ठितामिव अमृतरससागरे²पूर- प्लावितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्त- मनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्त्ता प्रष्टुमीहमाना, तद्वल्लभतया तपः- क्लेशायापि स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनित-पक्षपाता च, तत्परिग्रहान्मुनि-
किं करोमि अनुतिष्ठामि, किं शृणोमि आकर्णयामि, किं पश्यामि अवलोकयामि, किम् आलपामि वदामि, किं कथयामि निवेदयामि, अस्य कः प्रतीकारः प्रतिक्रिया इति सर्वं निखिलं च नाज्ञासिषम् न ज्ञातवती।
केवलनिति। केवलम् अन्यनिरपेक्षं कुमारीपुरप्रासादं कन्यकावरोधगृहम् आरुह्य आरोहणं विधाय च पुनः सखीजनं सहचरीवर्गं विसर्ज्य स्वस्थानं व्रजेत्यभिधाय द्वारि प्रतोश्यां निवारितो निषिद्धः अशे- षाणां समस्तानां परिजनानां सेवकानां प्रवेशः अभ्यन्तरागमनं यया सा, सर्वव्यापारान् समस्तकृत्यानि उत्सृज्य विमुच्य एकाकिनी अद्वितीया, मणीनां रत्नानां जालं समूहो यत्र तथोके गवाक्षे वातायने निक्षिप्तं स्थापितं मुखं वदनं यया सा। तेन तपस्विकुमारेण सनाथतया संयुक्ततया कारणेन, प्रसाधितां भूषिता- मिव, कुसुमितां समुत्पन्नपुष्पामिव, महान्ति बहुमूल्यवन्ति रत्नानि मणयो यत्र तथोकेन निधानेन निधिना अधिष्ठिता आश्रिता तामिव, अमृतरसस्य पीयूषद्रव्यस्य यः सागरः समुद्रः तस्य पूरेण प्लवेन प्लावितामिव पूरितामिव, पूर्णचन्द्रोदयेन समग्रचन्द्रोद्गमेन अलङ्कृतां भूषितामिव, दर्शनसुभगाम् अव- लोकनेन मनोहरम्, तामेव तपस्विकुमारकाधिष्ठितामेव दिशं ककुभं केवलम् ईक्षमाणा अवलोकमाना सती, निष्पन्दं निश्चेष्टम् अतिष्ठमित्युत्तरेण सम्बन्धः। एवमन्येषामपि प्रथमान्तपदानां सम्बन्धो ज्ञेयः।
इह 'प्रसाधितामिव' इत्यारभ्य 'पूर्णचन्द्रोदयादलङ्कृतामिव' इत्यन्तानां पञ्चानामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
तस्मादिति। तस्मात् दिगन्तरात् तेन तपस्विकुमारकेणाश्रितादिग्विदेशात्, आगच्छन्तम् आयान्तम् अनिलं वायुमपि, वनकुसुमपरिमलमपि अरण्यपुष्पसौरभमपि तस्माद्दिगन्तरादागच्छन्तमित्यन्वीयते, शकुनिध्वनिमपि तादृशं पक्षिणिनादमपि, तस्य तपस्विकुमारस्य वार्त्ताम् उदन्तं प्रष्टुं प्रश्नविषयीकर्तुम् ईहमाना अभिलषन्ती सती, 'कामात्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु' इति न्यायादित्याशयः। पृच्छुधा- तोर्द्विकर्मकत्वात् 'अनिलम्' इत्यादिषु त्रिषु 'तद्वार्त्ताम्' इत्यत्र च द्वितीया बोध्या।
तदिति। तस्य तपस्विकुमारस्य वल्लभतया प्रियतया तपःक्लेशस्येत्यभिप्रायः, तपःक्लेशायापि तपश्चरणकष्टमपि स्पृहयन्ती अभिलषन्ती, तस्य तपस्विकुमारस्य प्रीत्येव मौनव्रते प्रेम्णेव कारणेन, गृहीत- मौनव्रता अर्थात् तूष्णीमवस्थिता। प्रियजनस्य प्रियविषये स्वस्यापि प्रेम्णः सर्वत्र सिद्धत्वादिति स्थलद्वयेऽपी- त्यभिप्रायः। इह हेतूत्प्रेक्षा।
स्मरेति। स्मरेण कामेन जनित उत्पादितः पक्षपातः सङ्गीकारः तादृशे कुमारे प्रेम यस्याः
होनेसे—कहां जाऊं, क्या करूँ क्या देखूँ, क्या बोलूँ, किसके निकट कहूँ और इसका क्या प्रतीकार करना—ये सब कुछ भी मैं न समझ सकी। बाद कुमारियोंके निवास करनेके महल पर चढ कर, सब सखियोंको विदाकर, द्वार पर सब परिजनोंको भी प्रवेश करनेका निषेध कर, समस्त कार्य परित्याग कर, मणिमय जाली-युक्त गवाक्ष- (खिड़की) में मुखमण्डल संस्थापन कर, निरीक्षण करनेमें मनोहर लगती केवल उसी दिशाकी ओर अवलोकन करती मै अकेली (निश्चलभावसे) सीधी खड़ी रही। मुनिकुमारके उस दिशामें रहनेसे मुझे वह (दिक्) मानो अलङ्कृत हो, पुष्पसे ही मानो शोभित हो, बहुमूल्य-रत्नोंके भण्डारसे मानो परिपूर्ण हो, अमृत-रस-सागरके तरङ्गमें मानो डूबी हो और पूर्णचन्द्रके उदयसे मानो अलङ्कृत हो—ऐसी दीखने लगी। उस दिशासे आती पवनसे भी, वन्यपुष्पके सौरभसे भी, पक्षियोंके स्वरसे भी मैं उसका समाचार पूछनेकी चेष्टा करती थी। तपस्या उसे प्रिय होनेके कारण उस (तपस्या) का कष्ट उठानेकी भी मैं इच्छा करती थी। उसमें अपनी प्रीति होनेके कारण ही मानो मैंने मौनव्रत अवलम्बन किया था। कामदेवका उसके प्रति मेरा अत्यन्त पक्षपात उत्पन्न करनेसे
१. क्वचित् 'कुसुमितामिव' इति पाठो न दृश्यते। २. क्वचित् 'सार' इत्यधिकः पाठ उपलभ्यते।
२८ का०
४४२ कादम्बरी- [ कथायाम्-
वेशस्यै अग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसम्पर्कात् पारिजातकुसुमस्य मनोहरतां तन्निवासात् सुरलोकस्य रम्यतां तद्रूपसम्पदा कुसुमायुधस्य दुर्जयताम् अध्यारोप-यन्ती दूरस्थस्यापि कमलिनीव सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवा-भिमुखी, तथैव तां तद्विरहातुर-जीवितोद्गम-रक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया प्रस्तुततद्रहस्यालापयेव कर्णलग् नया पारिजातमञ्जर्य्या, तथैव च तेन तत्करतलस्पर्शसुखज-न्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्टकितैककपोलफलका निष्पन्दमतिष्ठम्।
सा चाहम्, तेन तपस्विकुमारेण परिग्रहाद् आश्रयणादेव मुनिवेषस्य तापसनेपथ्यस्य अग्राम्यतां निर्दो-षताम्, अध्यारोपयन्ती प्रतिपादयन्ती, स तपस्विकुमारः आस्पदम् अवलम्बनं यस्य तस्य भावस्तत्ता तयैव कारणेन, यौवनस्य तारुण्यस्य चारुतां रमणीयत्वम् अध्यारोपयन्ती, तस्य तपस्विकुमारस्य श्रवण-संपर्कात् श्रोत्रसंसर्गादेव कारणात्, परिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां चारुताम् अध्यारो-पयन्ती, तस्य तपस्विकुमारस्य निवासात् अधिष्ठानादेव सुरलोकस्य देवालयस्य रम्यतां मनोहरताम् अध्यारोपयन्ती, तथा तस्य तपस्विकुमारस्य रूपसम्पदा सौन्दर्यसमृद्ध्या कारणेन, कुसुमायुधस्य कामस्य दुर्जयतां मया जेतुमशक्यत्वं च अध्यारोपयन्ती सती, सर्वत्र मदनविहितपक्षपातादित्याशयः । इह 'अध्यारोपयन्ती' इत्येकया क्रियया अग्राम्यताप्रभृतीनामनेकेषां कर्मत्वेनाभिसम्बन्धात्तुल्ययोगिता ।
दूरेति । दूरस्थस्यापि दविष्ठस्यापि सवितुः सूर्यस्य कमलिनीव पद्मिनीव, दूरस्थस्यापि चन्द्रमसः सुधांशोः सागरवेलेव समुद्रजलोच्छ्वास इव, तथा दूरस्थस्यापि जलधरस्य मेघस्य मयूरीव नीलकण्ठ-पत्नीव, दूरस्थस्यापि तस्यैव तपस्विकुमारस्य अभिमुखी संमुखी सती । इह मालोपमा ।
तथैवेति । तस्य तपस्विकुमारस्य विरहेण वियोगेन आतुरं पीडितं यत् जीवितं मम जीवनं तस्य उद्गमे शरीराद्विष्क्रमणविषये रक्षावलीं निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव, वियोगे प्रियननस्य यत्किञ्चिद्वस्तुनोऽपि आश्वासनसाधनत्वादित्याशयः । ताम् अक्षावलीं जपमालां तथैव पूर्ववदेव कण्ठेन गलेन उद्वहन्ती धारयन्ती सती । इह जात्युत्प्रेक्षा । सर्वथा निपुणतरा महाश्वेता तत्समये निजवद-नावदूदृष्टेक्षेत्रतोरहितस्य पुण्डरीकस्य करे 'अक्षमाला गृह्यताम्' इत्यभिधाय निजामेव मौक्तिकस्रजं दत्तवती, सा स्फटिकमयाक्षमाला तु तस्या गले एवावलम्बमानासीदिति कदापि न विस्मर्त्तव्यमिति कुशलाः ।
तथैवेति । प्रस्तुततः प्रक्रान्तः तस्य तपस्विकुमारस्य सम्बन्धे रहस्यालापः गोपनीयवार्त्ता यया तयैव, तथैव तपस्विकुमारदत्तक्रमेणैव कर्णलग्नया श्रवणप्राप्तया अन्योऽपि गोपनीयं वक्तुं श्रवणे लगति पारिजा-तमञ्जर्या कल्पवृक्षवल्लर्या उपलचिता । इह गोपनीयकथनप्रक्रान्तोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।
तथैवेति । तस्य तपस्विकुमारस्य करतलस्पर्शसुखात् पाणितलस्पर्शानन्दात् जन्म उत्पत्तिर्यस्य तेन, कदम्बमुकुलस्य नीपकुड्मलस्य यः कर्णपूरः कर्णावतंसः तद्वदाचरता, तेन तत्स्मरणोत्पन्नेन रोमाञ्चजालेन च पुलकसमुहेन च, तथैव प्राग्वदेव कण्टकितं समुत्पन्नकण्टकम् एकम् अद्वितीयम् कपोलफलकं गण्ड-स्थलं यस्याः सा तथोक्ता च सती निष्पन्दं निश्चलम् अतिष्ठम् स्थितवती । इह 'कदम्बमुकुलकर्णपूरायमा-णेन' इत्यत्र क्यङ्लोपोपमा ।
मैं मुनिवेषको उसके धारण करनेके कारण अग्राम्य (निर्दोष) कहने लगी। उसके अङ्गमें यौवन था इसलिए ही यौवनका सौन्दर्य निश्चय करने लगी। पारिजातपुष्पने उसके कर्णका सम्पर्क पाया था इसलिए ही उसको रमणीय स्थिर करने लगी। सुरलोकमें उसका वास होनेके कारण ही मैं सुरलोककी मनोहरता मानने लगी एवं उसकी रूप-समृद्धिका साधन होनेका कारण ही मेरे लिये कामदेव अजेय है ऐसा स्थिर करने लगी। उसके दूरवर्ती होने पर भी, सूर्यके प्रति पद्मिनीके समान, चन्द्रके प्रति समुद्रजलके समान एवं मेघके प्रति मयूरीके समान मैं भी उसके ही अभिमुखी होकर देखा करती थी। उसके विरह-क्लेशसे घबरा कर वहिर्गमनोन्मुख मेरे जीवनकी रक्षामालाके समान वह स्फटिकमय जपमाला वैसी की वैसी मेरे कण्ठमें धारण की हुई थी। उसके सम्बन्धमें मानो गोपनीय आलाप करती हो इस भावसे वह पारिजातकुसुममञ्जरी भी मेरे कानमें वैसी की वैसी संलग्न थी; और उसके करतल-स्पर्शसुखसे उत्थित हुए—कदम्ब-कलिकाके कर्णपूरके समान शोभित—रोमाञ्चसमूहसे मेरे एक भागका गण्डस्थल (गाल) वैसाका वैसा ही कण्टकित हो रहा था।
१. मुनिवेषस्य । २. दूरस्यापि, दूरतः स्थितस्यापि ।
कादम्बर्यान्महाश्वेतावृत्ता० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४३
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत् । सा च पश्चाच्चिरादिवागत्य तथावस्थितां शनैःशनैः मामवादीत्—'भर्तृदारिके ! यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियमवतंसीकृता सुर-तरु-कुसुम-मञ्जरी, स तस्माद् द्वितीयादात्मनो रक्षन् दर्शनमतिनिभृतपदः कुसुमित-लता-सन्तान-गहनान्तरेणागत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत्-'बालिके ! केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व वा गच्छति' इति । मयोक्तम्-एषा खलु भगवतः श्वेतमानोरंशुसम्भूतायामप्सरसि गौर्य्यां समुत्पन्ना, देवस्य सकल-गन्धर्व-मुकुट-मणिशलाका-शिखरोल्लेख मसृणिते-चरण-नख-चक्रस्य प्रणय-प्रसुप्त-गन्धर्व-कामिनी-कपोल-पत्रलता-लाञ्छित-भुज-तरु-शिखरस्य पादपीठीकृत-लक्ष्मी-करकमलस्य गन्धर्वाधिपतेर्हंसस्य दुहिता
अथेति। ताम्बूलकरङ्कवाहिनी नागवल्लीपात्रधारिणी मदीया तरलिका, मयैव सह स्नातुं मज्जितुं गता याता आसीत् । सा ताम्बूलकरङ्कवाहिनी तरलिका च पश्चात् मद्गृहगमनानन्तरं चिरादिव बहुसमयादिव आगत्य एत्य तथावस्थितां विरहातुरामित्यर्थः । माम् शनैः शनैः मन्दं मन्दम् अवादीत् अवोचत्—'भर्तृदारिके राजपुत्रि ! यौ तौ तापसकुमारकौ मुनिदालकौ कपिञ्जलपुण्डरीकनामानौ दिव्याकारौ अत्यन्तमनेाहराकृती अस्माभिः अच्छोदसरस्तीरे अच्छोदामिधसरोवरतटे दृष्टौ अवलोकितौ, तयोर्द्वयोर्मध्ये एकः पुण्डरीक इत्यर्थः, येन भर्तृदुहितुः भवत्याः इयं पुरो दृश्यमाना सुरतरोः पारिजातस्य कुसुममञ्जरी पुष्पवल्लरी अवतंसीकृता कर्णभूषणीकृता, स तपस्वी पुण्डरीकः तस्माद् द्वितीयात् कपिञ्जलादित्यर्थः, आत्मनः स्वस्य दर्शनं वीक्षणं रक्षन् निवारयन् कपिञ्जलो यथारमानं नावलोकयति तथेत्यर्थः, अति निभृतपदः अत्यन्तनिश्छलचरणसञ्चारः, कुसुमितः पुष्पितः लतासन्तानः वल्लीसमूहो यत्र तयोक्तस्य गहनस्य सान्द्रवनस्य अन्तरेण मध्येन, आगच्छन्तीम् आयान्तीं मां पृष्ठतः पश्चाद्भागात् आगत्य एत्य भर्तृदारिकां भवतीम् उद्दिश्य आश्रित्य अप्राक्षीत् पृष्टवान्—
बालिके इति । 'बालिके कन्यके ! का इयं कन्यका बालिका ?' कस्य महात्मनः अपत्यं पुत्री ? किमभिधाना किनामिका ? क्व वा गच्छति व्रजति' इति । मया तरलिकया उक्तं कथितम्—भगवतो माहात्म्यवतः श्वेतमानोः शुभ्रांशोश्चन्द्रमसः, अंशुसम्भूतायां रश्मिभ्यः समुत्पन्नायां गौर्यां गौर्यभिधानायाम् अप्सरसि दिव्ययोषित्ति समुत्पन्ना सञ्जाता एषा कन्यका, सकलानां समस्तानां गन्धर्वाणां देवगायकानां मुकुटेषु शिरोभूषणेषु या मणिशलाका रत्नशलाकाः तासां शिखरैः अग्रैः उल्लेवेन प्रणामसमये घर्षणेन मसृणितं चिक्कणीकृतं चरणयोः पादयोः नखानां पुनर्नवाणां चक्रं समूहो यस्य तस्या एतेन महासाम्राज्यं व्यञ्जितम् । प्रणयेन प्रेम्णा प्रसुप्ताः सह शयिता या गन्धर्वकामिन्यः देवगायकसुन्दर्यः तासां कपोलेषु गण्डेषु या पत्रलताः पत्राकाराश्चित्रविशेषाः ताभिर्लाञ्छिते चित्रिते सम्भोगकाले आवेष्टनक्रमेण तासामुत्तमाङ्गग्रहणेन भुजयोर्गण्डसंसक्तत्वादित्यभिप्रायः, भुजौ बाहू तरू इव लम्बमानत्वात् स्थूलत्वाच्च वृक्षाविव तयोः शिखरे ऊर्ध्वदेशयुगले यस्य तस्य । अनेन कलाकौशलं ध्वनितम् । पादपीठाकृतं
इसके बाद तरलिका नामकी मेरी ताम्बूलकरङ्कवाहिनी (पानदान रखनेवाली), जो मेरे साथ ही स्नान करनेके लिए गई थी, पीछेसे मानो वह बहुत कालके बाद आकर, मुझसे धीरे धीरे कहने लगी—'राजकन्ये ! हमने अच्छोदसररोवरके तीर पर, जो मनोहराकृति उन दो मुनिकुमारों को देखा थी, उनमें एक, जिसने आपके कानमें इस पारिजात कुसुम-मञ्जरीको पहनाया था, वे उस द्वितीय मुनिकुमारसे अपनेको छिपाकर, पुष्पित-लता परिपूर्ण सघन वनके अभ्यन्तरसे मेरे समीप अत्यन्त निभृत पदसञ्चारसे आकर, मै आती थी तब पीछेसे मुझसे आपके विषयमें पूछने लगा—'बालिके ! यह कन्या कौन है ? किसकी सन्तान है ? इसका नाम क्या है ? और कहाँ गई है ?' तदनन्तर मैंने उत्तर दिया—'भगवन् ! नमस्कार करनेके समयमें समस्त गन्धर्वोंके मुकुटस्थित मणिशलाकाके अग्रभागके सङ्घर्षणसे जिनके चरण-नखसमूह चिकने हो गये हैं, प्रेमसे सोती हुई गन्धर्व-सुन्दरियोंके गण्डस्थल (गाल) पर पत्र-लता-चिह्नसे जिनके वृक्षतुल्य विशाल बाहुयुगलका ऊर्ध्वभाग चिह्नित है, और जिन्होंने लक्ष्मीके कर-कमलका आसन बनाया है (अर्थात् जो लक्ष्मीको अपने निकटसे नहीं सरकने-देते हैं); ऐसे
१. क्वचिद् 'शनैः' इत्येकमेव पदमुपलभ्यते ।
२. कर्णावतंसीकृता ।
३. सुरतरुमञ्जरी ।
४. अंशु संभूतायाम्, अंशुभूतायाम् ।
५. नखदशनानाम् ।
| ४४४ | कादम्बरी- | [ कथायाम्- |
|---|
महाश्वेता नाम, गन्धर्वाधिवासं हेमकूटाचलम् अभिप्रस्थिता' इति कथिते च मया, किमपि चिन्तयन् मुहूर्त्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनय-संर्थितामिव दर्शयन् पुनराह—'बालिके ! कल्याणिनी तवाविसंवादिनी अचपला बालभावेऽ-प्याकृतिरियम् । तत् करोषि मे वचनमेकमभ्यर्थ्यमाना ?' इति । ततो मया सविनयमुपरचि-ताञ्जलिपुटया दर्शितादरमभिहितः—'भगवन् ! कस्मादेवमभिधत्से, काऽहम् ? महात्मानः सक-लत्रिभुवनपूजनीयास्त्वादृशोः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् ; तद्विश्रब्धमादिश्यतां कर्त्तव्यम्, अनुगृह्यतामयं जन' इति । एव-मुक्तश्च मया सस्नेहया सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य निकट-
चरणपीठवत्तच्छङ्गीकृतं लक्ष्म्याः पद्माया अपि करकमलं हस्तपङ्कजं येन तस्य । अनेन समृद्धेः परा काष्ठा सूचिता । देवस्य पूज्यस्य गन्धर्वाधिपतेः देवगायकस्वामिनः हंसस्य तन्नामकस्य दुहिता पुत्री महाश्वेता नाम, गन्धर्वाणाम् अधिवासं निवासस्थानं हेमकूटाचलं हेमकूटगिरिम् अभिप्रस्थिता तदभिमुखं चलिता ।
इह हंसस्य मुख्यप्रतिपादनकार्यं प्रति हेतुत्रयप्रदर्शनात् समुच्चयः ।
इतीति । इति एवं प्रकारेण मया कथिते अभिहिते सति, किमपि अनाकलनीयं चिन्तयन् ध्यायन् मुहूर्त्तमिव क्षणमिव तूष्णीं मौनं स्थित्वा स्वस्थाय विगतनिमेषेण निमेषोन्मेषरहितेन चक्षुषा लोचनेन चिरं बहुकालम् अभिवीक्षमाणः संमुखमवलोकनानः मां प्रति सानुनयं सस्नेहम् अर्थितां याचकत्वं दर्शयन् प्रकटयन्निव पुनर्भुय आह उवाच—'बालिके ! कल्याणिनी शुभलक्षणवती, अविसंवादिनी 'यत्रा-कृतिस्तत्र गुणा वसन्ति' इति न्यायाद् गुणवत्त्वे अव्यभिचारिणी निःसन्देहेन तर्कितसमस्तगुणयुक्त्यर्थः, बालभावेऽपि अप्रौढत्वेऽपि अचपला अचञ्चला, तव भवत्या इयं दृश्यमाना आकृतिः स्वरूपमवलोक्यत इति शेषः । तत्तस्मात् कारणात् । अभ्यर्थ्यमाना मया प्रार्थ्यमाना त्वम्, एकं वचनं वाक्यपालनं करोषि विधास्यसि किमिति काकुः । इह भविष्यदर्थे लट् ।
तत इति । ततस्तदनन्तरं सविनयं सप्रश्रयम् उपरचितं वद्धम् अञ्जलिपुटं यया तया, मया तरङ्गि-कया दर्शित आदरो यत्र कर्मणि तद् यथा स्यात्तथा अभिहितः उक्तः—'भगवन् तपोलिधे ! कस्मात् केन हेतुना एवं पूर्वोक्तप्रकारेण अभिधत्से ब्रवीषि अहं का तुच्छेत्यर्थः । सकलत्रिभुवनपूजनीयाः समस्तविश्वा-र्चनीया महात्मानो महाशयाः त्वादृशा भवद्विधाः, पुण्यैर्विना पूर्वार्जितसुकृतैर्विना अस्मद्विधेषु अस्मत्स-दृशेषु निखिलकल्मषापहारिणीं समस्तपापविनाशिनीं दृष्टिं न पातयन्ति चक्षुषा नावलोकयन्ति, किं पुनः आज्ञाम् आदेशप्रदानम्; दूरापास्तमित्यभिप्रायः । तत्तस्मात्, विश्रब्धं विश्वस्तं यथा स्यात्तथा कर्त्तव्यं मया विधातव्यम् आदिश्यताम् आज्ञाप्यताम्, अयं महल्लक्षणो जनः अनुगृह्यताम् अनुग्रहविषयीक्रियतां तेनादेशेनेत्याशयः ।'
एवमिति । किञ्चेति चार्थः। मया एवमुक्तः पूर्वोक्तप्रकारेणाभिहितः स तपस्विकुमारः 'पत्रिका म्
गन्धर्वाधिपति महाराज हंसकी यह कन्या है, भगवान् चन्द्रके किरणसे उत्पन्न हुई गौरी नाम की अप्सराके गर्भसे उत्पन्न हुई है; इसका नाम 'महाश्वेता' है और यह गन्धर्वोंके वासस्थान हेमकूट नामक पर्वत पर गई है।' इस प्रकार मेरे द्वारा कहे जाने पर वह मुनिकुमार, किसी विषयका चिन्तन करता हुआ कुछ देर तक निःशब्द (चुप) रह कर, निर्निमेषनयन (एकाग्रदृष्टि) से बहुत देर तक मेरे प्रति अवलोकन कर, मुझसे मानो प्रार्थना करता हो इस प्रकार विनय-पूर्वक पुनः कहने लगा—बालिके ! तुम्हारी यह आकृति शुभलक्षण-सम्पन्न है, अतः निश्चय ही तुम गुणवती हो, एवं शैशवावस्था होने पर भी तेरेमें चञ्चलता प्रतीत नहीं होती है, अत एव मैं प्रार्थना करता हूँ कि क्या तुम मेरा एक वचन स्वीकार करोगी ? इसके बाद मैंने सविनय अञ्जलि-बाँध आदरपूर्वक कहा—'भगवन् ! आप इसप्रकार क्यों कहते हैं ? मैं कौन ! (बहुत ही तुच्छ हूँ !), समस्त त्रिभुवनोंके पूजनीय आपके समान—महात्माका, पुण्य-रहित मेरे समान लोगोंके प्रति, समस्त पाप-हरण करनेवाली दृष्टि भी नहीं पड़ती है, फिर आदेशके विषयमें तो कहना ही क्या है ! अत एव आप निःशङ्कितचित्ते मेरे प्रति कर्त्तव्यका आदेश देकर इस व्यक्तिको अनुगृहीत कीजिए ।' मेरे इस प्रकार कहने पर, उन्होंने स्नेहयुक्त दृष्टिपातसे मुझे मानो सखीके
१. हेमकूटमचलवरम् । २. सकलत्रिभुवनाभिपूज्यास्त्वादृशाः । ३. निपातयन्ति ।
कामाकुलमहाश्वेतादशाव० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४५
वर्त्तिनस्तमालपादपात् पल्लवमादाय निष्पीड्य तटशिलातले तेन गन्धगजमदसुरभिपरि- मलेन रसेन उत्तरीयवल्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्तकमल-कनिष्ठिका-नख-शिखरेणा- भिलिख्य 'इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया' इत्यभिधायार्पितवान्' इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्शयत्। अहन्तु तेन तत्सम्बन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता, श्रोत्रविषयेणापि रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन, मदनावेशमन्त्रेणेवावेश्यमाना तस्याः करतलादादाय तां वल्कलपत्रिकां तस्यामिमामभि- लिखितामार्यामपश्यम्—
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥
अर्पितवान्' इति सम्बन्धः । सस्नेहया प्रेमयुक्त्या दृष्ट्या वीक्षणेन, सखीमिव वयस्यामिव उपकारिणीमिव उपकृतिकर्त्रीमिव प्राणप्रदामिव जीवितदात्रीमिव च माम् अभिनन्द्य प्रमोदमूत्पाद्य निकटवर्त्तिनः समीप- स्थायिनः तमालपादपात् तापिच्छवृक्षात् पल्लवं किसलयम् आदाय गृहीत्वा, तटशिलातले तीरस्थप्रस्तरो- परि निष्पीड्य संमर्द्य, गन्धगजस्य गन्धहस्तिनः मदवद् दानवारिवत् सुरभिर्घ्राणतर्पणः परिमलो गन्धो यस्य तेन, रसेन निर्यासेन, उत्तरीयं यद् वल्कलं तरुत्वक् तस्य एकदेशात् एकभागात् पट्टिकाम् एकपत्रं विपाट्य उद्घटय्य, तत्र स्वहस्तकमलस्य निजकरकमलस्य कनिष्ठिकायास्तन्नामधेयाया अङ्गुल्याः नखस्य पुनर्भवः शिखरेण अग्रेण अभिलिख्य लिपीकृत्य, 'इयं पत्रिका त्वया भवत्या एकाकिन्यै अद्वितीययै तस्य कन्यकायै महाश्वेतायै प्रच्छन्नं नितान्तगुप्तं यथा स्यात्तथा देया अर्पणीया' इत्यभिधाय इत्युक्त्वा अर्पित- वान् दत्तवान्' इत्युक्त्वा च सा तरलिकाताम्बूलभाजनात् नागवल्लीपात्रात् तां पत्रिकाम् आकृष्य निष्कास्य अदर्शयत् दर्शितवती।
इह 'सखीमिवे'त्यादितिसृणामेव जात्युत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
अहमिति । शब्दमयेनापि शब्दामकेनापि तेन पत्रेण अन्तर्न्तःकरणे स्पर्शसुखं स्पर्शजनितानन्दं जनयता उत्पादयतेव, श्रोत्रविषयेणापि शब्दारामकत्वात् केवलकर्णग्राह्येणापि, रोमोद्गमैः निखिलावयवेषु रोमाञ्चैः, अनुमितः अनुमितिविषयीकृतः सर्वाङ्गेषु समस्तावयवेषु अनुप्रवेशो यस्य तथोक्तेनेव, सर्वावय- वेषु प्रवेशाभावे समस्तेष्वेव तेषु रोमोद्गमासम्भवादित्याशयः। मदनावेशमन्त्रेणेव कामाधिष्ठानोत्पादकी- भूतमन्त्रेण, तस्य पुण्डरीकस्य सम्बन्धिना सम्बद्धेन आलापेन संलापेन, आवेश्यमाना अधिष्ठीयमाना सती, तस्याः तरलिकायाः तां वल्कलपत्रिकाम् आदाय गृहीत्वा, तस्यां पत्रिकायाम् अभिलिखिताम् अभिलीपीकृताम् इमाम् आर्यां आर्याच्छन्दोबद्धामक्षरपङ्क्तिम् अपश्यम् अद्राक्षम्।
इह 'जनयतेव' इत्यत्र क्रियोत्प्रेक्षा, 'रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन' इत्यत्र प्रतीयमाना क्रियो- त्प्रेक्षा, 'मदनावेशमन्त्रेणेव' इत्यत्र गुणोत्प्रेक्षा ।
दूरमिति । हे सुन्दरि ! त्वया भवत्या बिसं मृणालं 'मृणालं बिसमब्जादि' इत्यमरः, तद्वत् सिततया शुभ्ररुच्या मुक्तालतया 'गृह्यतामियमक्षमाला' इत्यभिधाय मम हस्ते स्थापितेन स्वीयमुक्तामयहारेण करणेन, विप्रलोभ्यमानः अधिकप्रकर्षेण निजसङ्गमलोभं प्राप्यमाणः, मां लक्ष्यीकृत्यात्मन्यपि कामावेशेनैव तथाविधचातुरीविधानादित्याशयः, अत एव च दर्शिता द्योतिता आशा मनोरथपूर्तेराशांमा यस्य सः, मे
समान, उपकारिणीके समान और प्राणदायिनीके समान अभिनन्दित कर, समीपवर्ती तमालवृक्षमेंसे एक पल्लव लाकर, तीरवर्ती प्रस्तरखण्डके ऊपर मर्दन कर गन्धहस्तीके मदजलके समान मनोहर सौरभसम्पन्न निकले हुए उसके रससे, अपने उत्तरीय वल्कलमेंसे एक पट्टी फाड़कर उसपर, स्वकीय करकमलकी कनिष्ठिका उँगलीके नखाग्र- द्वारा लिखकर 'अकेली रहनेके समयमें उस कन्याके पास तुम यह पत्रिका अत्यन्त गुप्तरीतिसे (छिपाकर ) दे देना' यों कह कर उस पत्रिकाको मुझे दे दिया।' इतना कह तरलिकाने ताम्बूलके डिब्बेसे बाहर निकाल कर वह पत्रिका मुझे दिखाई। शब्दमय होने पर भी अन्तःकरणमें मानो स्पर्श-सुख उत्पन्न करती और केवल कर्णके विषय होने पर भी रोमाञ्च उत्पन्न होनेसे मानो मेरे समस्त अङ्गोंमें प्रवेश करनेका अनुमान कराती, उसके विषयका यह आलाप सुनते ही—कामावेशके मन्त्रने मानो अन्दर प्रवेश किया हो उस प्रकार उस समय तरलिकाके हाथमेंसे उस वल्कलकी पत्रिकाको लेकर देखा तो उसमें यह आर्या लिखी थी—'( हे सुन्दरि ! ) कोई व्यक्ति जिस प्रकार मुक्तामय ( मोतियोंके ) हारके समान शुक्लवर्ण मृणाल-द्वारा अत्यन्त-लोभ उत्पन्न कराकर अपने अभिमत दिशाको
| ४४६ | कादम्बरी- | [कथामुखम्- |
|---|
अनया च मे दृष्ट्या दिङ्मोहभ्रान्त्येव प्रनष्टवर्त्मनः, बहुलनिशयेवान्धस्य, जिह्वोच्छित्त्येव मूकस्य, ऐन्द्रजालिकपिच्छिकयेवातत्त्वदर्शिनः, ज्वरप्रलापप्रवृत्त्येवासम्बद्धभाषिणः, दुष्टनिद्रयेव विषविह्वलस्य, लोकायतिकविद्ययेवाधर्मरुचेः, मदिरयेवोन्मत्तस्य, दुश्चिरवेश-क्रिययेव
मम मानसात् चित्तात् जन्म उत्पसिर्यस्य स एवंविधः मानसजन्मा मनसिजः कामः, हंस इव त्वया दूरं नीतः कामुकेषु कामिनीद्वारा प्रलोभनस्यात्यन्तोद्दीपकत्वादतीव वर्धितः, सुतरां त्वरितमधुना तन्निबृत्तेश्चेष्ट्टे-गस्त्वया करणीय इत्याशयः। इंसपक्षे तु—विलसितया मुक्तानां ल्यया लतावद्रुम्बाकारया पद्धत्या विप्रलोभ्यमानः केनचिज्जनेन विशेषप्रकर्षण मण्डलनीमप्राप्यमानः, तया दर्शिता आशा स्वेन सह नयनार्थमभीष्टा दिक् (दिशा) यस्मै सः, मानसे तत्संज्ञकसरोवरे जन्म यस्य सः तयोक्तः, दूरं नीतः स्वनिवासाद्धिप्रकर्षं प्रापितः, मण्डललोभेन हंसस्य नीयमानमृगालानुसारित्वादियाशयः। इह पूर्णोपमा। आर्या जातिः। स्वरूपं विसतितमिति विससिता अत्र स्त्रीत्वं तु 'स्त्री स्यात् काञ्चिन्मृणाल्यादिविवक्षापचये यदि' इत्यमरोक्तेदिशोत्यवधेयम्। इंसपदे सितपदस्य परनिपातस्तु अग्निस्तोकादिष्विविति कुशलैः समाश्वस्ते।
अनयेति। किन्वेति चार्थः। नदेत्यार्थे 'मे' इत्यव्ययम्। अनया पुरोऽवलोक्यमानया पत्रिकया आर्षेदा वा मे मया दृष्ट्या सत्या, स्मरातुरस्य कानातुरस्य मे मम मनसश्चित्तस्य सुतरां बाहुल्वेन दोषविकारोपचयः कानविकारवृद्धिः कश्चियत व्यधीयत इति सम्बन्धः। केन कस्य चेति जिज्ञासायामुपनानवचनानि सङ्गमनीयानि। दिङ्मोहभ्रान्त्या दिग्भ्रमान्तकरणेन, प्रनष्टं विलुप्तम् इदन्तया प्रत्येतुमशक्यं वर्त्म क्षष्टषीभूतो मार्गो यस्य तस्य पुरुषस्येव, पन्थानमतिक्रम्योत्पथं गन्तुर्यथा पुनर्दिग्भ्रान्त्या किं कर्तव्यताविमूढस्वरूपदोषविकारोपचयो विधीयते तद्वद् व्यधीयतेति निष्कर्षः। इहाधिकपदत्वदोषनिराकरणाय 'दिङ्मोहेनेव' इत्येव पाठो विधेयः तावतैवार्थसिद्धेः। बहुलनिशया कृष्णपक्षरात्र्या अन्धस्येव विगतलोचनस्येव, इहापि किंकर्त्तव्यताविमूढस्वरूपकानविकारवृद्धिः। जिह्वाया रसनाया उच्छित्त्या कर्त्तनेन मूकस्य वागीरहितस्येव, इह उच्चारर्गानान्तानामार्थरूपो दोषविकारोपचयः। ऐन्द्रजालिकस्य नादिकस्य पुंसः पिच्छिकया जनानां दृष्टिबन्धरूपया अतत्त्वदर्शिनः प्रकृत्या भ्रान्तस्येव, इह वास्तविकस्यैकान्तान्निश्चयरूपो दोषविकारोपचयः। ज्वरप्रलापस्य प्रवृत्त्या प्रारम्भेण असम्बद्धभाषिणः प्रकृत्यैव असङ्गतवादिन इव, इहानवरतप्रलापरूपो दोषविकारोपचयः। दुष्टनिद्रया विषवेगेन चेतनाहीनरूपप्रमील्या विषविह्वलस्येव विवम्मग्रस्त्येव, इह पुनः चेतनाप्राप्त्यभावरूपो दोषविकारोपचयः। लोकायतेन नास्तिलेपेव लोकेषु निश्चितेद प्रत्यक्षमप्रमागवादेन संसृष्ट इति लोकायतिको नास्तिकमूर्द्धन्यश्चार्वाकः, तस्य प्रत्यक्षमप्रनाजनाम्रस्त्वस्यानुरण्यत्वात्। तस्य विद्या तन्निर्मितशास्त्रं 'यावज्जीवं सुखं जीवेत्' इत्यादिका तया, अधर्मरुचेः प्रकृत्यैवाधर्ममतेर्लोकस्येव, इह सर्वथा नास्तिक्यरूपा दोषविकारवृद्धिः। अत्र प्रसङ्गाच्चार्वाकसिद्धान्तो निरूप्यते—
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्। बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः॥ अत्र चत्वारि भूतानि भूमिवार्थ्यनलाह्विलाः। चतुभ्र्यः खलु भूतेभ्यश्चैतन्यमुपजायते॥ किण्वादिम्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवद्। अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः॥ देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः। मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकी॥
दिखाकर मानसरोवरमें उत्पन्न किसी हंसको दूर तक ले जाता है, उसी प्रकार तुम मृणालके समान सुवर्म मोतियोंकी मालासे उत्पन्न लोभ उत्पन्न कराकर, आशा दिखला कर मेरे कामवेगको अत्यधिक (चरम, सीममें) बढ़ा दिया है (इसलिए इस समय शीघ्र उसकी निवृत्तिका उपाय तुम्हें करना चाहिए)।'
दिग्भ्रमवश उत्पन्नभ्रान्ती (दिग्भ्रान्तिसे मार्ग भूले हुए) व्यक्तिके समान, कृष्णपक्षकी रात्रिसे चक्षुविहीन (अन्धे) व्यक्तिके समान, जिह्वाच्छेदन करनेसे मूक (गूँगे) व्यक्तिके समान, ऐन्द्रजालिक (जादूगर) के मोर-पंखोंके मोरच्छत्ते समानतः भ्रान्त व्यक्तिके समान, ज्वरकालीन प्रलापके आरम्भसे स्वभावसे ही असम्बद्धवादीके समान, दूषितनिद्रा द्वारा विष-वेगसे विह्वल व्यक्तिके समान, नास्तिकोंके सिद्धान्तका अभ्यास करनेसे स्वभावतः अधार्मिक लोगोंके समान, मद्यपान करनेसे उन्मत्तके समान एवं उत्कण्ठादिसे गन्धदृष्टा सञ्चार होनेसे दूराविष्ट
१. दुरावेष्ट... ।
कामाकुलमहाश्वेतादशाव० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४७
पिशाचग्रहस्य, दोषविकारोपचयः सुतरामक्रियत स्मरातुरस्ये² मे मनसः, येनाकुलीक्रियमाणा सरिद्विव पूरेण विह्वलतामभ्यगमम्³ । ताञ्च द्वितीयदर्शनेन कृतमहापुण्यामिव अनुभूतसुर-लोकवासामिव देवताधिष्ठितामिव लब्धवरामिव पीतामृतामिव समासादित-त्रैलोक्य-राज्या-भिषेकामिव मन्यमाना, सततमन्निहितामपि दुर्लभदर्शनामिव अतिपरिचितामप्यपूर्वामिव
अङ्गनालिङ्गनाज्जन्यं सुखमेव पुमर्थता। कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ॥ लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः । देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ॥ अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः ॥ न स्वर्गो नाऽपवर्गो वा नैवात्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥ पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति । स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । गच्छतामिह जन्तूनां वृथा पाथेयकल्पनम् ॥ स्वर्गस्थिता यदि तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामिह कस्मान्न दीयते ॥ यावज्जीवेत् सुखं जीवेद्दृणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ यदि गच्छेत् परं लोकं देहादेव विनिर्गतः । कस्माद् भूयो न चायाति बन्धुस्नेहसमाकुलः ॥ त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरी तुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥ इत्यादि ।
मदिरया मद्यपानेन उन्मत्तस्येव मत्ततायुक्तस्येव, इह मत्ततातिशयरूपो दोषविकारोपचयः । तथा दुष्टा विशेषक्लेगोत्पादकत्वेन दूषिता या आवेशक्रिया जन्मसम्बन्धिनाडीनक्षत्रेषु दुष्टग्रहाणां प्रवेशकार्यम् सम्बन्तरागमनकार्यं तथा पिशाचेन ग्रहो ग्रहणं यस्य तस्य पिशाचाभिभूतस्य पुरुषस्येव, इत्य-विक्कलेशमोगो दोषविकारोपचयः । अयमाशयः-पूर्वमेव पिशाचेन ग्रहणं तदुपरि यदि जन्मर्क्षेषु पापग्रहाणां प्रवेशः स्यात्तर्हि भूयान् दोषोपचयः स्यात् ।
इह मालोपमा । भग्नप्रक्रमतादोषस्त्विह पाठपरिवर्तनेन समाधेयः ।
देनेति । येन दोषविकारोपचयेन आकुलीक्रियमाणा व्यग्रीक्रियमाणाऽहं पूरेण सलिलवृद्ध्या सरिद्व-दीव विह्वलताम् व्याकुलताम् अभ्यगमं सर्वतोभावेन प्रापम् । इह श्रौतीपमा ।
तानिति । किञ्चेति पार्थः । द्वितीयदर्शनेन द्वितीयवारं मुनेरवलोकनेन कारणेन, तां तरलिकां कृत-महापुण्यामिव विहितानिशयसुकृतामिव, अनुभूतोऽनुभवविषयीकृतः सुरलोके स्वर्गे वासो वसतिर्यया तानिव, कयाचित् देवतया अधिष्ठिताम् आधितामिव, लब्ध आसादितो वरो देवप्रसादो यया तामिव, पीतम् आस्वादितम् अमृतं पीयूष यया तामिव, तथा समासादितो लब्धः त्रैलोक्यराज्ये त्रिभुवनाधिपत्ये ऽभिषेकोऽभिषेचनं यया तामिव च मन्यमाना मनसि ज्ञायमानाहं पुनः पुनः भूयो भूयः पर्यपृच्छम् अप्राक्षम् इत्युत्तरेण सम्बन्धः ।
इह महापुण्यविहिताधुत्प्रेक्षानां षण्णामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः । एवञ्च स्वस्याऽप्यतिशंया पुनस्तन्चित्रीडगभिलाषा प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।
सततेति । सततं निरन्तरं सन्निहितामपि पार्श्ववर्त्तिनीमपि दुर्लभं दुष्प्रापं दर्शनम् अवलोकनं यस्याः तामिव, पुण्डरीकस्य द्वितीयवाशवलोकनेन कारणेनेत्याशयः । अतिपरिचितामपि अतिसन्तवगोचरीकृता-मपि अपूर्वामिव अभिनवायातामिव सादरम् आदरेण एहितन् आभाषमाणा आलपन्ती ।
इहापि क्रियोत्प्रेक्षयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
(पिशाच ग्रसित) व्यक्ति के समान मेरे कामातुर चित्तमें इस आर्याके देखनेसे दोष-विकारकी अत्यधिक वृद्धि हुई और बाढ़के जलसे नदीके समान, मैं इससे आकुल हो विह्वल हो गई । तरलिकाने उस मुनिकुमारको दूसरी बार देखा था इससे वह मानो महापुण्यशालिनी हो, स्वर्गलोकमें ही मानो निवास कर आई हो, देवताओं से मानो अधिष्ठित हो, वरदान पा गई हो, अमृत पान कर आई हो, त्रिभुवनका राज्याभिषेक प्राप्त किया हो (इस प्रकार मैं उसे मनमें समझने लगी) सर्वदा मेरे समीपमें रहने पर भी मानो उसका दर्शन दुर्लभ हो और अत्यन्त परिचित होने पर भी मानो नई आई हो, इस प्रकार मनमें समझकर उससे आदरके साथ आलाप करने लगी,
१. लजावदा । २. स्मरातुरस्य । ३. अभ्यागमम्, अगमन् ।
४४८ | कादम्बरी- | [ कथायाम्-
सादरसाभाषमाणा, पार्श्वस्थितामपि¹ सर्वलोकोपर्यवस्थितामिव पश्यन्ती, कपोलयोर- लकलताभङ्गेषु² च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसम्बन्धमुपदर्शयन्ती, 'तर- लिके ! कथय³ कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्नसमानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ।
अथ मदीयेनेव हृदयेन कृतरागसविभागे लोहितायति गगनतलोपान्तालम्बिनि⁴ रविविम्वे, सरागदिवसकरानुरक्तायां कृतकमलशयनायामनङ्गातुरयामित्र पाण्डुतां व्रजन्त्या-
पार्श्वेति । पार्श्वे स्वस्यापरस्मिन् भागे अवस्थितामपि आसीनार्मापि सर्वलोकस्य समस्तविश्वस्य उपरि ऊर्ध्वं अवस्थितामिव निषण्णामिव पश्यन्ती अवलोकमाना, इहापि पुण्डरीकस्य द्वितीयवारा- वलोकनेन कारणेनेत्याशयः । इह 'अवस्थितामिव' इति क्रियोत्प्रेक्षा ।
कपोलयोरिति । कपोलयोर्गण्डयोः अलकलता भङ्गेषु वल्लीवत्स्वभावतःस्वल्लितकुञ्चितकचसमूहेषु सोपग्रहं सानुकूल्यम् आदरयुक्तमित्यर्थः, यथा स्यात्तथा स्पृशन्ती स्पर्श विदधती । 'उपग्रहः पुमान् बन्द्यामुपयोगेऽनुकूलने' इति मेदिनी । 'भवने व्रजति' इत्यत्र कर्मणोऽधिकरणत्वविवक्षया सप्तमी यथा भवति तथैव 'अलकलताभङ्गेषु' इत्यत्रापि सप्तमीत्यवगन्तव्यम् ।
विपरीतमिति । परिजनस्वामिसम्बन्धं सेव्यसेवकभावं विपरीतमिव विरुद्धमिव उपदर्शयन्ती अहं सेविका सा तु सेव्या एवं रूपेण बहिर्वृत्या प्रकाशयन्तीत्यर्थः, पुण्डरीकस्य द्वितीयवारावलोकनेन मयैव तस्या निरतिशयगौरवसत्कारविधानादित्याशयः ।
तरेति । तरलिके वयस्ये ! कथय निवेदय स पुण्डरीकः कथं केन प्रकारेण त्वया भवत्या दृष्टोऽवलो- कितः, किम् अभिहितासि कथितासि तेन पुण्डरीकेण, तत्र तस्मिन् वने कियन्तं कालं कियत्समयम् अव- स्थितासि अवतिष्ठमानासि, अस्मान् स्वभवने आयान्तीरिति शेषः, असौ मुनिकुमारः, अनुसरन् पृष्ठेऽनु- व्रजन् कियत्पन्थानम् आगत आयातः ।
अनयेति । अनयैव पूर्वोक्तयैव कथया वार्त्तया तया तरलिकया सह तस्मिन्नेव प्रासादे पूर्वनिर्दिष्ट एव सौधे, प्रतिषिद्धो निवारितः अशेषाणां समस्तानां परिजनानां सेवकवर्गाणां प्रवेशोऽभ्यन्तरागमनं यया तादृशी सती दिवसं वासरम् अत्यवाहयम् अगमयम् ।
अथेति । रविविम्वे सूर्यमण्डले, मदीयेन हृदयेन चेतसा कृतो विहितः रागसंविभागः रागोऽनुराग एव रागो लौहित्यं तस्य संविभागो विभज्य समर्पणं यस्मै तस्मिन्निव सति, लोहितायति ईषद्रक्तीभवति, गगनतलस्य व्योमतलस्य उपान्तात् प्रान्तप्रायभागात् अवलम्बिनि पतनोन्मुखे च सति ।
इहानुरागलोहित्ययोर्व्यतिरेकेऽपि रागपदश्लेषेणाव्यतिरेकाध्यवसायादतिशयोक्तिरलंङ्कारः। रागसं- विभागकरणोत्प्रेक्षणात्क्रियोत्प्रेक्षा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करालङ्कारः ।
सरागेति । आतपलक्ष्म्यां सूर्यप्रकाशश्रियाम्, रागो लौहित्यमेव रागोऽनुरागः तेन सहेति सरागो यो दिवसकरो रविः तत्र अनुरक्तायां लोहितायाम् अनुरागवत्याञ्च सत्याम्, अत एव कृतं विहितं कमले पङ्कजे कमलमयास्तरणे च शयनं स्थितिः स्वापश्च यया तस्याम्, अत एव अनङ्गातुरया मदनविह्वलि- तायामिव विद्यमानायां पाण्डुतां श्वेततां व्रजन्त्यां गच्छन्त्यां सत्याम् ।
बगलमें बैठने पर भी मानो वह सब लोकके ऊपर हो, इस प्रकार मैं उसे देखने लगी । उसके कपोलका और उसके कुञ्चित केशकलाप (घुँघराली लटों) का आदरके साथ स्पर्श करने लगी। इस प्रकार सेव्य-सेवकके सम्बन्धका मानो व्यतिक्रम दिखाती-'तरलिके ! कह, तूने उसे किस भावसे देखा ? उन्होंने तुझसे क्या-क्या कहा ? कितनी देर तू उसके पास खड़ी रही, वे मेरे अनुकरण करते करते (पीछे-पीछे) कितने दूर तक आए' यह बात मैं बार-बार उससे पूछने लगी। समस्त परिजनोंको प्रवेश करनेका निषेध कर उस अट्टालिका (महल) के अभ्यन्तरमें तरलिकामे साथ इसी बातचीतमें ही मैंने वह दिन बिताया।
उसके बाद मेरा हृदय ही मानो सूर्यमण्डलके राग (अनुराग, रक्तिमा) को विभक्त कर दिया, उससे सूर्यमण्डल रक्तवर्ण होकर गगन-तलके किनारे पर जब लटकने लगा, दिवस-लक्ष्मी, रागान्वित सूर्यके प्रति अनुरक्त
१. पार्श्वस्थामपि । २. अलकलामङ्गेषु; अलकलतासङ्गेषु । ३, कथय कथय । ४. गगनतलावम्विनि ।
कामाङ्गलग्नेत्याद्यंशताव० ६५ ] चन्द्रकला-विद्योतिनोसहिता ४४६
मातपलक्ष्म्याम्, गैरिकगिरिसलिलप्रपातपाटलेषु कमलवनेभ्यः समुत्थाय^१ वनगजयूथेष्विव पुञ्जीभवत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेषारवप्रति-शब्दकेन सह विशति मेरुगिरिगह्वरं वासरे, मुकुलित-रक्त-पङ्कज-पुट-प्रविष्टमधुकरावलपीषु^२ रवं विरह-मूर्च्छान्धकारितहृदयास्विव प्रारब्धनिमीलनासु पद्मिनीषु, ग्रासीकृत-सामान्य-मृणाललता-विवरसंक्रामितानीव परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु,
इह विमिश्रालिङ्गनाभ्यां श्लिष्टविशेषणसामर्थ्याच्च प्रकाशार्थसूर्ययोः स्त्रीपुरुषव्यवहारसमारोपात् समा-सोक्तिः पदार्थहेतुके काव्यलिङ्गे गुणोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावसङ्करः।
गैरिकेति। गैरिकस्तदाख्यो यो धातुविशेषः तस्य गिरिर्गैरिकगिरिः तस्य सलिलेषु जलेषु प्रपातेन पतनेन पाटलेषु श्वेतरक्तेषु, तज्जलस्यापि गैरिकसम्पर्केण पाटलत्वादित्याशयः, भास्करकिरणेषु सूर्य्यरश्मिषु वनगजयूथेष्विव अरण्यहस्तिमसमूहेष्विव कमलवनेभ्यः पद्मकाननेभ्यः समुत्थाय समुत्थानं विधाय पुञ्जीभवत्सु एकत्रीभवत्सु सत्सु, तत्समयेऽरण्यहस्तिमसमूहानामप्येकत्रपुञ्जीभवनादित्याशयः। वनगजा अपि गैरिकसलिलप्रपातेन श्वेतरक्ताः सन्तः सायङ्काले एकत्र पुञ्जीभवन्ति, सूर्य्यरश्मयः अपि श्वेतरक्ताः सन्तः सायं सङ्कुचितावस्थया पुञ्जीभवन्तीति द्वयोरौपम्यादुपमालङ्कारः।
गगनेति। वासरे दिवसे, गगनावतारात् नभोमार्गे परिभ्रमणात् यो विश्रामो विश्रान्तिः तत्र लाल-सानां लोलुपानां 'लोलुपो लोलुभो लोलो लम्पटो लालमोऽपि सः' इति रभसः, रविरथवाजिनां सूर्य्यस्य-न्दननियुक्ताश्वानां हर्षेण अधिकपरिश्रमादनन्तरं विश्रामप्राप्तिसम्भवादानन्देन यो हेषारवः 'ह्रीँ ह्रीँ' इति शब्दः तस्य प्रतिशब्दकेन प्रतिध्वनिना सह, मेरुगिरिगह्वरं सुमेरुपर्वतकन्दरां विशति अभ्यन्तरमागच्छतीव सति, विविधमहारत्नरश्मिभिः तद्रह्वरस्य निशायामपि वासरवदालोकमयीविहितत्वात् निकटसूर्य्यप्रति-ध्वनीनां च तत्रान्यन्तरगमनसम्भवादित्याशयः। इह प्रतीयमानक्रियोत्प्रेक्षासहोक्त्योरङ्गाङ्गिभावसङ्करः।
मुकुलितेति। मुकुलितानि रवेरस्तङ्गतत्वान्मुद्रितानि यानि रक्तपङ्कजपुटानि कोकनदपुटानि तेषु प्रविष्टा कृतप्रवेशा मधुकरावलि भ्रमरपङ्क्तिः यासां तासु तथोक्तासु पद्मिनीषु कमलिनीषु, रविविरहेण सूर्य्यवियोगेन या मूर्च्छा तया अन्धकारितानि समुत्पन्नान्धकाराणि हृदयानि चेतांसि यासां तासु तादृशी-ष्विव विद्यमानासु, सूर्य्यस्य कमलिनीप्रियत्वात् मधुकराणामन्धकारवत् श्याम रूपत्वादित्याशयः, अत एव प्रारब्धं निमीलनं मुकुलीभावं जडताप्राप्तिश्च याभिस्तासु तादृशीषु सतीषु, सूर्यास्ते कमलिनीनिमीलनस्य मूर्च्छारम्भे च जडतोपलब्धेः स्वभावसिद्धत्वादित्यभिप्रायः।
इह कार्येण क्लिष्टेन च सूर्य्यकमलिन्योः स्त्रीपुरुषव्यवहारसमारोपात् समासोक्तः, मनसि तिमिरो-रपत्तेरुत्प्रेक्षणात् क्रियोत्प्रेक्षा, पदार्थहेतुके काव्यलिङ्गे चेत्येतेषामङ्गाङ्गिभावसङ्करः।
ग्रासीति। रथाङ्कनाम्नां चक्रवाकसंज्ञकानां युगलेषु द्वन्द्वेषु मन्त्रीकेषु तेष्वित्यर्थः, ग्रासीकृतया कवलीकृतया (अर्थात् एकैव मृणाललता द्वाभ्यामपि चञ्चुपुटेन प्रान्तद्वये गृहीतेत्यर्थः) सामान्यया साधा-रणया एकैकया मृणाललतया विमवस्त्या धर्त्या, विवरेण स्वीयच्छिद्रमार्गेण करणेन सङ्क्रामितानीव अन्योन्ययोः सङ्क्रान्तानीव परस्परहृदयानि अन्योन्यचेतांसि आदाय गृहीत्वा विघटमानेषु वियोगं प्राप्य-माणेषु सत्सु, चक्रवाकमिथुनानामपि रात्रिप्राप्तौ विश्लेषस्य स्वाभाविकत्वात् प्रीत्यतिशयाच्चान्योन्य-
होकर कमलके ऊपर शयन करती कामातं होकर ही मानो क्रमसे पाण्डुवर्ण हो गई; गैरिक (गेरूते) संयुक्त पर्वतके झरनेके जलके ऊपर गिरनेसे श्वेतरक्ता होकर सूर्यकी किरणसमूह कमलवननैसे निकलकर वनगजोंके झुण्डके समान एकत्र पुञ्जीभूत (इकट्ठे) होने लगे; समग्र आकाशमें पर्यटनकर विश्राम करनेके अभिलाषी सूर्य-रथ-नियुक्त अश्वाके आनन्दसे किए हुए हेषारव (हिनहिनाहट) की प्रतिध्वनिके साथ, दिन मानो सुमेरुपर्वतकी गुफाओंमें प्रवेश करने लगा; मुद्रितप्राय रक्तकमलके अभ्यन्तरमें भ्रमर-पङ्क्तियां प्रवेशकर गई थीं इससे प्रतीत होता था कि मानो सूर्यके वियोगसे मूर्च्छा आनेके कारण जिनके हृदय अन्धकारसे व्याप्त हो गये हैं—ऐसी कमलिनियां मुद्रित (बन्द) होने लगीं; चक्रवाक और चक्रवाकी दोनोंकी चञ्चुपुटद्वारा पकड़ी हुई एक ही मृणाल-लताके विवरमें होकर आए हुए एक दूसरेके हृदयको मानो लेकर, उनके जोड़े परस्पर वियुक्त होने लगे—तब मेरी वह
१. त्त्याय ।
२. मधुकय्यावलीषु । कचिद 'रवि' इति पदत्रोपलभ्यते ।
| ४५० | कादम्बरी- | [ कथायाम्- |
|---|
सा छत्रग्राहिणी समागत्य अकथयत्—'भर्तृदारिके ! तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति चाक्षमालामुपयाचितुमागतोऽस्मि' इति ।
'अहन्तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनं 'गच्छ, प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् ।
अथ मुहूर्त्तादिव तं तस्य, रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम् , मकरकेतनस्येव वसन्तसमयम् , वसन्तसमयस्येव दक्षिणानिलम् , अनुरूपं सखायं मुनिकुमारकं कपिञ्जलनामानं जराधवलितस्यं कञ्चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपमागच्छन्तम् अपश्यम् । अन्तिकमुपागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिव अर्थिनमिव अन्तर्ग-
हृदययोरन्योन्यं प्रति निशायां विद्यमानत्वादित्यभिप्रायः । इह 'संक्रामितानीव' इत्यत्र क्रियोत्प्रेक्षा ।
तेति । सा छत्रग्राहिणी आतपत्रधारिणी समागत्य समेत्य अकथयद् अब्रवीत्—'भर्तृदारिके राजकन्यके ! तयोः पूर्वमवलोकितयोः मुनिकुमारयोः तपस्विबालकयोः अन्यतरः एकः कश्चित् द्वारि तिष्ठति स्थितो वर्तते, कथयति वक्ति च अक्षमालां स्फटिकमयजपमालाम् उपयाचितुं प्रार्थितुम् आगत आयातोऽस्मि महाश्वेतया निजमुक्तामालां समर्प्य तदीयाक्षमालामादायागतत्वादित्याशयः ।
अहमिति । मुनिकुमारनामग्रहणादेव तपस्विकुमाराभिधेयोपादानादेव स्थानस्थिताऽपि स्वस्थानस्थाऽपि द्वारदेशं गतेव द्वारभूमिं प्राप्तेव, औत्सुक्याधिक्यादित्याशयः । समुपजाता समुत्पन्ना तस्य प्रेयसः पुण्डरीकस्य आगमनाशङ्का उपस्थितिसम्भावना यस्याः सा अहं महाश्वेता, अन्यतमं कञ्चकिनं सौविद्दल्लं समाहूय आह्वानं विधाय 'गच्छ व्रज प्रवेश्यताम् अभ्यन्तरे प्रवेशो विधीयताम्' इति एवम् आदिश्य आज्ञाप्य प्राहिणवं प्रेषितवती । इह 'द्वारदेशं गतेव' इत्यत्र क्रियोत्प्रेक्षा ।
अथेति । अथ तत्प्रेषणानन्तरं मुहूर्त्तादिव क्षणादिव, रूपस्य सौन्दर्यस्य अनुरूपं सखि यौवनं तारुण्यमिव, यौवनस्य अनुरूपं सखायं मकरकेतनं काममिव, मकरकेतनस्य अनुरूपं सखायं वसन्तसमयं सुरभिकालमिव, वसन्तसमयस्य अनुरूपं सखायं दक्षिणानिलं मलयपवनमिव, तस्य पुण्डरीकस्य अनुरूपं निजतुल्यं सखायम् , चन्द्रातपस्य प्रातःकालीनशीतांशुप्रकाशस्य अनुमार्गेण पश्चात् पथा आगच्छन्तम् आयान्तं बालातपं नूतनसूर्यालोकमिव, जराधवलितस्य वृद्धावस्थया शुभ्रीकृतशरीरस्य कञ्चुकिनः सौविदल्लस्य अनुमार्गेण आगच्छन्तम् , कपिञ्जलनामानं कपिञ्जलसंज्ञकं तं मुनिकुमारकं तापसबालकम् अपश्यम् अवलोकयम् ।
इह 'रूपस्य यौवनमिव' इत्यारभ्य 'वसन्तसमयस्य दक्षिणानिलमिव' इत्यन्तं रशनोपमालङ्कारः, 'बालातपमिव' इत्यत्र श्रौत्युपमालङ्कारः; अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः । 'मुनिकुमारकम्' इत्यत्रानुकम्पायां कः ।
अन्तिकमिति । किञ्चेति चार्थः । अन्तिकं समीपम् उपागतस्य प्राप्तस्य अस्य कपिञ्जलस्य, पर्याकुलमिव नितान्तव्यग्रमिव सविषादमिव सखेदामिव शून्यमिव निखिलोधोगवर्जितमिव अर्थिनमिव याचकमिव, अन्तर्गतम् अभ्यन्तरे स्थितम् आकूतम् अभिप्रायविशेषो यस्य तम् , अर्थात् तस्याकार पूर्वविद्योऽ-
छत्रधारिणी परिचारिका आकर मुझसे कहने लगी - 'राजकन्ये ! उन मुनिकुमारोंमें से एक आकर द्वारपर खड़ा है और कहता है कि 'मैं जपमाला लेने आया हूँ।'
मुनिकुमारका नामोच्चारण करनेसे ही मुझे उस स्थान पर बैठी रहने पर भी मानो द्वारदेशके निकट गई ऐसा प्रतीत हुआ और उसके ही आनेकी धारणाते, एक कञ्चुकीको बुलाकर—'तुम जाओ, उस मुनिकुमारको अन्दर प्रवेश कराओ' ऐसा आदेश देकर उसे भेज दिया ।
उसके बाद थोड़ी देरके बीचमें ही सौन्दर्यका जिस प्रकार यौवन, यौवनका जिस प्रकार कन्दर्प, कन्दर्पका जिस प्रकार वसन्त-काल एवं वसन्त-कालका, जिस प्रकार दक्षिण-वायु, उसी प्रकार उस प्रियतम मुनिकुमारका अनुरूप मित्र कपिञ्जल नामक द्वितीय मुनिकुमारको, प्रभातकालीन चन्द्रालोकके पीछे पीछे नवीन सूर्यालोकके समान वृद्धावस्थासे धवल हुए कञ्चुकीके पीछे पीछे आते देखा ! वे आकर समीपमें उपस्थित हुए, उस समय उसकी आकृति मानो अत्यन्त व्याकुलके समान, खिन्नके समान, शून्यके समान एवं याचकके समान लक्षित हुई एवं
१. आगत्य ।
२. ऋषि ॰ ॰ ॰ ।
३. जराधवलस्य ।
४. अनुयायिनम् ।
५. उपगतस्य ।
मदनपीडितपुण्डरीकदशा० ६६ ] चन्द्रकला-विद्योतिनीसहिता । ४५१
ताकृतम्^१ आकारमलक्षयम्। उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम्। उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणावुपमृज्य^२ चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपविशम्। अथ मुहूर्त्तमिव किमपि विवक्षुरिव स तस्यां मत्त्समीपोपविष्टायां तरलिकायां चक्षुरपातयत्। अहन्तु विदिताभिप्राया दृष्ट्यैव 'भगवन्! अव्यतिरिक्तेयमस्मच्छरीरात्, अशङ्कितमभिधीयताम्' इत्यवोचम्।
एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत्—'राजपुत्रि! किं ब्रवीमि, वागेव मे नाभिधेयविषयमवतरति त्रपया। क्व कन्दमूलफलाशी^४ शान्तो वनवासनिरतः मुनिजनः, क्व वायमशान्त^६-जनोचितो विषयोपभोगाभिलापकलुषो मन्मथविविधविलाससङ्कटो रागप्रायः प्रपञ्चः।
वलोक्यते स्म यथा कश्चिदभिप्रायोऽस्य प्रकाशनीयो वर्त्तते किन्तु न तं स वहिः प्रकटयतीति। आकारं स्वरूपम् अलक्षयम् आकलयम्।
उत्थायेति। अपि चेति चार्थः। उत्थाय, कृतो विहितः प्रणामो नमस्कारो यया तादृशी अहम्। सादरं सबहुमानं स्वयं निजेनैव आसनं विष्टरम् उपाहरम् उपवेशनायार्पितवती।
उपविष्टेति। उपविष्टस्य आसीनस्य, अनिच्छतो मद्द्वारा पादप्रक्षालनमार्जने अवाञ्छतोऽपि तस्य कपिञ्जलस्य चरणौ पादौ बलात् हठात् प्रक्षाल्य प्रक्षालनं विधाय उत्तरीयांशुकपल्लवेन स्वोत्तरीयवस्त्रप्रान्तेन^२ उपमृज्य प्रोञ्छ्य च अहम्, अन्तिके तस्यैव निकटे, अव्यवधानायां विष्टरकृतव्यवधानवर्जितायां केवलायामेवेत्यर्थः, भूमौ पृथिव्यां समुपविशम् अनिषम्।
अथेति। अथ अनन्तरं किमपि विवक्षुरिव वक्तुमिच्छुरिव सन् स कपिञ्जलः मुहूर्त्तमिव क्षणमिव स्थिखा मत्त्समीपोपविष्टायां मन्निकटासीनायां तस्यां तरलिकायां चक्षुर्नेत्रम् अपातयत् पातितवान् तस्या अपसारणाशयाशयः।
अहमिति। दृष्ट्यैव तरलिकां प्रति तस्य तथाविधनिरोक्षणभङ्ग्यैव विदितो ज्ञातः अभिप्रायः तरलिकाया अपसरणविषयक आशयो यया सा तथोक्ता सती 'भगवन् स्वामिन् ! अस्मच्छरीरात् मदीयदेहात् अव्यतिरिक्ता अभिन्ना इयम्, अशङ्कितं निःसन्दिग्धं यथा स्यात्तथा अभिधीयतां कथ्यताम्' इत्यवोचम् इत्यकथयम्।
एवमिति। मया महाश्वेतया एवं पूर्वोक्तप्रकारेण उक्तः अभिहितश्च कपिञ्जलः प्रत्यवादीत् प्रत्यवोचत्—'राजपुत्रि मत्तःदारिके! किं ब्रवीमि किं कथयामि, मे मम त्रपया लज्जया वागेव वचनमेव अभिधेयविषयं वाच्यविषयं नावतरति न प्रवर्त्तते।
क्वेति। कन्दं शालूकम्, मूलञ्च तद्भिन्नम्, फलञ्च अश्नाति भुङ्क्त इति सः, शान्तः शमगुणसंयुतः जितेन्द्रिय इति तात्पर्यम्। अनेन स्वेनैव दोषाद्विनिवृत्तिर्ध्वनिता। वनवासनिरतः अरण्यनिवाससक्तो मुनिजनः तपस्विननः क्व, 'वनवासनिरतः' इत्यनेन भोग्यविषयाणाम् अवलोकनकादिजनितमाकर्षणमपि न सम्भवतीति व्यञ्जितम्। अशान्तस्य अन्तरिन्द्रियानिग्रहशालिपुरुषस्य उचितो योग्यः, विषयाणां माल्यचन्दनयोषिदादिभोग्यवस्तूनाम उपभोगाभिलाषेण भूयो भूयस्तदासेवनस्पृहया कलुषो मलिनः,
उनके अन्तर्गतमें मानो कोई विशेष अभिप्राय हो इस प्रकार मुझे प्रतीति हुई, उठकर आदर-सहित प्रणाम कर मैं स्वयं उनके लिए आसन लाई। उस पर उन्हें बैठ जाने पर उनकी इच्छा नहीं रहने पर भी हठसे मैंने उनके चरणयुगल धोए, एवं अपने उत्तरीयवस्त्र प्रान्त (पल्ले) द्वारा पोंछकर, मैं उनके निकट बिना किसी आसनके बिछाए हुए भूमि पर ही बैठ गई। उसके बाद वे किसी विषयको बोलनेकी इच्छासे ही मानो, मेरे समीपमें बैठी हुई तरलिकाके प्रति कुछ देर दृष्टिपात किए। किन्तु उस दृष्टिपातसे ही उनका अभिप्राय समझ कर मैंने कहा—'भगवन्! मेरे शरीरसे यह व्यक्ति भिन्न नहीं है, इसलिए आप जो कुछ कहना चाहते हों उसे निःशङ्क चित्तसे कहिए।'
मेरे इसप्रकार कहने पर कपिञ्जलने प्रत्युत्तर दिया—'राजकन्ये! मैं क्या कहूँ? लज्जाके कारण मेरी वाणी ही वक्तव्य विषय कहनेमें प्रवृत्त नहीं होती। कहाँ कन्द-मूल-फल खानेवाले जितेन्द्रिय वनवासी मुनिजन, और कहाँ अजितेन्द्रिय लोगोंके योग्य, भोग्यपदार्थोंकी अभिलाषासे कलुषित, नानाविध कामचेष्टासे परिपूर्ण एवं राग-बहुल
१. अनुपरताभिप्रेतम्। २. उपमृज्य। ३. क्वचिद् मदिनी पदं न दृश्यते। ४. कन्दमूलाशी, मूलफलाशी। ५. ०००वननिरतः। ६. अनुप्रशान्त०००।
४५२ | कादम्बरी- | [ कथामुखम्-
सर्वमेवानुपपन्नमालोक्य, किमारब्धं दैवेन। अयत्नेनैव खलु महातास्पदतामीश्वरो नयति जनम्। न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचितम्, तपसोऽनुरूपम्, आहोस्विद्धर्मोपदेशाङ्गमिदम्। अपूर्वेयं विडम्बना केवलम्। अवश्यकथनीयमिदम्। अपर उपायो न दृश्यते, अन्या प्रतिक्रिया नोपलभ्यते, अन्यच्छरणं नालोक्यते, अन्या गतिर्नास्ति। अकथ्यमाने च महाननर्थोपनिपातो जायते। प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि। अस्ति भवत्याः समक्षमेव स मया तया निष्ठुरममर्षितकोपेनाभिहितः। तया चाभिधाय परित्यज्य तमः तस्मात् प्रदेशादुपजातमन्दोत्सङ्गतयावचयोऽन्यप्रवेश-
मन्मथस्य कन्दर्पस्य विविधविलासैः नानाविधाकारैः सङ्कटः सङ्कीर्णो पूर्णः, तथा रागः सुखानुबन्धिता सांसारिकसुखलिप्सैव प्रायेन बाहुल्येन यत्र सः, अयं प्रत्यक्षः संसारो वा छ क्व। एवंविधसंसारे तपस्विन आसक्तिः कथङ्कारमपि न सम्भाव्यत इत्याशयः।
इह विरूपाणां संयोजनाद् विषमः, तत एव च कश्चित्तपस्वी हेवंविधसंसारे मग्नःसक्त इत्यवगम्यत इत्यलङ्कारेण वस्तुध्वनिरिति कुशलैः समाक्ष्यते।
सर्वमिति। दैवेन विधिना, किम् अनिर्वचनीयस्वरूपम्, सर्वमेव एकमसमस्तमेव अनुपपन्नं नितान्त-प्रतिकूलत्वादमुचितम् आरब्धं प्रारब्धम् इति तन्न् वालोक्य पश्येति सम्बन्धः। अपादशेन सन्देहवशेन च स्फुटं न वक्तीत्यवधेयम्।
अयत्नेनेति। अयत्नेनैव उपहासाशी निजोद्योगाभावेनैव खलु निश्चयेन ईश्वरो भगवान् जनम् उपहासास्पदतां परिहासस्थानतां नयति प्रापयति। इदं वक्ष्यमाणं पुण्डरीककर्म किं वल्कलानां तरुत्वग्ग्रूप-रूपस्येत्यर्थः सदृशम् उचितम्, इति न जाने इत्यर्थः, कथमपि नौचित्यमित्याशयः। उताहो कि वा जटानां सटानां समुचितं योग्यम्, न कथमपि समुचितमित्याशयः। इत्युभयेऽपि। किं तपसो नियमविशेषस्य अनुरूपं सदृशम्, आहोस्विद् अथवा धर्मोपदेशस्य सद्विष्टयुक्तशास्त्रस्य अङ्गं प्रयोजकमिदम्।
अपूर्वेति। इयम् अभिधीयमाना पुण्डरीकस्य कामचेष्टा, केवलम् अपूर्वा विडम्बना सन्तप्ताभिनवा दैवद्वारा वञ्चना। इदं वृत्तम् अवश्यं निश्चयेन कथनीयं प्रतिपादनीयम्। अपरो भवत्याः सङ्गाद् व्यति-रिक्तः, इत्युभयेऽपि, उपायः कार्य्यं न दृश्यते नावलोक्यते। अन्या भवत्याः सम्मेलनाद् द्वितीया प्रतिक्रिया चिकित्सा नोपलभ्यते न ज्ञायते। अन्यद् शरणं रक्षकं नालोक्यते न दृश्यते। अन्या गतिः प्रतीकारोपा-यान्तरं नास्ति न विद्यते। अकथ्यमाने तस्मिन्नप्रतिपाद्यमाने महान् बहुः अनर्थोपनिपातो विपदुपस्थितिः जायत उत्पद्यते निजप्राणविनाशसम्भवादित्याशयः। प्राणपरित्यागेनाऽपि जीवितव्यावरोधपेनापि सुहृद-सवः मित्रस्य प्राणाः रक्षणीयाः रक्ष्या इति अस्माद्धेतोः कथयामि प्रतिपादयामि।
इह यद्यपि 'अन्या गतिर्नास्ति' इत्यत्र गतिशब्दस्योपायार्थकत्वमेव व्याख्यानं समुचितम्, तथा-सति 'अपर उपायो नास्ति' इत्यस्य पूर्वमभिहितत्वेनार्थगतपुनरुक्ततादोषः समापतति, तथापि बहुविषा-दनशक्त्यैव न दोषत्वमापादयति किन्तु गुञ्जतामेवापादयतीति न शङ्काकलङ्कावकाशः। तथा च दण्डी—
‘…………कथितं च पदं पुनः। विहिनस्त्यानुवाद्यत्वे विषादे विस्मये कृपि ॥’ इति।
अस्तीति। तददर्शनकोपेन प्रकटितमन्युना मया भवत्याः तव समक्षम् प्रत्यक्षमेव स पुण्डरीकः तथा निष्ठुरं रूक्षम् अभिहित उक्तः अस्तीति सम्बन्धः। अस्तीदिति तदर्थः। वर्तमानसामीप्ये लट् प्रयोगः। तथा तेन प्रकारेण अभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य त्यक्त्वा, उपजातमक्युः उत्पन्नक्रोधः सन्कृष्ट-
यह संसार? देखो, विधाताने यह कैसा अनिर्वचनीय अद्भुत कार्य आरम्भ किया है! स्वयं उपहासके योग्य किसी कार्यको न करने पर भी ईश्वर वैसे मनुष्यको उपहासास्पद बना देता है। मेरी समझमें नहीं आता है कि यह वल्कलधारणके अनुरूप है या जटाधारणके योग्य है, किंवा तपस्याके अनुरूप है अथवा गृहस्थके धर्मोपदेशका अङ्ग है। यह तो केवल अपूर्व विडम्बना हुई है। किन्तु मुझे तो इस वृत्तान्तको अवश्य कहना है, क्योंकि—इसका दूसरा कोई उपाय नहीं है, अन्य कोई प्रतीकार समझमें नहीं आता है, अन्य कोई रक्षक नहीं है, अन्य कोई उपाय नहीं है, जिसे नहीं कहता हूँ तो महाविपत्ति उपस्थित होती है। अपने प्राण-परित्याग करके भी मित्रके प्राणोंकी रक्षा करनी चाहिये—इसीलिए कहता हूँ। तुम्हारे सामने ही मैंने उससे कुपित होकर निष्ठुर वचन कहा था (इसे तुम जानती हो) इसके बाद उसे वहीं पर छोड़ कर और क्रोधके कारण पुष्पचयन भी करना छोड़
१. मन्दत्वात् ।
मदनपीडितपुण्डरीकदशाव० ६६ ] चन्द्रकला-विद्योतिनीसहिता । ४५३
मगमम् । अपयातायाञ्च भवत्यां मुहूर्त्तमिव स्थित्वा एकाकी किमयमिदानीमाचरतीति सञ्जात-वितर्कः प्रतिनिवृत्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् , आसीच्च मे मनस्येवम्-'किन्तु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन् गतो भवेत् , गतायाञ्च तस्यां लब्धचेतनो लज्जया न शक्नोति मे दर्शनपथमुपगन्तुम् ; आहोस्वित् कुपितः परित्यज्य मां गतः, उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन् कञ्चि-त्कालमतिष्ठम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूयमानः पुनरचि-न्तयम्-'स कदाचिद्धैर्यस्खलनविलक्षः किञ्चिदनिष्टमपि समाचरेत् । नहि किञ्चिन्न क्रियते ह्रिया । तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादरमकरवम् । अन्वेषमाणश्च यथा
कुसुमावचयः अहं मन्युनैव त्यक्तपुष्पावचयनः तस्मात् प्रदेशात् स्थानात् अन्यप्रदेशं तदितरवनभागम् अगमम् अव्रजम् । भवत्यां त्वयि अपयातायां गतायां मुहूर्त्तमिव क्षणमिव स्थित्वा अवस्थाय, इदानीं साम्प्रतम् एकाकी अद्वितीयः अयं पुण्डरीकः किमाचरति किं विधत्ते इति सञ्जातवितर्कः उत्पन्नसन्देहः प्रतिनिवृत्य परावृत्य विटपान्तरितविग्रहः शाखाच्छादितशरीरोऽहं तं प्रदेशं स्थानं व्यलोकयम् अपश्यम् ।
यावदिति । यावत् यावत्समयं तत्र तस्मिन् स्थाने तं पुण्डरीकं नाद्राक्षं न व्यलोकयम्, मे मम मनसि चित्ते एव वक्ष्यमाणम् आसीत् तावदासीदित्यर्थः । 'मदनस्य कामस्य परायत्ता अधीनाधीना चित्तवृत्तिः मनोव्यापारः यस्य स तथोक्तः पुण्डरीकः तां कन्यकामेव अनुसरन् अनुव्रजन् किं गतः प्रयातो भवेत् , तस्यां कन्यकायां गतायां प्रयातायां सत्यां च, लब्धचेतनः प्राप्तचैतन्यः लज्जया त्रपया मे मम दर्शनपथम् आलोकनमार्गम् उपगन्तुं प्राप्तुं न शक्नोति न समर्थो भवति; आहोस्वित् अथवा कुपितो मम भर्त्सनेन क्रुद्धः सन् मां सखायं परित्यज्य विहाय गतः प्रस्थितः, उत अथवा मामेव अन्वेषमाणः वीक्षमाणः इतः अस्मात् अन्यम् अपरं प्रदेशं स्थानं समाश्रितः अवलम्बितः स्यात् भवेत्' इत्येवं विकल्पयन् नानाप्रकारां कल्पनां विदधत् कञ्चित्कालं कञ्चित्समयम् अतिष्ठम् स्थितवान् ।
तेनेति । जन्मनः प्रभृति उत्पत्तिदिनमारभ्य अनभ्यस्तेन अपरिचितेन क्षणमपि क्षणकालमपि तस्य पुण्डरीकस्य तेन अदर्शनेन अनवलोकनेन दूयमानः सन्तप्यमानः पुनर्भूप्रः अहम् अचिन्तयं चिन्तितवान्- 'स पुण्डरीकः, धैर्यस्य धृतेः स्खलनेन विलोपेन विलक्षो लज्जितः सन्, कदाचित् कस्मिंश्चित्समये किञ्चिद् अनिष्टमपि उद्वन्धनादिकमवाञ्छितममङ्गलमपि समाचरेत् व्यवहरेत् । ननु तथाविधो मनस्वी कथमवा-ञ्छितं व्यवहरेदित्यत आह—नहीति । हिया लज्जया न क्रियते विधीयते एव किञ्चित् किमपि नहि विद्यत इत्यर्थः, अपि तु सर्वं विधीयत एवेत्यभिप्रायः । इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।
तत्तस्मात् कारणात् एकाकिनम् अद्वितीयं कर्तुं विधातुं न युक्तमुचितम्' इत्यवधार्य एवं पूर्वोक्त-प्रकारेण निश्चित्य अन्वेष्टुं मार्गयितुम् आदरम् उद्योगम् अकरवं व्यदधम् ।
अन्वेपेति । अन्वेषमाणो मृग्यमाणश्चाहं यथा यथा तं पुण्डरीकं नापश्यं न व्यलोकयं तथा तथा
मैं उस स्थानसे दूसरे स्थानमें चला गया । तुम्हारे चले आनेके अनन्तर थोड़ी देर ठहर कर मेरे मनमें इसप्रकार सन्देह उत्पन्न हुआ कि—'इस समय पुण्डरीक अकेला क्या करता होगा ?' यह जाननेके अभिप्रायसे मैं फिर लौट कर एक वृक्षके अन्तरालमें छिप कर उस स्थानकी ओर दृष्टिपात करने लगा । किन्तु जिस समय उस स्थानमें मैने उसको नहीं देखा, उस समय मुझे इसप्रकार मनमें होने लगा कि—'सम्भवतः, अत्यन्त कामाधीन-चित्त होकर वह कहीं उस कन्याके पीछे पीछे तो नहीं गया होगा ? अथवा उस कन्याके अपने घर चले जानेके बाद चेतना आनेसे लज्जाके कारण मेरे सामने उपस्थित होनेमें समर्थ नहीं हो सकता है, या कुपित होकर मुझे छोड़कर चला तो नहीं गया होगा, किंवा मुझे ही अन्वेषण करता करता इस स्थानसे किसी दूसरे स्थानमें तो नहीं चला गया होगा' इस प्रकार मन ही मन नानाविध कल्पना करता करता मैं उस स्थानमें ही थोड़ी देर खड़ा रहा । जन्मकालसे ही एक क्षण भी उनके साथ वियोग नहीं होनेका अभ्यास था, इसलिए तत्काल उसे न देखनेसे सन्तप्त होकर मैं फिरसे चिन्ता करने लगा—'कहीं धैर्य-स्खलनसे लज्जित हो वह कुछ अनिष्ट आचरण भी न कर डाले ! क्योंकि—लज्जाके कारण मनुष्य चाहे जो कुछ भी कर डालता है, इसलिये इसे अकेला रखना उचित नहीं है' इसप्रकार मैं मन ही मन स्थिर कर उसे अन्वेषण करनेके लिए चेष्टा करने लगा । ज्यों ज्यों अन्वेषण करने पर भी वह देखनेमें नहीं आया
१. लज्जमानः। २. जन्मतः। ३. न हि यन्न ।